विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ४०३ ) भाषा बडे बडे योद्धाओं के अस्थिपञ्जरो को धारण करने वाला, (गोद में) रास ही में हाथियों के समूह की भयङ्कर हड्डियों के ढेर को रखने वाला, यमराज के खाने से बचे हुए मांस वाला और हजारों शृगालियों के उपभोग के योग्य, एक बहुत बडा युद्ध हुआ । किमपरमुपरि प्रतापभाजां विहितपदः स बभञ्ज राजयुग्मम् । द्रविडपतिरगात्क्वचित्पलाय्य न्यविशत बन्धनधाम्नि सोमदेवः ॥६०॥ अन्वयः किम् अपरम् । प्रतापभाजाम् उपरि विहितपदः सः राजयुग्मं बभञ्ज । द्रविडपतिः पलाय्य क्वचित् गतः । सोमदेवः बन्धनधाम्नि न्यविशत । व्याख्या किमपरमन्यात्किं वक्तव्यम् । प्रतापं प्रभावं भजन्ति सेवन्ते ते प्रतापभाज- स्तेषां प्रभावशालिनामुपरि मस्तके विहितं स्थापितं पदं चरणं येन सः स्थापित चरणः स विक्रमाङ्कदेवो राज्ञोर्द्रविडपतिराजिगसोमदेवयोर्युग्मं युगलं बभञ्ज सम्मर्दितवान् । द्रविडपती राजिगः पलाय्य द्रुतगत्या क्वचिदज्ञातास्थाने गतो जगाम । सोमदेवो बन्धनस्य धाम स्थानं तस्मिन् कारागारे न्यविशत निविष्टवान् । भाषा अब और दूसरा क्या कहना है ? प्रताषियों के मस्तक पर चरण रखने वाले विक्रमाङ्कदेव न राजिग और सोमदेव, इन दोनों राजाओं को कुचल डाला । द्रविड देश का राजा राजिग भागकर कहीं अज्ञात स्थान में चला गया । सोमदेव कैद खाने में बन्द हो गया । उभयनरपतिप्रतापलक्ष्म्यौ निलुलुठतुश्चरणद्वये तदीये । त्रिभुवनमहनीयबाहुवीर्यद्रविणविभूतिमसां किमस्त्यसाध्यम् ॥६१॥ अन्वयः उभयनरपतिप्रतापलक्ष्म्यौ तदीये चरणद्वये विलुलुठतुः । त्रिभुवन- महनीयबाहुवीर्यद्रविणविभूतिमसां किम् असाध्यम् (अस्ति) ।
( ४०२ ) अन्वयः अमुष्य शत्रुसेनाभटमुखपद्मविमर्दकेलिकालः द्विरदपतिः रणसरः झटिति लक्ष्मीकरधृतविभ्रमपुण्डरीकशेषं चकार । व्याख्या अमुष्याऽस्य विक्रमाङ्कदेवस्य शत्रूणामरीणा सेना चमूस्तस्या ये भटा योधा- स्तेषां मुखान्याननान्येव पद्मानि कमलानि तेषा विमर्दश्चूर्णनमेव केलि क्रीडा तदयं कालो यमो विनाशकारित्वात् । 'कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमर । द्विरदपतिर्गजनाथो रण एव संग्राम एव सरस्तडागस्तत् रणसरो युद्धतडागो झटिति शीघ्र लक्ष्म्या श्रिय करेण हस्तेन धृत धारित विभ्रमपुण्डरीक विलाससिताम्भोज 'पुण्डरीक सिताम्भोजम्' इत्यमर । एव शेषोऽवशिष्टांशो यस्य तच्चकार निष्पादितवान् । रूपकालङ्कार । भाषा शत्रु सेना के योद्धाओ के मुख कमलो को चूर २ कर देने की क्रीडा में यमस्वरूप, विक्रमाङ्कदेव के श्रेष्ठ हाथी ने रणरूपी तालाव को जल्दी से महालक्ष्मी के हाथ में विद्यमान विलास का श्वेतकमल मात्र ही शेष रह गया हो, ऐसा कर दिया । अर्थात् लक्ष्मी के हाथ के कमल को छोड़ कर शत्रु के मुख रूपी सब कमलो को रणरूपी सरोवर में नष्ट कर दिया । धृतसुभटकरङ्कमङ्कवर्त्ति-द्विरदघटाविकटास्थिचक्रवालम् । रणमनणु कृतान्तभुक्तशेष-प्रणयि बभूव शिवासहस्रभोग्यम् ॥८६॥ अन्वयः धृतसुभटकरङ्कम् अङ्कवर्तिद्विरदघटाविकटास्थिचक्रवालं कृतान्तभुक्त- शेषप्रणयि शिवासहस्रभोग्यम् अनणु रण बभूव । व्याख्या धृता गृहीता सुभटाना सुयोधाना करङ्गा अस्थिपञ्जरा येन तत् । अङ्के क्रोडे बर्त्तीनि गतानि द्विरदाना गजाना विकटानि भयङ्कराण्यस्थिचक्रवाला- न्यस्थिसमूहा यस्य तत्, कृतान्तस्य यमस्य भुक्त भोजन तस्य शेषस्तस्य प्रणयि स्थानं शेषयुक्तमित्यर्थ । तद्यमराजभक्षितमावशिष्टयुक्तमिति भाव । शिवानां शृगालीनां सहस्र तेन भोग्य भोगयोग्य रणं युद्धमनणु बहुत्वं बभूव जातम् ।
( ४०७ ) पर, और आकाश के वायुओ द्वारा लाए हुए जल कणो के मिप से मानो आकाशगङ्गा के जल को छिड़कते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ ।) अतिविशदतया दिशां मुखेषु स्मितमिव केतकमित्रमुद्वहत्सु । निखिलभुवनमानसेषु हर्ष-प्रसरवशेन नितान्तमुत्सुकेषु ॥६६॥ अन्वयः दिशां मुखेषु अतिविशदतया केतकमित्रं स्मितम् उद्वहत्सु (सत्सु) इव निखिलभुवनमानसेषु हर्षप्रसरवशेन नितान्तम् उत्सुकेषु (सत्सु) (विक्र- मादित्यदेवोऽभिषेकमलभतेत्यन्वयः ।) व्याख्या दिशां ककुभां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । मुखेष्वाननेष्वग्रभागेषु वाऽतिविशदतयाऽतिनैर्मल्येन केतक्यः पुष्पं केतकं तस्य मित्रं शुक्लत्वात्केतकीपुष्पसदृश स्मितमीषद्धास्यमुद्वहत्सु धारयत्सु सत्स्विव, दिक्षु नैर्मल्य प्राप्तास्वित्यर्थः । निखिलभुवनानां सकललोकस्थितजनानां मान- सानि मनांसि तेषु सकललोकगतजनमनःसु हर्षस्यानन्दस्य प्रसरो विस्तारस्तस्य वशेन कारणेन नितान्तमत्यन्तमुत्सुकेषु समुत्कण्ठितेषु सत्सु (विक्रमादित्य- देवोऽभिषेकमलभतेति । ) भाषा दिशाओं के अत्यन्त निर्मल होने से मानो श्वेत केवड़े के फूलों के समान उनके मुस्कराते रहने पर और समस्त लोकों के मनुष्यों के मनों में आनन्द का सञ्चार होने के कारण उनके उत्कण्ठित हो उठने पर (विक्रमाङ्कदेव का राज्या- भिषेक हुआ । ) ऽ वरकरिषु गभीरदुन्दुभीनां ध्वनिमिव संजनयत्सु गर्जितेन । दिशि दिशि तुरगेषु सान्द्रशङ्ख-स्वनकमनीयसहर्षह्रेषितेषु ॥६७॥ अन्वयः वरकरिषु गर्जितेन गभीरदुन्दुभीनां ध्वनिं संजनयत्सु (सत्सु) इव,
( ४०८ ) दिशि दिशि तुरगेषु सान्द्रशङ्खस्वनकमनीयसहर्षहेषितेषु (सत्सु) (विक्र- मादित्यदेवोऽभिषेकमलभतेत्यन्वयः । ) व्याख्या वरकरिषु श्रेष्ठगजेशु गर्जितेन बृंहितेन गभीरदुन्दुभीनां गम्भीरभेरीणां 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । ध्वनिं शब्दं संजनयत्सु सत्स्वथ, दिशि दिशि प्रतिदिशं तुरगेषु घोटकेषु सान्द्रा घना गम्भीरा वा शङ्खानां कम्बनां स्वनाः शब्दा इव कमनीयानि मनोज्ञानि सहर्षाणि प्रमोदसहितानार्नि हेषितानि तुरग- रवाः येषां ते तेषु गम्भीरकम्बुशब्दमनोज्ञसप्रमोदहेषितेषु सत्सु (विक्रमादित्य- देवोऽभिषेकमलभतेति । भाषा श्रेष्ठ हाथियों की गर्जना से मानो उनके भेरीनाद करते रहने पर और चारों ओर घोड़ों के, गम्भीर शङ्खों की ध्वनि के समान कर्णप्रिय सहर्ष हिन- हिनाते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ।) अथ सुरपथवल्गद्दिव्यभेरीनिनादं प्रशमितपरितापं भर्तृलाभात्पृथिव्याः । अलभत चिरचिन्ताचान्तचालुक्यलक्ष्मी- क्लममुपमभिषेकं विक्रमादित्यदेवः ॥६८॥ अन्वयः अथ विक्रमादित्यदेवः पृथिव्याः भर्तृलाभात् प्रशमितपरितापं सुरपथ- वल्गद्दिव्यभेरीनिनादं चिरचिन्ताचान्तचालुक्यलक्ष्मीक्लममुपम् अभिषेकम् अलभत । व्याख्या अथ समरविजयानन्तरं विक्रमादित्यदेवो विक्रमाङ्कदेवो राजकुमारः पृथिव्याः क्ष्माया भर्तृलाभात् स्वस्वामिप्राप्त्या प्रशमितः शान्तिं प्रापितः परितापस्तन्तापो दुःखं वा येन स तं दूरीकृतदुःखं, सुरपथे गगने वल्गन् समुत्कर्षं प्राप्नुवन्दिव्यायाः स्वर्गीयाया भेर्या निनादः शब्दो यस्मिन् स तं गगनप्रसरतस्वर्गीयभेरीनिस्वनं, चिराच्चिरकालादारभ्य चिराय वा व्याप्ता चिन्ता स्वस्वामिपराजयजन्यशोको-
( ४०९ ) ऽभवत् सुस्वामिप्राप्त्यर्थचिन्ता तयाऽऽक्रान्ता परिपूर्णा चालुक्यलक्ष्मीश्चालुक्य- राजन्यंशश्रीस्तस्या क्लमं ग्लानिं मृष्णातीति विरचिन्ताशान्तचालुक्यलक्ष्मीमलनमुद् तमभिषेकं राज्याभिषेकमलभत प्राप्तवान् । भाषा युद्ध में विजय प्राप्त होने के अनन्तर राजकुमार विक्रमाङ्कदेव ने, पृथिवी को अच्छा स्वामी मिल जाने से, अपने स्वामियों के पराजय के सम्पूर्ण दुःखों को दूर कर देने वाले, आकाश में गूँजने वाले स्वर्गीय भेरी की ध्वनि से ,युक्त, और चिरकाल तक अच्छे स्वामी (राजा) को प्राप्त करने की चिन्ता में डूबी हुई चालुक्य वंशीय राजाओं की राज्यलक्ष्मी के मनोमालिन्य को दूर कर देनेवाले, राज्याभिषेक को प्राप्त किया । इति पञ्चभिः श्लोकैः कुलकम् । श्रीचालुक्यनरेन्द्रसूनुरनुजं तत्रैव पुण्ये दिने कारुण्यातिशयादसूत्रयदसौ पात्रं महत्याः श्रियः । दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियं तेषामाश्रितपोषशाय गहनं किं नाम पृथ्वीभुजाम् ॥६६॥ अन्वयः असौ श्रीचालुक्यनरेन्द्रसूनुः तत्र पुण्ये दिने एव कारुण्यातिशयात् अनुजं महत्याः श्रियः पात्रम् असूत्रयत् । यद्भवनेषु विक्रमधनक्रीता इयं श्रीः दासी ननु, तेषां पृथ्वीभुजाम् चाश्रितपोषणाय किं नाम गहनम् (अस्ति) । व्याख्या असौ श्रिया विराजितस्य चालुक्यनरेन्द्रस्याऽहवमल्लदेवस्य सूनुः पुत्रो विक्रमाङ्कदेवस्तत्र तस्मिन् पुण्ये पावने गुरुवरे वा 'पुण्यं तु पावने' इत्यमरः । दिने राज्याभिषेकदिवस एव कारुण्यस्य दयाया अतिशय आधिक्यं तस्माद्दयापर- वशात्स्वानुजं स्वकनिष्ठभ्रातरं सिहदेवं महत्या विशालायाः श्रियो लक्ष्म्याः पात्रं भाजनमसूत्रयत् कृतवान् । तस्मै वनवासिमण्डलाधीश्वरं चकारेति भावः । येषां राज्ञां भवनेषु सदनेषु विक्रमधनेन पराक्रमरूपद्रव्येण क्रीता, भूत्येव ध्यायती-
