भारतकोश
संग्रह पर लौटें

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

( ५० ) वेदान्तसार । दर्शयति । अस्यैषेति । अस्य सूत्रात्मनो हिरण्यगर्भाख्यस्य विज्ञानमयादिकोशत्रयं शरीरं अस्य स्थूलप्रपंचापेक्षया सूक्ष्म- त्वादित्यर्थः। अस्यैव विज्ञानमयादिकोशत्रयस्य स्वप्नत्वे युक्ति- माह । जाग्रदिति । विराट्स्वरूपेणानुभूतस्थूलप्रपंचविषय- वासनामयत्वात्स्वप्नत्वमस्येत्यर्थः । यतः स्वप्नत्वं सूक्ष्मत्वं च । अत एव स्थूलप्रपंचलयस्थानमित्युच्यत इत्यर्थः । विज्ञा- नमयादिसमष्ट्युपाध्यवच्छिन्नचैतन्यस्य हिरण्यगर्भत्वं प्रति- पाद्येदानीं तद्व्यष्ट्युपलक्षितचैतन्यस्य तैजसत्वं निरूपयति । एतदिति । अत्र हेतुमाह तेजोमयेति ॥ ४९ ॥ ( भा०टी० ) हिरण्यगर्भको उपाधिस्वरूप इसी स्थूलश- रीरके समष्टि स्थूल प्रपञ्चसे सूक्ष्म होता है । इसी कारण उस को सूक्ष्मशरीर और कोशत्रय कहते हैं । तथा जाग्रत्अव- स्थाका वासनात्मक हेतु, स्वप्न, और स्थूल, प्रपञ्चका लय- स्थान कहा जाताहै । इसी स्थूलशरीरके व्यष्टिरूप उपाधिसे उपहित चैतन्यको तैजस कहते हैं । इसी कारण तेजोमय अ- न्तःकरण उसका उपाधि है ॥ ४९ ॥ अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वात् सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासना- मयत्वात्स्वप्नः । अत एव स्थूलशरीरलयस्थान- मिति चोच्यते । एतौ सूत्रात्मतैजसौ तदानीं सू- क्ष्माभिर्मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः । “प्रविविक्तभुक्तैजसः” इत्यादिश्रुतेः ॥ ५० ॥

संस्कृतटीका-भाषाटीकासमेत । ( ५१ ) ( सं०टी० ) व्यष्टिरूपं विज्ञानमयादिकोशत्रयं तैजसस्या- पि सूक्ष्मं शरीरमिति दर्शयति । अस्यापीति । सूक्ष्मशरीर- त्वे हेतुमाह । स्थूलेति । अस्यापि स्वप्नत्वेहेतुमाह । जाग्रदि- ति। विश्वचैतन्येनानुभूतस्थूलशरीरविषयवासनामयत्वात्स्वप्न- मित्यर्थः।अस्यैव सूक्ष्मशरीरस्य स्थलशरीरलयस्थानत्वे युक्ति- माह । अत एवेति । यथा पूर्वं प्राज्ञेश्वरावज्ञानवृत्तिभिः सुषु- प्त्यवस्थायामानंदमनुभवतः तथा हिरण्यगर्भतैजसावपि स्व- भावस्थायां मनोवृत्तिभिर्वासनामयान् शब्दादिविषयाननुभ- वत इति दर्शयति । एताविति । अस्मिन्नर्थे श्रुतिमुदाहरति । प्रवि- विक्तेति । प्रविविक्तं भुंक्त इति प्रविविक्तभुक् तैजसः तेजोंतः- करणं कार्यादिभावेन परिणतं तदेव स्थूलशरीरादिहीनं यस्य स तैजसः तेजोंतःकरणस्वामीत्यर्थः ॥ ५० ॥ ( भा०टी० ) पूर्वोक्त तैजसके उपाधिस्वरूप इसी व्यष्टि- भूत सूक्ष्मशरीर स्थूलशरीरकी अपेक्षा अत्यन्त सूक्ष्म है । इसी कारण उसको सूक्ष्मशरीर और कोशत्रय कहते हैं। यह सूक्ष्म शरीर वासनामय है इसको स्वप्न और स्थूलशरीरका लयस्थान कहते हैं। सुषुप्ति अवस्थामें यही हिरण्यगर्भ और तैजस दोनों सूक्ष्म, मनकी वृत्तिद्वारा सूक्ष्म विषयका अनुभव करते हैं। इस विषयमें श्रुतिका प्रमाण है कि “तैजसही सूक्ष्म वस्तुका उपभोग करता है” ॥ ५० ॥ अत्रापिसमष्टिव्यष्ट्योस्तदुपहितसूत्रात्मतैजसयो- श्च वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलव-

