भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( ३०२ ) भाषा उस दूत ने पृथ्वी पर मस्तक टेक के कुन्तलदेश के राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव को प्रणाम कर दांतों के किरण रूपी कोमल पत्तो पर अपने कोमल चरणों को रखने वाली सरस्वती को प्रकट किया या स्मित पूर्वक कोमल पत्तो के सदृश कोमल अर्थात् मधुर वाक्यो को कहा । कश्चुलुक्यनृपवंशमण्डन त्वद्गुणान्गणयितुं प्रगल्भते । धाम पङ्कुरुहिणीविलासिनः कस्य सङ्कलयितुं विदग्धता ॥३१॥ अन्वयः हे चुलुक्यनृपवंशमण्डन कः त्वद्गुणान् गणयितुं प्रगल्भते । पङ्क- रुहिणीविलासिनः धाम सङ्कलयितुं कस्य प्रगल्भता । व्याख्या चुलुक्यनृपवंशस्य चालुक्यराजकुलस्य मण्डन भूषण तत्सम्बुद्धौ, हे चुलुक्यनृप- वंशमण्डन ! हे विक्रमाङ्कदेव ! क पुरुषस्तव गुणांस्त्वद्गुणान्स्तान् दयादा- क्षिण्यादीन् गणयितु सङ्ख्यातु प्रगल्भते क्षमते । न कोऽपीत्यर्थ । पङ्कुरुहिणीना कमलिनीना विलासी सुखदायकस्तूर्यस्तस्य धाम तेज किरणानित्यर्थ । सङ्कलयितुं गणयितु कस्य जनस्य विदग्धता पाण्डित्य सामर्थ्यमित्यर्थ । न कस्यापीतिभावः । प्रतिवस्तूपमाऽलङ्कार । “प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययो । एकोऽपि धर्म सामान्यो यत्र निर्दिश्यते पृथक्” इति लक्षणात् । भाषा हे चालुक्यराजकुल के भूषण ! विक्रमाङ्कदेव ! तुम्हारे दयादाक्षिण्यादि गुणों की गणना करने में कौन समर्थ हो सकता है अर्थात् कोई भी समर्थ नहीं हो सकता । कमलिनी को सुख देने वाले सूर्य की किरणों को गिनने की पण्डिताई या सामर्थ्य किसमें हैं अर्थात् किसी में नहीं है । वर्णयामि विमलत्वमम्भसः किं त्वदीयकरवालवर्तिनः । एति यत्प्रभवमैन्दवीं द्युतिं विश्वशुक्तिपुटमौक्तिकं यशः ॥३२॥

( ३०३ ) अन्वयः त्वदीयकरवालवर्तिनः अम्भसः विमलत्वं किं वर्णयामि। यत् विश्वशुक्तिपुटमौक्तिकं यशः ऐन्दवीं द्युतिम् एति। व्याख्या त्वदीये स्वत्सम्बन्धिनि करवाले खङ्गे वर्तत इति त्वदीयकरवालवर्ती त भवदीयखड्गे स्फुटतया प्रतीयमानस्याम्भसो जलस्य विमलत्वं विशद धावल्यमित्यर्थः। किं वर्णयामि केन प्रकारेण निरूपयामि। यस्मादम्भा प्रभव उत्पत्तिर्यस्य तत् यत्प्रभवं यदुत्पन्नं, विश्वं सम्पूर्णब्रह्माण्डमेव शुक्तिपुटं तरू मौक्तिकमेव यशः कीर्तिरिन्दोरियमितैन्दवी ताम्बिन्दुसम्बन्धिनीं द्युति कान्तिमेति प्राप्नोति। त्वत्करवालप्रभावेन विश्वस्मिंस्ते चन्द्रवच्छुभ्रं यशः प्रसृतमिति भावः। शुभ्रत्वाद्यशसि मौक्तिकाभेदारोपाद्रूपकम्। अस्मिन्विश्वस्मिन् शुक्ति- पुटत्वारोपः कारणमतः परम्परितरूपकम्। 'नियतारोपगोपायस्यास्यारोपः परस्य यः। तत्परम्परितमिति' लक्षणात्। भाषा आपकी तलवार के (धार के) पानी की स्वच्छता का क्या वर्णन करें। जिससे उत्पन्न विश्वरूपी सीप का मौक्तिक रूपी यश चन्द्रमा की कान्ति को प्राप्त करता है अर्थात् आपकी तलवार से उत्पन्न चन्द्रमा के समान शुभ्र यश सम्पूर्ण विश्व में फैल गया है। खङ्गवारि भवतः किमुच्यते लोलशैवलमिवारिकुन्तलैः । यत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः ॥३३॥ अन्वयः अरिकुन्तलैः लोलशैवलम् इव भवतः खङ्गवारि किम् उच्यते। यत्र त्वया निवेशितं राजहंसनिवहोपमं यशः राजति। व्याख्या अरीणां शत्रूणां कुन्तलैः केशः (हेतुभिः) लोलञ्चञ्चलन्शैवलञ्शेवालं 'जलनीली तु शेवालं शैवलः' इत्यमरः। यस्मिंस्तल्लोलशैवलं प्रकम्पमान- शवलमिव भवतस्तव विक्रमाङ्कदेवस्य खङ्गवारि कृपाणधाराजलं किमुच्यते

( ३०४ ) जनैस्सर्वथैवाऽवर्णनीयमेवेत्यर्थः । यत्र कृपाणधाराजले त्वया भवता निवेशितं प्रतिष्ठापितं राजहंसानां मरालानां निवदस्तत्समूह उपमोपमानं यस्य तन्मरालसमूह- सदृशं शुभ्रं यशः कीर्ति राजति शोभते । उपमालङ्कारः । भाषा शत्रुओं के केशों के लगे होने के कारण, चञ्चल सेवार से युक्त तलवार के पानी का कैसे वर्णन किया जाए। जहाँ तुम्हारे द्वारा स्थापित राजहंस के समूह के समान श्वेत यश शोभित होता है। अर्थात् तुमने शत्रुओं को काटकर अपना श्वेत यश स्थापित किया। त्वद्भुजप्रणयिचापनिस्वनः कैरसौ समरसीम्नि सह्यते । व्यक्तिमेति रिपुमन्दिरेषु यः क्रन्दितध्वनिभिरेणचक्षुषाम् ॥३४॥ अन्वयः असौ त्वद्भुजप्रणयिचापनिस्वनः समरसीम्नि कैः सह्यते । यः रिपु- मन्दिरेषु एणचक्षुषां क्रन्दितध्वनिभिः व्यक्तिम् एति । व्याख्या असौ प्रसिद्धस्तव भुजो बाहुः 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । त्वद्भूज- स्तस्य प्रणयी दृढसम्बद्धो यश्चापो धनुस्तस्य निस्वनः शब्दः समरसीम्नि युद्धभूमौ कैर्जनैः सह्यते सोढुं शक्यते । यो निस्वनो रिपूणां शत्रूणां मन्दिरेषु गृहेष्वेणस्य मृगस्य 'गोकर्णमृगतेजश्यंरोहिताश्चमरो मृगाः' इत्यमरः । चक्षुरिव लोचनमिव चक्षुर्यासां तास्तासां मृगलोचनानां क्रन्दितानि रुदितानि 'क्रन्दितं रुदितं क्रुष्टम्' इत्यमरः । एव ध्वनयश्शब्दास्तैर्व्यक्तिं प्रकाशं प्रकटतामित्यर्थः । एति प्राप्नोति । समरे यदीयचापानिर्गतबाणैर्मृतान् भर्तॄन् दृष्ट्वा राजपत्न्यः स्वभवनेषु रुदन्तीति भावः । अत्र चापनिस्वन-तत्प्रतिध्वन्योर्वैय्यधिकरण्येन वर्णनादसङ्गतिरलङ्कारः । भाषा तुम्हारी भुजा से घनिष्ठता रखने वाले इस धनुष की टङ्कार को युद्ध-भूमि में कौन सहन कर सकते हैं। जिसका साक्षात्कार शत्रुओं के घरों में मृग- नयनियों की रोने की ध्वनि से होता है। अर्थात् तुम्हारे धनुष का टङ्कार होते ही शत्रु मरता है और उसके घर की नारियाँ रोने लगती हैं।

