वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
देवविमान! So the mantra originally had "देवमानेव" but the compositor set "देवयाने"! Wait, look at "देवयाने": could that 'या' be 'मा'? If it's 'मा', then what is 'ने'? Wait! Could it be "देवमानेव"? Look: Letter 1: दे Letter 2: व Letter 3: या (has no loop at bottom left, unlike 'मा' which has a clear loop). Wait, but sometimes 'मा' in this font has a small loop? Letter 4: ने Is there a 'व' after 'ने'? No, it directly goes to 'चित्रम्'! Wait, is the 4th letter 'ने'? Or 'त'? No, it has an e-matra: 'ने'. So it says "देवयाने चित्रम् ॥'"! We must transcribe what is printed.
Wait, look at line 17:
(ऋ० सं० १० । ११७ । १०)
Wait, Rigveda 10.107.10, but the book prints:
(ऋ० सं० १० । ११७ । १०) - it printed ११७ instead of १०७! We transcribe what's printed:
(ऋ० सं० १० । ११७ । १०)
Line 18: दक्षिणा नाम प्रजापतेर्दुहिता, तया सूक्तमात्मनः स्तुतिसंबद्धं दृष्टम् । Line 19
७२
वेदस्वरूप-विमर्शः
तदपि निःसारम्; 'एतत्सूक्तं प्रतिबभौ' इति सूक्तप्रतिभान- स्यैव स्पष्टतया वर्णनात् । 'मन्त्रदृष्टयः', 'सूक्तं प्रतिबभौ', 'ऋषिर्दर्शनात्' इत्यादीनि मन्त्र-सूक्त-दर्शन-प्रतिभानबोधकानि निरुक्तवचनानि दृष्ट्वाऽपि येषां हृदि मन्त्राणां कृतकत्वशङ्का भवेत्, तेषां समाधान- मपि दुश्शकमेव । अत्र सूक्तप्रतिभानं मन्त्रदर्शनञ्चोक्तम्, न तु सूक्तार्थप्रतिभानम् मन्त्रार्थदर्शनं वोक्तं न वा सूक्तमन्त्रादिनिर्माणम् । न चेश्वरनिर्मिते अपौरुषेये वा सूक्ते तदितिहासगाथामिश्रणा संभवात् तन्निर्मितत्वकल्पनं युक्तम् ; ईश्वरप्रदत्ते सूत्रार्थभानेऽपि तत्सम्भवस्य तुल्यत्वात् । यदि च सूत्रार्थप्रतिभाने तत्सम्भवस्तदा सूत्रेऽपि तत्सम्भवे बाधोभावः समान एव । सर्वत्र हि वेदे फलवन्नि- श्चितार्थबोधकत्वेन प्रामाण्यम् । गाथेतिहासाख्यायिकादीनामपि तत्रैव स्वारस्यात्, 'सर्वे वेदा यत्पदमामनन्ति', 'आम्नायस्य क्रियार्थत्वात्' इत्यादिश्रुतिसूत्रेभ्यः । यदपि—"साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृत- धर्मेभ्य उपदेशेन मन्त्रान् संप्रादुः, उपदेशाय ग्लायन्तोऽवरे बिल्म- ग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं वेदाङ्गानि च । विल्मं भिल्मं भासनमिति निरुक्तबलेन ऋषीणां धर्मसाक्षात्कारः, तत्कृताश्च वेदमन्त्राः" इति प्राहुः । तदपि न सम्यक् ; निरुक्तवचनस्य अन्यथाऽर्थोपपत्तेः । तदुक्तं तट्टीकाकृता दुर्गाचार्येण—'ऋषन्त्यमुष्मात् कर्मण एवमर्थवतः मन्त्रेण युक्तादमुना प्रकारेण एवंलक्षणः फलादिपरिणामो भवतीत्यृषयः, ऋषिर्दर्शनात् इति वक्ष्यति' (नि० २ । १ ।) । तदेतत्कर्मणः साक्षात् फल- विपरिणामदर्शनमौपचारिक्या वृत्त्योक्तं साक्षात्कृतधर्माण इति । नहि धर्मस्य दर्शनमस्ति । अत्यन्तापूर्वो हि धर्मः । ननु कथमेवं धर्मशब्दस्य वेदोऽर्थो गृह्यत इति चेत् ? यथा 'सूक्तं प्रतिबभौ, मन्त्रदृष्टय' इत्यादिषु सूक्तमन्त्रादिशब्दानां सूक्तार्थ-मन्त्रार्थ- ग्रहणं भवद्भिः क्रियते, तथैवेतद्वेहि । इह तु ब्राह्मणप्रामाण्यमपि वक्ष्यते इत्यधिकम् । ननु साक्षात्कृतधर्माणं श्रवणमन्तरेणैव मन्त्राणां तपोबलेन
वेदस्वरूप-विमर्शः
७३
साक्षात्कारः, तेऽवरेभ्यः शक्तिहीनेभ्यः श्रुतर्षिभ्य उपदेशेन शिष्यो- पाध्यायिकया वृत्त्या मन्त्रान् सम्प्रादुः सम्प्रत्तवन्तः । ऋषीणां तपोमाहात्म्यात् उपदेशमन्तरेव वेदादेव संशयविपर्ययादि- राहित्येन कर्मतत्फलयोः कार्यकारणभावावबोधः । निश्चयाश्रयं साक्षा- त्कारवदेव संशयादिरहितत्वेन साक्षात्कार उच्यते । अन्यैस्तु यागादिमात्रफलं सुखादिकमेव धर्मपदेन लक्षणया उच्यते । तस्यैव साक्षात्कारः संभवति, न धर्मस्य । अन्यैस्तु धर्मपदेन धर्मावबोधकस्य वेदस्यैव ग्रहणमिष्यते । अत्रार्थे ब्राह्मणमपि—'तद्यदेनांस्तपस्यमानान् स्वयम्भु ब्रह्माम्यनार्षत् । तदृषीणा- मृषित्वम् ' मन्त्रसाक्षात्कर्तृत्वेनैव ऋषित्वम् । एवं साक्षात्कृतधर्मभिरसाक्षात्कृतधर्मेभ्यो मन्त्रदानम् । अथ तेऽपि उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं वेदाङ्गानि च कथं नामोपदिश्यमानमेते शक्नुयुर्ग्रहीतुमित्येवमर्थमधिकृत्य ग्लायन्तः खिद्यमानास्तेष्वनुगृह्णन्तस्तदनुकम्पया तेषामायुषः सङ्कोच- मवेक्ष्य कालानुरूपाञ्च ग्रहणशक्तिं बिल्मग्रहणाय इमं ग्रन्थं वेदं वेदाङ्गानि समाम्नातवन्तः । कथं पुनः समाम्नासिषुरित्याह—वेदं तावदेकं सन्तमतिमहत्त्वाद् दुर- ध्येयमनेकशाखाभेदेन समाम्नासिषुः सुखग्रहणाय व्यासेन समाम्नात- वन्तः । तद्यथा—एकविंशतिधा बाह्वृच्यमेकशतमध्वर्यवं सहस्रधा साम नवधा आथर्वणम् । वेदाङ्गानि च व्याकरणमष्टाधा निरुक्तं चतुर्दशधे- त्येवमादि । एवं समाम्नासिषुर्भदेन ग्रहणार्थम् । कथं नाम भिन्नान्येतानि शाखान्तराणि लघूनि सुखं गृह्णीयुरेते शक्तिहीना अल्पायुषो मनुष्या इत्येवमर्थं समाम्नासिषुः—बिल्मं भिल्मं वेदानां भेदनम् । भेदो व्यासः भासनमिति । अथवा भासनमेव बिल्म- शब्देनोच्यते । वेदाङ्गविज्ञानेन भासते प्रकाशते वेदार्थ इत्यत इदमुक्तं बिल्ममिति । एवमेव 'ऋषिर्दर्शनात्' (२ । ११) इत्यत्राप्युक्तम् । पश्यति ह्यसौ सूक्ष्मानप्यर्थान् स्तोमान् ददर्शेत्यौपमन्यव आचार्यो मन्यते । ब्राह्मणञ्चात्र
