वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
वंशवर्णनम् । ७ दाक्षिण्यं क्षितिरक्षणावधि हरौ भक्तिश्च जीवावधि व्यालुप्तावधि वीरविक्रमरवेः श्रेयः परं वर्द्धते ॥ ३८ ॥ हेमाद्रेः श्रियमन्यथैव कुरुते चक्रे च गौरीं तनुं कैलासोपरि शोभते पटयति स्पष्टं च दिङ्मण्डलम् ॥ भोगीन्द्रं न दधे श्रुतौ बत जटागूढां च गङ्गां व्यधा- ल्लोकानाभयमीश्वरोऽस्य यशसस्त्वैश्वर्यमुज्जृम्भते ॥३९॥ श्रीगोपाचलमौलिमण्डलमणिः श्रीदूरवारान्वये श्रीहंसोदयहंसपण्डित इति ख्यातो द्विजाधीश्वरः ॥ यं लक्ष्मीश्च सरस्वती च विगतद्वन्द्वं चिरं भेजतु- र्भोक्तारं रभसात्समानमुभयोः साम्राज्यमाढ्यं गुणैः ॥४०॥ षड् दिक्षु विदिक्षु कुर्वतीनां नटलीलां स्फुटकीर्त्तिनर्त्तकीनाम्॥ स्फुरदध्वरधूमधोरणीह च्युतवेणीति जनैरमानि यस्य ॥४१॥ ततोऽनल इवारणेरतुलधामभूर्भूभुजां शिरोमणिरहोमणिर्धराणिनामवामभ्रुवः ॥ रणी बहुगुणी धनी भुवि वनीपकश्रीखनी रमारमणमिश्रणी परशुराममिश्रोऽजनि ॥ ४२ ॥ येनागत्य पुरा पुरारिनगरे विद्याऽनवद्यार्जिता श्रीचण्डीश्वरमग्निहोत्रितिलकं लब्ध्वा गरीयोगुरुम् ॥ शुद्धा सैव महोद्यमेन बहुधा भान्ती भवन्ती स्थिरा तद्वंश्येषु कियन्न कल्पलतिकेवाद्यापि सूते फलम् ॥ ४३ ॥ आस्यारविन्दमनुपास्य गुरोरपास्य लास्यं चतुर्मुखमुखेषु सरस्वतीह ॥ सालङ्कृतिश्च सरसा च गुणान्विता च यस्यातनोति रसनोपरि ताण्डवानि ॥ ४४ ॥ अङ्के लोमलतेव सीमनि दृशोरेकेव रेखाञ्जनी
वीरमित्रोदयस्य राजनीतिप्रकाशे कस्तूरीमकरीव भालफलके धारेव मूर्द्धन्यालकी ॥ ऊर्द्धं भृङ्गपरम्परेव कबरी सौरभ्यलोभाकुला यस्यैवाध्वरधूमधोरणिरभूदाशाकुरङ्गीदृशः ॥ ४५ ॥ सुभासुरयशोनिधेः सुनिरवद्यविद्यानिधेः सुचारुकवितानिधेः स्मृतिनिधेः श्रुतिश्रीनिधेः ॥ अयं सुकृतगौरवात्परशुराममिश्राद्गुणै- रनूनगरिमा पितुर्जगति मित्रमिश्रोऽजनि ॥ ४६ ॥ धर्मार्थैकनिकेतनं विधिमयं कर्मावनीदर्शनं स्मृत्यम्भोजमहोदयं श्रुतिमयं श्रीवीरमित्रोदयम् ॥ द्राक्सिद्धीकृतकार्यसिद्धिशतया श्रीवीरसिंहाज्ञया तेने विश्वमुदे पुरे पुरभिदः श्रीमिश्र मित्रमिश्रः कृती ॥ ४७ ॥ आज्ञप्तो वीरसिंहक्षितिपतितिलकेनादरान्मित्रमिश्रः श्रद्धावान् ख्यातकीर्त्तिर्विविधबुधजनग्रामसन्तोषकारी ॥ प्राचां वाचां प्रपञ्चैः परिकलितमहाराजधर्मादवान्तः- सारं निष्कृष्य बुद्ध्या रचयति रुचिरं राजनीतिप्रकाशम् ॥४८॥ राजनीतिप्रकाशे प्राग्राजशब्दार्थनिर्णयः । राजप्रशंसा तदनु प्रोक्ता श्रोत्रसुखावहा ॥ राज्याभिषेके कालश्च निषिद्धो विहितस्तथा । राज्याधिकारी तत्पश्चादभिषेकविधिः स्मृतः ॥ ऐन्द्री शान्तिः प्रयोगश्च अभिषेकस्य कीर्त्तितः । अथाभिषेकमन्त्रेण प्रतिपाद्यैस्तु दैवतैः ॥ कीर्त्तितैर्लभ्यते यत्तु फलं तदनुकीर्त्तितम् । ऐतरेयब्राह्मणोक्तं राज्ये चैवाभिषेचनम् ॥ पुष्पाभिषेको जन्मर्क्षेऽभिषेकस्तदनन्तरम् ।
प्रतिसंवत्सरं कार्योऽभिषेकोऽथ प्रकीर्तितः ॥ राज्ञां गुणस्ततस्तेषां निषिद्धविहितक्रिये । ततो दैनन्दिनं कृत्यं वर्षकृत्यमतः परम् ॥ अथ राज्ञः सहायेषु प्रागमात्यः प्रकीर्तितः । सेनापतिस्ततो राज्याध्यक्षरत्नपरीक्षकौ ॥ प्रतीहारश्च दूतश्च रक्षिणस्तदनन्तरम् । ताम्बूलधारणाद्येषु नियुक्ताश्च निरूपिताः ॥ अथानुजीविनां वृत्तं राजवासस्थलं ततः । दुर्गे पुरस्य निर्माणं क्रमेण परिकीर्तितम् ॥ राष्ट्रं कोषश्च दण्डश्च मित्रं चेत्युदितं क्रमात् । सामान्ते कथितो भेदो दानान्ते दण्ड एव च ॥ उपेक्षामाययोरन्त इन्द्रजालः प्रकीर्तितः । मन्त्रश्च पौरुषं पश्चाद्राजपुत्रस्य रक्षणम् ॥ सन्ध्यादिचिन्ता परतो राजमण्डलनिर्णयः । षाड्गुण्यमथ यात्रोक्ता ततः स्वप्नौ शुभाशुभौ ॥ अथ स्वप्नविपाकस्य कालः सम्परिकीर्तितः । अभिमन्त्रणमुक्तं च राजचिह्नेषु तत्परम् ॥ अथेष्टानिष्टशकुनौ निमित्तानि ततः परम् । जयाभिषेकस्य विधिः प्रयोगश्च क्रमोदितः ॥ अथ सन्नहनं राज्ञः कार्यमत्र पुरोधसा । युद्धार्थं प्रस्थितस्याथ चातुर्मास्येष्ववस्थितिः ॥ विशेषतो देवयात्रा कौमुद्यां च महोत्सवः । इन्द्रध्वजोच्छ्रायविधिस्ततो नीराजनाविधिः ॥ पूजनं भद्रकाल्याश्च तदनन्तरमीरितम् । राजचिह्नेषु देव्याश्च पूजोक्ता तदनन्तरम् ॥
१० वीरमित्रोदयस्य राजनीतिप्रकाशे लोहाभिसारिकं कर्म गवोत्सर्गस्ततः परम् । वसोर्धाराऽथ शत्रूणां नाशकः कृत्तिकाप्लवः ॥ राजिकासर्षपाभ्यां च होम उक्तोऽरिनाशनः । विष्णुधर्मोत्तरोक्तं तत आथर्वणोदितम् ॥ घृतकम्बलमुक्त्वा च प्रकीर्णकमुदाहृतम् । राजनीतिप्रकाशाख्ये ग्रन्थेऽस्मिन् विदुषां मुदे ॥ श्रीमित्रमिश्रविदुषा क्रमेणैवं निरूपितम् । इति । तत्र महाभारते, युधिष्ठिर उवाच । श्रोतुमिच्छामि भगवन् विस्तरेण महामुने । राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥ इत्युपक्रम्य राजधर्मा उक्ताः । अग्निपुराणेऽपि, अग्निरुवाच । पुष्करेण च रामाय राजधर्म हि पृच्छते । यदादौ कथितं तद्वद्विशिष्टं कथयामि ते ॥ पुष्कर उवाच राजधर्मं प्रवक्ष्यामि स्याद्राजा राजधर्मतः । मनुस्मृतावपि, राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ इत्युपक्रम्य तत्र तत्र राजधर्मा उक्ताः । तत्र राजशब्दार्थ- स्तावद्विचार्यते । किमयं राजशब्दो यस्मिन् कस्मिंश्चित्प्रजापालके वर्त्तते, उत क्षत्रियजातौ, किंवा अभिषिक्तक्षत्रियजातौ वर्त्तत इति। तत्र अवेष्ट्यधिकरणे “राजा राजसूयेन स्वाराज्यकामो यजेत”
राजशब्दार्थविचारः । ११ इत्यत्र पूर्वपक्षे लिखितम्— राज्यस्य कर्त्ता राजेति सर्वलोकेषु गीयते । महाविषयता चैवं शास्त्रस्यापि भविष्यति ॥ तस्माद्ब्राह्मणादयो राज्यं कुर्वाणा राजान इति । राज्यं तु जनपदपरिपालनम् । लोकप्रयोग एव शब्दार्थावधारणे प्रमा- णम् । लोके च ब्राह्मणादिषु राज्यकर्त्तृषु राजशब्दो वर्त्तते । यास्कोऽपि, राजा राजतेरिति ब्रुवन् यौगिकं राजशब्दमी- श्वरवचनमेवाभ्युपैति । राजनोत्कर्षश्च प्रजापरिपालनादिरेव । वेदेऽपि, “सोमोऽस्माकं ब्राह्मणानां राजा” “यो राजा वर्षणीनां” “सोमो वै राजा गन्धर्वेषु” इत्यादावपि ईश्वरवचन एव राजशब्दः प्रतीयते । कोषेऽपि, राजा तु प्रणताशेषसामन्तः स्यात् । तथा, अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ॥ इति । अत्र यदि राजन्यशब्दवद्राजशब्दोऽपि क्षत्रियवचन एव स्यात्तदा राजकं राजन्यकं च क्षत्रियगणे इत्येव ब्रूयान्नतु नृ- पतिगणे इति पृथगुपाददीत । तस्माद्राजशब्दो नृपतीनां वाचक इति केचित् । अपरे त्वाहुः । राजशब्दः क्षत्रियजातिवचनः । मन्वादयो हि राजधर्मान् प्रवक्ष्यामीत्युपक्रम्य जनपदपरिपालनरूपं राज्यं क्षत्रियस्यैव स्मरन्ति । तत्र— मनुः, ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
