अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
४२४ अभिज्ञानशाकुन्तलम्
प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहतां महीयसाम्¹। ममापि च क्षपयतु नीललोहितः पुनर्भवं ²परिगतशक्तिरात्मभूः ॥ ३५ ॥
**अन्वयः—**पार्थिवः प्रकृतिहिताय प्रवर्तताम् । श्रुतिमहतां सरस्वती महीयताम् । परिगतशक्तिः आत्मभूः नीललोहितः ममापि च पुनर्भवं क्षपयतु ॥ ३४ ॥
महर्षेः कश्यपस्य प्रभावात् सफलमनोरथोऽपि राजा दुष्यन्तो पुनरपि प्रियं प्रार्थयते—**प्रवर्ततामिति—**पार्थिवः-पृथिव्यामीश्वरः पार्थिवः = क्षितिपतिः प्रकृतिहिताय प्रकृतिः = प्रजा तस्याः हिताय = कल्याणाय श्रेयसे प्रवर्तताम् = प्रवृत्तो भवतु श्रुतिमहतां = श्रुत्या वेदज्ञानेन शास्त्रश्रवणेन वा महतां = वरिष्ठानां सरस्वती = वाणी यद्वा श्रुतिमहता = श्रोत्रेन्द्रियपूजिता, चमत्कारिणी सरस्वती = कविवाणी, महीयताम् = उत्कृष्टं गौरवं लभताम् यद्वा श्रुतिमहता = वेदवर्णिता सरस्वती = भगवती शारदा न हीयताम् = नाल्पसारा भवतु ! परिगतशक्तिः परिगता = मिलिता, नित्यसमवायिनी शक्तिः शिवा, यस्य स परिगतशक्तिः यद्वा परितः = सर्वतः गताः = व्याप्ताः शक्तयो यस्यासौ परिगतशक्तिः = सर्वशक्तिसम्पन्नः आत्मभूः-आत्मना = स्वयं भवतीत्यात्मभूः = स्वयम्प्रकाशः नीललोहितः-वामे नीलः दक्षिणे लोहितः इति नीललोहितः = भगवान् सदाशिवः ममापि = सूत्रधारस्य कवे-र्कालिदासस्य च पुनर्भवं = पुनर्जन्म, जन्मान्तरं नाशयतु !
**अयं भावः—**दयासिन्धो महर्षे ! भवदीयानुग्रहादहं सफलाभिलाष सम्पन्नः नातः परं किमपि प्रार्थनीयमस्ति । तथापि यदि भवान् प्रियं चिकीर्षति तर्हीदमस्तु—समस्ताः पृथिवीपतयः स्वसुखनिरपेक्षः सन्तः प्रजानामेव श्रेयसे सर्वदा प्रवर्तन्ताम्, महाकवीनां
राजा लोग प्रजा के हित कार्यों में हमेशा लगे रहें, चारों वेदों में गीयमान कीर्ति भगवती सरस्वती जगत् में पूजा को प्राप्त हों, या वैदिक वाङ्मय में प्रशंसित महान् कवियों की वाणी गौरव-मण्डित हो। और सर्वशक्तिमान् स्वयम्भू भगवान् सदाशिव मेरे पुनर्जन्म को = जन्मांतर प्राप्ति को समाप्त करें। अर्थात् भगवान् शिव की कृपा से मेरा जन्म-मरणरूप भवबन्धन हमेशा के लिए छूट जाय।
**विशेष—**नाटक के आदि और अन्त में मङ्गलाचरण प्रशस्त माना गया है। तदनुसार इस नाटक के आदि में नान्दी और अन्त में भरतवाक्य मंगल के रूप में प्रयुक्त है।
नाटकों के भरतवाक्यों में प्राणिमात्र की भलाई की कामना निहित रहती है। नाटकों में अन्तिम श्लोक जो प्रशस्ति के रूप में आता है, उसे भरतवाक्य कहते हैं। भरत नट को कहते हैं, नाटक के अन्त में समस्त अभिनेता एक साथ जो मङ्गलकामना करते हैं, उसे भरतवाक्य कहते हैं या नट लोग नाट्यशास्त्र के प्रवर्तक आचार्य भरतमुनि के प्रति अपनी श्रद्धा व्यक्त करने के निमित्त अपने वाक्य को भरतवाक्य कहते हैं।
इस भरतवाक्य में श्रुतिमहती शब्द के दो अर्थ हैं—एक वेदों में प्रतिपादित महत्त्वशाली संस्कृत विद्या तथा दूसरा अर्थ वैदिक वाङ्मय में स्थित समृद्ध संस्कार विद्या तथा आत्मभू शब्द का तात्पर्य है—बिना किसी तत्त्व अथवा बिना किसी की सहायता के स्वयं अपनी इच्छा से जन्म धारण करने वाले। अतः आत्मभू शब्द कभी ब्रह्मा जी के लिए, कभी विष्णु के लिए और कभी शिव के लिए आवश्यकतानुसार प्रयुक्त होता रहता है। प्रकृत में आत्मभू शब्द का अर्थ है अनादिदेव भगवान् शिव जी।
पाठा०—१. महीयताम् ।
२. परिगतभक्तिरात्मभूः
सप्तमोऽङ्कः ४२५
( इति निष्क्रान्ताः सर्वे )
( सप्तमोऽङ्कः )
समाप्तमिदमभिज्ञानशाकुन्तलं नाम नाटकम् ।
सरसाः कविताश्च सहृदयानां हृदयेषु चमत्कारं जनयित्वा विशिष्टसम्मानं लभन्ताम्, सर्वशक्तिशाली पार्वतीपतिः परमेश्वरश्च जन्मान्तरं निरस्य शाश्वतं पदं दिशत्विति शम् । अत्र समुच्चयालङ्कारः रुचिरा वृत्तञ्चास्ति ॥ ३५ ॥
इति कविवरकालिदासप्रणीतस्याभिज्ञानशाकुन्तलनामकनाटकस्य सप्तमेऽङ्के पं० श्रीकृष्णमणित्रिपाठिना संस्कृते कृता विमलाख्या व्याख्या समाप्ता ।
इत्थं समाप्तमिदमभिज्ञानशाकुन्तलं नाम नाटकम् ।
पुराणों ने अनुसार अमृत पानकर अमर होने के निमित्त देवता एवं दानवों द्वारा किये गये समुद्रमन्थन के अवसर पर अमृत निकलने के पूर्व निर्गत विष से चराचर जगत् को उसके शमन के लिए देवता तथा दानवों की प्रार्थना पर दयालु भगवान् शङ्कर ने विषपान कर लिया था। तदनुसार शिवजी के गले में अटके हुए उस हलाहल विष से उनका कण्ठ काला पड़ गया और उनकी जटा लाल हो गई। इसलिए वे परम कृपालु शिवजी नीललोहित कहे जाते हैं।
ततः करतलीकृत्य व्यापि हालाहलं विषम् ।
अभक्षयन् महादेवः कृपया भूतभावनः ॥ ( ८।७।४२ )
यस्यापि दर्शयामास स्ववीर्यं जलकल्मषः ।
यच्चकार गले नीलं तच्च साधो विभूषणम् ॥ ( ८।७।४३ )
इस प्रकार कविवर कालिदास द्वारा प्रणीत अभिज्ञानशाकुन्तल नामक नाटक में सप्तम अङ्क पर पं० श्रीकृष्णमणि त्रिपाठी द्वारा की गयी राष्ट्रभाषा हिन्दी में सुधा नामक व्याख्या समाप्त ।
अभिज्ञानशाकुन्तल नामक नाटक समाप्त ।
परिशिष्टम्
सुभाषित-वाक्यानि
अङ्गुलीयकमेवनिदर्शनमवश्यं भाव्यचिन्तनीयः समागमो भवति ।
अचेतनं नाम गुणं न लक्षयेत्० ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम० ।
अतिस्नेहः पापशङ्की ।
अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा ।
अनतिक्रमणीयानि श्रेयांसि ।
अनतिक्रमणीयं मे सुहृद्वाक्यम् ।
अनायः परवारव्यवहारः ।
अनियन्त्रणानुयोगस्तपस्विजनो नाम ।
