वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
तथा याज्ञवल्क्यः— कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् । व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ कृतरक्षः, पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातरुत्था- याधिकृतैः क्रियमाणावायव्ययौ स्वयमेव पश्येत् । स्वयंग्रहण- मादरार्थम् । स्नानं सकलमाध्याह्निकोपलक्षणम् । कामतः, यथारुचि । मनुः— अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च । आयव्ययौ च नियतावाकरान् कोशमेव च ॥ वृद्धवासिष्ठः— मौनी मूत्रपुरीषे तु ततः कुर्यादुदङ्मुखः । मनुः— उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुत्वाग्निं ब्राह्मणांश्चार्च्य प्रविशेत्तु सभां शुभाम् ॥ स्मृत्यन्तरेऽपि- प्रातरुत्थाय नृपतिः कुर्याद्दन्तस्य धावनम् । स्नानशालां समागत्य स्नात्वा पूतेन वारिणा ॥ अर्घं दत्त्वा तु देवाय भास्कराय समाहितः । ततोऽलङ्कृतगात्रः सन् वक्त्रमालोक्य मन्त्रवत् । घृतपात्रं तु विप्राय दद्यात्सकनकं नृपः ॥ मन्त्रस्त्वग्रे वक्ष्यते । मुखावलोकनं चार्थाद् घृत एव । विष्णुधर्मोत्तरे- वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् । दत्ताभ्यङ्गः प्रदोषे तु कल्पमुत्सादितस्ततः ॥
१६६ वीरमित्रोदयस्य राजनीतिप्रकाशे वेगाः, मूत्रपुरीषादयः। कल्यम्, प्रातः। उत्सादितः, कृतोद्वर्तनः। स्नानं कुर्यात्ततः पश्चाद्दन्तधावनपूर्वकम् । औषधैर्मन्त्रपूतैस्तु पानीयैर्विविधैः शुभैः ॥ सन्ध्यामुपास्य प्रयतः कृतजप्यः समाहितः । अग्न्यगारं प्रविश्याथ वह्नीन् पश्येत्पुरोधसा ॥ हुतान्सम्यक्ततः कुर्याद्वासुदेवस्य चार्चनम् । दुःस्वप्नशमनं कर्म तस्य कुर्यात्पुरोहितः ॥ स्वयं चोपसदे वह्नौ पवित्रान् जुहुयान्नृपः । तर्पयेदुदकैर्देवान् पितॄनथ यथाविधि । दद्यात् द्विजातये धेनुं सवस्त्रां च सकाञ्चनाम् ॥ शक्त्या धनैः पूजयित्वा दत्ताशीः सततं द्विजैः । अनुलिप्तस्ततः स्रग्वी सुवासाश्चाप्यलङ्कृतः ॥ दर्पणे च मुखं पश्येत्ससुवर्णे च सर्पिषि । आज्यं प्रसन्नं सुरभि यदि स्याद्विजयो भवेत् ॥ दीयमाने च दुर्भेदे पतिते च भयं भवेत् । विकृतं चेन्मुखं पश्येद्राजा मृत्युमवाप्नुयात् ॥ सुप्रभं च यदा पश्येत्तदा तस्य शुभं भवेत् । तथा, यस्तु कल्यं समुत्थाय मुखमाज्ये निरीक्षते । तस्यालक्ष्मीः क्षयं याति वर्द्धते तेजसा श्रिया ॥ ततश्च शृणुयाद्राजा सांवत्सरमुखोद्गतम् । दिवसं तिथिनक्षत्रं सर्वाशुभविनाशनम् ॥ भिषजां च वचः कुर्यात्तेजस्त्वारोग्यवर्द्धनम् । मङ्गलालम्भनं कृत्वा ततः पश्येद् गुरून्नृपः ॥ कृताशीर्गुरुभिः पश्चाद्राजा गच्छेत्सभां ततः ।
राज्ञो दिनकृत्यम् । १५७ आथर्वणपरिशिष्टे तु घृतावेक्षणस्य कश्चित्प्रकारविशे- षोऽप्युक्तः । स यथा— अथ घृतावेक्षणं वक्ष्यामः, प्रातः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वा प्रतिबोधेत राजा । शयनगृहादुत्थाय राजा- ऽपराजितां दिशमभिनिष्क्रम्य जयेत् । अथ पुरोहितः स्नातो- ऽनुलिप्तः शुचिः शुक्लवासा घृतमङ्गलसहितः सोष्णीषी शान्तिगृहं प्रविश्य तेन स्वस्तिवाचनादनुज्ञातो विनीतवदुपविशेत् । 'य- मस्य लोका', 'यथाकलं यो न जीवोऽसि' इति स्वस्त्ययनं कृत्वोल्लिख्याभ्युक्ष्य, परिस्तीर्य, शन्तातीयेन तिलान् घृताक्तान् हुत्वा, सौवर्णं राजतमौदुम्बरं वा पात्रं घृतपूर्णं सहिरण्यं 'घृ- तस्य जूतिः', 'सहस्रशृङ्गः', 'यमस्य लोका', 'उरु वि