( ३०५ ) निर्मदत्वमुपयान्ति हन्त ते ज्यारवैः करटिनो दिशामपि । कश्मलैः परिहृता इवालिभिर्भज्जन्ति ककुभः प्रसन्नताम् ॥३५॥ अन्वयः ते ज्यारवैः दिशां करटिनः अपि हन्त निर्मदत्वम् उपयान्ति । यत् अलिभिः इव कश्मलैः परिहृताः ककुभः प्रसन्नतां भजन्ति । व्याख्या ते तव विक्रमाङ्कदेवस्य ज्याया मौर्व्या रवा स्वनास्तैर्ज्यारवै शिञ्जिनी- निर्घोषै 'मौर्वी ज्या शिञ्जिनी गुण' इत्यमरः । दिशा ककुभां करटिनो गजा अपि दिग्गजा अपीत्यर्थः । हन्तेति हर्षे, 'हन्त बानेऽनुकम्पायां वाक्यारम्भविषादयो । निश्चये च प्रमोदे च' इत्यमर । निर्मदत्वं भयेन मदरहित्यमुपयान्ति प्राप्नुवन्ति । ते ज्यारव श्रुत्वा दिग्गजा स्वाहकार परित्यत्य भीतास्सन्तो मवरहिता भवन्तीति भाव । यदस्मात्कारणादलिभिरिव भ्रमरैरिव कश्मलैर्मोहै- 'मूर्च्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्' इत्यमर । कुनृपकृतदुष्कर्मभि- रित्यर्थ । परिहृता रहिता ककुभो दिशः प्रसन्नता नैर्मल्य भजन्ति समाध्नन्ति । कश्मलस्याऽलिभिस्साम्यादुपमा । भाषा यह कहते हर्ष होता है कि आप की प्रत्यञ्चा के शब्द को सुन कर दिग्गज भी भय स मद रहित हो जाते हैं । मद जल के न बहने से भ्रमरो के न आने के कारण, भ्रमर रूपी दुष्ट राजाओ व दुकृत्य स्वरुप कालिमा से दूर हो जाने से दिशायें प्रसन्न हो जाती हैं । त्वादृशेन विजिगीषुणा विना छत्रमक्षममसाध्यसाधने । प्लापनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥३६॥ अन्वयः छत्र, त्वादृशेन विजिगीषुणा विना असाध्यसाधने अक्षमम् । अम्बुधिः ान्तसमयं विना जगतः प्लापनाय नो प्रगल्भते । २०

कदर्थनेन पीडनेनोज्झिता परित्यक्ता भवति, या पृथिवी गुर्व्ववयादाक्षिण्यशौर्यादि- गुणैरज्ज्वलं प्रशस्यं त्वां भवन्तं पतिं स्वामिनं लभते प्राप्नोति । भाषा हे महाबीर ! आप जिस पृथ्वी पर अर्थात् जहां रहोगे वह भूमि पुण्य के सुख ऐश्वर्य समृद्धि आदि फलो को अवश्य प्राप्त करेगी। वह भूमि दुष्टराजाओ की पीड़ा से मुक्त हो जाएगी जो दया दाक्षिण्य शौर्य आदि गुणो से देदीप्यमान आपको अपना स्वामी पाएगी। अर्थात् आप जहां रहोगे वह भूमि अवश्य समृद्धि- शाली हो जाएगी और उसको कभी भी दुष्ट राजा लोग पीडित न कर सकेंगे। त्वद्भिया गिरिगुहाश्रये' स्थिताः साहसाङ्क गलितत्रपा नृपाः । ज्यारवप्रतिरवेण तानपि त्वद्धनुः समरसीम्नि बाधते ॥४०॥ अन्वयः हे साहसाङ्क ! (ये) नृपाः गलितत्रपाः (सन्तः) त्वद्भिया गिरिगु- हाश्रये स्थिताः तान् अपि त्वद्धनु समरसीम्नि ज्यारवप्रतिरवेण बाधते । व्याख्या हे साहसाङ्क ! साहसं विक्रम एवाङ्को विजयलक्षणं 'कलङ्काङ्को लाञ्छ- नञ्च चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । यस्य स तत्सम्बोधने हे साहसाङ्क हे विक्रमाङ्कदेव ! ये नृपा भूपा गलिता विनिर्गता त्रपा लज्जा येषां ते विगत- लज्जास्सन्तस्त्वत्तो भीस्तया भवद्भयेन गिरीणा पर्वतानां गुहाः कन्दरा एवाऽऽश्रयः रक्षास्थानं तस्मिन् स्थितास्तानपि तव धनुश्चापः समरसीम्नि समराङ्गणे ज्याया मौर्ध्या रवस्य शब्दस्य प्रतिरवः प्रतिध्वनिस्तेन बाधते पीडयति । पर्वतकन्दरा- स्वपि विक्रमाङ्कदेवस्याऽऽगमनभयादिति भावः । भाषा हे विक्रमाङ्कदेव ! जो राजा लोग लज्जा को छोड तुम्हारे डर से पर्वतो की कन्दराओ में छिप कर बैठ जाते हे उनको भी तुम्हारा धनुष समर भूमि में प्रत्यञ्चा की टङ्कार की प्रतिध्वनि से पीडित करता है। १ 'गिरिगुहासु ये' इत्यपि पाठान्तरम् ।