अनिर्वर्णनीयं परकलत्रम् ।
अनुपपन्नं खल्वीदृशं त्वयि ।
अनुशयदुःखायेवं हतहृदयं संप्रति विबुद्धम् ।
अन्यमेव भागधेयमेते तपस्विनो निर्वर्णयन्ति यो रत्नराशीनपि विहायाभिनन्द्यते ।
अपरिचितस्यापि तेऽप्रतिलोमः संवृत्तः ।
अपूर्वः खलु वो निर्प्रहाः ।
अरण्ये मया रुदितम् ।
अर्थो हि कन्या परकीय एव ।
अवश्यंभाव्यचिन्तनीयः समागमो भवति ।
अवसरोपसर्पणीया राजानः ।
अस्य बालस्य तेऽपि संवादिनो आकृतिरिति विस्मितास्मि ।
अस्त्येतद् अन्यसमाधिभीरुत्वं देवानाम् ।
अहं तु तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।
अहो कामी स्वतां पश्यति ।
अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः ।
अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः ।
अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् ।
आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण भवितव्यम् ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ।
सुभाषित वाक्यानि
४२७
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ।
इदं तत् प्रत्युत्पन्नमतिस्त्रैणमिति यदुच्यते ।
इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ।
उत्सर्पिणी खलु महतां प्रार्थना ।
उत्सवप्रियाः खलु मनुष्याः ।
उपपन्नः खल्वस्याङ्गुलीयागमः ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ।
एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।
एवमादिभिरात्मककार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः ।
एष दास्याः पुत्रः कुसुमरसपाटच्चरः तत्र भवत्या वदनकमलमभिलंघते ।
एष नामानुग्रहो यच्छूलावदतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।
एषोऽत्रभवान् नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः ।
ओदकान्तं स्निग्धो जनोऽनुगन्तव्यः ।
क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति ।
क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते ।
कथमिवानीं तातस्याङ्कात् परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ।
कदापि सत्पुरुषाः शोकवास्तभ्या न भवन्ति ।
कष्टं खल्वनपत्यता ।
कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयति ।
कादम्बरी साक्षिकमस्माकं प्रथमसौहार्दमिष्यते ।
किं शोभनो ब्राह्मण इति कल्पयित्वा राज्ञा प्रतिग्रहो दत्तः ?
किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।
किमीश्वराणां परोक्षम् ।
को नामोष्णोदकेन नवमालिकां सिञ्चति ।
कोऽन्यो हुतवहाद् दग्धुं प्रभवति ।
गण्डस्योपरि पिण्डकः संवृत्तः ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ।
छाया न मूर्च्छति मलोपहतप्रसादे ।
तपः षड्भागमक्षयं ददत्यारण्यका हि नः ।
४२८ अभिज्ञानशाकुन्तलम्
तमस्तपति घर्मांशौ कथमविर्भविष्यति ।
तात ! शकुन्तला विरहितं शून्यमिव तपोवनं कथं प्रविशाव ।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् ।
त्रिशङ्कुरिवान्तराले तिष्ठ ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ।
दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावके एवाहुतिः पतिता ।
न खलु धीमतां कश्चिदविषयो नाम ।
ननु प्रवातेऽपि निष्कम्पा गिरयः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ।
नरनासिका लोलुपस्य जीर्णऋक्षस्य कस्यापि मुखे पतिष्यसि ।
पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ।
प्रतिपन्नमाधीयतां यत्नः ।
प्रमाणमन्तःकरणप्रवृत्तयः ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।
बहुल्लभा राजानः श्रूयन्ते ।
भवानेवाविनीतानां शासिताऽस्य वारणे प्रभविष्यति ।
भवितव्या खलु बलवती ।
भवितव्यानां द्वाराणि भवन्ति सर्वत्र ।
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूवन्धुभिः ।
मनोरथा नाम तटप्रपाताः ।
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ।
रन्ध्रोपनिपातिनोऽनर्थाः ।
राजरक्षितव्यानि तपोवनानि नाम ।
राज्ञां तु चरितार्थता दुःखोत्तरैव ।
लभेत प्रार्थयिता न वा श्रियं ।
लोको नियम्यत इवात्मदशान्तरेषु ।
वत्से ! सुशिष्यपरिदत्ताविद्येवाशोचनीया संवृत्ता ।
वयं तत्त्वान्वेषी मधुकर हतास्त्वं खलु कृती ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ।
विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य ।
सुभाषित वाक्यानि
४२९
विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम ।
विवक्षितं ह्यनुक्तमनुतापं जनयति ।
शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ।
शुद्धे तु दर्पणतले सुलभावकाशा ।
श्रिया दुरापः कथमीप्सितो भवेत् ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।
सदृशमेतत् पुरुवंशप्रदीपस्य भवतः ।
सन्ततिच्छेदनिरवलम्बनानां कुलानां मूलपुरुषावसाने सम्पदः परपुरुषमुपतिष्ठन्ते ।
सरसिजमनुविद्धं शैवलेनापि रम्यम् ।
सर्वः कान्तमात्मीयं पश्यति ।
सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः ।
सर्वः सगन्धेषु विश्वसिति द्वावप्यत्रारण्यकावेव ।
सर्वास्ववस्थासु रमणीयताकृतिविशेषाणाम् ।
सागरमुज्झित्वा कुत्र वा महानद्यवतरति ।
सुविहित प्रयोगतयार्यस्य न किमपि परिहास्यते ।
स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ।
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशंकया ।
स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि ?
