वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
२६८ श्रीमहैपायनमुनिप्रणीतम्- [अ०७०श्लो०२४-५०] ( ऋषिवंशानुकीर्तनम् )
तस्य प्रध्यायमानस्य कश्यपस्य महात्मनः । ब्रह्मणोंऽशौ सुतौ पश्चात्तादुभूतौ महौजसौ ॥ २४ वत्सारश्चासितश्चैव तावुभौ ब्रह्मवादिनौ । वत्सारात्रिध्रुवो जज्ञे रैभ्यश्च स महायशाः ॥ २५ रैभ्यस्य रैभ्या विज्ञेया निध्रुवस्य निबोधत । च्यवनस्य सुकन्यायां सुमेधाः समपद्यत ॥ २६ निध्रुवस्य तु या पत्नी माता वै कुण्डपायिनाम् । असितस्यैकपर्णायां बलिष्ठः समपद्यत ॥ २७ शाण्डिल्यानां वचः श्रुत्वा देवलः सुमहायशाः । निध्रुवाः शाण्डिला रैभ्यायाश्चः पश्चात्तु कश्यपाः ॥ वरप्रभृतयो देवा देवलस्य प्रजास्त्विमाः । चतुर्युगे त्वतिक्रान्ते मनोर्वैक्रादशे प्रजाः ॥ अथावशिष्टे तस्मिंस्तु द्वापरे संप्रवर्तते ॥ २९ मानसस्य च रिष्यन्तस्तस्य पुत्रो दमः किल । मानसस्तस्य दायादस्तृणबिन्दुरिति श्रुतः ॥ ३० त्रेतायुगमुखे राजा तृतीये संबभूव ह । तस्य कन्या त्विडिविला रूपेणाप्रतिमऽभवत् ॥ पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ ३१ ऋषिरेिडिविलायां तु विश्रवाः समपद्यत । तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्धनाः ॥ ३२ बृहस्पतेबृहत्कीर्तिर्देवाचार्यस्य कीर्तिता । कन्यां तस्योपयेमे स नाम्ना वै देववर्णिना म् ॥ ३३ पुष्पोत्कटां च वाकां च सुते माल्यवतः स्थिते । कैकसीं मालिनः कन्यां तासां तु शृणुत प्रजाः ज्येष्ठं वैश्रवणं तस्व सुषुवे देववर्णिनी । दिव्येन विधिना युक्तमार्षेणेव श्रुतेन च । राक्षसेन च रूपेण आसुरेण बलेन च ॥ ३५ त्रिपादं सुमहाकायं स्थूलशीर्षं महातनुम् । अष्टदंष्ट्रं हरिच्छ्मश्रुं शङ्कुकर्णावलौहितम् ॥ ३६ ह्रस्वबाहुं प्रबाहुं च पिङ्गलं सुविभीषणम् । वैवर्तज्ञानसंपन्नं संबुद्धं ज्ञानसंपदा ॥ ३७ एवंविधं सुतं दृष्ट्वा विश्वरूपधरं तथा । पिता दृष्ट्वाऽब्रवीत्तत्र कुबेरोऽयमिति स्वयम् ॥ ३८ कुत्सायां कितिशब्दोऽयं शरीरं बेरमुच्यते । कुबेरः कुशरीरत्वान्नाम्ना तेन च सोऽङ्कितः ॥ ३९ यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव । तस्माद्वैश्रवणो नाम नाम्ना लोके भविष्यति ॥ ४० ऋद्धयां कुबेरोऽजनयद्विश्रुतं जन्नकूबरम् । रावणं कुम्भकर्णं च कन्यां शूर्पणखां तथा ॥ बिभीषणचतुर्थांस्तान्कैकस्यजनयत्सुताम् ॥ ४१ शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्धजः । चतुष्पाद्द्विंशतिभुजो महाकायो महाबलः ॥ ४२ जात्याऽञ्जननिभो दंष्ट्री लोहितग्रीव एव च । राजसेना यथा युक्तो रूपेण च बलेन च ॥ ४३ सत्यबुद्धिदृढंतनू राक्षसैरेव रावणः । निसर्गाद्दारुणः क्रूरो रावणाद्रावणस्तु सः ॥ ४४ हिरण्यकशिपुस्त्वार्सीत्स राजा पूर्वजन्मनि । चतुर्युगानि (णि) राजाऽत्र त्रयोदश स राक्षसः ॥ ४५ ताः पञ्च कोट्यो वर्षाणामारुख्याताः संख्यया द्विजैः । नियुतान्येकषष्टिश्च संख्या विद्भिरुदाहृता ॥ षष्टिं शतसहस्राणि वर्षाणां तु स रावणः । देवतानामृषीणां च घोरं कृत्वा प्रजागरम् ॥ ४७ त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात् । रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ॥ ४८ महोदरः प्रहस्तश्च महापांशुः खरस्तथा । पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा ॥ ४९ त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः । कन्या ह्यस्रालिका चैव वाकायाः प्रसवाः स्मृताः ॥ ५०
[अ० ७० श्लो ५१-७७] वायुपुराणम्। २६१ (ऋषिवंशानुकीर्तनम् ) इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । दारुणाभिजनाः सर्वे देवैरपि दुरासदाः ॥ ५१ सर्वे लब्धवराश्चैव पुत्रपौत्रसमन्विताः । यक्षाणां चैव सर्वेषां पौलस्त्या ये च राक्षसाः ॥ ५२ आमस्त्यवैशामित्राणां क्रूराणां ब्रह्मरक्षसाम् । वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ॥ ५३ तेषामैडविलो राजा पौलस्त्यः सव्यपिङ्गलः । इतरे वै यज्ञमुखास्तेन रक्षोगणास्त्रयः ॥ ५४ यातुधाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः । निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ॥ ५५ पौलस्त्या नैर्ऋताश्चैव आगस्त्याः कौशिकास्तथा । इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ॥ ५६ तेषां रूपं प्रवक्ष्यामि स्वभावेन व्यवस्थितम् । वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ॥ ५७ अष्टदंष्ट्राः शङ्कुकर्णा ऊर्ध्वरोमाण एव च । आकर्णदारितास्याश्च मुञ्जधूमोध्वर्मूर्धजाः ॥ ५८ स्थूलशीर्षाः सिताभाश्च ह्रस्वकाश्च प्रबाहुकाः । ताम्रास्या लम्बजिह्वोष्ठा लम्बभ्रूस्थूलनासिकाः ॥ नीलाङ्गा लोहितग्रीवा गम्भीराक्षा विभीषणाः । महाघोरस्वराश्चैव विकटा बद्धपिण्डकाः ॥ ६० स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः । दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्माणः ॥ ६१ सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः । विचित्रवस्त्राभरणाश्चित्रस्रगनुलेपनाः ॥ ६२ अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः । इत्येतद्रूपसाधर्म्यं राक्षसानां बुधैः स्मृतम् ॥ न समस्तबलं बुद्धं यतो मायाकृतं हि तत् ॥ ६३ पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः । भूताः पिशाचाः सर्पाश्च भ्रमरा हस्तिनस्तथा ॥ वानराः किंनराश्चैव मयूकिंपुरुषास्तथा । *येऽन्ये चैव परिक्रान्ता मायाक्रोधवशानुगाः ॥ ६५ अनपत्यः क्रतुस्तस्मिन्स्मृतो वैवस्वतेऽन्तरे । न तस्य पुत्रः पौत्रो वा तेजः संक्षिप्य वा स्थितः ॥ अत्रेर्वंशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः । तस्य पत्न्यश्च सुन्दर्यो दशैवाऽऽसन्पतिव्रताः ॥ ६७ भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः । भद्रा शूदा च मद्रा च शलदा मलदा तथा ॥ ६८ वेला खला च सप्ताैता या च गोचपला स्मृता । तथा मानरसा चैव रत्नकूटा च ता दश ॥ ६९ आत्रेयवंशकृत्तासां भर्त्ता नाम्ना प्रभाकरः । भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ॥ ७० स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् । तमोभिभूते लोकेऽस्मिन्प्रभा येन प्रवर्तिता ॥ ७१ स्वस्ति तेऽस्त्विति चोक्तः स पतन्निह दिवाकरः । ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ॥ ७२ आत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः । यज्ञेष्वविघ्नंश्चैव सुरैश्चैव प्रवर्तितः ॥ (?) ७३ सता स्वजनयत्पुत्रानात्मतुल्याननामकान् । दश तास्वेव महता तपसा भावितप्रभाः ॥ ७४ स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः । तेषां विख्यातयशसौ बलिष्ठौ सुमहौजसौ ॥ ७५ दत्तात्रेयस्तस्य ज्येष्ठो दुर्वासास्तस्य चानुजः । यवीयसी सुता तस्यामबला ब्रह्मवादिनी ॥ अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ॥ ७६ अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम् । दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ॥ ७७
* एतदर्थस्थानेऽपाठः—प्रायोऽन्योयः परिक्रान्तो मयाक्रोश वशान्वय इति ख. ग. घ. ङ. पुस्तकेषु ।
२७० श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ७०-७१ श्लो० ७८-९१।१-३] (श्राद्धप्रक्रियारम्भः)
तस्य गोत्रान्वये जाताश्चत्वारः प्रथिता भुवि । श्यामाश्व मुद्गलाश्चैव बलारकगविष्ठिराः ॥
एते नृणां तु चत्वारः स्मृताः पक्षा महौजसाम् ॥ ७८
कश्यपान्नारदश्चैव पर्वतोऽरुन्धती तथा । जज्ञिरे च त्वरुन्धत्यास्तान्निबोधत सत्तमाः ॥ ७९
नारदस्तु वसिष्ठायारुन्धतीं प्रत्यपादयत् । ऊर्ध्वरेता महातेजा दक्षशापात्तु नारदः ॥ ८०
पुरा देवासुरे तस्मिन्सङ्ग्रामे तारकामये । अनावृष्ट्या हते लोके व्यग्रे शक्रे सुरैः सह ॥
वसिष्ठस्तपसा धीमान्धारयामास वै प्रजाः ॥ ८१
अन्नौषधं मूलफलमोषधीश्च प्रवर्तयन् । तास्तेन जीवयामास कारुण्यादौषधेन तु ॥ ८२
अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पाद्यद्विजाः । सागरं जनयच्छक्तेरदृश्यन्ती पराशरम् ? ॥ ८३
कालात्पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम् । द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ॥ ८४
