भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

यहाँ पृष्ठ की प्रत्येक पंक्ति का देवनागरी में लिप्यन्तरण प्रस्तुत है:

१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ६ सू० ३५ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ शरीराणामवयवोपचयापचयानुसारेणात्मनोपि देवनिर्यङ्मनुष्येषु अव- यवोपचयापचयाभ्यां तत्तुल्यता स्यात् । तथा सति पर्यायेणाविरोध इति न वक्तव्यम् । तथा सति विकारापत्तेः । संकोचविकासेपि विकारस्य दुष्परि- हरत्वात् ॥ ३५ ॥ भाष्यप्रकाशः। अतुल्यत्वान्मनुष्यजीवस्य केनचित् कर्मणा गजशरीरे प्रवेशे शरीरैकदेश एव स जीवः स्यादेकदेशान्तरं च जीवशून्यं स्यात् । न च सिद्धान्तवद्गुणव्याप्त्या दोषः परिहर्तव्य इत्यपि युक्तम् । तथा सत्यणुत्वत्यागायोगात् । चकारात् पिपीलिकादिदेहे प्रविशँस्तत्र न संमीयेतेत्यपि सूच्यते ॥ ३४ ॥ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ किंचिदाशङ्क्य परिहरतीत्या- शयेन व्याकुर्वन्ति शरीराणामित्यादि । अयमर्थः । जीवो हि नानाविधेन कर्माष्टकेन ज्ञाना- वरणीयादिना तत्तच्छरीरेषु प्रविशति ततो निर्गच्छति च । तानि च शरीराणि नानापरिमाणा- नीति तेषां शरीराणामवयवोपचयापचयानुसारेण देवादिशरीरप्रविष्टस्य जीवस्याप्यवयवो- पचयापचयाभ्यां तत्तच्छरीरपरिमाणता वक्तुं शक्यते । तथा सति पर्यायाख्येनावस्था- विशेषेण क्रमिकेण प्रवेशेन वा परिमाणस्याविरोध इति सूत्रांशेनाशङ्क्य, न चेति परिहरति । एवं न वक्तव्यम् । कुतः । विकारादिभ्यः । विकारसावयवत्वानित्यत्वानां प्राप्तेर्लोकायत- मतादविशेषः । किंच । तेऽवयवाः कुत्र गच्छन्ति, तिष्ठन्ति च महान्तं कालं, कुतश्चा- यान्तीत्यपि निर्धारयितुमशक्यम् । अथ न ततोऽपगच्छन्ति, किंतु, स्वल्पशरीरप्राप्तौ घटे रश्मिः। जीवेति जीवोस्तिकायानेकदेशवर्ति द्रव्यं तस्येत्यर्थः । सिद्धान्तेति अस्मत्सिद्धान्तवत् । गुण- चैतन्यम् तस्य व्याख्या । तथा सतीति अस्मत्सिद्धान्ताङ्गीकारे । अत्र पक्षे सौत्रश्चकारो नाप्यर्थः । अनन्वयप्रसङ्गादित्याशयेनार्यान्तरद्योतकत्वमाहुः चकारादिति । न संमीयेत इति असङ्कु- चितावस्थां न लभेतेत्यर्थः । 'मीङ् गतौ' दिवादिरात्मनेपदी । उपसृष्टोन्यार्थः देहाद्वहिरपि जीवेदित्यर्थः । सूच्यत इति । शंकराचार्यैरुक्तमर्थं मध्यमपरिमाणत्वं तेन चानित्यत्वं स्यादित्युक्तं तदुपेक्ष्यम् । आत्मनोऽनित्यत्वापादने जैनेष्टापत्तिस्वीकारः स्यादिति ॥ ३४ ॥ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ कर्मेति नैकस्मिन्सूत्रे बन्धस्त्वष्टविधं कर्मेत्यादिना दर्शितने । किंरूपेणेत्याकाङ्क्षायामाहुः ज्ञानावरणीयादिनेति । तथा सतीति भाष्यं विवृण्वन्ति स्म तथा सतीति । प्रवेशोनेति श्लथं रमसात् । परिमाणस्य मध्यमपरिमाणस्य । न वक्तव्यमिति इति भाष्यार्थ इत्यर्थः । व्याख्येयसूत्रांशोपन्यासपूर्वकं तथा सतीत्यादि भाष्यं विवरीतुमाहुः कुत इति । भाष्यस्थं विकारसम्बद्धमादिशब्दार्थेन सह व्याकुर्वन्ति स्म विकारेति । अत्रेष्टापत्तिरपि कर्तुं न शक्यत इत्याहुः लोकायतेति, बृहस्पतिप्रणीतात् । त इति पिपीलिकादेहादधिका गजदेहाच्यूना मानवीयजीवस्यावयवाः । कालमिति अत्यन्तसंयोगे 'कालाध्वनोरत्यन्तसंयोगे' इति सूत्रेण द्वितीया । कुतश्चेति पुनर्मानवीयजीवस्य मानवीयदेहप्राप्तौ च कुत आयान्तीत्यर्थः । संकोचेत्यादिभाष्यं विवरीतुमाहुः अथेति । तत इति जीवतः । 1278

