विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ६१ ) यस्य प्रतापेन कदर्य्यमानाः प्रत्यर्थिभूपालमहामहिष्यः । अन्वस्मरंश्चन्दनपङ्किलानि प्रियाङ्कपालीपरिवर्त्तनानि ॥८०॥ अन्वयः यस्य प्रतापेन कदर्य्यमानाः प्रत्यर्थिभूपालमहामहिष्यः चन्दनपङ्किलानि प्रियाङ्कपालीपरिवर्त्तनानि अन्वस्मरन् । व्याख्या यस्य राज्ञो जयसिंहदेवस्य प्रतापेन प्रभावेण कदर्य्यमाना पीडिताः प्रत्यर्थिन प्रतिपक्षारूढत्वे भूपाला राजान 'द्विद्विपक्षारिहितामित्र दस्यु शात्रव शत्रव । अभियाति पराराति प्रत्यर्थि परिपन्थिन' इत्यमर । तेषां महा महिष्यः कृताभिषेकाः स्त्रियश्चन्दनेन पङ्किलानि पङ्कः कर्दमस्तत्सञ्जात एषु इति पङ्किलानि चन्दनकर्दमयुक्तानि प्रियाणाम् स्वपतीनामङ्कपाल्येष्वङ्कधारेणेषु परिवर्त्तनानि तत्र स्वाङ्ग-परिवर्तन-जनित-सुखान्वन्वस्मरन् । साम्प्रतं प्रतापोष्मणा सन्तप्ता अरिमहिष्यो भूतकालिकचन्दनपङ्कलिप्तस्वपत्यङ्कसंत्यावभव-सुखं स्मरन्ति स्मेत्यर्थः । महिषीशब्दस्य श्लिष्टत्वाद्यथा महिष्यो निदाघे संतापार्थे पङ्के लुठन्ति तथैवैता राजस्त्रिय पराजयात्पूर्वं संतापार्थे स्वपत्यङ्के लिप्तचन्दन-पङ्केषु लुठन्ति स्मेति । चिन्तामूलकस्य स्मरणस्य सद्भावात्र स्मरणालङ्कार । यत सादृश्य- मूलकस्यैव तस्याऽलङ्कारत्वम् । भाषा जिस राजा जय सिंह देव के प्रताप की गर्मी से संतप्त विपक्षी राजाओं की रानियाँ ठंडक पाने की इच्छा से अपने प्रिय पति के चन्दन से लिप्त गीली गोद में पड़कर करवटें लेने का स्मरण करती थी । (गर्मी में जैसे भैंसें किचड़ में लोट पोट करना पसंद करती हैं वैसे ये रानियां भी गर्मी में अपने पतियों की चन्दन के अधिक लेप से गीली गोद में ठंडक पाने के लिये लोट पो किया करती थीं । परन्तु अब पतियों के मर जाने से ये रानियां इस राजा के प्रताप की गर्मी से संतप्त होकर उसका केवल स्मरण करती थीं । (महिष शब्द के श्लिष्ट होने से यह अर्थ निकलता है । महिषा माने रा- तथा भैंस ।)
( ६२ ) प्रतापभानौ भजति प्रतिष्ठां यस्य प्रभातेष्विव संयुगेषु । सूर्योपलानाभिव पार्थिवानां केषां न तापः प्रकटीबभूव ॥८१॥ अन्वय प्रभातेषु इव संयुगेषु यस्य प्रतापभानौ प्रतिष्ठां भजति (सति) सूर्योप- लानाम् इव केषां पार्थिवानां तापः न प्रकटीबभूव । व्याख्या प्रभातेषु प्रत्यूषेषु प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसोऽपि प्रभातं चेत्यमरः । इव संयुगेषु युद्धेषु यस्य राज्ञो जयसिंहदेवस्य प्रताप एव भानुस्सूर्यस्तस्मिन् प्रतिष्ठां भजति विद्योतमाने सति सूर्योपलानाभिव सूर्यकान्तमणीनामिव केषां पार्थिवानां विपक्षिनृपाणां तापस्सन्तापः सञ्ज्वलनं न प्रकटीबभूव किन्तु सर्वेषां विपक्षिणां सन्तापो जात एव । अत्र प्रतापे भानुत्वारोपाद्रूपकम् । प्रभात संयुगयोः सूर्योपलपार्थिवयोश्चोपमा । केषां न प्रकटीबभूवेत्यर्थापत्तिश्चेति परस्परसापेक्षत्वादेतेषां सङ्करः । भाषा प्रातःकाल के सदृश युद्ध में, सूर्य के सदृश उस राजा जयसिंहदेव के प्रताप के विद्यमान होने पर सूर्य मणियों के समान किन राजाओं में सन्ताप प्रकट न हुआ ? अर्थात् सब राजा इसके प्रताप से सन्तप्त हो गये । यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री । आर्द्रव्रणाधिष्ठितपृष्ठपीठ-मकर्मठं कूर्मपतिं चकार ॥८२॥ अन्वय. यस्य यात्रासु ध्वजिनीभरेण दोलायमाना सकला धरित्री आर्द्रव्रणा- धिष्ठितपृष्ठपीठं कूर्मपतिं अकर्मठं चकार । व्याख्या यस्य राज्ञो जयसिंहदेवस्य यात्रासु युद्धयात्रासु ध्वजिन्याः सेनाया ‘ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमू' इत्यमरः । भरेण भारेण दोला इवाऽऽ- चरतीति दोलायमाना सञ्चालिता सकला समग्रा ‘समग्रं सकलं पूर्णम’ इत्यमरः ।
( ६३ ) धरित्री पृथ्व्याऽऽक्रन्दनेन पृथिवी-सञ्चलनजन्य-सङ्घर्षणोत्पन्ननूतनव्रणेनाऽधिष्ठितं युक्तं पृष्ठपीठं पृष्ठभागो यस्य तं कूर्माणां पतिं श्रेष्ठं विष्णुद्वितीयावतारं पृथिव्या आधारभूतेन स्थितं कच्छपपतिमकर्मठं निष्क्रियं 'कर्मशूरस्तु कर्मठः' इत्यमरः । किं-कर्त्तव्यता-विमूढं चकार कृतवती । भाषा जिस राजा जयसिंहदेव की युद्धयात्राओं में, चली सेना के बोझ से डगमगाने वाली समग्र पृथ्वी ने, (अपनी रगड़ से उत्पन्न) ताजे घावों से भरी पीठवाले विष्णु भगवान् के दूसरे अवतार कच्छपराज को घबड़ाहट में डाल दिया। किरीटमाणिक्यमरीचीवीचि-प्रच्छादिता यस्य विपक्षभूपाः । चिताग्निभीत्या समराङ्गनेषु न संगृहीताः सहसा शिवाभिः ॥८३॥ अन्वयः यस्य किरीटमाणिक्यमरीचीचीचिप्रच्छादिताः विपक्षभूपाः समराङ्गनेषु शिवाभिः चिताग्निभीत्या सहसा न संगृहीताः । व्याख्या यस्य राज्ञः, किरीटेषु मुकुटेषु माणिक्यानि मणयस्तेषां मरीचीनां किरणानां वीचिभिस्तरङ्गैः प्रच्छादिता आवृता विपक्षभूपा विपक्षनृपाः समराङ्गनेषु युद्ध- भूमिषु शिवाभिः शृगालीभिः देदीप्यमानत्वाच्चिताग्निभीत्या चिताग्निबुद्ध्या भयेन सहसा झटिति न संगृहीता न भक्षणार्थं परिगृहीताः । माणिक्यमरीचिषु चिताग्निप्रतिपादनाद्भ्रान्तिमानलङ्कारो व्यङ्ग्यः । भाषा किरीट में लगे हुए मणियों की किरणों की लहरों से आच्छादित, उस जयसिंह देव राजा के विपक्षी मृत राजाओं को, युद्धभूमि में सियारियों ने, उस चमक को चिता की आग समझ कर, डर से शीघ्र ग्रहण नहीं किया अर्थात् नहीं खाया । यात्रासु दिक्पालपुरीं विलुण्ठ्य न दिग्गजान्केवलमंग्रहीद्यः । पलायितास्ते जयसिन्धुराणां गन्धेन सप्तच्छदवान्धवेन ॥८४॥
( ६४ ) अन्वयः यः यात्रासु दिक्पालपुरीं विलुण्ठय दिग्गजान् केवलं न अग्रहीत्। (यतः) ते जयसिन्धुराणां सप्तच्छदगान्धवेन गन्धेन पलायिताः। व्याख्या यो नृपो जयसिंह देवो यानासु युद्धयात्रासु दिक्पालानां दिगीशानां पुरीं नगरीं, अत्र वचनमविवक्षितम्। विलुण्ठ्य लुण्ठयित्वा दिग्गजान् केवलं नाऽग्रहीत्। दिग्गजान्विहाय सर्वाणि वस्तुजातान्यग्रहीदित्यर्थः । यतस्ते दिग्गजा जय- सिन्धुराणां विजयहस्तिनां सप्तच्छदस्य वृक्षविशेषस्य 'सप्तपर्णो विशालत्वक् शारदो विषमच्छदः' इत्यमरः । बान्धवस्समानस्तेन गन्धेन मदगन्धेन पलायिताः कान्दिशीका जाताः । जयसिन्धुराणा मदगन्धसहनेऽसमर्था दिग्गजा दूरत एव पलायिता इति भावः । भाषा वह राजा अपनी दिगन्त युद्ध यात्राओ में दिक्पालो की पुरियो को लूटकर केवल दिग्गजो को नही पा सका । क्योकि वे दिग्गज इस राजा के विजयी हाथियो के सप्तपर्ण वृक्ष के समान गन्धवाले मद की गन्ध से डरकर भाग गये थे । अपारवीरव्रतपारगंस्य पराङ्मुखा एव सदा विपक्षाः । अधिज्यचापस्य रणेषु यस्य यशः परं सम्मुखमाजगाम ॥८५॥ अन्वयः अपारवीरव्रतपारगस्य अधिज्यचापस्य यस्य रणेषु विपक्षाः सदा पराङ्मुखाः एव परं यशः सम्मुखम् आजगाम । व्याख्या अपारं दुर्गमं यत् वीराणां व्रतं तस्य पारं गच्छतीत्यपारवीरव्रतपारगस्तस्य पूर्णवीरव्रतपारिणो ज्यामधिगत इति अधिज्यश्चापो धनुर्यस्य स तस्य यस्य राज्ञो जयसिंहदेवस्य रणेषु युद्धेषु विपक्षाः शत्रवस्सदा नित्यं पराङ्मुखा एव जाताः पराजिता एवेति न सम्मुखा जाता इति भावः । परं किन्तु यशः कीर्तिः सम्मुख- माजगाम । केवलं कीर्तिस्तु सम्मुखा शत्रवस्तु पराङ्मुखा एव ।
( ६५ ) भाषा युद्धक्षेत्र में असीम वीरव्रत में पारङ्गत, चढ़ी कमानवाले धनुष को धारण करने वाले उस राजा के सामने से शत्रु लोग पराङ्मुख होते थे किन्तु कीर्ति उसके सम्मुख आती थी । यशोवतंसं नगरं सुराणां कुर्वन्नगर्वः समरोत्सवेषु । न्यस्तां स्वहस्तेन पुरन्दरस्य यः पारिजातस्रजमाससाद ॥८६॥ अन्वयः समरोत्सवेषु अगर्वः यः सुराणां नगरं यशोवतंसं कुर्वन् पुरन्दरस्य स्वहस्तेन न्यस्तां पारिजातस्रजं आससाद । व्याख्या समरा रणा 'अस्त्रियां समरानीक-रणाः कलहविग्रहौ' इत्यमरः । एषूत्स- वास्तेष्वगर्वो दर्परहितो यो जयसिंहदेवः सुराणां देवानां नगरममरावतीसंज्ञकं यश एवावतंसः शिरोभूषणं यस्य 'उत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' इत्यमरः । तम् कुर्वन् सम्पादयन्, स्वर्गपर्यन्तं यशोविस्तृतमिति भावः । पुरन्दरस्येन्द्रस्य स्वहस्तेन निजकरेण न्यस्ता परिधापिता पारिजातस्य देवपुष्पविशेषस्य स्रजं मालामाससाद प्राप्तवान् । भाषा युद्ध रूपी उत्सवों में निरभिमानी, देवों की नगरी अमरावती को अपने यश रूपी शिरोभूषण से सुशोभित करने वाले अर्थात् अपने यश का मुख्य स्थान बनाने वाले राजा ने इन्द्र द्वारा अपने हाथ से पहिनाई हुई पारिजात पुष्प की माला प्राप्त की । इतः परं सर्गान्तमाहवमल्लदेवनामकं राजानं वर्णयति— तस्मादभूदाहवमल्लदेवस्त्रैलोक्यमल्लापरनामधेयः । यन्मण्डलाग्रं न मुमोच लक्ष्मीर्धाराजलोत्था जलमानुषीव ॥८७॥ अन्वयः तस्मात् यन्मण्डलाग्रं धाराजलोत्था लक्ष्मीः जलमानुषी इव न मुमोच (एवम्भूतः) त्रैलोक्यमल्लापरनामधेयः आहवमल्लदेवः अभूत् । ५