उत्पद्यन्ते च पीवर्यां षडिमे शुकसूनवः । भूरिश्रवा प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥ ८५
कन्या कीर्तिमती चैव योगमाता दृढव्रता । जननी ब्रह्मदत्तस्य पत्नी सात्वगृहस्य च ॥ ८६
श्वेताः कृष्णाश्च गौराश्च श्यामा धूश्राः समूलिकाः । ऊष्मपा द्वारकाश्चैव नीलाश्चैव पराशराः ॥
पाराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ॥ ८७
अत ऊर्ध्वं निबोधध्वमिन्द्रप्रतिमसंभवम् । वसिष्ठस्य कपिञ्जल्यां घृताच्यां समपद्यत ॥
कुशीतिया समाख्यात इन्द्रप्रतिम उच्यते ॥ ८८
पृथोः सुतायाः संभूतः पुत्रस्तस्याभवद्वसुः । उपमन्युः सुतस्तस्य यस्येमे उपमन्यवः । ८९
मित्रावरुणयोश्चैव कुण्डिनो ये परिश्रुताः । एकार्षेयास्तथैवान्ये वसिष्ठा नाम विश्रुताः ॥
एते पक्षा वसिष्ठानां स्मृता एकादशैव तु ॥ ९०
इत्येते ब्रह्मणः पुत्रा मानसा ह्यष्ट विश्रुताः । भ्रातरः सुमहाभागा येषां वंशाः प्रतिष्ठिताः ॥
त्रींल्लोकान्धारयन्तिमान्देवर्षिगणसंकुलान् । तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥
यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभास्तिभिः ॥ ९१
इति श्रीमहापुराणे वायुप्रोक्ते उपोद्घातपादे ऋषिवंशानुकीर्तनं नाम सप्ततितमोऽध्यायः ॥ ७० ॥
आदितः श्लोकानां समष्ट्यङ्काः—६५९७
अथैकसप्ततितमोऽध्यायः ।
श्राद्धप्रक्रियारम्भः ।
* एतच्छ्रुत्वा वचस्तस्य सूतस्य विदितात्मनः । उत्तरं परिपप्रच्छुः सूतपुत्रं द्विजातयः ॥ १
शांशपायन उवाच—
कथं द्वितीयमुत्पन्ना भवानी प्राकसती तु या । आसीद्दाक्षायणी पूर्वमुमा कथमजायत ॥ २
मेनायां पितृकन्यायां जनयामास शैलराट् । के चैते पितरश्चैव येषां मेना तु मानसी ॥ ३
* एतस्मात्पूर्वं सूत उवाचेति ख. पुस्तके ।
$ \begin{gathered} [अ० ७१ श्लो० ४-२९] वायुपुराणम् । २७१ \ (श्राद्धप्रक्रियारम्भः) \end{gathered} $
मैनाकश्चैव दौहित्रो दौहित्री च तथा सुभ्रू । एकपर्णा तथा चैव तथा या चैकपाटला ॥ ४
गङ्गा चैव सरिच्छ्रेष्ठा सर्वासां पूर्वजा तथा । पूर्वमेव मयोद्दिष्टं शृणुत्वं मम सर्वशः ॥ ५
क एते पितरश्चैव वर्तन्ते क च वा पुनः । श्रोतुमिच्छामि भद्रं ते श्राद्धस्य च परं विधिम् ॥ ६
पुत्राश्च ते स्मृताः केषां कथं च पितरस्तु ते । पितरः कथमुत्पन्नाः कस्य पुत्राः किमात्मकाः ॥ ७
स्वर्गे तु पितरोऽन्ये ये देवानामापि देवताः । एवं वै श्रोतुमिच्छामि पितॄणां सर्वमुत्तमम् ॥
यथावदत्तमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥ ८
यदर्थं ते न दृश्यन्ते तत्र किं कारणं स्मृतम् । स्वर्गे हि के तु वर्तन्ते पितरो नरके तु के ॥ ९
अभिसंधाय पितरं पितुश्च पितरं तथा । पितुः पितामहं चैव त्रिषु पिण्डेषु नामतः ॥ १०
कानि श्राद्धानि देयानि कथं गच्छन्ति वै पितॄन् । कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः ॥ ११
के चेह पितरो नाम कान्यजामो वयं पुनः । देवा अपि पितॄन्स्वर्गे यजन्तीति हि नः श्रुतम् ॥ १२
एतदिच्छामि वै श्रोतुं विस्तरेण बहुश्रुत । स्पष्टाभिधानमर्थं वै तद्भवान्वक्तुमर्हति ॥ १३
ऋषीणां तु वचः श्रुत्वा सूतस्तत्त्वार्थदर्शिवान् । आचचक्षे यथाप्रश्नं ऋषीणां मानसं ततः ॥ १४
सूत उवाच—
अत्र वो वर्णयिष्यामि यथाप्रज्ञं यथाश्रुतम् । मन्वन्तरेषु जायन्ते पितरो देवसूनवः ॥ १५
अतीतानागते ज्येष्ठाः कनिष्ठा क्रमशतस्तु ते । दैवैः सार्धं पुराऽतीताः पितरो येऽन्तरेषु वै ॥
वर्तन्ते सांप्रतं ये तु तान्वै वक्ष्यामि निश्चयात् ॥ १६
श्राद्धं चैषां मनुष्याणां श्राद्धमेव प्रवर्तते । देवानसृजत ब्रह्मा नायक्षन्निति वै पुनः ॥
तमुत्सृज्य तदात्मानमसृजंस्ते फलार्थिनः ॥ १७
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ । न स्म किंचिद्विजानन्ति ततो लोको ह्यमुह्यत ॥ १८
ते भूयः प्रणताः सर्वे याचन्ति स्म पितामहम् । अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः ॥ १९
प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः कृतः । पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥ २०
ततस्ते स्वान्सुतांश्चैव प्रायश्चित्तजिघृक्षवः । अपृच्छं संयतात्मानो विधिवच्च मिथो मिथः ॥ २१
तेभ्यस्ते नियतात्मनः प्रशशंसुरनेकधा । प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि तु ॥ २२
ते पुत्रानब्रुवन्प्रीता लब्धसंज्ञा दिवौकसः । यूयं वै पितरोऽस्माकं ये वयं प्रतिबोधिताः ॥
धर्मज्ञानं च कामश्च को वरो वः प्रदीयताम् ॥ २३
पुनस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः । तस्माद्यद्युक्तं युष्माभिस्तत्तथा न तदन्यथा । २४
उक्तं च पितरोऽस्माकमिति वै तनया स्वकाः । पितरस्ते भविष्यन्ति तेभ्योऽयं दीयतां वरः ॥ २५
तेनैव वचसा पुत्रा ब्रह्मणः परमेष्ठिनः । पुत्राः पितृत्वमाजग्मुः पुत्रत्वं पितरः पुनः ॥ २६
तस्मात्ते पितरः पुत्राः पितृत्वं तेषु तत्स्मृतम् । एवं स्मृत्वा पितॄन्पुत्रान्पुत्राश्च पितरस्तथा ॥
व्याजहार पुनर्ब्रह्मा पितॄनात्मविवृद्धये ॥ २७
यां हनिष्ट्वा पितॄञ्छ्राद्धे क्रियां कांचित्करिष्यति । राक्षसा दानवाश्चैव फलं प्राप्स्यन्ति तस्य तत् ॥
श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् । आप्यायमाना युष्माभिर्वर्धयिष्यन्ति नित्यशः ॥ २९
२७२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०७१श्लो०३०-५७] ( श्राद्धप्रक्रियारम्भः )
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति । कृत्स्नं सपर्वतवनं जङ्गमाजङ्गमैरवृतम् ॥ ३० श्राद्धानि पुष्टिकामश्च ये करिष्यन्ति मानवाः । तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥ ३१ श्राद्धे येभ्यः प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः । सर्वत्र वर्तमानास्ते पितरः प्रपितामहम् ॥ तेष्यामाप्याययिष्यन्ति श्राद्धदानेन वै प्रजाः ॥ ३२ एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना । तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः ॥ ३३ ते तु ज्ञानप्रदातारः पितरो वो न संशयः । इत्येते पितरो देवा देवाश्च पितरः पुनः ॥ अन्योन्यापितरो ह्येते देवाश्च पितरश्च ह ॥ ३४ एतद्वलवचः श्रुत्वा सूतस्य विहितात्मनः । पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ॥ ३५ ऋषय ऊचुः-- कियन्तो वै पितृगणाः कस्मिन्काले च ते गणाः । वर्तन्ते देवप्रवरा देवानां सोमवर्धनाः ॥ ३६ सूत उवाच-- एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम् । शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ॥ ३७ बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम् । पुनः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ॥ ३८ क एते पितरो नाम कियन्तः के च नामतः । समुद्भूताः कथं चैते पितृत्वं समुपागताः ॥ ३९ कस्माच्च पितरं पूर्वे यज्ञेऽप्युज्यन्त नित्यशः । क्रियाश्च सर्वा वर्तन्ते श्राद्धपूर्वा महात्मनाम् ॥ ४० कस्मै श्राद्धानि देयानि किं च दत्तं महाफलम् । केषु वाऽप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ॥ ४१ केषु वै सर्वमाप्नोति श्राद्धं कृत्वा द्विजोत्तमः । कश्च कालो भवेच्छ्राद्धे विधिः कश्चानुवर्तते ॥ ४२ एतदिच्छामि भगवांन्विस्तरेण यथातथम् । व्याख्यातुमानुपूर्व्येण यत्र चोदाहृतं मया ॥ ४३ बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः । व्याजहाराऽऽनुपूर्व्येण प्रश्नं प्रश्नविदां वरः ॥ ४४ बृहस्पतिरुवाच-- कथयिष्यामि ते तात यन्मां त्वं परिपृच्छसे । विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ॥ ४५ द्यौरन्तरीक्षं पृथिवी नक्षत्राणि दिशस्तथा । सूर्याचन्द्रमसौ चैव तथाऽहोरात्रमेव च ॥ ४६ न बभूवुस्तदा तात तमोभूतमिदं जगत् । ब्रह्मैको दुश्चरं तत्र चचार परमं तपः ॥ ४७ शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम् । सर्वदेव व्रतस्नातं सर्वज्ञानविदां वरम् ॥ ४८ कीदृशं सर्वभूतशस्तपस्तेपे प्रजापतिः । एवमुक्तो बृहत्तेजा बृहस्पतिरुवाच तम् ॥ ४९ सर्वेषां तपसां युक्तिस्तपोगमनुत्तमम् । ध्यायंस्तदा तद्भगवांस्तेन लोकानवासृजत् ॥ ५० भूतभव्यानि ज्ञानानि लोकान्वेदांश्च कृत्स्नशः । योगमाविश्य तत्सृष्टं ब्रह्मणा योगचक्षुषा ॥ ५१ लोकाः सांताानका नाम यत्र तिष्ठन्ति भास्वराः । ते वैराजा इतिख्याता देवानां दिवि देवताः ॥ ५२ योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः । देवानसृजत ब्रह्मा योगं युक्त्वा सनातनम् ॥ ५३ आदिदेवा इति ख्याता महासत्त्वा महौजसः । सर्वकामप्रदाः पूज्या देवदानवमानवैः ॥ ५४ तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः । अमूर्तयस्त्रयस्तेषां चत्वारस्तु सुमूर्तयः ॥ ५५ उपरिष्टात्रयस्तेषां वर्तन्ते भावमूर्तयः । तेषामधस्ताद्वर्तन्ते चत्वारः सूक्ष्ममूर्तयः ॥ ५६ ततो देवास्ततो भूमिरेशा लोकपरम्परा । लोकं वर्तन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसंभवः । वृष्टिर्भवति तैर्वृष्ट्या लोकानां संभवः पुनः ॥ ५७