( ५२ ) वेदान्तसार । तद्गतप्रतिबिम्बिताकाशवच्चाभेदः।एवं सूक्ष्मशरी- रोत्पत्तिः ॥ ५१ ॥ ( सं०टी० ) इहापि विज्ञानमयादिकोशत्रयस्य समष्टिरू- पस्य तदवच्छिन्नसूत्रात्मनश्च व्यष्टिरूपविज्ञानमयादिकोशत्र- यस्य तदवच्छिन्नतैजसचैतन्यस्य च वनवृक्षादि तदवच्छिन्ना- काशादिदृष्टांतमुखेनाऽभेदं दर्शयति । अत्रापीति । समष्टि- व्यष्ट्युपाध्योर्वनवृक्षवज्जलाशयजलवच्चाभेदः उपाधिद्वयाव- च्छिन्नचैतन्ययोः सूत्रात्मतैजसयोरपि वनवृक्षावच्छिन्नाका- शवज्जलाशयजलगतप्रतिबिंबाकाशवच्चाभेद इत्यर्थः। सूक्ष्मश- रीरोत्पत्तिप्रकरणमुपसंहरति । एवमिति ॥ ५१ ॥ ( भा० टी० ) जैसे वन और वृक्ष यह परस्पर विभिन्न नहीं है जैसे वनावच्छिन्न आकाशसे वृक्षावच्छिन्न आकाश कोई विभिन्न नहीं है जैसे तालावका और जलका कोई भेद नहीं है जैसे जलगत प्रतिबिम्बित आकाशकी और जलाशय के प्रतिबिम्बित आकाशकी कोई विभिन्नता नहीं है इसी प्र- कार सूक्ष्म शरीरकी समष्टि और व्यष्टिकी तथा तदुपहित हि- रण्यगर्भ और तैजसकी परस्पर विभिन्नता नहीं है। इसीप्रकार सूक्ष्मशरीरकी उत्पत्ति है ॥ ५१ ॥ स्थूलभूतानि तु पंचीकृतानि । पंचीकरणं तु आ काशादिपंचस्वेकैकं द्विधा समं विभज्य तेषु दशसु भागेषु प्राथमिकान् पंच भागान् प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्वद्विती-

संस्कृतटीका-भाषाटीकासमेत । ( ५३ ) यार्द्धभागं परित्यज्य भागान्तेषु संयोजनम्। तदु- क्तम् “द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः॥ स्वस्वेतरद्वितीयांशैर्योजनात्पंचपंच ते” इति ५२ ( सं०टी० ) अथेदानीं स्थूलशरीरोत्पत्तिं निरूपयितुमप- क्रमते । स्थूलभूतानि त्विति । तुशब्दः पूर्वस्माद्वैषम्यं द्योत- यति । पंचीकृतानीति । अपंचीकृतसूक्ष्मभूतापेक्षया स्थूलभूता- नि पंचीकृतानीत्यर्थः । पंचीकरणमेव प्रतिपादयितुं प्रतिजानी- ते। पंचीकरणं त्विति। पंचीकरणप्रकारमेवाह। आकाशादीति। अयमर्थः । सृष्टिकाले सकलप्राण्यदृष्टवशादीश्वरप्रेरणयाका- शवायुतेजोबन्नान्यनाद्यविद्यासहायभूतात्परमात्मनः सकाशा- दनुक्रमजातानि तान्यपंचीकृतानि सूक्ष्माणि व्यवहारासमर्था- नीति कृत्वा तदीयस्थौल्यापेक्षायां व्यवहर्तृप्राणिजातधर्मा- धर्मापेक्षयैव तान्येव भूतानि पंचीकृतानि भवंति तानिच प्रत्येकं द्वैविध्यमापद्यंते तेष्वाकाशादिषु दशसु भागेषु प्राथमिका- न्पंचभागान्प्रत्येकं चतुर्धा समं विभज्य स्वार्धभागपरित्यागेन चतुर्णां प्रत्यकं भागांतरेषु संनिवेशेन पंचीकृतानि स्थूलानि भवतीति । अस्मिन्नर्थे वृद्धसंमतिमाह । द्विधेति ॥ ५२ ॥ ( भा०टी० ) इकट्ठेहुए आकाश आदि पञ्चभूतोंको स्थूल भूत कहते हैं इसी आकाशआदि पञ्चभूतोंके मध्यमेंसे प्रत्येक भूतको समान भाग करनेसे दश १० भाग होते हैं तदन्तर उन्ही दश भागके प्रथम पञ्चम भागको प्रत्येक पञ्चभूतके स- मान चार भाग करके उन्ही सम्पूर्ण प्रत्येक चार भागोंके द्वि-

( ५४ ) वेदान्तसार । तीय अर्द्धको छोड़कर और चार भूतके द्वितीयार्द्ध भागके सहित मिलानेको पंचीकरण कहते हैं । इस विषयके प्रमाण स्वरूप अन्यान्य ग्रन्थोंमेंभी लिखा है—“पञ्चभूतके प्रत्येकके समान दो भाग करै फिर उसी पञ्चभूतके प्रत्येक प्रथम भाग के चार भाग करै द्वितीय पञ्चभूतके प्रत्येक प्रथम अंशमें प्र- त्येक चार भागके मिलानेको पञ्चीकरण कहतेहैं” ॥ ५२ ॥ अस्याप्रामाण्यं नाशङ्कनीयं त्रिवृत्करणश्रु तेः पंचीकरणस्याप्युपलक्षणार्थत्वात् । पंचानां पंचात्मकत्वे समानेऽपि “तेषु च वैशिष्ट्यात्तु तद्वादस्तद्वादः” इति न्यायेन आकाशादिव्यपदेशः संभवति ॥ ५३ ॥ (सं०टी०) पंचीकरणस्य त्रिवृत्करणप्रतिपादकश्रुत्यं- तरविरोधमाशंक्य परिहरति । अस्याप्रामाण्यमिति। भूत- त्रयसृष्टिश्रुतौ सृष्टिपरिपूर्णार्थमन्यत्र श्रुतमपि भूतद्वयमाश्रित्य भूतपंचकाभिप्रायेण भूतत्रयसृष्टिप्रतिपादनादविरोध इत्यर्थः । आकाशादीनां पंचभूतानां चतुर्धा विभक्तानामन्योन्यं प्रत्येका- नुप्रवेशेन पंचीकृतानां पंचात्मकत्वाविशेषादाकाशादिव्यपदे- शो न स्यादित्याशंक्य परिहरति । पंचानामिति । आकाशा- दीनां पंचानां पंचात्मकत्वे समानेपि तेषु पंचभूतेषु तत्तद्वि- शेषानुप्रवेशात्तन्नामभिर्व्यवहारः संभवतीत्यर्थः ॥ ५३ ॥ (भा०टी०) कहेहुए पञ्चीकरणके प्रमाणविषयकी शङ्का नहीं करनी क्योंकि त्रिवृत्करणकी श्रुतिसे पञ्चीकरण-