१२ वीरमित्रोदयस्य राजनीतिप्रकाशे सर्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम् ॥ ब्रह्म वेदस्तत्कृतः श्रवणाध्ययनजन्यो ग्रहणावबोधलक्षणः संस्कारो ब्राह्मः । यद्वा ब्रह्म वेदस्तत्प्राप्त्यर्थ उपनयनादिः संस्कारो ब्राह्मः । यथाविधि यथाशास्त्रम् । एतच्च प्राप्तेनेत्यने- नान्वितम् । यथान्यायं वक्ष्यमाणदण्डप्रणयनशास्त्रमनतिक्रम्ये- त्यर्थः । परिरक्षणं दुर्बलानां बलवद्भिरनभिभवः । अनेन क्ष- त्रिय एव मुख्यो राज्याधिकारीति दर्शितम् । अत एव क्षत्रि- यस्य क्षितिरक्षाजीवनार्थं शस्त्रास्त्रभृत्त्वं चोक्तम्— मार्कण्डेयपुराणे, दानमध्ययनं यज्ञः क्षत्रियस्याप्ययं त्रिधा । धर्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवोऽस्य जीविका ॥ जीविका कराद्यादानद्वारा । तथा याज्ञवल्क्यः, प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । इति । प्रधानं धर्मार्थं वृत्त्यर्थं च । पाणिनिरपि, राज्ञः कर्मणिष्यञं विदधाति-“गुणवचन- ब्राह्मणादिभ्यः कर्मणि च” इति “पत्यन्तपुरोहितादिभ्यो यक्” इति यकं वा । तेन राज्ञः क्षत्रियस्य कर्म राज्यमिति मन्वाद्ये- कवाक्यत्वात्सिद्धं भवति । तथा, “राजश्वशुराद्यत्” “राज्ञोऽपत्ये जातौ” इति सूत्र- वार्त्तिकाभ्यां राजशब्दः क्षत्रियवचनोऽवसीयते । तन्निष्पन्नराज- न्यशब्दस्य क्षत्रियपर्यायेषु पाठात् । जातिश्चेह क्षत्रियजातिर्गृह्यते राज्ञः क्षत्रियापत्ये यत्, स च जातिग्रहणात् वैश्यापत्ये निवार्यते । तथा, “राजानमभिषेचयेत्” इत्यत्राभिषेकोऽपि क्षत्रियस्यैव विज्ञायते। दृष्टं हि राजत्वमुद्दिश्याभिषेको विधीयते। तेन राजानं
राजशब्दार्थविचारः । १३ सन्तमभिषेकेण संस्कुर्यात् । न त्वदृष्टं यूपत्वं “यूपं तक्षति” इ- त्यत्र यथा विधीयते तक्षणेन यूपं कुर्यादिति तद्वत् अभिषेकेण राजानं कुर्यादिति । यूपशब्दस्यालौकिकत्वात् । राजशब्दस्य तु क्षत्रियवचनत्वेन प्रसिद्धत्वात् । राजधर्मानित्युपक्रम्य- क्षत्रियस्य परो धर्मः प्रजानां परिपालनम् । क्षत्रियस्यापराधेन ब्राह्मणः सीदति क्षुधा ॥ वेदाभ्यासो हि विप्रस्य क्षत्रियस्याभिरक्षणम् । क्षत्रियाय ददौ राज्यम्- इत्याद्युपसंहारस्वरसाच्च क्षत्रियजातावेव राजशब्दः। अत एव- अनेकार्थकोषोऽपि, राजा शशाङ्के क्षत्रिये नृपे । इति । राज्यकर्त्तरि च वर्णान्तरे लाक्षणिकः। ननु ब्राह्मणस्य कथं राज्यकर्तृत्वम् ? । उच्यते । अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स त्वस्य प्रत्यनन्तरः ॥ इति मनुवचनात् । वस्तुतस्त्वभिषेकादिगुणयुक्तस्य वक्ष्य- माणधर्माः । तथा च- मत्स्यपुराणे, मत्स्यं प्रति मनुरुवाच । राज्ञोऽभिषिक्तमात्रस्य किं नु कृत्यतमं भवेत् । एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥ इति । अत्र मात्रपदेन तमपा च अभिषेकानन्तरमेव प्रजापालनं तदङ्गसम्पत्तिश्च सम्पादनीयेति गम्यते । तदुक्तम्- तत्रैव अभिषेकार्द्रशिरसा राज्ञा राज्यावलोकिना ।
१४ वीरमित्रोदयस्य राजनीतिप्रकाशे सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ सहाया अमात्यादयः । मेधातिथिस्तु राजशब्दश्च नेह क्षत्रियजातिवचनः । किं तर्हि, अभिषेकाधिपत्यादिगुणयोगिनि पुरुषे वर्तते । उल्लूकभट्टोऽपि राजशब्दो नात्र क्षत्रियजाति- वचनः किं त्वभिषिक्तजनपदपरिपालनकर्तृवचन इति । राजा सर्वस्येष्टे ब्राह्मणवर्जमिति गौतमव्याख्याने हरदत्तो ऽपि राजा अभिषिक्तः क्षत्रिय इति । विज्ञानेश्वरोऽपि राजधर्मादावाह-साधारणान् गृहस्थध- र्मानुक्त्वा इदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशे- षधर्मानाहेति । एष्वपि पक्षेषु “राजधर्मान् प्रवक्ष्यामि” इत्यादिराजधर्मप्र- तिपादकवचनेषु राजशब्दो जनपदैश्वर्यवन्नृपतिं लक्षणया प्र- तिपादयतीति पक्षः साधुः । उक्तयुक्त्या क्षत्रियसामान्यवा- चित्वात् । तथा