गुरुणा याचितो यस्माद्दीर्घमायुरवाप्नुयात् ॥ आयुष्यमथ वर्चस्यं सौभाग्यं शत्रुनाशनम् । दुःस्वप्ननाशनं पुण्यं घृतस्यावेक्षणं स्मृतम् ॥ इति । इति आथर्वणपरिशिष्टोक्तं घृतावेक्षणम् । ब्रह्मपुराणे- नित्यं राज्ञा समुत्थाय पूजनीयाः सुराद्विजाः । वह्निसम्पूजनं कार्यं द्रष्टव्यं चन्दनं घृतम् ॥ श्रोतव्ये तिथिनक्षत्रे कर्तव्यं वैद्यभाषितम् । इति । याज्ञवल्क्यः- ऋत्विकपुरोहिताचार्यैराशीर्भिरभिनन्दितः । दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद्गाः काञ्चनं महीम् ॥ नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च । दृष्ट्वा, तदधीनं कार्यजातं च विचार्य । गाः, दोग्ध्रीः । नैवे- शिकानि, विवाहोपयोगीनि कन्यालङ्करणादीनि । गृहाणि च श्रोत्रियेभ्यो वेदविद्भ्यो दद्यात् । शङ्खलिखितौ-राज्ञः प्रत्यहं घृतान्वीक्षणं मङ्गलदर्शनं कपिलाप्रदानं स्वलङ्कृतस्य सम्भाषणं वैद्यदर्शनम् । इति । सभाऽनुवृत्तौ विष्णुधर्मोत्तरे- तत्रस्थान् ब्राह्मणान् पश्येदमात्यान् मन्त्रिणस्तथा । प्रकृतीश्च महाभाग प्रतीहारनिवोधितः ॥ तत्रेतिहासश्रवणं कुर्यात्कश्चिदतन्द्रितः । ततः कार्यार्थिनां कुर्याद्यथाधि कार्यनिर्णयम् ॥ व्यवहारांस्ततः पश्येत्समो भूत्वाऽरिमित्रयोः । इति । बृहस्पतिः- पूर्वाह्णे तामधिष्ठाय वृद्धामात्यानुजीविनः ।
पश्येत्सुरान् स धर्मार्थशास्त्राणि शृणुयात्ततः ॥ ताम्, सभाम् । सुरान्, भूसुरान् । पूर्ववाक्ये तत्रस्थान् ब्राह्मणानित्युपादानात् । मनुः- तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥ तत्र, सभायाम् । मन्त्रे स्थलं कालं च स एवाह- गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रयेताविभावितः ॥ निःशलाके, विविक्ते देशे । मध्यन्दिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्मकामार्थान् सार्द्धं तैरेक एव वा ॥ परस्परविरुद्धानां तेषां च समुपार्जनम् । तेषाम्, धर्मार्थकामानाम् । कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥ दूतसम्प्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रधानं च प्रणिधीनां च चेष्टितम् ॥ कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः । अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ अष्टविधं कर्म प्रचेता आह- आदाने च विसर्गे च तथा प्रैषनिषेधयोः । पञ्चमे चानुवचने व्यवहारस्य चेक्षणे ॥ दण्डशुद्ध्योः सदा युक्तस्तेनाष्टगणिको नयः । अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥
१६० वीरमित्रोदयस्य राजनीतिप्रकाशे आदानम्, करादीनाम्। विसर्गो, भूतेभ्यो धनदानम्। प्रैषः, अमात्यादीनां दृष्टादृष्टार्थानुष्ठाने। निषेधः, विरुद्धक्रियासु। अनु- वचनं, कार्यसन्देहे राजाज्ञा। शुद्धिः, प्रायश्चित्तम्। पञ्चवर्गः- सहायाः साधनोपाया विभागो देशकालयोः। विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥ इति। विष्णुधर्मोत्तरे- त्यक्त्वा सभां ततः कुर्यान्मन्त्रं तु सह मन्त्रिभिः। यत्रास्य कश्चित्तं मन्त्रं शृणुयान्न कथञ्चन ॥ मन्त्रं कृत्वा ततः कुर्याद्व्यायामं पृथिवीपतिः। रथे नागे तथैवाश्वे खड्गे धनुषि चाप्यथ ॥ अन्येषु चैवं शस्त्रेषु नियुद्धेषु ततः परम्। पद्भ्यामुद्वर्त्तितः स्नातः पश्येद्विष्णुं सुपूजितम् ॥ हुतं च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान्। श्वसितान् दक्षिणाभिश्च पूजितान् भृगुसत्तम ॥ श्वसितान्, तर्पितान्। ततोऽनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः। सुवासा भोजनं कुर्याद्गीतं च शृणुयात्तदा ॥ आप्तैः परीक्षितं वह्नौ मृगपक्षीङ्गितैस्तथा। इति। तथा मनुः- एवं सर्वमिदं राजा सह संमन्त्र्य मन्त्रिभिः। व्यायम्याऽऽप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं व्रजेत् ॥ तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः। सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥ इति। विष्णुधर्मोत्तरेऽपरीक्षितस्य निषेधोऽप्युक्तः-
राज्ञो दिनकृत्यम् । १६१ नापरीक्षितपूर्वं च भोजनं शयनं स्पृशेत् । वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम ॥ इति । मनुः, विषघ्नैरुदकैश्चास्य सर्वद्रव्याणि नेजयेत् । नेजयेत् प्रक्षालयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः । वेषाभरणसंयुक्ताः संस्पृशेयुः समाहिताः ॥ एवं प्रयत्नं कुर्वीत यानशय्यासनाशने । स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ इति । तथा विष्णुः, सुदर्शनश्च स्याद्विषघ्नागदमन्त्रधारी नापरीक्षितमुपभुञ्जीत। इति। अगदानि औषधानि । अत्र विशेष उक्तो- विष्णुधर्मोत्तरे, राम उवाच । कल्पना भोजनीयानां गन्धानां या च कल्पना । [L18
१६२ वीरमित्रोदयस्य राजनीतिप्रकाशे वरुणक्षारसंयोगान्मत्स्यस्यास्थि विलीयते ॥ गण्डिकाभिः पलाशस्य क्षीरमावर्त्तितं द्रुतम् । कपित्थचूर्णयोगेन तथा चैव सुजानता । घृतं सुगन्धीभवति दग्धैः क्षिप्तैस्तथा यवैः ॥ पद्मवारिणि योगेन काञ्जिकस्याम्लता भवेत् । गुडाद्यं शुद्धिमाप्नोति क्षीरेण च तथा द्रुतम् ॥ पद्मरागसमं चूर्णमंशुमत्या च जायते । पानकानां महाभाग यस्याप्यन्यस्य चेच्छसि ॥ क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति । लवणाधिकविक्षेपसञ्जातविरसं ध्रुवम् ॥ सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् । चणकक्षारयोगेन पुष्पाणि च फलानि च ॥ सर्वाणि द्रुतिमायान्ति द्रुतानां कल्पना भवेत् । गन्धवर्णरसाधानं पानकादिषु सर्वतः ॥ यथाकालं यथादेशं यथासात्म्यं च कारयेत् । नात्यर्थदीप्तेन हुताशनेन नात्यन्तमन्देन धमाद्यमन्नम् । रसेन चाप्यत्र भवेत्प्रभूतं तात्पर्यमेतत्कथितं मया ते ॥ इति। अद्यम् अदनार्हम् । धम संयोजय । विस्तरश्चास्य सूपशा- स्त्रादवगन्तव्यः । सविषान्नादेः परीक्षाप्रकारश्च- मत्स्यपुराणे, विषाच्च रक्ष्यो नृपतिस्तत्र युक्तिं निबोध मे । क्रीडानिमित्तं नृपतिर्धारयेन्मृगपक्षिणः ॥ अन्नं वै प्राक्परीक्षेत वह्नौ चान्यतमेषु च । वस्त्रं पात्रमलङ्कारं भोजनाच्छादने तथा ॥ नापरीक्षितपूर्वं तु स्पृशेदपि महीपतिः ।
[Header] राज्ञो दिनकृत्यम् । १६३
श्यावास्यचक्रः सन्तस्रः सोद्वेगं च निरीक्षते ॥ श्यावास्यचक्रः, ईषत्कृष्णश्वेतमुखमण्डलः । विषदो वा विषं दत्त्वा यत्र तत्र निरीक्षते । स्रस्तोत्तरीयो विमनाः स्तम्भकुड्यादिभिस्तथा ॥ प्रच्छादयति चात्मानं लज्जते स्खलते तथा । भुवं विलिखति ग्रीवां तथा चालयति द्विज ॥ कण्डूयति च मूर्द्धानं परिलक्ष्यो नरः सदा । क्रियासु त्वरितो राजन् विपरीतास्वपि ध्रुवम् ॥ एवमादीनि चिह्नानि विषदस्य परीक्षयेत् । ततो विचारयेदग्नौ तदन्नं त्वरयाऽन्वितः ॥ इन्द्रायुधसवर्णोऽग्नी रूक्षः स्फोटसमन्वितः । एकवर्णोऽथ दुर्गन्धर्भृशं चटचटायते ॥ तद्धूमदर्शनाज्जन्तोश्शिरोरोगश्च जायते । सविषेऽन्ने निलीयन्ते न च पार्थिव मक्षिकाः ॥ विलीनाश्च विपद्यन्ते दृष्टे च सविषे तथा । विरज्यति चकोरस्य दृष्टिः पार्थिवसत्तम ॥ विकृतिं च स्वरो याति कोकिलस्य तथा नृप । गतिः स्खलति हंसस्य भृङ्गराजश्च कूजति ॥ क्रौञ्चो मदमथाभ्येति कृक
