भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( ४२१ ) भाषा दक्षिण दिशा के केरल देश के वायु ने अर्थात् दक्षिनानिल ने कामिनियों के मुखो को चूमा, साड़ी को खींचा, कटि पश्चात् भाग में चिर काल तक विश्रान्ति ली। इसलिये अङ्गनाओ का हिंडोले की क्रीड़ा का वह आचार्य हो गया। अर्थात् हिंडोले की क्रीड़ा में क्या २ किया जाता है (चुम्बन करना, कपड़ा हटाना और नितम्बों पर हाथ फेरना) इसका उपदेश दिया। गीतेषु याताः किमु शिष्यभावं वामभ्रुवां विश्रमदोलिनीनाम्। पुंस्कोकिलाः काननचारिणो यच्चातुर्यमापुः कलपञ्चमस्य ॥२७॥ अन्वयः काननचारिणः पुँस्कोकिलाः गीतेषु विभ्रमदोलिनीनां वामभ्रुवां शिष्यत्वं याताः किमु, यत् (ते) कलपञ्चमस्य चातुर्यम् आपुः। व्याख्या कानने वने 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। चरन्ति विहरन्तीति ते वनगताः पुंस्कोकिलाः पिकाः 'वनप्रियः परभृतः कोकिलः पिक इत्यपि' इत्यमरः। गीतेषु गानकलासु विभ्रमेण विलासेन दोलायन्ते दोलासु विहरन्तीति विभ्रमदोलिन्यस्तासां विलासदोलासु विहरन्तीनां वामभ्रुवा चञ्चल- भ्रुकुटीनां कान्तानां शिष्यत्वं छात्रभावं याताः प्राप्ताः किमु। यद्यस्मात्कारणात्ते पिकाः कलो मधुरः पञ्चमः पञ्चमस्वर इति तस्य मधुरपञ्चमस्वरस्य चातुर्यं नैपुण्यमापुः प्राप्ताः। वामभ्रुवां शिष्यभावं विना पुंस्कोकिलानां पञ्चमस्वरस्यै- तादृशं नैपुण्यं सर्वथैवासंभवतीति भावः। उत्प्रेक्षालङ्कारः। भाषा जंगलो में विहार करने वाले पिक, क्या गान कला में विलास पूर्वक झूला झूलने वाली व टेढ़ी भौंवो वाली ललनाओ के शिष्य तो नही हो गए, क्यो कि उन्होने मधुर पञ्चम स्वर में बोलने की चतुरता प्राप्त करली थी। अर्थात् बिना गुरु के विद्या कहाँ ? इससे उन झूला झूलने वाली नारियो से कोकिलो ने पञ्चमस्वर में बोलना सीखा होगा।

( ४३० ) सङ्गादजस्रं वनदेवतानां लीलावनान्तस्थितयः शकुन्ताः । आरुह्य दोलासु विलासिनीनां ताभिः सह भ्रेमुरसंभ्रमेण ॥२८॥ अन्वयः लीलावनान्तस्थितयः शकुन्ताः वनदेवतानाम् अजस्रं सङ्गात् विला- सिनीनां दोलासु आरुह्य ताभिः सह असंम्भ्रमेण भ्रेमुः । व्याख्या लीलाबनस्य क्रीडोद्यानस्याऽन्ते मध्ये स्थितिर्निवासो येषां ते क्रीडोद्यानमध्य- वासिनः शकुन्ताः पक्षिणः 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । वनदेवतानामरण्यव्यापिष्ठातृदेवतानामजस्रं निरन्तरं 'नित्यानवरताजस्रमप्ययाति- शयो भरः' इत्यमरः । सङ्गात् सहवासाद्विलासिनीनां कामिनीनां दोलासु प्रेङ्खा- स्वारुह्य स्थित्वा ताभिर्दोलिनीभिस्सह्रादसंभ्रमेणाऽव्याकुलं यथास्यात्तथा भ्रेमुर्ग- तागतं चक्रुः । काव्यलिङ्गमलङ्कारः । भाषा क्रीडोद्यान में रहने वाले पक्षी, वनदेवताओं के निरन्तर साथ रहने से झूला झूलने वाली रूपवती स्त्रियों के झूलों पर बैठ कर उनके साथ निडर होकर झूला झूलते थे । अर्थात् वे स्त्रिया वनदेवताओं के ऐसी रूपवती थीं । हस्तद्वयीगाढगृहीतलोल—दोलागुणानां जघने वधूनाम् । १असवृते स्रस्तदुकूलबन्धे किमप्यभूदुच्छ्वसितो मनोभूः ॥२६॥ अन्वयः हस्तद्वयीगाढगृहीतलोलदोलागुणानां वधूनां स्रस्तदुकूलबन्धे जघने असंवृते (सति) मनोभूः किमपि उच्छ्वसितः अभूत् । व्याख्या हस्तयोः करयोर्द्वयीति हस्तद्वयी तया गाढं दृढं गृहीता धृता लोलाइचञ्चला दोलागुणा दोलारज्जवो याभिस्तास्तासां वधूनां नारीणां स्रस्तः स्थानाच्च्यु- १ "असवृतस्रस्तदुकूलबन्धे" इति पाठस्तु चिन्त्यः ।

( ४३१ ) तो दुकूलग्रन्थो नीविबन्धो यस्मात्तत्तस्मिन् जघने कटिपुरोभागेऽसङ्गेना- च्छादिते प्रकटोभूते सति मनोभू कामं कियन्निर्वचनीयं यथास्यात्तथोद्वहन्निव उल्लासयुक्तं सानन्द इत्यर्थः । अभूद्भातः । नारीणां गुह्याङ्गदर्शनेन यूनाम- निर्वचनीयाऽऽनन्दप्राप्तिरभूदिति भावः । भाषा झूला झूलने समय दोनो हाथो से दृढ़तापूर्वक हिंडोले की चञ्चल रस्सियो को पकड़ रखने वाली अङ्गनाओ के, नीवी की गांठ खुल जाने से, और धोती सरक पड़ने से जघनस्थल के दिखाई पड़ने पर कामदेव अनिर्वचनीय उल्लास को प्राप्त हुआ । अर्थात् स्त्रियों के गोपनीय अङ्गो को देखने से युवको को एक विशिष्ट आनन्द मिलता है । त्वरोपयातप्रियबाहुपाश-रुद्धेषु कण्ठेषु वियोगिनीनाम् । वृथासमाहूतकृतान्तपाशः स्मितं लतानां मधुराततान ॥ ३० ॥ अन्वयः वियोगिनीनां कण्ठेषु त्वरोपयातप्रियबाहुपाशरुद्धेषु (सत्सु) वृथास- माहूतकृतान्तपाशः मधुः लतानां स्मितम् आततान । व्याख्या वियोगिनीनां विरहिणीनां कण्ठेषु ग्रीवासु स्वरया शीघ्रमुपयातैस्तत्सम्प्राप्तैः प्रियाः कान्तास्तेषां बाहवो भुजा एव पाशा रज्जवस्तै रुद्धेषु सत्सु वृथैव मुधैव समाहूतस्सम्प्रापितः कृतान्तस्य यमस्य पाशो येन स मधुर्वसन्तो चैत्रमासो वा लतानां वीरुधां स्मितमीषद्रास्यं विकासमित्यर्थः । आततान विस्तारयामास । वसन्तगमनेनोद्दीपितमदनतानां विरहिणीनां कामिनीनां झटिति प्रियालिङ्गन- प्राप्त्या वसन्तजन्यमन्मथसन्तापे सत्यपि प्राणवियोगो न जात इति दृष्ट्वा स्त्रीरज- साजात्यात् लता वसन्तमुपहसन्तीति भावः । भाषा वियोगिनी स्त्रियों के गलो के, शीघ्रता पूर्वक आए हुए उनके पतियों के बाहु पाश से उपरुद्ध हो जाने पर, यमराज के पाश को (उनके गलो में बाध कर उनका प्राणान्त करने के लिये) व्यर्थ ही बुलाने वाले वसन्त ने लताओ को विकसित किया । अर्थात् वसन्तजनितसन्ताप से मरणासन्न स्त्रियो की,