च-- बृहत्पराशरः, अथातो नृपतेर्धर्मं वक्ष्यामि हितकाम्यया । इति । तथा विज्ञानेश्वरोऽपि, अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परो धर्मः । तथापि नृपग्रहणसमभिव्याहारादनाभिषिक्तेऽपि जनपदै- श्वर्यवति लोकप्रसिद्ध्या राजशब्दो वर्तते । तथा, यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्त- स्तथापि वर्णान्तरस्यापि कियन्मण्डलादिपरिपालनाधिकृतस्यायं राजधर्मो वेदितव्यः । “ राजधर्मान् प्रवक्ष्यामि ” “ यथावृत्तो भवेन्नृप ” इति पृथक् नृपग्रहणात्करग्रहणस्य रक्षार्थत्वाच्च रक्ष- णस्य दण्डप्रणयनायत्तत्वादिति ।
राजप्रशंसा । १५ तथा, नृप इति न क्षत्रियमात्रस्यायं धर्मः किन्तु प्रजापालनेऽधिकृतस्यान्यस्यापि । तदेवमुक्तदिशा वक्ष्यमाणवै- दिकाभिषेकानधिकृतस्य पौराणोऽमन्त्रको वाऽभिषेको विधेयः । तथा चाभिषेकार्द्रशिरसेत्यादि सङ्गच्छते । अपरार्कस्तु-प्रजापालनादि क्षत्रियस्य राज्यं कुर्वतो वि- हितम् । यदा पुनरक्षत्रियोऽपि क्षत्रियकार्यं करोति तेनाप्ये- तत्सर्वमनुष्ठेयम् । तत्कार्यापत्त्या तद्धर्मलाभात् इति वदन् प्रजा- पालनादिविधिषु राजशब्दोऽभिषिक्तक्षत्रियवचन इति मन्यते । तच्च पूर्वोक्तयुक्तिनिचयबलादयुक्तम् । तदेवं राजधर्मान् प्रवक्ष्यामीत्यत्र राजशब्दः प्रजापाल- नाधिकृतपरो, धर्मशब्दः कर्त्तव्यतावचनः यद्राज्ञा कर्त्तव्यं दृष्टादृष्टार्थरूपं षाड्गुण्याद्यग्निहोत्रादि तद्वक्ष्यामि । तत्र प्राधा- न्येनासाधारणं दृष्टार्थमुपदिश्यते । अदृष्टार्थस्य साधारणधर्मे- षूक्तत्वात् । अत एवोक्तम्- मनुव्याख्यायाम्, “साधारणं वेदोक्तसंस्कारं प्राप्यासा- धारणं प्रजापालनादि कर्त्तव्यम्” इति। “स यथावृत्तो यथाचारो भवेत् तानाचारान्, यथा च तस्य सम्भवः राजानमसृजत्प्रभु- रित्यादिना उत्पत्तिस्तत्, यथा च तस्योत्कृष्टा ऐकाधिपत्यल- क्षणा सिद्धिस्तत्सर्वं वक्ष्यामि” इति च । अथ राजप्रशंसा । तत्र मनुः, अराजके हि लोकेऽस्मिन् सर्वतोऽभिद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥ अराजके राजरहिते । सर्वतः पञ्चम्यन्तात्तसिः सर्व- स्माद्बलवतः । अभिद्रुते पीडिते । अस्य लोकस्य । प्रभुर्ब्रह्मा ।
१६ वीरमित्रोदयस्य राजनीतिप्रकाशे षिद्रुत इति क्वचित्पाठः । विद्रुते धर्मात्प्रचलिते । सप्तम्यन्तात्त- सिः । चक्षुर्धर्मस्य सर्वस्येति मेधातिथौ पाठः । तदा भयाद्धर्म- भयात् धर्मस्य चक्षुर्द्रष्टारं प्रवर्त्तकमितियावत् । राजा धर्मस्य कारणमितिवचनात् । इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ अनिलो वायुः । वित्तेशः कुबेरः । मात्रा अंशान् । निर्हृत्य निष्कास्य । शाश्वतीः सारभूताः स्थिरा वा । तथा— बृहतपराशरोऽपि, सुत्रामानलवायूनां यमस्येन्दोर्विवस्वतः । वारिवित्तेशयोर्ब्रह्म मात्राभ्यो निर्ममे नृपम् ॥ इति । तत्रैवेशानमात्राप्यधिकोक्ता । इन्द्राग्नियमवित्तेशवारीशमातरिश्वनाम् । शीतांश्वीशानदात्राश्च ब्रह्मादायासृजन्नृपम् ॥ इति । मनुः यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्मादतिभवत्येष सर्वभूतानि तेजसा ॥ यस्मादेषां देवश्रेष्ठानामिन्द्रादीनां मात्राभ्योऽंशसमुदायेभ्यो- ऽशान् सारभूतान्निर्हृत्य निर्मित उत्पादित इति तेजसा सर्वभूता- न्यतिशेते सर्वोत्कृष्टो भवतीत्यर्थः । अथ वा इन्द्रानिलेत्यस्यारा- जके हीत्यनेन सम्बन्धः । मात्रा निर्हृत्य राजानमसृजत् इत्य- न्वयः । यस्मादेषामित्यत्र मात्राभिरिति वा पाठः । तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ अयं स्वतेजसा पश्यतां सूर्य इव चक्षूंषि मनांसि च तापयति ।