( ३०९ ) उत्प्रतापदहनं मुखं वहन्नाहवे त्वदसिरिन्द्रजालिकः । दिव्यमस्तकसमागमं द्विषां लूनमर्त्यशिरसां करोति यत् ॥४१॥ अन्वय आहवे त्वदसिः उत्प्रतापदहनं मुखं वहन् इन्द्रजालिकः (भवति) यत् लूनमर्त्यशिरसां द्विषां दिव्यमस्तकसमागमं करोति । व्याख्या आहवे युद्धे तव असिस्त्वदसिर्भवदीयखड्ग उद्गत ऊर्ध्वं प्रसारितः प्रताप एव वह्नोऽग्निर्यस्मात्तदुत्प्रतापदहनं मुखमाननम्प्रभागञ्च वहन् धारयन्निन्द्रजालिक इन्द्रजालविद्याप्रवीणो मायावी भवति । यद्यस्मात्कारणात् स लूनं छिन्नं मर्त्यं मरणशीलं विनाशीत्यर्थः । शिरो येषां ते लूनमर्त्यशिरसस्तेषां छिन्नविना- शिमस्तकानां दिव्यानां स्वर्गियाणां मस्तकानां शिरसां समागमं प्रापणं करोति । यथा कश्चिदिन्द्रजालिको मुखादग्निनिस्सरणं प्रदर्शयन् चमत्कारयुक्तानि कार्याणि करोति तथैव तव खड्ग ऊर्ध्वप्रसारितप्रतापरूपदहनयुक्तं मुखं धारयन् लूनशिरसां शत्रूणां रणे मरणात्तेषां स्वर्गप्राप्तिर्निश्चितेति हेतोस्तेषां नूतनदिव्यमस्तकान् संदधाति । अत्रोत्तरार्धगतवाक्यार्थस्येन्द्रजालिकत्वे हेतुतया कवनात्काव्य- लिङ्गमलङ्कारः । भाषा युद्ध में, ऊपर उठने वाले तेज रूपी अग्नि से युक्त मुख या नोक वाली तुम्हारी तलवार, इन्द्र जालिक हो जाती है । क्यो कि कटे हुए मानवी मस्तक वाले शत्रुओं को वह दिव्य मस्तकों से युक्त कर देती है । अर्थात् युद्ध में जो वीर मरते हैं वे स्वर्ग में जाते हैं यह प्रसिद्धि है । इसलिये तुम्हारी तलवार इन्द्रजालिक के समान सिर कटे शत्रुओं को काल्पनिक दिव्य मस्तको से युक्त कर स्वर्ग में भेज देती है । भाग्यभूमिमपि भारतादिषु त्वादृशं न शृणुमः प्रतापिनाम् । दर्शनेन विजयश्रियं रणेष्वन्यसङ्गविमुखीं करोति यः ॥४२॥ अन्वयः भारतादिषु अपि त्वादृशं भाग्यभूमिं प्रतापिनां न शृणुमः । यः रणेषु दर्शनेन विजयश्रियम् अन्यसङ्गविमुखीं करोति ।

( ३०६ ) व्याख्या क्षतात् त्रायत इति क्षत्रं क्षत्रियजातिः क्षात्रधर्मो वा त्वादृशेन भवादृशेन विजि- गीपुणा विजयैषिणा विनाऽसाध्यानां कर्तुमशक्यानां कार्याणां साधने सम्पादनेऽक्षमं सामर्थ्यहीनम् । अम्बुधिस्समुद्रो युगान्तसमयं विना प्रलयकालागमनं विना जगतो भुवनस्य 'विष्टपं भुवनं जगत्' इत्यमरः । प्लावनाय निमज्जनाय नो प्रगल्भते न प्रभुः । अत्र प्रतिवस्तूपमालङ्कारः । 'सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिरिति' लक्षणात् । भाषा क्षत्रिय जाति, तुम्हारे ऐसे विजय की इच्छा रखने वाले के बिना असाध्य कार्य की सिद्धि करने में समर्थ नहीं हो सकती । समुद्र प्रलय काल के बिना जगत् को पानी के अन्दर डुबाने में समर्थ नहीं होता । अग्रजे तृणवदर्पितं निजं राज्यमूर्जितगुणेन यत्त्वया । वज्रलेपघटितेव तेन ते निश्चला जगति कीर्तिचन्द्रिका ॥३७॥ अन्वयः यत् ऊर्जितगुणेन त्वया निजं राज्यं तृणवत् अग्रजे अर्पितम् । तेन ते कीर्तिचन्द्रिका जगति वज्रलेपघटिता इव निश्चला (जाता ।) व्याख्या यदस्मात्कारणादूर्जिताः श्रेष्ठा गुणा दयादाक्षिण्यादयो यस्य स तेन प्रशस्य- गुणेन त्वया निजं स्वकीयं राज्यमग्रजे ज्येष्ठभ्रातरि सोमदेवे तृणवत्तृणेन तुल्यं लोभरहितमित्यर्थः । अर्पितं निवेदितं तेन कारणेन ते तव कीर्तिरेव चन्द्रिका कीर्तिज्योत्स्ना वज्रलेपेन कुलिशलेपेन चिरकालस्थायिना लेपद्रव्येण निश्चला- ऽचला स्थिरेत्यर्थः । जाता । भाषा चूंकि श्रेष्ठ गुणों से युक्त तुमने अपना राज पाट तृणवत् समझ कर अपने बडे भाई सोमदेव को दे दिया इससे तुम्हारी कीर्ति रूपी चांदनी वज्रलेप के समान अचल हो गई ।

( २०७ ) किं करोषि निजयाथवा भुवा त्वं समस्तवसुधातलेश्वरः । केसरी१ वसति यत्र भूधरे तत्र याति मृगराजतामसौ ॥३८॥ अन्वयः अथवा समस्तवसुधातलेश्वरः त्वं निजया भुवा किं करोषि ।, यत्र भूधरे केसरी वसति तत्र असौ मृगराजतां याति । व्याख्या अथवेति पक्षान्तरे । समस्तस्य समग्रस्य वसुधातलेश्वस्य भूतलयस्येश्वरः प्रभुस्त्वं निजया स्वकीयया भुवा पृथिव्या राज्येनेत्यर्थः । किं करोषि किम्प्रयोजनं धारयसि । न किमपीत्यर्थः । यत्र यस्मिन्भूधरे पर्वते केसरी सिंहो 'सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः। वसति गच्छति तत्र तस्मिन् स्थानेऽसौ सिंहो मृगराजतां मृगराजपदवीं याति प्राप्नोति । भाषा अथवा सम्पूर्ण पृथ्वी के स्वामी, तुमको अपनी पृथ्वी की अर्थात् राज्य की क्या परवाह है । शेर जिस पर्वत पर जा बैठता है वहीं वह मृगराजपद को प्राप्त कर लेता है । याति पुण्यफलपात्रतामसौ यां भुवं निवसि महाभट । सा कुपार्थिवकदर्थनोज्झिता त्वां पतिं हि लभते गुणोज्ज्वलम् ॥३६॥ अन्वयः हे महाभट ! (त्वं) यां भुवं निवसि असौ पुण्यफलपात्रतां याति हि, सा कुपार्थिवकदर्थनोज्झिता (या) गुणोज्ज्वलं त्वां पतिं लभते । व्याख्या हे महाभट ! हे महावीर ! त्वं यां भुवं पृथिवीं निवसि स्थितिं करोषि, असौ भूः पुण्यस्य सुकृतस्य फलानां सुखैश्वर्यसमृद्धीनां पात्रतां भाजनत्वं याति हि निश्चयेन प्राप्नोति । सा भूमिः कुपार्थिवस्य कुत्सितनृपस्य १ 'यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्' इति कालिदासः ।

