भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

लतानां च पुष्पितानां च वीरुधाम् ॥' इति मनुस्मरणात् । दृष्टार्थत्वेऽपि कर्षणा- ङ्गभूतहलाद्यर्थत्वे न दोषः । 'फलपुष्पोपगान्पादपांश्च हिंस्यात्कर्षणार्थं चोपह- न्यात्' इति वसिष्ठस्मरणात् । यत्र तु स्थानविशेषाद्दण्डाधिक्यं तत्र प्रायश्चित्ता- धिक्यमपि कल्पनीयम् । तदुक्तम्—'चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥' इति ।-अयं च ऋक्शतजपो द्विजातिविषयः, न पुनः शूद्रादिविषयः; तेषां जपेऽनधिकारात् । अतस्तेषां दण्डानुसारेण द्विरात्रादिकं कल्पनीयम् । उपपातकमध्ये विशेषतः पाठस्यानर्थ- क्यपरिहारार्थमुपपातकासाधारणप्रायश्चित्तमप्यत्र भवति । तच्च गुरुत्वादभ्यास- विषयं कल्प्यम् ॥ २७६ ॥ भाषा—( बिना यज्ञ कार्य के ) वृक्ष, गुल्म, लता और विरवा काटने पर गायत्री आदि ऋचा का सौ बार जप करे । ओषधियों ( वनस्पतियों ) को निष्प्रयोजन काटने पर दिन भर दूध पीकर रहे और गाय की सेवा करे ॥ २७६ ॥ पुंश्चलीवानरादिवधप्रायश्चित्तप्रसङ्गात्तद्दंशनिमित्तं प्रायश्चित्तमाह— पुंश्चलीवानरखरैर्दष्टैर्श्वोष्ट्रादिवायसैः । प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ २७७ ॥ पुंश्चल्यादयः प्रसिद्धाः, एतैर्दष्टः पुमानन्तर्जले प्राणायामं कृत्वा घृतं प्राश्य विशुध्यति । 'आदि'ग्रहणाच्छृगालादीनां ग्रहणम् । तथाह मनुः (११।- १९९)—'श्वसृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहेश्च प्राणा- यामेन शुध्यति ॥' इति । अयं च घृतप्राशो भोजनप्रत्याम्नायो द्रष्टव्यः; प्रायश्चि- त्तानां तपोरूपत्वेन शरीरसंतापनार्थत्वात् । -एतदशक्तविषयम् ; 'श्वसृगालमृगम- हिषाजाविकखरकरभनकुलमार्जारॅमूषकप्लवककाकपुरुषदष्टानामापोहिष्ठेत्यादिभिः स्नानं प्राणायामत्रयं च ॥' इति यत् सुमन्तुवचनं, तन्नाभेरधःप्रदेश ईषद्वष्टविष- यम् । यच्चाङ्गिरोवचनम्—'ब्रह्मचारी शुना दष्टस्त्र्यहं सायं पिबेत्पयः । गृहस्थश्चेद् द्विरात्रं तु एकाहं योऽग्निहोत्रवान् ॥ नाभेरुर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् । स्यादेतत्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥' इति, -तत्सम्यग्दष्टविषयम् । क्षत्रिय- वैश्ययोस्तु पादपादन्यूनं कल्पनीयम् । शूद्रस्य तु—'शूद्राणां चोपवासेन शुद्धि- र्दानेन वा पुनः । गां वा दद्याद् वृषं चैकं ब्राह्मणाय विशुद्धये ॥' इति बृहदङ्गिर- सोक्तं द्रष्टव्यम् । यत्तु वसिष्ठवचनम्-'ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्र- गाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥' (२३।३१) इति, -तदुत्तमाङ्ग- १. दण्डानुसारात् । २. साधारणप्राप्तं प्रायश्चित्तं । ३. दष्ट- रक्षोष्ट्रादि । ४. मूषिकाप्लव । ५. विशुष्यति ।

५७६ याज्ञवल्क्यस्मृतिः दंशविषयम् ॥ स्त्रीणां तु—'ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा । उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥' इति पराशरोक्तं द्रष्टव्यम् । कृच्छ्रादिव्रत- स्थायाः पुनस्तेनैव विशेषो दर्शितः—'त्रिरात्रमेवोपवसेत्छुना दष्टा तु ^१सुव्रता । सघृतं यावकं भुक्त्वा व्रतशेषं समापयेत् ॥' इति ॥ रजस्वलायामपि विशेषः पुलस्त्येन दर्शितः—'रजस्वला यदा दष्टा शुना जम्बुकरासभैः । पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥ ऊर्ध्वं तु द्विगुणं नाभेर्वक्त्रे तु त्रिगुणं तथा । चतुर्गुणं स्मृतं मूर्ध्नि दष्टेऽन्यत्राप्लुतिर्भवेत् ॥' इति । अन्यत्राऽरजस्वला- वस्थायाम् । यस्तु श्वादिभिर्घाणादिनोपहन्यते तस्य शातातपेन विशेष उक्तः—'शुना घ्रातावलीढस्य नखैर्विलिखितस्य च । अद्भिः प्रक्षालनं शौचमग्निना चोपकूलनम्' इति । उपकूलनं तापनम् ॥ यदा तु श्वादिदंश- शस्त्राघातादिजनितव्रणे कृमय उत्पद्यन्ते तदा मनुना विशेष उक्तः—'ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे । कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ गवां मूत्रपुरीषेण त्रिसंध्यं स्नानमाचरेत् । त्रिरात्रं पञ्चगव्याशी त्वधोनाभ्या विशु- ध्यति ॥ नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते कृमिः । षड्रात्रं तु व्यहं पञ्चगव्या- शनमिति स्मृतम् ॥' तत्र श्वादिदंशव्रणे तद्दंशप्रायश्चित्तानन्तरमिदं कर्तव्यम् । शस्त्रादिजनितव्रणे त्वेतदेव, त्र्यहं पञ्चगव्याशनादिकमिति शेषः । क्षत्रियादिषु तु प्रतिवर्णं पादपादह्रासः कल्पनीयः ॥ २७७ ॥ भाषा—व्यभिचारिणी स्त्री, बन्दर, गदहा, ऊँट, घोड़ा (सियार आदि), कौआ द्वारा दाँत या चोंच से काटे जाने पर जल में खड़ा होकर प्राणायाम करने और घी खाने पर शुद्धि होती है ॥ २७७ ॥ शारीरत्वग्धातुविच्छेदकदंशप्रायश्चित्तप्रसङ्गाच्छारीरचरमधातुविच्छेदकस्कन्द- ने प्रायश्चित्तमाह— यन्मेऽद्य रेत इँत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत् । स्तनान्तरं ^४भ्रुवोर्मध्यं तेनाऽनामिकया स्पृशेत् ॥ २७८ ॥ यदि कथंचिच्छ्रीसंभोगमन्तरेणापि हठाच्चरमधातुर्विसृष्टस्तदा तत्स्कन्नं रेतो 'यन्मेऽद्य रेत: पृथिवीं', 'पुनर्मामैत्विन्द्रियम्' इत्याभ्यां मन्त्राभ्यामभिमन्त्र- येत् । तेन चाभिमन्त्रितेन रेतसा स्तनयोर्भुवोश्च मध्यमुपकनिष्ठिकया स्पृशेत् ॥ अन्ये तु स्कन्नस्य रेतसोऽशुचित्वेन स्पर्शकर्मण्ययोग्यत्वात्तेनेत्य- नामिकासहचर्यात्स्वबुद्धिस्थाङ्गुष्ठपरत्वेन व्याचक्षते । तेनाङ्गुष्ठेनानामिकया चेति १. सव्रता । २. चोपचूलनं । ३. षड्रात्रं च तदा प्रोक्तं प्राजापत्यं विशो- धनं । ४. एताभ्यां स्कन्नं रेतोऽनुमन्त्रयेत् । ५. भ्रुवोर्वाऽपि तथा नामिकया ।