राजप्रशंसा । १७ तपिरन्तर्भावितण्यर्थः । दुर्निरीक्ष्यमुखत्वादेवमुच्यते । तदाह-न चैनमिति । एनं राजानं पृथिव्यां कश्चिदप्यभिमुख्येन वीक्षितुं न क्षमते । अत्र मेधातिथिः- "ब्राह्मणा जात्युत्कृष्टा ब्रह्मवर्च- स्विनोऽपि नैनमभिमुखं वीक्षितुं शक्नुवन्ति । तदुक्तम्- गौतमेन, तमुपर्यासीनमधस्तादुपासीरन" इति व्याच- ख्यौ । तदयुक्तम् । अन्ये ब्राह्मणेभ्य इति वाक्यशेषविरोधात् । तथा च- गौतमः, तमुपर्यासीनमधस्तादुपासीरन्नन्ये ब्राह्मणेभ्यस्ते- ऽप्येनं मन्येरन्निति । तं राजानम् उपर्यासीनं सिंहासनस्थितम् अधस्तात् भूमावेव उ- पासीरन् अन्ये ब्राह्मणेभ्यः ब्राह्मणातिरिक्ताः । ब्राह्मणास्त्वाशी- र्वादादिभिरभिपूजयेयुः । वस्तुतस्तु तमुपर्यासीनमित्यस्य विधि- रूपत्वात् भिन्नविषयत्वाच्च "न चैनं भुवि शक्नोति" इत्यस्य सम्म- तिरूपत्वमेवायुक्तम् । दृष्टेनापि दोषेण राज्ञोऽवज्ञा न युज्यते इ- त्येतन्निषेधार्थवादत्वात्पूर्वोक्तश्लोकानाम् । इन्द्रादिमात्रा निर्हृत्य कृतत्वात् तस्यापि तद्रूपतामाह- सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ धर्मराट् यमः । अग्न्याद्यंशसम्भवत्वात्तत्कार्यकारित्वाच्च ताद्रूप्यम् । प्रभावोऽलौकिकी शक्तिः । ततश्च- बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ एतेन देवतावमानने यो दोषः स राजावज्ञायामित्यदृष्ट- दोष उक्तः । इदानीं दृष्टदोषमाह- ३
१८ वीरमित्रोदयस्य राजनीतिप्रकाशे एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥ योऽग्नेरतिसमीपमनवहितः समुपसर्पति तमेकमेवाग्निर्दह- ति न तत्पुत्रादिकमिति । अन्यैस्तु दुःखेन मरणाद्युद्यतम् अ- ग्निसमीपगामिनमिति व्याख्यातम् । एतद्व्याख्याद्वितयादपि दुरुपसर्पिणं स्वापराधं ज्ञात्वापि बलात्तत्सद्दिग्ये प्रवृत्तमग्निरेकमेव दहति तम्, अन्यायपथगामिनं ज्ञात्वा क्रुद्धो राजा तं तदीयकुलं च पुत्रभ्रात्रादिरूपं पशुभिर्धनसञ्चयैश्च सहितं नाशयतीति व्या- ख्यानं युक्तम् । एवमेकविषयतापि लभ्यते । कार्याण्यवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्धयर्थं विश्वरूपं पुनः पुनः ॥ कार्यं सोऽवेक्ष्येति क्वचित्पाठः । कार्यम् अनुग्रहनिग्रहादि- योग्यताम्, शक्तिं बलम्, देशं दूरनिकटादिकम्, कालं सुभि- क्षदुर्भिक्षादिमवेक्ष्यात्मानं विश्वरूपं नानारूपं करोति । क्षणे तुष्टः क्षणे रुष्टः । अशक्तौ क्षान्तः शक्तौ उन्मूलकः । स्वकार्या- नुरोधेन शत्रुर्मित्रं उदासीनो वा भवति । अत एव— कस्य राजा भवेन्मित्रं कानि मित्राणि राजनि । राजा मित्रं केन दृष्टं श्रुतं वा । इत्युक्तम् । तेन मैत्र्यादिनापि नावमन्तव्यः । यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ श्रीकामेन श्रीप्राप्त्यै शत्रुमता शत्रुहननाय जीवितार्थिना जीवस्थित्यै राजा सेव्यः । अत्र मेधातिथ्यादयः-पद्माशब्दः श्रीपर्यायोऽपि महत्त्वप्रतिपादनाय, अर्थाद्वैय्यर्थं पद्माशब्दस्य । वस्तुतस्तु पद्मा लक्ष्मीः, श्रीः शरीरशोभा । तथा च-“श्रीश्च ते