( ४३२ ) उनके पतियों द्वारा जल्दी में आकर आलिङ्गन किये जाने के कारण, वियोग से उनकी मृत्यु न हो सकने से, लताएँ वसन्त को हँसने लगी अर्थात् विकसित हो गईं। निवारणं पल्लववीजनानां स्थितिर्निवातेषु गृहोदरेषु । मूर्च्छाप्रबन्धेषु वियोगिनीनामासीदपूर्वः परिहारमार्गः ॥३१॥ अन्वयः वियोगिनीनां मूर्च्छाप्रबन्धेषु पल्लववीजनानां निवारणं निवातेषु गृहोदरेषु स्थितिः (इति) अपूर्वः परिहारमार्गः आसीत् । व्याख्या वियोगिनीनां पतिविरहितानां कामिनीनां मूर्च्छाप्रबन्धेषु पतिविरहजन्य- दुःखातिशयात्संजातशून्यदशायां पल्लवैः किसलयैर्वीजनानि वायुसञ्चालनानि तेषां शीतत्वात्किसलयैर्न वायुसंचालनानां निवारणं निषेधः । नास्ति वातो वायुर्येषु ते निवातास्तेषु वायुरहितेषु गृहाणामुदराणि मध्यानि तेषु गृहमध्यस्थानेषु स्थिति- र्निवास इत्यपूर्वो विचित्रः परिहारमार्गो मूर्च्छानिवारणस्योपचारविधिरासीत् । विरहावस्थायां शीतोपचारा अपि विशिष्टसंतापकारा भवन्तीति भावः । भाषा पतिविरहजन्य अधिक दुःख से मूर्छित, विरहिणियों की मूर्च्छावस्था में कोमल- पत्तो से ठण्डी हवा झलने का निषेध और वायुरहित गृहमध्य में निवास इत्यादि मूर्च्छानिवारण के लिये अभूतपूर्व उपचार होते थे । अर्थात् विरहिणियों को विरहावस्था में शीतोपचार अधिक संतापकारक होते हैं । इसीलिये मूर्च्छा निवृत्ति के लिये शीतोपचार का निषेध किया जाता था । लीलाशुकाः कोकिलकूजितानामविप्रहर्षाद्विहितानुकाराः । गृहादधाव्यन्त¹ वियोगिनीभिर्गुणो हि काले गुणिनां गुणाय ॥३२॥ अन्वयः अतिप्रहर्षात् कोकिलकूजितानां विहितानुकाराः लीलाशुकाः वियोगि- नीभिः गृहात् अधाव्यन्त, हि गुणिनां गुणाः काले गुणाय (भवति) । ¹ 'अवाह्यन्त' इति पाठः साधुतरः ।

( ४३३ ) व्याख्या अतिप्रहर्षादानन्दातिशयात् कोकिलाना पिकाना, कूजितानि ध्वनदस्तैषा विहित कृतोऽनुकारोऽनुकरण यैरते लीलाशुका क्रीडाशुका 'कीरशुकौ समौ' इत्यमरः । वियोगिनीभिर्विरहिणीभिर्गृहात्स्वसदनादपाद्यन्त बहिनिष्कास्यन्ते स्म । कोकिलकूजितस्य विरहे दुःखप्रदायित्वेनाऽसहत्वासदनुकारिणा लीला- शुकाना गृहादपसारण ताभि कृतमिति भावः । हि यतः गुणिनां गुणवता गुणः स्वरमाधुर्यादिरूप काले समुचिते समय एव गुणाय प्रहर्षाय भवति नत्वन्यथेति शेष । कीराणां कोकिलशब्दानुकरणं गुण परञ्च विरहावस्थाया स दोष एव जात इति भावः । अत्राऽर्थान्तरन्यासालङ्कारः । भाषा अत्यन्त हर्ष से कोयल के शब्दो का अनुकरण करने वाले पालतू सुग्गे, वियोगिनियो द्वारा दौडा कर बाहर कर दिये गए । क्योकि गुणियो का गुण अवसर पर ही गुणाधायक होता है। अर्थात् सुग्गो का, कोयल की बोली बोलना यह एक गुण है किन्तु पतिविरहजन्य दुख की अवस्था में वह गुण अवगुण सा हो जाता है । श्रुत्वेव घृष्टावसरं तुषारं वहिःस्थितानामलिनां निनादैः । द्विवर्षकन्यामुखकोमलामं पङ्कोदरात्पङ्कजमाविरासीत् ॥३३॥ अन्वयः द्विवर्षकन्यामुखकोमलाभं पङ्कजं, बहिः स्थितानाम् अलिना निनादैः तुषार घृष्टावसरं श्रुत्वा इव पङ्कोदरात् आविरासीत् । व्याख्या द्वौ वर्षों यस्या सा द्विवर्षा, द्विवर्षा चाऽसौ कन्या च द्विवर्षकन्या तस्या मुखस्येव कोमला सुकुमाराऽऽभा कान्तिर्यस्य तत् 'स्यु प्रभा रुग्रुचिस्त्विड्भाऽ- माश्छविद्युतयोतय' इत्यमरः । पङ्कज कमल बहि स्थितानां बाह्यस्थान- वर्तिनामलीनां भ्रमराणां निनादैस्झङ्कारैस्तुषार हिमं 'तुषारस्तुहिनं हिमम्' इत्यमर । धूतो निर्गतोऽवसर कालो हेमन्तशिशिरर्तू यस्य स त धूतवेगाऽऽ- कम्यैव पङ्कोदरात्सरस पङ्कमुदरे यस्येति विग्रहात, पङ्कस्य कर्दमस्योदर मध्य तस्माद्वा कर्दमान्तरादाविरासीत्प्रकटीबभूव । हिमसमये पङ्कजानि न समुत्पद्यन्ते भ्रमराश्च न गुञ्जन्ति तस्माद्भ्रमरशब्दश्रवणादिनागममनुमाय वसन्तागम- नात्कोमल कमल प्रादुर्बभूवेति भाव । अत्रोत्प्रेक्षालङ्कार । २८