प्रायश्चित्त्याध्यायः ५७७ 'अङ्गुष्ठ'पदग्रहणे वृत्तभङ्गप्रसङ्गेनेति निर्दिष्टमिति,-तदसत्; अङ्गुष्ठस्यानुबुद्धिस्थ- त्वात् । नच शब्दसंनिहितपरित्यागेनार्थाद् बुद्धिस्यस्यान्वयो युक्तः । तदुक्तम्- 'गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतोतिवत् ॥' इति । नच रेतसोऽशुचित्वेन स्पर्शायोग्यत्वम् । विधानादेव प्रायश्चित्तार्थरूपस्पर्शे योग्यत्वमवगम्यते प्रायश्चित्तरूपपान इव सुरायाः । इदं च प्रायश्चित्तं गृहस्थस्यैवाकामतः स्कन्नविषयम् । ब्रह्मचारिणः स्वप्ने जागरणा- वस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् । यत्तु यमवचनम्—'गृहस्थः कामतः कुर्याद्रेतः स्कन्दनं भुवि । सहस्रं तु जपेद् देव्यः प्राणायामैस्त्रिभिः सह ॥' इति,- तत्कामकारविषयम् ॥ २७८ ॥ भाषा—( स्वप्नदोष होने पर ) 'यन्मेऽद्य रेतः पृथिवीमसकन् पुनर्मामै- स्विन्द्रियम्' इन मंत्रों से वीर्य का अभिमन्त्रण करे और उससे दोनों छाती, और दोनों भौंहों के मध्यभाग का कनिष्ठिका अँगुली द्वारा स्पर्श करे ॥ २७८ ॥ मयि तेज इति च्छायां स्वां २दृष्ट्वाऽम्बुगतां जपेत् । सावित्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ २७९ ॥ किंच, स्वीयं प्रतिबिम्बमम्बुगतं दृष्टं चेत् तदा 'मयि तेज इन्द्रियम्' इतीमं मन्त्रं जपेत् । अशुचिद्रव्यदर्शने पुनः सावित्रीं सवितृदेवत्यां 'तत्सवितुः' इत्यादिकामृचं जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे तामेव जपेत्, अनृ- तवचने च ।-एतत्कामकारे द्रष्टव्यम् ; अकामकृते तु 'सुप्त्वा भुक्त्वा च क्षुत्वा च निष्ठीव्योक्त्वाऽनृतानि च । पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति मनूक्तमाचमनं द्रष्टव्यम् ॥ यत्तु संवर्तवचनम्—'क्षुते निष्ठीवने चैव दन्त- श्लिष्टे तथानृते । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥' इति,-तदल्पप्र- योजने जलाभावे वा द्रष्टव्यम् ॥ स्त्रीशूद्रविट्क्षत्रवधानन्तरं 'निन्दिताथोपजीवनं' पठितं, तत्र च मनुयोगीश्वरप्रोक्तान्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया वेदितव्यानि । नास्तिक्येऽपि तानि प्रायश्चित्तानि तथैव प्रयोध्यानि, 'नास्तिक्य'- शब्देन च वेदादिनिन्दनं तेन जीवनमुच्यते; तत्रोभयत्रापि वसिष्ठेन प्रायश्चित्ता- न्तरमप्युक्तम्—'नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन्नास्तिकायान्नास्तिक- वृत्तिस्त्वतिकृच्छ्रम्' (२१।२९) इति ।-एतच्च सकृत्करणविषयम् । उपपातकप्राय- श्चित्तान्यभ्यासविषयाणि । यच्च शङ्खनोक्तम्—'नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसी इत्येते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः' इति । १. वक्ष्यमाणत्वात् । २. दृष्ट्वाऽम्बुनि वै जपेत् । ३. चापले वाऽनृ- तेऽपि च । ४. निष्ठीविते ।

५७८ याज्ञवल्क्यस्मृतिः यच्च हारीतेन - 'नास्तिको नास्तिकवृत्तिः' इति प्रक्रम्य 'पञ्चतपोऽश्रावकाशजल- शयनान्यनुतिष्ठेयुग्रीष्मवर्षाहेमन्तेषु' इति,-तदुभयमप्यन्ताभिनिवेशेन बहुकाला- भ्यासविषयम् ॥ २७९ ॥ भाषा—जल में पड़ी हुई अपनी छाया को देख कर 'मयि तेज इन्द्रियम्' मन्त्र का जप करे; अपवित्र मनुष्य को देखने पर, (वाणी, हाथ, पैर आदि की) चपलता करने पर और असत्यभाषण करने पर गायत्री का जप करे ॥ २७९ ॥ नास्तिक्यानन्तरं 'व्रतलोपश्च' इत्युक्तं, तत्रावकीर्णस्याप्रसिद्धत्वात्तल्लक्षण- कथनपूर्वकं प्रायश्चित्तमाह— अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् । गर्दभं पशुमालभ्य नैर्ऋतं स विशुध्यति ॥ २८० ॥ ब्रह्मचार्यपुकुर्वाणको नैष्ठिकश्चासौ योषितं गत्वाऽवकीर्णी भवति । चरमधातोर्विसर्गोऽवकीर्णं तदस्यास्ति सोऽवकीर्णी, स निर्ऋतिदैवत्येन गर्द- भपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धेऽपि पुनः 'पशु'ग्रहणं 'अथ पशुकल्पः' (१।११।१) इत्याश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच्चारण्ये चतुष्पथे लौकिकेऽग्नौ कार्यम् । 'ब्रह्मचारी चेत्स्त्रियमुपेयादरण्ये चतुष्पथे लौकिके- ऽग्नौ रक्षोदैवतं गर्दभं पशुमालभेत' (२३।१) इति वसिष्ठस्मरणात् ॥ तथा रात्रावेकाक्षिविकलेन यष्टव्यम् । तथा च मनुः (११।११८)—'अवकीर्णी तु काणेन रासभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥' इति । पशोरभावे चरुणा यष्टव्यम् । 'निर्ऋतिं वा चरुं निर्वपेत् तस्य जुहुयात्-कामाय स्वाहा, कामकामाय स्वाहा, निर्ऋत्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा' (२३।२।३) इति वसिष्ठस्मरणात् । - एतच्चाशक्तविषयम् । शक्तस्य पुनर्गर्दभेनावकीर्णी निर्ऋतिं चतुष्पथे यजेत् । 'तस्याजिनमूर्ध्ववालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं चरेत्कर्माचक्षाणः संवत्सरेण शुध्यति' (२३।१७-१९) इति गौतमोक्तो वार्षिक- तपःसमुचितः पशुयागश्चरुर्वा द्रष्टव्यः । तथा त्रिषवणस्नानमेककालभोजनं च द्रष्टव्यम् । (११।१२२-१२३)—'एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालि- कम् । उदस्पृशंस्त्रिषवणमब्देन स विशुध्यति ॥' इति मनुस्मरणात् ॥ इदं च वार्षिकमश्रोत्रियब्राह्मपत्न्यां वैश्यायां श्रोत्रियपत्न्यां च द्रष्टव्यम् ॥ - यदा तु गुण- वत्योर्ब्राह्मणीक्षत्रिययोः श्रोत्रियभार्ययोरवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च क्रमेण योज्यम् ॥ यथाहतुः शङ्खलिखितौ—'गुप्तायां वैश्यायामवकीर्णः संवत्सरं

त्रिषवणमनुतिष्ठेत् । क्षत्रियायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि' इति । शङ्ख- लिरोवचनम् — 'अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् । चीरवासास्तु षण्मासां- स्तथा मुच्येत किल्बिषात् ॥' इति,-तदकामतो मानवादिकविषयमीषद्व्यभि- चारिणीविषयं वा ॥ अत्यन्तव्यभिचारितासु पुनः 'स्वैरिण्यां वृषल्यामवकीर्णः सचैलं स्नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान्भो- जयेत्, यवसंभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रमुपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रमुपोषितो गां च दद्यात् । गोष्ववकीर्णः प्राजापत्यं चरेत् । षण्ढायामवकीर्णः पलालभारं सोसमाषकं च दद्यात्' इति शङ्खलिखितोदितं वेदि- तव्यम् । एतच्चावकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम् । 'अवकीर्णी द्विजो राजा वैश्यश्चापि खरेण तु । इष्ट्वा भैक्षाशिनो नित्यं शुद्ध्यन्त्यब्दात्समा- हिताः ॥' इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगमन्तरेण कामतश्चरमधातुं विसृजति, दिवा च स्वप्ने वा विसृजति, तदा नैर्ऋतयागमात्रं द्रष्टव्यम् ; 'एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने च' (२३।५३) इति वसिष्ठेन यागमात्रस्यातिदिष्ट- त्वात् । व्रतान्तरेषु कृच्छ्रचान्द्रायणादिष्वतिदिष्टब्रह्मचर्येषु स्कन्दने सत्येतदेव यागमात्रम् । व्रतान्तरेषु चैव'मिति तेनैवातिदिष्टत्वात् । स्वप्नस्कन्दने तु मनूक्तं द्रष्टव्यम् (२।१८१) — 'स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वा- र्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥' इति । वानप्रस्थादीनां चेदमेव ब्रह्मचर्य- खण्डने अवकीर्णिव्रतं कृच्छ्रत्रयाधिकं भवति; 'वानप्रस्थो यतिश्चैव स्कन्दने सति कामतः । पराकत्रयसंयुक्तमवकीर्णी व्रतं चरेत् ॥' इति शाण्डिल्यस्मरणात् ॥ यद्वा गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्युतो भवति तदा संवर्तोक्तं द्रष्टव्यम्; 'संन्यस्य दुर्मतिः कश्चित्प्रत्यापत्तिं व्रजेद्यदि । स कुर्यात्कृच्छ्रमश्रान्तः षण्मासान्प्रस्थनन्त- रम् ॥' इति । प्रत्यापत्तिर्गाह्स्थ्यंपरिग्रहः। अत एव वसिष्ठः — 'यस्तु प्रव्रजितो भूत्वा पुनः सेवेत मैथुनम् । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥' इति । तथा च पराशरः — 'यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः । अनाशकनि- वृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति ॥ स चरेत्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात्' ॥ तत्र ब्राह्मणस्य षाण्मासिकः कृच्छ्रः पुनः संन्याससंस्कारश्च क्षत्रियस्य चान्द्रायणत्रयम् । वैश्यस्य कृच्छ्रत्रय- मिति व्यवस्था । अथवा ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं प्रायश्चित्तत्रयं द्रष्टव्यम् ॥ ( 'चितिभ्रष्टा तु या नारी मोहाद्विचलिता क्वचित् । प्राजापत्येन शुद्ध्येत्तु तस्मादेवापकर्मणः ॥' चितिभ्रष्टा भर्तुरनुगमने आपस्तम्ब- स्मरणात् क्वचिदित्युक्तम् । ) तथा मरणसंन्यासिनामपि यमेन प्रायश्चित्तमुक्तम्-


