विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( १९८ ) अन्वयः अतितुङ्गस्य रणाङ्गणेषु उत्कन्धरान् एव हठात् प्रहर्तुः यस्य कृपाण- प्रतिषेधमार्गः नृपाणां नम्रभावात् अपरः न आसीत् । व्याख्या अतितुङ्गस्याभ्युच्चस्य 'उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे' इत्यमरः । रणाङ्गणेषु समरभूमिषूद्गतोन्नता कन्घरा ग्रीवा येषां तानेव ऊर्ध्वस्थितग्रीवानुद्धतानेवेत्यर्थः । नृपान् हठात्प्रसभं प्रहर्तुर्नाशयितुर्यस्य राजकुमारस्य कृपाणस्य खड्गस्य प्रहारस्ये- त्यर्थः । प्रतिषेधो निषेधस्तस्य मार्गः पन्थाः कृपाणप्रहारजनितस्यनाशद्रक्षणोपाय इत्यर्थः । नृपाणां विपक्षणां राज्ञां नम्रभावाद्विनयेन पराजयस्वीकारादपरोऽन्यो नाऽऽसीत् । ये खलून्नतां ग्रीवां कृत्वा तेन सार्द्धमभिमानेन युद्धाय समागता- स्तेषामेव नाशो जातः । ये खलु नम्रभावादस्य पुरतः पराजयं स्वीचक्रुस्ते तु सुरक्षिता इति भावः । भाषा रणभूमि में अभिमान से ऊँची गर्दन कर युद्ध के लिये आने वालो को ही चुन २ कर मारने वाले उस अत्युन्नत राजपुत्र की तलवार के प्रहार से विपक्षी राजाओ को बचने का उपाय, नम्रता से पराजय स्वीकार कर लेने के अतिरिक्त दूसरा नही था । व्याजावतीर्णेन जनार्दनेन तेनोदरे हाररुचिच्छटाभिः । नाभीसरोजोद्गमवारणाय संचारिता चन्द्रमसः प्रमेव ॥७०॥ अन्वयः व्याजावतीर्णेन जनार्दनेन तेन उदरे हाररुचिच्छटाभिः नाभीसरोजोद्- गमवारणाय चन्द्रमसः प्रभा संचारिता इव । व्याख्या व्याजेन छलेन विक्रमाङ्कदेव रूपेणेत्यर्थः । अवतीर्णः पृथ्वीतले समागतस्तेन जनार्दनेन विष्णुना तेन राजकुमारेणोदरे कुक्षौ 'पिचण्डकुक्षी जठरोदरं तुन्दम्' इत्यमरः । हारस्य मुक्ताहारस्य रुचीनामुज्ज्वलकान्तीनां छटाभिश्शोभाभिः नाभ्यां विष्णुवत्स्वनाभ्यां सरोजस्य कमलस्योद्गम उत्पत्तिस्तस्य वारणाय
( १९९ ) दूरोकरणाय चन्द्रमसः सुधांशोः प्रभा ज्योत्स्ना संचारितेव प्रसारितेव । विष्णु- रूपोऽपि स नाभिकमलोत्पत्तिमूदरस्थ--हारजनितोज्ज्वलकान्तिभिश्चन्द्रमसो ज्योत्स्नेव प्रसार्य निवारितवान् । यतः कमलानि न चन्द्रिकायां विलसन्ति प्रादुर्भवन्तीति भावः । अत्र सापह्नवोत्प्रेक्षालङ्कारः । भाषा विक्रमाङ्क देव के छद्म से अवतीर्ण विष्णु ने अपनी नाभी में से कमल की उत्पत्ति को रोकने के लिये, अपने पेट पर के मोती के हार की उज्ज्वल कान्ति से मानो चन्द्रमा की चांदनी फैला दी थी । अर्थात् चन्द्रिका में कमल नष्ट होते हैं इसलिये मोती के हार की मानो चांदनी की ऐसी चमक फैला कर कमल की उत्पत्ति रोक दी । न भोजराजः कविरञ्जनाय मुञ्जोऽथवा कुञ्जरदानदत्तः । हस्ताम्बुजे तस्य गुणिप्रियस्य सहर्षमाविष्कृतहेमवर्षे ॥७१॥ अन्वयः गुणिप्रियस्य तस्य सहर्षम् आविष्कृतहेमवर्षे हस्ताम्बुजे (सति) कुञ्जर- दानदक्षः भोजराजः अथवा मुञ्जः कविरञ्जनाय न । व्याख्या गुणिनो गुणवन्तः प्रिया यस्य स तस्य गुणिप्रियस्य तस्य राजकुमारस्य विक्रमाङ्कदेवस्य हर्षेण सहित सहर्षं सानन्दमाविष्कृतं प्रकटीकृतं हेम्नः सुवर्णस्य वर्षं वृष्टिर्येन स तस्मिन् हस्त एवाम्बुज कमलं तस्मिन् करकमले विराजमाने सति कुञ्जराणां हस्तिना दान प्रदान तस्मिन् दक्षः प्रवीणो भोजराजो धाराधी- शोऽथवा मुञ्जस्तत्पूर्ववर्ती मुञ्जनामनृपः कवीनां रञ्जनं प्रसन्नीकरणं तस्मै करिदानद्वाराऽपि कवीनां मनः प्रसादाय न, न तथा समर्थ इति भावः । भाषा गुणिजनों से प्रेम रखने वाले उस राजकुमार के, प्रसन्नतापूर्वक सुवर्ण की वृष्टि करने वाले कर कमल के रहते हुए अर्थात् अपने हाथ से गुणियों को सहर्ष सुवर्ण दान करते रहने पर, कवियों को हाथियों का प्रदान करने में प्रवीण राजा भोज या राजा मुञ्ज, कवियों को प्रसन्न करने में, वैसे समर्थ नहीं हुए ।