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०७ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥ अन्त्यावस्थितिर्मुक्तिसमयावस्थितिस्तस्माद्धेतोः। पूर्वदोषपरिहाराय च उभय- नित्यत्वं भवेदणुत्वं वा, महत्त्वं वा । उभयथापि शरीरपरिमाणो न भवतीति न तथार्थसिद्धिः ॥ ३६ ॥ इति द्वितीयाध्यायद्वितीयपादे षष्ठं नैकस्मिन्नसंभवादित्यधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः। दीपावयववद् गुच्छादिस्थितपटवद् वा संकुच्य तिष्ठन्ति, पुनर्हस्त्यच्छरीरप्राप्तौ विकासं प्राप्नु- वन्तीति विभाव्यते, तदापि विकारवत्त्वं तु दुष्परिहरम् । तथा सत्यनित्यत्वापाताद् बन्ध- मोक्षाङ्गीकारो बाध्यतेति ॥ ३५ ॥ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥ दूषणान्तरं वदतीत्याशये- नाहुः अन्त्येत्यादि । दिगम्बरैर्हि मोक्षावस्थागत

स्थातोऽविशेषः । उभयथापि जीवः शरीरपरिमाणो न सेत्स्यतीति न तवाभिमतार्थसिद्धि- रित्यर्थः । एवमार्हतान् यौक्तिकानवगत्य कश्चिद्दर्शने श्रद्धां कुर्यादिति तस्यापि निवारणं कृतम् । एतेषु षट्स्वप्यधिकरणेषु ब्रह्म जगदुपादानं न वेति संदेहस्तत्तन्मतविरोधः संदेहबीजं, नेति पूर्वः पक्षः सर्वसमयानामयुक्तत्वाद् ब्रह्मैवोपादानमिति सिद्धान्तो ज्ञेयः । षष्ठे तु ब्रह्मैव विरुद्धधर्माधारं, नेतरदिति नियमो युक्तो न वेति संदेहे स्याद्वादिभिः सर्वत्र तथाभ्युपगमा- नेति पूर्वः पक्षः । स्याद्वादस्यासंगतत्वाद् ब्रह्मैव तथेति नियमो युक्त एव श्रुत्या भक्तप्रत्यक्षेण च प्रमितत्वादिति सिद्धान्त इति प्रकारान्तरमधिकं ज्ञेयम् ॥ ३६ ॥ इति षष्ठं नैकस्मिन्नसंभवादित्यधिकरणम् ॥ ६ ॥ पत्युरसामञ्जस्यात् ॥ ३७ ॥ अधिकरणमवतारयन्ति परेत्यादि । तथा च पत्यु- रिति पदमेवात्राधिकरण