वेदस्वरूप-विमर्शः (पृष्ठ ७४)
भवति-'तद्यदेनांस्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यनार्षत् स्वयम्भु अकृतक- मभ्यागच्छत, अनधीतमेव तत्त्वतो ददृशुस्तपोविशेषेण । एवमुच्चावचै- रभिप्रायैर्ऋषीणां मन्त्रदृष्टयो भवन्ती'ति (७।३) निरुक्तोक्तव्याख्याने दुर्गा- चार्येणोक्तम् । विद्यमानानामेव मन्त्राणामृषयो येन केनचिन्निमित्तेन निदानभूतेन हर्ष-शोक-निन्दा-प्रशंसादिनाभन्मन्त्राणां द्रष्टारो भवन्ति, न तु कर्त्तार इत्यभिप्रायः । यदप्युक्तम् - " 'मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामा- ण्यात्' इत्यत्र गोतमेनोक्तं यथाफलसिद्धिं दृष्ट्वा स्थालीपुलाकन्यायेन चायुर्वेदस्य प्रामाण्यं भवति, तथैव वेदानार्माप वात्स्यायनेन तदेव [
७६ वेदस्वरूप-विमर्शः यद्युक्तम्- 'रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥' (ऋ० ३ । ३३ । ५) अस्यार्थः-हे सुजला नद्यः मन्मधुरवचनैः शीघ्रगमनान् मुहूर्तार्थं विश्राम्यताम् । कुशिकस्य पुत्रोऽहं स्वात्मरिरक्षिषया मनीषाऽनुसारेण प्रार्थये इति । मन्त्रस्यास्य ऋषिर्नदीः स्तौति । निरुक्तकृता चाख्यान- मिदमुक्तम् । विश्वामित्रो पैजवनः सुदासस्य राज्ञः पुरोहित आसीत् । स राज्ञः सकाशात् बहूनि धनान्यादाय शतद्रु-विपाशवसङ्गममुपाययौ । तरणमार्गमनालक्ष्य नदीस्तुष्टाव । पूर्वं प्रत्याख्याय पश्चात् ताभिर्मार्गो दत्तः । अत्रापि अस्मच्छब्दार्थैः कुशिकपुत्र एव, न सर्वे उच्चारयितारः । एवम्- [L1
७८ वेदस्वरूप-विमर्शः आभोगयम् उपभोग्यं सोममिच्छन्तः यत् यदा प्र ऐतन तपश्चरितुमरण्यं गतवन्तः । ऋभवो हि सुधन्वन आङ्गिरसस्य पुत्राः । 'ऋभुर्विभ्वावाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः' (नि० ११।१६) । कुत्सो- प्याङ्गिरसः, अतस्तेन 'मदीया ज्ञातय' इत्युक्तम् । हे सौधन्वनासः सुधन्वनः पुत्राः तदानीं चरितस्य तपसो भूम्ना बहुत्वेन दाशुषः हवींषि दत्तवतः सवितुः सोमाभिषवं कुर्वतः यजमानस्य गृहं तृतीयसवनाख्य मागच्छत । एतत्सर्वम् 'आर्भवं शंसति' (ऐ० ब्रा० ३।३०) इत्यादौ स्पष्टम् । आसमन्ता- द्भोग आभोगः, तदर्हः आभोगयः, 'छन्दसि च' इति यः । 'यस्य' इति लोपाभावश्छान्दसः । ऐतन, लङि मध्यमबहुवचनस्य थस्यतादेशः । तस्य तनबादेशः, आडागमो वृद्धिश्च । अत्र ऋभुदेवताः स्वपूर्वजा इति कुत्सेन ऋषिणोक्तम् । पुराणा- दिभ्यः प्रसिद्धः कुत्सकुलस्य ऋभोत्पत्तिः । कथञ्चैतत् सर्वेषु वक्तृषु संभवति ? तेनात्रापि वक्तृविशेष एव ग्राह्यः । क्वचिदेवमपि भवति—यत्र ऋषिभिर्देवतामुखेन स्ववक्तव्यविषयाः प्रकटिताः । यथा—इन्द्रागस्त्यसंवादे वागाम्भृणीये सूक्ते देवतैव ऋषिः । सैव तन्नास्मच्छब्दग्राह्या । ऋषेर्नाम तत्राध्ययनमेव । एवमेव 'अग्निः पूर्वेभिः ऋषिभिरीड्यो नूतनैरुत', 'इति शुश्रुमधीराणां येनस्त- द्व
" "ता"... Look at the first character: It has 'व' with 'य' = व्य! Then 'व'! Then 'स्था'! Then 'पि'! Then 'ता'! "व्यवस्थापितादोषाणाञ्च"! Wait, let's look: व्य (vya) - व (va) - स्था (stha) - पि (pi) - ता (tā) - दो (do) - षा (ṣā) - णा (ṇā) - ञ्च (ñca)! Wait, why would it be "व्यवस्थापितादोषाणाञ्च"? Or "व्यवस्थापितानां दोषाणां च"? Wait, does it have an anusvara over ता? No. Does it say: "उपस्थापितानां"? Let's look closely at line 13: 'आख्या प्रवचनादि'त्यत्र Wait, Sutra is: "आख्या प्रवचनात्" (Purva Mimamsa Sutra 1.1.30: "आख्या प्रवचनात्")! In Mimamsa Sutra 1.1.30: "आख्या प्रवचनात्" (names like Kathaka, Kauthuma are due to teaching/recitation, not authorship). Swami Karpatri writes: 'आख्या प्रवचनात्' (or प्रवचनादि) इत्यत्र... Wait, in the text: 'आख्या प्रवचनादि'त्यत्र Then: Look at the first letter after space:
Here is the complete, line-by-line transcription of the provided image into pure, clean Markdown in Unicode Devanagari:
Left Page
तत्प्रसादस्य निर्हेतुकत्वे सर्वत्र प्रसङ्गात् , तपोधोगादिहेतुकत्वे तु तेनैव तेषामतीन्द्रियार्थज्ञानलाभसंभवाच्च । किञ्च-भवतां वेदस्य प्रामाण्य- मार्षार्योक्तत्वेन । ऋषीणामाप्तत्वम ईश्वरप्रसादजज्ञानेन । परमेश्वर- तत्प्रसादसिद्धिश्च वेदेन चेत् चक्रकप्रसङ्गः । न च स्वतन्त्रेणानुमानेन तत्सिद्धिः ; तत्र बाधादिदोषस्य उक्तत्वात् । तत्सिद्ध्यावपि तदनुग्रहजं ज्ञानं तन्त्रादिमूलभूतं कुरान-बाइबिलादिमूलभूतं वेदमन्त्रमूलभूतं चेत्यत्र विनि- गमनाविरहात् तदसिद्धेः । यदप्युक्तम् – “ज्ञानं नेन्द्रियग्राह्यम्, तस्य स्वतःप्रकाशत्वात् । न च पुरुष- प्रयत्नसाध्यम्; तस्य श्रुतिषु नित्यत्वश्रवणात्, पञ्चदश्यादिग्रन्थेषु सयुक्ति स्पष्टमुपपादितत्वाच्च । तस्मात् तद्धरौपेयमेवे”ति । तदप्युपहासास्पदम् ; नैयायिकवैशेषिकैश्च ज्ञानस्यानित्यत्वाभ्युपगमात् । न च नैयायिकादि- मतमग्राह्यमिति वाच्यम् ; तथारवे तन्मतरीत्या अलौकिकज्ञानस्यापि