५. जयसिंह का विद्रोह व विक्रमादित्य धर्म-शासन

( ३१० ) व्याख्या भारतादिष्वपि महाभारतप्रभृतिप्राचीनैतिहासग्रन्थेष्वपि भारतादिदेशेष्वपि वा त्वादृशं भवादृशं भाग्यस्य भागधेयस्य 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियति- विधिः' इत्यमरः । भूमिमाथपं भाग्यवन्तं प्रतापिनं प्रभाववन्तं न शृणुमो नाऽऽकर्णयामः । यो रणेषु युद्धेषु दर्शनेन स्व-स्वरूपप्रकाशनेनैव विजयश्रियं जयलक्ष्मीमन्येषां राज्ञां सङ्गात्सम्बन्धाद्विमुखीं पराङ्मुखीं करोति । युद्धेषु तव दर्शनेनैव शत्रवो भयभीता भवन्ति तन्मातेषां राज्यश्रीनिरुपमरूपलावण्ययुक्तं कामुकं 'कामिनीव तांस्त्यक्त्वा त्वत्समीपे समायातीति भावः । समासोक्ति- रलङ्कारः । भाषा महाभारत आदि प्राचीन ऐतिहासिक ग्रन्थों मे या भारत आदि देशों में तुम्हारे ऐसा भाग्यशाली प्रतापी कोई भी सुनने में नहीं आता । युद्धों में जिसके दर्शनमात्र से शत्रुओं की राजश्री शत्रुभूत राजाओं के पास रहना ही नहीं चाहती । अर्थात् युद्धों में तुम्हारे दर्शन मात्र से विपक्षी राजा भयभीत हो जाते हैं अत एव उनकी राजश्री, अति सुन्दर कामुक के दर्शन मात्र से, कामिनी के समान, उनको छोड़ कर तुम्हारे पास चली आती है । किं किरीटमणयः क्ष्माभुजां लोहकर्षकदृपत्सहोदराः । आनयन्ति यदुपान्तवर्त्मनि त्वत्कृपाणमतिदूरवर्तिनम् ॥४३॥ अन्वयः क्ष्माभुजां किरीटमणयः लोहकर्षकदृपत्सहोदराः किम् ? यत् अति- दूरवर्तिनं त्वत्कृपाणम् उपान्तवर्त्मनि आनयन्ति । व्याख्या क्ष्मां पृथ्वीं भुञ्जन्ति स्वोपभोगे समानयन्ति ते क्ष्माभुजो विपक्षभूमि- पतयस्तेषां किरीटेषु मुकुटेषु मणयो रत्नानि 'मण्डनं चाथ मुकुटं किरीटं पुंनपुं- सकम्' इत्यमरः । लोहस्य लोहस्य कर्षिका दृषदश्चुम्बकशिलास्तासां सहोदरा- स्सदृशाः किम् ? यद्यस्मात्कारणादतिदूरे वर्तत इत्यतिदूरवर्ती तं विप्रकृष्ट- देशस्थं त्वत्कृपाणं त्वत्खड्गमुपान्तवर्त्मनि समीपप्रदेशे आनयन्ति समाकर्षन्ति । अत्रोत्प्रेक्षालङ्कारः ।

( ३१२ ) व्याख्या घनानां मेघानां गर्जितानि स्तनित्तानि 'स्तनितं गर्जितं मेघनिर्घोषे रसितानि- च' इत्यमरः । तेष्विवाऽन्येषाम् प्रतापिनां पौरुषस्य पुरुषार्थस्य गुणेषु महत्त्वेष्व- पि श्रुतिं कर्णं प्राप्तवत्सु गतेषु, अस्य चोलनृपतेर्मानसान्मनसो 'चितं तु चेतो हृदयं स्वान्तं हृन्मानसं मन' इत्यमरः । मानससरसो वा राजहंसवनितेव मरालीव तावकी त्वदीया स्तुतिः स्तव 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । न निःसरति न पृथग्भवति । तन्मनस्येव निश्चला तिष्ठत इति भावः । घनगर्जितं श्रुत्वा यथा मराली मानससरोवरादन्यत्र न गच्छति तत्रैव तिष्ठति च तथैव बहूनां राज्ञामपि पुरुषार्थकथां श्रुत्वा तव स्तुतिश्चोलदेशाधिपतेर्मनसो न पृथग्भ- वतीत्यर्थः । अत्रोपमाऽलङ्कारः । भाषा मेघ की गरज के समान अन्य राजाओं के भी पुरुषार्थ के महत्त्व को सुन कर चोलदेश के राजा वीरराजेन्द्र के मन से तुम्हारी स्तुति मानस सरोवर से राजहंसी के समान नहीं हटती है । अर्थात् जैसे मेघ के शब्द सुनकर राजहंसी मानस सरोवर में ही रहती है और वहां से अन्यत्र नहीं हटती वैसे ही अन्य राजाओं के पौरुष के महत्त्व को सुनने पर भी तुम्हारी स्तुति उस चोल राजा के मन से नहीं हटती किन्तु उसके मन में विद्यमान है । कन्यकां कुलविभूषणां गुणैरद्भुतैस्त्रिभुवनातिशायिनीम् । त्वत्करप्रणयिनीं विधाय सः प्राप्तुमिच्छति समस्तवन्द्यताम् ॥४६॥ अन्वयः सः कुलविभूषणम् अद्भुतैः गुणैः त्रिभुवनातिशायिनीं कन्यकां त्वत्कर- प्रणयिनीं विधाय समस्तवन्द्यतां प्राप्तुम् इच्छति । व्याख्या स वीरराजेन्द्रनामकश्चोलदेशराजः कुलस्य वंशस्य भूषणमलङ्कारभूतामद्भु- तैराश्चर्यकरैर्गुणैः शीललज्जादिभिस्त्रयाणां भुवनानां समाहारस्त्रिभुवनं तमतिशेते लङ्घयतीति त्रिभुवनातिशायिनी तां त्रिभुवनातिशायिनीं लोकत्रयेष्वनुपमां कन्यकां स्वात्मजां तव करस्य हस्तस्य प्रणयिनीं सङ्गिनीं तां विधाय कृत्वा स्वां विवाह्येत्यर्थः । समस्तैस्सकलैर्लोकैर्वन्द्यतां नमस्यतां प्राप्तुं लब्धुमिच्छत्य- भिलषतीति ।