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०९ वेदोक्तादणुमात्रेऽपि विपरीतं तु यद् भवेत् । तादृशं वा स्वतन्त्रं चेदुभयं मूलतो मृषा ॥ तार्किकादिमतं निराकरोति । भाष्यप्रकाशः। निराकरणं प्रस्तूयत इत्यर्थः । नन्वीश्वरवादस्य वेदानुसारित्वात् कुतस्तन्निराकरणमित्यत आहुः वेदोक्तेत्यादि तादृशमिति । वेदोक्तात् सर्वप्रकारैर्विपरीतम् । तथा चेतो हेतोर्बाधाद्बाध- निराकरणमित्यर्थः । पराभिप्रेतेश्वरनिराकरणेऽपि विशेषमाहुः तार्किकादीति । तार्किका नैयायिकाः, वैशेषिकाश्च । आदिपदेन हैरण्यगर्भाः, पातञ्जलाः, कापालिकाः, कालामुखाः, पाशुपताः, शैवाश्च । तत्र तार्किकमते नित्यज्ञानेच्छाप्रयत्नाख्यविशेषधर्मवान् स्वाभाविक- शरीररहितो जीवादृष्टसंपादितं शरीरं भूतावेशन्यायेनाविश्य कार्यं जगत् करोति । हैरण्य- गर्भादीनां मते 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः' प्रधानपुरुषाभ्यामन्यस्तद्- धिष्ठाता शुद्धसत्त्वशरीरो जगन्निर्मिमीते । कापालिकादीनां चतुर्णां मते तु निमित्तकारणं पशुपतिरीश्वरः । सर्वेऽप्येत ईश्वरे जगदुपादानत्वं नेच्छन्ति । निमित्तकारणत्वमात्रमाहुः । तथा तार्किकाः प्रमाणादिषोडशपदार्थतत्त्वज्ञानाद् द्रव्यादिसप्तपदार्थानां साधर्म्यवैधर्म्यज्ञानाच्च यथायथं मोक्षमाहुः । योगिनश्च नित्यानित्यवस्तुविवेकमात्रात् । कापालिकास्तु रश्मिः । वदन्तीत्यस्यापि सत्त्वादेषां विष्णोर्ब्रह्मणि पर्यवसानात् पत्युरभावेन निराकरणप्रस्तावेन च स्मृति- सिद्धस्येत्यर्थः । इत्यर्थ इति इतिप्रयोजनमित्यर्थः । अन्यथा भाष्ये व्यासो निराकरोति इत्यत्र व्यासेन निराकरणं प्रस्तूयत इति विभक्तिविपरिणामापत्तेः । वेदोक्तेत्यादीति । अणुमात्र इति ईश्वरमात्रादौ । वेदोक्तादिति । तादृशं स्वतन्त्रं प्रकारभेदभिन्नं चेद् वा यदि वा भवेदिति योजना । मूलतो युक्तिरूपात् मूलमालोच्येत्यर्थः । नैयायिका इति न्यायं सूत्राणि स्मृतिरूपाण्यधीयते विदन्ति वा नैयायिकाः । 'क्रतूक्थादिसूत्रान्ताट्ठक्' । उक्थादिः । एतेषां लौकिकत्वेनानुमानसिद्ध ईश्वरः पतिर्विष्णुः पातीति पतिरिति । न ब्रह्मा लौकिकत्वात् । 'अत एव चानन्याधिपतिः' इति पति- मंत्रात्सूत्रेऽधिविशिष्टः । वैशेषिकाः प्रमाणद्वयवादिन इत्युक्तम् । उक्तसूत्राट्ठक् । हिरण्यगर्भेण पतञ्जलिना च प्रणीतानधीयते विदन्ति ते तथोक्ताः । 'तदधीते तद्वेद' इत्यण् । एवं च सांख्यस्मृत्यनुसारिण उभयेऽपि । कापालिका इति कपालमधीयते विदन्ति वा कापालिकाः । 'क्रतूक्थादि' सूत्रेण ठक् । एते च महेश्वरप्रोक्तागमानुगामिनो माहेश्वरपदवाच्याः । कालामुखा इति कलामुखं वक्ष्यमाणकपालपात्रेत्यादिकमभिदधति ये ते । शैषिकोऽण् । 'तदधीते तद्वेद' इति वाऽण् । एवं पशु- पतिमभिदधति शिवमभिदधति पाशुपताः शैवाश्च 'तदधीते तद्वेद'इत्यण् वा । क्लेशेति इदं पातञ्जले योगसूत्रप्रथमे समाधिपादेऽस्ति । प्रधानेति क्लेशेनापरामृष्ट इति प्रधानादन्यः । पुरुषविशेष इति पुरुषादन्यः । तदधीति । पुरुषविशेषपदेन पुरुषो लभ्यते स चाधिष्ठाता सशरीरः । 'द्रष्टा दृशि- मात्रः शुद्धोऽपि प्रत्ययानुपश्यः' इति सूत्रम् । जगदिति । कपिलसाङ्ख्यप्रवचनसूत्रवृत्तौ 'प्रधानाज्जग- न्जायत' इति । 'उपरागात्कर्तृत्वं चित्सान्निध्यात् चित्सान्निध्यात्' इति च सूत्रेऽत्र । योगिन इति 1281