असिद्धत्वात् । किञ्च-वेदपौरुषेयत्वसिद्धये योगजसामर्थ्यातिशयसाधनाय गुणवद्वक्तृकत्वेन शब्दप्रामाण्यसिद्धये च नैयायिकादिमताश्रयणम्, ज्ञाननित्यत्वसिद्धये च वेदान्तमताश्रयणमिति अर्धजरतीयमेव । किञ्च-“यथा शब्दनित्यत्वेऽपि न वेदस्य नित्यत्वम्, तथात्वे रघुवंशादि- शब्दानामपि नित्यत्वापत्तिरि”त्यादिकमुक्तम् । तथैव ज्ञाननित्यत्वेऽपि वेदस्य न नित्यत्वम् , अन्यथा बौद्धाद्यागमानामपि तथात्वापत्तिः किं न तर्क्यते ? वृत्त्यात्मकस्य ज्ञानस्य अनित्यत्वं तु स्पष्टमेव । यदप्युक्तम् – “ईश्वरप्रसादजे ज्ञाने न पुरुषप्रयत्नापेक्षे”ति । तदप्य- सङ्गतम् ; पुरुषप्रयत्नानपेक्षारणे सर्वस्यापि तदापत्तेः। ईश्वरप्रसादजमपि ज्ञानं प्रयत्नजन्यमेव । अन्यथा प्रसादजत्वानुपपत्तेः । अनादित्वसमर्थन- मपि निष्प्रमाणकमेव । यदि प्रतिकल्पमेवंविधज्ञानस्य ऋषिभिः प्रणी- यत्वात् प्रवाहरूपेण ज्ञाननित्यत्वमास्थीयते तदा प्रतिकल्पं स्पष्टमुक्त- त्यात् ऋषिभिर्मन्त्रदर्शनमेव कुतो नास्थीयते ? यद्यनादिशब्दे परिदेवन- वक्तृविरोपोल्लेखादिकं न संभवति, तदा वरुज्ञानेऽपि तत्समानमेव । यदपि – “वागात्मकस्य वेदस्य अकृतकत्वबोधिकानाम ‘वाचा विरूपनित्यया’, ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा’, ‘आदौ
Right Page
वैदमयी दिव्या यतः सर्वाः प्रवृत्तयः' इत्यादिश्रुतिस्मृतीनाम् अर्थान्तरपरत्व- सुपवर्णितमि”ति । तदपि न सङ्गतम्; तदसंभवस्य उक्तत्वात् । यदुक्तम्-“यदि वै प्रजापतेः परमस्ति वागेव तत् ( शतपथब्राह्मणे ३ । १ । ३ । ११ ) इति वाजसनेयशृतौ श्रुतां वाचमुपलक्ष्यैव तन्न नित्यत्वप्रतिपादनम् । न च सा वागियमेवेति सुधा भ्रमितव्यम्; तस्याः सर्वलोकात्मकतया त्रैलोक्यात्मकतया सूर्यात्मकतया च अन्यत्र बहुधा श्रयमाद्यत्वात् । तथा हि-‘वागेवेदं सर्वम्’ ( ऐतरेय ), ‘त्रयं वै विद्या ऋचो यजूंषि सामानि । इयमेवर्क् अन्तंरिक्षमेव यजूंषि द्यौः सामानि ।’ ‘तद्वा एतत्सहस्रं वाचः प्रजातम् । हे इन्द्रस्तृतीये तृतीयं विष्णोः ऋचश्च सामानि च । तेजसो वै तत् तेजोऽजायत । यदृचश्च सामाश्चेन्द्रः । इन्द्र इति ह्येतं तमाचक्षते च एष तपति स हैष भर्ता' इति पुरश्चारणश्रुतिः त्रैलोक्यात्मकत्वमाचष्टे । 'संवत्सर एवाग्निः । तस्य वा एतस्य वागेवो- पनिषत् । सा वा एषा वाक् त्रेधा विहिता ऋचो यजूंषि सामानि । तेनाग्नित्रेधा विहितः । सा या वाक् असौ स आदित्यः । मह्णलमन्वेवर्क्ः अर्चिः सामानि पुरुषो यजूंषि । अथैतद् भूतम् । यदेतदर्चिर्र्दीप्यते । इयं तत्पुष्करपर्णम् । यदेतन्मण्डलं तपति तन्महदुक्थम् ।’ एतदभि- प्रायेणैव ‘तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे’ ( ऋ० सं० १० । ९० । ९ ) इति ऋग्यजुःसामां यज्ञप्रभवत्वमाख्यायते” इत्यादि । तदपि न सङ्गतम्; उक्तश्रुतीनामन्यार्थत्वात् । तथा हि-यदि वै प्रजापतेः परमस्ति वागेव तदिति नानेनापि वचनेन शब्दात्मक- वाग्व्यतिरिक्त-भूतभौतिकोपादानभूतं किमपि नित्यं तत्त्वान्तरं विव- क्षितम् । न च प्रजापतेः परत्त्वादेव तत् कल्पयितुं शक्यम्; अव्यक्तशन्द- ब्रह्माद्यवस्थापि परत्वोपपत्तेः, तत्रैव शतपथे सिद्धान्ते शाखान्तरीयवत- परत्वस्य खण्डितत्वाच्च । तथा हि- 'तद्वैके वाच उत्तममालभन्ते । यदि वै प्रजापतेः परमस्ति वागेव । तदैतद्वाचमुज्जयाम इति तद्वदन्तः । तदु तथा न कुर्यात् ।
८४ वेदस्वरूप-विमर्शः सर्वं वा इदं प्रजापतिः। यदिमे लोकाः यदिदं किञ्च सा। यदैव लोको वाग्वदति तद्वाचमुज्जयति । तस्मात् तन्नाद्रियेत ।' ( शतपथ ३ । १ । ३ । ३ ) अयमभिप्रायः केचित् सप्तदश-प्राजापत्यपशूनामन्ते वाग्दैवत्यं पशु मामनन्ति । तत्र चोपपत्तिं वदन्ति । तेषां पक्षं निरसितुमनुवदति - तद्धैके वाच इति । 'वाच उत्तममेके' इति कात्यायन-श्रौतसूत्रमप्यत्र अनुकूलम् । एके शाखान्तरीया वाचे वाग्देवतायै उत्तममन्ते कर्तव्यत्वात् चरमं तम् आलभन्ते । नहि प्रजापतेः परम् उत्कृष्टं पूर्व-भावि किञ्चिदप्यस्ति, यदर्थं पशुरालभ्यते । यद्यस्ति, वागेव अस्ति, तस्या अव्यक्तशब्दब्रह्मत्वेन पूर्वमवस्थानात् । ता उज्जयामः साधयामः इति बुद्ध्या वाग्दैवत्यः पशु- रालम्भनीय
६६ वेदस्वरूप-विमर्शः रित्कायाः कस्याञ्चित्सुन्दतौ अनुपयोगात् । ‘वागेवेदं सर्वम्’ इत्यादिकमपि वाच्यवाचकभेदाभिप्रायेण द्रष्टव्यम् । ‘ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविव्यदिति सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एवे’ति माण्डूक्यश्रुतेः, ‘यदिदमर्थजातमभि- धेयभूतं तस्याभिधानाव्यतिरेकात्, अभिधानञ्च ओंकाराइयतिरेका- दोङ्कार एवेदं सर्वमिति शाङ्करभाष्याच्च । यदुक्तम्-“रूपिद्रव्यस्य चक्षुषा यावत् स्वरूपमुपलभ्यते सा ऋक् । यावद् दूरं तद् द्रष्टुं शक्यते, तदन्तिमं मण्डलं साम । अनयोर्मध्ये यावन्त- स्तद्द्रव्यसंसक्ताः प्राणास्तद् यजुः । एवमेव इन्द्रियान्तरग्राह्येषु पदार्थे- ष्वप्यनुसन्धेयमिति वितानवेदा” इति । तन्न; अस्याः कल्पनाया निर्मूलत्वस्य उक्तत्वात्, रसस्पर्शादीनामिन्द्रियग्राह्याणां दूरत्वाभावेन तत्र साम-यजुषोरभावापत्तेश्च । ‘प्रजापतिर्लोकानभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रयीविद्या संप्रा- स्रवत् । तामभ्यतपत् । तस्या अभितप्ताया एतान्यक्षराणि संप्रा- स्रवन्त भूर्भुवः स्वरिति । तान्यभ्यतपत् । तेभ्योऽभितप्तेभ्य ओंकारः संप्रास्रवत् । तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृ- ण्णानि एवमोङ्कारेण सर्वा वाक् सन्तृण्णा । ओंकार एवेदं सर्वम् ।’ ( छान्दोग्य० २ । २३ । २ ) अत्र सर्वसारत्वेन ओङ्कारस्य सर्वरूपत्वमुक्तम् । तस्यापि वागभि- व्यङ्ग्यत्वात् वाग् रूपत्वाच्च वागेवेदं सर्वं सुपपद्यते । प्रजापतिर्विराट् कश्यपो वा लोकानुद्दिश्य तेषु सारजिघृक्षया अभ्यतपत् ध्यानं कृतवान् । ततः सारभूता त्रयीविद्या संप्रास्रवत् प्रजापतेर्मनसि प्रत्यभात् । तस्यास्तिस्रो व्याहृतयः, ताभ्यः प्रणव इति श्रुत्यर्थः । ‘एषां भूतानां पृथिवी रसः, पृथिव्या आपो रसः, अपामोषधयो रसः, ओषधीनां पुरुषो रसः, पुरुषस्य वाग् रसः, वाच ऋग् रसः, ऋचः साम रसः, साम्नो वाक्ः’ इत्यादि सर्वरसरूपत्वमुक्तम्, सर्वभूतरसरूपत्वा- दपि सर्वरूपत्वं वाचः सङ्गच्छते ।
वेदस्वरूप-विमर्शः ८७ 'प्रजापतिर्लोकानभ्यतपत् । तेषां तप्यमानानां रसान् प्रावृह- दग्निं पृथिव्याः वायुमन्तरिक्षादादित्यं दिवः ।' छा० ४।१७।१ ) अत्रापि सारजिघृक्षया ध्यानलक्षणं तपश्चचार, तेषां रसान् सार- रूपान् प्रावृहत् उद्धृतवानित्यर्थः । 'एतास्तिस्रो देवता अभ्यतपत् । तासां तप्यमानानां रसान् प्रावृहदग्नेऋचो वायोर्यजूंषि सामान्यादित्यात् ।' ततोऽपि सारं रसं त्रयीं विद्यां जग्राह इत्यर्थः । अग्निवाय्वादित्यसार- रूपत्वादेव ऋगादीनामग्न्यादिभ्य उत्पत्तिर्वर्णिता । 'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' इत्यस्य मनुवचनस्याप्ययमेवार्थः । एतेन "ऋक्प्रतिपाद्यत्वेन अग्ने- ऋग्जनकत्वमित्युक्तिः परास्ता; प्रत्यक्षातिरिक्तस्थले विषयस्य प्रमा- हेतुत्वानुपपत्तेः । 'त्रयी वै विद्या-ऋचो यजूंषि सामानि । इयमेवर्गाऽस्याः ह्यर्चति योऽर्चति स वागेवर्ची वाचा ह्यर्चति योऽर्चति सोऽन्तरिक्षमेव यजूंषि द्यौः सामानि । सैषा त्रयी विद्या सोम्येऽध्वरे प्रयुज्यते ।' ( शतपथ ४ । ५ । ६ । ७ ) अत्रापि 'अस्या ह्यर्चति' इत्यर्चत्कारणत्वात् इमा ऋच उक्ताः । ऋक्शब्दे पृथिव्याञ्च शब्दस्य व्युत्पत्तिं दर्शयति । पृथिव्यां कारणत्वा- नुपपत्तेरधिकरणत्वं दर्शितम् । शब्दात्मिकायामस्यां ह्यर्चतीति पृथिवी- त्वेन स्तूयते । एवं वाचार्चति । अत्र सर्वत्र केनचिद्योगेन पृथिव्यां वाचि ऋग्दृष्टिः, अन्तरिक्षे यजुर्दृष्टिः, दिवि च सामदृष्टिः क्रियते । 'तद्वा एतत्सहस्रं वाचः प्रजातं द्वे इन्द्रस्तुतीये तृतीयं विष्णु- र्ऋक्च सामानि चेन्द्रो यजूंषि विष्णुः । तस्मात् सदस्पृक्- सामाभ्यां कुर्वन्ति । ऐन्द्रं हि सदः ।' एतदर्थस्तु हरिस्वामिभिरुक्तः — तदेतत् त्रयीविद्यात्मकं सहस्रं बहु- त्वं वाच आध्यात्मिकायाः प्रजातम् = वागिन्द्रियाणामग्न्यादीनामभि
८८ वेदस्वरूप-विमर्शः व्यक्तिः। अधियज्ञियायाश्च शब्दमात्रात्मिकाया ऋगादेः प्रजातं विशेष- विकासादिकेत्युपचर्य वाचा गायत्र्याविति छन्दांसि प्रजातम्। तस्यास्य सहस्रस्य वाचः प्रजातम्। द्वे तृतीये द्वौ विभागौ, इन्द्र एकम्, तृतीयं विष्णुरित्यधिदैवम् । इन्द्राविष्ण्वोर्हि तौ शब्दशेषावित्यर्थः। ऋचश्च सामानि चेन्द्र इति विभागात्तावद्धनम्। तस्मात्सदसीति यस्माद् दृष्टो नैव इन्द्रस्तस्मात् ताभ्यां सदसि स्तोत्रादिकं कुर्वन्ति। ऐन्द्रं हि इन्द्रस्य स्वभूतं सदः, स्वायतने युक्तं स्तोत्रम् । वेदसिद्धस्यैव चायं सदसिकरणस्यानुवादो वक्ष्यमाणमिथुनोपोद्घाताथंम् ! अत्रापि वाक्शब्देन आध्यात्मिकी वाक् स्पष्टमुक्ता। नात्र भूत- भौतिकोपादानलक्षणा काचिदुक्ता । तस्या ऋगादीनामभिव्यक्तिः, तेषु च इन्द्रा
३० वेदस्वरूप-विमर्शः 'यदेतद् गम्यते वाच ऋक् सामात्मिकाया सदसश्च यजुरात्म- कस्य तिरोहितमिदं मिथुनं चर्य्याते । एतद्धार्थ्यमानाः परि- श्रयन्ति । तद्वा एतत्सद्ः परिश्रयन्ति एतस्मै मिथुनाय तिर इवेदं मिथुनं चर्य्याता इति व्यृद्धं वा एतन्मिथुनं यदन्यः पश्यति । तस्मात् यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति व्येवद्रवत आग एव कुर्व्वाते । तस्मादद्वारेण सदः प्रेक्षमाणं ब्रूयान्मा प्रेक्षथा इति । यथा ह मिथुनं चर्य्यमाणं पश्येदेवं तत् । कामं द्वारेण । देवकृतं हि द्वारम् ।' एवमेव हविर्द्धानं परिश्रयन्ति ... 'तद्वा एतद्वृषा साम योषा- मृचं सदस्यध्येति । तस्मान्मिथुनादिन्द्रो जातस्तेजसो वै तत् तेजो जातम्, यदृक्श्च साम्नश्चेन्द्रः । इति ह्येतमाचक्षते य [L1
ि? No, म सि- wait, is itपृष्ठमसि? Wait, look at मand thenसि: Wait, look at मसिinअग्निचयनविधानस्य: the सhas a left curve. Here, afterम, there is सिorभि? Wait, अपां पृष्ठमसिis the famous mantra for the lotus leaf (puṣkara-parṇa) in Agnicayana: "अपां पृष्ठमसि..." (Śatapatha Brāhmaṇa 7.3.2.14: 'अपां पृष्ठमसि' इति पुष्करपर्णमुपदधाति). Wait, in the print: is it'अपां पृष्ठमसि'ति? Let's look at the character: पृ ष्ठ म सि ’ तिWait, there isम, then सि! The सिis slightly merged withमor justमसि! Yes, 'अपां पृष्ठमसि'ति`!