कृतेय श्री राज्यलक्ष्मीर्दासी सेयिका ननु निश्चयेन, सेषा पृथ्वीभुजां भूभुजामा- श्रितानामवलम्बितानामाधय विधाय वसता सिंहदेव-महाकविप्रभृतीना पोषणाय भरणाय किं नाम गहन कठिनम्। तेषा भरणपोषगेष्वेतादृशाना महाप्रतापिना राज्ञा किमपि काठिन्य नास्तीति भाव ।
भाषा इस श्रीमान् आहवमल्लदेव के पुत्र विक्रमाङ्कदेव ने उसी शोभन दिन ही अत्यन्त दयालुता के कारण अपने छोटे भाई सिंहदेव को विशाल सम्पत्ति का भाजन बनाया । अर्थात उसे वनवासिमण्डल का राजा बना दिया। जिन राजाओ के घरो में पराक्रम रूप धन से खरीदी हुई यह लक्ष्मी निश्चय पूर्वक दासी बन कर रहती है उन राजाओ को अपने आश्रितो का (सामदेव तथा अन्य महाकवि गुणी आदि का) पालन पोषण करना क्या कठिन है।
इति श्री त्रिभुवनमल्लदेव विद्यापति-काश्मीरकभट्ट महाकवि बिल्हणविरचिते विक्रमाङ्कदेवचरिते महाकाव्ये षष्ठ सर्ग ।
नेत्रान्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात् भारद्वाजवुधोत्तमात्समुदितः श्रीविश्वनाथः सुधीः । चक्रे रामकुबेर-पण्डितवरात्सम्प्राप्तसाहाय्यक- ष्टीकायुग्ममिदं रमाकुरुषया सर्गेऽत्र षष्ठे नवम् ॥
ॐ शान्ति शान्ति शान्ति ।
॥ श्री ॥ महाकवि श्री विल्हण-विरचितं विक्रमाङ्कदेवचरितम् सप्तमः सर्गः । स सर्वमावर्ज्य रिपुप्रमाथी मनोरथानामथ पूरणेन । परिभ्रमन्युद्धकुतूहलेन दिग्दन्तिशेषाः ककुभश्चकार ॥१॥ अन्वयः अथ रिपुप्रमाथी सः मनोरथाना पूरणेन सर्वम् आवर्ज्य युद्धकुतूहलेन परिभ्रमन् (सन्) ककुभः दिग्दन्तिशेषाः चकार । व्याख्या अथ विक्रमाङ्कदेवस्य राज्याभिषेकानन्तर रिपूणां शत्रूणा प्रमाथी मर्दक स विक्रमाङ्कदेवो मनोरथानामभिलाषाणां पूरणेन सफलीकरणेन सर्व जनसमूहमावर्ज्य वशीकृत्य युद्धस्य समरस्य कुतूहलमुत्कण्ठा तेन परिभ्रमन् परितो विचरन् ककुभो दिश 'दिशस्तु ककुभ काष्ठा आशाश्च हरितश्च ता'। दिशा वत्तिनो दिग्द- न्तिनो दिग्गजा एव शेषा अवशिष्टा यासु ताश्चकार सम्पादितवान् । सकल- गजाहरणाद्दिग्गजा एवाऽवशिष्टा आसन्निति भावः । सर्गेऽस्मिन्निन्द्रवज्राच्छन्द 'स्यादिन्द्रवज्रा यदि तौ जगौग' इति लक्षणात् ।
( ४१२ ) गते समाप्तिं नरनाथचक्रे निचोलकारासितचापद्ण्डः । निर्वाप्य चोलस्य पुनः प्रतापं क्रमेण कल्याणमसौ विवेश ॥२॥ अन्वयः असौ चोलस्य प्रतापं निर्वाप्य नरनाथचक्रे क्रमेण समाप्तिं गते (सति) निचोलकारासितचापद्ण्डः (सन्) पुनः कल्याणं विवेश । व्याख्या असौ विक्रमाङ्कदेवो चोलस्य चोलदेशाधिपस्य प्रतापं प्रभावं निर्वाप्य शान्तिं नीत्वा नराणां मनुष्याणां नाथाः स्वामिनस्तेषां चक्रं समूहस्तस्मिन् राजसमूहे क्रमेण शनैः समाप्तिं गते पराजयं प्राप्ते सति निचोल आवरकम् ("खोल" इति भाषार्या प्रसिद्धः ।) एव कारा गूढितगृहं 'कारास्याद्बन्धनलये' इत्यमरः । तस्या- मासितो निवेशितश्चापदण्डो धनुर्दण्डो येन सः । एवम्भूतस्सन् पुनर्मुहुः कल्याणं कल्याणकटकपुर विवेश प्रविष्टवान् समाजगामेत्यर्थः । अत्र रूपकालङ्कारः । भाषा विक्रमाङ्कदेव ने, चोल देश के राजा के प्रताप को रुद्ध कर अर्थात् उसे हराकर, सम्पूर्ण राजाओ को क्रम से पराजित कर देने पर, अपने धनुष्य को खोल में रखकर फिर से कल्याण कटक पुर में प्रवेश किया । अत्रान्तरे मन्मथबालमित्रं लतावधूविभ्रमसूत्रकारः । स्थानोपदेशी पिकपञ्चमस्य शृङ्गारबन्धुर्मधुराविरासीत् ॥३॥ अन्वयः अत्रान्तरे मन्मथबालमित्रं लतावधूविभ्रमसूत्रधारः पिकपञ्चमस्य स्थानोपदेशी शृङ्गारबन्धुः मधुः आविरासीत् । व्याख्या अत्रान्तरेऽस्मिन्नवकाशे मन्मथस्य कामदेवस्य 'मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः' इत्यमरः । बालमित्रं बालसखा, लता एव वध्वः कान्तास्तासां विभ्रमस्य विलासोपदेशस्य सूत्रधारो नाट्याचार्यः, पिकानां कोकिलानां 'वनप्रियः परभृतः कोकिलः पिक इत्यपि' इत्यमरः । पञ्चमः पञ्चमस्वरस्तस्य 'पिकाः