संस्कृतटीका-भाषाटीकासमेत । ( ५५ ) काभी उल्लेख होजाता है पञ्चभूतके पञ्चात्मको रूपमें समान अर्थात् मिलेहुए होनेपर प्रत्येक पञ्चभूतका अलग अलग व्य- वहार होता है इस विषयमें न्याय प्रमाण है-“आकाशादि पञ्चभूतमें अपने अपने अंशके आधिक्य होनेसे सर्व भूतोंका आकाशादि नाम होता है” ॥ ५३ ॥ तदानीमाकाशे शब्दोऽभिव्यज्यते, वायौ शब्दस्पर्शो, अग्नौ शब्दस्पर्शरूपाणि,अ- प्सु शब्दस्पर्शरूपरसाः,पृथिव्यां शब्द- स्पर्शरूपरसगन्धाश्च ॥ ५४ ॥ (सं०टी०) तदानीमिति । यदा पंचीकृतान्याका- शादीनि तदानीं स्थूलत्वेन स्वकार्योत्पादनसमर्थत्वादाकाशेऽ- व्यक्तरूपेण स्थितः शब्दः अभिव्यज्यते व्यक्तो भवतीत्यर्थः॥ (भा०टी०) पञ्चभूतके पञ्चीकरणके समय आकाशमें शब्दगुण, वायुमें शब्द और स्पर्श, अग्निमें शब्द स्पर्श और रूप. जलमें शब्द स्पर्श रूप और रस, पृथवीमें शब्द स्पर्श रूप रस और गन्ध गुण प्रकाशित होतेहैं ॥ ५४ ॥ एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवःस्वर्महर्जन- स्तपःसत्यमित्येतन्नामकानामुपर्युपरि विद्यमाना- नामतलवितलसुतलरसातलतलातलमहातलपा- तालनामकानामधोऽधो विद्यमानानां लोकानां ब्र- ह्माण्डस्य तदन्तर्गतचतुर्विधस्थूलशरीराणामन्न- पानादीनाञ्चोत्पत्तिर्भवति ॥ ५५ ॥

( ५६ ) वेदान्तसार । ( सं०टी० ) उक्तेभ्यो भूतेभ्यः चतुर्दशभुवनोत्पत्तिप्रकारं दर्शयति । एतेभ्य इति । एतेभ्यो भूतेभ्यः समुत्पन्नब्रह्मां- डस्य चतुर्विधशरीराणां च तद्योग्यान्नपानादीनां चोत्पत्तिर्भ- वतीत्यर्थः ॥ ५५ ॥ ( भा०टी० ) इन्हीं सम्पूर्ण पञ्चीकृत आकाशादि भूतोंसे ऊपर ऊपर विद्यमान भूर्लोक भुवर्लोक स्वर्लोक महर्लोक ज- नलोक तपलोक और सत्यलोक उत्पन्न होते हैं. इन्हींसे क्रमसे नीचे नीचे होनेवाले अतल वितल सुतल रसातल तलातल महातल और पाताल ये सम्पूर्ण लोक उत्पन्न होते हैं । इसी प्रकार इनपञ्चभूतोंसेही ब्रह्माण्ड और चार प्रकारकेस्थूलशरीर और शरीरोंके भोज्य अन्नपानादि उत्पन्न होतेहैं ॥ ५५ ॥ चतुर्विधस्थूलशरीराणि जरायुजाण्डजस्वेदजोद्भि- ज्जाख्यानि ॥ जरायुजानि जरायुभ्यो जातानि म- नुष्यपश्वादीनि । अण्डजानि अण्डेभ्यो जातानि पक्षिपन्नगादीनि । स्वेदजानि स्वेदेभ्यो जातानि यू- कमशकादीनि । उद्भिज्जानि भूमिमुद्भिद्य जातानि लतावृक्षादीनि ॥ ५६ ॥ ( सं०टी० ) चतुर्विधशरीराण्युद्दिशति । चतुर्विधेति । तानि च यथोद्देशं विवृणोति । जरायुभ्य इति ॥ ५६ ॥ ( भा० टी० ) स्थूलशरीरके चार भेद हैं । जरायुज, अ- ण्डज, स्वेदज, व उद्भिज्ज । जरायुसे उत्पन्न होनेवाले मनुष्य पशु आदिको जरायुज कहते हैं । अण्डसे उत्पन्न होनेवाले