[अ०७१-७२श्लो०५८-७९।१] वायुपुराणम् । २७३
( श्राद्धकल्पः ) आप्याययन्ति ते यस्मात्सोमं चान्नं च योगतः । ऊचुस्तान्रै पितॄंस्तस्माल्लोकानां लोकसत्तमाः ॥५८ मनोजवाः स्वधाभक्षाः सर्वकामपरिच्छदाः । लोभमोहभयांपेता निश्चिन्ताः शोकवर्जिताः ॥ ५९ एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान् । दिव्याः पुण्या महात्मानो विपाप्मानो भवन्त्युत ॥ ६० ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः । प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्तयः ॥ ६१ व्यक्ताव्यक्तं परित्यज्य महायोगबलेन वा । नश्यन्त्युल्केव गगने क्षीणविद्युत्प्रभेव च ॥ ६२ उत्सृज्य देहजातानि महायोगबलेन च । निराख्योपाख्यतां यान्ति सरितः सागरे यथा ॥ ६३ क्रियया गुरूपूजाभिर्योगं कुर्वन्ति नित्यशः । ताभिराप्यायन्त्येते पितरो योगवर्धनाः ॥ ६४ श्राद्धे प्रीताः पुनः सोमं पितरो योगमास्थिताः । आप्याययन्ति योगेन त्रैलोक्यं येन जीवति ॥ ६५ तस्माच्छ्राद्धानि देयानि योगिभ्यो यत्नतः सदा । पितॄणां हि बलं योगो योगात्सोमः प्रवर्तते ॥ ६६ सहस्रशस्तु विप्रान्वै भोजयेद्यावदागतान् । एकस्तु योगवित्प्रीतः सर्वानर्हति तच्छृणु ॥ ६७ काल्पितानां सहस्रेण स्नातकानां शतेन च । योगाचार्येण यद्भुक्तं त्रायते महतो भयात् ॥ ६८ गृहस्थानां सहस्रेण वानप्रस्थशतेन च । ब्रह्मचारिसहस्रेण योगी ह्येको विशिष्यते ॥ ६९ नास्तिको वा विकर्मा वा संकीर्णस्तस्करोऽपि वा । नान्यत्र कारणं दानं योगेष्ववाह प्रजापतिः ॥७० पितरस्तस्य तुष्यन्ति सुवृष्टेनेव कर्षकाः । पुत्रो वाऽप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति ॥ ७१ अलाभे ध्यानिभिक्षूणां भोजयेद्ब्रह्मचारिणौ । तदलाभेऽप्युदासीनं गृहस्थमपि भोजयेत् ॥ ७२ यस्तिष्ठेदेकपादेन वायुभक्षः शतं समाः । ध्यानयोगी परतस्मादिति ब्रह्मानुशासनम् ॥ ७३ सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् । तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः ॥ ७४ पूजयेच्चार्घ्यपाद्येन वेश्मना भोजनेन च । उर्वी सागरपर्यन्तां देवा योगेश्वराः सदा ॥ ७५ नानारूपैश्चरन्त्येते प्रजा धर्मेण पालयन् ॥ ७६ तस्माद्दद्याच्च वै दानं विप्रायातिथये नरः । प्रदानानि प्रवक्ष्यामि फलं चैषां तथैव च ॥ ७७ अश्वमेधसहस्रेण राजसूयशतेन च । पुण्डरीकसहस्रेण योगिष्वावसथो वरम् ॥ ७८ आद्य एष गणः प्रोक्तः पितॄणाममितौजसाम् । भावयन्सप्त कालान्वै स्थित एष गणः सदा ॥ ७८ अत ऊर्ध्वं प्रवक्ष्यामि सर्वान्पितॄगणान्पुनः । संततिं संस्थितिं चैव भावनां च यथाक्रमम् ॥ ७९
इति श्रीमहापुराणे वायुप्रोक्त उपोद्घातपादे श्राद्धप्रक्रियारम्भो नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥ आदितः श्लोकानां समष्ट्यङ्काः-६६७६
अथ द्विसप्ततितमोऽध्यायः ।
श्राद्धकल्पः ।
सूत उवाच-- सप्त मेधावतां श्रेष्ठाः स्वर्गे पितृगणाः स्मृताः । चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः ॥ तेषां लोकविसर्गं तु कीर्तयिष्ये निबोधत ॥ १
३५
२७४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०७२श्लो०२-२६] (श्राद्धकल्पः)
या वै दुहितरस्तेषां दौहित्राश्चैव ये स्मृताः । धर्ममूर्तिधरास्तेषां ये त्रयः परमा गणाः ॥ २ नामानि लोकसर्गं च तेषां वक्ष्ये समासतः । लोका विरजसो नाम्ना यत्र तिष्ठन्ति भास्वराः ॥ ३ अमूर्तयः पितृगणाः पुत्रास्ते वै प्रजापतेः । विरजस्य द्विजाः श्रेष्ठा वैराजा इति विश्रुताः ॥ एष वै प्रथमः कल्पो वैराजानां प्रकीर्तितः ॥ ४ तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतः शुभ्रा यस्यां मैनाक उच्यते ॥ ५ जातः सर्वौषधिधरः सर्वरत्नाकराम्ववान् । पर्वतः प्रवरः पुण्यः क्रौञ्चस्तस्याऽऽत्मजोऽभवत् ॥ ६ तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् । अपर्णामेकपर्णां च तृतीयामेकपाटलाम् ॥ ७ आश्रिते द्वे ह्यपर्णां तु अनिकेता तपोऽचरत् । न्यग्रोधमेकपर्णी तु पाटलामेकपाटला ॥ शतं वर्षसहस्राणि दुश्चरं देवदानवैः ॥ ८ आहारमेकपर्णेन एकपर्णी समाचरत् । पाटलेनैव चैकेन विदध्यादेक पाटला ॥ ९ पूर्णे पूर्णे सहस्रे द्वे आहारं वै प्रचक्रतुः । एका तत्र निराहारा तां माता प्रत्यभाषत ॥ १० निषेधयन्ती हुमेति माता स्नेहेन दुःखिता । सा तथोक्ता तया देवी मात्रा दुश्चरचारिणी ॥ ११ उमेति सा महाभागा त्रिषु लोकेषु विश्रुता । तथति नाम्ना तेनासौ निरुक्ता कर्मणा शुभा ॥ १२ एतत्तु त्रिकुमारीकं जगत्स्थास्याति शाश्वतम् । एतासां तपसा दृप्तं यावद्भूमिर्धारिष्यति ॥ १३ तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः । देव्यस्ताः सुमहाभागाः सर्वाश्च स्थिरयौवनाः ॥ १४ सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः । उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ॥ १५ महायोगबलोपेता महादेवमुपास्थिता । दन्तकाण्वोशनास्तस्याः पुत्रौ वै भृगुनन्दनः ॥ १६ असितस्यैकपर्णी तु पत्नी साध्वी दृढव्रता । दत्ता हिमवता तस्मै योगाचार्याय धीमते ॥ देवलं सुषुवे सा तु बलिष्ठं मानसं सुतम् ॥ १७ या चैतासां कुमारीणां तृतीया त्वेकपाटला । पुत्रं शतशिलाकस्य जैगीषव्यमुपास्थिता ॥ १८ तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ । इत्येता वै महाभागाः कन्या हिमवतः शुभाः ॥ १९ रुद्राणी सा तु प्रवरा स्वगुणैरतिरिच्यते । अन्योन्यप्रीतिरनयोरुमाशंकरयोरथ ॥ २० श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा । ताभ्यां मैथुनसक्ताभ्यामपत्योद्भवभीरुणा ॥ तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ॥ २१ अनयो रतिविघ्नं च त्वमाचर हुताशन । सर्वत्र गत एव त्वं न दोषो विद्यते तदा ॥ २२ इत्येवमुक्ते तु तथा वह्निना च तथा कृतम् । उमादेहं समुत्सृज्य शुक्रं भूमौ विसर्जितम् ॥ २३ ततो रुषितया देव्या शप्तोऽग्निः शांशपायन । इदं चोक्तवती वह्निं रोषगद्गदया गिरा ॥ २४ यस्मान्मय्यवितृप्तायां रतिविघ्नं हुताशन । कृतवानस्य कर्तव्यं तस्मात्त्वमसि दुर्मतिः ॥ २५ यद्देवं बिभृतं गर्भं रौद्रं शुक्रं महाप्रभम् । गर्भे त्वं धारयस्वैवमेषा ते दण्डधारणा ॥ २६
[अं० ७२ श्लो० २७-५०] वायुपुराणम् । २७५
( श्राद्धकल्पः )
स शापरोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः । बहून्र्वर्षगणान्गर्भं धारयामास वै द्विजाः ॥ २७
स गङ्गामुपगम्याऽऽह श्रूयतां सरिदुत्तमे । सुम्हान्परिखेदो मे गर्भधारणकारणात् ॥ २८
मद्धितार्थमिमं गर्भमतो धारय निम्नगे । मत्प्रसादाच्च खेदो वै मन्दस्तव भविष्यति ॥ २९
तथेत्युक्त्वा तदा सा तु संप्रहृष्टा महानदी । तं गर्भं धारयामास दह्यमानेन तेजसा ॥ ३०
साऽपि कृच्छ्रेण महता खिद्यमाना महानदी । कालं प्रकृष्टं सुमहद्गर्भधारणतत्परा ॥ ३१
तया परिगतं गर्भं कुक्षौ हिमवतः शुभे । शुभं शरवणं नाम चित्रं पुष्पितपादपम् ॥
तत्र तं व्यसृजद्गर्भं दीप्यमानमिवानलम् ॥ ३२
रुद्राग्निगङ्गातनयस्तत्र जातोऽरुणप्रभः । आदित्यशतसंकाशो महातेजाः प्रतापवान् ॥ ३३
तस्मिञ्जाते महाभागे कुमारे जाह्नवीस्रुते । विमानयानैराकाशं पतत्रिभिरिवावृतम् ॥ ३४