( ६६ ) व्याख्या तस्माज्जयसिंहदेवात् तस्य मण्डलाग्र कृपाण 'कौक्षेयको मण्डलाग्र करवालः कृपाणवत्' इत्यमर । धारा जलेन कृपाणधाराजलेनोत्तिष्ठतीति धाराजलोत्था लक्ष्मी विजयलक्ष्मी कृपाणसञ्चालनद्वारा युद्धेषु सर्वन्नृपान्पराजित्य प्राप्ता विजयश्री जलमानुषीव जलोत्पन्नमानुषी यथा जलधारायामेव प्रकटीभवति (ता कदापि न जहाति) तथैव न मुमोच न त्यक्तवती । एवम्भूत स त्रैलोक्यमल्ल एवाऽपर नामधेय यस्य स आहवमल्लदेवो नाम राजा अभूत् । धाराजलो- त्थतक्ष्म्या जलमानुषीसादृश्यप्रतिपादनादुपमा । भाषा जयसिंह देव राजा से आहवमल्लदेव जिसका दूसरा नाम त्रैलोक्यमल्ल था, उत्पन्न हुवा । जिसकी तलवार को तलवार की धार के पानी से उत्पन्न विजयलक्ष्मी, धारा के जल म प्रकट होन वाली जलमानुषी के समान कभी त्याग नहीं करती थी । अर्थात् जल मानुषी जैसे धारा के जल में ही प्रकट होती है वैसे विजय लक्ष्मी उस राजा की तलवार की धार के तेज पानी में से शत्रुओं का नाश करन पर प्रकट होती थी । आख्यायिकासीम्नि कथाद्भुतेषु यः सर्गबन्धे दशरूपके च । पवित्रचारित्रतया कवीन्द्रैरारोपितो राम इव द्वितीयः ॥८८॥ अन्वयः यः कवीन्द्रैः आख्यायिकासीम्नि कथाद्भुतेषु सर्गबन्धे दशरूपके च पवित्रचारित्रतया द्वितीयः रामः इव आरोपितः । व्याख्या य आहवमल्लदेव कवीन्द्रै कविश्रेष्ठैराख्यायिकासीम्नि गद्यकाव्य-द्वितीयभे- दारूपायिकामध्ये कथाद्भुतेषु गद्यकाव्यप्रथमभेदरूपाद्भुतकथासु सर्गबन्धे महा- काव्ये दशसु रूपकेषु 'नाटक सप्रकरण भाण प्रहसन डिम । व्यायोग-समव- कारो वीथ्यङ्केहामृगा' इति दशरूपकाणि । च पवित्र पुण्य चारित्र चरित यस्य स तस्य भाव पवित्रचारित्रता तयोज्ज्वलचरित्रेण द्वितीयोऽन्यो राम इव दाशरथिरिवाऽऽरोपितो व्याख्यात । राज्ञि द्वितीयरामत्वेनसम्भावनयोत्प्रेक्षा । महाकविभिरस्य विषये बहवो ग्रन्था लिखिता इति ध्वन्यते ।
( ६७ ) भाषा जिस आहवमल्लदेव राजा के चरित्र को, पवित्र अतएव निष्कलङ्क होने से महाकवियों ने दूसरे दशरथ के पुत्र राम के समान आख्यायिका, अद्भुत कथा, महाकाव्य और नाटकादि दस रूपकों में ग्रथित किया था। अर्थात् जैसे रामचन्द्र का चरित्र महाकवियों ने विभिन्न प्रकार के काव्यों में वर्णित किया है वैसे ही इसका भी चरित्र महाकवियों ने विभिन्न प्रकार के काव्यों में वर्णित किया था। भूपेषु कूपेष्विव रिक्त-भावं कृत्वा प्रपापालिकयेव यस्य । वीरश्रिया कीर्तिसुधारसस्य दिशां मुखानि प्रणयीकृतानि ॥८६॥ अन्वयः यस्य प्रपापालिकया इव वीरश्रिया कूपेषु इव भूपेषु कीर्तिसुधारसस्य रिक्तभावं कृत्वा दिशां मुखानि प्रणयीकृतानि । व्याख्या यस्य - राज्ञ आहवमल्लदेवस्य प्रपा पानीयपालिका 'प्रपा पानीयपालिका' इत्यमरः । तस्याः पालिकयेव जलप्रदानरतया नार्यैव वीरश्रिया धीरलक्ष्म्या कूपेष्विव भूपेषु राजसु कीर्तियशः सुधारस इवामृतरस इव तस्य रिक्तभावं शून्यत्वं विधाय कृत्वा दिशा मुखानि प्रणयीकृतानि स्नेहार्द्रीकृतानि । यथा प्रपापालिका कूपस्थसम्पूर्णजल सर्वदिक्स्थजनान् पाययित्वा तेषां मुखानि प्रसादयति, कूपानि च जलरहितानि करोति तथैव वीरश्रीः सर्वान् विपक्ष-भूपान् कीर्तिशून्यान् विधायाऽस्य कीर्त्या सर्वा दिशो धवलयतिस्म तत्स्थाञ्जनानाऽऽनन्दयतिस्मेतिभावः । वीरलक्ष्म्याः प्रपापालिकासादृश्याद्भूपेषु कूपसादृश्याच्चोपमा । दिगन्त-विश्रान्त- यशा असौ वीर इति भावः । भाषा जिस राजा आहवमल्लदेव की वीरश्री ने पोसरा चलाने वाली स्त्री के समान कूपों के समान भूपों में से अमृत जल के समान यश को निकालते २ उन्हें खाली कर पोसरे पर पानी पीने वालों के मुखों के समान सब दिशाओं के मनुष्यों के मुखों को प्रसन्न कर दिया। अर्थात् आहवमल्लदेव ने वीरता से
( ६८ ) समग्र दुष्ट राजाओ का नाश कर और उन राजाओं की कीर्त्ति नष्ट कर चारो दिशाओ में रहने वाले मनुष्यो को प्रसन्न कर दिया । कौक्षेयकः क्ष्मातिलकस्य यस्य पीत्वातिमात्रं द्विषतां प्रतापम् । आलोड्य बाष्पाम्बुभिराचचाम चोलीकपोलस्थलचन्दनानि ॥६०॥ अन्वयः क्ष्मातिलकस्य यस्य कौक्षेयकः द्विषतां प्रतापम् अतिमात्रं पीत्वा चोलीक- पोलस्थलचन्दनानि बाष्पाम्बुभिः आलोड्य आचचाम । व्याख्या क्ष्मायाः पृथिव्यास्तिलकस्य भूषणस्य यस्य राज्ञ कौक्षेयक कृपाणः 'कौशेयको मण्डलाग्रः करबालः कृपाणवत्' इत्यमरः । द्विषता शत्रूणा प्रताप तेजोऽतिमात्र- मत्यधिकं पीत्वा, शत्रूणा प्रतापं विनाश्येत्यर्थः । चोलीना चोलदेशियनारीणां कपोलस्थलेषु गण्डस्थलेषु शोभार्थं सुखार्थञ्च लिप्ताणर्पितानि चन्दनानि बाष्पा- म्बुभिस्तदीयाश्रुजलैरालोड्य समथ्याऽऽचचाम पीतवान् । कृपाणः प्रतापोष्मणः शान्त्यर्थं चोलस्त्रीबाष्पाम्बुमिश्रितचन्दन पीतवान् । कश्चिदुष्णतानिवारणाय चन्दनमिश्रित जलं शैत्याय रोचत इत्यप्रस्तुतव्यवहारस्य कृपाणव्यवहारे समारो- पात्समासोक्तिरलङ्कारः । 'समासोक्तिः समैर्यंत्र कार्यलिङ्गविशेषणैः । व्यवहार- समारोप प्रस्तुतेऽन्यस्य वस्तुनः' ॥ भाषा जिस पृथ्वीभूषण राजा के खड्ग ने शत्रुओ के प्रताप को पीकर गर्मी होने से चोल देश की नारियो के कपोलो में लगे हुए चन्दन को उनके आँसुओ में घोल कर ठंडक प्राप्त करने के लिए पी लिया । अर्थात् पतियो के मर जाने से उनके कपोलो पर पहिले का लगा चन्दन उनके आसुआ से धुल गया । दीप्रप्रतापानलसन्निधानाद् बिभ्रत्पिपासामिव यत्कृपाणः । प्रमारपृथ्वीपतिकीर्त्तिधारां धारामुदारां कवलीचकार ॥६१॥ अन्वयः यत्कृपाणः दीप्रप्रतापानलसन्निधानात् पिपासां बिभ्रद् इव प्रमारपृथ्वी- तिकीर्तेवारां उदारा धारा कव लीचकार ।