राजप्रशंसा । १९ लक्ष्मीश्च पत्न्यौ"इत्यत्र व्याख्यातम्-श्रीः शरीरशोभा लक्ष्मीः प्रसिद्धेति । यद्वा प्रसादे पद्मा, पराक्रमे श्रीर्विजयश्च । दिक्पा- लरूपत्वात्तस्य तत्कार्यकारित्वमाह- स एव, इन्द्रस्यार्कस्य वातस्य यमस्य वरुणस्य च । सोमस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ तेजोवृत्तम् इन्द्राद्यंशसदृशमाचरणम् । वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति । तथाऽभिवर्षेत्तद्राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥ चतुरः श्रावणादीन् । अष्टौ मासान् यथाऽऽदित्यस्तोयं हरति रश्मिभिः । तथा हरेत्करं राष्ट्रात्सम्यगर्कव्रतं हि तत् ॥ अष्टौ मार्गशीर्षादीन् । प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥ यथा यमः प्रियेद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्यः सर्वस्तद्धि यमव्रतम् ॥ वरुणेन यथा पाशैर्बद्ध एव हि दृश्यते । तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम् ॥ परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन् स चन्द्रव्रतिको नृपः ॥ प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥ यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥
१. प्रथम प्रकाश: राजा के गुण, राज्याभिषेक विधान, मन्त्री एवं अमात्य-परीक्षा
२० वीरमित्रोदयस्य राजनीतिप्रकाशे यथा सर्वाणि स्थावरजङ्गमानि उत्कृष्टनिकृष्टानि पृथिवी धार- यति तथा सर्वाणिकरदायिदीनानाथार्तादीनि रक्षणादिना धारय- तः पृथिवीसम्बन्धि व्रतम् । एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः । स्तेनान् राजा निगृह्णीयात्स्वराष्ट्रे पर एव च ॥ अतन्द्रितोऽनलसः । स्तेनान् चौरान् । इयं च पूर्वोक्तदे- वांशरूपता महाराजस्यैव । पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥ इतीयं नारदोक्तपञ्चरूपता तु कियन्माण्डलिकस्य भूपस्य । अत एव— बृहत्पराशरेण, हर्यश्ववह्न्यन्तकविश्वनाथशीतांशुरूपाणि हि बिभ्रतीह । सर्वेऽपि भूपास्त्विह पञ्चरूपास्तत्कथ्यमानं शृणुत द्विजेन्द्राः॥ इत्यत्र सामान्यवाचि सर्वपदमुपात्तम् । हर्यश्व इन्द्रः । अ- ग्न्यादिकार्यकारित्वेन तत्तद्रूपतां द्रढयति— नारदः, कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः । प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥ बृहत्पराशरोऽपि, अकारणात्कारणतोऽपि चैष प्रजा दहेत्कोपसमिद्धरोचिः । यदा तदैनं नृपनीतिविज्ञास्तनूनपातं प्रवदन्ति भूपम् ॥ इति । अकारणादिति दुष्टनृपविषयम् । नारदः, यदा तेजः समालम्बेद्विजिगीषुरुदायुधः ।
राजप्रशंसा । २१ अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥ तथा बृहत्पराशरः, यदा जिगीषुर्घृतशस्त्रपाणिस्त्विषं समालम्ब्य सचित्तसैन्यः । सर्वान्सपत्नानिह जेतुकामस्तदा स हर्यश्व इवेह भाति ॥ इति । नारदः, विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः । प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥ तथा बृहत्पराशरः, समस्तशीतांशुगुणप्रयुक्तो यदा प्रजामेष शुभाय पश्येत् । प्रसन्नमूर्त्तिर्गतमत्सरः संस्तदोच्यते सोम इति क्षितीशः ॥ नारदः, धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः । समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥ तथा बृहत्पराशरः, धर्मासनस्थः श्रुतशास्त्रदृष्ट्या शुभाशुभाचारविचारकृत्स्यात् । धर्मेषु दानं त्वथ कृत्स्नदण्डं तदाऽवनीशस्त्विह धर्मराजः ॥ नारदः, यदा त्वर्थिगुरून् प्राज्ञान् भृत्यादीन् पृथिवीपतिः । अनुगृह्णाति दानेन तदा धनद उच्यते ॥ बृहत्पराशरोऽपि, यदा त्वमात्यद्विजपावकादीन् प्रहृष्टचित्तश्च यथोचितेन । धनप्रदानेन करोति हृष्टान् भूभृत्तदाऽसौ द्रविणेशवत्स्यात् ॥ अग्न्यादिपञ्चरूपत्वमुक्त्वाऽनाद्यनन्तात्मकविष्णुरूपत्वमाह— नारदः, अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः ।