स्वाधीनकुशलाः सिद्धिमन्तः ।
सुभाषित-श्लोकाः
अतः परीक्ष्य कर्तव्यं विशेषात् संगतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ ५।२४
अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्यात् यस्यायमङ्कात् कृतिनः प्ररूढः ॥ ७।१९
आपरितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ १।२
असंशयं क्षत्रपरिग्रहक्षमा, यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः ॥ १।२५
आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ ७।१७
इदं किला व्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति ॥ १।१८
औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिबातपत्रम् ॥ ५।६
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ ५।१४
क्व वयं क्व परोक्षमन्मथो मृगशावै सममेधितो जनः ।
परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वचः ॥ २।१८
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥ ६।३१
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभुवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचिसम्भवमिदं तत्स्रष्टुरेकान्तरम् ॥ ७।२७
भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ ५।१२
भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति ।
शेषः सदैवार्हितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥ ५।४
सुभाषित-श्लोकाः ४३१
मानुषोषु कथं वा स्यादस्य रूपस्य सम्भवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ १।२५
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः ॥ २।५
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ ५।२
शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद् वमन्ति ॥ २।७
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ ४।१७
सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाऽप्रिया वां प्रमदा स्वबन्धुभिः ॥ ५।१७
सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्मलक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव मधुराणां मण्डनं नाकृतीनाम् ॥ १।२०
सहजं किल यद् विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ ६।१
सिद्ध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः संभावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् ॥ ७।४
स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ ५।२२
नाट्यशास्त्र के कुछ पारिभाषिक शब्द
**नान्दी—**नाटक के आरम्भ में जिस पद्य के द्वारा देवता राजा आदि का अभिनन्दन किया जाय, उसे नान्दी कहते हैं—नन्द्यन्ते = स्तूयन्ते देवतादयो यस्यामिति नान्दी। साहित्यदर्पण में विश्वनाथ भट्टाचार्य ने नान्दी की परिभाषा इस प्रकार की है—
आशीर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रयुज्यते।
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ ६।२४
अर्थात् ग्रन्थ की निर्विघ्न समाप्ति के लिए आशीर्वादात्मक वाक्यों से युक्त नाटक के आरम्भ में की गई देवता, ब्राह्मण, नृप आदि की माङ्गलिक प्रार्थना को नान्दी कहा जाता है। इस नान्दी के लिए अपेक्षित है कि इसके द्वारा शङ्ख, चन्द्र, पद्म, चक्रवाक, कैरव आदि मङ्गलास्पद वस्तुओं की अभिव्यञ्जना हो जाय। नान्दी चतुष्पदा, अष्टपदा तथा द्वादशपदा भी होती है। जैसे —
माङ्गल्यशङ्खचन्द्राब्ज कोककैरवशंसीनी ।
पदैर्युक्ताद्वादशभिरष्टाभिर्वा पदैरुत ॥ सा० द० ६।२५
भरतमुनि ने अपने नाट्यशास्त्र में कहा है कि—
देवद्विजनृपादीनामाशीर्वादपरायणा ।
नन्दन्ति देवता यस्मात्तस्मान्नान्दीति संज्ञिता ॥
काव्यप्रदीप में लिखा है कि—
नन्दन्ति काव्यानि कवीन्द्रवर्गाः कुशालवाः पारिषदश्च सन्तः।
यस्मादलं सज्जन सिन्धुहंसी तस्मादियं सा कथितेव नान्दी ॥
**सूत्रधार:—**नाटक का वह प्रधान नट जो नाटकीय कथा वस्तु के भिन्न-भिन्न उपकरणों के सूत्र को सम्भाले रहता है, उसे सूत्रधार कहते हैं—सूत्रं धारयतीति सूत्रधारः। जैसे—
नाट्योपकरणादीनि सूत्रमित्यभिधीयते।
सूत्रं धारयतीत्यर्थे सूत्रधारो निगद्यते ॥
अर्थात् नाट्य के विभिन्न उपकरणों को सूत्र कहते हैं और जो पात्र उन्हें सँभालना है उसे सूत्रधार कहते हैं। सूत्रधार की अन्य सरल एवं संक्षिप्त परिभाषा यह है कि प्रधान नट विशेष को सूत्रधार कहते हैं जो सर्वप्रथम रंगमञ्च पर आकर वर्णनीय कथावस्तु की सूचना देता है।
वर्णनीयं कथासूत्रं प्रथमं येन सूच्यते।
रंगभूमि समासाद्य सूत्रधारः स उच्यते ॥
परिशिष्टम्
४३३
जर्मनी के प्रसिद्ध विद्वान् पिशेल साहब ने कठपुतली के नाच से नाटकों की उत्पत्ति मानी है। कठपुतली के नाच में व्यवस्थापक नचानेवाला सूत्र (डोरी) पकड़कर पुतलियों को नचाता है। इस आधार पर उसे सूत्रधार कहते हैं। शारदा-तनय के अनुसार वह कथावस्तु, नायक, रस आदि का सूत्र अर्थात् संक्षेप में वर्णन करता है अतः उसे सूत्रधार कहते हैं—