( २०० ) तस्यारिलक्ष्मीपरिरम्भकेलि-समुत्सुकप्राज्यभुजद्वयस्य । केयूर-रत्नाङ्कुरकण्टकानां तैक्ष्ण्यं कृपाणाहतिभिर्निरस्तम् ॥७२॥ अन्वयः अरिलक्ष्मीपरिरम्भकेलिसमुत्सुकप्राज्यभुजद्वयस्य तस्य केयूररत्नाङ्कुर- कण्टकानां तैक्ष्ण्यं कृपाणाहतिभिः निरस्तम् । व्याख्या अरीणां शत्रूणां लक्ष्मीः श्रीस्तस्याः परिरम्भ आलिङ्गनमेव केलिः क्रीड़ा तस्यां समुत्सुकं समुत्कण्ठितं प्राज्यं विशालं भुजद्वयं बाहुयुगलं यस्य तस्य राजकुमारस्य केयूरेऽङ्गदे स्थितानि रत्नानि तेषामङ्कुरा अग्रभागा एव कण्ट- कानि तेषां तैक्ष्ण्यं तीव्रता कृपाणैः शत्रूणां खङ्गैराहतयः प्रहारास्तैर्निरस्तं कृतम् । कृपाणाहतिभिः केयूररत्नाङ्कुरकण्टकानां तैक्ष्ण्यनिराकरणादालिङ्गनं निष्प्रत्यूहम- भवदिति भावः । एतेन लक्ष्म्यास्तस्य राजकुमारस्य सर्वतोभावेन स्वीकरणं ध्वन्यते तेन रसाभासध्वनिः । भाषा शत्रुओं की लक्ष्मी की आलिङ्कनरूपी क्रीड़ा में उत्सुक लम्बी २ दो भुजाओं वाले उस राजकुमार के विजायत मे जड़े हुये रत्नों का अग्रभाग रूपी कांटो का तीखापन, शत्रुओं के खङ्ग के प्रहारों से नष्ट हो गया था । अतएव आलिङ्गन में लक्ष्मी को उन काँटों के गड़ने की आशंका न थी । एकातपत्रोर्जितराज्यलोभाच्छत्रान्तराणामिव वारणाय । स भूभृतामुन्नतवंशभाजां दण्डानशेषाञ्छतधा बभंज ॥७३॥ अन्वयः सः एकातपत्रोर्जितराज्यलोभात् छत्रान्तराणां वारणाय इव उन्नतवंश- भाजां भूभृताम् अशेपान् दण्डान् शतधा बभंज । व्याख्या स राजकुमार एकमेवातपत्रं छत्रं यस्मिन्तदेकातपत्रमेकच्छत्रमूर्जितं समृद्धि- मद्विशालं राज्यं तस्य लोभात्तस्य प्रतिष्ठावाञ्छायाऽन्यच्छत्रं छत्रान्तरं तेषामन्य
( २०२ ) पूर्वांद्रेः पूर्वाचलस्य कटकेषु नितम्बेषु 'कटकोऽस्त्री नितम्बोद्रेः' इत्यमरः। प्रालेयमिव हिममिव शुद्धं श्वेतवर्णं यशः कीर्ति गायन्ति स्म सङ्गीतपुरस्सरं स्तुवन्ति स्म। भाषा युद्ध में गौड या बङ्गाल के राजा को जीत कर उसके हाथियों को छीन लेने वाले, कामरूप या असाम के राजा की समृद्ध प्रतापश्री को समूल नष्ट कर देने वाले उस राजकुमार विक्रमाङ्कदेव की बरफ के समान श्वेत कीर्ति को, सूर्य के रथ के पहियों की घड़घड़ाहट से प्रात काल की निद्रा के आनन्द से वञ्चित अर्थात् जागपड़ी हुई सिद्ध नामक देव कन्याएँ, पूर्वाचल के नीचे के भागों में गाया करती थीं। आसीत्तस्य समुत्सुकः सुरपतिः संग्रामसंदर्शने सेहे किन्तु न गाढपीडितधनुष्टङ्कारमुच्चैःश्रवाः। आरूढः सुरवारणं रणरसक्रुद्धेभगन्ध—ग्रहात् तेनाप्येष पलायनप्रणयिना दूरं समुत्सारितः ॥७५॥ अन्वयः सुरपतिः तस्य संग्रामदर्शने समुत्सुकः आसीत्। किन्तु उच्चैःश्रवाः गाढपीडितधनुष्टङ्कारं न सेहे। (अतः) एषः सुरवारणम् आरूढः। (किन्तु) रणरसक्रुद्धेभगन्धग्रहात् पलायनप्रणयिना तेन अपि एषः दूरं समुत्सारितः। व्याख्या सुराणां देवानां पतिः स्वामीन्द्रस्तस्य विक्रमाङ्कदेवस्य सङ्ग्रामाणां युद्धानां दर्शने कौतुकेन निरीक्षणे समुत्सुक उत्कण्ठित आसीत्। विक्रमाङ्कदेवस्य विचित्रं युद्धकलां सर्वतो निशम्य तस्य युद्धदर्शने कौतुकयुक्तस्तराम् समुत्सुक आसीदिति भावः। किन्तुच्चैःश्रवा इन्द्राश्वः 'हय उच्चैः श्रवाः सूतो मातलिर्नन्दनं वनम्' इत्यमरः। गाढं यथास्यात्तथा पीडितं धनुः शरासनं तस्य टङ्कारं शब्दं न सेहे न सोढुं समर्थः। टङ्कारशब्दं श्रुत्वा पलायित इति भावः। अत एष इन्द्रः सुरवारणमैरावतमारूढोऽधिष्ठितः। किन्तु रणरसेन संग्रामरसेन क्रुद्धाः कुपिताः इभा गजास्तेषां गन्धस्य ग्रहात् ग्रहणात् पलायने वेगेन दूरापसरणे प्रणयः
( २०३ ) प्रीतिर्यस्य तेन पलायनोत्तरलितमनसा तेनैरावतेनाऽप्येष दूरं रणभूमितो महदन्तरं समुत्सारितोऽपनीतः। विक्रमाङ्कदेवस्य गजा गन्धगजा आसन्निति भावः। यस्य गन्धं समाघ्राय पलायन्तेऽपरे गजाः। स सुगन्धगजः प्रोक्त इति। अत्राति- शयोक्तिरलङ्कारस्तेनाऽस्य लोकोत्तरं शौर्यं ध्वन्यते। भाषा इन्द्र को इस विक्रमाङ्क देव का संग्राम देखने की उत्कण्ठा हुई। परन्तु इन्द्र का घोड़ा उच्चैःश्रवा, इस राजकुमार के कान तक खींच कर चलाये जाने वाले धनुष के टङ्कार को न सहन कर सका। अर्थात् उसके धनुष के टङ्कार से भड़क गया। इसलिये इन्द्र ऐरावत नाम के अपने हाथी पर सवार हुआ। परन्तु इस राजकुमार के युद्ध की भावना से क्रोधयुक्त गन्ध गजों की गन्ध से (भयभीत होकर) भाग जाने में ही प्रेम रखने वाला अर्थात् अपना कल्याण समझने वाला ऐरावत भी इन्द्र को युद्धभूमि से दूर भगा ले गया। काञ्ची पदातिभिरमुष्य विलुण्ठिताभूद्- देवालयध्वजपटावलिमात्रशेषा। लुण्टाकक्षुप्तनिखिलाम्बरडम्बराणां कौपीनकार्पणपरेव पुराङ्गनानाम् ॥