Line 57:
पर्णमुपधाय तस्योपरि अग्नेश्चयनं कर्तव्यम् । तेन तदात्मकेऽमृते अर्चि-
Line 58:
र्मये आदित्ये अयमुपासिता स्वीयमात्मानं वेदत्रयरूपं चित्याग्निरूपं
Line
६४ वेदस्वरूप-विमर्शः तेन "सूर्यमण्डलसम्बन्धेन सौरत्रिलोकीरूपाणि ब्राह्मणेऽत्र व्याख्यातानि । सूर्यमण्डलस्थोऽग्निः सौरप्राणरूपो यो ब्रह्माण्डमभि- व्याप्रोति यश्च सर्वेषां लोकवेददेवभूतादीनां जनकः श्रुतिभिः प्रति- ज्ञायते सोऽत्र पुरुषपदेन यजुःपदेन श्रुतः” इत्यादिकमपास्तम् । सर्व- स्यैतस्य प्रकरणासम्बद्धत्वात् । "गायत्री वा इदं सर्वभूतं यदिदं किञ्च । वाग्वै गायत्री, वाग्वा इदं सर्वभूतं गायति च त्रायते च ।' अत्र छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं शब्दरूपामापादयति- 'वाग्वा इदं सर्वं भूतं गायति, अयं गौरयमश्वः त्रायति च मा भैषीः। अत्र सर्वस्य गानात् त्राणाच्च वाचः सर्वरूपत्व- मुक्तम् । 'असौ वाव लोको गौतमाग्निः, योषा वाव गौतमाग्निः' (बृह०) इतिवच्च तेषु तेषु ऋगादिदृष्टिः कर्तव्या, न तत्रा भेदभ्रान्तिः कार्या। "वाग्वाव नाम्नो भूयसी । वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदम् । स यो वाचं ब्रह्मेत्युपास्ते' (बृहदा०) इत्यादौ - 'एष उ बृहस्पति र्वाग्वै बृहती। एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिः । त्रयो लोका एत एव । वागेवायं लोको मनो ऽन्तरिक्षलोकः प्राणोऽसौ लोकः । वागेवर्ग्यदो मनो यजुर्वेदः प्राणः सामवेदः । वागेव देवाः, मनः पितरः, प्राणो मनुष्याः । 'मन एव पिता वाङ् माता प्राणः प्रजा वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधा- कारः । तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारञ्च वषट्कारञ्च । हन्तकारं मनुष्याः, स्वधाकारं पितरः । प्राणो ऋषभः, मनो वत्सः।' सर्वथाप्येवंजातीयकैर्वाक्यैर्न कथमपि वागादीनां स्वरूपं निर्धारयितुं शक्यम्, तेषामुपासनादिपरत्वेन तत्त्वतो वागाद्यभेदप्रतिपादने तेषां तात्पर्याभावात् । अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्न । 'विशेषात्' (२।३।१५) इति ब्रह्मसूत्रे सेन्द्रियस्य मनसो बुद्धेश्च उत्पत्तिप्रलयौ
वेदस्वरूप-विमर्शः ६५ विचारितौ । तत्र करणानां भौतिकत्वात् भूतोत्पत्तिप्रलयाभ्यामेव तदुत्पत्तिप्रलयावपि व्याख्यातौ । करणानां भौतिकत्वे लिङ्गमुक्तम् - 'अन्नमयं हि सोम्य मनः, आपोमयः प्राणः, तेजोमयी वाक्' (छा० ६।५।४) इति । भूतानां करणानाञ्च पृथग् व्यपदेशो ब्राह्मण- परिव्राजकन्यायेन ज्ञातव्यः। यद्यपि क्वचित् 'स मनोऽसृजत तन्मन एवासीत् । तदात्मानमेवैक्षत् स वाचमसृजत्' इति भूतक्रमात् पृथक् करणक्रमः श्रूयते, तथापि विभक्तत्वान्मनःप्रभृतीनां कारणापेक्षायाम् 'अन्नमयमन' इति लिङ्गश्रवणादपेक्षितार्थ कथनात् विकारार्थत्वमेव मयटो युक्तम् । इतरथा त्वनपेक्षितमेवोक्तं भवेत् । पाठक्रमादर्थक्रमो बलीयानिति न्यायेन भूतानन्तरमेव मनःप्रभृतीनां निवेशो युक्तः । 'तत्पूर्वकत्वाद्वाचः' (ब्र० सू० २।४।४) वाक् प्राण-मनसां ब्रह्मप्रकृतिक-तेजोबन्नपूर्वकत्वाभिधानात् सर्वेषामेव प्राणानां ब्रह्म- प्रभवत्वमुक्तम् । यच्च - "वाक्प्राणमनसां गौणी जनिराख्यायते" इति । तन्न; विकल्पा- सहत्वात् । तथा हि--वागादीनां जीववत् अविकृतब्रह्मात्मतयाऽनुत्पत्ति- र्ब्रह्मणस्तत्त्वान्तरतया वा ? नाद्यः; वागादीनां जडत्वेन तदनुपपत्तेः । नान्त्यः; तत्त्वान्तरत्वे ब्रह्मवेदनेन सर्ववेदनप्रतिज्ञाबाधात् सर्ववेदान्त- व्याकोपाच्च । 'भेदश्रुतेः', 'वैलक्षण्याच्च' ( ब्र० सू० १८, १९ ) इति । मनो वाचं प्राणं तान्यात्मने अकुरुत' इत्यत्र प्राणाद्भेदेन व्यपदेशाद्वैलक्षण्यात् प्राणाद् भिन्नतोक्ता । 'यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोकः । अथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकः । अथ य एष एतस्मिन् मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां लोकः । सैषा त्रय्येव विद्या तपति .....' प्रपञ्चस्तु सायणादिभिरुपासनापरत्वेन वर्णितः-यथा मनो ब्रह्म, आदित्यो ब्रह्मेत्युपासनेषु मनस्यादित्ये च ब्रह्मदृष्टिः क्रियते, तथैव मण्डले ऋगादिदृष्टिरत्र कर्तव्यत्वेन उपदिष्टा । सूर्यमण्डलार्चिः पुरुष-
An exact, line-by-line transcription of both pages:
[पृष्ठ ६६]
६६ वेदस्वरूप-विमर्शः त्रयस्य अधिदैवाधियज्ञाध्यात्मपरत्वेनार्थ उच्यते । तत्र चयनगतमहदुक्थं ( महत् पूज्यम् उक्थम् बृहतीसहस्ररूपेन प्रसिद्धो हौत्रे शस्त्रविशेषः महाव्रतं क्रतुविशेषः ) । 'अथ महाव्रतमिन्द्रो वृत्रं हत्वा महानभवत् यन्महानभवत् तन्महाव्रतस्य महाव्रतत्वम्' (ऐ० आ० १।१।१)। अग्निः = अग्न्याुपलक्षितसर्वदेवात्मकोऽग्निः), त्रयं क्रमेण मण्डलार्चिःपुरुषत्वेन उपासनीयम् । अर्थात् महोक्थमहाव्रताग्निषु मण्डलार्चिःपुरुषदृष्टिः कर्तव्या। एवमेवाधियज्ञम् । चयनगत-रुक्म-पुष्करपर्ण-हिरण्यपुरुषाणां मण्डलादित्रयरूपेण उपासनम् । रुक्मादिश्चयनं तु श्रुतिसूत्रादिषु स्पष्टम् । 'हिरण्यगर्भ' इति मन्त्रेण पुरुषमुपदधाति । अपां पृष्ठमसि पुष्
पृष्ठ ६८
'एतमृग्वेदमभ्यतपन्त्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसो जायते ।' कर्मणि प्रयुक्ता ऋचः पुष्पस्थानीयं कर्म अभ्यतपन् । ऋग्भिर्मन्त्रैः शाखाद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं भवति । पुष्पाणीव भ्रमरैराचूष्यमाणानि । कोऽसौ रसो यो मधुकाराभितापनिःस्रुत इत्युच्यते ? यशो विश्रुतत्वं तेजो दीप्तिः इन्द्रियवीर्यं इन्द्रियैरवैकल्यं वीर्यं बलम् अन्नाद्यञ्च येनोपयुज्यमानेन अह्रन्यहनि देवानां स्थितिः स्यात् । एष रसोऽजायत यागादिक्रतूनाम् कर्मणः । 'तदुद्यन्नरत् । तदादित्यमभितोऽश्रयत् । तद्वा एतद्यदादित्यस्य रोहितं रूपं तदेवादित्यमभितः पार्श्वतः पूर्वभागं सवितुराश्रितवत् अमुष्मिन्ना- दित्ये सञ्चितं कर्म