[Header] १६४ वीरमित्रोदयस्य राजनीतिप्रकाशे
तथा भवति सास्त्रावं पक्वं पर्युषितोपमम् ॥ व्यापन्नरसगन्धं च चन्द्रिकाभिस्तथा युतम् । व्यञ्जनानां च शुष्कत्वं द्रवाणां बुद्बुदो भवेत् ॥ ससैन्धवानां द्रव्याणां जायते फनमालिका । रसस्य राजिस्ताम्रा स्यान्नीला च पयसस्तथा ॥ कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम । धान्याकस्य तथा कृष्णा कपिला कोद्रवस्य च ॥ मधुश्यावा च तक्रस्य नीलपीता तथैव च । घृतस्योलूकसङ्काशा कपोताभा च मस्तुनः ॥ हरिता माक्षिकस्यापि तैलस्य च तथाऽरुणा । फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते ॥ प्रस्वेदश्चैव पक्वानां माल्यानां म्लानता तथा । मृदुता कठिनानां च मृदूनां च विपर्ययः ॥ सूक्ष्मतन्तूपसदनं तथा चैवातिरोमता । श्याममण्डलता चैव वस्त्राणां च विशेषतः ॥ लोहानां च मणीनां च मलपङ्कोपदिग्धता । अनुलेपनगन्धानां सूनानां च नृपोत्तम ॥ विगन्धता च विज्ञेया पर्णानां म्लानता तथा । एवमादीनि चिह्नानि विज्ञेयानि नृपोत्तम ॥ तस्माद्राजा सदा तिष्ठेन्मणिमन्त्रौषधागदैः । उक्तैः संरक्षितो राजा प्रमादपरिवर्जकः ॥ प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्वृद्धिमुपैति राज्यम् । तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या रविवंशचन्द्र॥इति सूनानां प्रसूनानाम् । अगदैः संरक्षितः सदा तिष्ठेदित्युक्त- म्, तत्र कान्यगदानीत्यपेक्षायाम्-
राज्ञो दिनकृत्यम् । १६५ विष्णुधर्मोत्तरे, राम उवाच । रक्षोघ्नानि विषघ्नानि यानि कार्याणि भूभुजा । अगदानि समाचक्ष्व तानि धर्मभृतां वर ॥ पुष्कर उवाच । बिल्वाढकीयवक्षारपाटलावाल्हिकोषणाः । श्रीपर्णीशल्लकीयुक्ता निष्क्वाथः प्रोक्षणं परम् ॥ सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम् । यवसेन्धनपानीयवस्त्रशय्यासनौदनम् ॥ कवचाभरणच्छत्रवालव्यजनमेव च । यवसं तृणमर्जुनम्, तदादि वेश्मान्तं बिल्वादिकार्थैः प्रोक्षि- तं सद्यो निर्विषं भवति । शेलूपाटलयतिविषाशिग्रुगोभीपुनर्नवाः । समङ्गावृक्षमूलत्वकपित्थं वृषशोणितम् ॥ सहदन्तशठं तद्वत्प्रोक्षणं विषनाशनम् । लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गासहरेणुकाः ॥ सपथ्याह्वा मधुयुता बभ्रुपित्तेन कल्किताः । निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले ॥ ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् । संस्पृष्टः सविषस्तेन सद्यो भवति निर्विषः ॥ मनोव्हाऽऽलक्ष्मीपुष्पस्त्वङ्गङ्गाश्वेतसर्षपाः । कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ॥ शुनो गोः कपिलायाश्च सौम्याख्योऽयं परोऽगदः । विषजित्परमः कार्यो मणिरत्नं च पूर्ववत् ॥