( ४१३ ) गायन्तिपञ्चमम्' इति। स्थानस्य शुद्धोच्चारणोपयुक्त-मुखस्थित-कण्ठ ताल्याद्य- भिघातस्थानस्योपदेशमुपदेशकः सङ्गीताचार्यः, शृङ्गारस्य शृङ्गाररसस्य बन्धु- रुद्दीपको मधुर्वसन्त आविरासीत् समाजगाम । मालारूपकमलङ्कारः । भाषा इसी बीच में कामदेव का लगोटिया साथी, लता रूपी स्त्रियों को विभिन्न विलासों का उपदेश देने वाला, नाट्याचार्य; कोयल के पञ्चम स्वर के शुद्ध उच्चारण के लिये कण्ठ तालु आदि स्थानों की शिक्षा देने वाला सङ्गीताचार्य; शृङ्गार रस को उद्दीप्त करने वाला; वसन्त ऋतु आ गया। शीतर्तुभीत्या विविशुः समस्ताः किं कन्दरासीमनि चन्दनाद्रेः । यन्निःसरन्ति स्म हिमव्यपाये दिवा च रात्रौ च ततः समीराः ॥४॥ अन्वयः समस्ताः समीराः किं चन्दनाद्रेः कन्दरासीमनि शीतर्तुभीत्या विविशुः यत् हिमव्यपाये (ते) दिवा च रात्रौ च ततः निःसरन्ति स्म। व्याख्या समस्तास्सकलात्समीरा वायवः किं चन्दनाद्रेर्मलयपर्वतस्य कन्दरासीमनि दरीमध्ये 'दरी तु कन्दरो वाऽस्त्री' इत्यमरः । शीतर्तुभीत्या शिशिरर्तुभयेन विविशुः प्रविष्टाः । यद्यस्मात्कारणात् हिमस्य शिशिरतोर्व्यपाये समाप्तौ ते पवना दिवा दिने च रात्रौ च निशायाञ्च 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । ततश्चन्दनाद्रेर्निःसरन्ति स्म निर्गच्छन्ति स्म । कन्दरासु प्रवेशे शीतर्तुभीतेर्हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । भाषा सम्पूर्ण वायु क्या शिशिर ऋतु के (ठण्डे के) भय से मलयाचल की कन्दराओं में छिप कर बैठे थे ? क्योकि शिशिर ऋतु के (जाड़े के) बीतते ही वे वायु रात दिन मलयाचल से निकलते ही चले आ रहे थे । कृतप्रकोपाः पवनारशनानां. निवासदानादिव पन्नगानाम् । विनिर्ययुश्चन्दनशैलकुञ्जादाशामुदीचीं प्रति गन्धवाहाः ॥५॥
( ४१४ ) अन्वयः गन्धवाहाः पवनाशनानां पन्नगानां निवासदानात् कृतप्रकोपाः इव (सन्तः) चन्दनशैलकुञ्जात् उदीचीम् आशां प्रति विनिर्ययुः । व्याख्या गन्धवाहा अनिला 'गन्धवाहानिलाशुगा' इत्यमर । पवनो वायुरशनं भोजनं येषां ते तेषां वायुभक्षकाणां पन्नगानामुरगाणां 'उरगः पन्नगो भोगी जिह्मगः पवनाशन' इत्यमर । निवासस्य स्थितेर्दानं तस्मात् कृत प्रदर्शित प्रकोप क्रोधो यैस्तेऽमर्षयुक्तास्सन्त इवाऽस्मद्द्षका एवाऽत्र निवसन्ति ततोऽत्रास्माभिर्वासो न युक्त इति हेतो कुपिता सन्त इवेत्यर्थ । चन्दनशैलस्य मलयाचलस्य कुञ्जान्निकुञ्जात् 'निकुञ्जकुञ्जौ वा क्लीवे लतादिपिहितोदरे' इत्यमर । उदीचीमुत्तरामाशां दिशं प्रति विनिर्ययुर्निर्गमुः । मधौ दक्षिणानिलो बहतीति- प्रसिद्धिः । पवने स्वभक्षकसपनिवासहेतुककोपकर्तृत्वस्य मलयाचलपरित्यागे हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । भाषा वायुगण, वायुभक्षक सर्पों का, मलयाचल द्वारा आश्रय दिये जाने से मानो क्रुद्ध होकर मलय पर्वत के कुञ्ज से उत्तर दिशा की ओर भाग चले । अर्थात् दक्षिणानिल उत्तर दिशा की ओर बहन लगा । रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥६॥ अन्वयः रविः रथस्थितानां पुरातनानां वाहनानां परिवर्तनाय इव तुरगोत्तमानाम् उत्पत्तिभूमौ उत्तरस्यां दिशि प्रतस्थे । व्याख्या रविस्सूर्यो रथस्थितानां रथे विनियोजितानां पुरातनानां वृद्धानां वाहनाना- मश्वानां परिवर्तनायेव तेषां स्थानेऽन्यनवीनाश्वग्रहणार्थमिव तुरगोत्तमानामश्व- श्रेष्ठानामुत्पत्तिभूमौ जन्मभूमौ काबुलप्रदेश इत्यर्थः । काबुलप्रदेशो भारत
( ४१५ ) स्योत्तरदिशि विद्यमानोऽस्ति । 'उत्तरस्यां दिश्युदीच्यामाशायां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्चताः' इत्यमरः । प्रतस्थे गन्तुमारेभे । रविरुत्तरा- यणोऽभूदिति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा सूर्य अपने रथ के बुड्ढे घोड़ों को बदल देने के लिये मानों श्रेष्ठ घोड़ों के उत्पत्ति स्थान उत्तरदिशा में अर्थात् काबुल में (काबुली घोड़े प्रसिद्ध हैं) प्रस्थित हुआ । अर्थात् सूर्य उत्तरायण होने लगे । अहो नु चैत्रं प्रति कापि भक्तिरकृत्रिमा केरलमारुतस्य । द्राघिष्ठमन्वानमसौ विलङ्घ्य सर्वत्र तस्यानुचरो यदासीत् ॥७॥ अन्वयः अहो नु केरलमारुतस्य चैत्रं प्रति अकृत्रिमा का अपि भक्तिः यत् असौ द्राघिष्ठम् अध्वानं विलङ्घ्य सर्वत्र तस्य अनुचरः आसीत् । व्याख्या "अहो" इत्याश्चर्ये 'नु' इति वितर्के । केरलमारुतस्य दक्षिणस्थकेरलदेश- ग्राहिनः पवनस्य दक्षिणातिलस्येत्यर्थः । चैत्रं चैत्रमासं प्रति बसन्तकालं प्रतीत्यर्थः । अकृत्रिमा स्वाभाविकी काप्यनिर्वचनीयाऽपूर्वेत्यर्थः । भक्तिरनुरागः । यत- स्मात्कारणादसौ दक्षिणादिले द्राघिष्ठमतिदीर्घमध्वानं मार्ग 'अध्वनं वर्त्म मार्गोध्वन्तः पदवी सृतिः' इत्यमरः । विलङ्घ्य समतिक्रम्य सर्वत्र सर्वस्थाने तस्य चैत्रमासस्य वसन्तस्य वाऽनुचरोऽनुगन्ताऽसीत् जातः । वसन्ते दक्षिणाशितः सर्वत्रैव बहतीति भावः । अत्र केरलमारुते सेवकव्यवहारसमारोपात् समासो- क्तिरलङ्कारः । भाषा आश्चर्य की बात है कि केरल के वायु का अर्थात् दक्षिणातिल का चैत्र मास के प्रति अर्थात् वसन्त ऋतु के प्रति एक विलक्षण स्वाभाविक अनुराग है । क्योंकि वह दक्षिण का वायु एक भारी रास्ता तैय कर सर्वत्र चैत्र का अर्थात् वसन्त ऋतु का साथ देता था । अर्थात् वसन्त ऋतु में सर्वत्र दक्षिणाभिल बहता ही है ।
( ४१८ ) चाहिये कि वायु के वाहन मृग को मार कर वायु का इस तरफ आना रोक दे । अर्थात् दक्षिणानिलके न आने से विरहजनित पीड़ा न हो सकेगी । यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः । केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति ॥९१॥ अन्वयः यत् वा एतत् दैन्यं मृषा तिष्ठतु । किराताः मरुता वैरं न इच्छन्ति । हि सः शबराङ्गनानां केलिप्रसङ्गे स्मरग्लानिम् अपाकरोति । व्याख्या यद्वेति पक्षान्तरे एतद्दैन्यं मलयानिलस्य प्रियविप्रलम्भव्यथोद्वेलकत्वात्तस्मा- न्दूयेन मृगमारणप्रार्थनं मृषा मिथ्या निरर्थकमेवेत्यर्थः । तिष्ठत्वाऽस्ताम् । किराताः शबरा मरुता मलयवायुना सह वैरं शत्रुतां नेच्छन्ति नाऽऽकाङ्क्षन्ति । हि यस्मात् कारणात् 'हि हेताववधारणे' इत्यमरः । स दक्षिणानिलः शबराणां वने- चराणां 'भेदाः किरातशबरपुलिन्दम्लेच्छजातयः' इत्यमरः । अङ्गना ललना- स्तासां केलिप्रसङ्गे सुरतक्रीडाकाले स्मरग्लानि कामोद्वेगजन्यपीडोत्पन्नशारोरिक- श्रमपाकरोति दूरीकरोति । श्रमापनयनेनोपकारित्वादयं दक्षिणानिलो शत्रुभावं न जनयतीति तस्य मृगविनाशाभ्यर्थना वृथैवेति भावः । भाषा अथवा किरातराज से वायु के वाहन रूप मृग को मारने की अभ्यर्थना व्यर्थ है । किरात लोग दक्षिणानिल से वैर करना नहीं चाहते । क्योकि वह दक्षिणानिल किरातिनियो की सुरत क्रीडा में सुरत जनित श्रम का अपहरण करता रहता है । अर्थात् दक्षिणानिल उपकारी होने से उस से किरातराज का शत्रुभाव हो ही नही सकता । दुराग्रहश्चन्दनमारुतस्य सदा यदन्यर्तुपराङ्मुखोऽयम् । अनेन चैत्रः सुतरामसह्यश्चन्द्रोदयेनेव शरत्प्रदोषः ॥९२॥ अन्वयः चन्दनमारुतस्य दुराग्रहः यत् अयं सदा अन्यर्तुपराङ्मुखः । अनेन चैत्रः चन्द्रोदयेन शरत्प्रदोषः इव सुतराम् असह्यः ।
( ४१९ ) व्याख्या चन्दनमारुतस्य चन्दनसम्पर्केण समागतस्य दक्षिणानिलस्य दुराग्रहो दुष्टाभि- निवेशः कुप्रवृत्तिरित्यर्थः । यदयं मारुतोऽन्येषु वसन्तातिरिक्तेषु ऋतुषु पराङ्मुखो न प्रवहति । अनेन मलयानिलेन हेतुना चैत्रो वसन्तमासश्चन्द्रोदयेनेन्दुप्रकाशेन शारत्रदोषः शरत्कालिकरजनीमुखमिव 'प्रदोषो रजनीमुखम्' इत्यमरः । सुतरा- मत्यन्तमसह्यः सोढुमशक्यः । विरहिणीनां दक्षिणानिलवच्छीतलः शारत्कालिक- श्चन्द्रोदयोऽपि नितरां सन्तापजनको भवतीति भावः । भाषा यह तो दक्षिणानिल का दुराग्रह ही है कि वह वसन्त ऋतु को छोड़ कर अन्य ऋतुओ में बहता ही नही । इसके कारण से वसन्तमास चैत्र, चन्द्रमा का उदय होने के कारण से शरत् ऋतु की घाम के समान ही असह्य हो जाता है । अर्थात् विरहिणियो को बसन्त ऋतु तथा शरत् काल का चन्द्र दोनो ही सन्ताप जनक होते हैं । वियोगिनीनां किमु पापमेतन्मेधाथवा दक्षिणमारुतस्य । कदापि दिङ्मोहवशाद्यदेष न चन्दनाद्रेः परतः प्रयाति ॥९३॥ अन्वयः एतत् वियोगिनीनां पापं किमु, अथवा दक्षिणमारुतस्य मेधा यत् एषः दिङ्मोहवशात् कदापि चन्दनाद्रेः परतः न प्रयाति । व्याख्या एतत्प्रत्यक्षदृश्यमानोपद्रवः वियोगिनीनां विरहिणीनां पापं दुष्कृतपरिणामः किमु किमथवा यद्वा दक्षिणमारुतस्य दक्षिणानिलस्य मेधा धारणावती बुद्धिः 'धीर्धारणावती मेधा' इत्यमरः । यद्यस्मात्कारणादेष मलयवायुर्दिङ्मोहवशा- दिग्भ्रमकारणेन कदापि कस्मिन्नपि काले चन्दनाद्रेर्मलयपर्वतात्परतोऽन्यस्मा- त्प्रदेशान्न प्रयाति न गच्छति । भाषा यह जो विरहिणियों का प्रत्यक्ष कष्ट है वह वियोगिनियो के पापो का परिणाम है या दक्षिणानिल की मेधा का फल है ? क्योकि मलयवायु दिग्भ्रम होने से कभी भी मलयपर्वत को छोड कर अन्य स्थानों से नही बहता है ।