विषयतया वनवज्जलाशयवद्वा समष्टिः, वृक्षवज्जल-

संस्कृतटीका-भाषाटीकासमेत । ( ५७ ) पक्षी सर्पादिको अण्डज कहते हैं। स्वेद ( पसीना ) से उत्पन्न होनेवाले यूका मशक आदि स्वेदज कहते हैं। पृथिवीको भेदकर उत्पन्न होनेवाले वेल वृक्ष इत्यादिको उद्भिज्ज कहते हैं ॥ ५६ ॥ अत्रापि चतुर्विधस्थूलशरीरम् ॥ एकानेकबुद्धि- विषयतया वनवज्जलाशयवद्वा समष्टिः, वृक्षवज्जल- वद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडिति चोच्यते । सर्वनराभिमानि- त्वाद्विविधं राजमानत्वाच्च अस्यैषा समष्टिः स्थूल- शरीरं अन्नविकारत्वादन्नमयकोशः। स्थूलभोगाय- तनत्वाज्जाग्रदिति चोच्यते ॥ ५७ ॥ ( सं०टी० ) पूर्ववदत्रापि समष्टित्वं व्यष्टिभेदं दर्शयति।अ- त्रापीति । चतुर्विधशरीरजातमपि शरीरमित्येकबुद्धिविषय- तया वनवत्समष्टित्वं प्रत्येकं तत्तच्छरीरविषयतयाऽनेकबुद्धि विषयत्वात् व्यष्टित्वं च लभत इत्यर्थः । अधुना भूरादिचतु- र्दशभुवनांतर्गतचतुर्विधस्थूलशरीरसमष्ट्युपहितचैतन्यस्यवैश्वा नरत्वापरपर्यायं वैराजत्वं दर्शयति । एतदिति । तत्र युक्ति- माह । सर्वनराभिमानित्वादिति । सर्वप्राणिनिकायेष्वहमि- त्यभिमानवत्त्वाद्वैश्वानरत्वं विविधं नानाप्रकारेण प्रकाशमा- नत्वाच्च वैराजत्वं लभत इत्यर्थः । अस्येति । अस्य विरा- ट्चैतन्यस्यैषा पूर्वोक्ता या ब्रह्मांडांतर्गतचतुर्विधस्थूलशरीर- समष्टिरेव स्थूलशरीरमित्यर्थः । अन्नविकारत्वादिति । अन्नवि- कारबाहुल्यादन्नमयत्वं आत्माच्छादकत्वात्कोशत्वं स्थूलशरी

( ५८ ) वेदान्तसार । रादिविषयप्रयुक्तसुखदुःखभोगायतनत्वाच्च स्थूलशरीरत्वं इं- द्रियैरर्थोपलंभाज्जाग्रदवस्थात्वं घटत इत्यर्थः ॥ ५७ ॥ ( भा०टी० ) जैसे वन वृक्षसमूहकी समष्टि है और सं- म्पूर्ण वृक्ष वनकी व्यष्टि हैं और तालाब जलकी समष्टि है और जल तालावकी व्यष्टि हैं । इसीप्रकार यहाँभी चार प्रकारके शरीर एक जगह इकठे हुए समष्टि कहाते हैं और अलग अ- लग व्यष्टि कहाते हैं । इसी स्थूलशरीरकी समष्टिसे उपहित चैतन्य सर्व देहका अभिमानी अनेक प्रकारसे विराजमान वै- श्वानर और विराट्शब्दसे कहा जाता है । इस समष्टिरूप स्थूलशरीरको अन्नके विकारके निमित्त अन्नमयकोश कहते हैं और वही समष्टि स्थूलभोगका स्थान है इसकारण जाग्रत् शब्दसे कहा जाता है ॥ ५७ ॥ एतद्व्यष्ट्युपहितं चैतन्यं विश्वइत्युच्यते । सूक्ष्म- शरीराभिमानमपरित्यज्य स्थूलशरीरादिप्रवेष्टृ- त्वात् । अस्याप्येषा व्यष्टिः स्थूलशरीरं अन्नविका- रत्वात् अन्नमयकोषः । स्थूलभोगायतनत्वात् जाग्रदिति चोच्यते ॥ ५८ ॥ ( सं०टी० ) चतुर्विधं स्थूलशरीरं समष्ट्युपहितं चैतन्यं सप्रपंचमभिधायेदानीं तद्व्यष्ट्युपहितं चैतन्यं अभिधत्ते । एत- दिति । एतेषां चतुर्विधशरीराणां या व्यष्टिः तत्तच्छरीरव्य- क्तिः तदुपहितं चैतन्यं विश्व इत्युच्यत इत्यर्थः। तत्र हेतुमाह । सूक्ष्मशरीराभिमानमिति। सूक्ष्मलिंगशरीराभिमानमपरित्यज्य

संस्कृतटीका-भाषाटीकासमेत । ( ५९ ) स्थूलशरीरेषु प्रविश्य तत्तत्स्थूलशरीरेषु सर्वेषु प्रत्येकमहामि- त्यभिमानवत्त्वाद्विश्वत्वमित्यर्थः। अस्यापीति । अस्य विश्व- चैतन्यस्याप्येषा तत्तच्छरीरव्यक्तिविशेषलक्षणा व्यष्टिः सैव स्थूलशरीरमित्यर्थः। अत्राप्यन्नविकारबाहुल्यादन्नमयत्वं चै- तन्याच्छादकत्वात्कोशत्वंइन्द्रियैरर्थोपलंभाज्जाग्रत्वं चक्रमेण दर्शयति । अन्नविकारत्वादिति ॥ ५८ ॥ ( भा०टी० ) व्यष्टिरूप स्थूलशरीरसे जो उपहित चैतन्य है उसको विश्वशब्दसे कहते हैं । इसी कारण यह चैतन्य सूक्ष्मशरीरके अभिमानको विना छोड़ेही स्थूलशरीरमें प्रवेश करता है पूर्वोक्त व्यष्टिको स्थूलशरीर कहा है इसके अन्नवि- कार स्वरूपको अन्नमयकोश कहते हैं। और वहीं व्यष्टि स्थू- लभोगका स्थान है इसकारण जाग्रत्शब्दसे कहा जाता है ५८ तदानीमेतौ विश्ववैश्वानरौ दिग्वातार्कप्रचेतो- ऽश्विभिः क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन क्रमाच्छब्दस्पर्शरूपरसगन्धान् अग्नीन्द्रोपेन्द्रयम- प्रजापतिभिः क्रमान्नियन्त्रितेन वागादीन्द्रियपञ्च- केन क्रमाद्वचनादानगमनविसर्गानन्दान्चन्द्रचतु- र्मुखशङ्कराच्युतैःक्रमान्नियन्त्रितेनमनोबुद्ध्यहङ्का- रचित्ताख्येनान्तरिन्द्रियचतुष्केन क्रमात् संश- यनिश्चयाहङ्कार्यचैतांश्च सर्वानेतान् स्थूलवि- षयाननुभवतः । “जागरितस्थानो बहिःप्रज्ञः” इत्यादिश्रुतेः ॥ ५९ ॥

