वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
[अ० २४ श्लो० ८२-१०५] वायुपुराणम् । ७१
(शार्वस्तवः)
स्वप्नभूतं पुनः स्वर्गं दुःखानि नरकास्तथा । विदित्वा चाऽऽगमं सर्वमवश्यं भवितव्यताम् ॥ ८२
ऋभुं सनत्कुमारं च दृष्ट्वा तव वशे स्थितौ । त्रयस्तु त्रीन्गुणान्छित्वा आत्मजाः सनकादयः ॥
वैवर्त्तेन तु ज्ञानेन निवृत्तास्ते महौजसः ॥ ८३
ततस्तेष्वप्रवृत्तेषु सनकादिषु वै त्रिषु । भविष्यसि विमूढस्तु मायया शंकरस्य तु ॥ ८४
एवं कल्पे तु वै कल्पे संज्ञा नश्यति तेऽनघ । कल्पशेषाणि भूतानि सूक्ष्माणि पार्थिवानि च ॥ ८५
सा चैषा ह्यैश्वरी माया जगतः समुदाहृता । स एष पर्वतो मेरुर्देवलोको ह्युदाहृतः ॥ ८६
तवैवेदं हि माहात्म्यं दृष्ट्वा चाऽऽत्मानमात्मना । ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामम्बुजेक्षणम् ॥ ८७
महादेवं महायोगं भूतानां वरदं प्रभुम् । प्रणवात्मानमासाद्य नमस्कृत्या(त्य) जगद्गुरुम् ॥
त्वां च मां चैव संक्रुद्धो निश्वासाग्निर्दहेदयम् ॥ ८८
एवं ज्ञात्वा महायोगमभ्युत्तिष्ठ महाबल । अहं त्वामग्रतः कृत्वा स्तोष्येऽहमनलप्रभम् ॥ ८९
सूत उवाच--
ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः । अतीतैश्च भविष्यैश्च वर्तमानैस्तथैव च ॥ ९०
नामाभिश्चान्दसैश्र्चैव इदं स्तोत्रमुदीरयत् ॥
नमस्तुभ्यं भगवते सुव्रतेऽनन्ततेजसे । नमः क्षेत्राधिपतये बीजिने शूलिने नमः ॥ ९१
अमेद्यायोर्ध्वमेद्राय नमो वैकुण्ठरेतसे । नमो ज्येष्ठाय श्रेष्ठाय ह्यपूर्वप्रथमाय च ॥ ९२
नमो हव्याय पूज्याय सद्योजाताय वै नमः । (*गह्वराय धनेशाय हैमचीराम्बराय च ॥ ९३
नमस्ते ह्यस्मदादीनां भूतानां प्रभवाय च । वेदकर्मविदातानां द्रव्याणां प्रभवे नमः ॥ ९४
÷ग्रहाणां प्रभवे चैन ताराणां प्रभवे नमः । ) × नभो योगस्य प्रभवे सांख्यस्य प्रभवे नमः ॥
नमो ध्रुवनिशीथानामृषीणां पतये नमः ॥ ) ९५
विद्युदशनिमेघानां गर्जितप्रभवे नमः । उदधीनां च प्रभवे द्वीपानां प्रभवे नमः ॥ ९६
अद्रीणां प्रभवे चैन वर्षाणां प्रभवे नमः । नमो नदानां प्रभवे नदीनां प्रभवे नमः ॥ ९७
नमश्चौषधिप्रभवे वृक्षाणां प्रभवे नमः । धर्माध्यक्षाय धर्मार्थ स्थितीनां प्रभवे नमः ॥ ९८
नमो रसानां प्रभवे रत्नानां प्रभवे नमः । नमः क्षणानां प्रभवे कलानां प्रभवे नमः ] ९९
निमेषप्रभवे चैव काष्ठानां प्रभवे नमः । अहोरात्रार्धमासानां मासानां प्रभवे नमः ॥ १००
नम ऋतूनां प्रभवे संख्यायाः प्रभवे नमः । प्रभवे च परार्धस्य परस्य प्रभवे नमः ॥ १०१
नमः पुराणप्रभवे युगस्य प्रभवे नमः । चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे ॥ १०२
कल्पोदयनिबद्धानां वार्तानां प्रभवे नमः । नमो विश्वस्य प्रभवे ब्रह्मादिप्रभवे नमः ॥ १०३
विद्यानां प्रभवे चैव विद्यानां पतये नमः । नमो व्रतानां पतये मन्त्राणां पतये नमः ॥ १०४
पितॄणां पतये चैव पशूनां पतये नमः । वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च ॥ १०५
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । ÷ इदमर्द्धं क. ख. ग. पुस्तकेषु नास्ति । × धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
७२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० २४ श्लो० १०६–१३१] (शार्वस्तवः)
सुचारुचारुकेशाय ऊर्ध्वचक्षुःशिराय च । नमः पशूनां पतये गोवृपेन्द्रध्वजाय च ॥ १०६ प्रजापतीनां पतये सिद्धानां पतये नमः । (*दैत्यदानवसंघानां रक्षसां पतये नमः ॥ १०७ गन्धर्वाणां च पतये यक्षाणां पतये नमः । ) गरुडोरगसर्पाणां पक्षिणां पतये नमः ॥ १०८ गोकर्णाय च गोष्ठाय शङ्कुकर्णाय वै नमः । वराहायाप्रमेयाय रक्षोधिंपतये नमः ॥ १०९ नमोऽप्सरसां पतये गणानां पतये नमः । अम्भसां पतये चैव तेजसां पतये नमः ॥ ११० नमोऽस्तु लक्ष्मीपतये श्रीमते हिंमते नमः । बलाबल्समूहाय सक्षोभ्यक्षोभणाय च ॥ १११ दीर्घशृङ्गेकशृङ्गाय वृषभाय ककुद्मिने । नमः स्थैर्याय वपुषे तेजसे सुप्रभाय च ॥ ११२ भूताय च भविष्याय वर्तमानाय वै नमः । सुवर्चसेऽथ वीराय शूराय क्षतिगाय च ॥ ११३ वरदाय वरेण्याय नमः सर्वगताय च । नमो भूताय भव्याय भवाय महते तथा ॥ ११४ सर्वाय महतेऽजाय नमः सर्वगताय च । जनाय च नमस्तुभ्यं तपसे वरदाय च ॥ नमो वन्द्याय मोक्षाय जनाय नरकाय च ॥ ११५ भवाय भजमानाय इष्टाय याजकाय च । अभ्युदीर्णाय दीप्ताय तत्त्वाय निर्गुणाय च ॥ ११६ नमः पाशाय हस्ताय नमः स्वाभरणाय च । हुताय अपहुताय प्रहुतपाशिताय च ॥ ११७ नमस्त्विष्टाय मूर्ताय ह्यभिष्टेमर्त्विजाय च । (÷नम ऋताय सत्याय भूताधिपतये नमः ॥ ) ११८ सदस्याय नमश्चैव दक्षिणावभृथाय च । अहिंसायैाथ लोकानां पशुमन्त्रौषधाय च ॥ ११९ नमस्तुष्टिप्रदानाय त्र्यम्बकाय सुगन्धये । नमोऽस्त्विन्द्रियपतये परिहाराय स्रग्विणे ॥ १२० विधाय विधुरूपाय विश्वतोऽक्षिमुखाय च । सर्वतःपाणिपादाय रुद्रायाप्रमिताय च ॥ १२१ नमो हव्याय कव्याय हव्यकव्याय वै नमः । नमः सिद्धाय मेध्याय चेष्टाय त्वव्ययाय च ॥ १२२ सुवीराय सुवोराय सक्षोभ्यक्षोभणाय च । सुमेधसे सुपजाय दीप्ताय भास्कराय च ॥ १२३ नमो नमः सुपर्णाय तपनीयनिभाय च । विरूपाक्षाय त्र्यक्षाय पिङ्गलाय महौजसे ॥ १२४ दृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च । नमो धूम्राय श्वेताय कृष्णाय लोहिताय च ॥ १२५ पिशिताय पिशङ्गाय पीताय च निषङ्गिणे । नमस्ते सविशेपाय निर्विशेषाय वै नमः ॥ १२६ = नम इज्याय पूज्याय चोपजीव्याय वै नमः । नमः क्षेम्याय वृद्धाय वत्सलाय नमो नमः ॥ नम ऋताय सत्याय सत्यासत्याय वै नमः ॥ ) १२७ नमो वै पद्मवर्णाय मृत्युघ्नाय च मृत्यवे । नमः श्यामाय गौराय कद्रवे रोहिताय च ॥ १२८ ( × नमः कान्ताय सन्ध्याभ्रवर्णाय वायुरूपिणे । ) नमः कपालहस्ताय दिग्वस्त्राय कपर्दिने ॥ १२९ अप्रमेयाय शर्वाय ह्यवध्याय वराय च । पुरस्तात्पृष्ठतश्चैव विभ्रान्ताय कृशानवे ॥ १३० दुर्गाय महते चैव रोधाय कपिलाय च । अर्कप्रभशरीराय बलिने रंहसाय च ॥ १३१
* धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति । ÷ इदमर्धं ख. ग. घ. ङ. पुस्तकेषु नास्ति ।
= अस्मिन्नर्धस्थाने इदमर्धं दृश्यते ख. घ. ङ्. पुस्तकेषु । महासंध्याभ्रवर्णाय चारुरूपाय दक्षिणे ।
× धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति ।
पिनाकिने प्रसिद्धाय स्फीताय प्रस्तुताय च। सुमेधसेऽक्षमालाय दिग्वासाय शिखण्डिने ॥ १३२
[अ० २४ श्लो० १३२-१५५] वायुपुराणम्। ७३
(शार्वस्तवः)
पिनाकिने प्रसिद्धाय स्फीताय प्रस्तुताय च। सुमेधसेऽक्षमालाय दिग्वासाय शिखण्डिने ॥ १३२
चित्राय चित्रवर्णाय विचित्त्राय धराय च। चेकितानाय तुष्टाय नमस्त्वनिहिताय च ॥ १३३
नमः क्षान्ताय शान्ताय वज्रसंहननाय च। रक्षोघ्नाय मखघ्नाय शितिकण्ठोर्ध्वरेतसे ॥ १३४
अरिहाय कृतान्ताय तिग्मायुधधराय च। संमोदाय प्रमोदाय हरिण्यायैव ते नमः ॥ १३५
प्रणवप्रणवेशाय भक्तानां शर्मदाय च। मृगव्याधाय दक्षाय दक्षयज्ञहराय च ॥ १३६
सर्वभूताय भूताय सर्वेषातिशयाय च। पुरभेत्रे च शान्ताय सुगन्धाय वरैषवे ॥ १३७
पूष्णो दन्तविनाशाय भग्ननेत्रान्तकाय च। कणादाय वरिष्ठाय कामाङ्गदहनाय च ॥ १३८
रवेः करालचक्राय नागेन्द्रदमनाय च। दैत्यानामन्तकायाथो दिव्याक्रन्दकराय च ॥ १३९
श्मशानरतिनित्याय नमस्त्र्यम्बकधारिणे। नमस्ते प्राणपालाय धवमालाधराय च ॥ १४०
प्रहीणशोकैर्विविधैर्भूतैः परिवृताय च। नरनारीशरीराय देव्याः प्रियकराय च ॥ १४१
जटिने दण्डिने तुभ्यं व्यालयज्ञोपवीतिने। नमोऽस्तु नृत्यशीलाय वायनृत्यप्रियाय च ॥ १४२