१. गार्हस्थ्यलम्बनः परिग्रहः । २. अयं धनुश्चिह्नगो भागोऽधिकः । ३७ या०

[५८०] याज्ञवल्क्यस्मृतिः

'जलान्युद्बन्धनभ्रष्टाः प्रब्रज्यानाशकच्युताः । विषप्रपतनप्रायशस्त्रघातच्युताश्च ये ॥ नैव ते प्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्ध्यन्ति तस- त्कृच्छ्रद्वयेन वा ॥' इति ॥ इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं शक्त्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु 'शस्त्रघातहताश्च' इति पाठः, तदात्मत्यागयशास्त्रीयमरणनिमित्तस्तत्पुत्रादेरुपदेशो द्रष्टव्यः ॥ यत्पुनर्वासिष्ठेनो- क्तम्- 'जीवन्नात्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत् , त्रिरात्रं चोपवसेत्' (२३।१२) इति,-तदप्यध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् । अथवा-अध्यवसायमात्रे त्रिरात्रं, शस्त्रादिक्षतस्य द्वादशरात्रमिति व्यवस्था । इदं चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम् । तत्र गुरुतर- प्रायश्चित्तस्य दर्शितत्वात् । नच लघुनाऽवकीर्णिब्रतेन द्वादशवार्षिकाद्यपनोद्यमहा- पातकदोषनिबर्हणमुचितम् । नच ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानमिति युक्तम्; आश्रमान्तराणां द्वैगुण्यादिवृद्धेर्ब्रह्महत्याप्रकरणे दर्शितत्वात् । न चात्रा- गम्यागमनप्रायश्चित्तं पृथक्कर्तव्यम् ; ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्या- गम्यागमनेनान्तरीयकत्वात् , अतोऽन्यत्रापि यस्मिन्निमित्ते यन्निमित्तान्तरं समं न्यूनं वाऽवश्यंभाविनाः । तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा (मनुः ११।२०८)- 'अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तर- शोणिते ॥' इत्यत्र शोणितोत्पादननिमित्तेऽवंगूरणनिपातलक्षणं निमित्तद्वयमव- श्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रमतिकृच्छ्रं च न प्रयुङ्क्ते, एवमन्यत्राप्यूहनी- यम् । यत्र पुनर्निमित्तानामन्तर्भावनियमो नास्ति, तत्र पुनर्नैमित्तिकानि पृथक्प्रयुज्यन्ते । निमित्तानि यथा-'यदा पर्वणि परभार्यां रजस्वलां तैला- भ्यक्तो दिवा जले गच्छति' इति ॥ ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलन- स्यागमनान्तरीयकतत्वं नास्त्येव; पुत्रिकागमनेऽगम्यागमनदोषाभावात् । तथा हि- न तावत्पुत्रिका कन्या; अक्षतयोनित्वात् , नापि परभार्या; प्रदाना- भावात् , नापि वेश्या; अतद्वृत्तित्वात् , नापि विधवा; भर्तृमरणाभावात् , अतः पुत्रिकायाः क्वाप्यनन्तर्भावादप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलमव- कीर्णिब्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपातादवकीर्णिब्रतं नैमि- त्तिकान्तरमपि प्रयोक्तव्यमिति,-तदसत् ; पुत्रिकाया अपि परभार्यास्वान्त- र्भावात् । प्रदानाभावेऽपि विवाहसंस्कारेण संस्कृतत्वात् गान्धर्वादिविवाह- परिणीतावत् । नच 'यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता । नोपय- च्छेत्तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥' इति प्रतिषेधात्सगोत्रास्विव भार्यात्वं नोत्पद्यत इति वाच्यम् । दृष्टार्थत्वात् प्रतिषेधस्य व्यङ्गाङ्ग्यादिप्रतिषेधवत । दृष्टार्थत्वं

१. आविभ्रस्तत्र । २. अवगोरेण । ३. प्रयुक्तं अतः पृथ ।

प्रायश्चित्ताध्यायः ५८१ च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । नच पुत्रार्थमेव परिणयनं, अपि तु धर्मार्थ- मपि, अतश्चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थं पुत्रिकापरिणयने को विरोधः ? प्रपञ्चितं चैतत्पुरस्तादित्यलमतिप्रसङ्गेन । तस्माद् ब्रह्मचारिणो योषित् ब्रह्म- चर्यस्खलनस्यागम्यागमनान्तरीयकत्वाच्च पृथङ्नैमित्तिकं प्रयोक्तव्यमिति सुष्ठू- क्तम् ॥ २८० ॥ भाषा—ब्रह्मचारी किसी स्त्री का भोग करने पर अवकीर्णी हो जाता है, वह निर्ऋति देवता के लिए गदहे द्वारा पशुयज्ञ करने पर शुद्ध होता है ॥ २८० ॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गादन्यदप्यनुपातकप्रायश्चित्तमाह— भैक्षाग्निकार्यं त्यक्त्वा तु सप्तरात्रमनातुरः । कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ २८१ ॥ उपस्थानं ततः कुर्यात्सं मा सिञ्चन्त्वनेन तु । यस्त्वनातुर एव ब्रह्मचारी निरन्तरं सप्तरात्रं भैक्षमग्निकार्यं वा त्यजति असौ 'कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामावपन्नोऽस्म्य- वपन्नोऽस्मि कामकामाय स्वाहा' इत्येताभ्यां मन्त्राभ्यामाहुती हुत्वा 'सं मा सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । समायमग्नि सिञ्चन्तां यशसा ब्रह्म- वर्चसेन ॥' इत्थनेन मन्त्रेणाग्निमुपतिष्ठेत ॥ एतच्च गुरुपरिचर्यादिगुरुतरकार्य- व्यग्रतया अकरणे द्रष्टव्यम् । यदा स्वस्थ्य एवोभे भैक्षाग्निकार्ये त्यजति, तदा 'अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अना तुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥' ( मनु० २।१८७ ) इति मानवं द्रष्टव्यम् ॥ यज्ञोपवीतविनाशे तु हार्गतेन प्रायश्चित्तमुक्तम्—'मनोव्रतपतिभिश्चतस्र आज्याहुतीर्हुत्वा पुनर्यथार्थं प्रतीयादसद्ब्रैत्तभोजनेऽभ्युदितेऽभिनिर्मुक्ते वान्ते दिवा स्वप्ने नग्नस्त्रीदर्शने नग्न- स्वापे श्मशानमाक्रम्य हयादींश्चारुह्य पूज्यातिक्रमे चैताभिरेव जुहुयादग्नि- समिन्धने स्थावरसरीसृपादीनां वधे “यदद्देवादेवहेडनम्” इति कूष्माण्डीभिराड्यं जुहुयात् , मणिवींसोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्' इति । मनो- व्रतपतिभिरिति मनो ज्योतिरित्यादिमनोलिङ्गाभिः 'त्वमग्ने व्रतपा असि' इत्यादिव्रतलिङ्गाभिरित्यर्थः । यथार्थं प्रतीयादिति, उपनयनोक्तमार्गेण समन्त्रकं गृह्णीयादित्यर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु—'ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुतेऽथवा । गायत्र्यष्टसहस्रेण प्राणायामेन शुध्यति ॥' इति मरीच्युक्तं द्रष्टव्यम् ॥ २८१३ ॥ १. हुत्वा चाऽऽयाहु द्वयम् । उपस्थानद्वयं कुर्यात् । २. समायमग्नि । ३ हयादीनारुह्य । वासो गृहादीनां ।

५८२ :याज्ञवल्क्यस्मृतिः भाषा—बिना अस्वस्थता के सात दिन तक भिक्षाटन और अग्निकर्म छोड़ने पर 'कामावकीर्ण' आदि (कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा। कामावपन्नोऽस्म्यवपन्नोऽस्मि कामकामाय स्वाहा' इन दोनों मन्त्रों से दो आहुति करके 'संमा सिंचन्तु मरुतः समिन्द्रः संबृहस्पतिः । समायमग्निः सिंचन्तां यशसा ब्रह्मवर्चसेन।' मन्त्र से पुनः अग्नि का उपस्थान करे ॥ २८१३ ॥ मधुमांसाशने कार्यः कृच्छ्रः शेषंव्रतानि च ॥ २८२ ॥ प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति । किंञ्च, ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छ्रः कार्यः । तदनन्तरम- वशिष्टानि व्रतानि समापयेत् । एतच्च शिष्टभोजनाहंशशादिमांसभक्षणविष- यम् । 'ब्रह्मचारी चेन्मांसमश्नीयाच्छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत्' (२३।११) इति वसिष्ठस्मरणात् । 'द्वादशरात्र' ग्रहणं तु मतिपूर्वाभ्यासापेक्षयाऽतिकृच्छ्रपराकादेरपि प्राप्त्यर्थम् । यदा तु मांसेकापनोद्य- व्याध्यभिभूतस्तदा मांसं गुरोरुच्छिष्टं कृत्वा भक्षणीयम् । 'स चेद्याधितः कामं गुरोरुच्छिष्टं भेषज्यार्थं सर्वं प्राश्नीयात्' (२३।९) इति तेनैवोक्तत्वात् । 'सर्व'- ग्रहणं मांसलशुनाद्यभक्ष्यमात्रसंग्रहार्थम् । तल्लक्षणेन चापगतव्याधिरादित्यमु- पतिष्ठेत । तथा च बौधायनः (२।१।२६-२७)—'येनेच्छेत्तु चिकित्सितुं तु यद्याऽगदो भवति तदोत्थायादित्यमुपतिष्ठेत' 'हंसः शुचिषत्' इति । मधुनोऽ- प्यज्ञानतः प्राशनोपपत्तौ न दोषः । 'अकामोपनतं मधु वाजसनेयके न दुष्यति' (२३।१४) इति वसिष्ठस्मरणात् । अन्यसूतकान्नादिभक्षणप्रायश्चित्तं त्वभक्ष्य- प्रायश्चित्तप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलमाचरन् पाद- प्रणिपातादिना गुरुं प्रसाद्य विशुध्यति ॥ २८२३ ॥ भाषा—मधु और मांस खाने पर कृच्छ्र और अवशिष्ट व्रत करे । गुरु के विपरीत कार्य करने पर उन्हें प्रसन्न करने पर ही (ब्रह्मचारी) शुद्ध होता है ॥ २८२३ ॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गाद् गुरोरपि प्रायश्चित्तमाह— कृच्छ्रत्रयं गुरुः कुर्यान्म्रियते^२ प्रहितो यदि ॥ २८३ ॥ यस्तु गुरुश्चोरोगव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितानिशीथा- वसरे कार्यार्थं शिष्यं प्रेरयति, स च गुरुणा प्रेरितो दैवान्मृतस्तदा स गुरुः कृच्छ्राणां प्राजापत्यादीनां त्रयं कुर्यात्, न पुनस्त्रयः प्राजापत्याः, तथा सति पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । न च 'एकादश प्रयाजान्द्यजति' इति- वदावृत्त्यपेक्षा संख्येति चतुरस्रम् ; स्वरूपपृथक्त्वे संभवत्यावृत्त्यपेक्षया अन्याय्य- १. शेषे व्रतानि । २. प्रहितो म्रियते यदि । ३. पृथक्त्वनिवेशिनी ।