विषयमें श्रुतिभी प्रमाण है—“जाग्रत् अवस्थामें विश्व और

( ६० ) वेदान्तसार । ( सं०टी० ) अधुना जाग्रदवस्थायां विश्ववैश्वानरयोः त- तद्देवताधिष्ठितश्रोत्रादिभिः चतुर्दशभिः करणैः शब्दादिविष- यग्रहणप्रकारं दर्शयति । तदानीमिति । अस्मिन्नर्थे श्रुतिं संवादयति । जागरितेति । जागरितं स्थानं यस्य स जागरित- स्थानः बही रूपादौ चक्षुरादिग्राह्ये प्रज्ञा यस्य स बहिःप्रज्ञः५९ ( भा०टी० ) जाग्रत् कालमें विश्व और वैश्वानर ये दोनों दिशा वायु सूर्य्य वरुण और अश्विनीकुमार इनके द्वारा प्रेरणा कियेहुए कर्ण त्वचा चक्षु जिह्वा और घ्राण इन पाँच ज्ञानेन्द्रियोंकरके क्रमसे शब्द स्पर्श रूप रस और गन्ध इन पाँच विषयोंका अनुभव करते हैं। इसीप्रकार अग्नि इन्द्र वि- ष्णु यम और ब्रह्मा इनके द्वारा प्रेरणा कियेहुए वाणी पाणि पाद पायु और उपस्थ इन पांच कर्म्मेन्द्रियों करके क्रमसे वाक्य ग्रहण चलना त्याग और आनन्द इन पाँच बाह्य वि- षयोंका अनुभव करते हैं और चन्द्रमा ब्रह्मा शिव और विष्णु इन चार देवताओंके प्रेरणा कियेहुए मन बुद्धि अहंकार और चित्त इन चार इन्द्रियों करके क्रमसे संशय निश्चय अहंकार और चैत्त इन चार स्थूल विषयोंका अनुभव करते हैं इस विषयमें श्रुतिभी प्रमाण है—“जाग्रत् अवस्थामें विश्व और वैश्वानर बाह्य स्थल विषयोंका अनुभव करते हैं ” ॥५९॥ अत्राप्यनयोःस्थूलव्यष्टिसमष्ट्योस्तदुपहितयोर्वि- श्ववैश्वानरयोश्च वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलवत्तद्गतप्रतिबिम्बाकाशवच्च वा पूर्व-

संस्कृतटीका-भाषाटीकासमेत। (६१) वदभेदः। एवं पञ्चीकृतपञ्चभूतेभ्यः स्थूलप्रपञ्चो- त्पत्तिः॥ ६० ॥ (सं०टी०) अनयोर्विश्ववैश्वानरयोर्वनवृक्षावच्छिन्नाका- शदृष्टांतेन जलाशयगतप्रतिबिंबाकाशदृष्टांतेन च पूर्ववदभेदं सा- धयति। अत्रापीति। स्थूलप्रपंचोत्पत्तिमुपसंहरति। एवमिति ६० (भा०टी०) जैसे वन और वृक्षमें वनावच्छिन्न आका- श और वृक्षावच्छिन्न आकाशमें तथा जलाशयमें और जल में और तालाब प्रतिबिम्बित आकाश और जलप्रतिबिम्बित आकाशमें कुछ भेद नहीं है तिसीप्रकार स्थूलशरीरकी समष्टि और व्यष्टिसे तथा स्थूलशरीरकी समष्टिगत उपहित वैश्वानर और स्थूलशरीरकी व्यष्टिगत उपहित विश्वकाभी कुछ भेद नहीं है इसप्रकार इकट्ठे कियेहुए पञ्चभूतसे स्थूलशरीरकी उत्पत्ति होती है ॥ ६० ॥ एतेषां स्थूलसूक्ष्मकारणशरीरप्रपञ्चानां समष्टिरे- को महान्प्रपञ्चो भवति। यथा अवान्तरवनानां समष्टिरेकं महद्वनम्। यथावाअवान्तरजलाशयानां समष्टिरेको महाजलाशयः। तदुपहितविश्ववैश्वान- रादीश्वरपर्यन्तं चैतन्यमपि अवान्तरवनावच्छि- न्नाकाशवदवान्तरजलाशयगतप्रतिबिम्बिताका- शवच्च एकमेव ॥ ६१ ॥ (सं०टी०) स्थूलसूक्ष्मकारणप्रपंचानां व्यष्टिभूतानां प्र- त्येकं विवक्षयाऽवांतरप्रपंचत्वमभिधायेदानीं तेषां समष्टिरेवैकं