देवदुन्दुभयो नेदुराकाशे मधुरस्वराः । मुमुचुः पुष्पवर्षं च खेचराः सिद्धचारणाः ॥ ३५
जगुर्गन्धर्वमुख्याश्च सर्वशस्तत्र तत्र ह । यक्षा विद्याधराः सिद्धाः किंनराश्चैव सर्वशः ॥ ३६
महाभागसहस्राणि प्रवराश्च पतत्रिणः । उपतस्थुर्महाभागमाग्नेयं शंकरात्मजम् ॥
प्रभावेण हतास्तेन दैत्यदानवराक्षसाः ॥ ३७
सह सप्तर्षिभार्याभिर्भादावेवाभिसंभवः । अभिषेकप्रयाताभिर्द्दष्टो वर्ज्य त्वरुन्धतीम् ॥ ३८
ताभिः स बालार्कनिभो रौद्रः परिवृतः प्रभुः । स्निह्यमानाभिरत्यर्थं स्वकाभिरिव मातृभिः ॥ ३९
युगपत्सर्वदेवीर्हि दिदृक्षुर्जाह्नवीसुतः । षण्मुखान्यसृजच्छ्रीमांस्तासां प्रीत्या महाद्युतिः ॥ ४०
श्रीमान्कमलपत्राक्षस्तरुणादित्यसंनिभः । येन जातेन लोकानामाक्षेपस्तेजसा कृतः ॥ ४१
तेन जातेन महता देवानामसाहिष्णवः । स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान् ॥ ४२
कृत्तिकाभिस्तु यस्मात्स वर्धितः स पुरातनः । कार्तिकेय इति ख्यातस्तस्मादसुरसूदनः ॥ ४३
जृम्भतस्तस्य दैत्यारेर्ज्वालामालाकुलात्तदा । मुखान्निर्गता तस्य स्वशक्तिरपराजिता ॥ ४४
क्रीडार्थं चैव स्कन्दस्य विष्णुना प्रभविष्णुना । गरुडादति सृष्टौ हि पक्षिणौ हि प्रभद्रकौ ॥ ४५
मयूरः कुक्कुटश्चैव पताका चैव वायुना । बस्त्य दत्ता सरस्वत्या महावीणा महास्वना ॥
अजः स्वयंभुवा दत्तो मेषो दत्तश्च शंभुना ॥ ४६
मायाविहरणे विप्रा गिरौ क्रौञ्चे निपातिते । तारके चासुरवरे समुदीर्णे निपातिते ॥ ४७
सेन्द्रेपेन्द्रैर्महाभागैर्देवैरग्निसुतः प्रभुः । सेनापत्येन दैत्यारिरभिषिक्तः प्रतापवान् ॥ ४८
देवसेनापतिस्त्वेवं पठ्यते नरनायकः । देवारिस्कन्दनः स्कन्दः सर्वलोकेश्वरः प्रभुः ॥ ४९
प्रमथैर्विविधैर्देवैस्तथा भूतगणैरपि । मातृभिर्विविधाभिश्च विनायकगणैस्तथा ॥ ५०
इति श्रीमहापुराणे वायुप्रोक्ते सेनान्युत्पत्तिकथनं नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥
आदितः श्लोकानां समष्ट्यङ्काः-६७२६
* नात्राध्यायपरिसमाप्तिः क. ख. घ. ङ. पुस्तकेषु । परंतु कथासंगत्याऽयमेव पाठः समीचीन इति प्रतिभाति ।
२७६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ७३श्लो० १-२५] (श्राद्धकल्पः)
अथ त्रिसप्ततितमोऽध्यायः ।
श्राद्धकल्पः ।
[ * बृहस्पतिरुवाच-- लोकाः सोमपदा नाम मारीचेर्यत्र वै सुताः । पितरो दिवि वर्तन्ते देवास्तान्भावयन्ति वै ॥ १ अग्निष्वात्ता दिति ख्याताः सर्व एवामितौजसः । एतेषां मानसी कन्या अच्छोदा नाम निम्नगा ॥ अच्छोदं नाम तद्दिव्यं सरो यस्याः समुच्छ्रितम् । अद्रिकाप्सरसा युक्तं विमानैर्धिष्ठितं दिवि ॥ ३ अमूर्तिमंतश्च पितॄन्ददर्श सा तु विस्मिता । पीडिताऽनेन दुःखेन बभूव वरवर्णिनी ॥ ४ सा दृष्ट्वा पितरं वव्रे वसूनामन्तरिक्षगम् । अमावसुरिति ख्यातमायोः पुत्रं यशस्विनम् ॥ ५ सा तेन व्यभिचारेण मनसः कामचारिणी । पतिकाम्रा तदा सा च योगभ्रष्टा पपात ह ॥ ] ६ सा त्वपश्यद्विमानानि पतन्ती सा दिवश्च्युता । त्रसरेणुप्रमाणानि तेष्वपश्यच्च तान्पितॄन् ॥ ७ सुसूक्ष्मानपरित्यक्तानग्नीनग्निष्वात्ताऽऽहितान् । त्रायध्वमित्युवाचाथ पतन्ती तानवाक्शिराः ॥ ८ तैरूक्ता सा तु मा भैषीरित्युक्ताऽवाष्ठिताऽभवत् । ततः प्रासादयत्सा वै पितॄंस्तान्दीनया गिरा ॥ ९ ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् । भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ॥ १० यैः क्रियन्ते च कर्माणि शरीरैरिह दैवतैः । तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ॥ ११ सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे । तस्मादमावसौ(सुं)पत्यं(तिं) त्वं प्रेत्य माप्स्यसे फलम् ॥ इत्युक्त्या वै पितरः पुनस्ते तु प्रसादितः । ध्यात्वा प्रसादं संचक्रुस्तस्यास्ते त्वनुकम्पया ॥ १३ अवश्यंभाविनं दृष्ट्वा ह्यर्थमूचुस्ततः सुराः । सोमपाः पितरः कन्यां राज्ञश्चैव ह्यमावसोः ॥ १४ उत्पन्नस्य पृथिव्यां तु मानुषत्वे महात्मनः । कन्या भूत्वा त्विमाल्लोकान्पुनः प्राप्स्यसि स्वानिति ॥ अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा । अस्यैव राज्ञो दुहिता अद्रिकायां ह्यमावसोः ॥ १६ पराशरस्य दायादमृषेस्त्वं जनयिष्यसि । स वेदमेकं विप्रर्षिश्चतुर्धा वै करिष्यति ॥ १७ महाभिषस्य पुत्रौ द्वौ शांतनोः कीर्तिवर्धनौ । विचित्रवीर्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि ॥ १८ चित्राङ्गदं च राजानं तेजोबलगुणान्वितम् । एतानुत्पाद्य पुत्रांस्त्वं पुनर्लोकानबाप्स्यसि ॥ १९ व्यतिक्रमात्पितॄणां न्वं द्वाप्स्यसे जन्म कुत्सितम् । तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि ॥ २० कन्या भूत्वा ततश्च त्वमिमांल्लोकानवाप्स्यासि । एवमुक्ता तु दासेयी जाता सत्यवती तु सा ॥ २१ अद्रिकायां सुता मत्स्यां सुता जाता ह्यमावसोः । अद्रिकामत्स्यसंभूता गङ्गायामनुसंगमे ॥ २२ तस्य राज्ञो हि सा कन्या राज्ञो वीर्ये सदैव हि । विरजा नाम ते लोका दिवि रोचन्ति ते गणाः ॥ २३ अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्वरप्रभाः । तान्दानवगणा यक्षा रक्षोगन्धर्वकिंनराः ॥ २४ भूतसर्पपिशाचाश्च भावयन्ति फलार्थिनः । एते पुत्राः समाख्याताः पुलहस्य प्रजापतेः ॥ २५
* धनुश्चिह्नान्तर्गतग्रन्थः क. ग. घ. ङ. पुस्तकेषु नास्ति ।
[अ०७३श्लो०२६-५५] वायुपुराणम् । २७७
(श्राद्धकल्पः) त्रय एते गणाः प्रोक्ता धर्ममूर्त्तिधराः शुभाः । एतेषां मानसी कन्या पीवरी नाम विश्रुता ॥ २६ योगिनी योगपत्नी च योगमाता तथैव च । भविता द्वापरं प्राप्य अष्टाविंशं तदैव तु ॥ २७ पराशरकुलोद्भूताः शुको नाम महातपाः । श्रीमान्योगी महायोगी योगस्तस्माद्विजोत्तमाः ॥ २८ व्यासादरण्यां संभूतो विधूम इव पावकः । स तस्यां पितृकन्यायां योगाचार्य्यान्परिश्रुतान् ॥ २९ कृष्णं गौरं प्रभुं शंभुं तथा भूरिश्रुतं च वै । कन्या कीर्त्तिमतीं चैव योगिनीं योगमातरम् ॥ ३० ब्रह्मदत्तस्य जननी महिषी त्वणुहस्य तु । एतानुत्पाद्य धर्मात्मा पुत्रान्योगमवाप्य च ॥ ३१ महायोगतपाश्चैव अपरावर्त्तिनीं मतिम् । आदित्यकिरणोपेतं त्वपुनर्भावमास्थितः ॥ ३२ सर्वव्यापी विनिर्मुक्तो भविष्यति महामुनिः । अमूर्त्तिमन्तः पितरो धर्ममूर्त्तिधरास्तु ये ॥ ३३ त्रय एते गणास्तेषां चत्वारोऽन्ये निबोधत । यान्वक्ष्यामि द्विजश्रेष्ठा मूर्त्तिमन्तो महाप्रभाः ॥ ३४ उत्पन्नास्ते स्वधायास्तु कन्या अग्नेः कवेः सुताः । पितरो देवलोकेषु ज्योतिर्भासिषु भास्वराः ॥ ३५ सर्वकामसमृद्धेषु द्विजास्तान्भावयन्त्युत । एतेषां मानसी कन्या गौर्नाम दिवि विश्रुता ॥ ३६ दत्तसना कुमारेण शुक्रस्य महिषी प्रिया । एकत्रिंशच्च विख्याता भृगूणां कीर्त्तिवर्धनाः ॥ ३७ मरीचिगर्भास्ते लोकाः समावृत्य दिवि श्रुताः । एते ह्यङ्गिरसः पुत्राः साध्यैः सह विवर्धिताः ॥ ३८ उपहूताः मृतास्ते तु पितरो भास्वरा दिवि । तान्क्षत्रियगणाद्दृष्ट्वा भावयन्ति फलार्थिनः ॥ ३९ एतेषां मानसी कन्या यशोदा नाम विश्रुता । पत्नी सा विश्वमहतः स्नुषा वै विश्वशर्मणः ॥ ४० राजर्षेर्जननी देवी खट्वाङ्गस्य महात्मनः । यस्य यज्ञे पुरा गीता गाथा दिव्यैर्महर्षिभिः ॥ ४१ अग्रेर्जन्म तथा दृष्ट्वा शाण्डिल्यस्य महात्मनः । यजमानं दिलीपं ये पश्यन्ति सुसमाहिताः ॥ ४२ सत्यव्रतं महात्मानं ते स्वर्गजयिनोऽमराः । आज्यपा नाम पितरः कर्द्दमस्य प्रजापतेः ॥ ४३ समुत्पन्नस्य पुलहादुत्पन्नास्तस्य वै पुनः । लोकेष्वेतेषु वर्तन्ते कामगेषु विहंगमाः ॥ ४४ एतान्वैश्यागणाः श्राद्धे भावयन्ति फलार्थिनः । एतेषां मानसी कन्या विरजा नाम विश्रुता ॥ ४५ ययातेर्जननी साध्वी पत्नी सा नहुषस्य तु । सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः ॥ ४६ हिरण्यगर्भस्य सुताः शूद्रास्तान्भावयन्त्युत । मानसा नाम ते लोका वहन्ते यत्र ते दिवि ॥ ४७ एतेषां मानसी कन्या नर्मदा सरितां वरा । सा भावयति भूतानि दक्षिणापथगामिनी ॥ ४८ जननी त्रसदस्योर्हि पुरुकुत्सपरिग्रहः । एतेषामभ्युपगमान्मुनेर्मन्वन्तरेश्वरः ॥ ४९ मन्वन्तरादौ श्राद्धानि प्रवर्त्तयति सर्वशः । पितृणामानुपूर्व्येण सर्वेषां द्विजसत्तमाः ॥ ५० तस्मादिह स्वधर्मेण श्राद्धं देयं तु श्रद्धया । सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः ॥ ५१ दत्तं स्वधां पुरोधाय तथा प्रीणाति वै पितॄन् । सोमस्याऽऽप्यायनं कृत्वा ह्यग्नेर्वैवस्वतस्य च ॥ ५२ उदगायनं चाग्र्यौ च अश्वमेधं तदामुयात् । पितॄन्प्रीणाति वै भक्त्या पितरः प्रीणयन्ति तम् ॥ ५३ पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः । पुष्टिं प्रजां च स्वर्गं च प्रयच्छन्ति न संशयः ॥ ५४ देवकार्यादपि सदा पितृकार्यं विशिष्यते । देवताभ्यः पितॄणां हि पूर्वमाप्यायनं स्मृतम् ॥ ५५