सूत्रयन् काव्यनिक्षिप्तवस्तुनेतृकथारसान् । नान्दीश्लोकेन नान्द्यन्ते सूत्रधार इति स्मृतः ॥
इस प्रकार सूत्रधार रंगमञ्च का प्रधान अधिकारी और व्यवस्थापक ही नहीं होता है अपितु वह रंगमञ्च को सजाने की कला में भी प्रवीण होता है। वह नाटक के नायक, कवि और कथावस्तु के गुणों का संक्षेप में वर्णन करता है—
आसूत्रयन् गुणान् नेतुः कवेरपि च वस्तुनः । रंगप्रसाधनप्रौढः सूत्रधार इहोदितः ॥
प्रस्तावना—जिसमें नाटक की कथावस्तु को प्रस्तुत किया जाय, उसे प्रस्तावना या आमुख कहते हैं। जैसे—
नटी विदूषको वापि पारिपार्श्वक एव वा सूत्रधारेण सहिताः संलापं यत्र कुर्वते । चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिय । आमुखं तत्त विज्ञेयं नाम्ना प्रस्तावनाऽपि सा ॥
अर्थात् नाटक का वह भाग जिसमें नाटक प्रारम्भ होने के पहले नटी विदूषक या पारिपार्श्वक अपने प्रस्तुत कार्य के सम्बन्ध में सुन्दर एवं रोचक शब्दों में सूत्रधार के साथ वार्तालाप करते हैं उसे आमुख या प्रस्तावना कहते हैं। इसमें विचित्र उक्तियों के द्वारा वार्तालाप होता है तथा बड़े कौशल से नाटक आरम्भ होता है—
सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् । स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥
प्रयोगातिशय—यदि किसी एक ही प्रयोग में अन्य प्रयोग आरम्भ हो जाय और उसी के द्वारा पात्र का प्रवेश कराया जाय तो उसे प्रयोगातिशय कहते हैं। जैसे—
यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते । तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा ॥
प्रयोगातिशय प्रस्तावना का ही एक भेद है।
विष्कम्भक—विष्कम्भक नाटक के किसी भी अङ्क के आदि में आने वाला वह भाग है, जिसमें मध्यम श्रेणी के दो पात्रों द्वारा पारस्परिक वार्तालाप में बीती हुई या आने-वाली नाटकीय कथा वस्तु से सम्बद्ध घटनाओं की सूचना दी जाती है।
विष्कम्भक दो प्रकार का होता है, एक शुद्ध विष्कम्भक दूसरा सङ्कीर्ण विष्कम्भक शुद्ध विष्कम्भक उसे कहते हैं, जिसमें एक या दो पात्र माध्यमश्रेणी के हों और संस्कृत भाषा का ही प्रयोग करते हों। सङ्कीर्ण विष्कम्भक वह होता है जिसमें
28 २८ शाकु०
४३४ | अभिज्ञानशाकुन्तलम्
एक पात्र मध्यम श्रेणी का हो तथा दूसरा निम्न श्रेणी का। इसमें प्राकृत तथा संस्कृत दोनों भाषाओं का प्रयोग होता है—
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥
मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः ।
शुद्धः स्यात् स तु सङ्कीर्णो नीचमध्यप्रकल्पितः ॥
प्रवेशक—प्रवेशक भी विष्कम्भक के समान अतीत या भावी कथांशों का सूचक है। इसमें प्रयुक्त शक्ति उदात्त नहीं होती। इसकी भाषा सदा प्राकृत होती है और इसमें नीच पात्रों का प्रयोग होता है। प्रवेशक की योजना हमेशा दो अङ्कों के बीच में ही होती है यह भी शेष अर्थों का सूचक है—
प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः ।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥
अङ्कावतार—कभी-कभी पात्रों द्वारा एक अङ्क के अन्त में अगले अङ्क के अभिनय का आभास मिलता है, जिसे अङ्कावतार कहते हैं—
अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ।
जिस अङ्क में अङ्कावतार होता है, उस में प्रवेशक तथा विष्कम्भक नहीं होते।
स्वगत—कभी-कभी रंगमञ्च का पात्र अपने मन की गुप्त बातों को प्रकाश में लाने के लिए दूसरी ओर मुँह फेरकर इस तरह बात करता है जिसको दर्शक तो सुन लेते हैं, पर रंगमञ्च के अन्य पात्र नहीं सुन पाते। स्वगत का प्रयोग कथा-वस्तु के उस भाग के लिए होता है जो किसी भी पात्र को नहीं सुनाया जाता। इससे पात्र विशेष के मानसिक भावों की झलक मिलती है। इस प्रकार स्वगत मन ही मन बोलना कहलाता है—
अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् ।
प्रकाश—प्रकाश सर्वश्राव्य नाटकीय कथावस्तु का वह भाग है, जिसका रंगमञ्च के सभी पात्रों को सुनाना अभीष्ट है। प्रकाश का वास्तविक अर्थ है प्रगट रूप में सुनाने के लिए जो बात कही जाय। धनञ्जय ने दशरूपक में प्रकाश और स्वगत का लक्षण इस प्रकार किया है—
सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ।
जनान्तिक—जनान्तिक एक नाटकीय पारिभाषिक शब्द है, जो नियत व्यक्तियों को ही सुनाने के लिए प्रयुक्त होता है। इसका प्रयोग वहाँ होता है जहाँ पर कोई पात्र रंगमञ्च पर स्थित अन्य पात्रों से किसी बात को छिपाने के लिए एक ओर होकर किसी पात्र से शनैः शनैः बात करता है। इसकी परिभाषा दशरूपक में धनञ्जय ने इस प्रकार दी है—
त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ।