मन्यवे गीतशीलाय सुगीतं गायते नमः। कटककराय भीमाय चोग्ररूपधराय च ॥ १४३
बिभीषणाय भीमाय भगप्रमथनाय च। सिद्धसंघातगीताय महाभागाय वै नमः ॥ १४४
नमो मुकाट्टहासाय क्ष्वेडितास्फोटिताय च। नदते कूर्दते चैव मनः प्रमुदिताय च ॥ १४५
नमोऽद्भुताय स्वपते धावते प्रस्थिताय च। ध्यायते जृम्भते चैव तुदते द्रवते नमः ॥ १४६
चलते क्रीडते चैव लम्बोदरशरीरिणे। नमस्कृताय कम्पाय मुण्डाय विकराय च ॥ १४७
नम उन्मत्तवेषाय किंकिणीकाय वै मनः। नमो विकृतवेषाय क्रूरोयामर्ष णाय च ॥ १४८
अपमेयाय दीप्ताय दीप्तये निर्गुणाय च। नमः प्रियाय वादाय मुद्रामणिधराय च ॥ १४९
(*नमस्तोकाय तनवे गुणैरप्रतिमाय च। नमो गणाय गुह्याय गम्याय गमनाय च ॥) १५०
लोकधात्री त्वियं भूमिः पादौ सज्जनसेवितौ। सर्वेषां सिद्धयोगानामाधिष्ठानं तवोदरम् ॥ १५१
मध्येऽन्तरिक्षं विस्तीर्णं तारागणविभूषितम्। तारापथ इवाऽऽभाति श्रीमान्हारस्त्ववोरसि ॥ १५२
दिशो दश भुजास्ते वै केयूराङ्गदभूषिताः। विस्तीर्णपरिणाहश्च नीलाम्बुदचयोपमः ॥ १५३
कण्ठस्ते शोभते श्रीमान्हेमसूत्रविभूषितः। दंष्ट्राकरालदुर्धर्षमनौपम्यं सुखं तव ॥ १५४
पद्ममालाकृतोष्णीषं शीर्षण्यां शोभते कथम्। दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं भूर्शनिलो बले ॥ १५५
* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति।
१०
७४ | श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० २४-२५ श्लो० १५६-१६५।१-६] --- | ( मधुकैटभोत्पत्तिविनाशवर्णनम् )
तष्ण्यमग्नौ प्रभा चन्द्रे खे शब्दः शैत्यमप्सु च । अक्षरोत्तमनिष्प(स्प)न्दान्गुणनेतान्विदुर्बुधाः ॥ १५६ जपो जप्यो महायोगी महादेवो महेश्वरः । पुरेशयो गुहावासी खेचरो रजनीचरः ॥ १५७ तपोनिधिर्गुहगुरुर्नन्दनो नन्दिवर्धनः । हयशीर्षो धराधाता विधाता भूतवाहनः ॥ १५८ बौद्धव्यो बोधनो नेता धूर्वहो दुष्पकम्पकः । वृहद्रथो भीमकर्म वृहत्कीर्तिर्धनंजयः ॥ १५९ घण्टाप्रियो ध्वजी छत्री पताकाध्वजिनीपतिः । कवची पट्टिशी शङ्खी पाशहस्तः परश्वभृत् ॥ १५९ अगस्त्वमनघः शूरो देवराजारिमर्दनः । त्वां प्रसाद्य पुरास्माभिर्द्विषन्तो निहता युधि ॥ १६० अभिस्त्वं चार्वणान्सर्वान्पिबन्नेव न तृप्यसे । कोषागारः प्रसन्नात्मा कामहा कामदः प्रियः ॥ ब्रह्मण्यो ब्रह्मचारी च गोधनस्त्वं शिष्टपूजितः । वेदानामव्ययः कोशस्त्वया यज्ञः मकल्पितः ॥ १६१ हव्यं च वेदं वहति वेदोक्तं हव्यवाहनः । प्रीते त्वयि महादेव वयं प्रीता भवामहे ॥ १६२ भवानीशोऽनादिमान्धामराशिर्ब्रह्मा लोकानां त्वं कर्ता त्वादिसर्गः । सांख्याः प्रकृतिभ्यः परं त्वां विदित्वाऽक्षीणध्यानास्ते न मृत्युं विशन्ति ॥ १६३ योगेन त्वां ध्यानिनो नित्ययुक्ता ज्ञात्वा भोगान्संत्यजन्ते पुनस्तान् ॥ येऽन्ये मर्त्यास्त्वां प्रपन्ना विशुद्धास्ते कर्मभिर्दिव्यभोगान्भजन्ते ॥ १६४ अप्रमेयस्य तत्त्वस्य यथा विद्मः स्वशक्तितः । कीर्तितं तव माहात्म्यमपारं परमात्मनः ॥ शिवो नो भव सर्वत्र योऽसि सोऽसि नमोऽस्तु ते ॥ १६५
इति श्रीमहापुराणे वायुप्रोक्ते शार्वस्तवो नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
आदितः श्लोकानां समष्ट्यङ्काः- १८३६
अथ पञ्चविंशोऽध्यायः ।
मधुकैटभोत्पत्तिविनाशवर्णनम् ।
सूत उवाच-- संपिबन्निव तौ दृष्ट्वा मधुपिङ्गायतेक्षणः । प्रहृष्टवदनोऽत्यर्थमभवच्च स्वकीर्तनात् ॥ १ उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः । पिनाकी खण्डपरशुर्भूतप्रान्ताक्षिलोचनः ॥ २ ततः स भगवान्देवः श्रुत्वा वाक्यामृतं तयोः । जानन्नपि महाभागः प्रीतिपूर्वमथाब्रवीत् ॥ ३ कौ भवन्तौ महात्मानौ परस्परहितैषिणौ । समेतावम्बुजाभाक्षौ तस्मिन्घोरे जलप्लवे ॥ ४ तावूचतुर्महात्मानौ संनिरीक्ष्य परस्परम् । भगवन्किंच तथ्येन विज्ञातेन त्वया विभो ॥ कुत्र वा सुखमानन्त्यमिच्छाचारमृते त्वया ॥ ५ * तयोस्तद्वचनं श्रुत्वा ह्यभिनन्द्यानुमान्य च । उवाच भगवान्देवो मधुरश्लक्ष्णया गिरा ॥ भो भो हिरण्यगर्भ त्वां त्वां च कृष्ण वदाम्यहम् ॥ ६
* इदमर्धं नास्ति क. पुस्तके ।
तेनैवमुक्ते वचने ब्रह्माणं विष्णुरब्रवीत् । ब्रूहि ब्रूहि महाभाग वरो यस्ते विवक्षितः ॥ ८
[अ० २५ श्लो० ७-३२] वायुपुराणम् । ७५
( मधुकैटभोत्पत्तिविनाशवर्णनम् )
प्रीतोऽहमनया भक्त्या शाश्वताक्षरयुक्तया । भवन्तौ माननीयौ वै मम ह्येतरावुभौ ॥
युवाभ्यां किं ददाम्यद्य वराणां वरमुत्तमम् ॥ ७
तेनैवमुक्ते वचने ब्रह्माणं विष्णुरब्रवीत् । ब्रूहि ब्रूहि महाभाग वरो यस्ते विवक्षितः ॥ ८
प्रजाकामोऽस्म्यहं विष्णो पुत्रमिच्छामि धूर्वहम् । ततः स भगवान्ब्रह्मा वरेप्सुः पुत्रलिप्सया ॥ ९
अथ विष्णुरुवाचेदं प्रजाकामं प्रजापतिम् । वीरमप्रतिमं पुत्रं यत्त्वमिच्छसि धूर्वहम् ॥ १०
पुत्रत्वेनाभियुङ्क्ष्व त्वं देवदेवं महेश्वरम् । स तस्य वाक्यं संपूज्य केशवस्य पितामहः ॥ ११
ईशानं वरदं रुद्रमभिवाद्य कृताञ्जलिः । उवाच पुत्रकामस्तु वाक्यानि सह विष्णुना ॥ १२
यदि मे भगवान्प्रीतः पुत्रकामस्य नित्यशः । पुत्रो मे भव विश्वात्मन्स्वत्तुल्यो वाऽपि धूर्वहः ॥ १३
नान्यं वरमहं वव्रे प्रीते त्वयि महेश्वर । तस्य तां प्रार्थनां श्रुत्वा भगवान्भगनेत्रहा ॥ १४
निष्कल्मषममायं च बाढमित्यब्रवीद्वचः । यदा कार्यसमारम्भे कस्मिंश्चित्तव सुव्रत ॥ १५
अनिष्यन्ते च कार्यस्य क्रोधस्त्वं समुपेक्ष्यति । आत्मैकादश ये रुद्रा विहिताः प्राणहेतवः ॥ १६
सोऽहमेकादशात्मा वै शूलहस्तः सहानुगः । ऋषिर्मित्रो महात्मा वै ललाटाद्भाविता तदा ॥ १७
प्रसादमतुलं कृत्वा ब्रह्मणस्तादृशं पुरा । विष्णुं पुनरुवाचेदं ददामि च वरं तव ॥ १८
स होवाच महाभागो विष्णुर्भवमिदं वचः । सर्वमेतत्कृतं देव परितुष्टोऽसि मे यदि ॥
त्वयि ते सुप्रतिष्ठाऽस्तु भक्तिरम्बुदवाहन ॥ १९
एवमुक्तस्ततो देवः समभाषत केशवम् । विष्णो शृणु यथा देव प्रीतोऽहं तव शाश्वत ॥ २०
प्रकाशं चाप्रकाशं च जङ्गमं स्थावरं च यत् । विश्वरूपमिदं सर्वं रुद्रनारायणात्मकम् ॥ २१
अहमग्निर्भवान्सोमो भवान्रात्रिरहं दिनम् । भवानृतमहं सत्यं भवान्क्रतुरहं फलम् ॥ २२
भवान्ज्ञानमहं ज्ञेयं यज्जपित्वा सदा जनाः । मां विशन्ति त्वयि प्रीते जनाः सुकृतकारिणः ॥
आवाभ्यां सहिता चैव गतिर्नान्या युगक्षये ॥ २३
आत्मानं प्रकृतिं विद्धि मां विद्धि पुरुषं शिवम् । भवानर्धशरीरं मे त्वहं तव तथैव च ॥ २४
वामपार्श्वं महन्मह्यं श्यामं श्रीवत्सलक्षणम् । त्वं च वामेतरं पार्श्वं त्वहं वै नीललोहितः ॥ २५
त्वं च ते हृदयं विष्णो तव चाहं हृदि स्थितः । भवान्सर्वस्य कार्यस्य कर्ताऽहमधिदैवतम् ॥ २६
तदेहि स्वस्ति त वत्स गमिष्याम्यम्बुदप्रभ । एवमुक्त्वा गतो विष्णोर्देवोऽन्तर्धानमीश्वरः ॥ २७
ततः सोऽन्तर्हिते देवे संप्रहृष्टस्तदा पुनः । अशेत शयने भूयः प्रविश्यान्तर्जले हरिः ॥ २८
तं पद्मं पद्मगर्भाभं पद्माक्षः पद्मसंभवः । संप्रहृष्टमना ब्रह्मा भेजे ब्राह्मं तदासनम् ॥ २९
अथ दीर्घेण कालेन तत्राप्यप्रतिमावुभौ । महाबलौ महासत्त्वौ भ्रातरौ मधुकैटभौ ॥ ३०
(+तत्पद्मं तरुणार्याभं दीप्ताक्षौ तमशालिनौ । कम्पयामासतुर्वीरौ हसन्ताविव निर्भयौ ॥
वभञ्जतुश्च पत्राणि तावुभौ मधुकैटभौ) ॥ ३१
ऊचतुश्चैव वचनं भक्ष्यो वै नौ भविष्यसि । एवमुक्त्वा तु तौ तस्मिन्नन्तर्धानं गतावुभौ ॥ ३२
+ धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति ।
७६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० २५ श्लो० ३३-५६] ( मधुकैटभोत्पत्तिविनाशवर्णनम् )