( ४१६ ) अथ दक्षिणानिलस्य कामोद्दीपकत्वाद्विरहिणीनां दयनीयां दशां वर्णयति कविः— देया शिलापट्टकपाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु । वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥६॥ अन्वयः श्रीखण्डशैलस्य दरीगृहेषु शिलापट्टकपाटमुद्रा देया । (येन) विनियोगिनीकण्टकः एषः वायुः कारागृहस्य चिरात् अभिज्ञः अस्तु । व्याख्या श्रीखण्डशैलस्य चन्दनाद्रेर्मलयाचलस्य दरीगृहेषु कन्दरागृहेषु 'दरी तु कन्दरो वास्त्री' इत्यमरः । शिलापट्टाः प्रस्तरखण्डपट्टा एव कपाटानि तेषा मुद्रा प्रावरणं देया निवेश्या येन कारणेन शिलामुद्रणसहस्रेण वियोगिनीकण्टको विरहिणीनां हृदि कण्टकवच्छल्यवद्व्यथाजनक एष प्रसिद्धो वायुर्दक्षिणानिलः कारागृहस्य बन्धनाल- यस्य 'प्रग्रहोपग्रहो बन्धां कारास्याद्बन्धनालये' इत्यमरः । चिराच्चिराय बहुकाल- पर्यन्तमित्यर्थः । अभिज्ञस्तत्प्रियासजन्यदुःखानुभविताऽस्तु जायताम् । परपीड़कः कारागृहनिवासयोग्य इति भावः । भाषा मलयाचल के कन्दरा रूपी घरों को पत्थरो की चट्टान रूपी किवाड़ों से बन्द कर देना चाहिये । जिससे (उन कन्दराओ में रहने वाला) विरहिणियो के हृदय में कांटे गड़ाने के समान पीड़ा देने वाला यह दक्षिणानिल चिरकाल तक कैदखाने में रहने के दुख का अनुभव करे । क्योकि जो दूसरो को व्यर्थ दुख देता है वह कैदखाने में जाने योग्य है । विरूक्षणीयः सखि दाक्षिणात्यस्त्वया न वायुः परुषैर्वचोभिः । यत्कोपनिःश्वासपरम्पराभिः पीनत्वमायात्ययमुष्णताञ्च ॥६॥ अन्वयः हे सखि ! त्वया परुषैः वचोभिः दाक्षिणात्यो वायुः न विरूक्षणीयः । यत् अयं कोपनिःश्वासपरम्पराभिः पीनत्वम् उष्णतां च आयाति ।
( ४१७ ) व्याख्या हे सखि ! हे वयस्ये ! त्वया परुषै क्रूरै क्रोधोत्पादकैरित्यर्थः । वचोभिर्व- चनैर्दक्षिणस्या भवो दाक्षिणात्यो मलयाचलसम्बन्धी वायुः पवनो न विरुक्षणीयो न कोपनीयः । यद्यस्मात्कारणादय वायु कोपस्य त्वत्परुषवचनजन्यक्रोधस्य निःश्वासपरम्परा परुषवाक्यजातक्रोधोत्पन्नन क्षोभजनि श्वासपरम्परास्ताभि- पीनत्य स्थूलत्वमुष्णता तापकत्वञ्चाऽध्यास्ति प्राप्नोति । मलयानिल शीतलोऽपि विरहिणीनामुष्णतामेव वेगेन वर्धयतीति भावः । भाषा हे सखि ! तुम कटुए वचनो से दक्षिणानिलको कुपित न करो । क्योंकि यह वायु क्रुद्ध होकर लम्ब २ उच्छ्वास लेने से मोटा अर्थात् वायु में उच्छ्वास के वायु मिलने से अधिक, और गरम हो जाता है । विरहिणियो को दक्षिणानिल ठंडा होने पर भी गरम ही मालूम होता है । बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य । इत्यर्थनीयः शवराधिराजः श्रीखण्डपृथ्वीधरकन्दरस्थः ॥१०॥ अन्वयः श्रीखण्डपृथ्वीधरकन्दरस्थः शवराधिराजः बाणेन मृगं हत्वा अस्य दक्षिणमारुतस्य यात्रा निवार्यताम् इति अर्थनीयः । व्याख्या श्रीखण्डपृथ्वीधरो मलयाचलस्तस्य कन्दरो दरी 'दरी तु कन्दरो वा स्त्री' इत्यमरः । तस्मिन् तिष्ठतीति श्रीखण्डपृथ्वीधरकन्दरस्थ शबराणा वनेचराणा- मधिराज स्वामी बाणेन शरेण मृग वायुवाहनरूप मृग हत्वा मारयित्वाऽस्य दक्षिणमारुतस्य दक्षिणानिलस्य यात्रा प्रवह इत आगमनमित्यर्थः । निवार्यतां प्रतिषेधनीयेत्यर्थनीय प्रार्थनीय । वायोर्वाहन मृग अत एव स पृषदश्व इति कथ्यते । 'पृषदश्वो गन्धवहो गन्धवाहानिलाशुगा' इत्यमरः । वाहनाभावे वायोरत्राऽगमनमसम्भवमिति भावः । भाषा मलयाचल की कन्दरा में रहने वाले शबरराज से यह प्रार्थना करनी २७
( ४२० ) इति भ्रमत्सौरभमांसलेन निमीलितानां मलयानिलेन । अभूच्चिरं भूमिगृहस्थितानां प्रलापमाला प्रियकाङ्क्षिणीनाम् ॥१४॥ अन्वयः भ्रमत्सौरभमांसलेन मलयानिलेन निमीलितानां भूमिगृहस्थितानं प्रियकाङ्क्षिणीनाम् इति प्रलापमाला चिरम् अभूत् । व्याख्या भ्रमन्नितस्ततः प्रसरन् यत्सौरभस्सुगन्धस्तेन मांसलो बहुलस्तेन प्रसरत्सुगन्ध- बहुलेन मलयानिलेन दक्षिणपवनेन निमीलितानां व्यथितानां भूमौ पृथिव्यामध- स्तात् गृहाणि सदनानि, ग्रीष्मातपनिवारणाय भूम्यभ्यन्तरे निर्मितानि शीतभव- नानि तेषु स्थिता विद्यमानास्तासां प्रियाणां प्रेमास्पदजनानां पतीनामित्यर्थः । काङ्क्षिण्योऽभिलाषिण्यस्तासां ललनानां वियोगिनीनामित्यर्थः । इति पूर्वोक्त- प्रकाराः प्रलापमाला निरर्थकवाक्यकदम्बः 'विप्रलापो विरोधोक्तिः प्रलापोऽनर्थकं वचः' इत्यमरः । चिरं बहुकालपर्यन्तमभूज्जाता । भाषा चारो ओर फैलने वाली सुगन्ध से भरे दक्षिण वायु से पीड़ित, तल घर में (तहखाने में) रहने वाली, अपने प्रिय की अभिलाषा रखने वाली वियोगिनी स्त्रियों के पूर्वोक्त प्रकार के निरर्थक वाक्यसमूह चिरकाल तक चलते रहे । इति षट्श्लोकात्मकं कुलकम् । कन्दर्पदेवस्य विमानसृष्टिः प्रासादमाला रसपार्थिवस्य । चैत्रस्य सर्वर्तुविशेषचिन्हं दोलाविलासः सुदृशां रराज ॥१५॥ अन्वयः कन्दर्पदेवस्य विमानसृष्टिः, रसपार्थिवस्य प्रासादमाला चैत्रस्य सर्वर्तु- विशेषचिन्हं सुदृशां दोलाविलासः, रराज । व्याख्या कन्दर्पदेवस्य कामदेवस्य 'कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः' इत्यमरः । विमानसृष्टिर्व्योमयानरचना, 'व्योमयानं विमानोऽस्त्री' इत्यमरः ।
( ४२१ ) रसः शृङ्गाररस एव पार्थिवो राजा तस्य प्रासादानां हर्म्याणां माला पङ्क्तिः । अत्युच्चत्वेन निरतिशयरमणीयत्वेन च दोलाविलासे कामसम्बन्धिविमानसृष्टे- रसनृपसम्बन्धिप्रासादमालायाश्चाऽऽरोपः । चैत्रस्य चैत्रमासस्य सर्वं सकलमृतु- विशेषस्य वसन्तस्य चिह्नं लक्षणं यद्वा चैत्रस्य वसन्तस्य सर्वर्तुभ्यो विशेषं विशिष्टं चिह्नं लक्षणं 'कलङ्काङ्कौ लाञ्छनञ्च चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । यतो वसन्त एव दोलारोहणक्रीडा विशेषतो भवतीति भावः । सुष्ठु दृशौ नयने यासां स्तादृशां सुन्दरनयनाङ्गनानां दोलासु प्रेङ्खासु विलासः क्रीडा रराज शुशुभे । विशेषविनोदकारित्वेन चैत्रमासभवस्य वसन्तर्तुसकलचिह्नस्याऽभेदारोपो दोला- विलासेऽतोऽत्र मालारूपकम् । भाषा कामदेव की विमान रचना, शृङ्गार रस रूपी राजा के महलों की कतार, चैत्र मास का सब ऋतुओं में श्रेष्ठ वसन्तऋतु का चिह्न अथवा वसन्त का अन्य सब ऋतुओं से विशिष्ट चिह्न, सुनयनी स्त्रियों की झूला झूलने की क्रीडा शोभित होने लगी । अर्थात् चैत्र मास या वसन्त ऋतु के आते ही सुन्दर नेत्रवाली कामिनियों में झूला झूलने का उमङ्ग, कामदेव की प्रेरणा से काम सम्बन्धि दूर २ की उनकी मानसिक उड़ानें तथा शृङ्गार रस का साम्राज्य चारोंतरफ छा गया । दोलाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु । त्रुटिर्यदालम्बगुणेषु नाभूत् सा भाग्यशक्तिः कुसुमायुधस्य ॥१६॥ अन्वयः यत् दोलाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु आलम्बगुणेषु त्रुटिः न अभूत् सा कुसुमायुधस्य भाग्यशक्तिः । व्याख्या यदित्यनेन वाक्यार्थपरामर्शः । दोलां प्रेङ्खा 'दोला प्रेङ्खादिका स्त्रियाम्' इत्यमरः । 'हिंडोला' इति भाषायाम् । अधिरूढस्समासीनस्तस्य प्रेङ्खास्थितस्य वधूजनस्य कामिनीजनस्य नितम्बः श्रोणिस्तस्य भारो गुरुत्वं तेन गतामागत- मितस्ततः सञ्चलनं येषां ते तेष्वालम्बगुणेषु दोलावलम्बनरज्जुषु त्रुटिर्भङ्गो नाऽभून्न जात सा कुसुमायुधस्य कामस्य भाग्यशक्तिरदृष्टमहत्त्वम् । ललनानि-
( ४२२ ) तम्बानामप्यन्तगुरुत्वाद्वोलावलम्बनारज्जूनां भङ्गस्तु निश्चितप्राय एवाऽऽसीत् । परन्तु स न जात इत्यत्र कामस्याऽदृष्टमहत्वमेव कारणमिति भावः । काव्य- लिङ्गमलङ्कारः । भाषा चूंकि हिंडोले पर झूलने वाली कामिनियो के नितम्बों के बोझ से झोको में इधर उधर जाने वाली झूले की रस्सियाँ न टूटी इसमें कामदेव की भाग्य सम्पत्ति ही कारण हैं । अर्थात् उन स्त्रियो के नितम्ब बहुत भारी थे और कामदेव की पूर्ण कृपापात्र थीं । अर्थात् पूर्णतया कामासक्त थीं । जनेषु दोलातरलाः पुरन्ध्रीः संभूय भूयःसु विलोकयत्सु । लक्ष्यस्य विस्तीर्णतया मनोभूरवन्ध्यपातैरिषुभिर्ववर्ष ॥१७॥ अन्वयः दोलातरलाः पुरन्ध्रीः भूयःसु जनेषु संभूय विलोकयत्सु (सत्सु) मनोभूः लक्ष्यस्य विस्तीर्णतया अवन्ध्यपातैः इषुभिः ववर्ष । व्याख्या दोलासु प्रेङ्खासु तरलाश्चञ्चलाः पुरन्ध्रीर्ललनाः (कर्म) 'पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । भूयःसु बहुलेषु जनेषु कामिजनेषु सम्भूयै- कत्रीभूय विलोकयत्सु पश्यत्सु सत्सु मनसि भवतीति मनोभूः कामो लक्ष्यस्य शरपातविषयस्य विस्तीर्णतया विशालदेशव्यापित्वेनाऽवन्ध्योऽनिष्फल पातो लक्ष्ये वेधो येषां ते तैरिरिषुभिः स्वपुष्पबाणैर्यवर्ष वृष्टवान् । तत्रैकत्रीभूताः कामिजनास्ता दोलास्थिता. कामिनीर्यांश्च कामार्ता जाता इति भावः । भाषा हिंडोले पर झलने वाली कामिनियो को कामी लोगो के इकट्ठा होकर देखते रहने पर कामदेव ने निशाने के स्थूल अर्थात् बडे होने के कारण अपने अमोघ बाणो की वर्षा की । अर्थात् उन झूला झूलने वाली स्त्रियो को देखने के लिये इकट्ठा भए हुए सभी कामी जन कामासक्त हो गए । दोलाविनोदेन विलासवत्यः सुदूरमारुह्य निवर्तमानाः । अर्धे नभःप्राङ्गणसङ्गिनीनां विलासमापुस्त्रिदशाङ्गनानाम् ॥१८॥