७६॥ अन्वयः अमुष्य पदातिभिः विलुण्ठिता (सती) देवालयध्वजपटावलिमात्रशेषा काञ्ची लुण्टाकक्षुप्तनिखिलाम्बरडम्बराणां पुराङ्गनानां कौपीनकार्पणपरा इव अभूत्। व्याख्या अमुष्य विक्रमाङ्कदेवस्य पदातिभि पादचारिसैनिकैर्विलुण्ठिता हृतावपहृत- सर्वस्वा सती देवानामालया देवास्तया देवमन्दिराणि तेषां ध्वजेषु पताकासु संसक्ता या पटावलिस्तन्मात्रमेव पताकांशुकान्येव शेषोऽवशिष्टवस्त्रभागो यस्यां सा काञ्ची तन्नाम्नी चोलराजधानी लुण्टाकैर्हठापहरणशीलैर्लुप्तान्यपहृतानि निखिलाम्बराणामखिलवस्त्राणां डम्बराण्याटोपा यासां तास्तासां पुराङ्गनानां
( २०४ ) काञ्चीनगरस्त्रीणां कौपीनकं गुह्याच्छादनवस्त्रं तस्याऽर्पणे परा तत्परेवाऽभूत् । सर्वतो भावेन काञ्चीनगरी पदातिभिर्लुण्ठितेति भावः । भाषा विक्रमाङ्कदेव की पैदल सेना से लूटी जाने पर केवल देव मन्दिरो की पताकाओ में ही वस्त्रो का अस्तित्व रखने वाली चोलराजा की प्रधान नगरी काञ्ची, लुटेरो द्वारा अपहृत वस्त्र समूह वाली नागरिक स्त्रियो को मानों गुह्याङ्ग ढकने के लिये लगोटी ही देने में तत्पर थी अर्थात् समर्थ थी । अर्थात् पूरी तरह से काची नगरी को सैनिको ने लूट लिया था । अत्र द्राविडभूमिपालदलनक्रीडारसोद्दामरे कोदण्डध्वनिभिर्विधुन्वति घनध्वानानुकारैर्जगत् । वैदेहीरमणस्य रावणशिरश्छेदेऽप्यशान्तक्रुधः प्रत्यावृत्तिरकाण्डकम्पतरलैराशङ्कि लङ्काचरैः ॥७७॥ अन्वयः द्राविडभूमिपालदलनक्रीडारसोद्दामरे अत्र घनध्वानानुकारैः कोदण्ड- ध्वनिभिः जगत् विधुन्वति (सति) अकाण्डकम्पतरलैः लङ्काचरैः रावण- शिरश्छेदे अपि अशान्तक्रुधः वैदेहीरमणस्य प्रत्यावृत्तिः आशङ्कि । व्याख्या द्राविडश्चसौ भूमिपालश्च द्राविडभूमिपालश्चोलदेशराजस्तस्य दलनस्य पीडनस्य या क्रीडा लीलास्तस्या रसे उद्डामर अत्युत्सुकस्तस्मिन्नत्राऽस्मिन्विक्र- माङ्कदेवे घनानामेघानां ध्वानो निस्वनस्तदनुकारैस्तत्सदृशैः कोदण्डस्य धनुषो ध्वनिभिश्चशब्दैर्जगल्लोकं विधुन्वति कम्पयति सति अकाण्डेऽसमय एव कम्पो भयेन कम्पनं तेन तरलैश्चञ्चलैर्लङ्काचरै रक्षसै रावणस्य लङ्कापतेः शिरसां छेदे कर्तने कृतेऽप्यशान्ता क्रुध् क्रोधो यस्य तस्य वैदेह्या रमणस्य श्री रामचन्द्रस्य प्रत्यावृत्तिः पुनरावर्तनं पुनरागमनमित्यर्थः । आशङ्कि वितर्कितम् । कोदण्डप्रयोगेऽयं श्री रामचन्द्रवत् कुशल आसीदिति भावः । उत्प्रेक्षालङ्कारः । भाषा चोलदेश के राजा को परास्त करने के क्रीडारस में समुत्सुक, राज कुमार
॥ श्रीः ॥ महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम् ——————— चतुर्थः सर्गः कार्यतो युवराजत्वे राजसूनुरवस्थितः । स दिग्विजयमन्याज-वीरः स्मर इवाकरोत् ॥१॥ अन्वयः कार्यतः युवराजत्वे अवस्थितः अव्याजवीरः सः राजसूनुः स्मरः इव दिग्विजयम् अकरोत् । व्याख्या कार्यतस्सम्पूर्णराज्यकार्यकारित्वाद्युवराजत्वे युवराजकार्यसम्पादनेऽवस्थितः प्रतिष्ठितो न तु युवराजपदे समभिषिक्तस्तत्र तु तदग्रजस्सोमदेवो नाम राजपुत्रोऽ- भिषिक्त आसीत् । व्याजेन कपटेन वीरो व्याजवीरः स न भवतीत्यव्याजवीरो निष्कपटवीरः सत्यशूर इत्यर्थः । सः प्रसिद्धो राजसूनुर्नृपपुत्रः 'आत्मजस्तनयः सूनुस्सुतः पुत्रः स्त्रियां त्वमी' इत्यमरः । विक्रमाङ्कदेवः स्मर इव काम इव 'कामः पञ्चशरः स्मरः' इत्यमरः । दिशामाशानां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । लक्षणया दिक्षु स्थितानां राज्ञामन्यजना- नाञ्च विजयं जयमकरोत् । पृथ्वोस्थसकलभूपानां पराजयं विधाय तान् स्ववशे कृतवानित्यर्थः । राजसूनोःस्मरेण साधर्म्यादत्रोपमालङ्कारः 'साधर्म्यमुपमा भेदे' । सर्गेऽस्मिन्ननुष्टुप् छन्दः । 'श्लोके षष्ठं गुरुज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः ॥' इति लक्षणात् भाषा सम्पूर्ण राज्य कार्य करने के लिये युवराज पद पर अभिषिक्त न होते हुए