दारुणं तु तयोर्भावं ज्ञात्वा पुष्करसंभवः । माहात्म्यं चाऽऽत्मनो बुद्ध्वा विज्ञातुमुपचक्रमे ॥ ३३ कर्णिकाघटनं भूयो नाभ्यजानाद्यदा गतिम् । ततः स पद्मनालेन अवतीर्य रसातलम् ॥ कृष्णाजिनोत्तरासङ्गं ददृशेऽन्तर्जले हरिम् ॥ ३४ स च तं बोधयामास विबुद्धं चेदमब्रवीत् । भूतेभ्यो मे भयं देव त्रायसवेत्तिष्ठ शं कुरु ॥ ३५ ततः स भगवान् विष्णुः सप्रहासमरिंदमः । न भेतव्यं न भेतव्यामित्युवाच मुनिः स्वयम् ॥ ३६ यस्मात्पूर्वं त्वया चोक्तं भूतेभ्यो मे महद्भयम् । तस्माद्भूतादिवाक्यैस्तौ दैत्यौ त्वं नाशयिष्यसि ॥ ३७ भुर्भुवः स्वस्ततो देवं विविशुस्तमयोनिजम् । ततः प्रदक्षिणं कृत्वा तमेवाऽऽसीनमागतम् ॥ ३८ गते तस्मिंस्तुतोऽनन्त उद्गीर्य भ्रातरौ मुखात् । विष्णुं जिष्णुं च प्रोवाच ब्रह्माणमभिरक्षताम् ॥ मधुकैटभयोर्ज्ञात्वा तयोरागमनं पुनः ॥ ३९ चक्राते रूपसादृश्यं विष्णोर्जिष्णोश्च सत्तमौ । कृतसादृश्यरूपौ तौ तावेवाभिमुखौ स्थितौ ॥ ४० ततस्तौ प्रोचतुर्दैत्यौ ब्रह्माणं दारुणं वचः । अस्माकं युध्यमानानां मध्ये वै प्राश्निको भव ॥ ४१ ततस्तौ जलमाविश्य संस्तम्भ्यापः स्वमायया । चक्रतुस्तुमुलं युद्धं यस्य येनेप्सितं तदा ॥ ४२ तेषां तु युध्यमानानां दिव्यं वर्षशतं गतम् । न च युद्धमदोत्सेको ह्यन्योन्यं संन्यवर्तत ॥ ४३ लक्षणद्वयसंस्थानाद्रूपवन्तौ स्थितेङ्गितौ । सादृश्याव्याकुलमना ब्रह्मा ध्यानमुपागमत् ॥ ४४ आमेखलं च गात्रं च ततो मन्त्रमुदाहरत् ॥ तपतस्त्वभवत्कन्या विधुरूपसमुत्थिता । पद्मेन्दुवदनप्रख्या पद्महस्ता शुभा सती ॥ ४५ तां दृष्ट्वा व्यथितौ दैत्यौ भयाद्रणीविवर्जितौ ॥ ४६ ततः प्रोवाच तां कन्यां ब्रह्मा मधुरया गिरा । काऽत्र त्वमवगन्तव्या ब्रूहि सत्यमनिन्दिते ॥ ४७ साम्ना संपूज्य सा कन्या ब्रह्माणं प्राञ्जलिस्तदा । मोहिनीं विद्धि मां मायां विष्णोः संदेशकारिणीम् ॥ त्वया संकीर्त्यमानाऽहं ब्रह्मन्प्राप्ता त्वरायुता । अस्याः प्रीतमना ब्रह्मा गौणं नाम चकार ह ॥ ४९ मया च व्याहृता यस्मात्त्वं चैव समुपस्थिता । महाव्याहृतिरित्येव नाम ते विचारिष्यसि ॥ ५० उत्थिता च शिरो भित्त्वा सावित्री तेन चोच्यते । एकानंशात्तु यस्मात्त्वमेनेकांशा भविष्यसि ॥ ५१ गौणानि तावदेतानि कर्मजान्यपराणि च । नामानि ते भविष्यन्ति मत्प्रसादाच्छुभानने ॥ ५२ ततस्तौ पीड्यमानौ तु वरमेनयमायाचताम् । अनावृतं नौ मरणं पुत्रत्वं च भवेत्तव ॥ ५३ तथेत्युक्त्वा ततस्तूर्णमनयद्यमसादनम् । अनयत्कैटभं विष्णुर्जिष्णुश्चाप्यनयन्मधुम् ॥ ५४ एवं तौ निहतौ दैत्यौ विष्णुना जिष्णुना सह । प्रीतेन ब्रह्मणा चाथ लोकानां हितकाम्यया ॥ ५५ पुत्रत्वमीशेन यथा ह्यात्मा दत्तो निबोधत । विष्णुना जिष्णुना सार्धं मधुकैटभयोस्तथा ॥ संपराये व्यतिक्रान्ते ब्रह्मा विष्णुमभाषत ॥ ५६
अ० २५ श्लो० ५७-८०] वायुपुराणम् ७७
( मधुकैटभोत्पत्तिविनाशवर्णनम् )
अद्य वर्षशतं पूर्णं समयः प्रत्युपस्थितः । संक्षेपसप्लवं घोरं स्वस्थानं यामि चाप्यहम् ॥ ५७
स तस्य वचसा देवः संहारमकरोत्तदा । महीं निस्थावरां कृत्वा प्रकृतिस्थांश्च जङ्गमान् ॥ ५८
यदि गोविन्द भद्रं ते क्षिप्रं ते यादृसां प्रति । ब्रूहि यत्करणीयं स्यान्मया ते लक्ष्मिवर्धन* ॥ ५९
बाढं शृणु त्वं हेमाभ पद्मयोने वचो मम । प्रसादो यस्त्वया लब्ध ईश्वरात्पुत्रलिप्सया ॥ ६०
तं तथा सफलं कृत्वा मत्तोऽभूदनृणो भवान् । चतुर्विधानि भूतानि सृज त्वं विसृजस्व च ॥ ६१
अवाप्य संज्ञां गोविंदात्पद्मयोनिः पितामहः । प्रजाः स्रष्टुमनास्तेपे तप उग्रं ततो महत् ॥ ६२
तस्यैवं तप्यमानस्य न किंचित्समवर्तत । ततो दीर्घेण कालेन दुःखात्क्रोधो व्यवर्धत ॥ ६३
सक्रो(तत्क्रो)धाविष्टनेत्राभ्यामपतन्नश्रुबिन्दवः । ततस्तेभ्योऽश्रुबिन्दुभ्यो वातपित्तकफात्मकाः ॥ ६४
महाभोगा महासत्त्वाः स्वस्तिकैरभ्यलंकृताः । प्रकीर्णकेशाः सर्पास्ते प्रादुर्भूता महाविषाः ॥ ६५
सर्पांस्तथाऽसृजान्दृष्ट्वा ब्रह्माऽऽत्मानमनिन्दत । अहो धिक्पसा मह्यं फलमीदृशकं यदि ॥
लोकवैनाशिकी जज्ञे आदावेव प्रजा मम ॥ ६६
तस्य तीव्राऽभवन्मूर्च्छा क्रोधामर्षसमुद्भवा । मूर्च्छामितापेन तदा जहौ प्राणान्प्रजापतिः ॥ ६७
तस्याप्रतिमवीर्यस्य देहात्कारुण्यपूर्वकम् । आत्मैकादश ते रुद्राः मोद्भूता रुतदस्तथाः ॥
रोदनात्खलु रुद्रास्ते रुद्रत्वं तेन तेषु तत् ॥ ६८
ये रुद्राः खलु ते प्राणा ये प्राणास्ते तदात्मकाः । प्राणाः प्राणभृतां ज्ञेयाः सर्वभूतेष्ववस्थिताः ॥ ६९
अत्युग्रस्य महत्त्वस्य साधुना चारितस्य च । तस्य प्राणान्ददौ भूयस्त्रिशूली नीललोहितः ॥ ७०
ललाटात्पद्मयोनेस्तु प्रभुरेकादशात्मकः ॥
ब्रह्मणः सोऽददात्प्राणानात्मजः स तदा प्रभुः । महृष्टवदनो रुद्रः किंचित्प्रत्यागतासवम्(?) ॥ ७१
अभ्यँभाषत्तदा देवो ब्रह्माणं परमं वचः ॥
उपयाचस्व मां ब्रह्मन्स्मर्तुमर्हसि चाऽऽत्मनः । मां च वेत्थाऽऽत्मजं रुद्रं प्रसाणं कुरु मे प्रभो ॥ ७२
श्रुत्वा त्विदं वचस्तस्य प्रभूतं च मनोगतम् । पितामहः प्रसन्नात्मा नेत्रैः फुल्लाम्बुजप्रभैः ॥ ७३
ततः प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा । उवाच भगवान्ब्रह्मा शुद्धजाम्बूनदप्रभः ॥ ७४
भो भो वद महाभाग आनन्दयसि मे मनः । को भवान्विधमूर्त्तिस्त्वं स्थित एकादशात्मकः ॥ ७५
एवमुक्तो भगवता ब्रह्मणाऽनन्ततेजसा । ततः प्रत्यवदद्रुद्रो ह्यभिवाद्याऽऽत्मजैः सह ॥ ७६
यत्ते वरमहं ब्रह्मन्याचितो विष्णुना सह । पुत्रो मे भव देवोति त्वत्तुल्यो वाऽपि धूर्वहः ॥ ७७
लोकेषु विश्रुतैः कार्यं सर्वैर्विश्वात्मसंभवैः । विषादं त्यज देवेश लोकांस्त्वं स्रष्टुमर्हसि ॥ ७८
एवं स भगवानुक्तो ब्रह्मा प्रीतमना भवत् । रुद्रं प्रत्यवदद्भूयो लोकान्ते नीललोहितम् ॥ ७९
साहाय्यं मम कार्यार्थे प्रजाः सृज मया सह । बीजी त्वं सर्वभूतानां तत्प्रपन्नस्तथा भव ॥
बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ ८
* अत्र स्थले विष्णुरुवाचेति घ. पुस्तके ।
७८ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० २५ २६श्लो०८१-९२।१-४] ( स्वरोत्पत्तिनिरूपणम् )
ततः स भगवान्ब्रह्मा कृष्णाजिनविभूषितः । मनोऽग्रे सोऽसृजद्देवो भूतानां धारणां ततः ॥ जिह्वां सरस्वतीं चैव ततस्तां विश्वरूपिणीम् ॥ ८१ भृगुमङ्गिरसं दक्षं पुलस्त्यं पुलहं क्रतुम् । वसिष्ठं च महातेजाः ससृजे सप्त मानसान् ॥ ८२ पुत्रानात्मसमान्यन्यान्सोऽसृजद्विश्वसंभवान् । तेषां भूयोऽनुमार्गेण गावो वक्त्राद्विजाज्ञिरे ॥ ८३ ओंकारप्रमुखान्वेदानभिमान्याश्च देवताः । एवमेतान्यथा प्रोक्तान्ब्रह्मा लोकपितामहः ॥ ८४ दक्षाद्यान्मानसान्पुत्रान्प्रोवाच भगवान्प्रभुः । प्रजाः सृजत भद्रं वो रुद्रेण सह धीमता ॥ ८५ अनुगम्य महात्मानं प्रजानां पतयस्तदा । वयमिच्छामहे देव प्रजाः स्रष्टुं त्वया सह ॥ ब्रह्मणस्त्वेष संदेशस्तव चैव महेश्वर ॥ ८६ तेनैवमुक्ते भगवाञ्छ्रुद्रः प्रोवाच तान्प्रभुः । ब्रह्मणोऽऽत्मजा मह्यं प्राणान्गृह्य च वै सुराः ॥ ८७ कृत्वाऽग्रजोऽग्रजानेतान्ब्राह्मणानात्मजान्मम । ब्रह्मादिस्तम्बपर्यन्तान्सप्त लोकान्ममा(दा)त्मकान् भवन्तः स्रष्टुमर्हन्ति वचनान्मम स्वस्ति वः ॥ ८८ तेनैवमुक्ताः प्रत्यूचु रुद्रमाद्यं त्रिशूलिनम् । यथाऽऽज्ञापयसे देव तथा तद्वै भविष्यति ॥ ८९ अनुमान्य महादेवं प्रजानां पतयस्तदा । ऊचुर्दक्षं महात्मानं भवाञ्छ्रेष्ठः प्रजापतिः । त्वां पुरस्कृत्य भद्रं ते प्रजाः स्रक्ष्यामहे वयम् ॥ ९० एवमस्त्विति वै दक्षः प्रत्यपद्यत भाषितम् । तैः सह स्रष्टुमारेभे प्रजाकामः प्रजापतिः ॥ सर्गस्थिते ततः स्थाणौ ब्रह्मा सर्वमथासृजत् ॥ ९१ अथास्य सप्तमेऽतीते कल्पे वै संबभूवतुः । ऋभुः सनत्कुमारश्च तपोलोकनिवासिनौ ॥ ततो महर्षीनन्यान्स मानसान्सृजत्प्रभुः ॥ ९२