( २१३ ) भाषा यह वीरराजेन्द्र नामक चोल देश का राजा कुल की अलङ्कार स्व शील लज्जा आदि अद्भुत गुणों से तीनों लोकों में अनुपम, अपनी क तुमसे पाणिग्रहण अर्थात् विवाह कर सब लोगों में वदनीय होना चहता तेन तस्य वचनेन चारुणा प्राप १कुन्तलपतिः प्रसन्नताम् । तीव्ररोषविषवेगशान्तये भेषजं विनय एव तादृशाम्२ ॥४ अन्वयः कुन्तलपतिः तस्य चारुणा तेन वचनेन प्रसन्नतां प्राप । तादृ तीव्ररोषविषवेगशान्तये विनयः एव भेषजम् (अस्ति) । व्याख्या कुन्तलपति कुन्तलदेशाधिपतिर्विक्रमाङ्कदेवस्तस्य द्राविडेन्द्रदूतस्य चारुणा मनोहारिणा तेन पूर्वोक्तेन वचनेन वाक्यप्रपञ्चेन प्रसन्नतां प्रसाद 'प्रसादस्तु प्रसन्नता' इत्यमर । प्रापोपजगाम । तादृशा विक्रमाङ्कदेवसदृशानां विजि- गीषूणां तीव्रस्तीक्ष्णो रोष क्रोध एव विष गरल तस्य वेगो रयस्तस्य शान्तये शमनाय विनय एव नम्रत्वमेव भेषजमौषधं 'भैषज्यौषधभेषज्यान्यगदो जायु- रित्यपि' इत्यमर । अस्ति । विजिगीषूणां वीराणां पुरतो विनयदर्शनं तेषां क्रोधनिवारणपूर्वकप्रसन्नतासम्पादनायैक एवोपाय इति भाव । रोषे विषता- दारम्याद्रूपकम् । भाषा कुन्तलदेशाधिपति विक्रमाङ्कदेव, द्रविड़देश के राजा के दूत की पूर्वोक्त मीठी बातों से प्रसन्न हो गया । ऐसे महापुरुषों के तीव्र क्रोध रूपी विष के वेग को रोकने के लिये केवल विनय ही औषध है । १ कुन्तलदेशः कृष्णातुङ्गभद्रासङ्गमात् यावदानयुद्गमस्थानपर्यन्तं प्रसूत पूर्वपश्चिमाद्रिमध्यभाक् । २ भावोऽयमत्राऽपि प्रदर्शित — उल्लङ्घनीयं रणाङ्गणेषु यस्यातिदुद्धरस्य हठात्प्रहर्त्तुः । न नम्रभावादपरो नृपाणामासीत् कृपाणप्रतिषेधमार्गः ॥ (३ सर्गे ६९ श्लोक)

( ३१४ ) कीदृशी शशिमुखी भवेदिति स्पृश्यते स्म हृदये स चिन्तया । • कामुकेषु मिषमात्रमीक्षते नित्यकुण्डलितकार्मुकः स्मरः ॥४८॥ अन्वयः सः शशिमुखी कीदृशी भवेत् इति चिन्तया हृदये स्पृश्यते स्म । नित्यकुण्डलितकार्मुकः स्मरः कामुकेषु मिषमात्रम् ईक्षते । व्याख्या स विक्रमाङ्कदेव शशिमुखी चन्द्रमुखी द्रविडदेशराजकुमारी कीदृशी किस्वरूपा भवेदिति चिन्तया विचारेण हृदये मनसि चित्तन्तु चेतो हृदय स्वान्त हृन्मानस मन' इत्यमर । स्पृश्यते स्म चिन्तितो बभूव । नित्य सदैव कुण्डलित समाकृष्ट कार्मुक धनुर्येन स सततसज्जधनु स्मर कामदेव कामुकेषु कामिषु कान्ताप्रत्यनुरागसम्भृतेष्वित्यर्थ । मिषमात्र व्याजमात्रमीक्षते पश्यति । चिन्तोत्पादनव्याजेनैव कामबाणव्यापार सफल इति भाव । अत्रार्थान्तरन्यासोऽलङ्कार । भाषा यह विक्रमाङ्कदेव, द्रविड देश के राजा की चन्द्रवदनी कन्या कैसी होगी इस विचार से चिन्तित हो उठा । कामियों के प्रति सदा धनुष सज्ज रखने वाला कामदेव, कामियों को पीडित करने में कोई बहाना ही खोजता रहता है । अब्रवीच्च मनसः प्रसन्नतां दन्तकान्तिभिरुदीरयन्निव । ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः ॥४६॥ अन्वयः ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः (सः) दन्तकान्तिभिः मनसः प्रसन्नताम् उदीरयन् इव अब्रवीत् च । व्याख्या ओष्ठयो पृष्ठं तत्र लुठितो लुलित स्मितस्येषद्धासस्याऽञ्चल प्रान्तभागो यस्य स ओष्ठपृष्ठलुठितस्मिताञ्चलो लज्जयेवदासयुक्त कुन्तलीनां कुन्तलदेश- कामिनीनां नयनानि नेत्राणि 'लोचन नयन नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमर ।

( ३१६ ) दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सजनाः । क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥५१॥ अन्वयः सज्जनाः दोषजातम् अवधीर्य मानसे गुणम् एव धारयन्ति । वारिदाः वारिधेः क्षारभावम् अपनीय सलिलम् एव गृह्णते । व्याख्या सज्जनाः सत्पुरुषा दोषाणां निन्द्यवस्तूनां जातं समूहं दोषजातं दुर्गुणकुल- मित्यर्थः । अवधीर्य परित्यज्याऽवहेलनं विधायेति भावः । मानसे हृदये 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । गुणमेव धारयन्ति समादरेण गृह्णन्ति । वारिदा मेघा वारिधेः समुद्रस्य क्षारभावं लवणत्वमपनीय दूरीकृत्य सलिलमेव शुद्धं माधुर्यव्यञ्जलमेव गृह्णते समाददति । दृष्टान्तालङ्कारः । भाषा सज्जनलोग दोषों को छोड़ कर मन में गुण को ही धारण करते हैं । मेघ, समुद्र के खारेपन को छोड़ कर विशुद्ध मधुर जल ही ग्रहण करते हैं । दिग्विजयव्यसनिना पुनः पुनस्तस्य किं प्रियमनुष्ठितं मया । रज्यते मयि दृढं तथाप्यसौ वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥ अन्वयः पुनः पुनः दिग्विजयव्यसनिना मया तस्य किं प्रियम् अनुष्ठितम् । तथापि असौ मयि दृढं रज्यते । कः उन्नतात्मनां चरितं वेत्ति । व्याख्या पुनः पुनर्भूयो भूयो दिशां जयो दिग्विजयस्तस्य व्यसनमस्याऽस्तीति दिग्विजय- व्यसनी तेन सर्वदिग्वर्त्तमाननृपमण्डलपराजयदुर्ललितचेतसा मया विक्रमाङ्कदेवेन तस्य द्राविडेन्द्रस्य किं प्रियं हितमनुष्ठितं कृतम् । तथापि मया किञ्चिदुपकारेऽ- कृतेऽप्यसौ द्राविडेन्द्रो मयि मत्सम्वन्धे दृढं रज्यते गाढं स्नेहं कुरुते । कः पुरुष उन्नत उत्कृष्ट आत्मा येषां ते तेषामुन्नतात्मनां महात्मनां चरितं माहात्म्यं वेत्ति जानाति । अत्रार्थान्तरन्यासालङ्कार.

