भारतकोश
संग्रह पर लौटें

अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

Agastya Samhita of Sage Agastya with Commentary

महर्षि अगस्त्य / पं. भवनाथ झा द्वारा

DevanagariSanskritpublished337 पृष्ठ

(254) अगस्त्य-संहिता

ईशानदले ॐ हनुमन्निहागच्छ इह तिष्ठ। ॐ कूर्मकुम्भीव संकीर्णमुत्तीर्णोऽसि महार्णवम्। हनूमते नमस्तुभ्यं गृहाणार्घ्यं महामते॥ एषोऽर्घ्यः ॐ हनुमते नमः। एवं चन्दनादिना पूजयेत्। ततो विभीषण इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ विभीषणाय नमः। इति पूजयेत्। ॐ जाम्बवान् इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ जाम्बवते नमः इति पूजयेत्। ॐ अंगद इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ अङ्गदाय नमः। एवं पूजयेत्। ॐ नल इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ नलाय नमः। एवं पूजयेत्। ॐ नील इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ नीलाय नमः। एवं पूजयेत्। ततोऽष्टदलमध्ये धृष्टे इहागच्छ इह तिष्ठ। एषोऽर्घ्यः धृष्ट्यै नमः। ॐ जय इहागच्छ इह तिष्ठ। एषोऽर्घ्यः जयाय नमः। ॐ विजय इहागच्छ इह तिष्ठ। ॐ सुराष्ट्र इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ सुराष्ट्राय नमः। ॐ राष्ट्रवर्द्धन इहागच्छ इह तिष्ठ। एषोऽर्घ्यः राष्ट्रवर्द्धनाय नमः। ॐ अकोपन इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ अकोपाय नमः। ॐ धर्मपाल इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ धर्मपालाय नमः। ॐ सुमन्तो इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ सुमन्ताय नमः। दलाग्रे ॐ लोकपाल इहागच्छ इह तिष्ठ। एषोर्घ्यः लोकपालाय नमः। एवं संपूजयेत्। ॐ इन्द्र इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ इन्द्राय नमः। एवं पूजयेत्। ॐ अग्ने इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ अग्नये नमः। ॐ यम इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ यमाय नमः। ॐ निर्ऋते इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ निर्ऋतये नमः। ॐ वरुण इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ वरुणाय नमः। ॐ वायो इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ वायवे नमः। ॐ कुबेर इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ कुबेराय नमः। ॐ ईशान इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ ईशानाय नमः। दिशादिकपालयोर्मध्येऽनन्तपूजा। ॐ अनन्त इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ

परिशिष्ट 3 (255)

अनन्ताय नमः। इन्द्रेशानयोर्मध्ये ब्रह्मन् इहागच्छ इह तिष्ठ। एषोऽर्घ्यः ॐ ब्रह्मणे नमः। ततोऽस्त्राणि पूजयेत्। ॐ वज्राय नमः। ॐ शक्त्यै नमः। ॐ दण्डाय नमः ॐ खड्गाय नमः। ॐ पाशाय नमः। ॐ अङ्कुशाय नमः। ॐ गदायै नमः। ॐ शूलाय नमः। ॐ चक्राय नमः। ॐ पद्माय नमः। पुष्पाक्षतैः पूजयेत्। ॐ सूर्यादिनवग्रहाः इहा गच्छत इह तिष्ठत। एषोऽर्घ्यः ॐ सूर्यादिनवग्रहेभ्यो नमः। इति गन्धादिभिः पूजयेत्। प्रभातसमये विसर्जनम् कुर्यात्। तद्यथा- देवदेव महाबाहो दशग्रीवनिकृन्तन। गृहीत्वा मत्कृतां पूजां स्वस्थानं गच्छ ते नमः॥ मम कृतां देव पूजां सौभाग्यसुखदान्तथा। गृहीत्वा गच्छ स्वस्थानमपराधं क्षमस्व मे॥ न्यूनाधिकं च यत्किञ्चिन्नवम्यां च यत्कृतम्। कृपां मयि विधायेत्थं क्षमस्व पुरुषोत्तम॥ रामचन्द्र सुराधीश वैकुण्ठं व्रज पार्थिव। पूजां मदीयामादाय मम स्वस्तिकरो भव॥ ॐ रूपन्देहि यशो देहि भाग्यं भगवन् देहि मे। धर्मान्देहि धनन्देहि सर्वान् कामान् प्रदेहि मे॥ इति प्रणमेत्। यान्तु देवगणाः सर्वे पूजामादायमामकीम्। इष्टकामप्रसिद्धर्थं पुनरागमनाय च॥ श्रीरामचन्द्र पूजितोऽसि प्रसीद इति विसर्जयेत्। ततो लक्ष्मणादयो देवाः पूजिताः स्थः क्षमध्वमिति तान् विसर्जयेत्। ॐ अद्य कृतैतद्रामनवम्यां ससीतश्रीरामलक्ष्मणादिपूजनप्रतिष्ठार्थमिदं हिरण्यमग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे। मृण्मयीञ्च महानद्यां विसर्जयेत्। ततः स्नात्वा नित्यं च विधाय ब्राह्मणान् भोजयित्वा तेभ्यो दक्षिणान्दत्वा स्वयं भुञ्जीत इति पूजाविधिः।