भाषा—किसी कार्य पर भेजे गये (और उस कार्य के सम्पादन के

स्यात् । यदिदमूत्पन्नगता संख्या स्यात्तदा स्यादपि कथंचिदावृत्त्यपेक्षा, किंतु- ऽपत्तिगतेयम् ; अतः 'तिस्र भाज्याहुतीर्जुहोति' इतिवत् स्वरूपपृथक्त्वसापेक्षमेव त्रित्वसंख्याघटना युक्ता ॥ २८३ ॥ भाषा—किसी कार्य पर भेजे गये (और उस कार्य के सम्पादन के लिये) शिष्य की मृत्यु होने पर (हिंसक पशु आदि द्वारा मारे जाने पर) गुरु तीन कृच्छ्र व्रत करे ॥ २८३ ॥ सकलहिंसाप्रायश्चित्तापवादमाह— क्रियमाणोपकारे तु मृते विप्रे न पातकम् । [ विप्रेऽके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ ] आयुर्वेदोपदेशानुसारेणौषधपथ्यान्नप्रदानादिभिश्चिकित्सादिना क्रियमाण उपकारो यस्य ब्राह्मणादेस्तस्मिन्दैवात्कथंचिन्मृतेऽपि पातकं नैव भवति । 'विप्र'ग्रहणं प्राणिमात्रोपलक्षणार्थम् । अत एव 'यन्त्रणे ²गोचिकित्सार्थे गूढगर्भे- विमोचने । यत्ने कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इत्यादि संवर्ताद्यै- रुक्तम् । एतच्च प्रपञ्चितं प्राक् ॥— भाषा—औषध आदि द्वारा उपकार करते समय ब्राह्मण की मृत्यु हो जाने पर पातक नहीं लगता । [गाय और वृष की चिकित्सा और अग्निकार्य में प्राणनाश हो तो पाप नहीं लगता । ] ॥ मिथ्याभिशंसिनः प्रायश्चित्तविवक्षया तदुपयोग्यर्थवादं तावदाह— मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ॥ २८४ ॥ मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् । यस्तु परोत्कर्षेर्ष्याजनितरोषकलुषितान्तःकरणो जनसमक्षं मिथ्यैवाभि- शापं 'ब्रह्महत्यादिकमनेन कृतम्' इत्यारोपयति, तस्य तदेव द्विगुणं भवति । यस्तु विद्यमानमेव दोषमलोकविदितं जनसमक्षं प्रकाशयति, तस्यापि तत्पा- तकिसमदोषभाक्त्वम्; तथा चापस्तम्बः ( १।२१।२०)—'दोषं बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समा³ख्याता स्यात् परिहरेच्चैनं धर्मेषु' इति न केवलं मिथ्याभिशंसी द्विगुणदोषभाक्, अपि तु मिथ्याभिशस्तस्य यदन्यद् दुरितजातं तदपि समादत्त इति वक्ष्यमाणप्रायश्चित्तेऽर्थवादः, न पुनः पापद्वैगुण्यादि- प्रतिपादनमत्र विवक्षितम् ; निमित्तस्य लघुत्वाल्लघुपायश्चित्तस्योपदिश्यमानत्वात् कृतनाशाकृताभ्यागमप्रसङ्गाच्च ॥ २८४३/२ ॥ १. इदमर्धं पुस्तक एवाधिकमस्ति । २. गोचिकित्सार्थं । ३. समा- ख्यात्रे ।

३८४ याज्ञवल्क्यस्मृतिः भाषा-( ईर्ष्या आदि के कारण ) दूसरे पर झूठे ही ( ब्रह्महत्या आदि का ) दोष कहने वाला तथा वास्तविक दोष को भी कहता फिरने वाला इन दोनों को दूना दोष लगता है । मिथ्या दोष कहने वाला न केवल दूने दोष से युक्त होता है अपितु जिस पर दोष लगता है उसके सभी पाप भी उसे लग जाते हैं ॥ २८४१ ॥ तत्र प्रायश्चित्तमाह- महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम्। अब्भक्षो मासमासीत स जापी नियतेन्द्रियः ॥ २८५ ॥ यस्तु महापापेन ब्रह्महत्यादिना गोवधाद्युपपापेन वा मृषैव परमभि- शंसति स मासं यावज्जलाशनो जपशीलो जितेन्द्रियश्च भवेत् । तपश्च शुद्धवतीनां कार्यः । 'ब्राह्मणमनृतेनाभिशस्य पतनीयेनोपपातकेन वा मासम्मभक्षः शुद्धवतीरावर्तयेदश्वमेधावभृथं वा गच्छेत्' (२४।३९-४०) इति वसिष्ठस्मरणात् । 'महापापोपपाप'ग्रहणमन्येषामप्यतिपातकादीनामुपलक्षणम् । एतच्च ब्राह्मणस्यैव ब्राह्मणेनाभिशंसने कृते द्रष्टव्यम् । यदा तु ब्राह्मणः क्षत्रियादेरभिशंसनं करोति, क्षत्रियादिर्वा ब्राह्मणस्य तदा-'प्रतिलोमापवादेषु द्विगुणस्त्रिगुणो दमः। वर्णाना- मानुलोम्येन तस्मादर्धार्धहानितः ॥' इति दण्डानुसारेण प्रायश्चित्तस्य वृद्धिऱ्ह्रासौ कल्पनीयौ । भूताभिशंसिनस्तु पूर्वोक्तार्थवादानुसारेण दण्डानुसारेण च तदर्धं कल्पनीयम् । तथाऽतिपातकाभिशंसिन एतदेव व्रतं पादोनम्, पातकाभिशंसिन- स्त्वर्धम्, उपपातकाभिशंसिनस्तु पादः; 'तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः' (मनुः ११।१२६)-इत्युपपातकभूतक्षत्रियादिवधे महापातकप्रायश्चित्त- तुरीयांशस्य दर्शनात् । एवं प्रकीर्णाभिशंसिनोऽपि उपपातकान्न्यूनं कल्पनीयम् । 'शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत्' इति स्मरणात् । यत्तु शङ्खलिखि- ताभ्यां 'नास्तिकः कृतघ्नः कूटव्यवहारो ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी चेत्येते षड्वर्षाणि ब्राह्मणगृहेषु भैक्षं चरेयुः, संवत्सरं धौतभैक्षमश्नीयुः, षण्मासान्वा गा अनुगच्छेयुः' इति गुरुप्रायश्चित्तमुक्तं,-तदभ्यासतारतम्यापेक्षया योजनी- यम् ॥ २८५ ॥ भाषा-जो दूसरे पर झूठा महापातक या पातक लगाता है वह एक मास तक जल पीकर रहे, जप करता रहे और इन्द्रियों का सम्यक् रूप से संयम रखे ॥ २८५ ॥ १. जोषवत्सबीवेन वा । २. गोपि सतो न्यूनं ।

प्रायश्चित्ताध्यायः ३८५ अभिशंसिप्रायश्चित्तप्रसङ्गादभिशस्तप्रायश्चित्तमाह- अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा । १निर्वपेत्तु पुरोडाशं वायव्यं पशुमेव वा ॥ २८६ ॥ यः पुनर्मिथ्याभिशस्तः स कृच्छ्रं प्राजापत्यं चरेत् । अग्निदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत्तु वसिष्ठेन 'मासमठभ- क्षणमुक्तमेतेनैवाभिशस्तो व्याख्यातः' (२४।३७) इति,-तदभिशस्तस्यैव किंचित्का- लमकृतप्रायश्चित्तस्य सतो द्रष्टव्यम् ; 'संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः' इति दण्डातिरेकदर्शनात् । यत्तु पैठीनशिनोक्तम्-'अनृतेनाभिशस्यमानः कृच्छ्रं चरेन्मासं पातकेषु महापातकेषु द्विमासम्' इति,-तदपि वासिष्ठेन समान- विषयम् । यत्तु बौधायनेनोक्तम्-'पातकाभिशंसिने कृच्छ्रस्तदर्थमभिशस्तस्य' ( २।१।६०।१ ) इति,-तदुपपातकादिविषयं अशक्तविषयं वा । एवमन्येषाम- ष्टृष्टवाचवप्रायश्चित्तानामभिशस्तविषयाणां कालशक्त्याद्यपेक्षया व्यवस्था विज्ञेया । यथाह मनुः (११।२००)-'षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥' इति । अपाङ्क्तानां मध्ये अभिशस्तादयः पठिताः । यद्यप्यत्राभिशस्तस्य निषिद्धाचरणं नोपलभ्यते तथापि मिथ्याभिशस्तत्वलिङ्गानुमितप्राग्भवीयनिषिद्धाचरणापूर्वनिबन्धनमिदं प्रायश्चित्तं कृमिदष्टनामिवेति न विरोधः ॥ २८६ ॥ भाषा-जिस पर झूठा दोषारोपण किया गया हो वह कृच्छ्र व्रत करे अथवा अग्नि देवता का पुरोडाश से यज्ञ करे अथवा वायु के लिये पुरोडाश से यज्ञ करे अथवा वायु के लिये पुरोडाश से या एक पशु से यज्ञ करे ॥ २८६ ॥ अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् । किंच, यस्तु नियोगं विना भ्रातुर्ज्येष्ठस्य कनिष्ठस्य वा भार्यां गच्छति स चान्द्रायणं चरेत् ।-एतच्च सकृदमतिपूर्वविषयं द्रष्टव्यम् । यत्तु शङ्खवच- नम्-'परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्या- मनियुक्तो गच्छंस्तदेव कनिष्ठभार्यां च' इति,-तत्कामकारविषयम् ॥- भाषा-बिना नियोग के (श्रेष्ठ जनों की आज्ञा के बिना ही) जेठे वा छोटे भाई की पत्नी से भोग करने वाला चान्द्रायण व्रत करे । किंचाह- त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ २८७ ॥ यः पुनरुदक्यां रजस्वलां स्वभार्यामपि गच्छति स त्रिरात्रमुपोण्यान्ते घृतं १. निर्वपेत्त पुरोडाशं वायव्यं पशुमेव वा ।