भी उस पद पर स्थित, उस सत्य शूर राज पुत्र विक्रमाङ्कदेव ने कामदेव के समान समस्त दिशाओ को अर्थात् समस्त दिशाओ के राजाओ को तथा अन्य लोगो को जीत लिया अर्थात् अपने वश में कर लिया । अभज्यन्त गजैस्तस्य लीलया मलयद्रुमाः । समं केरलकान्तानां चूर्णकुन्तलवल्लिभिः ॥२॥ अन्वयः तस्य गजैः लीलया मलयद्रुमाः केरलकान्तानां चूर्णकुन्तलवल्लिभिः समम् अभज्यन्त । व्याख्या तस्य विक्रमाङ्कदेवस्य गजैर्हस्तिभिर्लीलया क्रीडया मलयस्य मलयाद्रेर्द्रुमा वृक्षा. केरलकान्ताना केरलदेशीयरमणीना चूर्णकुन्तला अलका. 'अलकाश्चूर्ण- कुन्तला.' इत्यमर. । एव वल्ल्यो लतास्ताभि सम सहाऽभज्यन्त भग्ना भूमौ निपातिता इत्यर्थ । गजसेनया पतीना विनाशे केरलदेशीयमारीणा चूर्णकुन्तला देशाचाररीत्या ताता मुण्डनेन भूमौ पतिता मलयद्रुमाश्च संवर्गजैर्भूमौ पातिताः । अत्र सहोक्तिरलङ्कारः । द्रुमाणा पाते वल्ल्योऽपि पतन्त्येवेति सूच्यते । भाषा विक्रमाङ्कदेव के हाथियो ने मलयाचल के चन्दनवृक्षों के साथ ही केरल- देशीय स्त्रियो के केशपाश रूपी लता को भी तोड कर पृथ्वी पर गिरा दिया । अर्थात् गज सेना से उनके पतियो का नाश हो जाने पर देशाचारानुसार उन स्त्रियो के विधवा हो जाने से केश भी मूंड़ दिये गये थे और वे पृथ्वी पर गिर गये । मदस्तम्बेरमैस्तस्य मलये निर्द्रुमीकृते । मन्ये चन्दनवायूनामभूद्दुर्धिक्षमक्षयम् ॥३॥ अन्वयः तस्य मदस्तम्बेरमैः मलये निर्द्रुमीकृते (सति) चन्दनवायूनाम् अक्षयं दुर्भिक्षम् अभूत् (इति) मन्ये ।
( २०८ ) व्याख्या तस्य विक्रमाङ्कदेवस्य मदो दानमस्तेयेषु ते मदा मदयुक्ताः 'अर्श आदिभ्यो- जित्यच् प्रत्ययः' । स्तम्बेरमा गजाः 'इभः स्तम्बेरमः पद्मी' इत्यमरः । तैर्मदोन्मत्त- गजैर्मलये मलयपर्वते न सन्ति द्रुमा अस्मिन्निति निद्रुमः न निद्रुमोऽनिद्रुमः, अनिद्रुमो निर्द्रुमः कृत इति निर्द्रुमीकृतस्तस्मिन् 'अभूततद्भावे संपद्यकर्तरि च्विरिति च्विः प्रत्यय' । भक्षणाद्भञ्जनाच्च वृक्षरहिते कृते सति चन्दनवायूनां चन्दनद्रुमसम्र्पकत्कच्छीतलसुगन्धिपवनानां दक्षिणानिलानामित्यर्थः । लक्षयम- विनाशि चिरकालतभवेत्यर्थः । दुर्भिक्षमभावोऽभूदित्यहं मन्ये तर्कयामि । गत्रोत्प्रेक्षालङ्कारः । भाषा उसके मदोन्मत्त हाथियो द्वारा मलयाचल का, वृक्षों को तोडने और खाने से, वृक्ष रहित कर दिये जाने पर चिरकाल के लिये शीतल, मन्द, सुगन्ध वायु का (दक्षिणानिल का) अकाल पड गया होगा ऐसा में समझता हूँ । चन्दनस्यन्दिडिण्डीरच्छलेन मलयाचलः । पिण्डं श्रीखण्डवृक्षाणां परोक्षाणामिवाकरोत् ॥४॥ अन्वयः मलयाचलः चन्दनस्यन्दिडिण्डीरच्छलेन परोक्षाणां श्रीखण्डवृक्षाणां पिण्डम् इव अकरोत् । व्याख्या मलयाचलो मलयाद्रिश्चन्दनाच्चन्दनवृक्षात्स्यन्दी प्रच्युतो डिण्डीरः फेनः 'डिण्डीरोऽब्धिकफः फेनः' इत्यमरः । तस्य च्छलेन व्याजेन परोक्षाणां भग्नानामत एव परलोकगतानां श्रीखण्डवृक्षाणां चन्दनतरूणां पिण्डमिव श्राद्धपिण्डमिवाऽ- करोत् कृतवान् । मृतेभ्यः सम्बन्धिभिः पिण्डदानं क्रियते तथैव मलयाचलः स्वोत्पन्नानां सम्प्रति नष्टानां चन्दनवृक्षाणा चन्दनस्यन्दिफेनव्याजेन पिण्डदानं कृतवानित्यर्थः । भाषा मलयाचल ने टूटे हुए चन्दन वृक्षो से चूने वाले (सफेद) फेनो के मिष से मानो मरे हुए अर्थात् नष्ट भए हुए चन्दन-वृक्षो का पिण्डदान किया ।
( २०९ ) सान्द्रचन्दननिष्यन्दपङ्किलैस्तस्य वारणैः । क्षणमौर्वाग्निसन्तापः प्रविश्य शमितोऽम्बुधेः ॥५॥ अन्वयः सान्द्रचन्दननिष्यन्दपङ्किलैः वारणैः प्रविश्य अम्बुधेः ऽऔर्वाग्निसन्तापः क्षणं शमितः । व्याख्या सान्द्रो घनीभूतो यश्चन्दनस्य श्रीखण्डवृक्षस्य निष्यन्दः प्रस्रुतो द्रवीभूत- पदार्थस्तेन पङ्किलैश्चन्दनवृक्षसंघर्षवशादार्द्रशरीरैर्वारणैर्गजैः प्रविश्य समुद्रमध्ये जलक्रीडार्थं गत्वाऽम्बुधेः समुद्रस्यौर्वोऽग्निर्यौर्वाग्निर्बडवाग्निस्तस्मात्सन्तापः पीडा क्षणं क्षणमात्रं शमितः शान्तिं नीतः । 