(256) अगस्त्य-संहिता

अथ कथा प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः। उपोषणं न कुरुते कुम्भीपाकेषु पच्यते¹ ।।1।। यत्किंचिद्राममुद्दिश्य नो ददाति स्वशक्तितः। रौरवेषु स मूढात्मा² पच्यते³ नात्र संशयः।।2।। पीताम्बराणि⁴ देवाय प्रार्थितान्यर्पयेत्सुधीः। स्वर्णयज्ञोपवीतानि दद्याद्देवाय भक्तितः।।3।। नानारत्नविचित्राणि दद्यादाभरणानि च। हिमाम्बुघृष्टरुचिरघनसारसमन्वितम् ।।4।। गन्धं दद्यात्प्रयत्नेन सागुरुं च सकुङ्कुमम्। मूलमन्त्रेण सकलानिपुचारान्प्रकल्पयेत्।।5।। कह्लारकेतकीजातीपुन्नागाद्यैः प्रपूजयेत्। चम्पकैः शतपत्रैश्च सुगन्धैः सुमनोहरैः।।6।। घण्टां च वादयन्⁵ धूपं दीपं चास्मै समर्पयेत्। भक्ष्यभोज्यादिकं भक्त्या देवाय⁶ विधिनार्पयेत्।⁷।7।। एवं सोपस्करं देवं ⁷दत्वा पापैः प्रमुच्यते। जन्मकोटिकृतैः घोरैर्नानारूपैः सुदारुणैः।।8।। विमुक्तस्तत्क्षणादेव⁸ राम एव भवेन्मुने। श्रद्धाधानस्य ते प्रोक्तं⁹ श्रीरामनवमीव्रतम्।।9।। सर्वलोकहितार्थाय पवित्रं पापनाशनम्।¹⁰ लौहेन निर्मितं चापि शिलया दारुणापि वा।।10।। येन केन प्रकारेण यस्मै कस्मै क्रमान्मुने।¹¹ चैत्रशुक्लनवम्यां तु दत्वा विप्राय भक्तितः।।11।। सर्वपापविनिर्मुक्तो भवेदेव न संशयः। तस्मिन् दिने महापुण्ये स्नानदानादिकं मुने।।12।। कृतं सर्वप्रयत्नेन यत्किंचिदपि भक्तितः। महादानादितुल्यं स्याद्रामोद्देशेन यत्कृतम्।।13।। वित्तसाठ्यन्न कर्तव्यं सर्वं कुर्यात्स्वभक्तितः। तस्मिन् दिने महापुण्ये प्रातारभ्य भक्तितः।।14।।

  1. मज्जति। 2. समारूढा। 3. पच्यन्ते। 4. चीराम्बराणि। 5 वाद्येत्। 6. दद्याद्देवाय।
  2. अधिक पाठ – ब्राह्मणाय निवेदयेत्। अनेन विधिना कुर्यात्। ।8. मुच्यते तत्क्षणादेव।
  3. भक्त्या त्वयि संप्रोक्तं। 10. यः कुर्याद्विधिवत्प्राज्ञो राम एव न संशयः। 11. च वा मुने।

परिशिष्ट ३ (257) जपेदेकान्त आसीनो यावत्स्याद्दशमीदिनम्। तेनैव स्यात्पुरश्चर्य्या दशम्यां भोजयेद् द्विजान्।।15।। भक्ष्यभोज्यैर्बहुविधैर्दद्याच्छक्त्या च दक्षिणाम्। कृतकृत्यो भवेत्तेन सद्यो रामः प्रसीदति।।16।। तूष्णीं तिष्ठन्नरो याति पुनरावृत्तिवर्जितः। द्वादशाब्दशतेनापि¹ यत्पापं नापपद्यते²।।17।। विलयं याति तत्सर्वं श्रीरामनवमीदिने। मुमुक्षवोऽपि सदा राम श्रीरामनवमीव्रतम्।।18।। न त्यजन्ति सुरश्रेष्ठो देवेन्द्रोऽपि विशेषतः³। तस्मात्सर्वात्मना सर्वे कृत्वैव नवमीव्रतम्⁴।।19।। मुच्यते सर्वपापेभ्यो यान्ति ब्रह्म सनातनम्। अथ पूजां प्रवक्ष्यामि ब्रह्मोक्तां सुरपूजिताम्।20।। सीते देवि नमस्तुभ्यं रामचन्द्रप्रिये सदा। गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।21 कौशल्ये प्रणमामि त्वां राममातः सुशोभने। अदिते त्वं गृहाणार्घ्यं वरदा भव सर्व्वदा।।22।। कैकेयि प्रणमामि त्वां रावणस्यान्तकारिणि। गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।23।। सुमित्रे त्वां नमस्यामि शेषमातर्नमोऽस्तु ते। गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।।24।। अजपुत्र महाबाहो श्रीमद्दशरथ प्रभो। गृहाणार्घ्यं मया दत्तं रामतात नमोऽस्तु ते।।25।। सीतापते नमस्तुभ्यं रावणस्यान्तक प्रभो। गृहाणार्घ्यं मया दत्तं कौशल्यानन्दवर्द्धन।।26।। दाशरथे नमस्यामि रामभक्तिन् नृपात्मज। मया समर्पितं तुभ्यमर्घ्योऽयं प्रतिगृह्यताम्।।27।। लक्ष्मण त्वं महाबाहो इन्द्रजिद्वधकारक। गृहाणार्घ्यं मया दत्तं ⁵सुमित्रानतनय प्रभो।।28।। नारिकेरैश्च कूष्माण्डैर्मातुलङ्गैः सपूगकैः। दद्यादर्घ्यं सुरेशाय रामाय वरदायिने।।29।।

  1. द्वादशाब्दकृतं पापं। 2.नानुमुच्यते। 3.देवेन्द्रास्वानशंसयः। 4.तद्वत्सर्वात्मना सर्वैः कृतञ्च नवमीव्रतम्। 5 यहाँ से 8 चरण 'अ' में खण्डित।

(258) अगस्त्य-संहिता

हनुमद् वायुतनय रावणस्यान्तकारक। गृहाणार्घ्यं मया दत्तं रामभक्तिं प्रयच्छ मे।।३०।। लब्ध्वा सुतौ त्वया राम प्राप्तं सुखमनूत्तमम्। तथा मां सुखितं देव कुरुष्व त्वां नमाम्यहम्।।३१।। अवतीर्य त्वया देव वायुपुत्रासुरान्तक। अवतारय मां भक्तं भवसिन्धुसुदुस्तरात्।।३२।। पापिनो हि नो रामं प्राप्यन्ते चात्र संशयः। चैत्रशुक्लनवम्यान्तु भुञ्जन्ते ये नराधमाः।।३३।। पच्यन्ते रौरवे घोरे विष्णुना भाषितं पुरा। नवमी चैत्रमासस्य पुनर्वसुयुता भवेत्।।३४।। उपवासः सदा देव अश्वमेधशताधिकः। बुधवारो भवेत्तत्र अतिगण्डस्तथैव च।।३५।। पूजयन्ति तथा रामं यान्ति ब्रह्म सनातनम्। मुमुक्षुणापि कर्तव्यं गृहस्थेनापि वा पुनः।।३६।। क्षत्रियेण च वैश्येन शूद्रेणापि महामुने।। चाण्डालेनापि कर्तव्यं व्रतमेतदनुत्तमम्।।३७।। व्रतं ये नैव कुर्वन्ति मानवाः काममोहिताः। ते यान्ति नरकं घोरं शतकल्पावधि ध्रुवम्।।।३८।। भ्रूणहत्या च यत्पापं सुरापानाच्च यद्भवेत्। तत्पापं कोटिगुणितं जयन्त्यां भोजनाद्भवेत्।।३९।। गवां वधे च यत्पापं स्त्रीवधे यत्प्रजायते। कृतघ्नस्यापि यत्पापं संसारे संभवेन्मुने।।४०।। तत्पापं कोटिगुणितं जयन्त्यां भोजनाद् भवेत्। काकमांसं गवीमांसं शुनश्चापि नरस्य च।।४१।। भक्षयित्वा च यत्पापं जयन्तीभोजनाद् भवेत्। ये कुर्वन्ति नरा नित्यं जयन्तीव्रतमुत्तमम्।।४२।। कुलकोटिसमायुक्तं यान्ति ब्रह्म सनातनम्। तस्मात्सर्वप्रयत्नेन व्रतमेतत् समाचरेत्। अकुर्वन् यान्ति निरयं सत्यं सत्यं वदाम्यहम्।।४३।। अगस्तिरुवाच पूजाविधानं वक्ष्यामि कथितं नारदेन यत्।