( ३१८ ) व्याख्या अथ विक्रमाङ्कदेवोक्त्यनन्तरमपगतं दूरीभूतं साध्वसं भयं यस्य स विगत- भीस्ताधुस्सज्जनरस चोलदूतोऽमृतस्य सुधाया स्रवः प्रवाह उपमोपमानं यस्यास्तां पीयूषप्रवाहसदृशीमिन्दुकुरवच्छन्द्रकिरणवन्निर्मला विशदा तामिति पूर्वोक्तप्रकारां वाचं वाणीं दर्शयन्तं प्रकटयन्तं युर्वाणमित्यर्थः । एनं प्रसिद्धं विक्रमाङ्कं विक्रमाङ्कदेवं व्यजिज्ञपत् निवेदितवान् । भाषा विक्रमाङ्कदेव के बोलने के अनन्तर भय से रहित उस सज्जन चोलराजदूत ने अमृत के प्रवाह के ऐसी तथा चन्द्रमा के किरणों के ऐसी मीठी और निर्मल उपर्युक्त बातें बोलने वाले विक्रमाङ्कदेव से कहा । किं तवान्यदुचितं वदान्यता यत्समादिशति तत्त्वया कृतम् । प्रार्थितार्थपरिपन्थिनामगात् कश्चुलुक्यकुलपार्थिवोऽर्थिनाम् ॥५५॥ अन्वयः तव अन्यत् उचितं किम् । वदान्यता यत् समादिशति तत् त्वया कृतम् । कः चुलुक्यकुलपार्थिवः अर्थिनां प्रार्थितार्थपरिपन्थिनाम् अगात् । व्याख्या तव भवतो विक्रमाङ्कदेवस्यान्यदितरदुचितं योग्यं किम् । अर्थात् भवता सर्वमुचितमेवाऽनुष्ठितम् । वदान्यतोदारता 'स्युर्वदान्यस्थूललक्ष्यदानशौँडा बहुप्रदे' इत्यमरः । ताबकीनेति भावः । यत्समादिशति यदाज्ञापयति तत्त्वया भवता कृतं विहितम् । सर्वमेव हृदयस्य विशालत्वं भवता प्रदर्शितमिति भावः । कश्चुलुक्यकुलस्य चालुक्यवंशस्य पार्थिवो भूपोऽर्थिनां याचकानां प्रार्थितोऽभिवा- ञ्छितोऽर्थः प्रयोजन तस्य परिपन्थितां प्रतिकूलतामगात् गतवान् न कोऽपीत्यर्थः । चालुक्यकुलोत्पन्नाना राज्ञां याचकमनोरथपूरणं स्वाभाविकमिति भावः । अत्रा- र्थापत्यलङ्कारः । भाषा इससे बढ़ कर आपका और दूसरा क्या उचित कार्य हो सकता है। आपने अपने ओदार्य के अनुरूप कार्य किया। चालुक्य वंश के किस राजा ने अर्थियों की प्रार्थना का निषेध किया है अर्थात् किसी ने नहीं ।

( ३१९ ) वेत्सि मे पतिमवञ्चकं यदि स्वच्छतां स्पृशति चात्र ते मनः । तन्निवृत्य कुरु तुङ्गभद्रया मुद्रिते पदमुपान्तवर्त्मनि ॥५६॥ अन्वयः यदि मे पतिम् अवञ्चकं वेत्सि, अत्र ते मनः च स्वच्छतां स्पृशति तत् निवृत्य तुङ्गभद्रया मुद्रिते उपान्तवर्त्मनि पदं कुरु । व्याख्या (हे राजन् ! ) यदि त्वं मे मम पतिं स्वामिनं द्राविड़ेश्वरमवञ्चकं निष्क- पटहृदयं स्वच्छान्तःकरणमित्यर्थः वेत्सि जानासि । अत्राऽस्मिन्विषये ते तव मनश्च चेतश्च स्वच्छतां नैर्मल्यं स्पृशत्यालिङ्गति तत्तर्हि निवृत्याऽस्मात्स्थानात्प- रावृत्य तुङ्गभद्रया तन्नामनद्या मुद्रिते चिन्हित उपान्ते वर्त्म तस्मिन् सीमान्तप्रदेशे पदं स्थितिं स्वनिवासमित्यर्थः । कुरु विधेहि । भाषा यदि आप मेरे स्वामी द्राविड़ेश्वर को निष्कपट समझते हैं और इस सम्बन्ध में आप का मन यदि सन्देह रहित हैं तो आप यहाँ से लौट कर तुङ्गभद्रा नदी से चिन्हित सीमान्तप्रदेश में अपना डेरा डालिये । कैश्चिदेव सततप्रयाणकैस्तत्र शुद्धहृदयः करिष्यति । स त्वया परिचयं प्रतापिना पर्वणीन्दुरिव तिग्मरश्मिना ॥५७॥ अन्वयः तत्र शुद्धहृदयः सः कैश्चित् एव सततप्रयाणकैः प्रतापिना त्वया पर्वणि इन्दुः तिग्मरश्मिना इव परिचयं करिष्यति । व्याख्या तत्र तुङ्गभद्रासीमान्तप्रदेशे शुद्धं निष्कपटं हृदयं मनो यस्य स निर्मलमानसः स द्राविड़ेश्वरः कैश्चिदेव कियद्भिरेव सततं निरन्तरं प्रयाणकानि गमनानि प्रस्थानानि या तैः प्रतापिना प्रभावशालिना त्वया भवता सह पर्वण्यमावा- स्यामिन्दुश्चन्द्रस्तिग्मरश्मिना सूर्येणेव परिचयं सम्मेलनं करिष्यति विधास्यति । अत्रोपमालङ्कारः ।