१६६ वीरमित्रोदयस्य राजनीतिप्रकाशे पूर्ववत्, “ततः कृत्वा मणिं हेम्ना” इत्यादिप्रकारेण । मूषिका जीरका वापि हस्ते बद्धा विषापहा । हरेणुमांसीमञ्जिष्ठारजनी मधुकं मधु ॥ अक्षत्वक्सुरसा चापि श्वपित्तं पूर्ववन्मणिः । वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः ॥ श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः । त्र्यूषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् ॥ सूक्ष्मैला त्रिवृतापत्रविडङ्गानीन्द्रवारुणी । मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत् ॥ तस्मादुष्णाम्बुना मात्रां प्रागुक्तां योजयेत्तथा । विषं मुक्तं जरां याति निर्विषेऽपि न दोषभाक् ॥ सक्तुसर्जरसोशीरसर्पषापत्रवालकैः । सवेल्लारुष्करखुरैः कुसुमैरर्जुनस्य च ॥ धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् । न तत्र कीटाः सविषा दर्दुरा न सरीसृपाः ॥ न कृत्याः कार्मणा याश्च धूपोऽयं यत्र दह्यते । कल्कितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः ॥ मूर्वैलवालुसुरसानाकुलीतन्दुलीयकैः । क्वाथः सर्वोदकार्थेषु काकमाचीयुतैर्वृतः ॥ रोचनापत्रनैपालीकुङ्कुमैस्तिलकं वहन् । विषैर्न बाध्यते स्याच्च नरनारीनृपप्रियः ॥ चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बकैः । दिग्धं निर्विषतामेति गात्रं सर्वविपार्दितम् ॥ शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च । गोमूत्रपिष्टं ह्यगदः सर्वकर्मकरः स्मृतः ॥ इति ।
मणयो मन्त्राश्चागदाः प्रसिद्धास्तत्सङ्ग्रहं च कुर्यात् । एव- मादिभिर्निर्विषमन्नं निर्णीय भुञ्जीत । तथा तत्रैव, भुक्त्वा गृहीतताम्बूलः परिक्रम्य विशेत्ततः । शयने वामपार्श्वेन ततः शास्त्राणि चिन्तयेत् ॥ इति । मनुः, भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य च यथाकालं पुनः कार्याणि चिन्तयेत् ॥ अलङ्कृतस्तथा पश्येदायुधीयं पुनर्जनम् । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ इति । याज्ञवल्क्यः, हिरण्यं व्यापृतानीतं भाण्डागारे न्यसेत्ततः । पश्येच्चारांस्तथा दूतान् प्रेषयेन्मन्त्रिसङ्गतः ॥ हिरण्यं हिरण्यादिधनम् । व्यापृतानीतं, व्यापृतैराकरादि- द्रव्यार्जनस्थानेषु नियुक्तैरानीतम् । ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः । बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ सन्ध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् । गीतैर्नृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥ इति । भुक्त्वा यथेच्छमङ्गनाभिः सह क्रीडेत, कार्यवशान्मन्त्रिभिर्वा समागतो भवेत् । बलानां हस्त्यश्वादीनाम् । सेनान्या चमूपतिना सह बलविषयमर्थं च चिन्तयेत् । सन्ध्यां, सायंसन्ध्याम् । गीतं नृत्यं च श्रुत्वा भुक्त्वा वेदं पठेत् । अत्र विशेषान्तरमाह — मनुः, सन्ध्यामुपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
१७० वीरमित्रोदयस्य राजनीतिप्रकाशे अभयैरपराजितैरायुष्यैः स्वस्त्ययनैरप्रतिरथेनेति च हुत्वा संस्थाप्य “अग्नेरदोसि” इत्यहतवासोभिः प्रच्छाद्य रसैः कुम्भानौदुम्बरान् पूरयित्वा प्रतिदिशमवस्थाप्य, “ममाग्ने वर्चो” “अभयं द्यावापृ- थिवी” “उदुत्तमं वरुण” “अश्विना ब्रह्मणायतम्” इति जुहुयात् । पौर्णमासीप्रथमेति च जुहुयात् दुन्दुभिमाहन्यादित्युक्तम् । “उप- श्वासय पृथिवीम्” इति तत्रैवानुमन्त्रणं च । सर्वाणि च वादि- त्राणि वाहनानि च “जनस्यास्मान् प्रहर्षय” पश्चमीं प्रतिष्ठापये- त् । “न तं यक्ष्मा एतु देव” इति गुग्गुलुकुष्ठधूपं दद्यात् । “यस्ते