अन्योऽन्यं मन्त्रणं यत् स्याज्जनान्ते तज्जनान्तिकम् ॥
परिशिष्टम्
४३५
अपवारितम्—अन्य व्यक्तियों की ओर मुँह फेर कर किसी पात्र विशेष के प्रति जो किसी गुप्त रहस्य का प्रकाशन किया जाता है उसे अपवारित कहते हैं। इसकी परिभाषा विश्वनाथ भट्टाचार्य ने अपने साहित्यदर्पण में इस प्रकार की है—
..............................तद्भवेदपवारितम् ।
रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते ॥
और नाट्यदर्पण में लिखा है कि जो बात पात्र विशेष से छिपाकर अन्य पात्रों से कही जाती है उसे अपवारित कहते हैं—
रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ।
पूर्वरङ्ग—नाटकीय कला की अवतारणा से पहले नटवृन्द रङ्गभूमि के विघ्नों को दूर करने के निमित्त जो कुछ भी करते हैं उसे पूर्वरङ्ग कहते हैं। विश्वनाथ भट्टाचार्य ने साहित्यदर्पण के छठे परिच्छेद में पूर्वरङ्ग की परिभाषा इस प्रकार की है—
यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥
अङ्क—नाटक की पूरी घटनाओं के विकास को कई भागों में विभक्त कर देने पर प्रत्येक भाग को अङ्क कहते हैं। प्रत्येक अङ्क में नायक तथा नायिका आदि पात्रों के चरित्र का प्रदर्शन होता है और प्रत्येक अङ्क में एक ही रस की प्रधानता होती है—
अङ्क इति रूढशब्दो भावैश्च रसैश्च रोहयत्यर्थान् ।
नानाविधानयुक्तो यस्मात्तस्माद् भवेदङ्कः ॥
अर्थप्रकृतियाँ और सन्धियाँ—नाटक में प्रधान कथावस्तु नायक का कोई न कोई लक्ष्य होता है उसे ही फल कहते हैं। उस फल की सिद्धि के उपाय ही अर्थप्रकृतियाँ हैं। ये पाँच हैं, बीज, बिन्दु, पताका, प्रकरी और कार्य। अर्थप्रकृतियों के साथ सम्बन्ध होने पर सन्धियों का उद्भव होता है सन्धियाँ भी पाँच होती हैं—मुखसन्धि, प्रतिमुखसन्धि, गर्भसन्धि, अवमर्ष-सन्धि तथा उपसंहार—
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
यथासंख्येन जायन्ते मुखाद्या पञ्चसन्धयः ॥
मुख-प्रतिमुखे गर्भः सावमर्शोपसंहृतिः ।
बिन्दु—जहाँ किसी दूसरी कथा से विच्छिन्न हो जाने पर इतिवृत्त को जोड़ने एवं आगे बढ़ाने में जो कारण होता है, वह बिन्दु कहलाता है। यह अच्छेद कारण बिन्दु वृत्त में आगे जाकर ठीक वैसे ही प्रसारित होता है जैसे तेल की बूँद पानी में फैल जाती है। इसीलिए इसे बिन्दु कहते है—
अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम् ।
बीज—नाटक के आरम्भ में सल्पकूप से सङ्केतित वह तत्त्व जो नाटक के फल के कारण है और इतिवृत्त में अनेक रूप से पल्लवित होता है, उसे बीज कहते हैं। अल्प रूप में निर्दिष्ट हेतु बीज वृत्त के फल का साधक है और वृक्ष के बीज के समान पल्लवित होकर अनेक शाखी वृक्ष की तरह वृक्ष के रूप में बढ़ता है—
४३६ अभिज्ञानशाकुन्तलम्
अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति ।
फलस्य प्रथमो हेतुर्बीजमित्यभिधीयते ॥
नायक— नाटक का नायक त्यागी, यशस्वी, उच्चकुल में उत्पन्न, रूपयौवन शोभासम्पन्न उत्साही, चतुर, प्रजाओं में अनुरागपूर्ण, तेजस्वी, वाक्चतुर और शीलवान् होता है। जैसे—
त्यागो कृती कुलीनः सुश्रीको रूपयौवनोत्साही ।
दक्षोऽनुरक्तलोकस्तेजो वैदग्ध्यशीलवान्नेता ॥
विदूषक— नाटक का विदूषक कुसुम, वसन्त आदि नामवाला होता है। वह अपने कार्य, शरीर, वेश, भाषा आदि के द्वारा हास्योत्पादक, कलहप्रेमी तथा स्वकर्मज्ञ मधुर भोजन आदि का इच्छुक होता है—
कुसुमवसन्ताद्यभिधः कर्मवपुर्वेशभाषाद्यैः ।
हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः ॥
कञ्चुकी— कञ्चुकी उस कार्यकुशल व्यक्ति को कहते हैं, जो जाति से ब्राह्मण वृद्ध सर्वगुणसम्पन्न एवं कार्यकुशल हो। राजा के अन्तःपुर में नियुक्त प्रबन्धक कञ्चुक पहनता है। अतः उसे कञ्चुकी कहते हैं। भरतमुनि ने अपने नाट्यशास्त्र में कञ्चुकी की यह परिभाषा दी है—
अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः ।
सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते ॥
विश्वनाथ कविराज ने कहा है कि कञ्चुकी रनिवास का संरक्षक वह वृद्ध व्यक्ति होता है जो सत्यवादी कामदोषरहित, व्यवहार कुशल तथा विवेकशील पुरुष हो—
ये नित्यं सत्यसम्पन्नाः कामदोषविवर्जिताः ।
ज्ञानविज्ञानसम्पन्नाः कञ्चुकीयास्तु ते मताः ॥
कथावस्तु या इतिवृत्त— कथावस्तु या इतिवृत्त उसे कहते हैं, जो रूपकों का भेदक हो। कथावस्तु दो प्रकार की होती है (१) आधिकारिक (२) प्रासङ्गिक। आधिकारिक कथावस्तु मुख्य होती है तथा प्रासङ्गिक गौण, कहा भी है—
इत्याद्यशेषसित वस्तुविभेदजातं रामायणादि च विभाव्य बृहत्कथाञ्च ।
आसूत्रयेत्तदनु नेतृरसानुगुण्यां चित्रां कथामुचितचारु वचः प्रपञ्चे ॥