२७८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ७३-७४ श्लो० ५८-७३।१-६] ( श्राद्धकल्पः )
न हि योगगतिः सूक्ष्मा पितॄणामपि तृप्तयः । तपसा हि प्रसादेन दृश्यन्ते मांसचक्षुषा ॥ ५८ इत्येते पितरश्चैव लोका दुहितरश्च वै । दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति तान् ॥ ५९ चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः । तेभ्यः श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः ॥ ६० भक्ताः प्राञ्जलियः सर्वे सेन्द्रास्तद्गतमानसाः । विधे च सिकताश्चैव पृश्निजाः शृङ्गिन(ण)स्तथा ॥ कृष्णाः श्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत । प्रजास्ता वातरशना दिवाकीर्त्यास्तथैव च ॥ ६२ लेखाश्च मरुतश्चैव वस्त्राद्याश्च दिवौकसः । अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व एव च ॥ ६३ यक्षा नागाः सुपर्णाश्च किंनरा राक्षसैः सह । पितॄंस्त्वपूजयन्सर्वे नित्यमेव फलार्थिनः ॥ ६४ एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः । सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ॥ ६५ हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा । मोक्षं योगमथैश्वर्यं प्रयच्छन्ति पितामहाः ॥ ६६ मोक्षोपायमथैश्वर्यं सूक्ष्मदेहाश्च देवताः । कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ॥ ६७ ऐश्वर्यं विहितं योगमथैश्वर्यं वित्तमुत्तमम् । योगैश्वर्यादृते मोक्षः कथंचिन्नोपपद्यते ॥ ६८ अपक्षस्यैव गमनं गमने पक्षिणो यथा । वरिष्ठः सर्वधर्माणां मोक्षधर्मः सनातनः ॥ ६९ विमानानां सहस्राणि युक्तान्यप्सरसां गणैः । सर्वकामप्रसिद्धानि प्रयच्छन्ति पितामहाः ॥ ७० प्रज्ञा पुष्टिः स्मृतिर्मेधा राज्यमारोग्यमेव च । पितॄणां हि प्रसादेन प्राप्यते सुमहात्मनाम् ॥ ७१ मुक्तावैदूर्यवासांसि वाजिनागायुतानि च । कोटिशश्चापि रत्नानि प्रयच्छन्ति पितामहाः ॥ ७२ हंसबर्हिणयुक्तानि मुक्तावैदूर्यवन्ति च । किङ्किणीजालनद्धानि सदापुष्पफलानि च ॥ प्रीत्या नित्यं प्रयच्छन्ति मनुष्याणां पितामहाः ॥ ७३
इति महापुराणे वायुप्रोक्ते उपोद्घातपादे श्राद्धकल्पो नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ आदितः श्लोकानां समष्ट्यङ्काः—६७९९
अथ चतुःसप्ततितमोऽध्यायः ।
श्राद्धकल्पः ।
बृहस्पतिरुवाच— सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते । रजतं रजताकं वा पितॄणां पात्रमुच्यते ॥ १ रजतस्य कथा वापि दर्शनं दानमेव च । अनन्तमक्षयं स्वर्ग्यं पितॄणां दानमुच्यते ॥ पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥ २ राजते हि स्वधा दुग्धा पात्रेऽस्मिन्पितृभिः पुरा । स्वधादायाऽर्थिभिस्तात तस्मिन्दत्ते तदक्षयम् ॥ ३ कृष्णाजिनस्य सांनिध्यं दर्शनं दानमेव वा रक्षोघ्नं ब्रह्मवर्चस्यं पितॄंस्तत्तारयेत ॥ ४ काञ्चनं राजतं ताम्रं दौहित्रं कुतपास्तिलाः । वस्त्रं च पावनीयानि त्रिदण्डी योग एव च ॥ ५ श्राद्धकर्मण्ययं श्रेष्ठो विधिर्बाह्यः सनातनः । आयुः कीर्तिः प्रजाश्चैव प्रज्ञासंततिवर्धनः ॥ ६
[अ० ७४ श्लो० ७-३०] वायुपुराणम् । २७९
( श्राद्धकल्पः )
दिशि दक्षिणपूर्वस्यां विदिकस्थानं विशेषतः। सर्वतोऽरत्निमात्रं तु चतुरस्रं सुसंहितम् ॥ ७
वक्ष्यामि विविवत्स्थानं पितॄणामनुशासनात् । धान्यमारोग्यमायुष्यं बलवर्णविवर्धनम् ॥ ८
तत्र गर्तास्त्रयः कार्यास्त्रयो दण्डाश्च खादिरः। रत्निमात्रास्तु ते कार्या रजतेन विभूषिताः ॥
ते वितस्त्यायताः कार्याः सर्वतश्चतुरङ्गुलाः ॥ ९
प्राग्दक्षिणमुखान्भूमौ स्थितानसुषिरांस्तथा । अद्भिः पवित्रपूताभिः प्लावयेत्सततं शुचिः ॥ १०
पायसा ह्यजगव्येन शोधनं वारिभिरेव तु । तर्पणात्सततं ह्येवं तृप्तिर्भवति शाश्वती ॥ ११
इह चामुत्र च श्रीमान्सर्वकर्मसमन्विताः । एवं त्रिषवणस्नातो योऽर्चयेत पितॄन्सदा ॥
मत्नेन विधिवत्सम्यगश्वमेधफलं लभेत् ॥ १२
तत्स्थापयेदमावास्यां(?)गर्ते भूचतुरङ्गुले । त्रिःसप्तसंज्ञास्ते यज्ञास्त्रैलोक्यं धार्यते तु वै ॥ १३
तस्य पुष्टिरथैश्वर्यमायुः संततिरेव च । विचित्रा भजते लक्ष्मर्मोक्षं च लभते क्रमात् ॥ १४
पाप्पापहं पावनीयमश्वमेधफलं तथा । अश्वमेधफलं ह्येतद्द्विजैः सत्कृत्य पूजितम् ॥
मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ॥ १५
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव भवन्त्युत ॥ १६
आद्यावसाने श्राद्धस्य त्रिरावर्त्तं जपेत्सदा । पिण्डनिर्वपणे चैव जपेदेतत्समाहितः ॥
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ १७
पितॄंस्तत्रिषु लोकेषु मन्त्रोऽयं तारयत्युत । पठ्यमानः सदा श्राद्धे नियतं ब्रह्मवादिभिः ॥ १८
राज्यकामो जपेदेवं सदा मन्त्रमतन्द्रितः । वीर्य्यशौचार्थसत्त्वं च श्रीरायुर्बलवर्धनम् ॥ १९
प्रीयन्ते पितरो येन जप्येन नियमेन च । सप्तार्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ २०
अमूर्तानां समृतानां पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगचक्षुषः ॥ २१
इन्द्रादीनां जनयितारो भृगुमारीचयोस्तथा । सप्तर्षीणां पितॄणां च तान्ममस्यामि कामदान् ॥ २२
मन्वादीनां सुरेशानां सूर्याचन्द्रमसोस्तथा । तान्रमस्कृत्य सर्वान्वै पितॄन्कुशलदायकान् ॥ २३
नक्षत्राणां ग्रहादीनां पितॄनथ पितामहान् । द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ २४
देवर्षीणां जनयितॄंश्च सर्वलोकनमस्कृतान् । अभयस्य सदा दातृन्नमस्येऽहं कृताञ्जलिः ॥ २५
प्रजापंतः कश्यपाय सोमाय वरुणाय च । योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥ २६
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु । स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥ २७
एतदुक्तं सप्तमर्षिब्रह्मर्षिगणपूजितम् । पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥ २८
अनेन विधिना युक्तस्त्रीन्वरॉल्लभते नरः । अज्रमायुः सुतांश्चैव ददते पितरो भुवि ॥ २९
भक्त्या परमया युक्तः श्रद्दधाना जितेन्द्रियः । सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः ॥
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ॥ ३०
२८० श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ७४.७५श्लो० ३१-३२।१-१८] ( श्राद्धकल्पः )
यत्किंचित्पच्यते गेहे भक्ष्यं वा भोज्यमेव च । अनिवेद्य न भोक्तव्यं तस्मिन्नायतने सदा ॥ ३१ क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम् । येषु यच्च फलं प्रोक्तं तन्मे निगदतः शृणु ॥ ३२ इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥ आदितः श्लोकानां समष्ट्यङ्काः--५९९०
अथ पञ्चसप्ततितमोऽध्यायः ।
श्राद्धकल्पः ।