( ३२० ) भाषा तुङ्गभद्रा के सीमान्त प्रदेश में निष्कपट हृदय वाले मेरे स्वामी द्राविड़ेश्वर, प्रतापी आप से, अमावस्या को, चन्द्रमा के तेजस्वी सूर्य से मिलने के समान, रास्ते में लगातार कुछ ही डेरे डालते हुए, आ मिलेंगे। गाहतेऽत्र धृतकार्मुके त्वयि प्रीतिदानमपि भीतिदानताम् । तेन तस्य महती विलक्षता यत्र वेत्सि गुणपक्षपातिताम् ॥५८॥ अन्वयः अत्र धृतकार्मुके त्वयि प्रीतिदानम् अपि भीतिदानतां गाहते तेन यत्र गुणपक्षपातितां वेत्सि तस्य महती विलक्षता। व्याख्या अत्राऽस्मिन् चोलराजप्रधाननगर्यां धृतं गृहीतं कार्मुकं धनुर्येन स तस्मिन् सज्जधनुषि त्वयि विक्रमाङ्कदेवे प्रीत्या प्रेम्णा दानं कन्यायाः प्रदानमपि भीत्या भयेन दानं तस्य भावस्तां भीतिदानतां भयजन्यदानत्वं गाहते प्राप्नोति । सज्जधनुषाय तुभ्यं यत्प्रीतिपूर्वकमपि दास्यते तद्भयेन दत्तमिति सर्वेषां ज्ञानं भवेदिति भावः । तेन कारणेन यत्र यस्य द्राविडराज्यस्य विषये गुणेषु तदीयेषु गुणेषु सौजन्यादिषु यस्ते पक्षपातस्समादरस्तस्य भावो गुणपक्षपातितां तां वेत्सि जानासि धारयसीत्यर्थ । तस्य द्राविडाधिपस्य महती विपुला विलक्षता सलज्जत्वम् । अथवा तं प्रति सर्वेषां विस्मयान्वितत्वं यदेवं शौर्ययुक्तोऽपि भयात् कन्या ददातीति। 'विलक्षो विस्मयान्विते' इत्यमर । स्वद्रूपत्रासेन कन्या प्रदत्तेति तस्य महदपयशस्तेन यस्य कृते तव गुणपक्षपातित्वं वर्तते स लज्जास्पदं मा भूपादिति हेतोः सीमान्तप्रान्त एव तव दर्शनं वरमिति भावः । भाषा उस द्राविड़ राजा के राज्य की प्रधान नगरी में धनुष लेकर (अपनी सेना के साथ) आये हुए तुमको जो प्रेम पूर्वक भी दिया जाएगा वह लोगों की दृष्टि में भय से दिया गया समझा जाएगा। इस कारण से जिसके गुणों के प्रति आप का समादर है उस चोलदेश के राजा को लज्जित होना पड़ेगा । या सब लोग उसके सम्बन्ध में आश्चर्य करने लगेंगे कि इतना पराक्रमी और शौर्ययुक्त होने पर भी उसने भय से अपनी लड़की कैसे दे दी।

( ३२१ ) नाद्य यावदवलोकिता जनैः क्वापि तस्य वचसामसत्यता । मादृशां शुभविपर्ययाद्यदि व्यक्तिमेष्यति भवादृशेषु सा ॥५६॥ अन्वयः अद्य यावत् जनैः तस्य वचसाम् असत्यता क्व अपि न अवलोकिता । यदि मादृशां शुभविपर्ययात् सा भवादृशेषु व्यक्तिम् एष्यति । व्याख्या अद्य यावदाधुनिककालपर्यन्तं जनैर्लोकैस्तस्य वचसां वाणीनामसत्यता मिथ्यात्वं क्वाऽपि कस्मिन्नपि विषये नाऽवलोकिता न दृष्टा नानुभूतेत्यर्थः । यदि परं मादृशां मत्सदृशानां शुभस्य पुण्यस्य विपर्ययो वैपरीत्यं तस्मात्पापात् दुर्भाग्याद्वा साऽसत्यता भवादृशेषु त्वादृशेषु महानुभावेषु व्यक्तिं प्रकाशमेष्यति प्राप्स्यति । अयमस्माकं दौर्भाग्यस्यैव प्रभावः स्याद्यदि तस्य वचसामसत्यता भवत्सु प्रकटीभ- वेदिति भावः । भाषा आज तक लोगों को किसी भी विषय में द्राविड़ेश्वर की वाणी की असत्यता का अनुभव नहीं हुआ है । यदि आपके अनुभव में ऐसी बात आवे तो वह मेरे ऐसों के पाप से या दुर्भाग्य से ही हो सकता है । एवमादिभिरनेन बोधितः कौविदेन वचनैः पुनः पुनः । ज्ञातचोलहृदयः स्वयं च स प्राङ्निवेदितमगान्नदीतटम् ॥६०॥ अन्वयः कोविदेन अनेन एवम् आदिभिः वचनैः पुनः पुनः बोधितः स्वयं च ज्ञातचोलहृदयः सः प्राक् निवेदितं नदीतटम् अगात् । व्याख्या कौविदेन पण्डितेन लोकिव्यवहाराभिज्ञेनेत्यर्थः । अनेन दूतेनैवमादिभि- रेतादृशैर्वचनैः पुनः पुनौ भूयो भूयो बोधितो विज्ञापितः स्वयञ्च गुप्तचरादि- भिर्ज्ञातं परीक्षितं चोलस्य चोलदेशाधिपस्य हृदयं येन स विज्ञातचोलराज- हार्दिग्भावः स विक्रमाङ्कदेवः प्राक् पूर्वं निवेदितं सूचितं नदीतटं तुङ्गभद्रानदी- तीरमपाऽजगाम । २१

( ३२२ ) भाषा इस चतुर व लौकिकव्यवहार में कुशल दूत द्वारा ऐसी ऐसी बातो से बार बार समझाया हुआ और स्वयं भी अपने गुप्तचरों से चोल राजा के हार्दिक भाव को जान लेने वाला, विक्रमाङ्कदेव, पूर्व सूचित तुङ्गभद्रानदी के तट पर गया। चोलभूमिपतिरप्यनन्तरं निर्जगाम नगरात्कृतोत्सवः । पुष्पसायकपताकया तया कन्यया सह सहासवक्त्रया ॥६१॥ अन्वयः अनन्तरं कृतोत्सवः चोलभूमिपतिः अपि सहासवक्त्रया पुष्पसायक- पताकया तया कन्यया सह नगरात् निर्जगाम । व्याख्या अनन्तर विक्रमाङ्कदेवस्य तुङ्गभद्रानदीतटप्राप्त्यनन्तर कृतो विहित उत्सवो महो 'मह उद्धव उत्सव' इत्यमरः । येन स विहितमहश्छोलस्य चोलदेशस्य भूमिपति पृथ्वीपतिश्चोलेश्वरोऽपि हासेन सहितं सहासं वक्त्रमाननं यस्यास्सा तया प्रफुल्लाननया पुष्पाण्येव सायका बाणा यस्य स पुष्पसायक कामस्तस्य पताका वैजयन्ती 'पताका वैजयन्ती स्यात्केतन ध्वजमहित्रियाम्' इत्यमरः । कामोद्बोधकत्वात्तत्स्वरूपा तया मन्मथध्वजरूपया तया प्रसिद्धया कन्यया स्वसुतया सह नगराद्विजनराजधान्या निर्जगाम बहिर्निर्गतवान् । भाषा विक्रमाङ्कदेव के तुङ्गभद्रा नदी के तट पर पहुँचने पर चोलदेश का राजा भी मङ्गलोत्सव मनाकर, प्रसन्न वदन और कामदेव की ध्वजा के समान अपने स्वरूप से कामोद्दीपन करने वाली अपनी कन्या के साथ अपनी राजधानी से बाहर निकल पडा । सन्धिबन्धमवलोक्य निश्चलं तस्य कुन्तलनरेन्द्रसूनुना । शान्तसाध्यसमहारुजः प्रजाः स्वेषु धामसु बबन्धुरादरम् ॥६२॥ अन्वयः प्रजाः तस्य कुन्तलेन्द्रसूनुना निश्चलं सन्धिबन्धम् अवलोक्य शान्त- साध्यसमहारुजः (सत्यः) स्वेषु धामसु आदरं बबन्धुः ।