गन्धस्त्रयायुषम्” इति भूतिं प्रयच्छेत् । “दूष्या दूषिरसि” इति प्रतिसरं बद्ध्वा “वातः पुरस्तात्” इति प्रतिदिशं क्षिपेत् । बहिर्नि- सृत्योत्तरेण गत्वा वाह्येनोपनिष्क्रम्य सुहृदे कुर्याच्छ्रद्धते कुर्या- द्वाहनानामभयं कर्म्म । तन्त्रमित्युक्तां शान्तिं, ‘तन्त्रभूतां महाशान्तिं प्रवक्ष्याम’ इत्यादिनाक्ताम् । दूषणेन, ‘दूष्या दूषिरसि’ इतिसूक्तेन । निः- सालां, ‘निःसालां धृष्णुं धिषणम्’ इतिसूक्तम् । प्रतिसरं, हस्ते तन्तुमयं कङ्कणम् । अथाश्वयुजे मासे पूर्णमास्यामपराह्ने हस्तिने नीराजनं कुर्यात्। प्रागुदक्प्रवणे देशे यत्र वा मनो रमते । “गिरयस्ते पर्व- ता” इत्येतया हस्तशतमर्द्धं वा मण्डलं परिगृह्य “याभिर्यज्ञम्” इति सम्प्रोक्षेत् । तत्र श्लोकाः— दशहस्तसमुत्सेधं पञ्चहस्तं तु विस्तृतम् । शान्तिवृक्षमयं कुर्यात्तोरणं पुष्टिवर्द्धनम् ॥ शुक्लैः शुक्लाम्बरध्वजैर्माल्यैश्च परिभूषितम् । कारयेद्विले शुभ्रे रसैश्च परिपूरिते ॥ रसैस्त्वामभिषिञ्चामि भूमे मह्यं शिवा भव ।
राज्ञो वर्षकृत्यम् । १७१
असपन्ना सपत्नश्रीर्मम यज्ञविवर्द्धनी । इमं स्तम्भूभृतांतवक्तावुभौ मा यससावतात् ॥ ? यो मा कश्चाभिदासति तमिमौ भूमिर्दहतामित्यु- च्छ्रयस्व “इमाया ब्रह्मणस्पत” इति । एताभ्यामुच्छ्रयीणि मा- लापताकैस्तम्भान् संयोष्य तस्यां चतुर्हस्तां वेदिं कृत्वा दर्भ- पवित्रपाणिर्बलिं पुष्पाणि च दत्त्वा मधुना मिश्रैः स्वस्तिकं स- यावकदधिकृशरापूपकान् पायसं घृतं विविधपानभक्षफलैरग्निं परिस्तीर्य “आपोऽस्मान्मातरः सूदयन्तु” इति चतुरौदुम्बरान् कुम्भान् ह्रदोदकेन पूरयित्वा प्रतिदिशमवस्थाप्य दध्यात् रौद्रा- ग्नेयवासव्यवारुणा मन्त्राः । रक्षोघ्नं कृत्वा दूषणं यशस्यवर्चस्या- नि च हुत्वौषधिं समादाय द्विहस्तं मण्डलमित्युक्तम् । तत्र श्लोकः- बृहत्कण्टारिकण्टकालघुकण्टारिकाः स्मृताः । सुवर्णपुष्पी श्वेतगिरिकर्णिका ह्युदिसत्त्वा ॥ ? सिंही व्याघ्री हिरण्यवर्णामपराजिता पृश्निपर्णी दूर्वा पद्म- मुन्मत्तमालिनीं तामनुमन्त्रयते । वैणवं कटमवस्थाप्यादध्यात् । द्वैपवैयाघ्रानडुच्चर्म्म परिस्तीर्य ततो या स्यादधिदेवता तस्यै बलिं दत्त्वा पिण्डानि च दद्यात् । हस्तिनमाचामयेत् । यस्यां दिशि रिपुर्न भवति तां दिशं गत्वा हस्तिनमानयेद्धिरण्येने रजतेन वज्रमणिमुक्तादिभिः शङ्खेन चन्दनेन भद्रदारुणा कुष्ठेन नलदेन रोचनेनाञ्जनेन मनःशिलया पद्मकुमुदोत्पलैः “ममाग्ने वर्च” इति सूक्तं दक्षिणोत्तरमुखं प्रतिजपेच्छेषेण गात्राण्यभ्यञ्जयेत् । तत्र श्लोकः- हस्तिनां रक्षणे दण्डः कर्त्तव्यो वैणवो नवः । षोडशारत्निमात्रस्तु चारुपर्वा मनोरमः ॥
१७२ वीरमित्रोदयस्य राजनीतिप्रकाशे तेन वारणान् वारयेत्। दन्ताग्रेषु तृणानि कृत्वा “यथा हव्यं वहसि ग्रससि तं जातवेदसम्"इत्यग्निं प्रज्वालयेत्। “सुजातं जात- वेदसम्" इति वाचयेद् “यथा हव्यम्" इति नीराजयित्वा। “निधिं बिभ्रति" इति शालां प्रवेशयेदनपेक्षमाणाः स्वानि स्थानानि व्रजन्ति दीर्घायुषो बलवन्तश्च भवन्ति । गोसहस्रं कर्त्रे दक्षिणा ग्रामवरं च । ‘निधिं बिभ्रति बहुधा गुहासु' इतिसूक्तं पठित्वा शालां प्रवेशयेत् । इति हस्त्यश्वदीक्षा समाप्ता । परिशिष्टद्वयम्— अथ वर्षशतं प्रवर्द्धमानो राजानमभिवर्द्धयिष्यन् संवत्सरे जन्मदिने कुर्यात् । तन्त्रमित्युक्तं,“पुनन्तु मा वायोः