( ४३४ )

भाषा

दो वर्ष की कन्या के मुख के समान कोमल कान्ति वाला, कमल, बाहर रहने वाले भ्रमरों की गुञ्जार से मानो हेमन्त और शिशिर ऋतुओ के बीत जाने की सूचना पाकर तालाब से प्रकट हुआ। अर्थात् हेमन्त और शिशिर ऋतुओ में कमल नही उत्पन्न होते और भ्रमर भी गुञ्जार नहीं करते।

नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन । उत्सङ्गसङ्गी विपिनस्थलीनां बालो वसन्तः किमपि व्यराजत् ॥३४॥

अन्वयः

विपिनस्थलीनाम् उत्सङ्गसङ्गी वसन्तः बालः नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन किमपि व्यराजत् ।

व्याख्या

विपिनस्थलीनामरण्यभूमीनां 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। विपिनस्थल्याः स्त्रीत्वेन जननीत्वं व्यङ्ग्यम्। उत्सङ्गेऽङ्के मध्ये वा सङ्गत इत्युत्सङ्गसङ्गी 'उत्सङ्गश्चिह्नयोरङ्कः' इत्यमरः। अङ्कवर्ती वसन्तो बालः कुमारो नवीनः प्रत्यग्रो दन्तोद्गमो दशनोत्पत्तिस्तद्वत्सुन्दरो मनोहरस्तेन वासन्तिका माधवीलता 'वासन्ती माधवीलता' इत्यमरः। तस्याः कुड्मलानि कलिकास्तासां निर्गम उत्पत्तिस्तेन किमप्यनिर्वचनीयं यथा स्यात्तथा व्यराजत् शुशुभे। वसन्ते बालत्वारोपाद्वासन्तीकलिकासु दशनत्वारोपात्, विपिनस्थलीनां धात्रीत्वारोपस्य व्यङ्ग्यत्वाच्च एकदेशविवर्तिरूपकम्।

भाषा

जंगल की भूमियो की गोद में रहने वाला वसन्त रूपी बालक, नये दांत निकलने के समान सुन्दर माधवीलता की कलियों के निकलने से एक अवर्णनीय शोभा को प्राप्त हुआ।

सुगन्धिनिःश्वासमिवानुवेलमुद्वेलता दक्षिणमारुतेन । मुखं प्रसूनस्मितदन्तुरं वचुचुम्ब मुग्धस्य मधोर्वनश्रीः ॥३५॥

( ४३५ ) अन्वयः वनश्रीः अनुवेलं सुगन्धिनिःश्वासम् इव उद्वेलता दक्षिणमारुते मुग्धस्य मधोः तत् प्रसूनस्मितदन्तुरं मुखं चुचुम्ब । व्याख्या वनश्रीर्वनलक्ष्मीर्वनशोभेत्यर्थः । अनुवेलं प्रतिक्षणं सुगन्धिनिःश्वासमि- सुन्दरगन्धयुक्तमुखनिःश्वासमिवोद्वेलता विस्तारयता दक्षिणमारुतेन मलय- निलेन मुग्धस्य बालस्य मधोर्वसन्तस्य तदनिर्वचनीयं प्रसूनान्येव पुष्पाण्येव शुभ्र- त्येन स्मितानीषद्धास्यानि तैर्दन्तुरं दन्तुरितं मनोहरमितिभावः । मुखमाननमग्र- भागञ्च चुचुम्ब परिचुम्बितवती । वसन्तौ पुष्पोद्गमेन वनशोभाऽभिव्यक्तासीदिति भावः । समासोक्तिरलंकारः । भाषा वनकी शोभा ने सुगन्धित सास के समान सुगन्धयुक्त दक्षिणानिल के बहते रहने से बालरूप बसन्त ऋतु के, उस अवर्णनीय श्वेत फूल रूपी मुस्कराहट से युक्त मनोहर मुख को या अग्रभाग को चूमा । अर्थात् वसन्तऋतु में फूलों से वन की शोभा प्रकट होती थी । संक्रान्तभृङ्गीपदपंक्तिमुद्रं पौष्पं रजः क्ष्माफलके रराज । क्रमाल्लिपिज्ञानकृतक्षणस्य क्षुण्णं मधोरक्षरमालयेव ॥३६॥ अन्वयः क्ष्माफलके संक्रान्तभृङ्गीपदपङ्क्तिमुद्रं पौष्पं रजः क्रमात् लिपिज्ञान- कृतक्षणस्य मधोः अक्षरमालया इव क्षुण्णं रराज । व्याख्या क्ष्माफलके पृथ्वीतलपट्टिकायां संक्रान्ताः संलग्ना भृङ्गीणां भ्रमरीणां पदानि चरणास्तेषां पङ्क्तयः श्रेणयस्तासां मुद्राश्चिह्नानि, यस्मिंस्तत् पुष्पादण्डं पौष्पं कुसुमसम्वन्धी 'तस्येदमित्यण्' । रजो धूलिः क्रमात् क्रमशो लिपिज्ञानेऽक्षर- ज्ञानाभ्यासे कृतो विहितः क्षण उत्सवो येन स तस्य 'निर्व्यापारस्थितौ काल- विशेषोत्सवयोः क्षणः' इत्यमरः । मधोर्वसन्तस्याक्षरमालया वर्णमालया क्षुण्णमिव संभृतमिव रराज शुशुभे । बालको यदाऽक्षरज्ञानाभ्यासे पट्टिकायां