( ६९ ) व्याख्या : यस्य राज्ञः कृपाण खड्गो यत्कृपाण आहवमल्लदेवस्य राज्ञः कृपाणः दीप्तो ष्तम्णन्य प्रतापानलः प्रतापस्याग्निस्तस्य सन्निधानात्सामीप्यात्पिपासा जलं तुमिच्छा विभ्रद्धारयन्निव प्रमारस्य पारमारसञ्ज्ञकराजवंशस्य ये पृथ्वीपतयो राजानस्तेषा कीर्तिधारा यश प्रभारूपामुदारा महतीं धारा धारानगरीरूपां लधारा कवलोचकार जग्राह । धाराशब्देनोभयार्थबोधात् श्लेषालङ्कारः । धाराकवलीकरणे प्रतापानलसन्नियानप्रयुक्तपिपासाधारणस्य हेतृत्वेनोत्प्रेक्षणा- द्धेतूत्प्रेक्षा । भाषा : जिसकी तलवार ने राजा के तीव्र प्रताप रूपी अग्नि के पास रहने से मानो प्यासी होकर परमारवंश के राजाओ की कीर्ति की जलधारा रूपी उन्नत धारानगरी को जलधारा के समान पी लिया अर्थात् जीत लिया । अर्थात् पारमार वंशीय राजाओ की कीर्ति रूपी प्रसिद्ध राजधानी धारा नगरी को अपने हाथ कर लिया । अगाधपानीयनिमग्नभूरि-भूसृत्कुटुम्बोऽपि यदीयखड्गः । भाग्यक्षयान्मालवभर्तुरासीदेकां न धारां परिहर्तुमीशः ॥६२॥ अन्वयः अगाधपानीयनिमग्नभूरिभूसृत्कुटुम्बः अपि यदीयखड्गः भाग्यक्षयात् मालवभर्तुः एकां धारां परिहर्तुं ईशः न आसीत् । व्याख्या अगाधेऽपरिमित्रेऽत्यन्ततीक्ष्णे च पानीये जले खड्गधाराजले च निमग्नमन्तर्गत नष्टं च भूरिभूभृतां बहुपर्वतानामनेकेषाञ्च राज्ञा कुटुम्ब समूहो यशश्च यस्यैवं भूतोऽपि यदीयखङ्गो भाग्यक्षयाद्दौर्भाग्याद्धारानगर्या मालवभर्तुर्मोलवाधीशस्य भोजस्यैकां बेयलामद्वितीयां वा धारा जलधारा धारानगरी च परिहर्तुं त्यक्तुं क्षमस्समर्थो नाऽऽसीत् । यथेन्द्रस्यवप्रहारभीता पर्वता समुद्रस्याऽगाधपानीयै निमग्नास्तथैव यदीयखङ्गागाधधाराजले भूरि राजानो निमग्ना सवृता इत्यर्थ । एवमगाधजलधारासमृद्धोऽपि खड्गो धारानगर्या दौर्भाग्याल्लुब्ध इवै कजलधारा- स्यामद्वितीयाधारानगरीं त्यक्तुं समर्थो नाऽभवदित्यर्थः । बहुमुद्रासम्पन्न एकमुद्रायं न प्रयतते इति लोके प्रसिद्धम् । तथापि दौर्भाग्यात्तस्य सम्भवति ।
( ७० ) भाषा जिस राजा के खड्ग के तीक्ष्ण और अथाह धारा जल में समुद्र में इन्द्र के वज्र के भय से खूब नीचे डुबकी लगाकर छिपे हुवे पर्वतों के समान अन्य राजाओं के कुटुम्बों के निमग्न अर्थात् नष्ट हो जाने पर भी धारा नगरी के दुर्भाग्य से वह खड्ग एव छोटे धारा प्रवाह के समान मालवा के राजा भोज की राजधानी धारा नगरी को न छोड़ सका । अर्थात् अनेक बड़े २ राजाओं को जीत लेने पर भी छोटी सी धारा नगरी को जीतने से वह अपने को न रोक सका । निःशेषनिर्वासितराजहंसः खड्गेन बालाम्बुदमेचकेन । भोजक्ष्माभृद्भुजपञ्जरेऽपि यः कीर्तिहंसीं विरसीचकार ॥६३॥ अन्वयः बालाम्बुदमेचकेन खड्गेन निःशेषनिर्वासितराजहंसः यः भोजक्ष्मा- भृद्भुजपञ्जरे अपि कीर्तिहंसीं विरसीचकार । व्याख्या बालाम्बुद नूतनमेघो कृष्णवर्णमेघस्तद्वन्मेचकेन श्यामेन खड्गेन कृपाणेन निशेष यथा स्यात्तथा निर्वासिता स्वनिवासाद्बहि कृता राजहंसा राजानो हंसा इवेति राजहंसा राजश्रेष्ठा पक्षे मानस प्रापिता राजहंसपक्षिणो येन स । य आहवमल्लदेवो नाम राजा भोजनामा क्ष्माभृद्राजा तस्य भुज पञ्जर इव तस्मिन् सर्वसुखसामग्रीनिधानेऽपि कीर्तिरूपिणीं हंसीं पतिवियोगाद्विरसीचकार दुःखसागर- निमग्नां चकार । भोजराज कीर्तिरपि निराधारा सती दुःखिता जाता । वर्षा काले मानसं यान्ति हंसा इति प्रसिद्धयनुरोधान्मेघान्विलोक्य हंसा स्वस्थानं त्यजन्ति मानसाञ्च गच्छन्ति । बालाम्बुदेन खड्गस्य सादृश्यादुपमा । राजसु राजहंसपक्षिणामभेदारोपात्कीर्तौ हंस्या अभेदारोपाद्भोजराजभुजे पञ्जराभेदा- रोपाच्च सावयवरूपकम् । भाषा जिसने नवीन मेघ के समान कृष्णवर्ण खड्ग से समस्त राजारूपी राजहंसों को भगा दिया था (मेघों को देखकर हंसपक्षी मानस सरोवर चले जाते हैं ऐसी प्रसिद्धि है) उसने भोजराजा के भुजारूपी पिंजड़े में सुरक्षित उसकी कीर्तिरुपी