परिशिष्ट 3 (259) वाल्मीकाय मुनीन्द्राय द्वारपूजादिकं तथा ।।44।। आकर्णय मुनिश्रेष्ठ सर्वाभीष्टफलप्रदम्। श्रीरामद्वारपीठाङ्गपरिवाराँस्तथा स्थितान् ।।45।। ये प्रोक्तास्तानिह स्तौमि तन्मूलाः सिद्धयो यतः। वन्दे गणपतिं भानुं तिलकं स्वामिनं शिवम् ।।46।। क्षेत्रपालं तथा धात्रीं ¹विधातारमनन्तरम्। गृहाधीशं गृहं गङ्गां यमुनां कुलदेवताम् ।।47।। प्रचण्डचण्डा च तथा शंखपद्मनिधी अपि। वास्तोष्पतिं द्वारलक्ष्मीं गुरुं वागधिदेवताम् ।।48।। एता वै द्वारदेवताः पूज्याः। महामन्त्रककालागुरुद्रव्याभ्यान्नमः। आधारं शङ्खं कूर्मं शेषं सवासुकिम्। सुधार्णवं श्वेतद्वीपं कल्पवृक्षं मणिमण्डपम् ।।49।। अश्वं विमानं सिंहासनम्। आरक्तपद्मं धर्मादींश्चसत्त्वादिकाँश्च। अर्द्धचन्द्राग्नि-विमलोत्कर्षिणी-क्रिया-योगा-ईशानाः प्रसिद्धसत्त्वा। ईशानायै सर्वात्मने योगपीठात्मने नमः। यजामहेत्विष्टौ रामौ ह्रीमानात्मनौ व्यवस्थितौ। ससीताय रामाय वषट् नेत्रत्रयाय च ।।50।। रां रामाय नमो राममर्चयेन्मनुना ततः। ह्रीमाद्यं ससीतायै स्वाहान्तोऽयं षडक्षरः ।।51।। ऐं मन्त्रस्वरूपाय नमो ज्योतिषेन्द्राय नमः। आत्मान्तरात्ममनसोत्पत्यै ज्ञानात्मने नमः ।।52।। आग्नेयात् प्रवृत्त्यै प्रतिष्ठायै विद्यायै ईशान्त्ये वासुदेवाय संकर्षणाय प्रद्युम्नायानिरुद्धाय शान्त्यै प्रकृत्यै रत्यै प्रीत्यै नमः। अग्रे हनूमान् जाम्बवान् सुग्रीव विभीषण अङ्गद शत्रुघ्न, धृष्टि जय विजय राष्ट्र सुराष्ट्रवर्द्धन अशोक सुमन्त द्वारपालाः रामरूपाः। वज्र शक्ति दण्ड खड्ग पाश गदा त्रिशूल अम्बुज चक्र एतान्यस्त्राणि। वसिष्ठ वामदेव गौतम नल नील गवय गवाक्ष गन्धमादन शरभ मैन्द द्विविदादयः।

  1. विधातारं गृहाधिपम्। गृहं गङ्गाञ्च यमुनां कुलदेवीं प्रचण्डकम्। पद्मानिधिं वास्तुद्वारं निधिं लक्ष्मीं वाग्देवताम्।

(260) अगस्त्य-संहिता शङ्ख चक्र गदा पद्म शार्ङ्ग बाण गरुड विष्वक्सेन एते विष्णुरूपाः। सर्वस्मै विष्णुरूपाय नमः। ज्योतिषे विष्णुरूपिणे। मनोवाक्कायजनितं कर्म यच्च शुभाशुभम्। तत्सर्वं भूतये भूयान्नमो रामाय देहिने।। 53 एतद्रहस्यं परमं प्रत्यूषःसु समासतः। यः पठेद्राममाहात्म्यं विद्यैश्वर्य्यनिधिर्भवेत् ।।54।। ऋणध्वंसश्च सौभाग्यं दारिद्र्यञ्च निकृन्तयेत्। उपद्रवाँश्च शमयेत् सर्व्वलोकं वशं नयेत्।।55।। यः पठेत्प्रातरुत्थाय धर्म्मार्पणधिया सदा। स याति परमं ब्रह्म पुनरावृत्तिवर्जितम्।।56।। इत्यगस्त्यसंहितोक्ता रामनवमीकथा समाप्ता। ॐ यदक्षरेत्यादि।¹ ॐ नमः ससीतारामलक्ष्मणाभ्याम्।

  1. यदक्षरपदभ्रष्टं मात्राहीनञ्च यद् भवेत्। तत् सर्वं क्षम्यतां देव कस्य वै निश्चलं मनः।।