( ४३६ ) तिर्यगादिरेखाबाहुल्यमेव रचयन्ति तथैव क्ष्माफलके वसन्तागमनात्पुष्पधूलि- बाहुल्यात्तत्र भृङ्गीणां भ्रमणेन तत्पादजनितरेखाकदम्बकं कविः बालस्य वसन्त- स्याक्षरज्ञानाभ्यासे क्ष्मापट्टिकायां तिर्यग्रेखादिकमित्युत्प्रेक्षते । भाषा पृथ्वी रूपी पटिया पर भ्रमरियों के पावो की पंक्तियों से अङ्कित कुसुम- रज, धीरे २ वर्णमाला सीखने का उत्सव मनाने वाले वसन्तऋतु की अक्षर- माला से मानो अङ्कित हो, ऐसी शोभित होती थी । अर्थात् वसन्त-ऋतु में पृथ्वीपर बहुत पुष्परज गिरने से और उनपर भ्रमरियो के चलने से बनी लकीरों से कवि उत्प्रेक्षा करता है कि बालक वसन्त ने मानो अक्षर सीखते समय पृथ्वी रूपी पटिया पर टेढी मेढी लकीरें खीची हो । समारूढोपरि पादपानां लुलोठ पुष्पोत्कररेणुपुञ्जे । लताप्रसूनांशुकमाचकर्ष क्रीडन्वनैः किं न चकार चैत्रः ॥३७॥ अन्वयः चैत्रः पादपानाम् उपरि समारुरोह, पुष्पोत्कररेणुपुञ्जे लुलोठ, लता- प्रसूनांशुकम् आचकर्ष, वनैः क्रीडन् किं न चकार । व्याख्या • चैत्रो वसन्तमासः पादैर्मूलैः पिबन्तीति पादपास्तेषा पादपाना वृक्षाणामुपर्यूर्ध्वं समारुरोह वृक्षानामाच्छादितवानित्यर्थ । पुष्पाणा कुसुमानामुत्करास्समूहास्तेषा रेणवो धूलयः 'रेणुर्द्वयोः स्त्रिया पुंसि पासुर्वा न द्वयो रज.' इत्यमरः । तेषा पुञ्जे समूहे लुलोठ पपात । लताना वीरुधा प्रसूनान्येव पुष्पाण्येवाऽशुकं श्लक्ष्ण- त्वान्मृदुत्वान्नाम्बरमाचकर्ष बलाद्गृहीतवान् । इत्थ वनैर्वनस्थैर्वस्तुभिः क्रीडन् विहरन् किं न चकार किं न कृतवान् । कर्तव्याकर्तव्यविवेक परिहाय बालवत् यथेच्छ सर्वमेव चैत्रेणानुष्ठितमिति भावः । यथा कश्चित् बालको वृक्षारोहण धूलिविलुण्ठन, अंशुकाकर्षणञ्च करोति तथा बालो मधु. कृतवानिति भावः । अत्र समासोक्तिरलङ्कारः । भाषा (बालक) चैत्र अर्थात् वसन्त वृक्षों पर चढ गया । पुष्पों के समूह के पराग में अर्थात् मिट्टी में लोट पोट की, लता के पुष्प रूपी वस्त्र को खीच लिया ।

( ४३७ ) इस प्रकार बालक बसन्त ने वन में की सभी वस्तुओं से क्रीडा करते हुए क्या नहीं किया। अर्थात् बालक बसन्त ने कर्तव्याकर्तव्य का विचार छोड़कर अपनी इच्छा के अनुसार सब कुछ खेल किया। जैसे कोई बालक वृक्षारोहण, धूर में लोटना और मा के या अन्य स्त्रियों की साडी खींचना आदि चेष्टाएं करता है वैसे ही चैत्र ने किया। भाव यह है कि वसन्त ऋतु के आने से वृक्षों पर वासन्तिक शोभा छा गई, पुष्पों के समूह से खूब मकरन्द चूने लगा और लताओं में से फूल टूट २ कर गिरने लगे। दक्षः प्रवालौष्ठसमर्पणाय लतावधूनां मुकुलस्तनीनाम्। मत्तालिवैतालिकगीतकीर्तिर्भ्रमन्मधुर्यौवनमारुरोह ॥३८॥ अन्वयः मुकुलस्तनीनां लतावधूनां प्रवालौष्ठसमर्पणाय दक्षः मत्तालिवैतालिक- गीतकीर्तिः भ्रमन् मधुः यौवनम् आरुरोह। व्याख्या मुकुलानि कुड्मलान्येव स्तनाः कुचा यासां तास्तासां लतावधूनां वीरुद्रूपनारीणां प्रवाला. रक्तकिसलया एवौष्ठा अधरोष्ठास्तेषां समर्पणाय वितरणाय दक्षश्चतुरः प्रगल्भ इत्यर्थः। मत्ता मदान्धा अलयो भ्रमरा एव वैतालिकाः स्तुतिगायका- स्तैर्गीता गानेन वर्णिता कीर्तिर्यस्य स भ्रमंस्ततस्ततो गतागतं कुर्वन् मधुर्वसन्तो यौवनं तारुण्यमारुरोह सम्प्राप्तवान् । प्रत्यग्रकुचभूषितानां किशोरीणाम- धरोष्ठप्रदाने चुम्बनदाने कुशलो वैतालिकगीतकीर्तिस्सञ्चरन् मनुष्य इव मुकुलि- तानां लतानां किसलयप्रदाने कुशलो मत्तालिगीतकीर्तिर्भ्रमन् वसन्तो यौवनं प्रापेति भावः। भाषा कली रूपी स्तनों वाली, लता रूपी स्त्रियों को किसलय (नये लाल पत्ते) रूपी ओठों को (तृप्त करने में) देने में कुशल मदोन्मत्त भ्रमर रूपी स्तुतिगायकों से गाई गई कीर्तिवाला, चारों ओर विहरण करने वाला वसन्तऋतु युवावस्था को प्राप्त हुआ। अर्थात् छोटे २ नये कड़े स्तन वाली किशोरियों के लाल ओठों को चूम लेने में कुशल स्तुतिपाठकों द्वारा कीर्तिगान किए जाने वाले नवयुवक के

( ४३८ ) समान कलियो से युक्त लताओं को नये लाल पत्ते प्रदान करने में कुशल, भौरों की गुंजाहट से कीर्तिगान किया जाने वाला बसन्त युवावस्था को प्राप्त हुआ। सलोलमङ्गीकृतपञ्चबाण-साम्राज्यभारस्य मधोरभङ्गः । एको भुजस्तस्य लवङ्गवायु-रन्यः पिकस्त्रीकलपञ्चमोऽभूत् ॥३६॥ अन्वयः सलीलम् अङ्गीकृतसाम्राज्यभारस्य तस्य मधोः अभङ्गः एकः भुजः लवङ्गवायुः अन्यः पिकस्त्रीकलपञ्चमः अभूत् । व्याख्या लीलया विलासेन सहितं सलील मङ्गीकृतः स्वीकृतः पञ्चबाणस्य कामस्य साम्राज्यभारोऽखिलराज्यशासनभारो येन स तस्य स्वीकृतकामसाम्राज्यभारस्य तस्य प्रसिद्धस्य मधोर्वसन्तस्याऽभङ्गोऽविकलो बलिष्ठ इत्यर्थः । एको भुजो बाहुर्लवङ्गवायुर्दक्षिणानिलोऽन्य इतरो बाहु पिकानां कोकिलानां स्त्रियः कोकिलास्तासां कलः सुन्दरः पञ्चमः पञ्चमस्वरोऽभूत् । एतेन वसन्तस्य कामसाम्राज्ये मन्त्रित्वं प्रतीयते । भाषा खेलवाड से ही कामदेव के साम्राज्य के समग्र कामों को करने का स्वीकार करने वाले उस वसन्त ऋतु का एक बलवान् हाथ दक्षिणानिल था और दूसरा हाथ कोयल का सुन्दर पञ्चम स्वर था । अर्थात् काम के राज्य में वसन्त ही प्रधान मन्त्री था जो दक्षिणानिल तथा कोकिला के पञ्चम स्वर का प्रयोग कर उसका साम्राज्य चलाता था । राशीकृताः पुष्पपरागपुञ्जाः पदे पदे दक्षिणमारुतेन । मत्तस्य चैत्रद्विरदस्य कर्तु-मक्ष्णूष्णहेतोरिव पांसुतल्पान् ॥४०॥ अन्वयः दक्षिणमारुतेन पदे पदे मत्तस्य चैत्रद्विरदस्य अक्ष्णूष्णहेतोः पांसुतल्पान् कर्तुम् इव पुष्पपरागपुञ्जाः राशीकृताः ।