Wait, look at the repha: the repha is above the third letter? No, above the second letter: र्व. Then the third letter is 'म' with something? Or is it 'र्भ'? Wait, look at line 52: न च प्राणस्यैव ऋगादित्वेन सर्वार्भतोपपद्यते इति वाच्यम् ; Wait, why did I type "सर्वार्भतोपपद्यते" in the draft? Because looking at it superficially: स - र्वा - र्भ - तो - प - प - द्य - ते. Wait, look closely: is that 'सर्वमतोपपद्यते'? Wait, what if it is "सर्वमुपपद्यते"? Is there a 'तो'? Yes, definitely 'तो' (to) is there: त with o-matra. Wait, before 'तो', what is the letter? It is 'र्भा' or 'र्भ' or 'म'? Wait, could it be "सर्वं तत उपपद्यते"? No, let's look at: स (sa) र्व (rva with anusvara: सर्वं) ? Wait! "सर्वं तत उपपद्यते"? Look at the letters: 1. स 2. र्व with anusvara or repha? It has a repha. 3. Then a letter with a vertical stroke
ऋग्वेदादेः न किञ्चिदन्यत् स्वरूपं विहायते । प्राणस्य अवान्तरकारणत्वे सत्यपि सर्वकारणत्वानुपपत्तेश्च । तेन शालग्रामे विष्णुबुद्धिवत् मनो- ऽन्नादित्यादिषु ऋगादिबुद्धिर्युक्ता । प्रकृतिविकारभावेन सामानाधिकरण्ये विकारोपमर्दबुद्धिरपि जायते । 'आदित्यं ब्रह्मेत्युपासते यो वाचं ब्रह्मेत्युपासते यः सङ्कल्पं ब्रह्मेत्युपासते' इत्यादौ तु शुक्तिकां रजतं प्रत्येतीतिवत् ब्रह्मणि आदित्याध्यासो भवति । न केवलमादित्यस्यैव ऋक्तत्वादिकम्, किन्तु वागादीनामपि ऋक्तत्वा- दिकमुक्तमेव । न ह्यत्र मुख्याभेदाभिप्रायेणायं सामानाधिकरण्यप्रयोगः । आदित्यादीनां ततो भिन्नत्वेन प्रसिद्धत्वात् । नहि ब्रह्मण इव ऋगादीनामपि सर्वात्मकता सम्भवति, येन आदित्यादीनां प्रकृतिविकारभावेन सामाना- धिकरण्यं युज्येत । न च प्राणस्य सर्वकारणत्वात् सर्वरूपत्वं सम्भवति, ब्रह्मण एव सर्वकारणत्वावधारणात्— 'तेन तं बृहस्पतित्युद्गीथमुपासाञ्चक्रे, एतमु एव बृहस्पतिं मन्यते वाग्धि बृहती तस्या एष पतिः' (छा० १ । ३ । ११) । 'इयमेव ऋग्, अग्निः साम । तदेतस्यामृच्यध्यूढं साम । तस्मा- दृच्यध्यूढं साम गीयते । इयमेव साग्निरमस्तत्साम ।' ऋचि पृथिवीदृष्टिः कार्या, सामन्यग्निदृष्टिः । यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यं तथैतौ पृथिव्यग्नी । भाष्यम्— 'कथमियमेव पृथिवी सा साम नामार्कशब्दवाच्या, इतरार्थशब्दवाक्योऽग्निः । तदेतत्पृथिव्यग्निद्वयं सामैकशब्दाभिधेयत्व- मापन्नम् । तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यं संश्लिष्टमृक्- सामनी इव । तस्माच्च पृथिव्यग्न्योर्ऋक्सामत्वमित्यर्थः । 'अन्तरिक्षमेवर्क् वायुः साम" । द्यौरेवर्क् आदित्यः साम" ।' इत्यादौ एवमेव आदित्यस्य रूपेष्वपि ऋगादिबुद्धिर्विहिता । 'अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क् । अथ यन्नीलं परः कृष्णं तत्साम । तदेतदेतस्यामृच्यध्यूढं साम" । नक्षत्राण्येवर्क्, चन्द्रमाः साम" ।' एवमेव 'वागेवर्क्..., इत्यादिषु सर्वत्र चैवमुपासनार्थमेव सामानाधिकरण्योपदेशो विशेषः । 'ऋक सामयोः शिल्पेस्थः' (शुक्लयजु० ४।६) 'ऋक्सामे वै देवेभ्यो यज्ञार्थं तिष्ठमाने कृष्णरूपं कृत्वाऽपक्रम्य तिष्ठतामेष वा ऋचो वर्णो यच्छुक्लं कृष्णानि यन्मेध्यं साम्नो यत् कृष्णम्' (तै० ६।१।३) तत्साम्नो रूपमुक्तम् । अत्र ऋक्सामभिमानिन्यौ देवते देवानां यज्ञार्थं स्थिते सत्यौ केनापि निमित्तेन कृष्णमृगरूपं कृत्वा देवेभ्यः पलाय्य दूरे कुत्राप्यतिष्ठताम् । नात्र वस्तुतः शुक्लरूपस्य ऋक्त्वं तद्भेदप्रसिद्धिविरोधात् । 'ऋचो नामारिषं यजूंषि नामारिषं सामानि नामारिषं ये अग्नयः पाञ्चजन्याः अस्यां पृथिव्यामधि.....' (शुक्ल यजुः ० १८ । ६७) अनेन मन्त्रेण यजमान आत्मनि वेदत्रयात्मकत्वं सम्पादयति । नात्रापि यजमानस्य ऋगादिनेकत्वं वस्तुभूतम् । तथैव 'ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये' इत्यत्रापि ऋगाद्यभेदेन दृष्टेषु वागादिष्वेव प्रपत्तिर्ज्ञेया । 'आयुर्यज्ञेन कल्पताम्.........स्तोमश्च यजुश्च ऋक् च साम च बृहच्च रथन्तरम्' (शुक्लयजुः ० १८ । १६) इत्यादिनापि स्तोम- यजुरादीनां यज्ञकृप्तिरपि भावनार्थैव । 'यस्मिन्नृचः सामयजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः । यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥' इत्यत्रापि मनसः स्वास्थ्ये त्रयीस्फूर्त्तेः संस्काररूपेण मनस्येव ऋगादयः सन्निहिता भवन्ति । अत एव 'अन्नमयं हि सोम्य मनः' इत्यत्र मनसः स्वास्थ्ये वेदोच्चारणशक्तिः प्रतिपादिता । 'प्रजानां सर्वं चित्तं ज्ञानं मन- स्येव तन्तुषु पट इव ततम्' अत्रापि शब्दात्मका एव ऋगादयो बोध्याः । सर्वथाऽपि 'अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा' इत्यादौ उपदिष्टा वाक् शब्दराशिरूपा वेदत्रय्येव । 'शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्', 'अत एव च नित्यत्वम्' इत्यादिसूत्रैस्तस्या एव भगवत्पादादिभिर्नित्यत्वसाधनात् । सूत्रेण सर्वस्य शब्दप्रभवत्वं साध्यते, तेन शब्दस्यैव नित्यत्वं स्पष्टमुक्तम् । शब्दात्मिकाया एव वाचः सम्प्रदाय- प्रवर्त्तनरूप उत्सर्गः । तस्या एव वाचो 'वाचा विरूपनित्यया' इति मन्त्रे- णापि नित्यत्वमुक्तम् । न चात्र भूतभौतिकोपादानभूतरूपाया वाचो
यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति मूलपाठ प्रस्तुत है:
[पृष्ठ १०४]