२२ वीरमित्रोदयस्य राजनीतिप्रकाशे दीप्तत्वाच्च शुचित्वाच्च यद्यसौ न पथश्च्युतः ॥ पथश्च्युतो भ्रष्टाचारः । अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः । शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ अशुचिरित्यादिः तस्मात्तं नावजानीयादित्यस्याग्रेतन- स्यार्थवादः । तस्मात्तं नावजानीयान्नाक्रोशेन विशेषयेत् । वस्त्रालङ्कारादिभिस्तमपेक्ष्यात्मानं नाधिकं कुर्यात् । आज्ञया तस्य तिष्ठेत्तु मृत्युः स्यात्तद्व्यतिक्रमे ॥ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । स यद्ब्रूयादसत्सद्वा स धर्मो व्यवहारिणाम् ॥ राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् । न तस्याज्ञामतिक्रम्य प्रतिष्ठेरन्निमाः प्रजाः ॥ रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् । यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥ निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा । प्रजानां निर्गुणोऽप्येवं पूज्य एव नराधिपः ॥ राज्ञामाज्ञाभयाद्यस्मान्न च्यवन्ते पथः प्रजाः । व्यवहारस्ततो ज्ञेयः शंसतो राजशासनम् ॥ राजशासनं राजाज्ञाम् । स्थित्यर्थं पृथिवीपालैश्चारित्रविधयः कृताः ॥ चारित्रविधयः राजकृता भागादिव्यवस्थाः । चारित्रेभ्योऽप्यतः प्राहुर्गरीयो राजशासनम् ॥ तपःक्रीताः प्रजा राज्ञः प्रभुरासां नराधिपः । तस्मात्तद्वचसि स्थेयं वार्ता तासां तदाश्रया ॥
वार्ता कृषिपाशुपाल्यादिवृत्तिः । मनुः, यस्तु तं द्वेष्टि सम्मोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ तं राजानम् । द्वेष्टि तदाज्ञाभङ्गं करोति । स विनश्यति रा- जकृतवधभाग्भवतीत्यर्थः । बृहत्पराशरोऽपि, आज्ञा नृपाणां परमं हि तेजो यस्तां न मन्येत स शस्त्रवध्यः। श्रूयाच्च कुर्याच्च वदेच्च भूभृत्तदेव कार्यं भुवि सर्वलोकैः ॥ दुर्धर्षतीव्रांशुसमानदीप्तेर्भूयान्मनुष्यः परुषं नृपस्य । यस्तस्य तेजोऽप्यवमन्यमानः सद्यः स पञ्चत्वमुपैति पापात् ॥ योऽह्नाय सर्वं विदधाति पश्येत् शृणोति जानाति चकास्ति शास्ति । कस्तस्य चाज्ञां न बिभर्त्ति राज्ञः समस्तदेवांशभवः स यस्मात् ॥ अह्नाय शीघ्रम् । तस्माद्धर्मं यमिष्टेषु संव्यवस्येनराधिपः । अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ यतः सर्वतेजोमयो राजा तस्माद्धेतोरिष्टेषु वल्लभेषु मन्त्रिपु- रोहितादिषु यं धर्मं यां व्यवस्थां स्मृत्याचाराविरुद्धां व्यवस्येत् निश्चित्य स्थापयेत् तां न विचालयेत् । सा तादृशी राज्ञ आज्ञा अनतिक्रमणीया । अद्य सर्वैरुत्सवः कर्त्तव्यः मन्त्रिगृहे वि- वाहो वर्तते तत्र सर्वैः सन्निधातव्यम्, तथा सौनिकैरद्य पश- वो न हन्तव्याः न शकुन्तयो बन्धायितव्याः, नर्त्तका धनि- कैरुपरोधनीया एतावन्त्यहानि । एवमनिष्टेष्वपि-एतेन सह सं- सर्गो न विधेयः, एतस्य गृहे प्रवेशो न देयः । एवंविधो धर्मः स्पृहादोषादिना राजादिष्टो नातिक्रमणीयः । न त्वग्निहोत्रादि-