५८६ याज्ञवल्क्यस्मृतिः प्राश्य विशुध्यति । - इदमकामतः सकृद्गमनविषयम् । तत्रैवाभ्यासे 'रजस्वला- गमने सप्तरात्रम्' इति ज्ञार कं द्रष्टव्यम् । कामतः सकृद्गमनेऽप्येतदेव । यत्तु बृहत्संवर्तेनोक्तम्- 'रजस्वलां तु यो गच्छेदूर्म्मिणीं पतितां तथा । तस्य पापविशुद्ध्यर्थमतिकृच्छ्रं विशोधनम् ॥' इति, - तत्कामतोज्भ्यासविषयम् । यत्पुनः शङ्खेन त्रैवाषिंकमुक्तम् - 'पादस्तु शूद्रहत्यायामुदक्यागमने तथा' इति, तत्कामतोज्प्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास्तु रजस्वलादिस्पर्शे प्राय- श्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथा च वृद्धवसिष्ठः- 'स्पृष्टे रजस्वलेऽन्योन्यं संवर्णे त्वेकभर्तृके । कौमादकामतो वापि सद्यः स्नानेन शुध्यतः ॥' इति । असपत्न्योस्तु सवर्णयोरकामतः स्नानमात्रम् - 'उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया । तस्मिन्नेवाहनि स्नात्वा शुद्धिमाप्नोत्यसंशयम् ॥' इति मार्कण्डेयस्मरणात् ॥ यत्तु कश्यपवचनम् - 'रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि । एकरात्रं निरा- हारा पञ्चगव्येन शुध्यति ॥' इति, - तत्कामकारविषयम् । असवर्णस्पर्शे तु बृह- द्वसिष्ठेन विशेषो दर्शितः- 'स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजापि च । कृच्छ्रेण शुध्यते पूर्वा शूद्री दानेन शुध्यति ॥' दानेनेति पादकृच्छ्रप्रत्याम्नायभूत- निष्कचतुर्थांशदानेन शुध्यतीति । 'स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यजापि च । पादहीनं चरेत्पूर्वा पादकृच्छ्रं तथोत्तरा ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रिया तथा । कृच्छ्रार्धं शुध्यते पूर्वा तूतरा च तदर्धतः ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं क्षत्रिया शूद्रजापि च । उपवासैस्त्रिभिः पूर्वा त्वहोरात्रेण चोत्तरा ॥ स्पृष्ट्वा रजस्वलाऽन्यान्यं क्षत्रिया वैश्यजापि च । त्रिरात्राच्छुध्यते पूर्वा त्वहोरात्रेण चोत्तरा ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं वैश्या शूद्रा तथैव च । त्रिरात्राच्छुध्यते पूर्वा तूतरा च दिनद्वयात् ॥ वर्णानां कामतः स्पर्शे शुद्धिरेशः पुरातनी ॥' इति ॥ अकामतस्तु बृहद्विष्णूक्तं स्नानमात्रम् - "रजस्वलां हीनवर्गां रजस्वला स्पृष्ट्वा न तावदशनीयाद्यावन्न शुद्धा स्यात् । सवर्णामधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा विशुध्यति' इति ॥ चण्डालादिस्पर्शे तु वृद्धवसिष्ठेन विशेष उक्तः - 'पतितान्य- श्चपाकेन संस्पृष्टा चेद्रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽह्नि त्रिरात्रं स्याद् द्वितीये द्वयहमेव तु । अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत् ॥ शूद्रयोनिछृष्ट्या स्पृष्टा शुना चेद् द्वयहमाचरेत् ॥' इति । तान्यहानि व्यतिक्रम्य अनाशकेन नीत्वेति यावत् । - एतत्कामतः स्पर्शविषयम् । अकामतस्तु - 'रजस्वला तु संस्पृष्टा चाण्डालात्यश्ववायसैः । तावत्तिष्ठेन्निराहारा यावत्कालेन शुध्यति ॥' इति बौधायनेनोक्तं द्रष्टव्यम् ॥ यत्पुनस्तेनैवोक्तम्- 'रजस्वला तु संस्पृष्टा ग्रामकुक्कुटसूकरैः । श्वभिः स्नात्वा त्रिषेतावद्यावत्पञ्चगव्यस्य दर्शनम् ॥' इति, - तदज्ञानविषयम् ॥ यदा तु मुखालालाः श्वादिस्पर्शो भवति तदा १. सगोत्रे । २. कामतोऽकामत वापि । ३. प्रांपरा ।

प्रायश्चित्ताध्यायः ५८७ स्मृत्यन्तरे विशेष उक्तः—'रजस्वला तु भुञ्जाना श्वानश्वचाण्डालैन्स्पृशेद्यदि । गोमूत्र- यावकाहारा षडरात्रेण विशुध्यति ॥ अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वापि भोजनम् ॥' इति ॥ यदा तूच्छिष्टयोः परस्परस्पर्शनं भवति तदा—'उच्छिष्टो- च्छिष्टया स्पृष्टा कदाचित्स्त्री रजस्वला । कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेरु- पोषिता ॥' इत्यत्रिनोक्तं द्रष्टव्यम् ॥ यदा तूच्छिष्टान्द्विजान्रजस्वला स्पृशति, तदा 'द्विजान्र्कथंचिदुच्छिष्टान्रजःस्था यदि संस्पृशेत् । अधोच्छिष्टे त्वहोरात्र- मूर्ध्वोच्छिष्टे त्र्यहं क्षिपेत् ॥' इति मार्कण्डेयोक्तं द्रष्टव्यम् ॥ एवमवकीर्णिप्राय- श्चित्तप्रसङ्गात्कानिचिदुपपातकप्रायश्चित्तान्यपि व्याख्याय प्रकृतमनुसरामः । तत्रावकीर्णिनन्तरं 'सुतानां चैव विक्रयः' (प्रा० २६६) इत्युक्तं, तत्र मनुयो- गीश्वरोक्तानि १त्रैमासिकादीनि कामाकामजातिशक्त्याद्यपेक्षया पूर्ववद् व्यवस्थो- पनीयानि ॥ यत्तु शङ्खवचनम्—'देवगृहप्रतिश्रयोद्यानारामसभाप्रपातडागपुण्य- सेतुसुतविक्रयं कृत्वा तप्त... चरेत्' इति, यच्च पराशरेणोक्तम्—'विक्रीय कन्यकां गां च कृच्छ्रं सान्तपनं चरेत्' इति,—तदुभयमप्यापद्यकामतॊ द्रष्टव्यम् ॥ कामतस्तु—'नाराणां विक्रयं कृत्वा चरेच्चान्द्रायणव्रतम् । द्विगुणं पुरुषस्यैव व्रतमाहुर्मनीषिणः ॥' इति चतुर्विंशतिमतोक्तं द्रष्टव्यम् ॥ यत्तु पैठीनशिनोक्तम्— 'आरामतडागोदपानपुष्करिणीसुकृतसुतादि-क्षये त्रिषवणस्नाय्यधःशायी चतुर्थ- कालाहारः संवत्सरेण पूतो भवति' इति,—तदेकपुत्रविषयम् । तदनन्तरं 'धान्य- कुप्यपशुस्तेयम्' (प्रा० २३७) इत्युक्तं,—तत्प्रायश्चित्तानि च स्तेयप्रकरणे प्रपञ्चितानि ॥ २८७ ॥ भाषा—(अपनी पत्नी के भी) रजस्वला होने पर संभोग करे तो तीन दिन उपवास करके और घृत खाकर शुद्ध होवे ॥ २८७ ॥ अनन्तरं 'अयाज्यानां च याजनम्' (प्रा० २३७) इत्युक्तं, तत्र प्रायश्चित्तमाह— त्रीन्कृच्छ्रानाचरेद् व्रात्ययाजकोऽभिचरन्नपि । वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम् ॥ २८८ ॥ यस्तु सावित्रीपतितानां याजनं करोति स प्राजापत्यप्रभृतींस्त्रीन्कृच्छ्राना- चरेत्, एतेषां च गुरुघुभूतानां कृच्छ्राणां निमित्तगुरुघुभावेन कल्पनीयम् ॥ तथा अभिचरन्नपीदमेव प्रायश्चित्तं कुर्यात् । एतच्चाभिघाताततायिव्यतिरेकेण 'षट्स्वभिचरन् पतति' इति वसिष्ठस्मरणात् ॥ 'अपि'शब्दो हीनयाजकान्त्येष्टि- याजकयोः संग्रहार्थः । अत एवोक्तं मनुना (११।१९७)—'व्रात्यानां याजनं १. दीणि कामखाति ।

कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैरपोहति ॥' इति । 'परेषामन्त्यकर्म' इत्यत्यन्ताभ्यासविषयं शूद्रान्त्यकर्मविषयं वा; प्रायश्चित्तस्य गुरु- त्वात् । अहीनो द्विरात्रादिर्द्वादशाहपर्यन्तोऽहर्गणयागः । यत्तु शातातपेनो- क्तम्—'पतितसावित्रीकाञ्छोपनयेन्नाध्यापयेन्न याजयेत् य एतानुपनयेदध्यापयेद्या- जयेद्वा स उद्दालकव्रतं चरेत्' इति,–तत्कामकारविषयम् । उद्दालकव्रतं च प्राग्द- र्शितम् । एतच्च कृच्छ्रत्रयं साधारणोपपातकप्रायश्चित्तस्यापवादकम्, अत उप- पातकसाधारणप्रायश्चित्तं शूद्रयाज्याय्याजने व्यवतिष्ठते । तत्र कामतस्त्रैमासिकम् । अकामतस्तु योगीश्वरोक्तं मासत्रतादि । यत्तु प्रचेतसा शूद्रयाजकादीन्पठित्वोक्तम्– ‘एते पञ्चतपोऽभ्रावकाशजलशयानन्यनुतिष्ठेयुः । क्रमेण ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावक्रमक्षयेयुः' इति,–तत्कामतौऽभ्यासविषयम् । यत्तु यमेनोक्तम्—'पुरोधाः शूद्रवर्णस्य ब्राह्मणो यः प्रवर्तते । स्नेहादर्थप्रसङ्गाद्वा तस्य कृच्छ्रो विशोधनम् ॥' इति,–तदशक्तविषयम् । यच्च पैठीनसिनोक्तम्—'शूद्रयाजकः सर्वद्रव्यपरित्यागा- त्पूतो भवति प्राणायामसहस्रेषु दशकृत्त्वोऽभ्यस्तेषु' इति,–तदप्यकामतौऽभ्यासविष- यम् । यत्तु गौतमेनोक्तम्—'निषिद्धमन्त्रप्रयोगे सहस्रवागुपतिष्ठेत्' ( २२।२३ ) इति निषिद्धानां पतितादीनां याजनाध्यापनात्मके मन्त्रप्रयोगे बहुशोऽभ्यस्ते प्राकृतं ब्रह्मचर्यमुपदिष्टं,–तत्कामतौऽभ्यासविषयम् । यः स्वेवेदं विप्तावयति यश्च, रक्षग- ण्डोऽपि तस्करव्यतिरिक्तं शरणगतमुपेक्षते, सोऽपि संवत्सरं यवोदनं भुञ्जानः शुध्यति । तत्र विप्लवो नाम पर्वचाण्डालश्रोत्रावकाशाद्यनध्यायेष्वध्ययनम् । उत्कर्ष- हेतोरधीयानस्य किं पठसि ना शितं त्वयेत्येवं पर्ययोगदानं वा विप्लावनमुच्यते । अत एवोक्तं स्मृत्यन्तरे—'दत्तानुयोगानध्येतुः पतितान्मनुरब्रवीत्' इति । यत्तु वसिष्ठेनो- क्तम्—'पतितचाण्डालशवश्रावणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् सहस्र- परमं वा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते' ( २३।३४-३५ ) इति, 'एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच्च पूता भवन्तीति विज्ञायते' ( २३।३६ ) इति,—तद्बुद्धिपूर्वविषयम् । यत्तु षट्त्रिंशन्मतेऽभि- हितम्—'चाण्डालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रमभोजनम्' इति,–तद- बुद्धिपूर्वविषयम् ॥ यदा सर्पाद्यन्तरागमनमात्रं भवति न पुनस्तत्राधीते तदापि प्रायश्चित्तं यमेनोक्तम्—'सर्पस्य नकुलस्याथ अजमार्जारयोस्तथा ॥ मूषकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥ पुरुषस्यैडकस्यापि शूनोऽश्वस्य खरस्य च । अन्तरागमने सद्यः प्रायश्चित्तमिदं शृणु ॥ त्रिरात्रमुपवासश्च त्रिरह्नाञ्चाभिषेचनम् । ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः ॥' इति ॥ पितृमातृसुतत्यागत- डागारामविक्रयेषु मनुयोगीश्वरोक्तोपपातकसाधारणप्रायश्चित्तानि पूर्ववज्जाति-


१. नाध्यापयेच्च एता । २. यस्तु वेदं ।

शक्तिगुणापेक्षया योज्यानि । तत्र पितृमात्रादिष्वित्यागस्य 'अकारणे परित्यक्ता मातापित्रोगुरुस्तथा' इत्यपाङ्क्तमध्यपाठान्तन्निमित्तमपि प्रायश्चित्तं भवति । यथाह मनुः ( ११।२०० )—'षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥' इति । अपाङ्क्ताश्च श्राद्धकाण्डे 'ये स्तेनपतितक्लीबाः' इत्यादिवाक्यैर्दर्शिताः । तडागारामविक्रयेषु च कतिचिद्वि- शेषप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्तकथनावसरे कथितानि ॥ अनन्तरं 'कन्याया दूषणम्' इत्युक्तं, तत्र च त्रैमासिकद्वैमासिकचान्द्रायणादीनि वर्णानां सवर्णविषये योज्यानि । आनुलोम्ये पुनर्मासिकपयोशनं प्राजापत्यं वा- 'सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः' ( व्य० २८८ ) इति दण्डाल्पत्व- दर्शनात् ॥ यत्तु शङ्खेनोक्तम्—'कन्यादूषी सोमविक्रयी च कृच्छ्रमब्दं व्रतं चरेयाताम्' इति, यच्च हारीतवचनम्—'कन्यादूषी सोमविक्रयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरुः प्रतिहन्ता नास्तिको नास्तिक- वृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिरित्येते पञ्चतपोऽवकाशाजलशयनान्य- बुत्तिष्ठेयुर्ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकमश्नीयुः इति, —तदुभयमपि क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् । शूद्रस्य तु वध एव । 'दूषणे तु करच्छेद उत्तमायां वधस्तथा' ( व्य० २८८ ) इति वधदर्शनात् । परिविन्दैकस्य याजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धव्रतलोपे आत्मार्थपाकक्रियारम्भे मद्यपस्त्रीनिषेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद्व्यवस्थापनीयम् । आद्य- योस्तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शि- तानि । अनन्तरं 'स्वाध्यायाग्निसुतत्यागः' ( प्रा० २३९ ) इत्युक्तं, तत्र ऽवसनाद्यशक्त्या त्यागे अधीतस्य च नाशनमिति ब्रह्महत्यासमप्रायश्चित्तमुक्तम् । शास्त्रश्रवणाद्याकुलतया त्यागे तु त्रैमासिकाद्युपपातकप्रायश्चित्तानि जाँतिशक्त्य- पेक्षया योज्याँनि । यत्तु वसिष्ठेनोक्तम्—'ब्रह्मोञ्झः कृच्छ्रं द्वादशरात्रं चरित्वा- पुनरुपयुञ्जीत वेदमाचार्यात्' इति, –तदत्यन्ताल्पविषयम् । अग्निस्त्यागेऽपि तेनैव विशेषो दर्शितः—'योऽग्नीनपविध्येत्स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधेयं कारयेत्' इति । 'द्वादशरात्र' ग्रहणमुत्सन्नकालापेक्षया प्राजापत्यादिगुरुलघु- कृच्छ्राणां प्राथ्यर्थम् । तत्र मासद्वये प्राजापत्यं, मासचतुष्टयेऽतिकृच्छ्रः, षण्मा- सोद्विगुन्ते पराकः, षण्मासाद्धूर्ध्वं योगीश्वरोक्तान्युपपातकसामान्यप्रायश्चित्तानि कात्यापेक्षया योज्यानि । संवत्सरादूर्ध्वं तु मानवं त्रैमासिकं द्वैमासिकमिति

१. आद्यप्रकरणे । २. कृच्छ्रमब्दे । ३. कूटव्यवहारी मित्रध्रुक् । ४. परिविन्दुकयाजन । ५. शक्तिगुणापेक्षया । ६. व्यवस्थापनीयानि ।