पूतो वैश्वा- नरो रश्मिः” इति । पवित्रैः पुण्याहादीनि च मङ्गलैर्यजमानं च सम्प्रोक्ष्य “यदा बध्नन्” इति पुष्पाद्यलङ्कारमावर्ज्जयित्वा मा- हेन्द्रं चरुं श्रपयेत् । लोकपालेभ्यश्च द्वितीयं चरुं श्रपयेत् । “महां इन्द्रो य ओजसा” इति द्वयौ हुत्वा इन्द्राय स्वाहेत्या- दिलोकपालांश्चेष्ट्वा राजानमन्वालभ्य आदिवज्जुहुयात् “अर्वा- ञ्चमिन्द्रः सुत्रामेममिन्द्र वर्द्धय क्षत्रियं मे शतं जीवन्तु शरद” इति । “रक्षन्तु त्वाग्नय” इति चतसृभी रक्षां कृत्वा रोचनया अलङ्कुर्यात् । त्रिगुणेन सूत्रेण बद्ध्वा “मानायीतन्तुम्” इति सूक्तेन रक्षासूत्रं सम्पातं च कृत्वा “धाता ते ग्रन्थिम्” इति बध्नाति । उत्तरं तन्त्रं हिरण्यं दक्षिणा ॥ १ ॥ महानवम्यां हस्त्यश्वदीक्षा प्रतिपत्प्रभृति नवरात्रं शस्त्रसत्त्वसम्पातः । तृतीयायां हस्त्यश्वानां कर्म्म,सप्तम्यां हस्त्यश्वानां दर्शनम्, अष्टम्यामथ पिष्टमयीमित्या- दि,नवम्यां दुर्गापूजनम् अथ नवम्यामित्यादि नवम्याम् । अथा-
पराजितदशम्यां पूर्वाह्ने विजयमुहूर्त्ते उक्तं प्रास्थानिकम् । एतानि खलु प्राग्द्वाराणि इत्यादि “स्वस्तिदा ये ते पन्थान”इ- त्यादि नक्षत्रहोमश्च अथ श्रवणे नक्षत्रे अथ राज्ञामिन्द्रमहस्येति व्याख्यातः । अथ पौर्णमास्यामपराह्ने पूर्णमासिकं कर्म्म । अथापामार्गत्रयोदश्यां श्वेते मुहूर्त्ते स्नानं कृत्वा अपामार्गं त्रिः परिभ्रामयेद्राज्ञ उपरि मन्त्रेण, “ईशानां त्वा भेषजानाम्” इति त्रिभिः सूक्तैः “प्रतीचीनफल” इति सूक्तेन वा पुनः स्नानम् । तत आरात्रिकं परिधत्तेतिद्वाभ्यामितिसमानम् । अथ दीपोत्सवं प्रतिपदि हस्त्यश्वादिदीक्षादिसमानमभ्यातानान्तं कृत्वा “येस्यां प्राची दिक्”इति “मानो देवा” “यस्ते सर्प” इत्येतैः सूक्तैः तृणानि युगतद्वाना सम्पातवन्ते गवां च प्रातितमिमधानाश्ने हस्त्यश्वादियुगपत्तन्त्रं समानं धेनुर्दक्षिणा । अथाक्षयनवम्यां रात्रौ हस्त्यश्वादीनामनीकानां रथस्य परहोमश्च । अथ वि- ष्णुद्वादश्यां पुरोहितः पश्चिमां सन्ध्यामुपास्य गृहीतदर्भो यत्र राजानमभिगम्य पौष्टिकहोमश्च रात्रौ नीराजनं कृत्वा हस्त्य- श्वेभ्यश्च । अथ कार्त्तिक्यां पौर्णमास्यां रेवत्यामाश्वयुज्यां वृषोत्सर्गः। अथाग्रहायणीपौर्णमास्यां तन्त्रं कृत्वा पादाग्रेतिद्वाभ्यां रसं सम्पात्याभिमन्त्र्य राजानं प्राशयेत् । अथ पौष्यां पौर्ण- मास्यामुक्तः पुष्याभिषेकः । अथ फाल्गुन्यां पौर्णमास्यां रात्रौ होलिका । महानवम्यामुक्तप्रज्वलनं नीराजनं वा । अथ ग्री- ष्मप्रतिपद्यायुष्मते स्नानं कृत्वाऽपां सूक्तैराप्लुत्य प्रदक्षिणमा- वृत्याऽप उपस्पृशेदित्युक्तम् । अथ चैत्र्यां पौर्णमास्यां तेजोव्रतं त्रिरात्रमश्नातीत्युक्तम् । अथ मदनत्रयोदश्यां वैशाख्यां पौर्ण- मास्यां मध्याह्ने गर्ते वाप्यां पुष्करिण्यां घटे वा सर्वगन्धान् प्र- क्षिप्य प्राक्तन्त्रमभ्यातानान्तं कृत्वा “सिंहे व्याघ्रे” “यशोहविः”