( ७१ ) हंसी को (पति वियोग से) उदास कर दिया । अर्थात् भोजराजा की कीर्ति को भी कलङ्कित कर दिया । भोजक्ष्मापालविमुक्तधारा-निपातमात्रेण रणेषु यस्य । कल्पान्तकालानलचण्डमूर्तिश्चित्रं प्रकोपाग्निरवाप शान्तिम् ॥६४॥ अन्वयः यस्य रणेषु कल्पान्तकालानलचण्डमूर्तिः प्रकोपाग्निः भोजक्ष्मापाल- विमुक्तधारानिपातमात्रेण शान्तिम् अवाप (इति) चित्रम् । व्याख्या यस्य राज्ञो रणेषु युद्धेषु कल्पान्तस्य प्रलयस्य यः कालानलः सर्वभस्म- सात्कारिप्रचण्डाग्निस्तद्वच्चण्डोग्रा मूर्तिः स्वरूपं यस्य सः 'संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि' इत्यमरः । प्रकोपाग्निः क्रोधानलो भोजएव क्षमापालो नृपस्तेन विमुक्ता त्यक्ता पक्षे प्रवाहिता धारानगरी खङ्गधारा जलधारा च तस्या निपातेन पतनेन प्रवाहेण च शान्तिमवाप प्रापेति चित्रमद्भुतम् । यथा जल- धारयाऽग्निः शान्तिमेति तथैव धारानगरीविजयेन राज्ञ क्रोध शान्तिमगादित्यर्थः । कल्पान्तकालानलेन प्रकोपाग्नेस्सादृश्यादुपमालङ्कारः । श्लिष्टेन धारापदेन जल- धाराया धारानगर्याः खङ्गधारायाश्च ग्रहणादत्र श्लेषोऽलङ्कारः । यथा प्रल- याग्निर्भोजनृपविसृष्टजलधारानिपातमात्रेण शान्तिमाप्तुं कदापि न शक्नोति तथैव प्रलयाग्निसदृशप्रचण्डकोपाग्निरपि भोजप्रयुक्त खङ्ग-धारारूपधारानलेन न शान्तिमाप्तुं प्रभवति परञ्चाऽत्र स शान्तिमाप इति विरोधः । धारापदेन धारानगर्या विमर्शेन विरोधपरिहार इति विरोधाभासालङ्कारः । भाषा जिस राजा की, युद्धों में प्रलय कालीन आग के भयंकर स्वरूप वाली क्रोधाग्नि, राजा भोज द्वारा चलाई हुई तलवार की धार रूपी जलधारा के पडते ही ठंढी हो गई, यह अचम्भे की बात है । यथार्थ में उसका क्रोध, राजा भोज द्वारा त्यक्त धारा नगरी के अध पतन से अर्थात् उसको जीत लेने से शान्त हुआ । यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशां मुखानि । तत्कीर्तिभिः क्षालयति स्म शश्व-दखण्डतारापतिपाण्डुराभिः ॥६५॥
( ७२ ) अन्वयः यः कोटिहोमानलधूमजालैः दिशां मुखानि मलीमसीकृत्य अखण्डता- रापतिपाण्डुराभिः तत्कीर्तिभिः शश्वत् क्षालयति स्म । व्याख्या य आहवमल्लदेवः कोटिसंख्याका होमा यज्ञास्तेषामनलोऽग्निस्तस्य धूमजा- लैर्धूमसमूहैर्दिशां काष्ठानां ‘दिशस्तु ककुभः काष्ठा आशाश्चहरितश्चता’ इत्यमरः, मुखानि मलीमसीकृत्य ‘अभूततद्भावे च्विः प्रत्ययः’ मलिनीकृत्य ‘मलीम- सन्तु मलिनं कच्छ्रर मलदूषितम्’ इत्यमरः । अखण्डः परिपूर्णस्तारापतिश्चन्द्र- स्तद्वत्पाण्डुराभिः शुक्लाभिस्तत्कीर्तिभि यत्तद्यशोभि शश्वत्पुन क्षालयतिस्म पुनरपि श्वेततामानयतिस्म । तारापतेः पाण्डुरत्वेन कीर्तौ सादृश्यादुपमा । दिङ्मुखमलिनीकरणपटुभ्यो यज्ञेभ्य एव पाण्डुरकीर्तिजननाद्दिपमालङ्कारोऽप्यत्र । भाषा जिसने करोडो यज्ञो की अग्नियो से उत्तप्त धूऐं से दिशाओ के मुखो को मैलाकर पूर्ण चन्द्र के समान शुभ्रवर्ण अपनी यज्ञजन्य कीर्ति से उनके मुखो को फिर से धो डाला । अर्थात् उसने करोडो यज्ञ किये जिससे उसका यश चारो दिशाओ में फैल गया । ध्रुवं रणे यस्य जयामृतेन क्षीवः क्ष्माभर्तुरभूत्कृपाणः । एका गृहीता यदनेन धारा धारासहस्रं यशसोऽवकीर्णम् ॥६६॥ अन्वयः यस्य क्ष्माभर्तुः कृपाणः रणे जयामृतेन ध्रुवं क्षीवः अभूत् । यत् अनेन एका धारा गृहीता यशसः धारासहस्रम् अवकीर्णम् । व्याख्या यस्य प्रसिद्धस्य क्ष्माभर्तुः पृथ्वीपतेः कृपाणः खड्गो रणे युद्धे जयामृतेन विजयरूपामृतपानेन ध्रुवं निश्चयेन क्षीवो मदान्धोऽभूत् । यद्यस्मात्कारणादनेनैका धारा धारानगरी खड्गधारा च गृहीता स्वायत्तीकृता धारिता च परञ्च तेन कार्येण यशसः कीर्तेर्धारासहस्रं प्रवाहसहस्रमवकीर्णं विस्तारितम् । इदमेव मत्तत्त्वं यदेकस्या धाराया धारासहस्रेण विनिमयः कृत इति परिवृत्तिरलङ्कारः । परिवृ-
( ७३ ) र्त्तिविनिमयो वोऽर्थानां स्यात्समासोक्तिरिति लक्षणात् । धारा शब्दस्य धारानगरी, खड्गधारा जलधारा चेत्यर्थत्रयबोधाच्छ्लेषोऽलङ्कार, अतः सङ्कर । भाषा जिस राजा की तलवार, युद्ध में विजयरूपी अमृत का पान कर अवश्य मदोन्मत्त हो गई थी ! क्यों कि उसने केवल एक धारा नगरी को लेकर या एक धारा रखते हुवे कीर्ति की हजारो धाराओ को बहाया । शतक्रतोर्मध्यमचक्रवर्ती क्रमादनेकक्रतुदीक्षितोऽपि । ऐन्द्रात्पदादभ्यधिके पदे यस्तिष्ठन्न शङ्कास्पदतामयासीत् ॥६७॥ अन्वयः मध्यमचक्रवर्ती क्रमात् अनेकक्रतुदीक्षितः यः ऐन्द्रात् पदात् अभ्यधिके पदे अपि तिष्ठन् शतक्रतोः शङ्कास्पदतां न अयासीत् । व्याख्या मध्यमचक्रवर्ती मध्यमलोकस्य भूलोकस्य चक्रवर्ती सार्वभौम क्रमात्परि- पाट्याऽनेकेष्वश्वमेधेषु क्रतुषु यज्ञेषु दीक्षित सञ्जातदीक्ष यो राजा ऐन्द्रात्पदादिन्द्र- पदापेक्षयाऽभ्यधिकेऽधिकगुणे पदेऽपि स्थानेऽपि तिष्ठन्तमासीनः शतक्रतोरिन्द्रस्य शङ्कास्पदता सन्देहस्थानं नाऽयासीन्न प्राप्तः । तस्याऽसंख्यक्रतुसम्पादनेनाऽपि शतक्रतुर्भयभीतो न बभूव यतस्तेनैव तदुत्पादनार्थं ब्रह्मा प्रार्थित आसीत् । शङ्काकारणसत्त्वेऽपि शङ्कारूपकार्याभावप्रतिपादनाद्विशेषोक्तिरलङ्कारः । भाषा पृथ्वी के सम्राट् आहवमल्लदेव के धीरे २ अनेक यज्ञों के करने से इन्द्र पद से भी उच्चपद पाने की योग्यता हो जाने पर भी इन्द्र के मन में उसके सम्बन्ध में कोई शङ्का उत्पन्न न हुई । (क्योंकि इन्द्र की प्रार्थना से ही यह चालुक्य वंश ब्रह्मा ने उत्पन्न किया था ।) चिन्तामणिर्यस्य पुरो वराकस्तथाहि वार्ता जनविश्रुतेयम् । यत्तत्र सौवर्णतुलाधिरूढे चक्रे स पाषाणतुलाधिरोहम् ॥६८॥