परिशिष्ट 4 श्रीमदगस्त्यसंहितान्तर्गत श्रीरामानन्दाचार्यजन्मोत्सवकथा अथ एकत्रिंशदुत्तरशततमोऽध्यायः सिंहासने समासीनः सहितः सीतयानुजैः। अतसीकुसुमश्यामो रामो विजयतेऽनिशम्।।1।। स्वाश्रमे संश्रितं शिष्यैः प्रातर्हुतहुताशनम्। बोधयन्तं परं तत्त्वं तमगस्त्यं महामुनिम्।।2।। कृतक्षणः सुतीक्ष्णस्तमुपागम्य कृताञ्जलिः। पश्यन्वनानि रम्याणि विचरंश्च महामुनिः।।3।। भाविनो नॄन् कलौ बुध्वा विषयासक्तचेतसः। अज्ञानाल्पायुषः श्रीमच्छ्रीशांघ्रिविमुखान्भुवि।।4।। संसारार्णवसंमग्नान् कृपालुर्मुर्निसत्तमः। उद्धर्तुकामांस्तांस्तस्मात् पृष्टवान् श्रेय उत्तमम्।।5।। सुतीक्ष्ण उवाच भगवन्! मुनिशार्दूल! सर्वज्ञ! कलशोद्भव! नॄणां श्रेयसि मूढानां श्रेयश्चिन्तय सुव्रत!।।6।। उपायं वद निश्चित्य तेषां श्रेयो यथा भवेत्। परोपकारनिरताः साधवो हि कृपालवः।।7।। अगस्त्य उवाच कुम्भजोऽथनिशम्येत्थं वाचं मुनिसमीरिताम्। अल्पाक्षरमनल्पार्थां धर्मसंप्रश्नभूषिताम्।।8।।

(262) अगस्त्य-संहिता

प्रसन्नवदनाम्भोजः प्रशस्य मुनिपुङ्गवः। तं प्रत्युवाच संप्रीतो वाचं हृदयहर्षणीम् ॥९॥ श्रूयतामितिहासोऽयं कुमारेभ्यो मया श्रुतः। मुनिवर्यो महाभागो जगतामुपकारकः॥१०॥ हिरण्यगर्भसम्भूतो मतिमान् वाग्विदां वरः। सर्वलोकजनान् दृष्ट्वा विमूढान् विमुखाञ्छुतेः॥११॥ चिन्तयन् वत तच्छ्रेयो दिव्यं धाम जगाम सः। कृपालुरच्युतस्याद्यं सिद्धिभिः सिद्धभूषणम् ॥१२॥ तत्र सिंहासनं दिव्यमध्यासीनं जगत्प्रभुम्। निजैरैरायुधैः सर्वैर्म्मूर्त्तिमद्भिरुपासितम् ॥१३॥ पार्षदप्रवरैः कृत्स्नैर्महार्हाम्बरभूषणैः। पद्मपत्रविशालाक्षं पद्माया पद्मनेत्रया॥१४॥ उपविष्टं जगद्धेतुं नारदोऽपश्यदच्युतम्। दिव्याम्बरधरं देवं दिव्यभूषणभूषितम् ॥१५॥ प्रणतस्तं प्रतुष्टाव हृष्टात्मा जगदीश्वरम्। जगद्योनिरयोनिस्त्वं व्यक्तोऽव्यक्ततरो विभुः॥१६॥ कर्त्रे विश्वस्य संभर्त्रे संहर्त्रे ते नमो नमः। आदिमध्यान्तहीनाय प्रभवे परमात्मने ॥१७॥ नमस्ते विश्वरूपाय नमस्ते विश्वबन्धवे। विश्वम्भर! नमस्तेऽस्तु विश्वनाथ! कृपाम्बुधे!॥१८॥ संसारेऽस्मिन् महाघोरे पापाभिरतचेतसाम्। जन्तूनां का गतिर्देव कर्मणा भ्रमतामिह ॥१९॥ मुक्तिस्तेषां कथं श्रीश! भवेद्धर्मे कथं रतिः। कृपाकूपार भगवञ्जन्तूनुद्धर माधव॥२०॥ श्रुतिस्मृत्युदिता धर्माः क्लेशसाध्या नृभिः सदा। अतस्त्वं सुकरोपायं वद त्वद्भक्तिवर्धनम् ॥२१॥ सर्वबन्धविनाशाय मुक्तये प्राणिनां प्रभो! प्रवक्ता त्वं हि धर्माणामविता जगतामपि॥२२॥ इत्थमाकर्ण्य भगवान् वाचं मुनिसमीरिताम्। तं प्रत्युवाच संप्रीतः शुचिस्मितमुखाम्बुजः ॥२३॥

परिशिष्ट 4 (263) मुनिवर्य! महाभाग! जगतां हितकारक! मया जगद्धितायैव पुरैतदवंधारितम्।।24।। दिव्ये हि भारते वर्षे तीर्थराजे सुविश्रुते। प्रयागे पुण्यसदने भवद्भिर्नित्यसूरिभिः।।25।। सार्द्धमेवावतीर्याहं प्रणेष्ये मोक्षसाधनम्। दृढसंसारबन्धस्य शातनं भक्तिवर्द्धनम्।।26।। सुबोधं सुकरं सर्वैर्धर्ममार्गं सुखावहम्। वेदवेदान्तसच्छास्त्रसारभूतं सदाश्रयम्।।27।। तत्र तत्रावतीर्णास्तु भवन्तो वीतकल्मषाः। मदुक्तस्योपदेष्टारः प्राणिभ्यो तत्परायणाः।।28।। भविष्यन्ति महात्मानो जगदुद्धारहेतवः। सुशीला धर्मनिरता जगतामुपकारकाः।।29।। ये ग्रहीष्यन्ति सन्मार्गं प्राणिनो भक्तितत्पराः। स्यादनायासतो मोक्षस्तेषामत्र न संशयः।।30।। वाणीपीयूषमास्वाद्य क्षणमासीद्धरेर्मुनिः। मग्नः सुखसुधांभोधौ विनीतो गतसंशयः।।31।। निशम्य तद्वाक्यममोघमद्भुतं हिरण्यगर्भाङ्गसमुद्भवो मुनिः । प्रहृष्टरोमावलिभूषिताकृतिः कृती कृतज्ञः कृतकृत्य ईशितुः।।32।। दृढव्रतस्याथ विनम्रकन्धरः स्मरन् सुरेशस्य विभोः प्रतिश्रुतम्। प्रणम्य तं देववरं रमापतिं महाविभूतेर्नि■रगात्ततः सुधीः।।33।। सुवादयन् दिव्ययशोऽथवल्लकीं हरेः स्वरब्रह्मविभूषितानसौ। गायंश्च लोके विचचार सर्वतः सुरासुरेन्द्रैरभिपूजितो मुनिः।।34।। मुनीश्वरे देवऋषौ विनिर्गते सुरैरपीड्यो जगतामधीश्वरः। रेमे रमेशो रमया स्मिताननः प्रभूतभूतैर्निजदिव्यधामनि ।।35।।