इति श्रीमहापुराणे वायुप्रोक्ते मधुकैटभोत्पत्तिविनाशवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
आदितः श्लोकानां समष्ट्यङ्काः–१९२८
अथ षड्विंशोऽध्यायः ।
स्वरोत्पत्तिनिरूपणम् ।
सूत उवाच-- अहो विस्मयनीयानि रहस्यानि महामते । त्वयोक्तानि यथातत्त्वं लोकानुग्रहकारणात् ॥ १ तत्र वै संशयो मह्यमवतारेषु शूलिनः । किं कारणं महादेवः कालं प्राप्य सुदारुणम् ॥ हित्वा युगानि पूर्वाणि अवतारं करोति वै ॥ २ अस्मिन्मन्वन्तरे चैव प्राप्ते वैवस्वते प्रभो । अवतारं कथं चक्रे एतदिच्छामि वेदितुम् ३ न तेऽस्त्यविदितं किंचिदिह लोके परत्र च । भक्तानामुपदेशार्थं विनयात्पृच्छतो मम कथयस्व महाप्राज्ञ यदि श्राव्यं महामते ॥ ४
[अ० २६ श्लो० ५-२७] वायुपुराणम् । ७९
( स्वरोत्पत्तिनिरूपणम् )
लोमश उवाच--
एवं पृष्टोऽथ भगवान्वायुलौकहिते रतः । इदमह महातेजा वायुलौकनमस्कृतः ॥ ५
एतद्गुह्यतमं लोके यन्मां त्वं परिपृच्छसि । तत्सर्वं शृणु गाधेय उच्यमानं यथाक्रमम् ॥ ६
पुरा ह्यकार्णवे वृत्ते दिव्ये वर्षसहस्रके । स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥ ७
तस्य चिन्तयमानस्य प्रादुर्भूतः कुमारकः । दिव्यगन्धः सुधापेक्षी दिव्यां श्रुतिमुदीरयन् ॥ ८
अशब्दस्पर्शरूपां तामगन्धां रसवर्जिताम् । श्रुतिं सुदीरयन्देवो यामविन्दच्चतुर्मुखः ॥ ९
ततस्तु ध्यानसंयुक्तस्तप आस्थाय भैरवम् । चिन्तयामास मनसा त्रितयं को न्वयं त्विति ॥ १०
तस्य चिन्तयमानस्य प्रादुर्भूतं तदक्षरम् । अशब्दस्पर्शरूपं च रसगन्धविवर्जितम् ॥ ११
अथोत्तंमं स लोकेषु स्वमूर्तिं चापि पश्यति । ध्यायन्वै स तदा देवमथैनं पश्यते पुनः ॥ १२
तं श्वेतमथ रक्तं च पीतं कृष्णं तदा पुनः । वर्णस्थं तत्र पश्येत न स्त्री न च नपुंसकम् ॥ १३
तत्सर्वं सुचिरं ज्ञात्वा चिन्तयन्हि तदक्षरम् । तस्य चिन्तयमानस्य कण्ठादुत्तिष्ठतेऽक्षरः ॥ १४
एकमात्रो महाघोषः श्वेतवर्णैः सुनिर्मलः । स ओंकारो भवेद्देवः अ(दो ह्य)क्षरं वै महेश्वरः ॥ १५
ततश्चिन्तयमानस्य त्वक्षरं वै स्वयंभुवः । प्रादुर्भूतं तु रक्तं तु स देवः प्रथमः स्मृतः ॥ १६
ऋग्वेदं प्रथमं तस्य त्वग्निमीळे पुरोहितम् । एतां दृष्ट्वा ऋचं ब्रह्मा चिन्तयामास वै पुनः ॥ १७
तदक्षरं महातेजाः किमेतदिति लोककृत् ॥
तस्य चिन्तयमानस्य तस्मिन्नथ महेश्वरः । द्विमात्रमक्षरं जज्ञे ईशित्वेन द्विमात्रिकम् ॥ १८
ततः पुनर्विमात्रं तु चिन्तयामास चाक्षरम् । पादुर्भूतं च रक्तं तच्छेदनं गृह्य सा यजुः ॥ १९
इषे त्वोर्जे त्वा वायवः स्थ देवो वः सविता *पुनः । ऋग्वेद एकमात्रस्तु द्विमात्रस्तु यजुः स्मृतः ॥ २०
ततो वेदं द्विमात्रं तु दृष्ट्वा चैव तदक्षरम् । द्विमात्रं चिन्तयन्ब्रह्मा त्वक्षरं पुनरीश्वरः ॥ २१
तस्य चिन्तयमानस्य ओंकारः संबभूव ह । ततस्तदक्षरं ब्रह्मा ओंकारं समचिन्तयत् ॥ २२
अथापश्यत्ततः पीतामृचं चैव समुत्थिताम् । + अग्न आयाहि वीतये गृणानो हव्यदातये ॥ २३
ततस्तु स महातेजा दृष्ट्वा वेदानुपस्थितान् । चिन्तयित्वा च भगवान्स्त्रिसंध्यं यत्रिरक्षरम् ॥
त्रिवर्णं यत्त्रिषवणमोंकारं ब्रह्मसंज्ञितम् ॥ २४
ततश्चैव त्रिसंयोगात्त्रिवर्णं तु तदक्षरम् । ( ×लक्ष्यालक्ष्यप्रदृश्यं च सहितं त्रिदिवं त्रिकम् ॥ २५
त्रिमात्रं त्रिपदं चैव त्रियोगं चैव शाश्वतम् । ) तस्मात्तदक्षरं ब्रह्मा चिन्तयामास वै प्रभुः ॥ २६
तस्मात्तदक्षरं सोऽथ ब्रह्म रूपं स्वयंभुवः । चतुर्दशमुखं देवं पश्यते दीप्ततेजसम् ॥
तमोंकारं स कृत्वाऽऽदौ विज्ञेयः स स्वयंभुवः ॥ २७
* पुनरिति पदं नास्ति ख. ग. घ. ङ. पुस्तकेषु । + इदमर्धं नास्ति ख. पुस्तके ।
× धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
| ८० | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० २६ श्लो० २८-५०]<br>( स्वरोत्पत्तिनिरूपणम् ) |
|---|
चतुर्मुखात्तस्मादजायन्त चतुर्दश । नानावर्णाः स्वरा दिव्यमाद्यं तच्च तदक्षरम् ॥ २८
तस्मात्त्रिषष्टिर्वर्णा वै अकारप्रभवाः स्मृताः ॥
ततः साधारणार्थाय वर्णानां तु स्वयंभुवः । अकाररूप आदौ तु स्थितः स प्रथमः स्वरः ॥ २९
ततस्तेभ्यः स्वरेभ्यस्तु चतुर्दश महामुखाः । मनवः संप्रसूयन्ते दिव्या मन्वन्तरेश्वराः ॥ ३०
चतुर्दशमुखो यश्च अकारो ब्रह्मसंज्ञितः । ब्रह्मकल्पः समाख्यातः सर्ववर्णः प्रजापतिः ॥ ३१
मुखात्तु प्रथमात्तस्य मनुः स्वायंभुवः स्मृतः । अकारस्तु स विज्ञेयः श्वेतवर्णः स्वयंभुवः ॥ ३२
द्वितीयात्तु मुखात्स्य (*आकारो वै मुखः स्मृतः । नाम्ना स्वारोचिषो नाम वर्णः पाण्डुर उच्यते ॥ ३३
तृतीयात्तु मुखात्स्य ) इकारो यजुषां वरः । यजुर्मयः स चाऽऽदित्यो यजुर्वेदो यतः स्मृतः ॥ ३४
ईकारः स मनुर्ज्ञेयो रक्तवर्णः प्रतापवान् । ततः क्षत्रं प्रवर्तेत तस्माद्रक्तस्तु क्षत्रियः ॥ ३५
चतुर्थात्तु मुखात्स्य उकारः खर उच्यते । वर्णतस्तु स्मृतस्ताम्रः स मनुस्तामसः स्मृतः ॥ ३६
पञ्चमात्तु मुखात्स्य ऊकारो नाम जायते । पीतको वर्णतश्चैव मनुश्चापि चरिष्णवः ॥ ३७
ततः षष्ठान्मुखात्तस्य ओंकारः कपिलः स्मृतः । वरिष्ठश्च ततः षष्ठो विजयः स महातपाः ॥ ३८
सप्तमात्तु मुखात्स्य सूतो वैवस्वतो मनुः । ऋकारश्च स्वरस्तत्र वर्णतः कृष्ण उच्यते ॥ ३९
अष्टमात्तु मुखात्स्य ॠकारः श्यामवर्णतः । श्यामाक्षरसवर्णश्च ततः सावर्णिुरुच्यते ॥ ४०
मुखात्तु नवमात्तस्य लृकारः नवमः स्मृतः । धूमो वै वर्णतश्चापि धूम्रश्च मनुरुच्यते ॥ ४१
दशमात्तु मुखात्स्य ॡकारः प्रभुरुच्यते । समश्चैव सवर्णश्च बभौ सावर्णिको मनुः ॥ ४२
मुखादेकादशात्तस्य एकारो मनुरुच्यते । पिशङ्गो वर्णतश्चैव पिशङ्गो वर्ण उच्यते ॥ ४३
द्वादशात्तु मुखात्स्य ऐकारो नाम उच्यते । पिशङ्गो भस्मवर्णाभः पिशङ्गो मनुरुच्यते ॥ ४४
त्रयोदशान्मुखात्तस्य ओकारो वर्ण उच्यते । (+पञ्चवर्णसमायुक्त ओकारो वर्ण उत्तमः ॥ ४५
चतुर्दशमुखात्तस्य औकारो वर्ण उच्यते । कर्बूरो वर्णतश्चैव मनुः सावर्णिुरुच्यते ॥ ) ४६
इत्येते मनवश्चैव स्वरा वर्णाश्च कल्पतः । विज्ञेया हि यथातत्त्वं स्वरतो वर्णतस्तथा ॥ ४७
परस्परसवर्णाश्च स्वरा यस्माद्धृता हि वै । तस्मात्तेषां सवर्णत्वादन्वयस्तु प्रकीर्तितः ॥ ४८
सवर्णाः सदृशाश्चैव यस्माज्जातास्तु कल्पजाः । तस्मात्प्रजानां लोकेऽस्मिन्सवर्णाः सर्वसंधयः ॥ ४९
भविष्यन्ति यथाशैलं वर्णाश्च न्यायतोऽर्थतः । अभ्यासात्संधयश्चैव तस्माज्ज्ञेयाः स्वरा इति ॥ ५०
इति श्रीमहापुराणे वायुप्रोक्ते स्वरोत्पत्तिर्नाम षड्विंशोऽध्यायः ॥ २६ ॥
आदितः श्लोकानां समष्ट्यङ्काः—१९७८
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ख. ग. घ. पुस्तकेषु नास्ति ।
[अ० २७ श्लो० १-२२] (महादेवतनुवर्णनम्) वायुपुराणम् । ८१
अथ सप्तविंशोऽध्यायः ।
महादेवतनुवर्णनम् ।
ऋषय ऊचुः— अस्मिन्कल्पे त्वया चोक्तः प्रादुर्भावो महात्मनः । महादेवस्य रुद्रस्य साधकैर्मुनिभिः सह ॥ १