( ६२ ) वेदान्तसार । महाप्रपंचत्वं दर्शयति। एतेषामिति । तत्र दृष्टांतमाह। यथे- ति । यथा धवखदिरपलाशाद्यवांतरवनानां समष्टिः समुदा- यविवक्षया एकं महद्वनं भवति । यथा वा वापीकूपतडागा- द्यवांतरजलाशयानां समष्टिः समुदायविवक्षया एको महाज- लाशयो भवति । तथैतेषां स्थूलसूक्ष्मकारणावांतरप्रपंचानाम- पि समष्टिः समुदायविवक्षया एको महान्प्रपंचो भवतीत्यर्थः । एतदेवावांतरमहाप्रपंचोपहितानां विश्वतैजसप्राज्ञानां वैश्वान- रहिरण्यगर्भाव्याकृतानां चावांतरवनावच्छिन्नाकाशवदवांतर- जलाशयगतप्रतिबिंबाकाशवच्चाभेदइत्याह। एतदुपहितमिति ॥ ( भा०टी० ) जिसप्रकार अलग अलग वनोंकी समष्टिसे एक बड़ा वन हो जाताहै । तथा अलग अलग तालावोंकी समष्टिसे एक बड़ा तालाव होजाताहै इसीप्रकार स्थूल कारण और सूक्ष्म शरीरके प्रपञ्चकी समष्टिसे एक बडा प्रपञ्च होजा ताहै जैसे सम्पूर्ण वनावच्छिन्न आकाश और यावत् जलाश- यगत प्रतिबिम्बित आकाश एकही आकाश है तिसीप्रकार स- म्पूर्ण प्रपञ्चावच्छिन्न वैश्वानर, विश्व, हिरण्यगर्भ, तैजस और प्राज्ञ और ईश्वर यह सब एकही चैतन्य है ॥ ६१ ॥ आभ्यां महाप्रपञ्चतदुपहितचैतन्याभ्यां तप्तायःपिण्डवद्विविक्तं सत् अनुपहितं चैतन्यं "सर्वं खल्विदं ब्रह्मैव" इति महावा- क्यवाच्यं भवति विविक्तं सल्लक्ष्यमपि भवति। (सं०टी०) चैतन्यप्रपंचयोर्भेदे “सर्वं खल्विदं ब्रह्म” इति

संस्कृतटीका-भाषाटीकासमेत । ( ६३ ) श्रुत्या विरोधमाशंक्य परिहरति । आभ्यामिति । उक्तमह- त्प्रपंचं तदवच्छिन्नचैतन्याभ्यां तप्तायःपिंडवदन्योन्यतादा- त्म्याध्यासापन्नं यद्वस्तु श्रुतं तदवच्छिन्नचैतन्यं "सर्वं खल्विदं ब्रह्म" इति वाक्यस्य वाच्यं भवति।अन्योन्यतादात्म्याध्यासर- हितं सलक्ष्यं भवतीत्यर्थः ॥ ६२ ॥ ( भा०टी० ) जैसे जलतेहुए लोहेसे अभिन्न अग्नि "अ- यो दहति" इस वाक्य वाच्य होता है और पृथक् रूप इस वाक्य लक्ष्य होता है तिसीप्रकार महत्प्रपंचावच्छिन्न चैतन्य इस महत्प्रपञ्चसे अभिन्न होकर ( सर्वं खल्विदं ब्रह्म ) इस वाक्यका वाच्य होता है और और पृथक् रूप होकर इस महावाक्यका लक्ष्य होता है ॥ ६२ ॥ एवं वस्तुन्यवस्त्वारोपोऽध्यारोपः सामान्येन प्रद- र्शितः । इदानीं प्रत्यगात्मनि इदमिदमयमारो- पयतीति विशेष उच्यते । तथाच अतिप्राकृत स्तु “ आत्मा वै जायते पुत्रः " इत्यादिश्रुतेः स्वस्मित्रिव स्वपुत्रेऽपि प्रेमदर्शनात् पुत्रे पुष्टे नष्टे- ऽहमेव पुष्टो नष्टश्चेत्याद्यनुभवाच्च पुत्र आत्मेति व- दति । चार्वाकस्तु "स वा एष पुरुषोऽन्नमयः"- इत्यादिश्रुतेः प्रदीप्तगृहात्स्वपुत्रं परित्यज्यापि स्व- स्य निर्गमदर्शनात स्थूलोऽहं कृशोऽहमित्याद्यनु- भवाच्च स्थूलशरीरामात्मेति वदति । अपरश्चार्वा- कः “ते ह प्राणाः प्रजापतिं समेत्यँ ब्रुयुः" इत्यादि-

( ६४ ) वेदान्तसार । श्रुतेः इन्द्रियाणामभावे शरीरचलनाभावात्काणो- हं बधिरोहं इत्याद्यनुभवाच्च इन्द्रियाण्यात्मेति वदति ॥ ६३ ॥ ( सं०टी० ) अध्यारोपप्रकरणमुपसंहरति । एवमिति । ईश्वरचैतन्ये सामान्यतो महाप्रपंचाध्यारोपप्रकारं सप्रपंच- मभिधायेदानीं प्रत्यगात्मनि विशेषाध्यारोपप्रकारं दर्शयितुमु- पक्रमते । इदानीमित्यादिना । अध्यारोपमेवाह । इदमिदमि- ति । प्रत्यक्षादिसंनिहितस्यापत्यादिधर्मिण इदमिदं विनिर्देशः क्रियते । इदमिदमित्यादेर्वीप्सा । तथा चातिस्थूलबुद्धिस्तु इद- मपत्यादिकमेवाहम् । अयं पुत्र एवाहमित्यत्यंतबाह्यधर्मवि- शेषेणात्मन्यध्यारोपयतीत्यर्थः । अत्र श्रुतिमाह । आत्मा वा इति । तत्र युक्तिमाह । स्वस्मिन्निति । यथा स्वशरीरे प्रेमदर्शनादात्मत्वभ्रमः एवं स्वपुत्रादिशरीरेपि प्रेमदर्शनादात्म- त्वभ्रम इत्यर्थः । अत्रानुरूपमनुभवमाचष्टे । पुत्र इति। एतदपेक्ष- या विशिष्टबुद्धिरन्यः कश्चिदधिकारी स्वदेहमेवात्मानं मन्य- त इत्याह । चार्वाकस्त्विति। अत्रापि श्रुतिमाहास वा इति। पु- त्रादिशरीरस्यात्मत्वाभावे युक्तिं दर्शयन् पूर्वोक्ताधिकारिणः सकाशात्स्वस्य वैलक्षण्यं दर्शयति । प्रदीप्तगृहादिति । देह- स्यात्मत्वेऽनुभवं च प्रमाणयति । स्थूलोहमिति । ततोप्युत्कृ- ष्टः कोप्यधिकारी श्रुतियुक्त्यनुवेधैः इंद्रियाण्यात्मेति व- दति इत्याह । अपर इति ॥ ६३ ॥ ( भा०टी० ) इसप्रकार संक्षेपसे वस्तुरूप ब्रह्मचैतन्यमें