५६० याज्ञवल्क्यस्मृतिः

व्यवस्था ।—एतच्च नास्तिक्येन त्यागविषयम् । तथा च व्याघ्रः—'नोऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद् द्विजः' इति । यदा तु प्रमादात्त्यजति तदा आरङ्गाजगृहो विशेष उक्तः—'प्राणायामशतमात्रिरात्रामुपवासः स्यादां- विंशतिरात्रात् अत ऊर्ध्वमषष्टिरात्रान्तित्स्रो रात्रीरुपवसेदत ऊर्ध्वमासंवत्स- रात् प्राजापत्यं चरेत् , अत ऊर्ध्वं कालबहुत्वे दोषगुरुत्वम्' इति । यदा स्वाल- स्यादिना त्यजति तदापि तेनैव विशेष उक्तः—'द्वादशाहातिक्रमे त्र्यहमुपवासः, मासातिक्रमे द्वादशाहमुपवासः, संवत्सरातिक्रमे मासोपवासः पयोभक्षणं वा' इति । संवत्सादूर्ध्वं तु वृद्धहारीतेन विशेष उक्तः—'संवत्सरोत्सन्नेऽग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्यात् । द्विवर्षोत्सन्ने चान्द्रायणं सोमायनं च कुर्यात् ।' त्रिवर्षोत्सन्ने संवत्सरं कृच्छ्रमभ्यस्य पुनरादध्यात्' इति । सोमायनं च कृच्छ्र- काण्डे वक्ष्यते । शङ्खनापि विशेष उक्तः—'अग्न्युत्सादी संवत्सरं प्राजापत्यं चरेद्गां च दद्यात्' इति ॥ सुतत्यागे बन्धुत्यागे च त्रैमासिकं गोवधव्रतं कामतः । अकामतस्तु बोगीश्वरोक्तं व्रतचतुष्टयं शक्त्याद्यपेक्षया योज्यम् । द्रुमच्छेदे प्रायश्चित्तं प्रागुक्तम् । स्त्रीप्राणिवधवशीकरणादिभिर्जीवने तिलेक्षुयन्त्रप्रवर्तने च तान्येव प्रायश्चित्तानि तथैव योज्यानि । व्यसनेषु च द्यूतमृगयादिषु तान्येव व्रतानि तथैव योज्यानि । यत्तु बौधायनेन—'अथाशुचिकराणि द्यूतमभिचा- रोऽनाहिताग्नेरूहड्वृत्तिः समावृत्तस्य च भैक्षचर्या तस्य च गुरुकुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यो यश्च तमध्यापयति नक्षत्रनिर्देशनं चेति द्वादशमा- सान्द्वादशार्धमासान्द्वादशाहान्द्वादशषडह्हान्याद्वादशत्र्यहान् त्र्यहमेकाहमित्यशुचि- करनिर्देशः' इति वृत्ते वार्षिकव्रतमुक्तं,-तदभ्यासविषयम् । यत्तु प्रचेतसोक्तम्- 'अनृतवाक् तस्करो राजभृत्यो वृक्षारोपकवृत्तिर्गारुडोऽग्निदोऽश्वस्थगजारोहण- वृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृषलीपतिर्भाण्डिको नक्षत्रोपजीवी श्ववृत्तिर्ब्रह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारकोऽप- ण्यविक्रयी मनुष्यपशुविक्रेता चेति तानुद्धरेत्समेश्य न्यायंतो ब्राह्मणव्यवस्था सर्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं त्रिशवणमुपस्पृशेयुस्तस्यान्ते देवपितृ- तर्पणं गवाह्निकं चेत्येवं व्यवहार्थो।' इति, -तदपि बौधायनेन समानविष- यम् । श्वागणिको यः श्वगणेन जीवति । भाण्डिको बन्दिव्यतिरिक्तो राज्ञां तूर्या- दिस्वनैः प्रबोधयिता; बन्दिनः पृथगुपादानात् । श्ववृत्तिः सेवकः, ब्रह्मजीवी ब्राह्म- णकार्येषु मूल्येन परिचारकः । मनूक्तान्यप्यपपातकैयप्रायश्चित्तानि 'बद्याह्वकालतौ मासम्' (११।२००) इत्यादीन्यपि जात्याद्यपेक्षया योज्यानि; तदुक्तापाङ्क्त्य- मध्येऽपि कितवादिव्यसनिनां पठितत्वात् । आत्मविक्रये शूद्रसेवायां च साम्ना-


१. द्विजकार्येषु ।

[Page Header] [Right aligned]: ४३१ [Centered]: प्रायश्चित्ताध्यायः

न्यप्रायश्चित्तानि प्राग्वदेव योज्यानि ॥ यत्तु बौधायनेनोक्तम्—‘समुद्रयानं ब्राह्मणस्य न्यासापहरणं सर्वापण्यैर्व्यवहरणं भूम्यनृतं शूद्रसेवा यच्च शूद्रायाम- भिज्ञायते, तदपत्यं च भवति तेषां तु निर्देशः ‘चतुर्थकालं मितभोजिनः स्युरपोऽ- भ्युपेयुः सवनानु कल्पम् । स्थानासनाभ्यां विहरन्त एतैस्त्रिवर्षैस्तदपहरन्ति पापम् ॥’ इति, – तद्बहुकालसेवाविषयम् ॥ हीनजातिभिः सख्ये तूपपातकसामा- न्यप्रायश्चित्तान्येव ॥ यत्तु प्रचेतसोक्तम्—‘मित्रभेदनकरणादहोरात्रमनश्नन् हुत्वा पयः पिवेत्’ इति, – तद्धीनसख्यभेदनविषयम् ॥ हीनयोनिनिषेवणेऽप्युपपातक- सामान्यप्रायश्चित्तानि योज्यानि ॥ यत्तु शातातपेनोक्तम्—‘ब्राह्मणो राज- कन्यापूर्वीं कृच्छ्रं द्वादशरात्रं चरित्वा निविशेतां चोपयच्छेत्, वैश्यापूर्वीं तु तप्त- कृच्छ्रं शूद्रापूर्वीं तु कृच्छ्रातिकृच्छ्रं राजन्यश्चैद्वैश्यापूर्वीं कृच्छ्रं द्वादशरात्रं चरित्वा निविशेतां चोपयच्छेत्, शूद्रापूर्वीं त्वतिकृच्छ्रं, वैश्यश्चेच्छूद्रापूर्वीं त्वति- कृच्छ्रं द्वादशरात्रं चरित्वा तां चोपयच्छेत्’ इति, तत्र निविशेतां चोपयच्छेचेदिति कृच्छ्रानुष्ठानोत्तरकालं सवर्णापरिणयनादूर्ध्वं तां च राजन्यादिकामुपयच्छेदित्यर्थः । – इदं चाज्ञानविषयम् । ज्ञानतस्तूपपातकसामान्यप्रायश्चित्तं व्यवस्थितमेव द्रष्टव्यम् ।–साधारणस्त्रीसंभोगे च ‘हीनयोनिनिषेवणम्’ (प्रा० २७१) इत्युक्तं, तत्रापि ‘पशुवेश्याभिगमने प्राजापत्यं विधीयते’ इति संवर्तोक्तमकामतॊ द्रष्टव्यम् । कामतस्तु यमेनोक्तं द्रष्टव्यम्— ‘वेश्यागमनजं पापं व्यपोहन्ति द्विजातयः । पीत्वा सकृत्सकृत्कृत्स्नं सप्तरात्रं कुशोदकम् ॥’ इति । उपपातकसामान्यप्रायश्चित्तानि च कामाकामतॊऽभ्यासापेक्षया योज्यानि । तत्र मत्याभ्यासे तु ‘प्रतिनिमित्तं नैमित्तिकमावर्तते’ इति न्यायात्प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्तायां लौगाक्षिणा विशेष उक्तः—‘अभ्यासेऽहर्गुणा वृद्धर्मासादार्वाग् विधीयते । ततो मासगुणा वृद्धियार्वत्संवत्सरो भवेत् ॥ ततः संवत्सरगुणा यावत्पापं समाचरेत् ॥’ इति ।– इदं मतिपूर्वविषयम् । अमतिपूर्वावृत्तौ तु चतुर्विंशतिमते विशेष उक्तः— ‘सकृत्कृते तु यत्प्रोक्तं त्रिगुणं तन्त्रिभिर्दिनेः । मासांत्पञ्चगुणं प्रोक्तं षण्मासाद्दशधा भवेत् ॥ संवत्सरात्पञ्चदशं द्यब्दाद्विशिगुणं भवेत् । ततोऽप्येवं प्रकल्प्यं स्याच्छा- तातपवचो यथा ॥’ इति ॥ यत्पुनः ‘विधेः प्राथमिकाइस्माद् द्वितीये द्विगुणं चरेत्’ इति प्रतिनिमित्तमावृत्तिविधायकं, – तन्महापातकविषयमित्युक्तं प्राक् । यत्तु यमेन साधारणस्त्रीगमनमधिकृत्य गुरुतल्पव्रतमतिदिष्टम् ‘गुरुतल्पव्रतं केचित्केचिच्चा- न्द्रायणव्रतम् । गोव्रतस्त्वेच्छन्ति केचित्तु केचिदेवावकीर्णििनः ॥’ इति ।–एतच्च जन्मप्रभृतिसानुबन्धानवच्छिन्नाभ्यासविषयम् । अनन्तरं ‘तथैवानाश्रमे वासः’

[Footnotes] १. हीनयोनिनिषेवणम् । २. पूर्वान्त्यासु ।

(प्रा० २४१) इत्युक्तं तत्र हारीतेन विशेष उक्तः—'अनाश्रमी संवत्सरं प्राजापत्यं कृच्छ्रं चरित्वाश्रममुपेयात् । द्वितीयेऽतिकृच्छ्रं तृतीये कृच्छ्रातिकृच्छ्रमत ऊर्ध्वं चान्द्रायणम्' इति । - एतदसंभवविषयम् । संभवे तु सामान्येनोपपातक- प्रायश्चित्तानि कामाकामतॊ व्यवस्थापनीयानि । परपाकरुचिस्वासङ्गाच्छादिग- मनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रा- यश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ २८८ ॥ भाषा—व्रात्य (पतित सावित्री) को यज्ञ कराने वाला और अभिचार कर्म करने वाला तीन कृच्छ्र व्रत करे। अपने वेद का विप्लावन करने वाला (चण्डाल आदि के समक्ष और अनध्याय में पढ़ने वाला), तथा शरण में आये हुए व्यक्ति की (समर्थ होने पर भी) रक्षा न करने वाला एक वर्ष तक जौ का भात खाने पर शुद्ध होता है ॥ २८८ ॥ 'भार्याया विक्रयश्चैषाम्' (प्रा० २४२) इत्यत्र 'च'शब्दो मन्वाद्युक्त- सप्रतिग्रहनिन्दितान्नादनामपुलक्षणार्थमित्युक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चि- त्तविशेषमाह— गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रतः । गायत्रीजाप्यनिरतः शुद्ध्येतेऽसत्प्रतिग्रहात् ॥ २८९ ॥ यस्त्वसत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायत्री- जाप्यनिरतो गायत्रीजपशीलो मासं पयोव्रतेन शुद्ध्यतीति । प्रतिग्रहस्य चासत्त्वं दातृजातिकर्मनिबन्धनं यथा चाण्डालादेः पतितादेश्च । तथा देशकालनिबन्धनं च यथा कुरुक्षेत्रोपरागादौ तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृत- शय्योभयतोमुख्यादेः ॥ यदा तु पतितादेर्मेष्यादिकं प्रतिगृह्णाति, तदैतद्गुरु- प्रायश्चित्तं द्रष्टव्यम् ; व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना संख्याविशेष उक्तः (११।१९४)—'जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥' इति प्रत्यहं त्रिसहस्रजपो द्रष्टव्यः; 'मासम्' इति द्वितीयया त्रिसहस्रसंख्याकस्य जपस्य प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशाद्विषिद्धं मेषादिकं गृह्णाति, पतितादेर्वा भूम्यादिकमनिषिद्धं तदा षट्त्रिंशन्मतोक्तं द्रष्ट- व्यम्—'पवित्रेष्ट्या विशुद्ध्यन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्दवेन मृगारेष्ट्या कदाचिन्मित्रविन्दया ॥ देव्या लक्षजपेनैव शुद्ध्यन्ते दुष्प्रतिग्रहात् ॥' इति । यत्तु वृद्धहारीतवचनम्—'राज्ञः प्रतिग्रहं कृत्वा मासम्प्सु सदा वसेत् । षष्ठे १. जप्यनिरतः । २. निरतो मुच्यतेऽसत्प्रति । ३. दिकं गृह्णाति ।