१७४ वीरमित्रोदयस्य राजनीतिप्रकाशे “प्रातरग्निं”’“गिरावर्गराटेपु’”’“दिवस्पृथिव्या’’इत्येतैः सूक्तैरुद- कं सम्पात्याभिमन्त्र्य राजानं स्नापयेत् प्रविश्य प्रोक्षति च तन्त्रं संस्थापयेद्धेनुर्दक्षिणा । अथ श्रावण्यां पौर्णमास्यां विजयमुहूर्त्ते “रक्षन्तु त्वाग्नय” इति रक्षाबन्धनं कृत्वा नीराजनं च बाह्येनोप- निष्क्रम्येतिपैठीनसिः । अथ आदित्यदिने आदित्यमण्डलो व्याख्यातः । अथ जन्मनक्षत्रे जन्मनक्षत्रयागहोमो व्याख्यातः। अथ राजकर्माणि प्रतिनक्षत्रं कर्त्तव्यानीत्यायुधायाश्वप्रभृत्या- दीनि विभृयादिति । कृत्तिकारोहिण्यादीनि व्याख्यातानि । इन्द्रोत्सवे इन्द्रोत्सवो व्याख्यातः । प्रतिदिनं ग्रहयागः । प्रतिदिनं नक्षत्रयागः । प्रतिदिनं दशगुणी महाशान्तिः । प्रतिस्थानं कृत्तिकारोहिण्यौ व्याख्याते । नक्षत्रस्नानानि नक्षत्रदक्षिणाश्च । राजकर्म सांवत्सरीयं हस्त्यश्वादिदीक्षा । इति राज्ञो वर्षकृत्यम् । अथ सहायाः । अभिषेकानन्तरं राज्ञा किं कर्त्तव्यमित्यपेक्षायाम्- मत्स्यपुराणे, मनुरुवाच । राज्ञोऽभिषिक्तमात्रस्य किन्नु कृत्यतमं भवेत् । एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥ मत्स्य उवाच । अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन । सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् । पुरुषेणासहायेन किमु राज्यं महोदयम् ॥ तस्मात्सहायान् वरयेत्कुलीनान्नृपतिः स्वयम् ।
राज्ञः सहायाः । १७५ शूरान् कुलीनजातीयान् बलयुक्तान् श्रियान्वितान् ॥ रूपसत्त्वगुणोपेतान् संयतान् क्षमयाऽन्वितान् । क्लेशक्षमान् महोत्साहान् धर्मज्ञांश्च प्रियंवदान् ॥ हितोपदेशकाञ्ज्ञाज्ञः स्वामिभक्तान् श्रियान्वितान् । इति । विष्णुधर्मोत्तरे, साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः । अक्षुद्राः शुचयो दक्षाः स्युर्नराः पारिपार्श्वकाः ॥ पारिपार्श्वकाः निकटवर्त्तिनः। तांश्च नित्यं परीक्षेदित्युक्तम्- तत्रैव, परीक्षेतप्रत्यहं भृत्यानामैश्वारैर्नराधिपः । समानशीलैर्विश्वस्तैर्विदृणोति मनोगतम् ॥ इति । बालिशादीनपरीक्षितांश्च न कुर्यादित्युक्तम्- तत्रैव, न बालिशा न च क्षुद्रा नाप्रज्ञा नाजितेन्द्रियाः ।
१७६ वीरमित्रोदयस्य राजनीतिप्रकाशे गरुडपुराणे, भृत्याश्च त्रिविधा ज्ञेया उत्तमाधममध्यमाः । नियोक्तव्या यथार्हेषु त्रिविधेषु च कर्मसु ॥ इति । मत्स्यपुराणेऽपि, गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् । कर्मस्वेव नियुञ्जीत यथायोग्येषु भागशः ॥ अत्रायं वाक्यार्थः । यदि मौलाः कुलीना अपि तथा पि- तृपैतामहपदयोग्यगुणहीनास्तांस्तथाविधगुणहीनानपि विज्ञाय यथायोग्येष्वेव कर्मसु स्वयं भागशः कर्मविभागेन नियुञ्जीत, न तु तत्तत्पितृपैतामहपदेषु, तत्र तत्र तेषामयोग्यत्वात् । यथायो- ग्येषु कर्मसु नियुञ्जीतैवेति वा वाक्यार्थः । तेषामवश्यभरणीया- नामभरणे तेषां च राजान्तराश्रयणे महादोषः स्यात् । भृत्याना- मवश्यं परीक्षा कार्येत्युक्तम्— गरुडपुराणेऽपि, यथा चतुर्भिः कनकं परीक्ष्यते तुला कष च्छे द न ता प ने न । तथा चतुर्भिर्भृतकः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा॥ इत्यादिवचनैः परीक्षितास्तत्तत्कर्मसु नियोज्याः । एते एव च सहाया इति व्यपदिश्यन्ते । ते च द्विविधा राज्याङ्गोपकारका राजाङ्गोपकारकाश्च । ते च प्रत्येकं द्विविधा दृष्टार्था अदृष्टार्थाश्च । दृष्टद्वारकोपकारकारित्वेन दृष्टार्थत्वम्, अदृष्टद्वारकोपकारित्वेन चादृष्टार्थत्वं द्रष्टव्यम् । यद्यप्युभयाङ्गोपकारित्वेन चोभयत्रापि त्रैविध्यं वक्तुमुचितं तथापि भूयस्त्वात्तद्व्यपदेश इति न्यायेन द्वै- विध्यमेव न्याय्यम् । अन्यथा वक्ष्यमाणानामामात्यादी- नां राजाङ्गोपकारित्वेन द्वैविध्यमपि न स्यात् । न चेष्टापत्तिः,