संस्कृतटीका-भाषाटीकासमेत । (६५) अवस्तुका आरोपस्वरूप अध्यारोप दिखलाया । अब विशेष रूपसे जीवचैतन्यमें अध्यारोप अर्थात् कौन कौन मतावल- म्बी किस किस वस्तुको जीवात्मा कहते हैं सो दिखाते हैं। अति अज्ञानी पुरुष पुत्रको आत्मा कहते हैं और इस श्रुति का प्रमाण देते हैं-“आत्माही पुत्ररूप होकर जन्म लेता है”। परन्तु युक्तिभी आश्चर्य ढंगकी देते हैं-कहतेहैं “अपनेमें जि- सप्रकार प्रेम होता है पुत्रमेंभी तिसीप्रकार प्रेमका अनुभव होता है इसकारण पुत्रही आत्मा है इस विषयमें और अनु- भवभी है जैसे पुत्रके पुष्ट होनेपर मैं पुष्ट होगया और पुत्रके नष्ट होनेपर मैं नष्ट होगया इसप्रकार ज्ञान होता है इसकारण पुत्रही आत्मा है”। और चार्वाक मातावलम्बी तौस्थूलशरीरको आत्मा कहते हैं और इस श्रुतिका प्रमाणभी देते हैं-“अन्न- मय रसके विकारयुक्त यह पुरुषही आत्मा है”। और यह युक्ति देते हैं कि “सब पुरुष पुत्रकाभी परित्याग करके जलते हुए घरमेंसे अपने बचानेका उपाय करते हैं” और इस विषय में अनुभवभी है. ऐसा कहते हैं क्योंकि “मैं पुष्ट हूँ मैं दुर्बल हूँ” ऐसा ज्ञान सर्व साधारणको होता है इसकारण स्थूल शरीरही आत्मा है दूसरे चार्वाकमतावलम्बी तौ इन्द्रियोंके समूह- को आत्मा कहते हैं और इस श्रुतिका प्रमाण देते हैं- “इन्द्रियोंका समूह ब्रह्माके समीप जाता है तब इन्द्रियोंके न होनेसे शरीर कुछ व्यापार नहीं कर सक्ता है” इसकारण इ- न्द्रियसमूहही आत्मा है और यह युक्ति देते हैं “मैं अन्धा हूँ,

( ६६ ) वेदान्तसार । मैं बधिर हूँ' इसप्रकार ज्ञान सबको होता है इससे इन्द्रिय गणही आत्मा है” ॥ ६३ ॥ अपरश्चार्वाकः“अन्योऽन्तर आत्मा प्राणमयः” इ- त्यादिश्रुतेः प्राणाभावे इन्द्रियचलनायोगात् अह- मशनायावानहं पिपासावान् इत्याद्यनुभवाच्च प्राण आत्मेति वदति । अन्यस्तु चार्वाकः “अन्योन्तर आत्मा मनोमयः” इत्यादिश्रुतेः मनसि सुप्ते प्राणा- देरभावात् अहं सङ्कल्पवानहं विकल्पवानित्याद्य- नुभवाच्च मन आत्मेति वदति ॥ ६४ ॥ ( सं०टी० ) ततोप्युत्तमोऽधिकारी कश्चिच्छुतिप्रमाणा- नुभवयुक्तिबलात् प्राण एवात्मेत्याह । अपर इति । ततो विशिष्टोधिकारी कश्चित्स्वमताानुकूलश्रुत्यादिबलान्मन एवा- त्मेत्याह । अन्यस्त्विति ॥ ६४ ॥ ( भा०टी० ) कोई कोई चार्वाकमतावलम्बी प्राणको आत्मा कहते हैं और इस श्रुतिका प्रमाण देते हैं-“प्राणमय अन्तरात्मा शरीरादिसे भिन्न है।” और मतके स्थापनके अर्थ ऐसी युक्ति देते हैंकि-। “जिस समय शरीरमें प्राण नहीं रहता है तब इन्द्रियोंके समूहसे कोई क्रिया नहीं होसक्ति है । इससे प्राणही आत्मा है” और यह युक्ति दिखाते हैं- “मैं क्षुधार्त्त हूँ, पिपासातुर हूँ' इसप्रकार आपण्डितपामरपर्य्यन्तको अनुभव होता है इसकारण प्राणही आत्मा है”। कोई कोई चार्वाक मतावलम्बी मनको आत्मा कहते हैं और इस श्रुतिका प्रमाण