'और्वस्तु बाडवो वडवानलः' इत्यमरः । तस्य शीतचन्दनस्यन्दलिप्ताङ्गेषु गजेषु समुद्रं प्रविष्टेषु समुद्रस्य वडवानलतापः क्षणं शान्तिं गत इति भावः । गम्योत्प्रेक्षालङ्कारः । भाषा (अपने शरीरो को चन्दनवृक्षो से रगड़ने के कारण) गाढे २ चन्दन के रस से लथपथ उसके हाथियो ने समुद्र में स्नानादि क्रीडा के लिए प्रवेश कर (चन्दन की ठण्डक से) समुद्र की वडवानल की गर्मी को थोड़े देर के लिये शान्त कर दिया । और्वाग्नितप्तपाथोधौ चन्दनस्यन्दवासिताः । शीतोपचारसाम्राज्यं भेजुर्मलयनिम्नगाः ॥६॥ अन्वयः चन्दनस्यन्दवासिताः मलयनिम्नगाः और्वाग्नितप्तपाथोधौ शीतोपचार- साम्राज्यं भेजुः । व्याख्या चन्दनस्य श्रीखण्डवृक्षस्य स्यन्देन प्रस्रुतजलेन वासिताः सुगन्धित्वमापन्ना मलयस्य मलयाद्रेर्निम्नगा नद्यः 'स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा' इत्यमरः । और्वाग्निना वडवानलेन तप्त उष्णतां प्रापितः पायोधिस्समुद्रस्त- १४
( २१० ) स्मिन् शीतोपचारस्य सन्तापनिवारणपूर्वकशीतानयनस्य साम्राज्यं वैशिष्ट्यं भेजुः सिषेविरे । समुद्रे चन्दनजलवासितानां नदीनां समागमात् समुद्रे शैत्यं जातं बडवानलसन्तापश्च निवारित इति भावः । भाषा बडवानल से तपे समुद्र में चन्दन के रस से सुवासित, मलयाचल की नदियां शीतोपचार का काम करने लगीं । सखीव निखिलैस्तस्य सेनासीमन्तिनीजनैः । प्रीत्या मलयवायूनां जन्मभूमिरदृश्यत ॥७॥ अन्वयः तस्य निखिलैः सेनासीमन्तिनीजनैः प्रीत्या सखी इव मलयवायूनां जन्मभूमिः अदृश्यत । व्याख्या तस्य विक्रमाङ्कदेवस्य निखिलैस्समस्तैः सेनायां सेनया सह समागताः सीमन्तिन्योऽङ्गनास्तासां जनतसमूहस्तैः प्रीत्या प्रेम्णा सखीव प्रेयसीव मलयवायूनां दक्षिणानिलानां जन्मभूमिर्मलयपर्वतोऽदृश्यत परिवीक्षिता । संयोगावस्थायां सुखप्रदानां दक्षिणानिलानां जन्मभूमिरङ्गनाभि सखीव प्रीत्या दृष्टेति भावः । भाषा उसकी सेना में स्थित अङ्गनाओं ने दक्षिणानिल की जन्म भूमि मलयाचल को (संयोगावस्था में दक्षिणानिल के सुखद होने के कारण) सखी के समान प्रेम से देखा । मलयेन तदीयस्त्रीसुरभिश्वसितानिलैः । गुहाश्चन्दनवायूनां बीजार्थमिव पूरिताः ॥८॥ अन्वयः मलयेन तदीयस्त्रीसुरभिश्वसितानिलैः गुहाः चन्दनवायूनां बीजार्थं पूरिताः इव ।
( २११ ) व्याख्या मलयेन मलयाचलेन तस्य विक्रमाङ्कदेवस्येमा इति तदीयाः स्त्रियो भार्यास्तासां सुरभीणि सुगन्धीनि 'सुरभिर्घ्राणतर्पण । इष्टगन्धः सुगन्धिः स्यात्' इत्यमरः । श्वसितान्येवाऽनिलास्तैस्तदीयाङ्गनासुगन्धिश्वसितानिलैर्गुहा व्यर्थश्चन्दनवायूनां श्रीखण्डानिलानां बीजार्थं बीजसंरक्षणाय पूरिता इव परिपूर्णीकृता इव । गजकृतसमस्तचन्दनवृक्षनाशोऽपि आगामिनि समये कान्तासुरभिश्वसितरूपबीजैः प्रभूताश्चन्दनवायवस्समुत्पत्स्यन्तीति धिया मलयेन तासां श्वसितानां गुहासु बीजरूपेण संग्रहः कृत इति भावः । श्वसितानिलैर्गुहापरिपूरणे चन्दनवायुरूप- बीजसंरक्षणस्य फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा, तया च तदीयाङ्गनानां श्वसिता- निलैस्सह मलयपवनानामुपमा गम्यते । भाषा मलयाचल ने, विक्रमाङ्कदेव के हाथियो द्वारा चन्दन वृक्षो का समूल नाश कर दिये जाने पर, चन्दन की सुगन्ध से युक्त वायुओ का बीज बनाए रखने के लिये मानो विक्रमाङ्कदेव की सेना में की अङ्गनाओ के सुगन्धित सांसो को गुफाओ में भर लिया । गजोन्यूलितनिक्षिप्तचन्दनद्रुमसम्पदः । स मूल्यमिव रत्नानि जग्राह महतोऽम्बुधेः ॥६॥ अन्वयः सः गजोन्यूलितनिक्षिप्तचन्दनद्रुमसम्पदः महतः अम्बुधेः रत्नानि मूल्यम् इव जग्राह । व्याख्या स विक्रमाङ्कदेवो गजैर्हस्तिभिः पूर्वमुन्मूलिता उत्पाटिता ,पश्चात्प्रक्षिप्तास्तं- पातिताश्चन्दनद्रुमास्तद्रूपासम्पदो यस्मिन् स नागसमूहोत्पाटितसंपातितचन्दनमही- रुहरूपसम्पत्तेर्महतोऽम्बुधेर्महासागरात् महासागरसकाशादित्यर्थः । रत्नानि समुद्रस्थितविविधरत्नसमूहान् मूल्यमिव यत्तच्चन्दनद्रुमसम्पत्तेर्मूल्यार्थमिव जग्राह गृहीतवान् । परिवृत्तिनामायङ्कारः । "परिवृत्तिर्विनिमयः समन्यूनाधि- कैर्भवेत्" इति लक्षणात् ।