बृहस्पतिरुवाच-- पालाशं ब्रह्मवर्चस्यमश्वत्थे राज्यभावना । सर्वभूताधिपत्यं च प्लक्षे नित्यमुदाहृतम् ॥ १ ( ×पुष्टिकामं च न्यग्रोधं बुद्धिं प्रज्ञां धृतिं स्मृतिम् । रक्षोघ्नं च यशस्यं च काश्मर्ये पात्रमुच्यते ॥२ सौभाग्यमुत्तमं लोके मधुके समुदाहृतम् । ) फल्गुपात्रे च कुर्वाणः सर्वान्कामानवाप्नुयात् ॥ ३ परा द्युतिरथो कर्तुः प्राकाश्यं च विशेषतः । बिल्वे लक्ष्मीस्तथा मेधा नित्यमायुष्यमेव च ॥ ४ क्षेत्रारामतडागेषु सर्वसस्येषु चैव हि । वर्षेदजस्रं पर्जन्यो वेणुपात्रेषु कुर्वतः ॥ ५ एतेष्वेव सुपात्रेषु ये चैवाऽऽग्रयणं दधुः । सकृदप्यत्र यज्ञानां सर्वेषां फलमुच्यते ॥ ६ पितृभ्यो यस्तु माल्यानि सुगन्धीनि च सर्वशः । सदा दद्याच्छ्रद्धया युक्तः स विभाति दिवाकरः ॥ ७ गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति । संयुक्तान्मधुसर्पिभ्यां सोऽश्वमेधफलं लभेत् ॥ ८ धूपं गन्धगुणोपेतं कान्तं पितृपरायणम् । लभते स्त्रीष्वपत्यानि इह चामुत्र चोभयोः ॥ दद्यादेव पितृभ्यस्तु नित्यमेव ह्यतन्द्रितः ॥ ९ दीपं पितृभ्यः प्रयत: सदा वस्तु प्रयच्छति । स लोकेऽप्रतिमं चक्षुः सदा च लभते शुभम् ॥ १० तेजसा यशसा चैव कान्त्या चैव बलेन च । भुवि प्रकाशो भवति भ्राजते च त्रिविष्टपे ॥ अप्सरोभिः परिवृतो विमानाग्रे स मोदते ॥ ११ गन्धपुष्पाणि धूपांश्च दद्यादाज्याहुतीश्च वै । फलमूलनमस्कारैः पितॄणां प्रयत: शुचिः ॥ १२ श्राद्धकाले तु सततं वायुभूताः पितामहाः । आविशन्ति द्विजान्दृष्ट्वा तस्मादेतद्ब्रवीमि ते ॥ १३ वस्त्रैरन्नैः प्रदानैस्तैर्भक्ष्यपेयैस्तथैव च । गोभिरश्वैस्तथा ग्रामैः पूजयित्वा द्विजोत्तमान् ॥ १४ भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु । तस्मादन्नेन विधिवत्पूजयेद्द्विजसत्तमान् ॥ १५ सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः । मोक्षणं च तथा कुर्याच्छ्राद्धकर्मण्यतन्द्रितः ॥ १६ दर्भांन्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च । गन्धदानमलंकारमेकैकं निर्वपेद्बुधः ॥ १७ पोषयित्वा जनं सम्यग्वैश्वः स्यादुत्तरो द्विजः अभ्यज्यदर्भपिञ्जूलैस्त्रिभिः कुर्याद्यथाविधि ॥ १८
× धनुश्चिह्नान्तर्गतग्रन्थो ङ पुस्तके नास्ति ।
खण्डनं पेषणं चैव तथैवोल्लेखनं तथा। सकृदेव हि देवानां पितॄणां त्रिभिरुच्यते ॥ २०
[अ० ७५ श्लो १९-४५] वायुपुराणम्। २८१
( श्राद्धकल्पः )
अपसव्यं पितृभ्यश्च दद्यादनमनुत्तमम्। तानुच्चार्याथ सर्वेषां वस्त्रार्थे सूत्रमेव च ॥ १९
खण्डनं पेषणं चैव तथैवोल्लेखनं तथा। सकृदेव हि देवानां पितॄणां त्रिभिरुच्यते ॥ २०
एकं पवित्रं हस्तेन पितॄन्सर्वान्सकृत्सकृत्। चैलमन्त्रेण पिण्डेभ्यो दत्त्वा दर्शनजं हितम् ॥ २१
सदा सर्पिस्तिलैर्युक्तांस्त्रीन्पिण्डान्निर्वपेद्भुवि। जानुं कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥ २२
पितॄन्पितामहांश्चैव तथैव प्रपितामहान्। आहूय च पितॄन्मात्रांन्पितृतीर्थेन यत्नतः ॥
पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ॥ २३
अन्नेनाद्भिश्श्व पुष्पैश्च भक्ष्यैश्चैव पृथग्विधैः। पृथङ्मातामहानां तु केचिदिच्छन्ति मानवाः ॥ २४
त्रीन्पिण्डानानुपूर्व्येण साङ्गुष्ठान्पुष्टिवर्धनान्। जान्वन्तराभ्यां यत्नेन पिण्डान्दद्याद्यथाक्रमम् ॥ २५
सव्योत्तराभ्यां पाणिभ्यां धर्मे मन्त्रे च पर्ययः। नमो व पितरः शुष्मै सदा ह्येवमतन्द्रितः ॥ २६
दाक्षिणस्यां तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत्। नमो व पितरः सौम्याः पठन्नित्यमतन्द्रितः ॥ २७
सव्योत्तराभ्यां पाणिभ्यां धर्मे सर्वमतन्द्रितः। उलूखलस्य लेखायामुदपात्राच्च सेवनम् ॥ २८
क्षौमसूत्रं नवं दद्याच्छोणं कार्पासिकं तया। पत्रोर्णं पितृसूत्रं च कौशेयं परिवर्जयेत् ॥ २९
वर्जयेत्तद्दशां यज्ञे यदप्यहतवस्त्रजाम्। न प्रीणन्ति तथैतानि दातुरप्यायतो भवेत् ॥ ३०
श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च। कृष्णेभ्यश्च तिलेभ्यश्च यत्तैलं परिरक्षितम् ॥ ३१
चन्दनागुरुणी चोभे तमालोशीरभ्रकम्। धूपं च गुग्गुलं श्रेष्ठं तुरुष्कं धूपमेव च ॥ ३२
शुक्लाः सुमनसः श्रेष्ठास्तर्था पद्मोत्पलानि च। गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ॥ ३३
जपासुमनसो भण्डीरूपकामकुरण्डकाः। पुष्पाणि वर्जनीयानि श्राद्धकर्माणि नित्यशः ॥ ३४
यानि गन्धादपेतानि उग्रगन्धानि यानि च। वर्जनीयानि पुष्पाणि भूतिमान्विच्छता तदा ॥ ३५
द्विजातयस्तथाऽन्विष्टा नियताः स्युरुदङ्मुखाः। पूजयेद्यजमानस्तु विधिवद्दक्षिणामुखः ॥ ३६
तेषामभिमुखो दद्याद्दर्भान्पिण्डांश्च यत्नतः। अनेन विधिना साक्षादर्चयेत्स्वान्पितामहान् ॥ ३७
हरिता वै सापिञ्जूल्यः पुष्पस्निग्धाः समाहिताः। रत्नमात्रप्रदानेन पितृतीर्थेन संस्थिताः ॥ ३८
उपमूले तथा नीलाः प्रस्तराद्यकुलोद्यमाः। तथा श्यामाकनीवारा दुर्वा॑राः समुदाहृताः ॥ ३९
पूर्वं कीर्तितवान्श्रेष्ठो बभूवाथ प्रजापतिः। तस्य बाला निपतिता भूमौ चाऽऽकाशमार्गतः ४०
तस्मान्मेध्याः सदा काशाः श्राद्धकर्माणि पूजिताः। पिण्डनिर्वपणं तेषु कर्तव्यं भूतिमिच्छता ॥ ४१
प्रजापुष्टियुतिः कीर्तिः प्रज्ञाकान्तिसमन्विता। भवन्ति रुचिरा नित्यं विपाप्मानोऽघवार्जिताः ॥ ४२
सकृद्देवाऽऽस्तरेद्दर्भान्पिण्डार्थं दक्षिणामुखः। प्राग्दक्षिणाग्रनियतो विधिं चाप्यनुवक्ष्यति ॥ ४३
न दीनो वाऽपि वा क्रुद्धो न चैवान्यमना नरः। एकाग्रमाधाय मनः श्राद्धं कुर्यात्सदा बुधः ॥ ४४
निहन्मि सर्वं यदमेध्यवद्वेवेद्धताश्च सर्वेऽसुरदानवा मया ॥
रक्षांसि यक्षाश्च पिशाचसंघा हता मया यातुधानाश्च सर्वे ॥ ४५ ॥
३६
२८२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०७५श्लो०४६-६९] (श्राद्धकल्पः)
- एतेन मन्त्रेण सुसंयतात्मा तां वै वेदीं सकृदुल्लिख्य धीरः ।
भूतिं शिवां हि ध्रुवामिच्छमानः क्षिपेद्द्विजातिर्दिशमुत्तरां गतः ॥ ४६ ॥
एवं पित्रे दृष्टमन्नं हि यस्य तस्यासुरा वर्जयन्तीह सर्वे ।
यस्मिन्देशे पठ्यते एष मन्त्रस्तं वै देशं राक्षसा वर्जयन्ति ॥ ४७ ॥
(+अन्नप्राकारान्नाशुचिः साधु वीक्षन्र्चैवान्नं संस्पृशंश्चापि दद्यात् ।
पवित्रपाणिश्च भवेत्तथा हि सहस्रकृत्वस्य फलं समश्नुते ॥ ४८ ॥)
अनेन विधिना नित्यं श्राद्धं कुर्याद्द्विजाः सदा । मनसा काङ्क्षितं यद्यत्तत्तद्दद्युः पितामहाः ॥ ४९
पितरो हृष्टमनसो रक्षांसि विमनांसि च । भवन्त्येवं कृते श्राद्धे नित्यमेव प्रयत्नतः ॥ ५०
शूद्राः श्राद्धे क्षीरचाडु(?)बल्वजास्तरवस्तथा । वारणाश्च लवाश्चैव लववर्षांश्च नित्यशः ॥
एवमादीन्यथान्यानि तृणानि परिवर्जयेत् ॥ ५१
अञ्जनाभ्यञ्जनागन्धा मानुपलयनं(?)तथा । काशैः पुनर्भवैः कार्यं सर्वमेव फलं भवेत् ॥ ५२
काशाः पुनर्भावा ये च बर्हणा उपबर्हणाः । अथ ते पितरो देवा देवाश्च पितरः पुनः ॥ ५३
पुष्पगन्धादिधूपानामेष मन्त्र उदाहृतः । आहृत्य दक्षिणायां तु होमार्थे विप्रयत्नतः ॥ ५४
अस्वर्ग्यं लौकिकं वापि जुहुयात्कर्मसिद्धये । अन्तराधाय समिधं तथा होमो विधीयते ॥
समाहितेन मनसा प्रयताग्निः प्रयत्नतः ॥ ५५
अग्नये कव्यवाहाय स्वधा आङ्गिरसे नमः । सोमाय वै पितृमते स्वधा आङ्गिरसे नमः ॥
यमाय चैवाङ्गिरसे स्वधा नम इति ब्रुवन् ॥ ५६
इत्येते वै होममन्त्रा मन्त्राणामनुपूर्वशः । दक्षिणातोऽग्नये नित्यं सोमायान्तरतस्तथा ॥ ५७
एतयोरन्तरं नित्यं जुहुयाद्वै विवस्वते । उपचारं स्वधाकारं तथैवोल्लेखनं च यत् ॥ ५८
होमजप्ये नमस्कारः प्रोक्षणं च विशेषतः । अञ्जनाभ्यञ्जने चैव पिण्डसंवननं तथा ॥ ५९
अश्वमेधफलेनैव तत्स्मृतं मन्त्रपूर्वकम् । क्रियाः सर्वा यथोद्दिष्टाः प्रयत्नेन समाचरेत् ॥ ६०
बहुहव्यत्वमेवाग्नौ सुसमिद्धे विशेषतः । विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥ ६१
अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने । यजमानो भवेदन्धः सोऽपुत्र इति नः श्रुतम् ॥ ६२
अल्पेन्धनो वा रूक्षा वा विस्फुलिङ्गश्च सर्वशः । ज्वालाधूमोऽपसव्यश्च स तु वह्निर्न सिद्धये ॥ ६३
दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः । भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥ ६४
अर्चिष्मान्पाण्डिताशिखः सर्पिष्काञ्चनसंभवः । स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥ ६५
नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम् । अक्षयाः पूजितास्तेन भवन्ति पितरोऽव्ययाः ॥ ६६
स्थाल्युदुम्बरपात्राणि फलानि समिधस्तथा । श्राद्धे चातिपवित्राणि मेध्यानीति विशेषतः ॥ ६७
पवित्रं वा द्विजश्रेष्ठ शुद्धये जन्मकर्मसु । पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ॥ ६८
तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम् । कृत्वा समाहितं चित्तमग्नये वै करोम्यहम् ॥ ६९
* नास्त्ययं श्लोकः क. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