( ७४ ) अन्वयः यस्य पुरः चिन्तामणिः वराकः तथाहि इयं वार्त्ता जनविश्रुता यत् तत्र सौवर्णतुलाधिरूढे (सति) सः पाषाणतुलाधिरोहं चक्रे । व्याख्या यस्य राज्ञः पुरः समतायां चिन्तामणिर्नामानर्घ्यं रत्नं वराकोऽगण्यो दैन्य- मेवाऽवलम्बते । राजापेक्षया नातिशयचमत्कारित्वेन प्रभावशून्यत्वात् । तथाहि यत इयं वार्त्ता जनेषु विश्रुता विख्याताऽऽसीत् । यदित्यनेनोत्तरार्द्धोंक्तवाक्यार्थ- परामर्शः । तत्र राज्ञि सुवर्णतुलापुरुषदानार्थं सौवर्णी तुलेति सौवर्णतुला तस्यामधिारूढे स्थिते सति स चिन्तामणिः पाषाणेन सह तुला साम्यं तस्यामघिरोहं स्थितिं, रत्न-तोलन-तुलायां वा स्थिति चक्रे । अस्य राज्ञः सुवर्णेन तुलना चिन्तामणेस्तु पाषाणेन तुलनेत्यर्थपरामर्शाच्चिन्तामणेर्दैन्यमेव । अय च स चिन्तामणिरभीष्टवस्तुचिन्तयाऽभीष्टवस्तुप्रदाता । अयं राजा तु चिन्तां विनैव सर्वाभीष्ट दातेति भावः । उपमानस्य चिन्तामणे राजरूपोपमेयापेक्षयाऽपकर्ष- प्रतिपादनाद्व्यतिरेकालङ्कारः । 'उपमानायदन्यस्य व्यतिरेकस्सएव सः' । भाषा जिस राजा की समता में चिन्तामणि रत्न भी किसी महत्व का नहीं था । इसीलिये यह बात लोक प्रसिद्ध है कि सुवर्ण पुरुष के दान में राजा सोने की तुला पर चढ़ता था किन्तु चिन्तामणि पत्थर (रत्न) तौलने की तुला पर तोला जाता था अर्थात् चिन्तामणि की तोल पत्थरों से होती थी और राजा की सोने से। ( चिन्तामणि अभीष्टवस्तु की याचना करने पर अभीष्ट वस्तु देता है किन्तु यह राजा बिना याचना के ही अभीष्ट वस्तु देता था) । विधाय रूपं मशकप्रमाणं भयेन कोणे क्वचन स्थितस्य । कलेरिवोत्सारणकारणेन यो यागधूमैर्भुवनं रुरोध ॥६६॥ अन्वयः यः भयेन मशकप्रमाणं रूपं विधाय क्वचन कोणे स्थितस्य कलेः उत्सारणकारणेन इव यागधूमैः भुवनं रुरोध ।
( ७५ ) व्याख्या यो नृपो भयेन राज्ञो भीत्या मशकरामानं मशकवदल्परूपं विधाय निर्माय क्वचन कस्मिंश्चित्कोणे स्थितस्याऽप्रभानमपायुत्य विद्यमानस्य कलेः कलिपुतस्यो- त्सारणकारण्येनाऽपसारणार्थं दूरीकरणार्थमिव यागधूमैर्यज्ञजनितधूमैर्भुवनं जगद्भू- रोधाऽऽच्छादितवान् । कलिजनितपापनिवारणार्थं यथा मशकनिवारणार्थं धूमश्च क्रियत इत्याचारः । अत्र क्लेशोत्सारणस्य यज्ञधूमकरणकभुवनरोधप्रयोजनत्वे- नोत्प्रेक्षणादुत्प्रेक्षालङ्कारः । भाषा जिस राजा ने, मच्छर के इतना छोटा रूप धारण कर, किसी कोने में भय से छिपकर बैठे हुए कलियुग को भगाने के लिए ही मानो यज्ञो के धूएँ से पृथ्वी को छा दिया । (मच्छरो को भगाने के लिए धूवाँ किया जाता है ।) स्वाभाविकादुष्णगभस्तिभासः क्षत्रोष्मणो दृष्टिविघातहेतोः । यस्मिन्परित्रस्त इति क्षितीन्द्रे क्षणं न चिक्षेप कलिः कटाक्षम् ॥१००॥ अन्वयः कलिः यस्मिन् क्षितीन्द्रे स्वाभाविकात् उष्णगभस्तिभासः क्षत्रोष्मणः दृष्टिविघातहेतोः परित्रस्तः इति क्षणं कटाक्षं न चिक्षेप । व्याख्या कलिः कलियुगो यस्मिन्प्रसिद्धे राजन्याहवमल्लदेवे स्वाभाविकात्प्राकृतिका- दुष्णा गभस्तयो यस्य स उष्णगभस्ति सूर्यस्तस्य भास इव भास प्रभा ‘स्युः प्रभाप्रभाविस्त्विडभा भाश्छविद्युतिदीप्तयः' इत्यमरः । यस्य तस्य क्षतात्त्रायत इति क्षत्र क्षत्रियकुलं तस्योष्मा तेजस्तस्य क्षत्रोष्मण क्षात्रतेजसो दृष्टेर्विघात इति दृष्टिविघात दृष्टिविनाशस्तस्य हेतो कारणात् परित्रस्तो भयभीत इति हेतुना क्षण क्षणमात्रमपि कटाक्ष स्वापाङ्गदर्शन 'अपाङ्गे नेत्रयोरन्ते कटाक्षोऽपाङ्ग- दर्शने' इत्यमरः । न चिक्षेप न प्रसारयामास । अत्र क्षत्रोष्मण उष्णगभस्तिना सूर्येण सादृश्यप्रतिपादनादुपमालङ्कारः । भाषा स्वाभाविक सूर्य के समान तेज वाले क्षत्रिय तेज से, दृष्टिनाश होने के भय