(264) अगस्त्य-संहिता इति श्रीमदगस्त्यसंहितायां भविष्यखण्डेऽगस्त्यसुतीक्ष्णसम्वादे श्रीरामन्दाचार्यावतारोपक्रमे श्रीरामनारदसम्प्रश्नोत्तरं नामैकत्रिंशदुत्तरशत तमोऽध्यायः ॥१३१॥ अथ द्वात्रिंशदुत्तरशततमोऽध्यायः व्यतीते द्वापरे पुण्ये श्रीमद्भगवतोज्झिते। कलौ सत्त्वहरे पुंसां प्रवृत्तेऽधर्मवर्धके॥१॥ जनेऽधर्मरुचौ नित्यं शौचाचारविवर्जिते। मोक्षसाधनमार्गेभ्यो विमुखे पशुतां गते॥२॥ मन्दे मन्दमतौ शश्वदल्पभाग्येऽल्पजीवने। तत्रत्ये पापिनिरते महत्सङ्गविवर्जिते॥३॥ प्रवर्धमानानभितो वादैनिर्जित्य नास्तिकान्। आचार्यैर्भागवद्धर्मो वेदवेदान्तपारगैः॥४॥ स्थापितोऽपि महायोगैर्वृद्धिं नैव गमिष्यति। विधातुं सत्यसन्ध! सुरेड्यो निजभाषितम्॥५॥ वीक्ष्य विष्णुः कृपासिन्धुः प्रबुद्धं तादृशं कलिम्। सदृशांश्च जनान् सर्वान् दुर्मतीन् क्लेशसंयुतान्॥६॥ मनःकर्ताऽवताराय स्मृत्वाथो स्वं प्रतिश्रुतम्। खं नभो वेद वेद प्रमिते वर्षे गते कलौ॥७॥ कालिन्दीजाह्नवीसङ्गशोभिते देवपूजिते। तीर्थराजे महापुण्ये प्रयागे तीर्थ उत्तमे॥८॥ गृहे श्रीपुण्यसदनद्विजातेर्भूरिकर्मणः। योगिनो योगयुक्तस्य कान्यकुब्जशिरोमणेः॥९॥ पतिसेवापरा तस्य सुशीला गृहिणी ततः। माघकृष्णस्य सप्तम्यां शुभधर्मप्रवर्तके॥१०॥ सप्तदण्डोद्गते सूर्ये सिद्धयोगयुजि प्रभुः। नक्षत्रे त्वाष्ट्रदैवत्ये कुम्भलग्ने शुभग्रहे॥११॥

परिशिष्ट 4 (265) एवं सर्वगुणोपेते देशे काले च माधवः। गुण्ये पुण्ये शरण्यः स शरणागतवत्सलः॥१२॥ आविर्भूतो महायोगी द्वितीय इव भाष्करः। रामानन्द इति ख्यातो लोकोद्धरणकारणः॥१३॥ अष्टमेऽब्दे चोपवीतं जातं तस्य तदा ह्यसौ। ब्रह्मचर्यं गृहीत्वा तु विद्याभ्यासं करिष्यति॥१४॥ वर्षे द्वादशे जाते काश्यां गत्वा पुनः स्वयम्। वेदवेदाङ्गशास्त्राणि पुराणानि पठिष्यति॥१५॥ आचार्यलक्षणैर्युक्तं वेदवेदान्तपारगम्। श्रीसम्प्रदायश्रेष्ठञ्च जनोद्धारपरं सदा॥१६॥ विज्ञाय राघवानन्दं लब्ध्वा तस्मात् षडक्षरम्। रहस्यत्रयवाक्यार्थं तात्पर्यार्थं च सन्मतम्॥१७॥ आचार्यलक्षणैर्दिव्यैर्लक्षितो वै भविष्यति। प्रवक्ता सर्वधर्माणामनुष्ठाता च कर्मणाम्॥१८॥ रक्षिता धर्मसेतूनामुपदेष्टा महायशाः। शश्वद्वैष्णवधर्माणां महाकीर्तिरुदारधीः॥१९॥ प्रसन्नवदाम्भोजो विशालाक्षो महाभुजः। कृपालुस्सर्वजीवानामितरेषां च नित्यशः॥२०॥ संसाराम्भोनिधेर्घोरात् समुद्धारपरायणः। वेदवेदान्तनिरतस्सर्वशास्त्रविशारदः ॥२१॥ कामान् पूरयिता नृणां कविः कल्पद्रुमो यथा। गुणवान् दयितः पूज्यः सर्वज्ञो विजितेन्द्रियः॥२२॥ शोभिष्यति धर्मरतैः सद्भिः परिवृतोऽनिशम्। लोके पूर्णकलः खे वै शीतांशुर्भगणैरिव॥२३॥ सुशीलः समदृक् शान्तो दान्तः श्रीमान् जगद्गुरुः। पुनः सत्सम्प्रदायस्य वर्त्तयिता मुनीश्वरः॥२४॥ कृपया यस्य लोकेऽस्मिन् जनाः सर्वे निरामयाः। श्रीरामभक्तिनिरताः सदा धर्मपरायणाः॥२५॥ तादृशस्य महाबुद्धेर्योगिवर्यस्य सत्कवेः। गुणान् कात्स्न्येन संवक्तुं कविः कः क्षमतेऽधुना॥२६॥