( २१२ ) भाषा अपने हाथियों द्वारा उखाड़ कर फेंके हुए चन्दनवृक्षों की सम्पत्ति से यु विशाल समुद्र से मानो उस विक्रमाङ्कदेव ने मूल्य में रत्नों को ले लिया । , शिलाभिः करटिक्षुण्ण-श्रीखण्डस्यन्दपाण्डुभिः । मलयस्तद्दलक्षोभादस्थिशेष इवाऽभवत् ॥९०॥ अन्वयः मलयः करटिक्षुण्णश्रीखण्डस्यन्दपाण्डुभिः शिलाभिः तद्दलक्षोभा दस्थिशेषः इव अभवत् । व्याख्या मलयो मलयाचलः करटिभिर्गजैः क्षुण्णास्संमर्दिताः श्रीखण्डाश्चन्दनवृक्षास्ते स्पन्देन प्रस्रुतद्रव्येण पाण्डुवर्णाः शुभ्रवर्णास्ताभिः शिलाभिर्हेतुभिस्तस्य = सैन्यं तस्य क्षोभात्सङ्घर्षात्संमर्दनादित्यर्थ । अस्थीन्येव शेषा अवशिष्टांशा य स इवाऽभवत् । शिलासु शुभ्रत्वसाम्यादस्थित्वरूपस्योत्प्रेक्षणादुत्प्रेक्षा । भाषा उस राजा के हाथियों से नष्ट किए हुए चन्दन वृक्ष के रस से सफेद = हुई पत्थर की चट्टानों के मिष से मानो उस राजा की पलटनों से सम्मर्दित होने से मलयाचल की हड्डियाँ अवशिष्ट रह गई हों ऐसा वह दिखाई देता था अम्भोधिः श्रीभुजङ्गस्य निद्राभङ्गविधायिना । चमूकलकलेनेव कुपितः क्षोभमाययौ ॥९१॥ अन्वयः अम्भोधिः श्रीभुजङ्गस्य निद्राभङ्गविधायिना चमूकलकलेन कुपितः स इव क्षोभम् आययौ । व्याख्या अम्भोधिस्समुद्रः श्रियो लक्ष्म्या भुजङ्गः पतिर्विष्णुस्तस्य विष्णोर्निद्राया भङ्गं विदधातीति तेन निद्राविच्छेदकारिणा चमूकलकलेन सेनासञ्चलनशब्देन कुपि
( २१३ ) ग्रस्तमिव क्रुद्धस्तत्रिव क्षोभं व्याकुलत्वमाययौ प्राप्तं । समुद्रक्षोभे सेनाकलकल- श्रवणस्य हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षालङ्कार । भाषा लक्ष्मीपति भगवान् विष्णु की निद्रा का भङ्ग करने वाले सेना के कोलाहल से मानो समुद्र कुपित होकर क्षुब्ध हो उठा । क्षुण्णास्तत्करिभिस्तोय-द्विपाङ्घ्रिनिगडोपमाः । शयानाः कुण्डलीभूय वार्धितीरे महोरगाः ॥१२॥ अन्वयः वार्धितीरे तोयद्विपाङ्घ्रिनिगडोपमाः कुण्डलीभूय शयानाः महोरगाः तत्करिभिः क्षुण्णाः । व्याख्या वार्धे समुद्रस्य तीरे तट समुद्रतटे तोयस्य जलस्य द्विपा गजास्तेषामङ्घ्रय पादास्तेषां निगडानां शृङ्खलानामुपमा सादृश्यं येषां ते समुद्रगजनिगडोपमा 'अथ शृङ्खले । अन्दूको निगडोऽस्त्री स्यात्' इत्यमर । कुण्डलीभूय मण्डलाकारेण कुण्डलना विधाय शयाना सुप्ता महोरगा उरसा गच्छन्तीत्युरगा महान्त उरगा महोरगा महासर्पास्तस्य विरूपाक्षदेवस्य करिभिर्हस्तिभि क्षुण्णा गजपादै सम्मर्दिता । समुद्रतटे सर्पाणामाधिक्यं स्वाभाविकमेव । अत्रोपमालङ्कारः । भाषा समुद्र तट पर जलहाथियों के पांव में बांधने के सिककड के सदृश मण्डल- बांध कर सोए हुए बडे २ सांप, उस राजा के हाथियों से कुचल दिये गए । दधिरे तद्गजाः पाद-लग्नपाथोधिमौक्तिकाः । क्षुण्णनक्षत्रपुञ्जस्य सौन्दर्यं सुरदन्तिनः ॥१३॥ अन्वयः पादलग्नपाथोधिमौक्तिकाः तद्गजाः क्षुण्णनक्षत्रपुञ्जस्य सुरदन्तिनः सौन्दर्यं दधिरे ।
( २१६ ) ऽलभ्यत्वादधिकं शोकमोपेति भावः । कालकूटस्याप्युत्पत्तिः समुद्रादेव जातेति पौराणिकी कथाऽत्राऽनुसन्धेया । अत्रातिशयोक्तिरलङ्कारः । भाषा उसकी सेना द्वारा रत्नादि के लेलेने से लूट लिया गया हुआ समुद्र, दुःख से, मरने का उपाय सोचते हुए अपने कालकूट नामक विष को शङ्कर ने अपने गले में रख लिया है, यह सोचकर, बहुत शोक करने लगा । अर्थात् यदि वह विष उसके पास होता तो उसके खाने से शीघ्र मृत्यु हो जाती । विद्रुमेषु समुद्रस्य कान्ताबिम्बौष्ठकान्तिषु । अराजन् राजपुत्रस्य प्रीतिपात्रीकृता दृशः ॥१७॥ अन्वयः समुद्रस्य कान्ताबिम्बौष्ठकान्तिषु विद्रुमेषु राजपुत्रस्य प्रीतिपात्रीकृताः दृशः अराजन् । व्याख्या समुद्रस्य पयोधेः कान्तानां रमणीनां बिम्बफलवद्रक्तवर्णा ओष्ठा अध- रास्तेषा कान्तिरिव कान्तिर्येषु तेषु विद्रुमेषु प्रवालेषु 'अय विद्रुमः पुंसि प्रवालं पुनपुंसकम्' इत्यमरः । राजपुत्रस्य विक्रमाङ्कदेवस्य प्रीतेः स्नेहस्य पात्रीकृता भाजनीकृताः प्रेमार्द्रा इत्यर्थः । दृशो नयनान्यराजन् शुशुभिरे लग्नानीति भावः । भाषा स्त्रियों के बिम्ब फल के ऐसे लाल ओठों के समान दिखाई पड़ने वाले समुद्र के मूंगों पर उस राजपुत्र की प्रेम भरी दृष्टि पड़ी । तेन केरलभूपाल-कीलालकलुषीकृतः । अगस्त्यमुनिसंत्रासमत्य़ाजयत पयोनिधिः ॥१८॥ अन्वयः तेन केरलभूपालकीलालकलुषीकृतः पयोनिधिः अगस्त्यमुनिसंत्रासम् अत्याज्यत ।