( ४२३ ) अन्वयः विलासवत्यः दोलाविनोदेन सुदूरम् आरुह्य निवर्त्तमानाः (सत्यः) नभःप्राङ्गणसङ्गिनीनां त्रिदशाङ्गनानाम् अर्द्ध विलासम् आपुः । व्याख्या विलासवत्योऽङ्गना दोलाया प्रेङ्खाया विनोदेन क्रीडया सुदूरमत्यूर्ध्वदेशमारुह्य गत्वा निवर्त्तमाना पुनरधोदेशं प्रति निवृत्ता सत्यो नभ एवाऽऽकाशमेव प्राङ्गणं विस्तृतस्थानं तस्मिन्सङ्गिन्य प्राप्तास्तासां त्रिदशाङ्गनाता देवाङ्गनानामाकाशे सञ्चरणशीलानामप्सरसां याऽर्धं विलास विभ्रम सारूप्यमित्यर्थ । आपु प्राप्तवत्य । अङ्गनानां रूपलावण्यातिशयाद्देवाङ्गनासादृश्यम् । दोलाया आकाशे चाऽल्पकाल- वृत्तित्वादर्धमेवाऽप्सरसां विलास शोभा वा प्रापुरित्यर्थ । अत्र निदर्शनालङ्कार । भाषा अङ्गनाओ के हिंडोले की क्रीडा में बहुत ऊँचे जाकर फिर नीचे लौट आन से, वे, आकाशरूपी आगन में विहार करन वाली अप्सराओ के आधे सारुप्य को प्राप्त हुई । अर्थात् कामिनियाँ झूला झूलते हुए आधे समय तक खूब ऊँचे और आध समय तक नीचे रहने से ऊँचे रहन के आधे समय के लिये साक्षात् आकाश में विहार करने वाली अप्सराओ की शोभा प्राप्त करती थीं । विलासदोलाफलके नितम्ब-विस्ताररुद्धे परितस्तरुण्याः । लब्धः परं कुञ्चितकार्मुकेण तत्रावकाशः कुसुमायुधेन ॥१६॥ अन्वयः विलासदोलाफलके परितः तरुण्याः नितम्बविस्ताररुद्धे (सति) तत्र परं कुञ्चितकार्मुकेण कुसुमायुधेन अवकाशः लब्धः । व्याख्या विलासस्य क्रीडाया दोलाफलक दारूमयन्दोलनफलकं 'तख्ता' इति भाषायाम् । तस्मिन परित सर्वतस्तरुण्या युवतीजनस्य नितम्बरय कटिपश्चा- द्भागस्य 'पश्चान्नितम्ब स्त्रीकट्या इत्यमर' । विस्तारेण विशालरूपेण रुद्धे समाच्छादिते सति तत्र दोलाफलके पर केवल कुञ्चितं सङ्कोचमाप्तं कार्मुकं धनुर्यस्य स तेन कुसुमायुधेन कामेनाऽवकाश स्थानं लब्ध प्राप्त । दोलावि-
( ४२४ ) लासो युवतीनामतीव कामोद्दीपक इति भावः । यथा स्वल्पावकाशेऽपि संकुचित- स्थाने विदग्धजनः स्वशरीरं तत्र प्रविश्य सुखानुभूतिं करोतीत्यप्रकृतव्यवहारस्य कुसुमायुधव्यवहारे समारोपात्समासोक्तिरलंङ्कारः ।
भाषा क्रीडा के झूले का तख्ता युवतियों के नितम्बो से चारो तरफ से छेक लिया जाने पर अर्थात् वहाँ बिल्कुल जमीन न रहने पर भी, वहाँ केवल अपने धनुष को सिकोड़ लेने वाले कामदेव ने ही स्थान प्राप्त किया । अर्थात् झूला झूलने से युवतियाँ कामासक्त हो गई ।
सौन्दर्यमिन्दीवरलोचनानां दोलासु लोलासु यदुल्ललास । यदि ⸀प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभूः ॥२०॥
अन्वयः लोलासु दोलासु इन्दीवरलोचनानां यत् सौन्दर्यम् उल्ललास, यदि मनोभूः प्रसादात् कवित्वं लभते (तर्हि सः) तत् वर्णयितुं जानाति ।
व्याख्या लोलासु चञ्चलासु दोलासु प्रेङ्खास्विन्दीवराणीव नीलकमलानीव लोचनानि नेत्राणि यासां तास्तासामङ्गनानां यत् सौन्दर्यं रामणीयकमुल्ललास प्रादुर्बभूव, यदि मनोभूः कामः प्रसादात्तत्सरस्वत्यनुग्रहात् कवित्वं काव्योत्पादन- प्रागल्भ्यं लभते प्राप्नोति तर्हि स कामस्तत्सौन्दर्यं वर्णयितुं विस्तारेण कथयितुं जानाति पटुस्स्यादित्यर्थः² । समर्थः कविरेव स्वकृतेर्गुप्तरहस्यं ज्ञातुं समुद्घाट- यितुञ्च क्षमो न त्वन्यः । अतः कामविलासरहस्यं कामस्य कवित्वे एव याथार्थ्येन वर्णितं स्यात्प्रत्यस्येति भावः ।
⸀ 'प्रमादात्' इति पाठस्तु लेखकानवधानतंव । चरितचन्द्रिका टिप्पणी- कारस्य 'प्रमादादनवधानता परित्यज्येति भाव ।" इत्यपि चिन्त्यम् । ² त्रिपुरारहस्यमाहात्म्ये-लक्ष्म्यास्त्रिपुराप्रसादेन कामस्य पुत्रत्वेन प्राप्तिः । स कविरासीदिति तस्य "त्रिपुरानवकम्" रचनया सिद्धम् । तन्मन्त्रानुष्ठानेन पण्डिताः कवित्वं प्राप्नुवन्तीति प्रसिद्धिः ।