( ४३९ ) व्याख्या दक्षिणमारुतेन मलयानिलेन पदे पदे स्थाने स्थाने मत्तस्य मदान्धस्य चैत्र एव द्विरदो गजः ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपोगजः' इत्यमरः। तस्याऽ- क्षूणहेतोरक्षूण१ विश्रामः सततपरिश्रमेण समागतक्लान्तिरूपन्यूनताया दूरीकरणार्थं विश्रान्तिरित्यर्थः। स एव हेतुः कारणं तस्मात् पासवो धूलय एव तल्पानि शय्याः ‘तल्पं शय्यादृदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्' इत्यमरः। तानि कर्तुमिव विधातुमिव पुष्पाणां कुसुमानां परागस्य रजस पुञ्जास्समूहा राशीकृता एकत्री- कृता। वसन्ते परागस्याऽऽधिक्यं भवति स च मलयमारुतवेगेनेकत्रीभवति श्रम- निवारणार्थं मत्तचैत्रगजस्य तल्पताञ्च प्राप्नोतीति भावः। भाषा दक्षिणानिलने स्थान स्थान पर मदोन्मत्त चैत्र रूपी हाथी के विश्राम के निमित्त धूलि की कोमल शय्या बनाने के लिये मानो पुष्प की धूलि को एकत्र किया। लग्नद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः कुसुमं नवीनम् । आसादयामास वसन्तमास-जन्मोत्सवे मङ्गलशङ्खलीलाम्२ ॥४१॥ अन्वयः वसन्तमासजन्मोत्सवे लग्नद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः नवीनं कुसुमं मङ्गलशङ्खलीलाम् आसादयामास। व्याख्या वसन्तमासस्य मधुमासस्य जन्मन उत्सवतस्मिन्, लग्नाः संश्लिष्टा द्विरेफा

१ सन्नामु धातुरूपाणि प्रत्ययाश्च तत परे । कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु ॥ 'क्षू' गतो--आदादिकधातोर्भावे क्तङ् प्रत्यये बाहुलकाद्दीर्घे नञ्समासे 'अक्षूण' शब्दो निष्पन्न । न क्षूणमक्षूण गत्यवरोधो विश्राम इत्यर्थ । २ उक्त साहित्यदर्पणे— मल्लिकासुकुले चण्डि ! भाति गुञ्जन्मपुव्रत । प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥

( ४४० ) भ्रमरास्तेषां ध्वनिभिश्शङ्कारैः पूर्यमाणं परिपूरितं वासन्तिकाया माधवीलताया नवीनं प्रत्यग्रं कुसुमं पुष्पं मङ्गलशङ्खस्य माङ्गलिककार्यचिन्हभूतशङ्खस्य लीलां विलासमासादयामास संप्राप। कथमम्यस्य लीलामम्यः कर्तुमर्हतीति लीलासद्दशीं लीलामिति पर्यवसितेऽर्थे सति पदार्थनिदर्शनालङ्कारः। 'अभवन्वस्तुसम्बन्ध उपमापरिकल्पकः' इति लक्षणात्। भाषा बसन्त मास के जन्मोत्सव के अवसर पर छाए हुए भौरों की गुञ्जार से भरा जाने वाला (बजाया जाने वाला) माधवीलता का पुष्प, माङ्गलिक अवसरों पर बजाए जाने वाले शङ्ख की शोभा को प्राप्त हुआ। गते हिमर्तौ ध्रुवमुष्णखिन्नः शीतोपचारं मलयः सिषेवे। यदाजगाम व्यजनोपमानां समीरश्चन्दनपल्लवानाम् ॥४२॥ अन्वयः हिमर्तौ गते उष्णखिन्नः मलयः ध्रुवं शीतोपचारं सिषेवे। यत् व्यजनोपमानां चन्दनपल्लवानां समीरणः आजगाम। व्याख्या हिमः शीत ऋतुरिति हिमर्तुस्तस्मिन् गते व्यतीते सति, उष्णेनोष्मणा खिन्नः संतप्तो मलयो मलयगिरिः ध्रुवं निश्चयेन शीतोपचारं ग्रीष्मनिवारकं शैत्योत्पादकं साधनं सिषेवे सेवितवान्। यद्यस्मात्कारणाद्वयजनमेवोपमानं येषां ते व्यजनो- पमास्तेषां तालवृन्तसमानानां चन्दनपल्लवानां श्रीखण्डकिसलयानां समीरणो वायु- राजगाम संचचाल। चन्दनपल्लवस्य शैत्यात्तत्सम्पर्काद्वायोरपि शैत्यजनकत्व- मिति भावः। भाषा हेमन्त व शिशिर ऋतुओ के बीत जाने पर गरमी से खिन्न मलयपर्वत, निश्चय ही शीतोपचार का सेवन करने लगा। क्योकि पङ्खों के समान चन्दनवृक्ष के कोमल पत्तों का वायु बहने लगा। अर्थात् गर्मी से पीडित होकर जन साधारण पंखा चला कर अपनी गर्मी दूर करते हैं। मलय पर्वत ने चन्दन के पत्तों से हवा लेकर अपनी गर्मी शान्त की।

( ४४१ ) मनस्विनीनां मनसोऽवतीर्य मानस्य वेगेन पलायितस्य । जीवग्रहायेव वसन्तमित्रं बभ्राम वायुः ककुभां मुखानि ॥४३॥ अन्वयः वसन्तमित्रं वायुः मनस्विनीनां मनसः अवतीर्य वेगेन पलायितस्य मानस्य जीवग्रहाय इव ककुभां मुखानि बभ्राम । व्याख्या वसन्तस्य वसन्तर्तोर्मित्रं सुहृद्वायुर्दक्षिणानिलः प्रशस्तं मनो यासां ता मनस्वि- न्यस्तासां मनस्विनीनां मानिनीनां मनसो हृदयादवतीर्य निष्क्रम्य वेगेन जवेन पलायितस्य प्रधावतो गच्छत इत्यर्थः । मानस्याऽहङ्कारस्य जीवस्य प्राणानां ग्रहाय ग्रहणाय इव प्राणवधार्थमिवेत्यर्थः । ककुभां दिशां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्चता.' इत्यमरः । मुखानि मण्डलानि बभ्राम चचारान्वेष्टुं गतवानित्यर्थः । दक्षिणानिलेन मानवतीनां मानो दूरीभवतीति भावः । उत्प्रेक्षालङ्कारः । भाषा वसन्तऋतु का मित्र दक्षिणानिल, मानवती स्त्रियों के मन में से निकल पर वेग से भाग चलने वाले मान का प्राणान्त करने के लिये मानो उसकी खोज में सब दिशाओं में घूमने (बहने) लगा । अर्थात् दक्षिणानिल के लगते ही मानवती का मान एक दम दूर हो जाता है । वियोगिनीनामवशान्लुलोठ कण्ठेषु लीलाकलपञ्चमो यः । तेनैव चक्रे मदनस्य कार्यं पुण्यैर्यशोऽभृत्पिकपञ्चमस्य ॥४४॥ अन्वयः अवशात् वियोगिनीनां कण्ठेषु यः लीलाकलपञ्चमः लुलोठ तेन एव मदनस्य कार्यं चक्रे । पुण्यैः पिकपञ्चमस्य यशः अभूत् । व्याख्या अवशात्प्रियविरहवेदनया मनसोऽसामर्थ्यात् स्वशरीरचेष्टायाः पारतन्त्र्या- द्वियोगिनीनां विरहिणीनां कण्ठेषु गलेषु यो लीलया विलासेन कलः मधुरः पञ्चमः