( २१७ ) व्याख्या तेन विक्रमाङ्कदेवेन केरलस्य१ केरलदेशस्य भूपाला राजानस्तेषां कीलालेन रुधिरेण 'शोणितेऽम्भसि कीलालम्' इत्यमरः । कलुषीकृतो मलिनीकृ- तोऽपवित्रीकृत इत्यर्थः । पयोनिधिस्समुद्रोऽगस्त्यमुनेः कुम्भजमुनेस्त्रासमाच- मनभयेणैव सर्वसमुद्रजलरिक्तीकरणरूपं भयमत्याज्यत तद्भयान्निवृत्तमकारयत । रक्तमिश्रितमपवित्रं समुद्रजलं कुम्भयोनि कदापि न पास्यतीति धिया निर्भयत्वमिति भावः । भाषा उसने केरलदेश के राजाओ को मारकर उनके रक्त से समुद्रजल को मिश्रित कर अतएव अपवित्र कर समुद्र को अगस्त्य मुनि के भय से छुड़ा दिया । अर्थात् अगस्त्य मुनि अब रक्त मिश्रित अपवित्र जल को कदापि न पीऐंगे इसलिये समुद्र को अब उनका भय न रहा । उदरालोडनोद्भ्रान्त-दन्तसंक्रान्तपन्नगैः । पाथोघेरन्त्रमालेव तद्दन्तिभिरकृष्यत ॥१६॥ अन्वयः उदरालोडनोद्भ्रान्तदन्तसंक्रान्तपन्नगैः तद्दन्तिभिः पाथोघेः अन्त्रमाला इव अकृष्यत । व्याख्या उदरस्य समुद्रकुक्षेरालोडनान्मन्थनादुद्भ्रान्ता भयग्रस्ता दन्तेषु रदनेषु संक्रान्ताः संलग्नाः पन्नगाः सर्पा येषां तैस्तस्य विक्रमाङ्कदेवस्य दन्तिभिः करिभिः पाथोघेः पयोधेरन्त्रमाला इव पुरीत्तच्छ्रेणिरिव 'अन्त्रं पुरीतत्' इत्यमरः । आन्त्रमा- लेवेत्यर्थः । अकृष्यताऽऽकृष्टता । अत्र दन्ते उद्भ्रान्तसंलग्नसर्पेष्वन्त्रमालाया उत्प्रेक्षणात्स्वरूपोत्प्रेक्षालङ्कारः । १ केरलदेशो भारतस्य दक्षिणपश्चिमकोणे विद्यमान 'द्रावकोर' सहिता- न्यभूमिमण्डलात्मक आसीत् ।
( २१४ ) व्याख्या पादेषु पदेषु लग्नानि संसक्तानि पाथोघेः समुद्रस्य मौक्तिकानि येषां ते चरणसंसक्तमुक्ताकलापास्तस्य विक्रमाङ्कदेवस्य गजा हस्तिनः क्षुण्णः पादसम्बन्धेन संचूर्णितो नक्षत्रपुञ्जो तारकासमूहो येन तस्य "नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्' इत्यमरः । सुरदन्तिन ऐरावतस्य सौन्दर्यं शोभां दधिरे संप्राप्ताः । निदर्शनालङ्कारः । भाषा उसके हाथी, जिनके पावो में समुद्र के मोती लग गये थे, नक्षत्र समूहो को कुचलने वाले इन्द्र के ऐरावत हाथी की शोभा प्राप्त कर रहे थे । तस्य वाहनमेकैकं गाहमानममन्यत । मन्दुरास्मरणायातमुच्चैःश्रवसमम्बुधिः ॥१४॥ अन्वयः अम्बुधिः तस्य गाहमानम् एकैकं वाहनं मन्दुरास्मरणायातम् उच्चैः- श्रवसम् अमन्यत । व्याख्या अम्बुधिः समुद्रः तस्य विक्रमाङ्कदेवस्य गाहमानं समुद्रं प्रविशन्तमेकैकमेकैकं प्रत्येकं वाजिनं मन्दुरा वाजिराला 'वाजिराला तु मङ्गुरा' इत्यमरः । तस्याः स्मरणेनाऽऽयातं मदीया वाजिराला समुद्रेऽवतिष्ठत इति स्मृत्या समागतमुच्चै- : श्रवसमित्द्राश्वममन्यत मेने । तस्य वाजिनोऽतीव श्रेष्ठा इति भावः । समुद्रा- : देवोच्चैःश्रवत उत्पत्तिरिति पौराणिकी कथाऽत्र सूचिता । भाषा समुद्र ने, समुद्र में स्नान करने वाले उसके हर एक घोडे को, अपनी अश्व- : शाला का स्मरण कर आया हुआ उच्चैःश्रवा नाम का इन्द्र का घोडा ही : समझा । अर्थात् उसको हर एक घोड़ा उच्चैःश्रवा के ऐसा ही था । उच्चै- : श्रवा नामक इन्द्र के घोडे की उत्पत्ति समुद्र में से ही हुई है । तद्दन्तिपदसंघट्ट-त्रुटन्मौक्तिकशुक्तिकः । : चक्रेऽम्बुधिर्भयोद्भ्रान्त-हृदयस्फुटनभ्रमम् ॥१५॥
( २१५ ) अन्वयः तद्दन्तिपदसंघट्टत्रुटन्मौक्तिकशुक्तिकः अम्बुधिः भयोद्भ्रान्तहृदय- स्फुटनभ्रमं चक्रे । व्याख्या तस्य विक्रमाङ्कदेवस्य दन्तिनो हस्तिन 'दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विप' इत्यमर । तेषा पदाना चरणाना सघट्ट आमर्दस्तेन त्रुटन्ति स्फुटन्ति मौक्तिकानि मुक्ताफलानि यासु ता शुक्तयो मुक्तास्फोटा 'मुक्तास्फोटः स्त्रियां शुक्ति' इत्यमर । यस्मिन् सोऽम्बुधि सागरो भयेन त्रासेनोद्भ्रान्त विह्वलं यद्धृदयं तस्य स्फुटन विच्छेदस्तस्य भ्रम भ्रान्ति चक्रे । शुक्तिस्फोटनजनित- शब्देन समुद्रस्य हृदय स्फुटति किमिति प्रेक्षकाणा भ्रान्तिर्जातेति भाव । अत्र भ्रान्तिमानलङ्कार । भाषा उसके हाथियो के पाव के नीचे दब कर टूटने वाली मोतियो की सीपो से अर्थात् उनके शब्दो से, प्रेक्षको को, भय से विह्वल समुद्र का हृदय ही तो नही फट रहा है, ऐसा भ्रम हुआ । अन्विष्यन्मरणोपायं दुःखात्तत्सैन्यलुण्ठितः । कालकूटं हरग्रस्तं शुशोच पयसां निधिः ॥