(266) अगस्त्य-संहिता तेऽप्याप्यवतरिष्यन्ति भगवन्मतकोविदाः। स्वयम्भूप्रमुखाः सर्वे महान्तो नित्यसूरयः॥२७॥ इङ्गितज्ञा हरेराज्ञां वहन्तः शिरसा मुदा। नानादेशेषु वर्णेषु तत्तत्कालेऽर्कसन्निभाः॥२८॥ आयुष्मन्! कृत्तिकायुक्तपूर्णिमायां धनौ शनौ। स्वयंभूः कार्तिकस्याद्धाऽनन्तानन्दो भविष्यति॥२९॥ योगनिष्ठः सदा धीमान् सदाचारपरायणः। शिष्य आचार्यवर्यस्य रामानन्दस्य धीमतः॥३०॥ जातः सुरसुरानन्दो नारदो मुनिसत्तमः। वैशाखसितपक्षस्य नवम्यां स वृषे गुरौ॥३१॥ शुक्रे वरुणभे योगे शीलरत्नाकरो महान्। मन्त्रमन्त्रार्थसन्निष्ठो गुरुभक्तिपरायणः॥३२॥ तस्यामेव तुलालग्ने तादृशीन्दुरिवोग्रधीः। शम्भुरेव सुखानन्दः पूर्वाचार्यार्थनिष्ठकः॥३३॥ व्यतिपातेऽनुराधाभे शुक्रे मेषे गुणाकरे। वैशाखशुक्लपक्षस्य तृतीयायां महामतिः॥३४॥ कुमारो नरहरियान्दो जात उदारधीः। वर्णाश्रमकर्मनिष्ठः शुभकर्मरतः सदा॥३५॥ वैशाखकृष्णसप्तम्यां मूले परिघसंयुते। बुधे कर्केऽथ कपिलो योगानन्दो जनिष्यति॥३६॥ योगनिष्ठो महायोगी सत्सेवितपदाम्बुजः। सदा वैष्णवधर्माणामुपदेशपरायणः ॥३७॥ मनुः पीपाभिधो जात उत्तराफाल्गुनीयुजि। पूर्णिमायां ध्रुवे चैत्र्यां धनवारे बुधस्य च॥३८॥ निष्ठा तदीयकैङ्कर्ये सततस्य महात्मनः। नक्षत्रे शशिदैवत्ये चैत्रकृष्णाष्टमीतिथौ॥३९॥ प्रह्लादोऽपि कवीरस्तु कुजे सिंहे च शोभने। जातो वेदान्तसन्निष्ठः क्षेत्रवासरतः सदा॥४०॥ भवानन्दोऽथ जनको मूले परिघसंयुते। वैशाखकृष्णषष्ठ्यान्तु कर्के चन्द्रे जनिष्यति॥४१॥

परिशिष्ट 4 (267) रामसेवापरो नित्यं स महात्मा महामतिः। भीष्मः सेनाभिधो नाम तुलायां रविवासरे॥42॥ द्वादश्यां माघकृष्णे तु पूर्वभाद्रपदे च भे। तदीयाराधने सक्तो ब्रह्मयोगे जनिष्यति॥43॥ श्रीमाघस्यासिताष्टम्यां वृश्चिके शनिवासरे। धनाभिधो बलिः साक्षात् पूर्वाषाढयुते शिवे॥44॥ वरो भक्तिमतां जातस्तदीयाराधने रतः। सदाचारपरो धीमान् गुरुपादाम्बुजार्चकः॥45॥ तत्त्वज्ञो गालवानन्दो जात एकादशीतिथौ। चैत्रे वैयासकिश्चन्द्रे कृष्णे लग्ने वृषे शुभे॥46॥ सर्वदा ज्ञाननिष्ठोऽयमुपदेशपरायणः। वेदवेदान्तिनरतो महायोगी महामतिः॥47॥ चैत्रशुक्लद्वितीयायां शुक्रे मेषेऽथ हर्षणे। यम एव रमादासस्त्वाष्ट्रे प्रादुर्भविष्यति॥48॥ पालनं वैष्णवाज्ञानां कुर्वन् नित्यमतन्द्रितः। धर्ममेवाचरँल्लोके धर्माधीश उदारधीः॥49॥ चैत्रशुक्लत्रयोदश्यां गुरौ कर्के ध्रुवान्विते। उत्तराफाल्गुनी संज्ञे जाता पद्मावती सती॥50॥ श्रीमदाचार्यसन्निष्ठा सा पद्मेवापरा सदा। धर्मज्ञा धर्मनिरता गुरुभक्तिपरायणा॥51॥ एवमेतादृशैस्तैस्तैः शिष्यैर्द्वादशभिर्महान्। शोभिष्यत्यर्चितो देव्या पद्मावव्या च सन्ततम्॥52॥ श्रीमानाचार्यवर्योऽयं रामानन्दो महामतिः। शिष्योपशिष्यैरन्यैश्च शोभितोऽहर्दिवं भुवि॥53॥ पूज्यो ध्येयश्च जगतां रामरूपो जगद्गुरुः। हेतुः कल्याणमार्गस्य शुभदो ज्ञानदोऽनिशम्॥54॥ यस्य दर्शनमात्रेण स्मरणेन सदा क्षितौ। नाम व्याहरणाद्धीना नरा मुक्ता न संशयः॥55॥ यदीयमतमालम्ब्य मन्त्रमन्त्रार्थभूषितम्। भूष्यते भूरियं लोकै राजितैर्मुनिंवृत्तिभिः॥56॥

(268) अगस्त्य-संहिता

शरच्चन्द्रायते लोके कीर्तिर्यस्य महात्मनः। विशदा पावनी पुण्या शृण्वतां पापनाशिनी॥५७॥ हरिभक्तिप्रदा नॄणां तथा ज्ञानप्रकाशिनी। मोहान्धकारसंघप्रध्वंसिनी शुभदायिनी॥५८॥ स एष भगवद्रूपो धर्मो विग्रहवानिव। द्विषतानिह दुर्धर्षः सेवनीयः सतां सदा॥५९॥ तज्जन्ममासर्क्षतिथौ तदीये- स्तदीयजन्मोत्सवमुत्सवोत्सुकैः । विधेयमेवं प्रतिवर्षमुत्तमं विधानविज्ञैर्विधिना हि वैष्णवैः॥६०॥ पूजोपहारै रुचिरैर्यथोचितं देवं समभ्यर्च्य सशिष्यसङ्घम्। वाद्यैर्मृदङ्गादिभिरद्भुतैः परै- र्नृत्यैस्तथा गीतवरैः प्रसादयेत्॥६१॥ तदीयजन्मोत्सवतत्कथाभि- स्तत्तोषहेतुस्तुतिभिस्तथैव । अन्यैस्तदीयाचरितैर्व्रतादिभि- र्निस्तन्द्रिरेवं गुरुभक्तितत्परः॥६२॥ एवं स कुर्वन् विधितस्तदर्चनं तत्तोषहेतुं च महोत्सवं बुधः। निरालसो भक्तियुतो लभेत स्वाभीष्टसिद्धिर्महती न संशयः॥६३॥ निशम्य तद्वाक्यमथो महात्मनो मुनेः प्रहृष्टः कलशोद्भवस्य। मुनिः सुतीक्ष्णः समुतीक्ष्णबुद्धि- र्विधिं च प्रष्टा हि तदर्चने पुनः॥६४॥ इतिश्रीमदगस्त्यसंहितायामगस्त्यसुतीक्ष्णसंवादे भविष्यखण्डे श्रीरामानन्दाचार्यावतारोपाख्यानं नाम द्वात्रिंशदुत्तरशततमोऽध्यायः॥१३२॥