[अ० ७५-७६ श्लो० ७०-७७ । १-१४] वायुपुराणम् । २८३
( श्राद्धकल्पः )
अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः । पत्नीमादाय पुत्रांश्च जुहुयाद्धव्यवाहनम् ॥ ७० समानप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः । उदुम्बरास्तथा बिल्वचन्दना यज्ञियाश्च ते ॥ ७१ सरलो देवदारुश्च शालश्च खदिरस्तथा । समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥ ७२ ग्राम्याः कण्टाकिनश्चैव यज्ञिया येन केन च । पूजिताः समिदर्थे तु पितॄणां वचनं तथा ॥ ७३ समिद्भिः कल्कलेयाभिर्जुहुयाद्यो हुताशनम् । फलं यत्कर्मणस्तस्य तन्मे निगदतः शृणु ॥ ७४ आयसं सर्वकामीयमश्वमेधफलं हि तत् । श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस्तथा ॥ ७५ नीपो विभीतकश्चैव वल्लीभिश्च तथैव च । शकुनानां निवासश्च वर्जयेच्च महीरुहान् ॥ अयज्ञियाः स्मृता ये च वृक्षांश्चैव तु वर्जयेत् ॥ ७६ स्वधेति चैव मन्त्रान्ते पितॄणां वचनं तथा । स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ॥ ७७
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥
आदितः श्लोकानां समष्ट्यङ्काः--६५५७
अथ षट्सप्ततितमोऽध्यायः । श्राद्धकल्पः ।
सूत उवाच-- देवाश्च पितरश्चैव तेभ्योऽन्ये पितरस्तथा । आथर्वणविधिर्हैव प्रत्युवाच बृहस्पतिः ॥ १ पूजयेच्च पितॄन्पूर्वं देवांश्चापि विशेषतः । देवेभ्योऽपि पितॄन्पूर्वमर्चयन्तीह यत्नतः ॥ २ दक्षस्य दुहिता ख्याता लोके विश्वेति नामतः । विधिना सा तु धर्मज्ञ दत्ता धर्माय धर्मतः ॥ तस्याः पुत्रा महात्मानो विश्वे देवा इति श्रुतिः ॥ ३ प्रख्यातास्त्रिषु लोकेषु सर्वलोकनमस्कृताः । समस्तास्ते महात्मानश्चेरुरुग्रं महत्तपः ॥ ४ हिमवच्छिखरे रम्ये देवगन्धर्वसेविते । सर्वाप्सरोभिश्चरितं देवगन्धर्वसेवितम् ॥ ५ शुद्धेन मनसा प्रीताः पितरस्तानथाब्रुवन् । वरं वृणीध्वं प्रीताः स्म कं कामं करवामहे ॥ ६ एवमुक्तं तु पितृभिस्तदा त्रैलोक्यभावनः । प्रजानामधिपो ब्रह्मा विश्वानितीदमब्रवीत् ॥ ७
ब्रह्मोवाच-- महातेजा महादेवस्तपसा तैस्तु तापितः । तवसा तेन सुप्रीतः कं कामं विदधामि वः ॥ ८ एवमुक्तास्तदा विश्वे ब्रह्मणा लोककर्त्तृणा । ऊचुस्ते सहिताः सर्वे ब्रह्माणं लोकभाविनम् ॥ ९ श्राद्धेऽस्माकं भवेदंशो ह्येवं नः काङ्क्षितो वरः । प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदिवपूजितान् ॥ १० भविष्यत्येवमेवेति काङ्क्षितो वो वरस्तु यः । पितृभिस्तु तथेत्युक्त्वा एवमेतन्न संशयः ॥ ११ सहास्माभिस्तु वो भाव्यं यत्किंचित्क्रियते त्विह । अस्माकं कल्पिते श्राद्धे युष्मान्ग्रासनं ह वै ॥ १२ भविष्यति मनुष्येषु सत्यमेतद्ब्रवीमि ते । माल्यैर्गन्धैस्तथाऽन्नेन युष्मानग्रेऽर्चयिष्यति ॥ १३ प्रदाता चेति युष्माकमस्माकं दास्यते ततः । विसर्जनमथास्माकं पूर्वं पश्चात्तु देवताः ॥ १४
२८४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०७६श्लो०१५-३८] (श्राद्धकल्पः)
रक्षणं चैव श्राद्धस्य आतिथ्यं च विधिद्वयम् । भूतानां देवतानां च पितॄणां श्राद्धकर्मणि ॥
एवं विधिकृतः (तं) सम्यक्सर्वमेतद्भविष्यति ॥ १५
एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह । भूतानुग्रहकृद्देवः संचचार यथासुखम् ॥ १६
वेदे पञ्च महायज्ञा नराणां समुदाहृताः । एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः ॥ १७
यत्र यास्यन्ति दातारः संस्थानं वै निबोधत । निर्भयं निरहंकारं निःशोकं निर्व्यथक्लमम् ॥
ब्रह्मस्थानमवाप्नोति सर्वकामपुरस्कृतम् ॥ १८
शूद्रेणापि प्रकर्तव्याः पञ्चैते मन्त्रवर्जिताः । अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ॥ १९
ऋणं च भुङ्क्ते पापात्मा यः पचेदात्मकारणात् । तस्मान्निर्वर्तयेत्पञ्च महायज्ञान्सदा बुधः ॥ २०
नैवेद्यं केचिदिच्छन्ति जीवत्यपि प्रयत्नतः । उदक्पूर्वं बलिं कुर्यादुदकुंभं तथैव च ॥ २१
बलिं सुविदितं कुर्यादुच्चादुच्चतरं क्षिपेत् । परशृङ्गगवां पूर्वं बलिं सूक्ष्मं समुत्क्षिपेत् ॥ २२
न निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति । इष्टेनान्नेन भक्ष्यैश्च भोजयेत यथाविधि ॥
विधानं वेदविहितमेतद्वक्ष्यामि यत्नतः ॥ २३
देवदेवा महात्मानो ह्येतेऽपि पितरो ह्युत । इच्छन्ति केचिदाचार्याः पश्चात्पिण्डनिवेदनम् ॥ २४
पूजनं चैव विप्राणां पूर्वमेव हि नित्यशः । तद्धिधर्मार्थकुशलानित्युवाच बृहस्पतिः ॥ २५
पूर्वं निवेदयेत्पिण्डं पश्चाद्विप्रांश्च भोजयेत् । योगात्मानो महात्मानः पितरो योगसंभवाः ॥
सोममाप्याययन्त्येते पितरो योगमास्थिताः ॥ २६
तस्माद्दद्याच्छुचिः पिण्डान्योगिभ्यस्तत्परायणः । पितॄणां हि भवेदेतत्त्साक्षादिव हुतं हविः ॥ २७
ब्राह्मणानां सहस्रेभ्यो योगी चाग्रासने यदि । यजमानं च भोक्तूंश्च नौरिवाम्भसि तारयेत् ॥ २८
असतां प्रग्रहो यत्र सतां चैव विमानना । दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ २९
हित्वाऽऽऽगमं सधर्माणं बालिशं यत्र भोजयेत् । आदिकर्म समुत्सृज्य दाता तत्र विनश्यति ॥ ३०
पिण्डमग्नौ सदा दद्याद्रोगार्थी तु प्रयत्नतः । प्रजार्थी योषिते दद्यान्मध्यमं तत्र पूर्ववत् ॥ ३१
उत्तमां द्युतिमान्विच्छन्गोषु नित्यं प्रयच्छति । प्रज्ञां पूजां यशः कीर्तिं शोषु नित्यं प्रयच्छति ॥ ३२
प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति । सौकुमार्यमथान्विच्छन्कुक्कुटेभ्यः प्रयच्छति ॥ ३३
एवमेतत्समुद्दिष्टं पिण्डनिर्वपणातत्फलम् । आकाशं शमयेद्वाऽपि स्थितोऽप्सु दक्षिणामुखः ॥
पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भवेत् ॥ ३४
एकं विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः । अनुज्ञाते तु तैर्विप्रैर्वानमुद्धि(द्दि)यतामिति (?) ३५
पुष्पाणां च फलानां च भक्ष्याणामन्नतस्तथा । अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ॥ ३६
भक्ष्यमन्नं तथा पेयमनुत्तमफलानि च । हुत्वा चाग्नौ ततः पिण्डान्निर्वपेद्दक्षिणामुखः ॥ ३७
( * वैवस्वताय सोमाय हुत्वा पिण्डं निवेद्य सः । उदकानयनं कृत्वा पश्चाद्विप्रांश्च भोजयेत् ॥
आनुपूर्व्यात्तथा विप्रान्भक्ष्यैरन्नैश्च शक्तितः ॥ ३८
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
[अ० ७६-७७ श्लो० ३९-४३।१-१८] वायुपुराणम् । २८५
( श्राद्धकल्पः )
स्निग्धैर्भक्ष्यैः सुगन्धैश्च तर्पयेत रसैस्तथा । एकाग्रः पर्युपासीत प्रयतः प्राञ्जलिःस्थितः ॥
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ॥ ३९
अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं सत्कृतं च यत् । ततो यज्ञं च दानं च प्रयच्छन्ति पितामहाः ॥ ४०
अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु । आनुपूर्व्येण विहितं तन्मे निगदतः शृणु ॥ ४१
प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः । ततोऽत्र विकिरं कुर्याद्विधिवदृष्टेन कर्मणा ॥ ४२
स्वधां वाच्य ततो विप्रा विधिवद्भरिदक्षिणान् । अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् ॥
प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ॥ ४३
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥
आदितः श्लोकानां समष्ट्यङ्काः—६९५१
अथ सप्तसप्ततितमोऽध्यायः ।
श्राद्धकल्पः ।
बृहस्पतिरुवाच—
सकृदभ्यर्चिताः प्रीता भवन्ति पितरोऽव्ययाः । योगात्मानो महात्मानो विपाप्मानो महौजसः ॥ १
प्रेत्य च स्वर्गलाभाय कावेध्वर्ये सुविस्तरम् । येषां चाप्यनुगृह्णन्ति मोक्षप्राप्तिक्रमेण तु ॥ २
तानि वक्ष्याम्यहं सौम्याः सरांसि सरितस्तथा । तीर्थानि चैव पुण्यानि देशान्शैलांस्तथाऽऽश्रमान्
पुण्यो यस्त्रिषु लोकेष्वमरकण्टकपर्वतः । पर्वतप्रवरः पुण्यः सिद्धचारणसेवितः ॥ ४
यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च । तपः सुदुश्चरं तेपे भगवानाङ्गिराः पुरा ॥ ५
यत्र मृत्योर्गतिर्ना तथैवासुररक्षसाम् । न भयं चैव वाऽलक्ष्म्यार्वङ्गोमिर्धारिष्यति ॥ ६
तेजसा यशसा चैव भ्राजते स नगोत्तमः । शृङ्गमाल्यवतो नित्यं वह्निः संवर्तको यथा ॥ ७