काले पयोभक्षः पूर्ण मासे विशुद्ध्यति ॥ तर्पयित्वा द्विजान्कामैः सततं नियतव्रतः ॥' इति, -तत्पूर्वोक्तविषयेऽभ्यासे द्रष्टव्यम् । अथवा,-पतितादेः कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पतया प्रायश्चित्ताल्पत्वम् । यथाह हारीतः - 'मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्ट- सहस्रं जपेत्' इति । तथा षट्त्रिंशन्मतेऽपि - 'भिक्षोमात्रं गृहीते तु पुण्यं मन्त्रमुदीरयेत् । प्रतिग्रहेषु सर्वेषु षष्ठमंशं प्रकल्पयेत् ॥' इतीदं च प्रायश्चित्तजातं द्रव्यत्यागोत्तरकालं द्रष्टव्यम् । ( ११।१९३) - यद्वर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥' इति मनु- स्मरणात् । एवमन्यान्यपि स्मृतिवाक्यानि द्रव्यसाराल्पत्वमहत्त्वाभ्यां विषयेषु व्यवस्थापनीयानि ॥ इत्युपपातकप्रायश्चित्तप्रकरणम् । जात्याश्रयादिदोषेण निन्द्यान्नादेश्च षड्विधः । योगीन्द्रोक्तव्रतव्रातः सांप्रतं तु प्रतन्यते ॥ तत्र जातिदुष्टपलाण्ड्वादिभक्षणे कामतः सकृत्कृते 'पलाण्डुं विड्वराहं च' (आ० १७६) इत्यादिना चान्द्रायणमुक्तम् । कामतोऽभ्यासे तु 'निषिद्धभक्षणं जैह्मयं' (प्रा० २२९) इत्यादिनोक्तं सुरापानसमप्रायश्चित्तम् । अकामतः सकृद्भक्षणे सान्तपनम् । तत्रैवाभ्यासे यतिचान्द्रायणम् ।-'अभक्ष्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः' (५।२०) इति मनु- स्मरणात् । यत्तु बृहद्यमेनोक्तम्-'खट्ववार्ताककुम्भीकब्रश्चनप्रभवाणि च । भूस्तृणं शिग्रुकं चैव सुखुण्डं कवकानि च ॥ एतेषां भक्षणं कृत्वा प्राजापत्यं चरेद् द्विजः ॥' इति, तत्कामतोऽभ्यासविषयम् । 'मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं क्षिपेत्' इति योगेश्वरेण कामतः सकृद्भक्षणे त्र्यहस्योक्तत्वात् । खट्वाख्यः पक्षी । कुसु- म्भमित्यन्ये । कवकं राजसर्षपाख्यं शाकम् । सुखुण्डं तद्विशेषो गोबलीवर्दन्यायेन निर्दिष्टः । यत्तु यमेनोक्तम्-'तन्दुलीय ककुम्भीकब्रश्चनप्रभवांस्तथा । नालिकां नारिकेलीं च श्लेष्मातकफलानि च ॥ भूस्तृणं शिग्रुकं चैव खट्‌वाख्यं कवकं तथा । एतेषां भक्षणं कृत्वा प्राजापत्यं व्रतं चरेत् ॥' इति, - तदपि मतिपूर्वाभ्यासविषयम् । नालिका नारिकेली च शाकविशेषौ । खट्‌वाख्यश्च । अकामतः सकृद्भक्षणे तु 'शेषेषूपवसेदहः' (५।२०) इति मनूक्तं द्रष्टव्यम् । तत्रैवाभ्यासे स्वावृत्तिः कल्प्या । अत्यन्ताभ्यासे तु-'संसर्गदुष्टं यच्चान्नं क्रियादुष्टमकामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥' इति प्रचेतोभिहितं द्रष्टव्यम् । नीश्यारश्व- १. पूर्ण मासे प्रमुच्यते । २. मात्रे गृहीत्वा तु ।

५६४ याज्ञवल्क्यस्मृतिः कामतः सकृद्भक्षणे चान्द्रायणम्—'भक्षयेद्यदि नीलीं तु प्रमादाद् ब्राह्मणः कचित् । चान्द्रायणेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥' इति आपस्तम्बस्मरणात् । कामतोऽभ्यासे चावृत्तिः कल्पा ॥ यदपि षट्त्रिंशन्मतेऽभिहितम्—'शणपुष्पं शास्मलं च करनिर्मथितं दधि । बहिर्वेदिपुरोडाश जग्ध्वा नाद्यादहर्निशम् ॥'इति,- तदप्यकामविषयम् । यत्तु सुमन्तुनोक्तम्—'लशुनपलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्रेण मूर्धिन संपातान्नयेत्, इति,-तद्बलात्कारेणानिच्छतो भक्षणविषयम् । तदेकसाध्यव्याध्युपशमार्थे वा भक्षणे द्रष्टव्यम् । अत एवानन्तरं तेनैवोक्तम्— 'एतान्येव व्याधितस्य भिषक्क्रियायामप्रतिषिद्धानि भवन्ति । यानि चैवंप्रकाराणि तेष्वपि न दोषः' इति । संपातान्नयेदुदकबिन्दून्प्रक्षिपेत् ॥ अथ जातिदुष्टसंधिन्यादिचीरपाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने (५।८-१०)—'अनिर्दशाया गोः क्षीरमौष्ट्रमेकशफं तथा । आधिकं संधिनीक्षीरं विवत्सायाश्च गोः पयः ॥ आरण्यानां च सर्वेषां मृगाणां महिषीं विना । स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ दधि भक्ष्यं च शक्तेषु सर्वं च दधिसंभवम्' इत्युक्त्वा 'शेषेषूपवसेदहः' ( ५।२० ) इति मनूक्त उपवासो द्रष्टव्यः । कामतस्तु योगीश्वरोक्तस्त्रिरात्रोपवासो द्रष्टव्यः ॥ यत्तु पैठीनशिनोक्तम्—'अविखरोष्ट्र- मानुषीक्षीरप्राशने तप्तकृच्छ्रः पुनरुपनयनं च । अनिर्दशाहगोमहिषीक्षीर- प्राशने षड्रात्रमभोजनम् । सर्वासां द्विस्तनीनां क्षीरपानेऽप्यजावर्जमेतदेव' इति । यच्च शङ्खेन–'क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्तरात्रव्रतं कुर्यात्प्रयत्नेन समाहितः ॥' इति यावकव्रतमुक्तं, तदुभयमपि कामतोऽभ्यासवि- षयम् । यत्तु शङ्खेन—संधिन्यमेध्यभक्षयोः क्षीरप्राशने पञ्चव्रतमुक्तम्—'संधि- न्यमेध्यभक्षयोर्भुङ्क्त्वा पञ्चव्रतं चरेत् इति,-तदप्यभ्यासविषयम् । 'सकृत्पाने गोऽजामहिषीवर्ज्य सर्वाणि पयांसि प्राश्योपवसेत् । अनिर्दशाहं तान्यपि संध्रि- नीयमसूर्यन्दिनीविवत्साक्षीरं चामेध्यभुजश्च' इति विष्णुनोपवासस्योक्तत्वात् । तथा वर्णनिबन्धनश्च प्रतिषेधः—'क्षत्रियश्चापि वृत्तस्थो वैश्यः शूद्रोऽथवा पुनः । यः पिबेत्कपिलाक्षीरं न ततोऽन्योऽस्त्यपुण्यकृत् ॥' इत्येवमादौ च यन्न प्रतिप- द्रोक्तं प्रायश्चित्तं न दृश्यते तत्र 'शेषेषूपवसेदहः' इति ( ५।२० ) साधारण- प्रायश्चित्तं मनूक्तं द्रष्टव्यम् ॥ अथ स्वभावदुष्टमांसादिभक्षणे प्रायश्चित्तमुक्तम् । तत्र कामतः सकृद्भक्षणे'शेषे- षूपवसेदहः' इति मनूक्तं साधारणं प्रायश्चित्तं द्रष्टव्यम् । कामतस्तु—'चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥' इति योगीश्वरोक्तं द्रष्टव्यम् । कामतोऽभ्यासे तु ( १।११५२)—'जग्ध्वा मांस- १. जग्द्ध्वा ।