( ४४२ ) पञ्चमस्वरो लीलाकलपञ्चमो सुलोठ समुच्चारितस्तेनैव तासां कण्ठस्थित- पञ्चमस्वरेणैव मदनस्य कामस्य कार्यं सर्वलोकविजयात्मकं चक्रे अकारि । पुण्यैस्सुकृतैरेव पिकपञ्चमस्य कोकिलपञ्चमस्वरस्य यशः कीर्तिरभूत् बभूव । कोकिलपञ्चमस्वरस्य यत्कामोद्दीपनात्मकं कार्यं तद्वियोगिनीकण्ठगतपञ्चमस्वर- निनादेनैव सम्पादितम् । परन्तु प्रसिद्धिवशात् पुराकृतपुण्यैः कोकिलपञ्चमस्व- रस्यैव तद्विषये यशो जातम् । भाषा विरहजन्य पीडा जनित असामर्थ्य से विरहिणियो के गलों में से जो विलास से भरा सुन्दर पञ्चम स्वर निकलता है वही कामदेव के सब कामोद्दोपक कार्यों को करता है । किन्तु प्रसिद्धि के कारण उसका यश, पुरातन सुकृतो से, कोयल के पञ्चम स्वर को प्राप्त हुआ है । पदातिसंवर्गणकारणेन पदे पदे चम्पकराशिभङ्ग्या । वसन्तसामन्तविकीर्यमाणं हेमेव रेजे स्मरपार्थिवस्य ॥४५॥ अन्वयः पदे पदे चम्पकराशिभङ्ग्या स्मरपार्थिवस्य पदातिसंवर्गणकारणेन वसन्तसामन्तविकीर्यमाणं हेम इव रेजे । व्याख्या पदे पदे स्थाने स्थाने 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । चम्पकराशिभङ्ग्या चम्पकपुष्पसमूहव्याजेन स्मरः काम एव पार्थिवस्तस्य कामनृपतेः पदातीनां कामसैनिकानां संवर्गणमावर्जनमाकर्षणमित्यर्थः । तस्य कारणेन वसन्त एव सामन्तस्सहायकनृपस्तेन मन्त्रिणेत्यर्थः । विकीर्यमाणं पुरस्काररूपेण दीयमानं हेमेव सुवर्णमिव रेजे शुशुभे । सापह्नवोत्प्रेक्षालङ्कारः । भाषा स्थान स्थान पर, कामदेव की पैदल सेना के लिये, चम्पे के फूलो के ढेर के मिष से, मानो वसन्त रूपी सामन्त राजा अर्थात् मन्त्री के द्वारा पुरस्कार के रूप में दिया जाने वाला सोना ही शोभित हो रहा था ।

( ४४ ) व्याख्या त्रयाणां लोकानां समाहारस्त्रिलोकी त्रिभुवनं तस्यां विलासिन्यश्च विला- सिनश्चेति विलासिनस्तेषां विलासिनां 'पुमान् स्त्रिया' इत्येकशेषः । काम- विलासयुक्तानामन्योन्यस्य परस्परस्य लीलायां कामक्रीडायां भुजबन्धनानि बाहुबन्धनानि तेषु कामक्रीडाबाहुबन्धनविशेषेष्व्वादिगुरुः प्रथमाचार्यो हठात्प्रवर्तकः, नितरां कामोद्दीपकत्वात् । उत्तम्भितौ युद्धाह्वानायोत्थापितौ, अशोकश्च पला- शश्चाशोकपलाशावेव पाणी येन सः चैत्र एव मल्लो वीरश्चैत्रमल्लः प्रतिमल्लं प्रतिपक्षवीरं न आप युद्धार्थं न प्राप । चैत्रमासः सर्वोत्कृष्टत्वेन कामिनामुद्दीपकः । तेन तुल्यः कोऽपि नैत्यर्थः । भाषा तीनो भुवनो में काम विलास से युक्त प्राणियो को परस्पर कामक्रीडा में भुजबन्ध की शिक्षा देने वाला, आदि गुरु, और अशोक और पलास रूपी दोनो हाथों को उठाकर युद्ध के लिये ललकारने वाले चैत्र मास रूपी योद्धा को लडने के लिये कोई विपक्षी योद्धा न मिल सका । अर्थात् चैत्र मास में कामोद्दीपक अशोक और पलास के वृक्षो को देख कर सभी प्राणी कामासक्त हो जाते हैं और चैत्र के प्रभाव से कोई भी वञ्चित नही रह सकता । पुरन्ध्रिगण्डूषसुराभिलापं पश्यन्नशोको बकुलद्रुमस्य । प्रियप्रियापादतलप्रहार–मात्मानमल्पव्यसनं विवेद ॥४८॥ अन्वयः बकुलद्रुमस्य पुरन्ध्रिगण्डूषसुराभिलापं पश्यन् अशोकः प्रियप्रियापाद- तलप्रहारम् आत्मानम् अल्पव्यसनं विवेद । व्याख्या बकुलद्रुमस्य केसरवृक्षस्य 'अथ केसरे । बकुलो वञ्जुलोऽशोके' इत्यमरः । 'मौलसरी' इति भाषायाम् । पुरन्ध्रीणां कामिनीनां गण्डूषस्य या सुरा मुखवर्ति मद्यं तस्याऽभिलाषमिच्छां पश्यन्निरीक्षमाणोऽशोकः अशोकद्रुमः प्रियोऽभीष्टः प्रियायाः कान्तायाः पादतलस्य चरणतलस्य प्रहारस्ताडनं यस्य स तमात्मानं स्वमल्पं क्षुद्रं न्यूनं वा व्यसनं प्रवृत्त्या प्रियवस्तु यस्य स तमल्पव्यसनं विवेद ज्ञातवान् । कान्तामुखोच्छिष्टमद्याभिलाषस्य निन्दितत्त्वात्तदपेक्षया कान्तापादतलप्रहारस्याल्प-