मृदवश्च सुगन्धाश्च हेमाभाः प्रियदर्शनाः । शान्ताः कुशा इति ख्याताः पिवन्दक्षिणनर्मदाम् ॥ ८
दृष्टवान्स्वर्गसोपानं भगवानाङ्गिराः पुरा । अग्निहोत्रे महातेजाः प्रस्तरार्थकुशोत्तमान् ॥ ९
तेषु दर्भेषु पिण्डान्योऽमरकण्टकपर्वते । दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम् । १०
तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्धनम् । अन्तर्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा ॥ ११
तत्र ज्वालारसः पुण्यो दृश्यतेऽद्यापि सर्वशः । सशल्यानां च सत्त्वानां विशल्यकरणी नदी ॥ १२
प्राग्दक्षिणा तु सावर्ता वापी सा पर्वतोत्तमे । कालिङ्गदेशपाशार्धे पितॄणां प्रीतिवर्धनम् ॥ १३
सिद्धक्षेत्रमृषिश्रेष्ठा यदुक्तं परमं भुवि । संमतो देवदैत्यानां श्लोकमप्युशना जगौ ॥ १४
धन्यास्ते पुरुषा लोके ये पाप्यामकरकण्टकम् । पितॄन्संतर्पयिष्यन्ति श्राद्धे पितृपरायणाः ॥ १५
अल्पेन तपसा सिद्धिं गमिष्यन्ति न संशयः । सकृदेवार्चितास्तत्र स्वर्गममरकण्टके ॥ १६
महेन्द्रपर्वते रम्ये पुण्यं शक्रनिषेवितम् । तत्राऽऽरुह्य भवेत्प्रीतिः श्राद्धं चैव महत्फलम् ॥ १७
बिल्वाधः शिखरे युक्ता दिव्यं चक्षुः प्रवर्तते । अदृश्यं चैव भूतानां देववच्चरते महीम् ॥ १८
२८६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०७२श्लो०१९-४६] ( श्राद्धकल्पः )
सप्तगोदावरे चैव गोकर्णे च तपोवने । अश्वमेधफलं तत्र स्नात्वा च लभते नरः ॥ १९ धूतपापस्थलं प्राप्य पूतः स्नात्वा भवेन्नरः । रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः ॥ २० गोकर्णे वर्णितं विप्रैर्नास्तिकानां निदर्शनम् । अब्राह्मणस्य सावित्री पठतः संप्रणश्यति ॥ २१ देवर्षिभवने शृङ्गे सिद्धचारणसेविते । आरुह्य तं तु नियमात्ततो यान्ति त्रिविष्टपम् ॥ २२ दिव्यैश्चन्दनवृक्षैश्च पादपैरुपशोभितम् । आपश्चन्दनसंपृक्ता वहन्ति सततं यतः ॥ २३ नदी प्रवर्तते ताभ्यास्ताम्रपर्णीति नामतः । योषेवं समदाखेदा दक्षिणं याति सागरम् ॥ २४ नद्यास्तस्यास्तु या आपो मूर्च्छमाना महोदधौ । शङ्खा भवन्ति मुक्ताश्च जायन्ते शङ्खमुक्तिकाः ॥ २५ उदकानयनं कृत्वा शङ्खमौक्तिकसंयुतम् । आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम् ॥ २६ चन्दनेभ्यः प्रयुक्तानां शङ्खानां मौक्तिकस्य च । पापकर्तॄनपि पितॄंस्तारयन्ति यथाश्रुति ॥ २७ *चन्द्रतीर्थे वरे पुण्ये पुण्यकृद्भिनिषेविते । चन्द्रतीर्थे कुमार्यां तु कावेर्यां प्रभवेऽक्षये ॥ श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ ॥ २८ एकस्था यत्र दृश्यन्ते वृक्षा शौशिरपर्वते । पालाशाः खादिरा बिल्वा प्लक्षाश्चथाविकङ्कताः ॥ २९ एतद्धि मण्डलं सिद्धं याज्ञियं द्विजसत्तमाः । अस्मिन्मुक्त्वा जनोऽज्ञानि क्षिप्रं यात्यमरावतीम् ॥ ३० कर्माणि स्वप्रयुक्तानि सिध्यन्ति प्रभवात्यये । दृषत्सक्तानि पितृषु प्रयुक्तानि भवन्त्युत ॥ ३१ पितॄणां दुहिता पुण्या नर्मदा सरितां वरा । तत्र श्राद्धानि दत्तानि अक्षयाणि भवन्त्युत ॥ ३२ माठरस्य वने पुण्ये सिद्धचारणसेवितम् । अन्तर्धानं न गच्छन्ति सकास्तस्मिन्महागिरौ ॥ ३३ विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनम् । पापदधारां न पश्यन्ति धारां पश्यन्ति साधवः ॥ ३४ तस्यां तु दृश्यते पापं केषांचित्पापकर्मणाम् । स्पृष्टा भवति सा धारा प्रायशः शुभकर्मणाम् । ३५ कौशलायां मतङ्गस्य वापी पापानिसूदिनी । स्नातास्तस्यां दिवं यान्ति कामचाराविहंगमाः ॥ ३६ कुमारकोशलातीर्थे पर्वते पालपञ्जरे । पाण्डुकूले समुद्रान्ते पण्ढारकवने तथा ॥ ३७ विमले च विपापे च सत्कृत्य प्रभवेऽभयम् । श्रीवृक्षे गृध्रकूटे च जम्बूमार्गे च नित्यशः ॥ ३८ असितस्य गुरोः पुण्ये योगाचार्यस्य धीमतः । तत्रापि श्राद्धमानन्त्यमसितायां च नित्यशः ॥ ३९ पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलम् । महोदधौ प्रभासे च तस्मादेवं विनिर्दिशेत् ॥ ४० देविकायां वृषो नाम कूपः सिद्धनिषेवितः । समुत्पतन्ति तस्याऽऽपो गवां शब्देन नित्यशः ॥ ४१ योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतैः । दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥ ४२ अक्षयं सर्वकामीयं श्राद्धं प्रीणाति वै पितॄन् । जातवेदः शिला तत्र साक्षाद्धर्मः सनातनी ॥ ४३ यस्त्वग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते । अग्निः शान्तः पुनर्जातस्तास्मिन्दत्तं तदक्षयम् ॥ ४४ दशाश्वमेधिके तीर्थे तीर्थे पञ्चाश्वमेधिके । यथोद्दिष्टं फलं तेषां क्रतूनां नात्र संशयः ॥ ४५ ख्यातं हयाशिरो नाम तीर्थं सद्यो वरप्रदम् । श्राद्धं तत्र तदाऽक्षय्यं दत्त्वा स्वर्गे च मोदते ॥ ४६
* इदमर्धं नास्ति ख. ग. घ. ङ. पुस्तकेषु ।
[अ० ७७ श्लो० ४७-७१] वायुपुराणम् । २८७
(श्राद्धकल्पः)
श्राद्धं कुम्भे विमुञ्चन्ति ज्ञेयं पापनिषूदनम् । श्राद्धं तत्राक्षयं प्रोक्तं जप्यहोमतपांसि च ॥ ४७
अजतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन् । दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम् ॥
पृथिव्यामक्षयं दत्तं नीरुजा यत्र पाण्डवाः ॥ ४८
योगेश्वरैः सदा जुष्टं सर्वपापबहिष्कृतैः । दद्याच्छाद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥ ४९
अर्चितास्तेन वै साक्षाद्भवन्ती पितरः सदा । आस्मिँल्लोके वशी यः स्यात्प्रेत्य स्वर्गे स मोदते ॥ ५०
प्रायशः प्रवरः पुण्यः शिवो नाम हृदस्तथा । तत्र व्याससरः पुण्यं दिव्यं मल्लसरस्तथा ॥ ५१
उज्जन्तः पर्वतः पुण्यो यस्मिन्न्यग्रोधरालयः । तत्रैव चाऽऽश्रमः पुण्यो वसिष्ठस्य महात्मनः ॥ ५२
ऋग्यजुःसामशिरसः कापोतः पुष्पसाह्वयः । आख्यातः पञ्चमो वेदो सृष्ट्वा हेतुेषु ब्रह्मणा ॥ ५३
गत्वाैतान्मुच्यते पापाद्विजो वह्निः सनातनः । श्राद्धं चाऽऽनन्त्यमेतेषु जप्यहोमतपांसि च ॥ ५४
पुण्डरीके महातीर्थे पुण्डरकसमं फलम् । ब्रह्मतीर्थे महातीर्थे अश्वमेधफलं लभेत् ॥ ५५
सिन्धुसागरसंभेदे तथा पञ्चनदेऽक्षयम् । कीरकात्मा ततः पुण्यो मण्डवायां च पर्वते ॥ ५६
देयं सप्तरदे श्राद्धं मानसे च विशेषतः । महाकूटे च वन्दे च गिरौ त्रिककुदे तथा ॥ ५७
संध्यायां च महाविद्यां दृश्यते महदद्भुतम् । अश्रद्दधानान्नाभ्येति साऽभ्येति च धृतव्रतान् ॥ ५८
जातवेदःशिला तत्र साक्षादग्नेः सनातनी । श्राद्धानि चाभिकार्यं च तत्र कुर्यात्सदाऽक्षयम् ॥ ५९
संशयित्वैकमेकंन सायाह्नं प्रति नित्यशः । *तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिना ॥ ६०
कृतात्मा वाऽकृतात्मा वा यत्र विज्ञायते नरः । स्वर्ग्यमार्गप्रदं नाम तीर्थं सद्योवरप्रदम् ॥ ६१
वैराण्युत्सृज्य तस्मिंस्तु दिवं सप्तर्षयो गताः ॥
अद्यापि तानि दृश्यन्ते वैराण्येव गतानि तु । स्नात्वा स्वर्गमवाप्नोति तस्मिंस्तीर्थोत्तमे नरः ॥ ६२
ख्यातामायतनं तत्र नन्दिसिद्धनिषेवितम् । नन्दीश्वरस्य या मूर्तिर्दुराचारैर्न दृश्यन्ते ॥ ६३
दृश्यन्ते काञ्चना यूपाः संशिष्ये (दृष्टे) भास्करोदये । कृत्वा प्रदक्षिण तांस्तु गच्छन्त्यन्तर्हिता दिवम् ॥
सर्वतश्च कुरुक्षेत्रं सुतीर्थं च विशेषतः । पुण्यं सनत्कुमारस्य योगेशस्य महात्मनः ॥
कीर्त्यते च तिलान्दत्त्वा पितॄणां वै सदाऽक्षयम् ॥ ६४
ओजसे चाक्षयं श्राद्धं धर्मराजनिवेशने । श्राद्धं दत्तममावस्यां विधिना च यथाक्रमम् ॥ ६५
पुनः संनिहितानां वै कुरुक्षेत्रे विशेषवः । अर्चयेद्वा पितॄंस्तत्र सत्पुत्रस्त्वनृणो भवेत् ॥ ६६
विनशने सरस्वत्यां प्लक्षप्रश्रवणे तथा । व्यासतीर्थे सरस्वत्यां विप्लक्षे च विशेषतः ॥ ६७
देयमोङ्कारपवने श्राद्धमक्षयमिच्छता । सर्वतश्चैव गङ्गायां मैनाके च नगोत्तमे ॥ ६८
यमुनाप्रभवे चैव सर्वपापैः प्रमुच्यते । अत्युष्णाश्चातिशीताश्च आपस्तत्र निदर्शनम् ॥ ६९
यमस्य भागिनी पुण्या मार्तण्डदुहिता तथा । तत्राक्षयं तदा श्राद्धं पितृभिः पूर्वकीर्तितम् ॥ ७०
ब्रह्मतुङ्गह्रदं स्नात्वा सद्यो भवति ब्राह्मणः । तस्मिन्हि श्राद्धमानन्त्यं जपहोमतपांसि च ॥ ७१
* एतदर्धस्थानेऽयं पाठः ख. पुस्तके—‘तस्मिन्देशे तथा श्राद्धे पितॄणामक्षयार्थिनाम्’ इति ।