( ३२३ ) व्याख्या प्रजा जनास्तस्य द्राविड़ेश्वरस्य कुन्तलेन्द्रस्य कुन्तलराजस्याऽऽहवमल्लदेवस्ये सूनुः पुत्रो विक्रमाङ्कदेवस्तेन सह निश्चलं दृढं सख्यैः स्नेहस्य बन्धं बन्धनं सन्धिवन्धं प्रेमबन्धनमवलोक्य ज्ञात्वा शान्तं समाप्तं साध्वसं भयमेव महादृक् महापीड़ा यासा ता दूरीकृतमहाव्यथा रत्यः रमेयु निजेषु धामसु गृहेष्वादरं प्रेम प्रबन्धुर्वभूः । अयं विक्रमाङ्कदेवः स्नेहराभ्यागतेन न तु दिग्विजयपर्यमत्राऽऽगत इति विनिश्चित्य त्यक्तचिन्ता जना आक्रमणकालिकगृहत्यागादिकं सम्प्रत्यनावश्य- कमिति सुखेन स्वगृहेषु निवासं चक्रुरिति भावः । भाषा प्रजागण अपने राजा द्रविड़ेश्वर का कुन्तलराज आहवमल्लदेव के पुत्र विक्रमाङ्कदेव से दृढ़ प्रेम सम्बन्ध जानकर भय रूपी महाव्यथा से शान्त होकर, अपने अपने घरों में सुख से रहने लगे । अर्थात् आक्रमण काल में जो अपना घर छोड़ सुरक्षित स्थान में रहने जाना पड़ता था उसकी आवश्यकता न समझ वे सुख से अपने अपने घर में ही रहे । दिग्गजश्रवणभङ्कारिभिर्दुन्दुभिध्वनिभिरस्य भैरवैः । अभ्रमभ्रमुभुजङ्गडिण्डिम-ध्वाननिर्भरमिव व्यराजत ॥६३॥ अन्वयः अस्य दिग्गजश्रवणभङ्कारिभिः भैरवैः दुन्दुभिध्वनिभिः अभ्रम् अभ्रमुभुजङ्गडिण्डिमध्वाननिर्भरम् इव व्यराजत । व्याख्या अस्य चोलदेशाधिपस्य दिशां ककुभां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । गजा हस्तिनो दिग्गजास्तेषां श्रवणानि कर्णान्तेषां भङ्गो बधिरीकरणं तत्कुर्वन्तीति तैर्दिङ्नागकर्णबधिरोकरणसम्पादकैर्भीरवैर्भयान- केंदुंदुभीनां भेरीणां 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । ध्वानमस्यनास्तैर्भेरी- स्वनैरभ्रं नभोऽभ्रमुंरैरावतकान्ता हस्तिनी 'ऐरावतोऽभ्रमातङ्गैरवणाऽभ्रमुवल्लभाः' इत्यमरः । तस्या भुजङ्ग पतिरैरावतस्तस्य डिण्डिमो वाद्यविशेषः डिण्डम- सदृशो ध्वनिवां 'वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः' इत्यमरः । तस्य ध्वाननेन

( ३२४ ) कठोरशब्देन निर्भरमिव व्याप्तमिव व्यराजताऽजायत । दुन्दुभिध्वनिधैरावत- डिण्डिमध्वनित्वस्योत्प्रेक्षणादुत्प्रेक्षालङ्कारः । भाषा दिग्गजों के कानों को बहिरा कर देने वाले इस चोल राजा की तुरहियों के भयंकर शब्दों से मानो ऐरावत के नगाड़े की ध्वनि से या नगाड़े के समान शब्द से आकाश गूंज उठा हो, ऐसा प्रतीत होने लगा । सर्वतः श्रवणभैरवस्फुरद्—दुन्दुभिप्रतिरवापदेशतः । सस्वनं द्विरदवृन्दघट्टनादस्फुटन्निव दिगन्तभित्तयः ॥६४॥ अन्वयः सर्वतः श्रवणभैरवस्फुरद्दुन्दुभिप्रतिरवापदेशतः द्विरदवृन्दघट्टनात् दिगन्तभित्तयः सस्वनम् अस्फुटन् इव । व्याख्या सर्वत सकलेषु प्रदेशेषु श्रवणेभ्य कर्णेभ्यो भैरवा भयानका ये स्फुरन्त प्रकटीभवन्तो दुन्दुभीना भेरीणा प्रतिरवा प्रतिध्वनयस्तेषामपदेशतो व्याजाद् द्विरदाना गजाना वृन्द्वानि समूहास्तेषा घट्टनात्सपर्पणाच्च दिशामन्ता दिगन्तास्तेषा दिगन्तप्रदेशाना भित्तय कुड्यानि 'भित्ति' स्त्री कुड्यम्' इत्यमर । सस्वन सशब्दमस्फुटन्निवाऽपतन्निव विदारिता इव जाता इति भाव । अत्रोत्प्रेक्षालङ्कार । भाषा चारो ओर जोर २ से बजने वाली भेरियो के वर्णकटु प्रतिध्वनियो के भिय से और हाथियों के समूहों के परस्पर धक्कों से मानो दिगन्तप्रदेशों की दीवारें शब्द करती हुई फट रही थी । कर्णतालपवनोर्मिशीतलैः सिञ्चति स्म करशीकराम्बुभिः । दिग्गजानिव भयेन मूर्च्छितांस्तस्य वारणपरम्परा पुरः ॥६५॥ अन्वयः तस्य वारणपरम्परा कर्णतालपवनोर्मिशीतलैः करशीकराम्बुभिः पुरः भयेन मूर्च्छितान् दिग्गजान् सिञ्चति स्म इव ।