२४ वीरमित्रोदयस्य राजनीतिप्रकाशे धर्मव्यवस्थायै वर्णाश्रमिणां राजा प्रभवति स्मृत्यन्तरविरोधप्र- सङ्गात् । अविरोधे चास्मिन् विषये वचनस्यार्थवत्त्वात् । बृहस्पतिः, बलेन चतुरङ्गेण यतो रञ्जयति प्रजाः । दीप्यमानः स वपुषा तेन राजाऽभिधीयते ॥ बलने सेनया । चतुरङ्गेण हस्त्यश्वरथपादातेन । अङ्गिराः, गुरुवद्येन भूपाळः पापं दण्डेन भूयसा । संस्करोत्यवनाच्चैव तेनासौ गुरुरुच्यते ॥ पापं पापकारिणम् । संस्करोति शुद्धं करोति । शुद्धं कृत्वा- ऽवति च । बृहत्पाराशरे, अथातो नृपतेर्धर्मम्-इत्युपक्रम्य । भूभृत् भूम्यां परो देवः पूज्योऽसौ परदेववत् । स विधाता च सर्वस्य रक्षिता शासिताऽपि सः ॥ परो देवः स्वाराध्यदेवः । महाभारते, अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते । परस्परं च खादन्ति सर्वथा धिगराजकम् ॥ इन्द्रमेव प्रवृणुते यद्राजानमिति श्रुतिः । यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ॥ नाराजकेषु राष्ट्रेषु वस्तव्यमिति रोचये । नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहेत्युत । अथ चेदभिवर्तेत राज्यार्थं बलवत्तरः ॥ अराजकानि राष्ट्राणि हतवीर्याणि वा पुनः ॥
राजप्रशंसा । २५ न हि पापातपरतरमस्ति किञ्चिदराजकात् । स चेत्समनुपश्येत समग्रं कुशलं भवेत् ॥ श्रीरामायणे, नाराजके जनपदे योगः क्षेमं प्रवर्त्तते । न चाप्यराजके सेना शत्रून् विषहते परान् ॥ अराजके राजरहिते । अलब्धलाभो योगः । लब्धस्य र- क्षणं क्षेमम् । विषहते तन्निवारणक्षमा भवति । विपालाश्च यथा गावो यथा चातृणकं वनम् । विपाला रक्षकरहिताः । अजलाश्च यथा नद्यस्तथा राष्ट्रमराजकम् ॥ अन्धं तम इवेदं स्यान्नेह ज्ञायेत किञ्चन । राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी । गरुडपुराणे, धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ श्रीमहाभारते, राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम् । राजाभिपन्नस्य कुतः सुखानि राजाऽभ्युपेतं सुखिनं करोति ॥ राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च । यमाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र ॥ राजाभिपन्नस्य राज्ञा अभिपन्नस्य कृताभियोगस्य । राजधर्मे, बृहस्पतिरुवाच । राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते । प्रजा राजभयादेव न खादन्ति परस्परम् ॥ ४
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् । समुदीर्णम् सम्यक्कृतोदीरणं, समीचीनप्रकारेण स्वस्वदुः खाद्याख्यायकम् । समुत्सुकम् दुःखवशेन देशग्रामादि परित्य- क्तुमुत्कण्ठावन्तम् । प्रसादयति धर्मेण प्रसाधयंति राजते ॥ यथा ह्यनुदये राजन् भूतानि शशिसूर्ययोः । अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥ यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः । निराक्रन्दे आक्रन्दतीत्याक्रन्दो निषेधस्तदभावे । विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः ॥ न मिथ्यातिक्रमेरंश्च विषह्यापि परस्परम् । नेति काकुः । विमध्यातिक्रमेरन् इति पाठस्तु सुगम एव । अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥ एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः । अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥ हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान् । हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥ व्यायच्छमानान् कृतप्रयत्नान् । ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः । विष्वग्लोपः प्रवर्त्तेत यदि राजा न पालयेत् ॥ यानं वस्त्रमलङ्कारान् रत्नानि विविधानि च । हरेयुः सहसा पापा यदि राजा न पालयेत् ॥ पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु । अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥ १ प्रसाध च विराजते इति मुद्रितभारतपुस्तके पाठः ।