नित्यस्योक्तिः; तस्यः सुष्टुतिसाधनत्वासम्भवात् । शब्दात्मिकयैव वाचा सुष्टुतिः प्रसिद्धा । 'तस्यै नूनमभिद्यवे, वाचा विरूपनित्यया । वृष्णो चोदस्व सुष्टुतिम्' एतदर्थस्तु—हे विरूप नानारूपैत्तन्नामक महर्षे त्वं तस्मै अभिद्यवेऽभिगत- दीप्तये वृष्णे वर्षकाय अग्नये नित्यया उत्पत्तिरहितया वाचा सुष्टुतिं नूनमिदानीं चोदस्व स्तुहि । विरूप एवास्य षोडशर्चस्य द्रष्टा । अतः ऋषिरात्मानमेव ब्रवीति, यजमानो वा होतारम् । एतेन—'तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।' (ऋ० सं० १०।६०।६, यजुः० २१।७ ) इत्यादिमन्त्रैश्च प्रसिद्धानामेव ऋक्सामयजुषां यज्ञपदवाच्यात्पर- मेश्वरादेव आविर्भाववर्णनम् । तस्यैव निःश्वासरूपेणापि प्रसिद्धानाम् ऋग्वेदादीनामेव प्रादुर्भाववर्णनम् । यच्च —"अव्ययपुरुषकला रूपा नित्या मनप्राणवाचः प्रकृतिसम्ब- न्धेन पुनरपरेश रूपेण प्रादुर्भवन्ति । सोऽयं प्रादुर्भावः सर्वहुन्नामका- द्यज्ञात् भवति । छन्दांस्यत्र तत्तत्पदार्थानां मर्यादाबन्धः । सर्वस्य पदार्थ- जातस्य नाभौ केन्द्रे यः प्रजापतिः प्रादुर्भवति तस्य निःश्वासभूता अथात् केन्द्रमभितो वितता इमा ऋगादिरूपा वाच उच्यन्ते । प्रथमः प्रजापतिः स्वयम्भूरित्याख्यायते । तथा चोक्तं मनुना— 'ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥' इति । एतत् स्वयंभू-मण्डलमृग्यजुः सामेति त्रयीमयम् । अत एव ब्रह्मणः प्रादुर्भूता वेदा ब्रह्मरूपा एव, ऋगादीनां कार्यब्रह्मास्वरूपानतिरेकात् । इत एव स्वयम्भूमण्डलात् व्याख्यातपूर्वा वेदत्रयी सर्वत्र जगति प्रसरति, ऋग्यजुःसामान्येव स्वयम्भूमण्डलम्य मनोताः । यस्मान्मण्डलाद्ये प्राणा प्रसरन्ति, सर्वैश्चोपजीव्यन्ते, ते 'मनोता' उच्यन्ते । एवं तिस्र एता ऋगादिरूपा वाच एव स्वयम्भूमण्डलमुत्पादयन्ति । एतद्वाह्यमेव स्वयम्भूमण्डलम् । तदनु च तस्मान्मण्डलादिमा एव अंशरूपेण
[पृष्ठ १०५]
निष्क्रम्य अन्यत्र गच्छन्तीति निःश्वासभूता एता उक्ताः । प्राणो हि शरीरारम्भकः शरीरधारकः । स एव चांशरूपनिःश्वासरूपतामापद्य शरीराद्बहिर्गच्छतीति निःश्वाससादृश्यम् । 'एवं वा अरे अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राणि अनुव्याख्यानानि व्याख्यानानि' (बृह० २।४।१०) इत्यत्र महाभूतपदेन प्रजापतिरेवेष्टव्यः, तस्य प्रतिपाद्यमानात्मब्रह्मस्वरूपानतिरेकात् । यदि तत्र ऋगादिपदेन प्रसिद्धा विज्ञानरूपा ग्रन्थरूपा वा वेदा गृह्यन्ते, तदा तु महद्भूतपदेन प्रक्रान्तः शारीर आत्मैव गृहीतुमुचितः, ब्रह्मानतिरेकात् शारीराद्यात्मन एव विज्ञानघनात् निःश्वासरूपेणानवरतं विज्ञानानां वृत्त्यात्मकानां प्रादुर्भावदर्शनात्, वेदादिग्रन्थानामपि तत एव प्रवृत्तेः । ईश्वरप्रेरितं वेदादिविज्ञानमस्य शरीरस्यान्तः प्रविशति । ततश्च सर्वजन- बोध्यतामाप्नुवद्वाग्रूपेण निष्क्राम्यतीति निःश्वाससादृश्यम् । अत एव श्लोकसूत्रव्याख्यानानुव्याख्यानादीनामपि महाभूतनिःश्वसितत्वमुच्य- मानमाञ्जस्येन उपपद्यते तेषामपि शारीराद्यात्मनः प्रादुर्भावात् । यत्तु- 'श्लोकसूत्रादिकं सर्वमन्त्रोक्तं ब्राह्मण एवान्तर्भवती'ति मतम्, तत्त तत्तद्वेदब्राह्मणानामपि तद्वेदस्वरूपत्वान्तर्भावात् ऋग्यजुःसामपदैरेव ब्राह्मणानामपि सङ्ग्रहणात् नातीव समञ्जसं प्रतीयते । अत एव 'इमे वेदा निर्मिता' इति गोपथश्रुतिरपि सङ्गता स्यात् । तदित्थं वेदानामीश्वरस्व- भावाद् ईश्वरनिःश्वसितत्वप्रवादश्च युक्त्या समर्थितः । शरीरे द्विविधाः क्रिया दृश्यन्ते—( १ ) इच्छाजन्याः, ( २ ) इच्छां विनैव स्वतः प्रवर्तमानाश्च । तत्र श्वासादिकं स्वतःप्रवर्तमानावन्तर्भवति । तेनेदमपि विवक्ष्यते यद् इमा ऋग्यजुःसामाख्या वाचः प्रजापतेः स्वत एव यज्ञप्रक्रियया प्रादुर्भवन्ति, न त्विच्छया उत्थाप्यन्ते । यथा हि निःश्वासेनैव मनुष्यजीवनस्य परिचयः, तथैताभिर्वाग्भिरेव प्रजापतेः परिचयः, स्वतः प्रजापतेरतीन्द्रियत्वात् । महतो भूतस्यात्मनोऽपि वृत्त्यात्मकैर्ज्ञानैरेव परिचयः इत्यादि सादृश्यमुन्नेयम् ।
पृष्ठ १०६
सर्वस्मिंश्च ब्रह्माण्डे मुख्यः प्रजापतिः सूर्यः । तत इमे ऋगादिवेदाः पुनः पुनः प्रादुर्भवन्ति । अत एव सूर्यप्रभवत्वमुक्तमेषाम् । इमे च ऋग्गाथा गायत्रीमातृका वेदा इत्युच्यन्ते वैदिकपरिभाषायाम्" इति । तदेतत्सर्वमपि अविचारितरमणीयम् ; 'शास्त्रयोनित्वात्', 'शब्द इति चेन्नान्तः प्रभवात्' 'अत एव च नित्यत्वम्' इत्यादिसूत्रादिविरोधात् । तथा हि—शङ्करभगवत्पादैरन्यैश्च भाष्यकारैः शास्त्रयोनित्वादिति शास्त्रस्य ऋग्वेदादेः परमात्मप्रभवत्वेन परमेश्वरस्य सार्वज्ञ्यसिद्ध्या 'जन्माद्यस्य यतः' इति जगज्जन्मादिकारणत्वं समर्थितम् । तदुक्तम्— 'महत ऋग्वेदादेः शास्त्रस्यानेकविद्योपबृंहितस्य प्रदीप- वत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । नही- दृशस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । ......' यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात् सम्भवति, यथा व्याकरणादि पाणिन्यादे- र्ज्ञैकदेशार्थमपि ततोऽधिकतरविज्ञान इति प्रसिद्धं लोके । किमुत वक्तव्यमनेकशाखाभेदभिन्नस्य सर्वज्ञानाकरस्य अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवद्यस्मान्महतो भूता- द्योनेः सम्भवः, तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्व- शक्तिमत्त्वञ्च" इति । न ह्यत्र वाक्प्राणमनसामुत्पत्तिर्वर्णिता, 'जन्माद्यस्य यतः' इत्यनेनैव तदुक्तत्वात् । न वात्र अवान्तरकारणस्य प्रजापतेः सकाशात् शास्त्रस्य उत्पत्तिर्विवक्षिता, परमकारणस्यैव प्रक्रान्तत्वात् । 'अस्य महतो भूतस्य' इत्यत्रापि परमात्मन एव वेदादिकारणत्वमुक्तम् । ननु तत्र विज्ञानात्मन एव प्रक्रमः, 'आत्मनस्तु कामाय सर्वं प्रियं भवती'त्यादिषु पति-जाया-पुत्र-वित्तादिकं हि भोग्यभूतं जगदात्मार्थतयैव प्रियं भवतीति प्रियसंसूचितस्य भोक्तुरेव उपक्रमात् 'इदं महद्भूत- मनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विन- श्यति न प्रेत्यसंज्ञास्ति' इति प्रकृतस्यैव विज्ञानभावेन कथनात् 'विज्ञा- तारमरे केन विजानीयात्' इति कर्तृवचनेन तस्यैवोपसंहाराच्चेति चेन्न ।
पृष्ठ १०७