( ४४५ ) व्यसनत्वं, तत्र कामिनीस्पर्शजनितसुखानुभवश्चेति भावः। 'पादाघातादशोकं विकसति बकुलं योषितामास्यमधैः' इति कविसमयः। भाषा मोलसरी के वृक्ष की, (फूलने के लिये) कामिनी के शराब के कुल्ले की अभिलाषा को जानने वाला अशोक वृक्ष, (अपने फूलने के लिये) कामिनी के पाद प्रहार की अभिलाषा रखने वाले अपने को अपेक्षाकृत कम व्यसनी समझने लगा। अर्थात् अपने ऊपर झूठी शराब के थूके जाने से कामिनी की लात खा लेना अच्छा है ऐसा समझने लगा। क्योकि उसमें कामिनीस्पर्शजनित सुखानुभूति होती है। चूतद्रुमालीभुजपञ्जरेण रणद्विरेफावलिकङ्कणेन। मित्रं मधुः कोकिलमञ्जुनाद-पूर्वाभिभाषी स्मरमालिलिङ्ग ॥४६॥ अन्वयः मित्रं कोकिलमञ्जुनादपूर्वाभिभाषी मधुः रणद्विरेफावलिकङ्कणेन चूतद्रुमालीभुजपञ्जरेण स्मरम् आलिलिङ्ग। व्याख्या मित्रं सुहृत् 'अथ मित्रं सखा सुहृत्' इत्यमरः। कोकिलानां पिकानां मञ्जुनादः प्रियध्वनिः पूर्वो यस्मिन्कर्मणि तत् कोकिलमञ्जुनावपूर्वं यथास्यात्तथा- भिभाषते स्वागतं वदतीति अथवा कोकिलनादेन पूर्वाभिभाषी प्रथमस्वागतकर्ता मधुर्वसन्तो रणन्तो झङ्कारशब्द कुर्वन्तो द्विरेफाः भ्रमरास्तेषामावलिः पद्धतिः 'वीथ्यालिरावलिः पक्तिः श्रेणी लेखास्तु राजयः' इत्यमरः। एव कङ्कणं यस्य स तेन भ्रमरपङ्क्तिरूपकङ्कणयुक्तेन चूतद्रुमाणां सहकारवृक्षाणामावलिः पंक्तिरेव भुजपञ्जरं बाहुपिञ्जरं बाहुपाश इत्यर्थः। तेन सहकारवृक्षावलिरूपबाहुपाशेन स्मरं काममालिलिङ्ग परिरब्धवान्। मधौ मित्रत्वारोपश्चूतद्रुमाल्यां भुजपञ्ज- राद्यारोपो रणद्विरेफावल्यां कङ्कणत्वारोपश्च स्मरकर्मकालिङ्गने हेतुरिति रूपकम्। भाषा मित्र तथा कोयल की कोमल कूक से प्रथम स्वागत करने वाले वसन्त ऋतु ने गुंजार करने वाले भौरों की कतार रूपी कंगन वाले आम के पेड़ों की कतार रूपी बाहुपाश में कामदेव का आलिङ्गन किया।

( ४४६ ) उन्निद्रपङ्क्तिस्थितचम्पकानि चकाशिरे केलिवनान्तराणि । वियोगिनीनां कवलीकृतानां सुवर्णकाञ्चीभिरिवाञ्चितानि ॥५०॥ अन्वयः उन्निद्रपङ्क्तिस्थितचम्पकानि केलिवनान्तराणि कवलीकृतानां वियोगि- नीनां सुवर्णकाञ्चीभिः अञ्चितानि इव चकाशिरे । व्याख्या उद्गता दूरीभूता निद्रा संकोचो येषां तान्युन्निद्राणि विकसितानि पंक्तीषु श्रेणीषु स्थितानि विद्यमानानि चम्पकानि चम्पककुसुमानि येषु तानि केलिवनानां क्रीडोद्यानानामन्तराणि मध्यभागाः कवलीकृतानां चम्पकादिपुष्पसमृद्धिमता वसन्तेन भक्षितानां हृतानामित्यर्थः । वियोगिनीनां विरहिणीनां सुवर्णकाञ्चीभिः काञ्चनर- शनाभिरञ्चितानि तत्समानपीतवर्णत्वात्समन्वितान्येव चकाशिरे विविद्युतिरे । वसन्ते पतिविरहाद्दशमविरहावस्थां प्राप्तानां मृतानामित्यर्थः । वियोगिनीनां पीतवर्णत्वात्काञ्चनकाञ्चीरूपाणीय चम्पकपुष्पाणि शुशुभिर इति भावः । उत्प्रेक्षालंकारः । भाषा फूले हुए और कतार में लगे पीले चम्पे के फूलो से युक्त क्रीडा कानन के मध्यस्थल, बसन्त ऋतु के कारण पति वियोग से दशम विरहावस्था को प्राप्त अर्थात् मृत वियोगिनियो की मानो सोने की पीली करधनियो के रूप से शोभित हो रहे थे । मर्मव्यथाविस्मयघूर्णमान-मूर्धोच्छलत्कुण्डलविभ्रमेण । शब्दानुसारेण वियोगिनीभिः क्षिप्ताः पिकानामिव कण्ठपाशाः ॥५१॥ अन्वयः वियोगिनीभिः मर्मव्यथाविस्मयघूर्णमानमूर्धोच्छलत्कुण्डलभ्रमेण पिकानां शब्दानुसारेण कण्ठपाशाः क्षिप्ताः । व्याख्या वियोगिनीभिर्विरहिणीभिर्मर्मव्यथायाः कोकिलकूजितश्रवणजनितमार्मिकवेद- नाया विस्मयेनाऽऽधिक्येनाऽथवा विस्मयो लोकसीमातित्वतित्वं तेन 'विविधेषु

( ४४७ ) पदार्थेषु लोकसीमातिवर्त्तिषु । 'विस्तारश्चेतसो यस्तु स विस्मय उदाहृत' इति साहित्यदर्पणे । घूर्णमानेभ्यो भ्रमद्रूपेभ्यो मूर्द्धभ्यो मस्तकेभ्य उच्चलतान्यूर्ध्वं गच्छन्तो कुण्डलानो कर्णभूषणानि विभ्रमेण व्याजेन पिकानां कोकिलानां शब्दस्य रवस्यानुसारोऽनुसरणं तेनाऽमुकहणान्त शब्द समायातीत्यनुमानेन तेषां बन्धनाय कण्ठपाशा कण्ठरज्जय इव क्षिप्ता मुक्ता । पिकस्वराणां पीडादाय- कत्वेन पिकानां बन्धनार्थं विरहिणीभि कर्णभूषणचक्रमणव्याजात्पाशा क्षिप्ता इयेति भावः । अत्रापन्हुतिरलङ्कारः ।

भाषा वियोगिनिओ ने कोकिल के शब्दो को सुन कर मार्मिक वेदना के आधिक्य से मस्तको को सतत हिलाने से ऊपर गोलाकार रूप में हिलने वाले कर्णभूषणो के मिष से मानो कोयल के शब्दो का अनुसरण कर उनके गलो को बाध कर उनका प्राणान्त करने वाले पाशा को छोडा ।

उद्दर्शयन्किंशुकपुष्पसूचीः सलीलमाधूतलतारुशाग्रः । वियोगिनां निग्रह्णाय सज्जः कामाज्ञया दक्षिणमारुतोऽभूत् ॥५२॥