१६॥ अन्वयः तत्सैन्यलुण्ठितः पयसा निधिः दुःखात् मरणोपायम् अन्विष्यन् हरग्रस्तं कालकूट शुशोच । व्याख्या तस्य विक्रमाङ्कदेवस्य सैन्यैर्यत्प्रलुण्ठितं हस्त्यश्वपदात्याहृतमेतद्भावित पयसां जलानां निधि समुद्रो दुःखाच्चमूसङ्क्षोभजन्यक्लेशान्मरणस्य मृत्योरुपायं यत्नमन्विष्यन् ध्यायन् हरेण शिवेन ग्रस्त स्वगले स्थापितं कालकूटं, कालकूटंनाम पूर्वं समुद्रे स्थितमुग्रं विषं शुशोच शोकेन सस्मार । मरणस्य सरलोपायमन्यं कञ्चिदमन्यमान कालकूटस्यैव तादृश सामर्थ्यं निदिध्यानानन्तरस्य या हरग्रस्त्वेक-
( २१८ ) भाषा विक्रमाङ्कदेव के हाथियों के, समुद्र के भीतर घुस कर उसका मन्थन करने से, घबड़ा कर उनके दाँतों में लपटे हुए सर्पों से ऐसा प्रकट होता था मानों हाथियों ने समुद्र की अतड़ियाँ खींच ली हों । तद्भयात्सिंहलद्वीप-भूपतिः शरणागतः । विशश्रामाश्रमपदे लोपामुद्रापतेर्मुनेः ॥२०॥ अन्वयः तद्भयात् शरणागतः सिंहलद्वीपभूपतिः लोपामुद्रापतेः मुनेः आश्रमपदे विशश्राम । व्याख्या तस्माद्विक्रमादित्याद्भूय भीतिस्तस्माच्छरणमागतो रक्षार्थं तत्समीपे समुप- स्थितः सिंहलद्वीपस्य सीलोननाम्ना प्रसिद्धस्य द्वीपस्य भूपतिर्नृपतिर्लोपामुद्रायाः अगस्त्यपत्न्याः पतेर्मुनेरगस्त्यस्य 'अगस्त्यः कुम्भसम्भवः । मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी' इत्यमरः । आश्रमपदे विशश्राम विश्रान्तिमाजगाम । सिंहलद्वीपस्याऽपि युद्धं विना विजयोऽनेन कृत इति भावः । अगस्त्याश्रमप्राप्त्या तस्य तापसाश्रमस्वीकारोऽपि सूचितः । भाषा उसके भय से शरण में आया हुआ सीलोन का राजा, अगस्त्यमुनि के आश्रम में विश्राम करने लगा अर्थात् राजपाट छोड़कर तपस्या करने लगा । धुनानेन धनुश्चित्रं कृतास्तेन मुखेन्दवः । गाङ्गकुण्डपुरस्त्रीणां गलत्कुण्डलमण्डलाः ॥२१॥ अन्वयः धनुः धुनानेन तेन गाङ्गकुण्डपुरस्त्रीणां मुखेन्दवः गलत्कुण्डलमण्डलाः कृताः (इति) चित्रम् ।
( २१९ ) व्याख्या धनुश्चापं धुनोनेन संचालयता टङ्कारयता वा तेन विक्रमाङ्कदेवेन 'गाङ्ग- कुण्डस्य गाङ्गकुण्डचोलपुरनामकस्य पुरस्य नगरस्य स्त्रीणां ललनानां मुखेन्दव आननचन्द्रा गलन्ति भूमौ पतन्ति कुण्डलमण्डलानि कर्णभूषणसमूहा येभ्यस्ते स्रस्तोत्तंससमूहाः कृता विरचिता इति चित्रमाश्चर्यकरम् । गाङ्गकुण्ड-चोलपुरस्य विजयः कृतस्तेन युद्धे मृतानां पतीनां नाशात् स्त्रीणामाभूषणत्यागः संजात इति भावः । अथवा कर्णफोटकेन भयंकरधनुष्टङ्कारेण पूरिताना कर्णाना शम्पना- तद्गतभूषणपतनं जातमिति भावः । अत्रधनु कम्पनेन कुण्डलाना निपत- नोक्तेयाऽसङ्गत्यलङ्कारः । "कार्यकारणयोभिन्नदेशतायामसंगतिः" इति लक्षणात् । भाषा उसके धनुष की टङ्कार करते रहने से गङ्गकुण्ड चोलपुर की स्त्रियों के मुखचन्द्र, कान के आभूषणों से रहित हो गए, यह एक आश्चर्य की बात है । अर्थात् धनुष के कर्ण के लिये असह्य, टङ्कारों से कान का पर्दा फटने लगने से कानों को जोर से हिलाने पर, उनमें के आभूषण गिर गए । अथवा पतिमरण से आभूषण धारण करना बन्द हो गया । यशःकूर्चिकया चित्रं दिग्भित्तिषु निविष्टया । द्रविडीगण्डफलके तेनावर्त्यत पाण्डिमा ॥२२॥ अन्वयः तेन दिग्भित्तिषु निविष्टया यशःकूर्चिकया द्रविडीगण्डफलके पाण्डिमा अवर्त्यत इति चित्रम् । व्याख्या तेन कुमारेण विक्रमाङ्कदेवेन दिश एव भित्तयस्तासु निविष्टया संप्राप्तिया यशसः स्वकीर्ते कूर्चिका यशोरूपश्वेतीकरणद्रव्यपदार्थस्य लेपनयन्त्रं तया द्रविडीनां द्राविडाङ्गनानां गण्डफलके कपोलस्थले पाण्डिमा शुक्लत्वमवर्त्यत प्रावर्त्यत शुक्लत्वं कृतमित्यर्थः । इति चित्रमाश्चर्यकरम् । पतिमरणात् खेदात् १ राजेन्द्र चोल (गंगैगोण्ड) निर्मापिता चोलराजधानी । कावेरीनद्यास्तटे विद्यमानाऽसीत् । सम्प्रति गङ्गकुण्डचोलपुरनाम्ना प्रसिद्धा ।