भरतवाक्यम्— भरतवाक्य संस्कृत साहित्य में नाटकों के अन्त में आने वाले इस पद्य के लिए प्रयुक्त होता है, जिसमें राष्ट्र की गौरवपूर्ण सर्वविध समृद्धि के निमित्त किसी नाटकीय पात्र के द्वारा सामाजिकों की शुभाशंसा की जाती है। नाट्यशास्त्र के प्रणेता भरतमुनि के प्रति सम्मान प्रदर्शनार्थ ही इस अन्तिम पद्य को भरतवाक्य कहा जाता है। अथवा नाटक के किसी नटविशेष भरत की उक्ति होने के कारण इसे भरतवाक्य कहते हैं।
श्लोकानुक्रमणिका
| अ | इ | ||
|---|---|---|---|
| अक्लिष्टबालतरु० | ६।२० | इतः प्रत्यादेशात् | ६।९ |
| अतः परीक्ष्य कर्तव्यं | ५।२४ | इदं किलाव्याजमनो० | १।१८ |
| अधरः किसलयरागः | १।२१ | इदमनन्यपरायण० | ३।१६ |
| अध्याक्रान्ता वसति० | २।१४ | इदमशिशिरै० | ३।१० |
| अनवरतधनुर्ज्या० | २।४ | इदमुपनतमेवं | ५।१९ |
| अनाघ्रातं पुष्पं | २।१० | इदमुपहितसूक्ष्म० | १।२९ |
| अनुकारिणि पूर्वेषां | २।१६ | ई | |
| अनुमतगमना | ४।९ | ईषदीषच्चुम्बितानि | १।४ |
| अनुयास्यन् मुनि० | १।२८ | उ | |
| अनेन कस्यापि | ७।१९ | उत्पक्ष्मणोर्नयनयो० | ४।१४ |
| अन्तर्गतप्रार्थनं० | ७।२ | उत्सृज्य कुसुम० | ३।१९ |
| अन्तर्हिते शशिनि | ४।३ | उदेति पूर्वं कुसुमं | ७।३० |
| अपरिक्षतकोमलस्य | ३।२१ | उद्गलितदर्भकवला | ४।११ |
| अभिजनवतो भर्तुः | ४।१८ | उन्नमितैभ्रूलत० | ३।१२ |
| अभिनवमधुलोलुपो | ५।१ | उपोढशब्दा न | ७।१० |
| अभिमुखे मयि संहृत० | २।११ | ए | |
| अभ्यक्तमिव स्नातः | ५।११ | एकैकमत्र दिवसे | ६।१२ |
| अभ्युन्नता पुरस्ताद० | ३।५ | एवमाश्रमविरुद्ध० | ७।१८ |
| अमी वेदिं परितः | ४।७ | एष त्वामभिनव० | ६।२७ |
| अयं स ते तिष्ठति | ३।११ | एषा कुसुमनिष्णा | ६।१९ |
| अयमरविवरेभ्यः | ७।७ | एषापि प्रियेण विना | ४।१५ |
| अर्थो हि कन्या | ४।२१ | औ | |
| अर्धपीतस्तनं मातुः | ७।१४ | औत्सुक्यमात्रमव० | ५।६ |
| असंशयं क्षत्रपरिग्रह० | १।२२ | क | |
| अस्मात्परं बत | ६।२५ | कथं नु तं बन्धुर० | ६।१३ |
| अस्मान् साधु | ४।१६ | कः पौरवे वसुमतीं | १।२४ |
| अहन्यहन्यात्मन | ६।२६ | का कथा बाण० | ३।१ |
| आ | कामं प्रत्यादिष्टां | ५।३१ | |
| आखण्डलसमो | ७।२८ | कामं प्रिया न सुलभा | २।१ |
| आचार इत्यवहितेन | ५।३ | कार्या सैकतलीन० | ६।१७ |
| आजन्मनः शाठ्य० | ५।२५ | का स्विद्वगुण्ठन० | ५।१३ |
| आताम्रहरितपाण्डुर | ६।२ | किं कृतकार्यद्वेषो | ५।१८ |
| आ परितोषाद् | १।२ | किं तावत् व्रतिना | ५।९ |
| आलक्ष्यदन्तमुकुलान् | ७।१७ | किं शीतलै क्लम० | ३।१८ |
| ४३८ | अभिज्ञानशाकुन्तलम् |
|---|
| कुतो धर्मक्रियाविघ्नः | ५।१४ | त्वन्मतिः केवला | ६।३२ |
| कुमुदान्येव शशाङ्कः | ५।२८ | त्वमर्हतां प्राग्रसरः | ५।१५ |
| कुल्याम्भोभिः पवन० | १।१५ | त्वमसि मया चूताङ्कुर | ६।३ |
| कृतं न कर्णार्पित० | ६।१८ | द | |
| कृताभिमर्शामनु० | ५।२० | दर्भाङ्कुरेण चरणः | २।१२ |
| कृता शरव्यं हरिणा | ६।२९ | दर्शनसुखमनुभवतः | ६।२१ |
| कृत्योर्भिन्नदेशत्वाद् | २।१७ | दिष्ट्या शकुन्तला | ७।२९ |
| कृष्णसारे ददच्चक्षु | १।६ | दुष्यन्तेनाहितं | ४।४ |
| क्व वयं क्व परोक्ष० | २।१८ | न | |
| क्षामक्षामकपोल० | ३।७ | न खलु न खलु | १।१० |
| क्षौमं केनचिदिन्दु० | ४।४ | न नमयितुमधिज्य० | २।३ |
| ग | नापेक्षितो गुरुजन | ५।१६ | |
| गच्छति पुरः शरीरं | १।३३ | नियमयसि विमार्ग० | ५।८ |
| गान्धर्वेण विवाहेन | ३।२० | नीवाराः शुकगर्भ० | १।१४ |
| गाहन्तां महिषा | २।६ | नैतच्चित्रं यदय० | २।१५ |
| ग्रीवाभङ्गाभिरामं | १।७ | प | |
| च | परिग्रहबहुत्वेऽपि | ३।१७ | |
| चलापाङ्गां दृष्टि | १।२३ | पातुं न प्रथमं | ४।८ |
| चित्रे निवेश्य | २।९ | पुत्रस्य ते रणशिर० | ७।२६ |
| चूतानां चिरनिर्गता | ६।४ | पृष्टा जनेन सम० | ३।८ |
| ज | प्रजाः प्रजाः स्वा इव | ५।५ | |
| जन्म यस्य पुरोर्वंशे | १।१२ | प्रजागरात् | ६।२२ |
| जाने तपसो वीर्यं | ३।२ | प्रत्यादिष्टविशेष० | ६।६ |
| ज्वलति चलितेन्धनो | ६।३१ | प्रथमं सारङ्गाक्ष्या | ६।७ |
| त | प्रथमोपकृतं मरुत्वतः | ७।१ | |
| तत्साधुकृतसन्धानं | १।११ | प्रलोभ्यवस्तुप्रणय० | ७।१६ |
| तदेषा भवतः कान्ता | ५।२६ | प्रवर्ततां प्रकृति० | ७।३५ |
| तपति तनुगात्रि | ३।१४ | प्राणानामनिलेन | ७।१२ |
| तव कुसुमशरत्वं | ३।३ | प्राहुर्द्वादिशधा | ७।२७ |
| तव न जाने हृदयं | ३।१३ | ब | |
| तव भवतु | ७।३४ | बल्मीकाग्रनिमग्न | ७।११ |
| तव सुचरित० | ६।११ | बाष्पेण प्रतिषिद्धेऽपि | ७।२३ |
| तवास्मि गीतरागे | १।५ | भ | |
| तस्याः पुष्पमयी | ३।२३ | भवनेषु रसाधिकेषु | ७।२० |
| तीव्राघातप्रतिहत० | १।२२ | भवन्ति नम्रास्तरवः | ५।१२ |
| तुरगखुरहत० | १।३१ | भव हृदय साभिलाषं | १।२७ |
| त्रिस्रोतसं वहति | ७।६ | भानुः सकृद्युक्त० | ५।४ |
श्लोकानुक्रमणिका
| भूत्वा चिराय | ४।१९ | वैखानसं किमनया | १।२६ |