सूत उवाच— उत्पत्तिरादिसर्गस्य मया प्रोक्ता समासतः । विस्तरेणास्य वक्ष्यामि नामानि तनुभिः सह ॥ २ पत्नीषु जनयामास महादेवः सुतान्बहून् । कल्पेऽष्टमे व्यतीते तु यस्मिन्कल्पे तु तच्छृणु ॥ ३ कल्पादौ चाऽऽत्मनस्तुल्यं सुतं प्रध्यायतः प्रभोः । प्रादुरासीत्ततोऽङ्केऽस्य कुमारो नीललोहितः ॥ ४ तं दधे सुस्वरं घोरं निर्दहन्निव तेजसा ॥ ५ दृष्ट्वा रुदन्तं सहसा कुमारं नीललोहितम् । किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ॥ ६ सोऽब्रवीद्देहि मे नाम प्रथमं वै पितामह । रुद्रस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ॥ ७ किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् । नाम देहि द्वितीयं मे इत्युवाच स्वयंभुवम् ॥ भवस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः । किं रोदिषीति तं ब्रह्मा प्रत्युवाचाथ शंकरम् ॥ ८ तृतीयं देहि मे नाम इत्युक्तः प्रत्युवाच तम् । शिवस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ॥ ९ किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् । चतुर्थं देहि मे नाम इत्युवाच स्वयंभुवम् ॥ १० पशूनां त्वं पतिर्देव इत्युक्तः सोऽरुदत्पुनः । किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ॥ ११ पञ्चमं देही मे नाम इत्युक्तः प्रत्युवाच तम् । ईशस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ॥ १२ किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् । षष्ठं मे नाम देहीति इत्युवाचाथ तं प्रभुम् ॥ १३ भीमस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः । किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ॥ १४ सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच तम् । उग्रस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ॥ १५ किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् । अष्टमं देहि मे नाम त्वं विभो पुनरब्रवीत् ॥ महादेवस्तु नाम्नाऽसि इत्युक्तो विरराम ह ॥ १६ लब्ध्वा नामानि चैतानि ब्रह्मणो नीललोहितः । प्रोवाच नाम्नामेतेषां स्थानानि प्रदिशेतिह ॥ १७ ततोऽभि सृष्टास्तनव एषां नाम्नां स्वयंभुवा । सूर्यो मही जलं वह्निर्वायुराकाशमेव च ॥ १८ दीक्षितो ब्राह्मणश्चन्द्र इत्येते ब्रह्मधातवः । तेषु पूज्यश्च वन्द्यः स्याद्रुद्रस्तान्न हिनस्ति वै ॥ १९ ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं नीललोहितम् । द्वितीयं नामधेयं ते मया प्रोक्तं भवेति यत् ॥ एतस्याऽपि द्वितीया ते तनुर्नाम्ना भविष्यति ॥ २० इत्युक्ते यास्थिरं तस्य शरीरस्थं रसात्मकम् । तद्विवेश ततस्तोयं तस्मादापो भवः स्मृतः ॥ २१ यस्माद्भवन्ति भूतानि ताभ्यस्ता भावयन्ति च । भवनाद्भवनाच्चैव भूतानां संभवः स्मृतः ॥ २२
११
८२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०२७श्लो०२३-४५] ( महादेवतनूवर्णनम् )
तस्मान्मूत्रं पुरीषं च नाप्सु कुर्वीत सर्वदा । न स्नाये(या)दप्सु नग्नश्च न निष्ठीवेत्कदाचन ॥ २३ मैथुनं नैव सेवेत शिरःस्नानं च वर्जयेत् । न पीतः परिचक्षीत वहन् संस्थितोऽपि वा ॥ २४ मेध्यामेध्यशरीरत्वान्नैव दुष्यन्त्यपः काचित् । विवर्णरसगन्धाश्च अल्पाश्च परिवर्जयेत् ॥ २५ अपां योनिः समुद्रश्च तस्मात्तं कामयन्ति ताः । मेध्याश्चैवामृताश्चैव भवन्ति प्राप्य सागरम् ॥ २६ तस्मादपो न रुन्धीत समुद्रं कामयन्ति ताः । न हिनस्ति भवो देवः सदैव योऽप्सु वर्तते ॥ २७ ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं कृष्णलोहितम् । शर्वस्त्वमिति यन्नाम तृतीयं समुदाहृतम् ॥ २८ तस्य भूमिस्तृतीया तु तनुर्नाम्ना भवितव्यम् ॥ इत्युक्ते यत्स्थिरं तस्य शरिरस्यास्थिसंज्ञितम् । तद्विवेश ततो भूमिस्तस्माद्भूः शर्व उच्यते ॥ २९ तस्मात्कुर्वीत नो विद्वान्पुरीषं मूत्रमेव वा । न च्छायायां न सोपाने स्वच्छायां नापि मेहयेत् ॥ ३० शिरः प्रावृत्य कुर्वीत अन्तर्धाय तृणैर्महीम् । य एवं वर्तते भूमौ तं शर्वो न हिनस्ति वै ॥ ३१ ततोऽब्रवीन्पुनर्ब्रह्मा तं देवं नलिलोहितम् । ईशान इति यत्प्रोक्तं चतुर्थं नाम ते मया ॥ ३२ चतुर्थस्य चतुर्थी स्याद्वायुर्नाम्ना तनुस्तव । इत्युक्ते यच्छरीरस्थं पञ्चधा प्राणसंज्ञितम् ॥ ३३ विवेश तं तदा वायुमीशानो वायुरुच्यते । तस्मादेनं परिविदेदायतं वायुमीश्वरम् ॥ एवं युक्तमथेशानो नैव देवो हिनस्ति तम् ॥ ३४ ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं धूम्रलोहितम् । यत्ते पशुपतित्युक्तं मया नामेह पञ्चमम् ॥ पञ्चमी पञ्चमस्यैषा तनुर्नाम्नाऽग्निरस्तु ते ॥ ३५ इत्युक्ते यच्छरीरस्थं तेजस्तस्योष्णसंज्ञितम् । विवेश तत्तदा ह्यग्निस्तस्मात्पशुपतिः पतिः ॥ ३६ चन्द्रमास्तु स्मृतः सोमः तस्याऽष्टमा ह्योषधीगणः । एवं यो वर्तते विद्वान्सदा पर्वणि पर्वणि ॥ न हन्ति तं महादेव एवं वन्देत तं प्रभुम् ॥ ३७ गोपायति दिवाऽऽदित्यः प्रजा नक्तं तु चन्द्रमाः । एकरात्रे समेयातां सूर्याचन्द्रमसावुभौ ॥ अमावास्यान्निशायां तु तस्यां युक्तः सदा वसेत् ॥ ३८ तत्राऽऽविष्टं सर्वमिदं तनुभिर्नामभिः सह । एकाकी यश्चरत्येष सूर्योऽसौ चन्द्र उच्यते ॥ ३९ सूर्यस्य यत्प्रकाशेन वीक्ष्यन्ते चक्षुषा प्रजाः । शुक्लात्मा संस्थितो रुद्रः पिबत्यम्भो गभास्तिभिः ॥ ४० अद्यते पीयते चैवाप्यन्नपानपात्मकानि या । तनूरात्मभवा सा वै देहेष्वेवोपचीयते ॥ ४१ यया धत्ते प्रजाः सर्वाः स्थिरीभूतेन चेतसा । पार्थिवी सा तनुस्तस्य शर्वी धारयति प्रजाः ॥ ४२ यावत्स्थिता शरीरेषु भूतानां प्राणवृत्तिभिः । वायुवात्मिका तु ऐशानी सा प्राणाः प्राणिना सह ॥ ४३ पीताशितानि पचति भूतानां जठरेषु या । ततः पशुपती तस्य पाचिका शक्तिरुच्यते ॥ ४४ यानीह सुषिराणि स्युर्देहेष्वन्तर्गतानि वै । वायोः संचरणार्थाय सा भीमा चोच्यते तनु ॥ ४५
[अ० २७-२८ श्लो०-४६-६०।१-४] वायुपुराणम् । ८३ (ऋषिवंशानुकीर्तनम् )
वैतानदीक्षितानां तु या स्थितिर्ब्रह्मवादिनाम् । तनुरूप्यात्मिका सा तु तेनोग्रो दीक्षितः स्मृतः ॥ ४६ यत्तु संकल्पकं तस्य प्रजास्विह समं स्थितम् । सा तनुर्मानसी तस्य चन्द्रमाः प्राणिषु स्थितः ॥ ४७ नवो नवो भवति हि जायमानः पुनः पुनः । नीयते यो यथाकामं विबुधैः पितृभिः सह ॥ ४८ महादेवोऽमृतात्माऽसौ ह्यम्मयश्चन्द्रमाः स्मृतः ॥ तस्य वा प्रथमा नाम्ना तनू रौद्री प्रकीर्तिता । पत्नी सुवर्चला तस्य पुत्रस्तस्याः शनैश्चरः ॥ ४९ भवस्य या द्वितीया तु तनुरापः स्मृता तु वै । तस्योषाऽत्र स्मृता पत्नी पुत्रश्चाप्युशना स्मृतः॥ ५० शर्वस्य या तृतीया तु नाम भामस्तनुः स्मृता । पत्नी तस्य विकेशीति पुत्रश्चाङ्गारकः स्मृतः ॥ ५१ ईशानस्य चतुर्थस्य स्वर्गस्तस्य च या तनुः । तस्य पत्नी शिवा नाम पुत्रश्चास्य मनोजवः ॥ ५२ (*नाम्ना पशुपतेर्या तु तनुरिर्भिर्द्विजैः स्मृता । तस्य पत्नी स्मृता स्वाहा स्कन्दश्चापि सुतः स्मृतः॥५३ नाम्ना षष्ठस्य या भीमा तनुराकाश उच्यते ।) दिशः पत्न्यः स्मृतास्तस्य स्वर्गश्चास्य सुतः स्मृतः ॥ ५४ उग्रा तनुः सप्तमी या दीक्षितैर्ब्राह्मणैः स्मृता । दीक्षा पत्नी स्मृता तस्य संतानः पुत्र उच्यते ॥ ५५ नाम्नाऽष्टमस्य महतस्तनुर्या चन्द्रमाः स्मृतः । पत्नी तु रोहिणी तस्य पुत्रश्चास्य बुधः स्मृतः ॥ ५६ इत्येतास्तनस्तस्य नामाभिः परिकीर्तिताः । तास्तु वन्द्या नमस्याश्च प्रतिनाम तनूषु वै ॥ ५७ भक्तैः सूर्येऽप्सु पृथिव्यां वायवाग्निव्योमदीक्षितैः । तथा च वै चन्द्रमसि तनुभिर्नामभिः सह ॥ ५८ प्रजावानेति सायुज्यमीश्वरस्य नरो हि सः ॥ इत्येतद्वो मयाऽऽख्यातं गुह्यं भीमस्य तद्यशः । शं नोऽस्तु द्विपदे नित्यं शं नोऽस्तु च चतुष्पदे ॥५९ एतन्मोकं निदानं वस्तूनां नामभिः सह । महादेवस्य देवस्य भृगोस्तु शृणुत प्रजाः ॥ ६०