( ७६ ) से भयभीत कली, एक क्षण के लिये भी इस राजा पर अपनी कुटिल दृष्टि नहीं डालता था। अन्यायमेकं कृतवान् कृती यश्चालुक्यगोत्रोद्भववत्सलोऽपि । यत्पूर्वभूपालगुणान्प्रजानां विस्मारयामास निजैश्चरित्रैः ॥१०१॥ अन्वयः चालुक्यगोत्रोद्भववत्सलः अपि कृती यः एकं अन्यायं कृतवान् यत् निजैः चरित्रैः प्रजाना पूर्वभूपालगुणान् विस्मारयामास । व्याख्या चालुक्यगोत्रे चालुक्यवंशे उद्भव उत्पत्तिर्यषा राजा तेषु वत्सल स्निग्धो भवत् इत्यथ स्वकुलोत्पन्नपूर्ववर्तिनृपाणा भक्तोऽपि 'लक्ष्मीवान् लक्ष्मण श्रील श्रीमान् स्निग्धस्तु वत्सल' इत्यमर । कृती कार्यकुशल पुण्यवांश्च यो राजाऽऽ- हवमल्लदेव एकमन्यायमनुचितकार्यं कृतवान् यद्यस्मात्कारणात्निजैरस्वकीयैश्चरित्रै- रुत्कृष्टगुणै प्रजाना जनाना षष्ठी 'शेषे—इत्यनेन' प्रजानामित्यत्र सम्बन्धसामान्ये षष्ठी । पूर्वभूपालगुणान्स्ववशजपूर्ववर्तिनृपगुणान् विस्मारयामास । अस्य गुणोत्कर्षेण भूतपूर्वर्नृपा विस्मृता इत्यर्थ । एकस्याऽन्यायकार्यस्य विधानादादौ निन्दाया प्रतीति पर्यवसाने तु शत्त प्रभावप्रशंसा प्रतीयते । अत्र व्याजस्तुति- रलङ्कार । 'व्याजस्तुतिर्मुखे निन्दास्तुतिर्वा रूढिरन्यथेति' । भाषा पुण्यात्मा, कार्यकुशल उस राजा ने चालुक्यवंशीय प्राचीन राजाओं में श्रद्धा भक्ति रखते हुये भी एक यह अन्याय किया था कि अपने उत्कृष्ट गुणों से प्रजाओं को पूर्ववर्ती राजाओं के गुणों का विस्मरण करा दिया था । अर्थात् पूर्ववर्ती राजाओं से यह आहवमल्लदेव अधिक गुणी था । विशीर्णकर्णा कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन । संगच्छतेऽद्यापि न डाहलश्रीः कर्पूरताडङ्कनिभैर्यशोभिः ॥१०२॥ अन्वयः यस्य पृथ्वीभुजङ्गस्य निरर्गलेन कलहेन विशीर्णकर्णा डाहलश्रीः कर्पूर- ताडङ्कनिभैः यशोभिः अद्यापि न सङ्गच्छते ।
( ७७ ) व्याख्या पृथ्व्या भूमेर्भुजङ्गः पतिः कामुकश्च तस्य पृथिवीश्वरस्य निरर्गलेन निष्प्रति- बन्धेन कलहेन विवादेन युद्धेन च विशीर्णे कर्णौ यस्याः सा, विशीर्णो नष्टः कर्णस्तन्नामधेयो नृपो यस्याः सा च च्छिद्रकर्णा डाहलानां डाहलदेशीयमृपाणां (डाहलदेशश्चेदीदेशादभिन्नः ।) श्री राजलक्ष्मीः कर्पूरस्य यत्ताटङ्कं कर्णभूषणं 'ताटङ्कमपि पाठ' तन्निभैस्तत्समानेर्यशोभि कीर्तिभिरधुनाप्यद्य यावन्न सङ्गच्छते न मिलति न शोभत इत्यर्थः । कर्णाभावाद्भूषणाभावस्तत्कीर्त्यभावश्च । यशसः कर्पूरताटङ्केनेसादृश्यादुपमा । भाषा उस राजा के या कामुक के बिना रोक टोक के युद्ध से अथवा अत्यधिक झगडा हो जाने से डाहल के राजा कर्ण के मर जाने के कारण या दोनों कान कट जाने के कारण, डाहल देश की राजलक्ष्मी, कपूर के बने हुए या कपूर के ऐसे श्वेत कर्णभूषण के समान यशो से अभीतक शोभित नहीं होती है । पाठान्तरम्-भङ्ग्यन्तरेण तदेव वर्णनं, न तु पाठ भेदः— उसी भाव को कवि दूसरे प्रकार से वर्णित करते हैं । कर्णे विशीर्णे कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन । कीर्तिः समाश्लिष्यति डाहलोर्वीं न दन्तताङ्कनिभाधुनापि ॥१०३॥ अन्वयः यस्य पृथ्वीभुजङ्गस्य निरर्गलेन कलहेन कर्णे विशीर्णे (सति) दन्तता- ङ्कनिभा कीर्तिः अधुना अपि डाहलोर्वी न समाश्लिष्यति । व्याख्या यस्य प्रसिद्धस्य पृथ्वीभुजङ्गस्य पृथ्वीपतेः कामुकस्य वा निरर्गलेन कोलाहल- सम्पन्नेन कलहेन विवादेन युद्धेन वा कर्ण तन्नामके डाहलनृपे श्रोत्रे वा विशीर्णे मृते वा त्रुटिते सति दन्तताङ्कनिभा गजदन्तनिर्मितकर्णभूषणवच्छुभ्रा कीर्ति रधुनापि डाहलोर्वी डाहलदेशं न समाश्लिष्यति नाश्लिङ्गति । गजदन्त- ताङ्केन कीर्तेर्धवल्येन साम्यादुपमा । भुजङ्गकर्णपदयोः श्लिष्टत्वात्कामिनी रूपाप्रकृताथैन डाहलोर्वीरूपप्रकृतार्यस्योपमानोपमेयभावो व्यङ्ग्यः । एवं भुजङ्ग- पदवाच्ययोरपि । तथा च शब्दशक्तिमूलध्वनिः समासोक्तिर्वा ।
२. विक्रमादित्य षष्ठ का जन्म, विद्या व दिग्विजय
( ७८ ) भाषा जिस कामुक के समान राजा के (व कामिनी के समान डाहलोर्वी के) अत्यधिक युद्ध से या कलह से कर्ण राजा के मरने पर या कान के कट जाने पर हाथी दांत के बने हुवे कान के आभूषण के समान श्वेत कीर्ति अभी भी डाहलदेश को नही प्राप्त हो रही है । (कान कट जाने से कर्ण भूषण पहनने का सौभाग्य ही अप्राप्य हो जाता है। कर्ण राजा के ऐसे प्रतापी राजा के मर जाने से कीर्ति कहां से आ सकती है) । यस्यासिरत्युच्छलता रराज धाराजलेनेव रणेषु धाम्ना । दृप्तारिमातङ्गसहस्रसङ्गामभ्युक्ष्य गृह्णन्निव वैरिलक्ष्मीम् ॥१०४॥ अन्वयः यस्य असिः रणेषु अत्युच्छलता धाराजलेन इव धाम्ना दृप्तारिमातङ्ग सहस्रसङ्गां वैरिलक्ष्मीम् अभ्युक्ष्य गृह्णन् इव रराज । व्याख्या यस्य भूपतेरसि खडगो रणेषु युद्धेष्वत्युच्छलतोर्ध्वं गच्छता धाराजलेन खड्ग- धाराजलेनेव धाम्ना तेजसा, दृप्ता मदान्धा अरिमातङ्गा शत्रुहस्तिनो विपक्ष- चाण्डालाश्च तेषा सहस्र तस्य सङ्ग सत्तर्गो यस्या सा तां वैरिलक्ष्मीं शत्रुश्रिय मभ्युक्ष्य प्रक्षाल्य 'उक्ष् सेचने' इत्यस्माद्धातोर्भुपसर्गान्त्ययभ्युक्ष्येतिनिष्पन्नम् ।' गृह्णन्निवाऽऽसादयन्निव रराज शुशुभे । यथा चाण्डालसङ्गादशुद्ध वस्तु जलेन संप्रोक्ष्य शुद्ध विधाय गृह्यते तथैवाऽत्राऽवि मातङ्गसहस्रसङ्गजनिताशुद्धियुक्ता वैरिलक्ष्मी धाराजलेन पवित्रीकृत्य गृहीता । धाराजलेन सह धाम्नरसादृश्यप्रती तिरित्युपमा । मातङ्गशब्देन गजाना चाण्डालनाञ्चप्रतीत्या श्लेषोऽलङ्कार । खड्गे वैरिलक्ष्मीकर्मकग्रहणक्रियाया उत्प्रेक्षणादुत्प्रेक्षा । अतस्तेषा सङ्कर । भाषा जिस राजा की तलवार, युद्धा म ऊपर उठने वाले अपनी धार के जल के समान तेज से मदोन्मत्त हजारो शत्रुरूपी हाथियो के अथवा हजारो शत्रु चाण्डालो के ससर्ग दोष से अपवित्र शत्रुओ की लक्ष्मी का मानो प्रोक्षण कर ग्रहण करती हुई शोभित हुई । अर्थात अपवित्र शत्रुलक्ष्मी पर अपनी तेज धार का पानी छिड़क, उसे पवित्र कर उसका ग्रहण किया । (अपवित्र वस्तु पर गङ्गाजल छिड़क कर पवित्र करने की परिपाटी है) ।
( ७९ ) यद्वैरिसामन्तनितम्बिनीनामश्रान्तसन्तापकदर्थ्यमाने । पराङ्मुखं शोषविशङ्कयेव कुचस्थले कुङ्कुमपङ्कमासीत् ॥१०५॥ अन्वयः यद्वैरिसामन्तनितम्बिनीनाम् अश्रान्तसन्तापकदर्थ्यमाने कुचस्थले शोष- विशङ्कया इव कुङ्कुमपङ्कं पराङ्मुखम् आसीत् । व्याख्या यस्याऽऽहवमल्लदेवस्य वैरिसामन्ताः शत्रुनृपास्तेषां नितम्बिनीनामङ्गनाना मश्रान्तो निरन्तरश्चासौ सन्तापश्च सञ्ज्वरश्च 'सन्तापः संज्वरः सनी' इत्यमरः । तेन कदर्थ्यमाने दुर्दशामापन्ने तप्ते इत्यर्थः । कुचस्थले स्तने शोषस्य शोषणकर्मणो विशङ्कयेव सन्देहेनेव, कुचयोः शुष्कत्वं कुङ्कुमलेपजन्योष्णत्वेन माभूदिति हेतोः कुङ्कुमपङ्कं पराङ्मुखमासीत् नोपलिप्तमित्यर्थः । पतिविरहात्कुङ्कुमलेपादी- नामभावः । अत्र कुचस्थले कुङ्कुमलेपस्य पराङ्मुखत्वे स्तनयोः शोषशङ्काया हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा । भाषा जिस राजा के विपक्षी सामन्तों की नारियों के निरन्तर दुःख से दुर्दशा को प्राप्त, स्तन, कहीं सूख न जांय इस सन्देह से मानो उन पर केसर का लेप नहीं किया गया था । अर्थात् पतियों के मर जाने से केसर का लेप आदि शृङ्गार बन्द हो गया था । एकत्र वासादवसानभाजस्ताम्बूललक्ष्म्या इव संस्मरन्ती । वक्त्रेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद ॥१०६॥ अन्वयः यद्वैरिविलासिनीनां वक्त्रेषु हासप्रभा एकत्र वासात् अवसानभाजः ताम्बूललक्ष्म्याः संस्मरन्ती इव तानवम् आससाद । व्याख्या यस्य राज्ञो वैरिविलासिनीनां विपक्षाङ्गनानां वक्त्रेषु वदनेषु विद्यमाना हासस्य हास्यस्य प्रभा कान्तिरेकत्रवासात्तत्रैव वदनेषु विद्यमानयाताम्बूललक्ष्म्या
( ८० ) स्ताम्बूलशोभायाः सस्मरन्तीव स्मरन्ती सतीव ताम्बूललक्ष्मीः पत्युर्विरहवेदनया समाप्तिं गतेति सहवासात्सखीवृत्तान्तं स्मरन्ती सतीव तानवं कृशत्वमाससाद प्राप । पतिविरहात्ताम्बूलभक्षणेन सह हास्यमपि लुप्तमितिभावः । अत्र हासप्रभायाः ताम्बूललक्ष्मीसमाप्तिस्मरणस्य हासप्रभानिष्ठतनुत्व-प्राप्तौ हेतुत्वे- नोत्प्रेक्षणाद्धेतूत्प्रेक्षा । अप्रस्तुतसखीवृत्तान्तस्य हासप्रभावृत्तान्तेऽभेदसमारोपात्स- मासोक्तिरलङ्कारः । भाषा जिस राजा के शत्रुओं की स्त्रियों के मुखों की हास्यशोभा, एकत्र वास होने से शीघ्र समाप्त होनेवाली ताम्बूल शोभा को स्मरण करती हुई, कम होने लगी । अर्थात् पतियों के मर जाने से वैधव्य प्राप्त होने पर आनन्दजनित हंसी और ताम्बूलभक्षण दोनों ही न रहा । यं वारिधिः प्रज्वलदस्त्रजालं वेलावनान्तेषु नितान्तभीतः । भूयः समुत्सारणकारणेन समागतं भार्गवमाशशङ्के ॥१०७॥ अन्वयः नितान्तभीतः वारिधिः वेलावनान्तेषु प्रज्वलदस्त्रजालं यं समुत्सारण- कारणेन भूयः समागतं भार्गवम् आशशङ्के। व्याख्या नितान्तमत्यन्तं भीतो भयाकुलो वारिधिस्समुद्रो वेलावनान्तेषु तटगतारण्यभू- मिषु प्रज्वलञ्जाज्वल्यमानमस्त्रं यस्य स यं नृपं समुत्सारणस्यापसारणस्य कार- णेन हेतुना भूय पुनरपि समागतं सम्प्राप्तं भार्गवं परशुराममाशशङ्के शङ्कित- वान् । अत्र नृपे परशुरामस्य सम्भावनादुत्प्रेक्षा१ । भाषा अत्यधिक भयभीत समुद्र, तट के जंगलों में चमकते हुये अस्त्रों से शोभित इस राजा को देखकर अपने को हटाने के लिये फिर से परशुराम आये हैं क्या, ऐसा सन्देह करने लगा । १ कोकणदेश पूर्वं समुद्राभ्यन्तरे वर्तमानो भार्गवेण समुद्र समुत्सार्य स्वनिवा- सायं निर्मित इति पौराणिकीकथाऽत्राऽनुसन्धेया ।