अन्वयः किंशुकपुष्पसूचीः उद्दर्शयन् सलीकम् आधूतलताकशाग्रः दक्षिण- मारुतः कामाज्ञया वियोगिना निग्रह्णाय सज्जः अभूत् ।

व्याख्या किंशुकपुष्पाणि पलाशकुसुमान्येव सूचय स्ताः (कर्म) किंशुकपुष्पसूची रुद्दर्शयन्नुद्भवन् लीलया विलासेन सहितं सलीलं यथायत्तथा आधूतं कम्पितं लतैव कशा तस्या अग्र येन स दक्षिणमारुतो मलयपवन कामस्य मकरध्वजस्या- ऽऽज्ञयाऽनुशासनेन वियोगिन्यश्च वियोगिनश्चेति वियोगिनस्तेषां वियोगिनां 'पुमान्स्त्रियायेकशेष' । निग्रहणाय शासनाय सज्ज उद्यत सन्नडोऽभूत् । यथा शठरथबलीवर्दप्रेरणाय सूचीकशाद्यो प्रयोग क्रियते तथैव कामाज्ञया कामिजन- पीडनाय वसन्तेन किंशुकपुष्पलतायो प्रयोग कृत इति भाव । अत्र रूपका- लङ्कार ।

भाषा पलाश के फूल रूपी काँटे को लिए हुए विलास से लता रूपी कोड़े

( ४४८ )

या चाबुक के अग्रभाग को हिलाने वाला दक्षिण वायु, कामदेव की आज्ञा से, वियोगी और वियोगिनिओ पर शासन करने के लिए तयार हो गया। गाड़ी के बैल को हांकने के लिये चाबुक और चाबुक के दण्डे में एक काँटा भी लगा रहता है जिससे गाड़ीवान बैलों को ठीक चलाता है। उसी प्रकार वियोगी और वियोगिनिओ पर अपना शासन चलाने के लिए काम की आज्ञा से वसन्तऋतु पलाश का फूल रूपी कांटा और लता रूपी चाबुक लेकर, तयार हो गया। प्रसूननाराचपरम्पराभिर्वर्षत्सु योधेष्विव पादपेषु । वसन्तमत्तद्विरदाधिरूढः प्रौढत्वमाप स्मरभूमिपालः ॥५३॥ अन्वयः योधेषु इव पादपेषु प्रसूननाराचपरम्पराभिः वर्षत्सु (सत्सु) वसन्त- मत्तद्विरदाधिरूढः स्मरभूमिपालः प्रौढत्वम् आप। व्याख्या योधेषु भटेष्विव 'भटा योधाश्च योद्धारः' इत्यमरः। पादपेषु वृक्षेषु प्रसूनानि पुष्पाण्येव नाराचाः प्रक्ष्वेडना लोहनिर्मितशरास्तेषां परम्परास्ताभिः प्रसूननाराच परम्पराभिर्वर्षत्सु पुष्पबाणधाराः पातयत्सु सत्सु, पादपेभ्यः पुष्पेपु पतत्स्विति- भावः । वसन्त एव मत्तो मदान्धो द्विरदो गजस्तमधिरूढोऽधिष्ठितः स्मरः काम एव भूमिपालो राजा प्रौढत्वं प्रकर्षमौन्नत्यमित्यर्थं । आप प्राप । पुष्पोद्गमेन बसन्ते कामस्य प्रभावः प्रसृत इति भावः । भाषा योधाओ के समान वृक्षो के पुष्परूपी लोहे के बाणो की वृष्टि करते रहने पर अर्थात् अत्यधिक फूलो के उत्पन्न होकर नीचे गिरते रहने पर वसन्त रूपी मदोन्मत्त हाथी पर सवार कामरूपी राजा उन्नत अवस्था को प्राप्त हुआ अर्थात् काम का साम्राज्य चारो ओर फैल गया। समर्प्यमाणाद्भूतेकौसुमास्त्र-श्चैत्रेण चित्रीकृतकाननेन । अधिज्यधन्वापि पराङ्मुखोऽभून्निषङ्गभारे भगवाननङ्गः ॥५४॥

( ४४९ ) अन्वयः चित्रीकृतकाननेन चैत्रेण समर्प्यमाणाद्भुतकौसुमास्त्रः अधिज्यधन्वा अपि भगवान् अनङ्गः निषङ्गभारे पराङ्मुखः अभूत् । व्याख्या चित्रीकृतमलङ्कृतं विभिन्नवर्णनवीनपुष्पादिनेति भावः । काननं वनं 'अट- व्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । येन स तेन चैत्रेण वसन्तमासे- नेत्यर्थः । समर्प्यमाणं दीयमानमद्भुतं विचित्रं कौसुमं पौष्पमस्त्रं बाणो यस्मै स ज्यां मौर्वीमधिगतमधिज्यं धनुर्यस्य सः समारोपितचापोऽपि भगवान् पूज्योऽनङ्गः कामो निषङ्गभारे तूणीरभारग्रहणे पराङ्मुखो निरभिलाषोऽभूत् । चैत्रेण कानने महान्पुष्परूपबाणराशिरेकत्रीकृतो दत्तश्च कामाय येन बाणसंरक्षणाय तूणीरधारणस्याऽऽवश्यकतैव न जातेति भावः । भाषा जंगलो को रंगबिरंगी फूलों से सुशोभित करने वाले चैत्र से, आश्चर्यजनक फूलों के बाणों को पाकर, धनुष चढ़ाकर रखने वाले भी भगवान् कामदेव, तरकस धारण करने में विमुख रहे । अर्थात् सदैव चैत्र द्वारा पुष्पबाण दिये जाने के कारण धनुष चढ़ाए रहने पर भी तरकस में बाण रखकर उसे पीठ पर लटका रखने की आवश्यकता भगवान् कामदेव को न पड़ी । शृङ्गारिणीमार्जितदन्तपंक्ति-कान्त्येव नियन्त्रणमुच्छलन्त्या । प्रक्षाल्यमानस्य शनैरवापु-रनिन्द्यमिन्दोः किरणाः प्रसादम् ॥५५॥ अन्वयः नियन्त्रणम् उच्छलन्त्या शृङ्गारिणीमार्जितदन्तकान्त्या प्रक्षाल्यमानस्य इव इन्दोः किरणाः शनैः अनिन्द्यं प्रसादम् अवापुः । व्याख्या नियन्त्रणं निरर्गलमुच्छलन्त्योर्ध्वं प्रसरन्त्या शृङ्गारिणीभिरङ्गनाभिर्माजिता- स्स्वच्छीकृता धवलीकृता इत्यर्थः । दन्ता दशनास्तेषां कान्तिस्तया प्रक्षाल्यमानस्य संभाजितस्येव धवलीकृतस्येवेत्यर्थः । इन्दोश्चन्द्रस्य किरणाः कराः शनैः_क्रमशोऽ- निन्द्यं निर्मलं प्रसादं धावल्यमवापुः प्रापुः । उत्प्रेक्षालङ्कारः । २९