इति महापुराणे वायुप्रोक्ते महादेवतनुवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥ आदितः श्लोकानां समष्ट्यङ्काः--२०३८
अथाष्टाविंशोऽध्यायः ।
ऋषिवंशानुकीर्तनम् ।
सूत उवाच-- भृगोः ख्यातिर्विजज्ञेऽथ ईश्वरौ सुखदुःखयोः । शुभाशुभप्रदातारौ सर्वप्राणभृतामिह ॥ देवौ धाताविधातारौ मन्वन्तरविचारिणौ ॥ १ तयोर्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी । सा तु नारायणं देवं पतिमासाद्य शोभनम् ॥ नारायणात्मजौ साध्वी बलोत्साहौ व्यजायत ॥ २ तस्यास्तु मानसाः पुत्रा ये चान्ये दिव्यचारिणः । ये वहन्ति विमानानि देवानां पुण्यकर्मणाम् ॥ ३ द्वे तु कन्ये स्मृते भार्ये विधातुर्धातुरेव च । आयतिर्नियतिश्चैव तयोः पुत्रौ दृढव्रतौ ॥ ४
*धनुश्चिह्नान्तर्गतग्रन्थः ङ. पुस्तके नास्ति ।
८४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० २८ श्लो० ५-२५]
(ऋषिवंशानुकीर्तनम्)
पाण्डुश्चैव मृकण्डुश्च ब्रह्मकोशौ सनातनौ । मनस्विन्यां मृकण्डोश्च मार्कण्डेयो बभूव ह ॥ ५
सुतो वेदशिरास्तस्य मूर्ध्न्यायामजायत । पीवर्यां वेदशिरसः पुत्रा वंशकराः स्मृताः ॥
मार्कण्डेया इति ख्याता ऋषयो वेदपारगाः ॥ ६
पाण्डोश्च पुण्डरीकायां द्युतिमानात्मजोऽभवत् । उत्पन्नौ द्युतिमन्तश्च सृजवानश्च तावुभौ ॥ ७
तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्परम् । स्वायंभुवेऽन्तरेऽतीते मरीचेः शृणुत प्रजाः ॥ ८
पत्नी मरीचेः संभूतिर्विजज्ञे साऽऽत्मसंभवम् । प्रजापतेः पूर्णमासं कन्याश्चैमा निबोधत । ।
तुष्टिः पुष्टिस्त्विषा चैव तथा चापचितिः शुभा ॥ ९
पूर्णमासः सरस्वत्यां द्वौ पुत्रावुदपादयत् । विरजं चैव धर्मिष्ठं पर्वसं चैव तावुभौ ॥ १०
विरजस्याऽऽत्मजो विद्वान्सुधामा नाम विश्रुतः । सुधामसुत(तो) वैराजः प्राच्यां दिशि समाश्रितः ॥ ११
लोकपालः सुधर्मात्मा गौरीपुत्रः प्रतापवान् । पर्वसः सर्वगणानां प्रविष्टः स महायशाः ॥ १२
पर्वसः पर्वसायां तु जनयामास वै सुतौ । यज्ञवामं च श्रीमन्तं सुतं काश्यपमेव च ।।
तयोर्गोत्रकरौ पुत्रौ तौ जातौ धर्मनिश्चितौ ॥ १३
स्मृतिश्चाङ्गिरसः पत्नी जज्ञे तावात्मसंभवौ । पुत्रौ कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः ॥ १४
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा । तथैव भरताग्निं च कीर्तिमन्तं च तावुभौ ॥ १५
अग्नेः पुत्रं तु पर्जन्यं संहूती सुषुवे प्रभुम् । हिरण्यरोमा पर्जन्यो मारीच्यामुदपादयत् ॥
आभूतसंप्लवस्थायी लोकपालः स वै स्मृतः ॥ १६
जज्ञे कीर्तिमंतश्चापि धेनुका तावकल्मषौ । वरिष्ठं धतिमन्तं चाप्युभावाङ्गिरसां वरौ ॥ १७
तयोः पुत्राश्च पौत्राश्च येऽतीता वै सहस्रशः । अनसूयाऽपि जज्ञे तान्पञ्चाऽऽत्रेयानकल्मषान् ॥ १८
कन्यां चैव श्रुतिं नाम माता शङ्खपदस्य या । कर्दमस्य तु या पत्नी पुलहस्य प्रजापतेः ॥ १९
सत्यनेत्रश्च हव्यश्च आपोमूर्त्तिः शनीश्वरः । सामेश्च पञ्चमस्तेषामासीत्त्स्वायंभुवेऽन्तरे ॥
यामेऽतीते सहातीताः पञ्चाऽत्रेया प्रकीर्तिताः ॥ २०
तेषां पुत्राश्च पौत्राश्च क्षत्रिणा वै महात्मना । स्वायंभुवेऽन्तरे यामे शतशोऽथ सहस्रशः ॥ २१
पुरीत्यां पुलस्त्यभार्यायां दत्तालिस्तत्सुतोऽभवत् । पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे ॥
तमो देवबाहुश्च विनीतो नाम ते त्रयः ॥ २२
यज्ञसौ यवीयसी तेषां सद्मती नाम विश्रुता । पर्जन्यजननी शुभ्रा पत्नी त्वग्नेः स्मृता शुभा ॥ २३
पालस्त्यस्य ऋषेश्चापि प्रीतिपुत्रस्य धीमतः । दत्तालेः सुषुवे पत्नी सृजङ्घादीन्बहून्सुतान् ॥
पौलस्त्या इति विख्याताः स्मृताः स्वायंभुवेऽन्तरे ॥ २४
क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः । ते चाग्निवर्चस सर्वे येषां कीर्तिः प्रतिष्ठिता ॥ २५
[अ० २८-२९ श्लो० २६-३९।१-७] वायुपुराणम् । ८५
( अग्निवंशवर्णनम् )
कर्दमश्चाम्बरीषश्च सहिष्णुश्चेति ते त्रयः । ऋषिर्धनकपिवांश्च शुभा कन्या च पीवरी ॥ २६
कर्दमस्य श्रुतिः पत्नी आत्रेय्यजनयत्सुतान । पुत्रं शङ्खपदं चैव कन्यां काम्यां तथैव च ॥ २७
स वै शङ्खपदः श्रीमाल्लोकपालः प्रजापतिः । दक्षिणस्यां दिशि रतः काम्यां दत्त्वा प्रियव्रते ॥ २८
काम्या प्रियव्रताल्लेभे स्वायंभुवसमान्सुतान् । दशकन्याद्वयं चैव यैः क्षत्रं संप्रवर्तितम् ॥ २९
पुत्रो धनकपीवांश्च सहिष्णुर्नाम विश्रुतः यशोधारी विजज्ञे वै कामदेवः सुमध्यमा ॥ ३०
क्रतोः क्रतुसतः पुत्रो विजज्ञे संततिः शुभा । नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्युर्ध्वरेतसः ॥ ३१
षष्ट्येतानि सहस्राणि वालखिल्या इति श्रुताः ।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् । अभूतसंप्लवात्सर्वे पतङ्गसहचारिणः ॥ ३२
स्वसारौ तु यवीयस्यौ पुण्यात्मसुमती च ते । पर्यंसस्य स्नुषे ते वै पूर्णमाससुतस्य वै ॥ ३३
ऊर्जायां तु वासिष्ठस्य पुत्रा वै सप्त जज्ञिरे । ज्यायसी च स्वसा तेषां पुण्डरीका सुमध्यमा ॥ ३४
जननी सा द्युतिमतः पाण्डोस्तु महिषी प्रिया । अस्यां त्विमे यवीयांसो वसिष्ठाः सप्त विश्रुताः॥ ३५
रजःपुत्रोऽर्ध्वबाहुश्च सवनश्चाधनश्च यः । सुतपाः शुक्ल इत्येते सर्वे सप्तर्षयः स्मृताः ॥ ३६
रजसो वाऽप्यजनयन्मार्कण्डेयी यशस्विनी । प्रतीच्यां दिशि राजन्यं केतुमन्तं प्रजापतिम् ॥ ३७
गोत्राणि नामभिस्तेषां वसिष्ठानां महात्मनाम । स्वायंभुवेऽन्तरेऽतीतास्त्वग्रेस्तु श्रृणुत प्रजाः ॥ ३८
इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्तितः । विस्तरेणाऽऽनुपूर्व्या चाप्यग्रेस्तु श्रृणुत प्रजाः ॥ ३९
इति महापुराणे वायुप्रोक्ते ऋषिवंशानुकीर्तनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥
आदितः श्लोकानां समष्टयङ्काः—२०७७
अथोनत्रिंशोऽध्यायः ।
अग्निवंशवर्णनम् ।
योऽसावग्निरभिमानी ह्यासीत्स्वायंभुवेऽन्तरे । ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत ॥ १
पावकः पवमानश्च पावमानश्च यः स्मृतः । शुचिः शौरस्तु विज्ञेयः स्वाहापुत्रास्त्रयस्तु ते ॥ २
निर्मथ्यपवमानस्तु शुचिः शौरस्तु यः स्मृतः । पावका वैद्युताश्चैव तेषां स्थानानि यानि वै ॥ ३
पवमानात्मजश्चैव कव्यवाहन उच्यते । पावकात्सहरक्षस्तु हव्यवाहः शुचेः सुतः ॥ ४
देवानां हव्यवाहोऽग्निः पितृणां कव्यवाहनः । सहरक्षोऽसुराणां तु त्रयाणां तु त्रयोऽग्नयः ॥ ५
एतेषां पुत्रपौत्रास्तु चत्वारिंशन्नवैव तु । वक्ष्यामि नामतस्तेषां प्रविभागं पृथक्पृथक् ॥ ६
वैद्युतो लौकिकाग्निस्तु प्रथमो ब्रह्मणः सुतः । ब्रह्मोदनाग्निस्तत्पुत्रो भरतो नाम विश्रुतः ॥ ७
८६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०२९श्लो०८-३०] ( अग्निवंशवर्णनम् )
वैश्वानरमुखस्तस्य महः काव्यो ह्यपां रसः । अमृतोऽथर्वणात्पूर्वं मथितः पुष्करोदधौ ॥
सोऽथर्वा लौकिकाग्निस्तु दध्यङ्गोऽथर्वणः सुतः ॥ ८
अथर्वा तु भृगुर्ज्ञेयोऽप्यङ्गिराऽग्निरथर्वणः सुतः । तस्मात्स लौकिकाग्निस्तु दध्यङ्गोऽथर्वणो मतः ॥ ९
अथ यः पवमानोऽग्निर्निर्मन्ध्यः कविभि स्मृतः । स ज्ञेयो गार्हपत्योऽग्निस्ततः पुत्रद्वयं स्मृतम् ॥ १०
शंस्यस्त्वाहवनीयोऽग्निर्यः स्मृतो हव्यवाहनः । द्वितीयस्तु सुतः प्रोक्तः शुक्लोऽग्निर्यः प्रणीयते ॥ ११
तथा सभ्यावसथ्यौ वै शंस्यस्याग्नेः सुतावुभौ । शंस्यास्तु षोडश नदीश्चक्रमे हव्यवाहनः ॥
योऽसावाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः ॥ १२
कावेरीं कृष्णवेणीं च नर्मदां यमुनां तथा । (*गोदावरीं वितस्तां च चन्द्रभागामिरावतीम् ॥ १३