| म | व्यपदेशमाविलयितुं | ५।२१ | |
| मनोरथाय नाशंसे | ७।१३ | श | |
| मय्येव विस्मरण० | ५।२३ | शक्यमरविन्दसुरभिः | ३।४ |
| महत्तस्तेजसो | ७।१५ | शमप्रधानेषु तपोधनेषु | २।७ |
| महाभागः कामं | ५।१० | शममेष्यति मम | ४।२० |
| मानुषीषु कथं वा | १।२५ | शान्तमिदमाश्रमपदं | १।१६ |
| मुक्तेषु रश्मिषु | १।८ | शापादसि प्रतिहता | ७।३२ |
| मुनिसुताप्रणय० | ६।८ | शुद्धान्तदुर्लभमिदं | १।१७ |
| मुहुरङ्गुलिसंवृता० | ३।२२ | शुश्रूषस्व गुरून् | ४।१७ |
| मूढः स्यामहमेषा वा | ५।२९ | शैलानामवरोहतीव | ७।८ |
| मेदश्छेदकृशोदरं | २।५ | स | |
| मोहान्मया सुतनु | ७।२५ | संकल्पितं प्रथममेव | ४।१२ |
| य | संदष्टकुसुमशयना० | ३।१५ | |
| यथा गजो नेति | ७।३१ | संरोपितेऽप्यात्मनि | ६।२४ |
| यदालोके सूक्ष्मं | १।९ | सख्यस्ते स किल | ६।३० |
| यदि यथा वदति | ५।२७ | सतीमपि ज्ञाति० | ५।१७ |
| यदुत्तिष्ठति वर्णेभ्यो | २।१३ | सरसिजमनुविद्धं | १।२० |
| यद्यत् साधु न | ६।१४ | सहजं किल | ६।१ |
| ययातेरिव शर्मिष्ठा | ४।६ | साक्षात् प्रियामुप० | ६।१६ |
| यस्य त्वया व्रण० | ४।१३ | सा निन्दन्ती | ५।३० |
| यात्येकतोऽस्तशिखरं | ४।२ | सायन्तने सवनकर्मणि | ३।२४ |
| या सृष्टिः स्रष्टुराद्या | १।१ | सिध्यन्ति कर्मसु | ७।४ |
| यास्यत्यद्य शकुन्तलेति | ४।५ | सुखपरस्य हरे० | ७।३ |
| येन येन वियुज्यन्ते | ६।२३ | सुतनु हृदयात् | ७।२४ |
| यो हनिष्यति | ६।२८ | सुभगसलिला० | १।३ |
| र | सुरयुवतिसंभवं | २।८ | |
| रथेनानुद्धात० | ७।३३ | स्तनन्यस्तोशीरं | ३।६ |
| रम्यं द्वेष्टि यथा | ६।५ | स्त्रीणामशिक्षित० | ५।२२ |
| रम्याणि वीक्ष्य | ५।२ | स्निग्धं वीक्षित० | २।२ |
| रम्यान्तरः कमलिनी | ४।१० | स्मर एव तापहेतुः | ३।९ |
| रम्यास्तपोधनानां | १।१३ | स्मृतिभिन्नमोहो० | ७।२२ |
| व | स्रस्तांसावतिमात्र० | १।२९ | |
| वसने परिधूसरे | ७।२१ | स्वप्नो नु माया | ६।१० |
| वाचं न मिश्रयति | १।३० | स्वसुखनिरभिलाषः | ५।७ |
| विचिन्तयन्ती यमनन्य० | ४।१ | स्वायंभुवान्मरीचेर्यः | ७।९ |
| विच्छित्तिशेषैः | ७।५ | स्विन्नाङ्गुलि० | ६।१५ |
टीकाकर्तृवंशपरिचयः
पुराणादिषु शास्त्रेषु सङ्गीतयशसो मुदा।
देवश्लाघ्यस्य दिव्यस्य सर्वप्राणिहितैषिणः ॥ १ ॥
भारतस्योत्तरे भागे देवरियाख्यमण्डले।
धर्मांगतछपरायां प्रसिद्धायां स्वमण्डले ॥ २ ॥
धन्यधान्यादिना पूर्णे सदाधारमनोरमे।
कुबेरनाथसविधे त्रिपाठिब्राह्मणान्वये ॥ ३ ॥
रमेशमणिविदुषः प्रख्यातस्य सुकीर्तये।
नागेश्वरमणिविद्वान् तनयोऽभूद् द्विजाग्रणी ॥ ४ ॥
तदात्मजाश्च चत्वारो जाता विद्याविशारदाः।
शीलसौजन्यसम्पन्ना विनीता बुद्धिशालिनः ॥ ५ ॥
बलदेवः सुदामा च भरोसापण्डितस्तथा।
चतुर्थोऽस्ति श्रीकृष्णमणि शास्त्री प्रसन्नधीः ॥ ६ ॥
माता फूलमती देवी श्रीमती शुभलक्षणा।
अजीजनत् सुतानेतान् मोदनिर्भरमानसा ॥ ७ ॥
चत्वारो भ्रातरो ह्येते लोककल्याणकारिणः।
सर्वेऽपत्यकलत्रादिसुखिनः सौम्यमूर्तयः ॥ ८ ॥
वात्सल्यस्नेहभाक् तेषु कनीयान् ग्रन्थलेखकः।
श्री श्रीकृष्णमणिवर्मी काशीवासी सुधीवरः ॥ ९ ॥
एतस्याप्यद्भुताः सन्ति तनया भाग्यशालिनः।
विजयश्च सुरेशश्च महेशश्च दिनेशकः ॥ १० ॥
प्रासोष्ट शुभगानेतान् द्वे सुते अपि शोभने।
चन्द्रकलां च सावित्रीं राजदेवी मुदान्विता ॥ ११ ॥
सर्वसौभाग्यसम्पन्ना गृहिणी धर्मचारिणी।
रससन्ततिमाता सा मोदमाप्नोति सर्वदा ॥ १२ ॥
एतेषु विजयास्ति पुत्रो विनयनामकः।
बालविद्यालयेऽधीते वयस्यैर्मोदमावहन् ॥ १३ ॥
कुबेरनाथकृपया विप्राणां च प्रसादतः।
स्वधर्मकर्मनिरतो वंशोऽयं भ्राजते भुवि ॥ १४ ॥
अभिज्ञानशाकुन्तलस्यातिलघूत्तरीयाणि
लघूत्तरीयाणि च प्रश्नोत्तराणि
अतिलघूत्तरीयाणि प्रश्नोत्तराणि
(१) प्रश्न:—अभिज्ञानशाकुन्तलस्य रचयिता कः ?
उत्तरम्—अभिज्ञानशाकुन्तलस्य रचयिता महाकविः कालिदासः।
(२) प्रश्न:—पुरा कवीनां गणना प्रसङ्गे कनिष्ठिकाधिष्ठितः कः ?
उत्तरम्—पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितः कालिदासः।
(३) प्रश्न:—अद्यापि कथमनामिका सार्थवती बभूव ?
उत्तरम्—अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव।
(४) प्रश्न:—कालिदासस्य का प्रसिद्धा ?
उत्तरम्—कालिदासस्य उपमा प्रसिद्धा।
(५) प्रश्न:—अभिज्ञानशाकुन्तले कोऽङ्गी रसः ?
उत्तरम्—अभिज्ञानशाकुन्तले शृङ्गारोऽङ्गी रसः।
(६) प्रश्न:—अभिज्ञानशाकुन्तले कः नायकः ?
उत्तरम्—अभिज्ञानशाकुन्तले दुष्यन्तः नायकः।
(७) प्रश्न:—दुष्यन्तः कीदृशः नायकः ?
उत्तरम्—दुष्यन्तः धीरोदात्तः नायकः।
(८) प्रश्न:—अभिज्ञानशाकुन्तलस्य नायिका का ?
उत्तरम्—अभिज्ञानशाकुन्तलस्य नायिका शकुन्तला।
(९) प्रश्न:—शकुन्तला कीदृशी नायिका ?
उत्तरम्—शकुन्तला स्वीया नायिका अस्ति।
(१०) प्रश्न:—कालिदासस्य किं सर्वस्वम् ?