परिशिष्ट 4 (269)

अथ त्रयस्त्रिंशदुत्तरशततमोऽध्यायः तज्जन्म पावनं पुण्यं कथितं परमं त्वया। तदर्चनविधिं मह्यं वक्तुमर्हस्यथाधुना।।1।। जगतामुपकर्ता त्वं दयालुर्धीमतां वरः। समभ्यर्च्य जना येनाचार्यं श्रेयः समाप्नुयुः।।2।। श्रूयतामिति चामन्त्र्य कथयिष्यति कुम्भजः। अम्बुजं वर्तुलाकारं द्वादशदलसंयुक्तम्।।3।। सुव्यक्तं तैर्दलैर्व्यक्तैर्दर्शनीयं सुशोभनम्। तन्मध्ये कर्णिकायान्तु यन्त्रषट्कोणमालिखेत्।।4।। तत्राचार्यवरं देवं रामानन्दमुदारधीः। विन्यसेत् साङ्गमर्काभं तं दिव्यगुणशालिनम्।।5।। सपूर्वदिशमारभ्य दलेषु क्रमशोन्यसेत्। अनन्तानन्दमुख्यांस्तान् द्वादशादित्यसन्निभान्।।6।। यन्त्रमेवं सुसम्पाद्य तदर्चनपरायणः। पूजयेत्तत्र तान् सर्वानर्घ्यपाद्यादिभिर्वरैः।।7।। पूजोपहारैः सकलैर्भक्त्या परमया युतः। एकाग्रमानसो भूत्वा तमेव मनसा स्मरन्।।8।। नम आचार्यवर्याय रामानन्दाय धीमते। मोक्षमार्गप्रकाशाय चतुर्वर्गप्रदाय च।।9।। इति मन्त्रविधानेन समर्चेद्विधिनार्चकः। अर्घ्यपाद्यादिभिस्तैस्तैर्गन्धपुष्पाक्षतैः फलैः।।10।। नैवेद्यैरुत्तमैः श्रेष्ठैः षड्रसैः सुमनोहरैः। ताम्बूलैर्दक्षिणाभिस्तं तोषयेन्नृत्यगीतिभिः।।11।। एवं दलेषु शिष्यांस्तान् पूजयेदमलात्मना। प्रणवादिचतुर्थ्यन्तनाममन्त्रैर्विधानतः ।।12।। स्तुवीत स्तुतिभिर्देवं सशिष्यं भक्तितत्परः। ज्ञानविज्ञानदीपं तमुदारयशसं प्रभुम्।।13।। जगद्गुरो! नमस्तेऽस्तु हरये विश्वबन्धवे। मोक्षमार्गप्रकाशाय प्रणतार्तिहराय ते।।14।।

(270) अगस्त्य-संहिता

सपार्वदाय साङ्गाय सदा पावनकीर्तये। नमस्तेऽगाधबोधाय प्रणताभीष्टदायिने॥15॥ सत्यव्रताय शान्ताय दान्ताय जगदात्मने। नमोऽनन्ताय महते निर्जिताशेषविद्विषे॥16॥ विधृतज्ञानमुद्राय योगिने योगशालिने। नमस्तेऽस्तु दयासिन्धो! जगज्जन्मादिहेतवे॥17॥ भीमे भवार्णवेऽनन्यः शरणः पतितः प्रभो। पादपद्मद्वयं तेऽहं व्रजामि शरणं सदा॥18॥ इत्यभिष्टूय तं धीमान् दद्यात्पुष्पाञ्जलिं मुदा। प्रणमेद् दण्डवद्भूभौ साष्टाङ्गं विधिवत्ततः॥19॥ अथ जन्मकथान् तस्य शृणुयात् पापनाशिनीम्। गदतां शृण्वतामाशु विशदां तां शुभप्रदाम्॥20॥ एवं मुने! त्वं जानीहि तदर्चनविधिं महत्। लोकेऽनेन विधानेन तमभ्यर्च्यमहामुनीम्॥21॥ प्राप्स्यन्ति च क्षितौ लोकावाञ्छितार्थमसंशयम्। नरास्तद्भावनाव्युक्ताः प्रणताविशदाशयाः॥22॥ मुने! स भगवानित्थं सुतीक्ष्ण! जगदीश्वरः। सत्यसन्धोहरिर्जातो विधास्यति शुभं नृणाम्॥23॥ चार्वाकादिमतारूढान् बहुधा दुर्मतीन् कलौ। करिष्यति नरान् जित्वा रामभक्तिपरायणान्॥24॥ यत्प्रतापवशादेव भविष्यन्ति कलौ नराः। धर्मनिष्ठास्तपोनिष्ठा मोक्षमार्गरताः सदा॥25॥ तस्मिन् महीतलं याते नृणां किं वर्णयाम्यहम्। भाग्यं साक्षाद्धरौ प्रीते सच्चिदानन्दविग्रहे॥26॥ धन्यास्तदानन्मुखपङ्कजं नरा द्रक्ष्यन्ति ये तापहरं च पश्यताम्। श्रोष्यन्ति वाचं परमामतायनां भूरिभाग्या वत निर्मलाशायाः॥27॥ इति श्रीअगस्त्यसंहितायां सुतीक्ष्णागस्त्यसम्वादे भविष्यखण्डे साङ्गसशिष्यश्रीरामानन्दाचार्ययन्त्रार्चनप्रकारो नाम त्रयस्त्रिंशदुत्तर- शततमोऽध्यायः ॥१३३॥