विपाशां कौशिकीं चैव शतद्रूं सरयूं तथा । सीतां सरस्वतीं चैव ह्लादिनीं पावनीं तथा ) ॥ १४
तासु षोडशधाऽऽत्मानं प्रविभज्य पृथक्पृथक् । आत्मानं व्यदधात्तासु धिष्णिष्वथ बभूव सः ॥ १५
धिष्ण्याद्व्यभिचारिण्यस्तासूतपन्नास्तु धिष्णयः । धिष्णिषु जज्ञिरे यस्माद्धिष्णयस्तेन कीर्तिताः॥ १६
इत्येते वै नदीपुत्रा धिष्णिष्वेव विजज्ञिरे । तेषां विहरणीया ये उपस्थेयाश्च येऽग्नयः ॥
ताञ्शृणुध्वं समासेन कीर्त्यमानान्यथा तथा ॥ १७
ऋतुः प्रवाहमोऽग्नीध्रः पुरस्ताद्धिष्णयोऽपरे । विधीयन्ते यथास्थानं सौत्येऽह्नि सवनक्रमात् ॥ १८
अनिर्देश्यान्ववच्यानामग्नीनां शृणुत क्रमम् । सम्राडग्निः कृशानुर्र्यो द्वितीयोत्तरवेदिकः ॥ १९
सम्राडग्निः स्मृता ह्यष्टौ उपतिष्ठन्ति तान्द्विजाः । अधस्तात्पर्षदन्यस्तु द्वितीयः सोऽत्र दृश्यते ॥ २०
प्रतद्वोचे नभो नाम चत्वारि स विभाव्यते । ब्रह्मज्योतिर्वसुर्नाम ब्रह्मस्थाने स उच्यते ॥ २१
[+ हव्यसूर्याद्यसंसृष्टः शामित्रे स विभाव्यते । विश्वस्याय समुद्रोऽग्निब्रह्मस्थाने स उच्यते ॥ २२
(× ऋतुधामा च सुज्योतिरोदुम्बर्यां स कीर्त्यते । ब्रह्मज्योतिर्वसुर्नाम घलस्थाने स उच्यते ) ॥ २३
अजैकपादुपस्थेयः स वै शालामुखीयकः । अनुद्देश्योऽप्यहिर्बुध्नः सोऽग्निर्गृहपतिः स्मृतः ॥ २४
शंस्यस्यैव सुताः सर्वे उपस्थेया द्विजैः स्मृताः । ततौ विहरणीयांश्च वक्ष्याम्यष्टौ तु तत्सुतान् ॥ २५
ऋतुप्रवाह्नोऽग्नीध्रस्तत्रस्था धिष्णयोऽपरे । विह्रयन्ते यथास्थानं सौत्येऽह्नि सवनक्रमात् ॥ २६
पौत्रेयस्तत्सुतो ह्यग्निः स्मृतो यो हव्यवाहनः । शान्तिश्चाग्निः पचेतास्तु द्वितीयः सत्य उच्यते॥ २७
तथाऽग्निर्विश्वदेवस्तु ब्रह्मस्थाने स उच्यते । अवक्षुरच्छावाकस्तु भुवः स्थाने विभाव्यते ॥ २८
उशीराग्निः सवीर्यस्तु नेष्टीयः संविभाव्यते । अष्टमस्तु व्यरत्निस्तु मार्जालीयः प्रकीर्तितः ॥ २९
धिष्ण्या विहरणीया ये सौम्येनाऽऽज्येन चैव हि । तयोर्यः पावको नाम स चापां गर्भ उच्यते॥३०
* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
× धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
[अ० २९-३० श्लो० ३१-४९।१-२] वायुपुराणम् । ८७
( दक्षशापवर्णनम् )
अग्निः सोऽवभृथो ज्ञेयः सम्यक्प्राप्याप्सु हूयते । हृच्छयस्तत्सुतो ह्यग्निर्जठरे यो नृणां स्थितः ॥ ३१
मन्युमाञ्जाठरस्याग्नेर्विद्वान्नाभिः सुतः स्मृतः । परस्परोच्छ्रितः सोऽग्निर्भूतानीह विमूर्द्धहान् ॥ ३२
पुत्रः सोऽग्नेर्मन्युमतो घोरः संवर्तकः स्मृतः । पिबन्नपः स वसति समुद्रे वडवामुखः ॥ ३३
समुद्रवासिनः पुत्रः सहरक्षो विभाव्यते । सहरक्षसुतः क्षामो गृहाणि स दहेन्नृणाम् ॥ ३४
क्रव्यादोऽग्निः सुतस्तस्य पुरुषानात्ति यो मृतान् । इत्येते पावकस्याग्नेः पुत्रा ह्येवं प्रकीर्तिताः ॥ ३५
ततः शुचेस्तु यैः सौरैर्गन्धर्वैरसुरावृतैः । मथितो यस्त्वरण्यां वै सोऽग्निराग्निः समिध्यते ॥ ३६
आयुर्नामाऽथ भगवान्पशौ यस्तु प्रणीयते । आयुषो महिमान्पुत्रः स शावान्नामतः सुतः ॥ ३७
पाकयज्ञेष्वभिमानी सोऽग्निस्तु सवनः स्मृतः । पुत्रश्च सवनस्याग्नेरद्भुतः स महाशयाः ॥ ३८
विविचिश्चाद्भुतस्यापि पुत्रोऽग्नेः स महान्स्मृतः । प्रायश्चित्तेऽथ भीमानां हुतं भुङ्क्तेः हविः सदा ॥ ३९
विविचेस्तु सुतो ह्यर्को योऽग्निस्तस्य सुतास्त्विमे । अनीकवान्वामृजवांश्च रक्षोहा पितृकृत्तथा ॥ ४०
सुरभिर्वसुरत्नादौ प्रविष्टो यश्च रुक्मवान् ॥ ४१
शुचेरग्नेः प्रजा ह्येषा वह्नयस्तु चतुर्दश । इत्येते वह्नयः प्रोक्ताः प्रणीयन्तेऽध्वरेषु ये ॥ ४२
आदिसर्गे ह्यतीता वै यामैः सह सुरोत्तमैः । स्वायंभुवेऽन्तरे पूर्वमग्नयस्तेऽभिमानिनः ॥ ४३
एते विहरणीयास्तु चेतनाचेतनेष्विह । स्थानाभिमानिनो लोके प्रागासन्द्यव्यवहानाः ॥
काम्यनैमित्तिकाजस्रेष्वेते कर्मस्ववस्थिताः । पूर्वमन्वन्तरेऽतीते शुक्लैर्यामैः सुतैः सह ॥ ४४
देवैर्महात्मभिः पुण्यैः प्रथमस्थान्तरे मनोः ॥ ४५
इत्येतानि मयोक्तानि स्थानानि स्थानिनश्च ह । तैरेव तु प्रसंख्यातमतीतानागतेष्वपि ॥
मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम् । सर्वे तपस्विनो ह्येते सर्वे ह्यवभृथास्तथा ॥
प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृताः ॥ ४६
स्वारोचिषादिषु ज्ञेयाः सावर्ण्यान्तेषु सप्तसु । मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः ॥ ४७
वर्तन्ते वर्तमानैश्च देवैरिह सहाग्नयः । अनागतैः सुरैः सार्धं वर्तन्तेऽनागताग्नयः ॥ ४८
इत्येष विनियोऽग्नीनां मया प्रोक्तो यथातथम् । विस्तरेणाऽऽनुपूर्व्या च पितॄणां वक्ष्यते ततः ॥ ४९
॥ इति श्रीमहापुराणे वायुप्रोक्तेऽग्निवंशवर्णनं नामोनत्रिंशोऽध्यायः ॥ २९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२१२६
अथ द्वादशोऽध्यायः ।
दक्षशापवर्णम् ।
सूत उवाच--
ब्रह्मणः सृजतः पुत्रान्पूर्वे स्वायंभुवेऽन्तरे । अभ्यांसि जज्ञिरे तानि मनुष्यासुरदेवताः ॥ १
पितृत्वन्मन्यमानस्य जज्ञिरे पितरोऽस्य वै । तेषां निसर्गः प्रागुक्तो विस्तरस्तस्य वक्ष्यते ॥ २
८८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३० श्लो० ३-२७]
(दक्षशापवर्णनम्)
देवाङ्गुरामपुष्याणां दृष्ट्वा देवोऽभ्यभाषत । पितॄन्वन्मन्यमानस्य जज्ञिरे वोपयक्षिताः ॥ ३
मध्वादयः षडृतवस्तान्पितॄन्परिचक्षते । ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः ॥ ४
मन्वन्तरेषु सर्वेषु ह्यतीतानागतेष्वपि । एते स्वायंभुवे पूर्वमुत्पन्ना ह्यन्तरे शुभे ॥ ५
अग्निष्वात्ताः स्मृता नाम्ना तथा बर्हिषदश्च वै । अयज्वानस्तथा तेषामासन्वै गृहमेधिनः ॥ ६
अग्निष्वात्ताः स्मृतास्ते वै पितरोऽनाहिताग्नयः ॥
यज्वानस्तेषु ये ह्यासीन्पितरः सोमपीथिनः । स्मृता बर्हिषदस्ते वै पितरस्त्वाग्निहोत्रिणः ॥ ७
ऋतवः पितरो देवाः शास्त्रेऽस्मिन्निश्चयो मतः ॥
मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ तु शुष्मिणौ । नभश्चैव नभस्यश्च जीवावेतावुदाहृतौ ॥ ८
इषश्चैव तथोर्जश्च सुधावन्तावुदाहृतौ । सह(हा)श्चैव सहस्यश्च मन्युमन्तौ तु तौ स्मृतौ ॥ ९
तप(पा)श्चैव तपस्यश्च घोरावेतौ तु शैशिरौ ॥
कालावस्थास्तु षट्तेषां मासाख्या वै व्यवस्थिताः । त इमे ऋतवः प्रोक्ताश्चेतनाचेतनास्तु वै ॥ १०
ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्तेऽभिमानिनः । मासार्धमासस्थानेषु स्थानं च ऋतवोर्तवाः ॥ ११
स्थानानां व्यतिरेकेण ज्ञेयाः स्थानाभिमानिनः । अहोरात्रं च मासाश्च ऋतवश्चायनानि च ॥ १२
संवत्सरश्च स्थानानि कालावस्थाभिमानिनः । निमेषाश्च कलाः काष्ठा मुहूर्ता वै दिनक्षपाः ॥ १३
एतेषु स्थानिनो ये तु कालावस्थाव्यवस्थिताः । तन्मयत्वात्तदात्मानस्तान्वक्ष्यामि निबोधत ॥ १४
पर्वण्यास्तिथयः संध्या पक्षा मासार्धसंज्ञिताः । *[निमेषाश्च कलाः काष्ठा मुहूर्ता वै दिनक्षपाः ॥
द्वार्धमासौ मासस्तु द्वौ मासावृतुरुच्यते ॥] १५
ऋतुत्रयं चाप्ययनं द्वेऽयने दक्षिणोत्तरे । संवत्सरः सुमेकस्तु स्थानान्येतानि स्थानिनाम् ॥ १६
ऋतवः सुमेकपुत्रा विज्ञेया ह्यष्टधा तु षट् । ऋतुपुत्राः स्मृताः पश्च प्रजास्त्वार्तवलक्षणाः ॥ १७
यस्माच्चैवाऽऽर्तवेयास्तु जायन्ते स्थाणुजङ्गमाः । आर्त्तवाः पितरश्चैव ऋतवश्च पितामहाः ॥ १८
सुमेकात्तु प्रसूयन्ते म्रियन्ते च प्रजातयः । तस्मात्स्मृतः प्रजानां वै सुमेकः प्रपितामहः ॥ १९
स्थानिषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्तिताः । तदारूढ्यास्तन्मयत्वाच्च तदात्मानश्च ते स्मृताः २०