वाक्यान्वयाधिकरणे बादरायणेन प्रकरणस्यास्य परमात्मप्रकरणत्वाव- धारणात् 'अमृतत्वस्य तु नाशास्ति' इति याज्ञवल्क्यादुपश्रुत्य 'येनाहं नामृता स्यां किमहं तेन कुर्याम्' इत्यमृतत्वमाशासानाया मैत्रेय्या अमृतत्वसाधनोपदेशात् । न च परमात्मविज्ञानादन्यत्र अमृतत्वं सम्भवति ; 'तमेव विदित्वाति- मृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इतिश्रुतेः, 'आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्'ति आत्मविज्ञानेन सर्वविज्ञानं चोक्तम् । अत्र आत्मशब्देन परमात्मग्रह एवोपपद्यते, सर्वकारणब्रह्म- विज्ञानेनैव सर्वविज्ञानाय 'तदनन्यत्वमारम्भणशब्दादिभ्यः' ( ब्रह्मसूत्र ) इत्यादिषु प्रतिपादनात् । न चात्र औपचारिकं सर्वविज्ञानं सङ्गतम् ; 'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद' इत्यादौ चात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं ब्रह्माक्षत्रादि जगत् पश्यन्तं तदेव ब्रह्माक्षत्रादिकं पराकरोतीति भेददृष्टिमपोद्य 'इदं सर्वं यदयमात्मे'ति सर्वस्य वस्तुजातस्य दुन्दुभ्यादि- दृष्टान्तैरात्माव्यतिरेकप्रतिपादनात् । प्रियसंसूचितस्य द्रष्टव्यत्वसङ्कीर्तनेन आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतीत्यस्याः प्रतिज्ञायाः 'सिद्धि- रित्याश्मरथ्यः, उत्क्रमिष्यत एवं भावादित्यौडुलोभिः, अवस्थितेरिति काशकृत्स्नः' इत्यादिसूत्रैरयमर्थो भाष्ये विशदः । न च परमात्मनः पुराणेतिहासश्लोकसूत्रादीनां कुतो निर्माणसम्भवः, तेषां तत्तदृषिकर्तृत्वनिश्चयादिति वाच्यम्; पुराणादिपदैः ब्राह्मण- विशेषाणामेवोत्पत्तेर्भगवत्पादैर्व्याख्यातत्वात् । तथा हि— 'ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इति चतुर्विधं मन्त्र- जातम् । इतिहास इति उर्वशीपुरूरवसोः संवादादिः । 'उर्वशी हाप्सरा' इत्यादिब्राह्मणमेव । पुराणम् 'असद्वा इदमग्र आसीत्' इत्यादि । विद्या देवजनविद्या सोऽयमित्याद्याः । उपनिषदः 'प्रियमित्येतदुपासीते'त्याद्याः । श्लोका ब्राह्मण- प्रभवा मन्त्राः 'तदेते श्लोका' इत्यादयः । सूत्राणि वस्तुसङ्ग्रह- वाक्यानि यथा 'आत्मेत्येवोपासीते'त्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि । व्याख्यानानि अर्थवादाः•••• •••इत्यष्टविध
Here is the complete, line-by-line transcription of the provided image into pure, clean Devanagari text with the appropriate line markers:
[पृष्ठ ११०]
शखमभिसंबभूवेत्यन्याः प्रजाः' इति श्रुतिः । 'स मनसा वाचं मिथुनं समभवत्' (बृह० १।२।४) । स्मृतिरपि — 'अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥' 'नामरूपञ्च भूतानां कर्मणाञ्च प्रवर्तनम् । वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥' 'सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥' इति। अत्रापि शब्दराश्यात्मको वेद एव अनादिनिधना वाग् विवक्षिता । अत एव वाचो 'वेदमयी'ति विशेषणं सङ्गच्छते । 'यतः सर्वाः प्रवृत्तय' इत्यपि शब्दात्मकत्व एव सङ्गतं भवति । वत्सर्गोऽप्यं सम्प्रदायप्रवर्त- नात्मकः, अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासम्भवात् द्रष्टव्य इति भगवत्पादाः । 'वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः' इत्यप्युक्त- मेवार्थं पोषयति । नहि विज्ञानात्मकवेदमहणे तदुपपद्यते । लोकेऽपि चिकीर्षितमर्थमनुतिष्ठं स्तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तदर्थं- मनुतिष्ठतीति सर्वेषां नः प्रत्यक्षम् । तथैव प्रजापतेरपि सृष्टेः सृष्टेः पूर्वं मनसि वैदिकाः शब्दाः प्रादुर्बभूवुः । पश्चात्तदनुगतानर्थान् ससर्ज । तथा च श्रुतिः — 'स भूरिति व्याहरत् , स भूमिमसृजत' ( तै० ब्रा० २ । २ । ४ । २) । ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम् । 'अत एव च नित्यत्वम्' (ब्रह्मा० १ । ३ । २६) इत्यत्र स्वतन्त्रस्य कर्तुरस्मरणादिति स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्य 'अतः प्रभवादिति परिहृत्य तदेव वेदनित्यत्वं द्रढयति । अत एव नियताकृतेर्देवादैर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दे नित्यत्वमपि प्रत्येष्टव्यमिति भगवत्पादाः । तथा च मन्त्रवर्णः—'यज्ञेन वाचः पद- वीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्' ( ऋ० सं० १० । ७१ । ३) इति । मन्त्रार्थस्तु—यज्ञेन वाचः वेदलक्षणयाः, पदवीयं मार्गयोग्यत्वां वेदमहणयोग्यताम्, आयन् आप्नुवन्तः । ततः ऋषिषु प्रविष्टां तां
[पृष्ठ १११]
वाचम्, अन्वविन्दन् अनुब्धघवन्तः । स्थितामेव वाचमनुबिन्नां दर्शय- तीति शाङ्करभाष्यम् । वेदव्यासश्चैवं स्मरति — 'युग न्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसापूर्वमनुज्ञाताः स्वयम्भुवा ॥' अनेन विद्यमानानेव वेदान् लेभिरे, न स्वातन्त्र्येण निर्मितवन्तः इति स्पष्टम् । महाप्रलयेऽपि वासणारूपेण ब्रह्मणि वेदास्तिष्ठन्त्येव । यदुक्तम् — "विद्यात्मनः शुद्धस्वभावस्य तद्योगः प्रमाणापेक्ष- ज्ञानानामविद्यात्वामेव प्रमाणाश्रयत्वादिति । तन्न; निरविद्यस्य सर्वप्रपञ्चाधिष्ठानतया प्रमाणाधिष्ठानत्वेऽपि प्रमाणवत्स्वरूपतदाश्रयत्वा- योगात्, नहि कालस्य सर्वाधारत्वेऽपि घटादिवद्रूपवत्त्वम् । यद्यपि महाप्रलये अन्तःकरणादयो न समुदाचरद्वृत्तयो भवन्ति, तथापि स्वकारणे अनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण कर्मविक्षेपका विद्यावासनाभिः सहावतिष्ठन्ते । तथा चोक्तम्— 'आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥' इति । ते चार्वाघि प्राप्य परमेश्वरेच्छाप्रचोदिताः यथा कूर्मदेहे निलीना- न्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्राप्तमृद्भावाति मण्डूक- शरीराणि तद्वासनावासिततया घनाघनासारव सेकसुहितानि पुन- र्मण्डूकदेहभावमनुभवन्ति तथा, पूर्ववासनावशात् पूर्वसमाननाम- रूपाण्युत्पद्यन्ते । तेनेश्वरः प्राप्तभूतकर्म्माविद्यासहकारी तदनुरूपमेव जगत् सृजति । सर्गप्रलयप्रवाहानादितया सर्वभेद उपपद्यते । यद्यपि 'मन्त्रकृतो वृणीते', संहिताकारः, पदकारः, सूत्रकारः, ब्राह्मणकारः, विश्वामित्रस्य सूक्तं भवती'त्यादिप्रामारयाद्वेदस्य पौरुषे- यत्वशङ्कानिराकरणायैव 'अत एव च नित्यत्वमिति कर्तुरस्मरणेन सिद्धस्यैव अनुमानेन दृढीकरणम् । 'प्रजापतिर्यथा वैदिकान्छब्दान् तेषामसाधारणनामरूपकृत्यविशेषान् अनुसन्धाय तथैव सृजति, ततश्च विश्वामित्रादीनामपि वेदशब्देभ्यः