उत्तरम्—कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम्।
(११) प्रश्न:—काव्येषु किं रम्यम् ?
उत्तरम्—काव्येषु नाटकं रम्यम्।
(१२) प्रश्न:—नाटकेषु किं रम्यम् ?
उत्तरम्—नाटकेषु रम्यं शाकुन्तलम्।
(१३) प्रश्न:—महाकवि कालिदासेनाभिज्ञानशाकुन्तलस्य कथानकं कुतः सङ्गृहीतम् ?
उत्तरम्—महाकविकालिदासेनाभिज्ञानशाकुन्तलस्य कथानकं महाभारतस्या-दिपर्वणः शाकुन्तलोपाख्यानात् सङ्गृहीतम्।
४४२ अभिज्ञानशाकुन्तलम्
(१४) प्रश्न:—अभिज्ञानशाकुन्तलं रूपकस्य कः भेदः ?
उत्तरम्—अभिज्ञानशाकुन्तलं रूपकस्य नाटकभेदः।
(१५) प्रश्न:—अभिज्ञानशाकुन्तले कति अङ्काः सन्ति ?
उत्तरम्—अभिज्ञानशाकुन्तले सप्त अङ्काः सन्ति।
(१६) प्रश्न:—स्रष्टुः आद्या सृष्टिः का ?
उत्तरम्—स्रष्टुः आद्या सृष्टिः जलरूपा।
(१७) प्रश्न:—विधिहुतं हविः कः वहति ?
उत्तरम्—विधिहुतं हविः पावकः वहति।
(१८) प्रश्न:—कया प्राणिनः प्राणवन्तः ?
उत्तरम्—वायुरूपया भगवतः मूर्त्या प्राणिनः प्राणवन्तः भवन्ति।
(१९) प्रश्न:—का सर्वबीजप्रकृतिराहुः ?
उत्तरम्—पृथिवीरूपा भगवतः तनुः सर्वबीजप्रकृतिराहुः।
(२०) प्रश्न:—अभिज्ञानशाकुन्तलस्य प्रथमे श्लोके किं छन्दः ?
उत्तरम्—अभिज्ञानशाकुन्तलस्य प्रथमे श्लोके स्रग्धराछन्दः विज्ञेयम्।
(२१) प्रश्न:—कस्य दिवसाः परिणामरमणीयाः ?
उत्तरम्—ग्रीष्मसमयस्य दिवसा परिणामरमणीयाः।
(२२) प्रश्न:—काः शिरीषकुसुमानि अवतंसयन्ति ?
उत्तरम्—अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि।
(२३) प्रश्न:—राजा दुष्यन्तः केन हृतः ?
उत्तरम्—एष राजा दुष्यन्तः सारङ्गेणातिरंहसा हृतः।
(२४) प्रश्न:—सूतः राजानं दुष्यन्तं कमिव पश्यति ?
उत्तरम्—सूतः राजानं दुष्यन्तं मृगानुसारिणं साक्षात् पिनाकिनमिव पश्यति।
(२५) प्रश्न:—कः वियति बहुतरं स्तोकमुर्व्यां प्रयाति ?
उत्तरम्—सारङ्गो वियति बहुतरं स्तोकमुर्व्यां प्रयाति।
(२६) प्रश्न:—कस्य शराः वज्रसाराः ?
उत्तरम्—दुष्यन्तस्य शराः वज्रसाराः।
(२७) प्रश्न:—कस्याश्रमः अनुमालिनीतीरं दृश्यते ?
उत्तरम्—कुलपतेः कण्वस्याश्रमः अनुमालिनीतीरं दृश्यते।
(२८) प्रश्न:—कुलपतिः किमर्थं सोमतीर्थं गतः ?
उत्तरम्—कुलपतिः कण्वः दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकुलं शमयितुं सोमतीर्थं गतः।
अतिलघूत्तरीयाणि लघूत्तरीयाणि च प्रश्नोत्तराणि
४४३
(२९) प्रश्न:—कथं प्रवेष्टव्यानि तपोवनानि नाम ?
उत्तरम्—विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम।
(३०) प्रश्न:—केषां द्वाराणि सर्वत्र भवन्ति ?
उत्तरम्—भवितव्यतानां द्वाराणि सर्वत्र भवन्ति।
(३१) प्रश्न:—कथं यौवनमङ्गेषु सन्नद्धम् ?
उत्तरम्—कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्।
(३२) प्रश्न:—केषां कुत्रान्तःकरणप्रवृत्तयः प्रमाणम् ?
उत्तरम्—सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः।
(३३) प्रश्न:—शकुन्तलायाः कथं कण्वः पिता ?
उत्तरम्—शरीरसंवर्द्धनादिभिस्तातकाश्यपोऽपि (कण्वः) अस्याः शकुन्तलायाः पिता।
(३४) प्रश्न:—देवैः मेनका कथं प्रेषिता ?
उत्तरम्—जातशङ्कैः देवैः नियमविघ्नकारिणी मेनका नामाप्सराः प्रेषिता।
(३५) प्रश्न:—शमप्रधानेषु तपोधनेषु गूढं किमस्ति ?
उत्तरम्—शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः।
(३६) प्रश्न:—नृपाणां किं ददति आरण्यकाः ?
उत्तरम्—तपःषड्भागमक्षय्यं ददत्यारण्यकाः हि नृपाणाम्।
(३७) प्रश्न:—आपन्नाभयसत्रेषु दीक्षिताः खलु के ?
उत्तरम्—आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः।
(३८) प्रश्न:—कः शशाङ्कं ग्लपयति ?
उत्तरम्—दिवसः शशाङ्कं ग्लपयति।
(३९) प्रश्न:—केन विवाहेन बह्व्यो राजर्षिकन्यकाः परिणीताः ?
उत्तरम्—गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः परिणीताः।
(४०) प्रश्न:—कीदृशी विद्या अशोचनीया भवति ?
उत्तरम्—सुशिष्यपरिदत्ता विद्या अशोचनीया भवति।
(४१) प्रश्न:—कैः गृहिणः पीड्यन्ते ?
उत्तरम्—नवैः तनयाविश्लेषदुःखैः गृहिणः पीड्यन्ते।
(४२) प्रश्न:—'वनौकषोऽपि सन्तो लौकिकज्ञा वयम्' कस्येयमुक्तिः ?
उत्तरम्—वनौकषोऽपि सन्तो लौकिकज्ञा वयमितीयमुक्तिः महर्षेः कण्वस्य।
(४३) प्रश्न:—अर्थो हि कन्या परकीय एवेति कस्येयमुक्तिः ?
उत्तरम्—अर्थो हि कन्या परकीय एवे सूक्तिरियं कण्वस्य।