प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः । संवत्सरः स्मृतो ह्यग्निरृतमित्युच्यते द्विजैः ॥ २१
ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः । मासाः षडृतवो ज्ञेयास्तेषां पञ्चाऽऽर्तवाः सुताः ॥ २२
द्विपदां चतुष्पदां चैव पक्षिसंसर्पतामपि । स्थावराणां च पञ्चानां पुण्यं कालार्त्तवं स्मृतम् ॥ २३
ऋतुत्वमार्तवत्वं च पितृत्वं च प्रकीर्तितम् । इत्येते पितरो ज्ञेया ऋतवश्चाऽऽर्तवाश्च ये ॥ २४
सर्वभूतानि तेभ्योऽथ ऋतुकालाद्विजज्ञिरे । तस्मादेतेऽपि पितर आर्तवा इति नः श्रुतम् ॥ २५
मन्वन्तरेषु सर्वेषु स्थिताः कालाभिमानिनः । स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसंयमात् ॥ २६
अग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः । जज्ञाते च पितृभ्यस्तु द्वे कन्ये लोकविश्रुते ॥ २७
* इदमर्धं नास्ति क. पुस्तके ।
| [अ० ३० श्लो० २८-५०] | वायुपुराणम्। | ८९ |
|---|
( दक्षशापवर्णनम् )
मेना च धारिणी चैव याभ्यां विश्वमिदं धृतम् । पितरस्ते निजे कन्ये धर्मार्थं प्रददुः शुभे ॥ २८
ते उभे ब्रह्मवादिन्यौ योगिन्यौ चैव ते उभे ॥
अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी । धारणी मानसी चैव कन्या बर्हिषदां स्मृता ॥ २९
मेरोस्तु धारणीं नाम पत्न्यर्थं व्यसृजञ्छुभाम् । पितरस्ते बर्हिषदः स्मृता ये सोमपीथिनः ॥ ३०
अग्निष्वात्तास्तु तां मेनां पत्नीं हिमवते ददुः । स्मृतास्ते वै तु दौहित्रास्तद्दौहित्रान्निबोधत ॥ ३१
(+ मेना हिमवतः पत्नी मैनाकं साऽन्वसूत । गङ्गा सरिद्वरा चैव पत्नी या लवणोदधेः ॥ ३२
मैनाकस्यानुजः क्रौञ्चः क्रौञ्चद्वीपो यतः स्मृतः ) ॥ ३३
मेरोस्तु धारणी पत्नी दिव्यौषधिसमन्वितम् । मन्दरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः ॥ ३४
वेला च नियतिश्चैव तृतीया चाऽऽयतिः पुनः । धातुश्चैवाऽऽयतिः पत्नी विधातुर्नियतिः स्मृता ॥ ३५
स्वायंभुवेऽन्तरे पूर्वं तयोर्वै कीर्तिताः प्रजाः । सुषुवे सागराद्वेला कन्योमकामानिन्दिताम् ॥
सावर्णिना च सामुद्री पत्नी प्राचीनबर्हिषः । सवर्णा साऽथ सामुद्री दश प्राचीनबर्हिषः ॥ ३६
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥ ३७
तेषां स्वायंभुवो दक्षः पुत्रत्वे जज्ञिवान्प्रभुः । त्र्यम्बकस्याभिशापेन चाक्षुषस्यान्तरे मनोः ॥
एतच्छ्रुत्वा ततः सूतमपृच्छच्छांशपायनः । उत्पन्नः स कथं दक्षो ह्यभिशापाद्भवस्य तु ॥ ३८
चाक्षुषस्या यथे पूर्वं तन्नः प्रब्रूहि पृच्छताम् ॥ ३९
इत्युक्तः कथयामास सूतो दक्षाश्रितां कथाम् । शांशपायनमामन्त्र्य त्र्यम्बकाच्छापकारणम् ॥ ३९
दक्षस्याऽऽसन्सुता ह्यष्टौ कन्या याः कीर्तिता मया । स्वेभ्यो गृहेभ्यो ह्यानाय्य ताः पिताऽभ्यर्चयदगृहे ॥ ४०
ततस्त्वभ्यर्चिताः सर्वा न्यवसँस्ता पितुर्गृहे ॥ ४१
तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै । नाऽऽजुहावाऽऽत्मजां तां वै दक्षो रुद्रमभिद्विषन् ॥ ४१
अकरोत्स नतिं दक्षे न कदाचिन्महेश्वरः । जामाता श्वशुरे तस्मिन्स्वभावोतजसि स्थितः ॥ ४२
ततो ज्ञात्वा सती सर्वाः स्वसॄः प्राप्ताः पितुर्गृहम् । जगाम साऽप्यनाहूता सती तत्स्वं पितुर्गृहम् ॥ ४३
× ताभ्यो हीनां पिता चक्रे सत्याः पूजामसंमताम् ॥
ततोऽब्रवीत्सा पितरं देवी क्रोधादमर्षिता । यवीयसीभ्यो ज्यायसीं किंतु पूजामिमां प्रभो ॥ ४४
असंमतामवज्ञाय कृतवानसि गर्हिताम् ॥ ४५
अहं ज्येष्ठा वरिष्ठा हि न त्वसत्कर्तुमर्हसि । एवमुक्तोऽब्रवीदेनां दक्षः संरक्तलोचनः ॥ ४५
त्वं तु श्रेष्ठा वरिष्ठा च पूज्या बाला सदा मम । तासां ये चैव भर्तारस्ते मे बहुमता सदा ॥ ४६
बलिष्ठाश्च तपिष्ठाश्च महायोगाः सुधार्मिकाः । गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात्सति॥ ४७
वासिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः । भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥ ४८
तस्याऽऽत्मा स च ते शर्वो भक्ता चासि हितं सदा । तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः॥४९
इत्युवाच तदा दक्षः संप्रमूढेन चेतसा । शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः ॥ ५०
+ धनुश्चिह्नान्तर्गतग्रन्थो ङ०पुस्तके नास्ति । \times इदमर्धं नास्ति क. पुस्तके ।
१२
९० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३० श्लो० ५१-७३] (दक्षशापवर्णनम् )
तथोक्ता पितरं सा वै क्रुद्धा देवीदमब्रवीत् । वाङ्मनःकर्मभिर्यस्माददुष्टां मां विगर्हसे ॥ तस्मात्त्यजाम्यहं देहमिदं तात तवाऽऽत्मजम् ॥ ५१ ततस्तेनावमानेन सती दुःखदमर्षिता । अब्रवीद्वचनं देवी नमस्कृतवा(त्य) महेश्वरम् ॥ ५२ यत्राहमुपपत्स्येऽहं पुनर्देहेन भास्वता । तत्राप्यहमसंमूढा संभूता धार्मिकी पुनः ॥ गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धर्मतः ॥ ५३ तत्रैवाथ समासीना युक्ताऽऽत्मानं समादधे । धारयामास चाऽऽग्नेयीं धारणां मनसाऽऽत्मनः ॥ ५४ तत आग्नेयीसमुत्थेन वायुना समुदीरितः । सर्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥ ५५ तदुपश्रुत्य निधनं सत्या देवोऽथ शूलभृत् । संवादं च तयोर्बुद्ध्वा याथातथ्येन शंकरः ॥ दक्षस्याथ ऋषीणां च चुकोप भगवान्प्रभुः ॥ ५६ यस्मादवमता दक्ष मत्कृते नाम सा सती । प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ५७ तस्माद्वैवस्वतं प्राप्य पुनरेव महर्षयः । उत्पत्स्यन्ते द्वितीये वै मम यज्ञे सयोनिजाः ॥ ५८ हुते वै ब्रह्मणा शुक्रे चाक्षुषस्यान्तरे मनोः । अभिव्याहृत्य च ऋषीन्दक्षमभ्यगमत्पुनः ॥ ५९ भविता चाक्षुषो राजा चाक्षुषस्य समन्वये । प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः ॥ ६० दक्ष इत्येव नाम्ना त्वं मार्षायां जनयिष्यसि । कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषेऽन्तरे ॥ ६१
दक्ष उवाच-- अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते । धर्मार्थकामयुक्तेषु कर्मस्विह पुनः पुनः ॥ ६२ यस्मात्त्वं मत्कृते क्रूरमूर्तीन्व्याहृतवा(न)सि । तस्मात्सार्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ ६३ हुत्वाऽऽहुतिं ततः क्रूर अपस्त्यक्ष्यन्ति कर्मसु । इहैव वत्स्यसि तथा दिवं हित्वाऽऽयुगक्षयात् ॥ ६४
रुद्र उवाच-- सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते । तमहं धारयिष्यामि निदेशात्परमेष्ठिनः ॥ ६५ अस्यां क्षितौ वृता लोकाः सर्वे तिष्ठन्ति भास्कराः । तानहं धारयामीह सततं न तवाऽऽज्ञया॥ ६६ चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुञ्जते । नाहं तैः सह भोक्ष्यामि ततो दास्यन्ति ते पृथक् ॥ ततो देवैः स तैः सार्धं नेज्यते पृथगिज्यते ॥ ६७ ततोऽभिव्याहतो दक्षो रुद्रेणामिततेजसा । स्वायंभुवेऽन्तरे त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ ६८ कृत्वा गृहपतिं दक्षं ज्ञानानामीश्वरं प्रभुम् । दक्षो नाम महायज्ञैः सोऽप्यजद्दैवतैः सह ॥ ६९ अथ देवी सती या तु मप्तौ वैवस्वतेऽन्तरे । मेनायां तामूमां देवीं जनयामास शैलराट् ॥ ७० या तु देवी सती पूर्वं ततः पश्चादुमाऽभवत् । सहव्रता भवस्यैषा न तया मुच्यते भवः ॥ यावदिच्छति संस्थातुं प्रभुमन्वन्तरेष्विह ॥ ७१ मरीचं कश्यपं देवी यथाऽदितिरनुव्रता । साध्यं नारायणं श्रीस्तु मधवन्तं शची यथा ॥ ७२ विष्णुं कीर्तिं रुचिः सूर्यं वसिष्ठं चाप्यरुन्धती । नैतास्तु विजहत्येतानभर्तृन्देव्यः कथंचन ॥ ह्यावर्तमानकल्पेषु पुनर्जायन्ति तैः सह ॥ ७३