परिशिष्ट 4 (271) अथ चतुस्त्रिंशदुत्तरशततमोऽध्यायः शिष्यैर्द्वादशभिः श्रीमानथैतैरर्कसन्निभैः। सूर्यैर्द्वादशभिर्नित्यं यथा विष्णुः प्रतापवान्॥१॥ विराजमानः सततं पर्यटन्नवनीमिमाम्। द्वारकादिषु तीर्थेषु तत्र तत्र जगद्गुरुः॥२॥ विद्विषां जित्वरो वादैः श्रुतिस्मृतिसमुत्थितैः। विपरीतान् वशीकुर्वन् कुर्वन् शिष्यांश्च तानथ॥३॥ षडक्षरं मन्त्रराजं तेभ्यश्चोपदिशन मुनिः। मन्त्रार्थं श्रावयन्नित्यं मन्त्रज्ञैस्तैरूपासितः॥४॥ आसमुद्रं चतुर्दिक्षु विचरन् धर्मतत्परः। कर्ता वै बहुधा लोकं रामभिरतमुत्तमम्॥५॥ लेष्यन्ति नास्तिकास्तस्य प्रतापहत्ततेजसः। तमोपहे यथासूर्येऽभ्युदिते तारकागणः॥६॥ एवमेवात्र सुतीक्ष्ण! विचरन् सर्वतो मुनिः। श्रेयः सम्पादयन् नृणां हरन्नज्ञानजं तमः॥७॥ राजिष्यते स्वयं स्वीयैर्भानुभिर्भानुमानिव। असंख्येयैर्गुणैः शुभ्रैर्जगत्पालनतत्परः॥८॥ प्रकृत्या शीलसम्पन्नो दयारत्नकरो महान्। धर्मत्राणाय लोकेऽस्मिन्नवतीर्णः परः पुमान्॥९॥ महाव्रतधरो धीमान् सर्वविद्याविशारदः। निस्पृहः सर्वकामेभ्यः स्वात्मारामोमहामुनिः॥१०॥ रामानन्द उदारकीर्तिरंतुलः श्रीयोगिवर्याग्रणीः पाखण्डाद्रिविभेदनाशनरहो धर्माभिसंवर्धनः। श्रीमान् दिव्यगुणालयो निजयशःस्तोमाङ्कितक्ष्मातलः सिद्धध्येयपदाम्बुजो विजयतेऽज्ञानान्धकारापहः॥११॥ वेदार्थसम्पादकसम्मुखाम्बुज- स्त्रितापसंहारकचारुलोचनः। भवाब्धिसन्तारकपादपङ्कजो निजेष्टपूर्त्यार्पितकल्पपादपः॥१२॥

(272) अगस्त्य-संहिता

विधूतशत्रुर्धृतिमान् धरातलं यशस्समूहैर्विदधत् सुनिर्मलम्। प्रकाशमानात्मविभूतिभूषितः प्रभूतविद्याप्रभवः प्रभाववान्।।13।। प्रतापसन्तापितशत्रुमण्डलः सुसद्यशोऽलंकृतभूमिमण्डलः। समीहिताशेषजगत्सुमङ्गलः सदर्चनीयोऽखिलमङ्गलायनः।।14।। सत्सम्प्रदायाम्बुजभास्करोऽग्रणी विनीतनीताखिलवाञ्छितार्थकः। निगूढवेदार्थविदीपनस्तै रुदारवृत्तैर्महितो महात्मभिः।।15।। गुणेन शीलेन श्रुतेन कर्मणा प्रकाशमानः किरणैर्यथा रविः। हरंस्तमो नैशमुदारदीधिति- र्विनिर्जिताशेषसपत्नसंहतिः।।16।। करोतु नोऽदभ्रदयोधिमङ्गलं सपार्षदो दर्शितभूर्यनुग्रहः। गृहीतधर्मायतनाकृतिः कृती कृतार्थयंल्लोकमिमं चराचरम्।।17।। उपप्लुतं धर्मविरोधिभिर्जगत्- सनाथमाद्योविदधत्कृपानिधिः। विधत्सुरस्याघनिवर्हणं यश- स्तनोतु नोऽजस्रमसौ सुमङ्गलम्।।18।। जगत्प्रतीपानभितोनिरस्य- श्चकार धर्माभिरतं सतां प्रभुः। अशेषसत्पूजितपादपङ्कजः सुमङ्गलं नो वितनोतु सर्वदा।।19।। इति श्रीअगस्त्यसंहितायां भविष्यखण्डे श्रीरामानन्दाचार्य- दिग्विजयवर्णनं नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः।।१३४।।

परिशिष्ट 4 (273)

अथ पञ्चत्रिंशोत्तरशततमोऽध्यायः रामानन्दमहं वन्दे योगिध्येयाङ्घ्रिपङ्कजम्। उदारयशसं देवं शान्तमूर्तिं शुभप्रदम्॥१॥ अष्टोत्तरशतं वक्ष्ये नाम्नां यस्य महात्मनः। यैरिज्यमानो भगवान् कामानाशु प्रदास्यति॥२॥ पठतां पठितैर्ध्यातैर्धायतां शृण्वतां श्रुतैः। शुभप्रदैः सतां ग्राह्यैर्महापापप्रणाशनैः॥३॥ रामानन्दो रामरूपो राममन्त्रार्थवित्कविः। राममन्त्रप्रदो रम्यो राममन्त्ररतः प्रभुः॥४॥ योगिवर्यो योगगम्यो योजगज्ञो योगसाधनः। योगिसेव्यो योगनिष्ठो योगात्मा योगरूपधृक्॥५॥ सुशान्तः शास्त्रकृत् शास्ता शत्रुजिच्छान्तिरूपधृक्। समयज्ञः शमी शुद्धः शुद्धधीः शुद्धवेषधृक्॥६॥ महान् महामतिर्मान्यो वदान्यो भीमदर्शनः। भयहृद् भयकृद् भर्त्ता भव्यो भवभयापहः॥७॥ भगवान् भूतिदो भोक्ता भूतेज्यो भूतभृद् विभुः। ज्ञातज्ञेयोऽतिगम्भीरो गुरुज्ञानप्रदो वशी॥८॥ अमोघोऽमोघदृग्दान्तोऽमोघभक्तिरमोघवाक् । सत्यः सत्यव्रतः सभ्यः सत्प्रियः सत्परायणः॥९॥ सुसिद्धः सिद्धिदः साधुः सिद्धिभृत् सिद्धिसाधनः। सिद्धसेव्यः शुभकरः सामवित् सामगो मुनिः॥१०॥ पूतात्मा पुण्यकृत् पुण्यः पूर्णः पूर्तिकरोऽघहा। अर्च्योऽर्चकः कृती सौम्यः कृतज्ञः ऋतुकृत् ऋतुः॥११॥ अजय्यः शीलवान् जेता विनेता नीतिमान् स्वभूः। वाग्मी श्रुतिधरः श्रीमान् श्रीदः श्रीनिधिरात्मदः॥१२॥ सर्वज्ञः सर्वगः साक्षी समः समदृशिः सदृक्। शुभज्ञः शुभदः शोभी शुभाचरः सुदर्शनः॥१३॥ जगदीशो जगत्पूज्यो यशस्वी द्युतिमान् ध्रुवः। इतीदं कीर्तिदं यस्य नाम्नामष्टोत्तरं शतम्॥१४॥