संस्कृतटीका-भाषाटीकासमेत । ( ६७ ) देते हैं-“मनोमय अन्तरात्मा शरीर, इन्द्रिय और प्राण इनसे भिन्न है” इसकारण मनही आत्मा है । और अपने मतकी प्राधान्यता और रक्षाके अर्थ यह युक्ति देते हैं-“जिस समय मन स्वभावस्था में होता है तब प्राणादिका अभाव होता है । और मुझको यह संकल्प है और यह विकल्प है इसप्रकार अ- भवभी सबहीको होता है”इसकारण मनही आत्मा है॥ ६४ ॥ बौद्धस्तु “अन्योऽन्तर आत्मा विज्ञानमयः” इत्यादिश्रुतेः कर्तुरभावे करणस्य शक्त्य- भावात् ‘अहं कर्त्ता अहं भोक्ता’ इत्याद्यनु- भवाच्च बुद्धिरात्मेति वदति ॥ ६५ ॥ ( सं० टी० ) उक्तेभ्यः पंचभ्यो विलक्षणः कश्चिद्विज्ञान- वादी श्रुत्यादिभिर्विज्ञानमात्मेत्याह । बौद्धस्त्विति ॥ ६५ ॥ ( भा०टी० ) बौद्धमतावलम्बी बुद्धिको आत्मा कहते हैं और इस श्रुतिका प्रमाण देते हैं-“विज्ञानमय अन्तरात्मा शरीर, प्राण और मन इनसे भिन्न है” और यह युक्ति देते हैं- “जिस समय कर्त्ताका अभाव होता है तबही करणकी श- क्तिका अभाव होता है । ऐसी प्रतीति है और बुद्धिके अभाव होनेपर इन्द्रियोंकी शक्तिका अभाव देखनेमें आता है । और ‘मैं कर्त्ता हूँ मैं भोक्ता हूँ’इसप्रकार अनुभवभी आपामर पण्डित साधारण सबहीको होता है इसकारण बुद्धिहीको आ- त्मत्वसिद्ध होता है” ॥ ६५ ॥ प्राभाकरतार्किकौ तु “अन्योऽन्तर आत्मा

( ६८ ) वेदान्तसार । आनन्दमयः” इत्यादिश्रुतेः सुषुप्तौ बुद्ध्या- दीनामज्ञाने लयदर्शनात् ‘अहमज्ञः’ इत्या- द्यनुभवाच्च अज्ञानमात्मेति वदतः ॥ ६६ ॥ ( सं०टी० ) उक्तेभ्योऽतिरिक्तो प्राभाकरतार्किकौ स्वमतो पयोगिश्रुत्यादिसद्भावादज्ञानमात्मेति वदत इत्याह। प्राभाक- रतार्किकाविति ॥ ६६ ॥ ( भा०टी० ) प्राभाकर ( मीमांसक ) और तार्किक ( नै- यायिक ) तो दोनों अज्ञानकोही आत्मा कहते हैं और इस श्रुतिका प्रमाण देते हैं-“अन्तरात्मा शरीरादिसे भिन्न और आनन्दमय है । ”और इसप्रकार युक्ति प्रमाण देते हैं कि- “सुषुप्ति अवस्थामें अज्ञानमें बुद्ध्यादिका लय होता है और ‘मैं मूर्ख हूँ मैं ज्ञानी हूँ’ इसप्रकार अनुभवभी यावन्मात्रको हो- ता है इसकारण अज्ञानही आत्मा है” ॥ ६६ ॥ भट्टस्तु “प्रज्ञानघनएवानन्दमयआत्मा” इत्यादिश्रुतेःसुषुप्तौप्रकाशाप्रकाशसद्भा- वात् मामहं जानामीत्याद्यनुभवाच्च अ- ज्ञानोपहितं चैतन्यमात्मेति वदति ॥ ६७ ॥ ( सं०टीका ) अन्यभट्टस्त्वज्ञानावच्छिन्नचैतन्यमात्मे- त्याह । भट्टस्त्विति ॥ ६७ ॥ ( भा०टी० ) भट्टमतावलम्बी कोई मीमांसक अज्ञान- समष्टिद्वारा उपहित चैतन्य अर्थात् ईश्वरचैतन्यकोही आत्मा कहते हैं और इस श्रुतिका प्रमण देते हैं-“आत्माही प्रज्ञान-

संस्कृतटीका-भाषाटीकासमेत । ( ६९ ) घन तथा आनन्दमय है”और इसप्रकार युक्ति प्रमाण देते हैं कि-“सुषुप्तिकालमें सबके लीन होनेपरभी अज्ञानोपहित चै- तन्यका प्रकाश रहता है और मैं अपनेको नहीं जानता हूँ ऐसा अनुभव होता है । इसकारण अज्ञानोपहितचै- तन्यही आत्मा है” ॥ ६७ ॥ अपरो बौद्धः“असदेवेदमग्र आसीदित्या- दिश्रुतेःसुषुप्तौ सर्वाभावादहं सुप्तःसुषुप्तौ नासमित्युत्थितस्य स्वभावपरावर्शविष- यानुभवाच्च शून्यमात्मेति वदति ॥ ६८॥ ( सं०टी० ) बौद्धैकदेशी कश्चिच्छ्रुत्यादिभिः शून्यमा- त्मेति वदतीत्याह । अपर इति ॥ ६८ ॥ ( भा ०टी० ) कोई बौद्धमतावलम्बी शून्यकोही आ- त्मा कहते हैं । और इस श्रुतिका प्रमाण देते हैं-“जगत् प- हले असत् था ” और यह युक्ति देते हैं कि-“सुषुप्तिकालमें बुद्ध्यादि सबका अभाव होता है और सुषुप्तिसे उठकर पुरुष को ऐसा ज्ञान होता है कि सुषुप्तिमें मेरा अभाव होगया था इस अनुभवके कारण शून्यही आत्मा है” ॥ ६८ ॥ एतेषां पुत्रादीनां शून्यपर्यन्तानामनात्मत्वमुच्य- ते। एतैरतिप्राकृतादिवादिभिरुक्तेषु श्रुतियुक्त्यनु- भवाभासेषु पूर्वपूर्वोक्तश्रुतियुक्त्यनुभवाभासाना- मुत्तरोत्तरश्रुति युक्त्यनुभवाभासैरात्मवाद्यदर्शना- त्पुत्रादीनामनात्मत्वं स्पष्टमेवेति ॥ ६९ ॥