११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ७ सू० ३७ पतिर्भवेदीश्वरस्तस्माद् भिन्नस्तथा विषमकरणाद् वैषम्यनैर्घृण्ये स्याताम् । कर्मापे- भाष्यप्रकाशः। ‘रोचकं च काचकं चैव कुण्डलं च शिखामणिः । भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते । आभिर्मुद्रितदेहस्तु न भूय इह जायते । मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः । भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति’ इत्यादिकमाहुः । तथा कालामुखा अपि कपालपात्रभोजनशवभस्मस्नानतत्प्राशनलगुडधारणसुराकुम्भ- स्थापनतदाधारदेवपूजादिकमैहिकामुष्मिकसकलफलसाधनमभिदधति । तथा शैवा अपि 'रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके । कपालं भस्मना स्नानम्' इत्याद्याहुः । तथा केनचित् क्रियाविशेषेण विजातीयानामपि ब्राह्मण्यप्राप्तिमुत्तमाश्रमप्राप्तिं चाहुः । 'दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानवः' इति । पाशुपतशास्त्रमपि पशुपतिनेश्वरेण प्रणीतं पञ्चाध्यायी । तत्र पञ्च पदार्थाः ख्याप्यन्ते । कारणं, कार्यं, योगो, विधिः, दुःखान्तः, इति । कारणमीश्वरः । कार्यं प्रधानं महदादि च । योगोऽप्योङ्कारादि ध्यानधारणादिः । विधिश्चिपवणस्नानादिः । गूढचर्यावसानो दुःखान्तो मोक्षः । पशवः संसारिण आत्मानस्तेषां पाशो बन्धनम् । तद्विमोक्षो दुःखान्तः । पाशुपतवैशेषिक- नैयायिककापालिकानां मुक्त्यवस्थायामाशेषविशेषगुणोच्छित्या पाषाणकल्पा आत्मानो भवन्ति । सांख्यशैव्योश्चैतन्यस्वभावास्तिष्ठन्तीति भेदः । ईश्वरं निमित्तकारणं मन्वानानामयमाशयः । चेतनस्य स्वस्वविज्ञातुः कुलालादेः स्वस्वकार्ये कुम्भादिरूपे निमित्तत्वमात्रं दृष्टं, न तूपादा- नत्वमपि । अत ईश्वरोऽप्यधिष्ठाता जगतो निमित्तमेव, न तूपादानम् । एकस्यैकस्मिन्नेव निमित्तत्वोपादानत्वयोर्विरुद्धत्वादिति प्राप्तम् । तत्रेदमभिधीयते ॥ पत्युरसामञ्जस्यादिति ॥ किमसामञ्जस्यमित्याकाङ्क्षायां विवृण्वते पतिर्भवेदित्यादि । ननु वैषम्यनैर्घृण्यसूत्रे कर्मसापेक्ष- त्त्वेन स्वयमेव दोषः परिहृत इति कथं तत्कृतमसामञ्जस्यमिहोद्भाव्यत इत्यत आहुः कर्मेत्यादि । तत्र हि, 'पुण्यः पुण्येन कर्मणा भवति' इति, 'एष उ एव साधु कर्म कार- यति' इत्यादिश्रुतिसिद्धं विरुद्धधर्माश्रयत्वं ख्यापयितुं तथोक्तम् । एते तु न तथा वदन्ति, रश्मिः। हैरण्यगर्भाः । तदुक्तं मोक्षधर्मे 'हिरण्यगर्भो योगस्य वक्ता' इति वाक्यम् । काचकमिति । अत्र पूर्वमक्षरत्रिकात्मकं पदं पुराणे मृग्यम् । रामानुजभाष्ये तु कणिका रुचकं चैवेति यज्ञोपवीतमिति च पठ्यते । काचकं सिद्धान्तविशेषः । इत्यादिकमिति आदिशब्देन तच्छास्त्रप्रसिद्धं ग्राह्यम् । इत्याद्याहुरिति । शैवागमप्रसिद्धम् । ओङ्कारेति सामान्ये नपुंसकम् । त्रिसवणेत्यत्रापि । गूढेति । गूढचर्यायामवसानं यस्य 'पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिति- शक्तिरिति' सूत्रम् । अत्र पञ्चपदार्थाः पशुपशविमोक्षणायेत्याहुः पाषाणेति । 'अहल्या पाषाण' इत्यु- क्तिवन्न । एकस्येति कारणस्य । एकस्मिन् कार्ये । पतिर्भवेदिति तस्माद्भिन्न उपादानात् । विषम- करणं कुष्ठाद्यादेर्बोध्यम् । न तु काणेन्ध्यादेर्भग्यादेश्व स्वस्वरूपत्वात्कार्यस्य । वैषम्येति प्रथमपादस्थं सूत्रम् । विरुद्धेति कर्मसापेक्षत्वनिरपेक्षत्वरूपविरुद्धेत्यर्थः । तथेति विरुद्धधर्मीश्रयत्वम् । 1282

' inside/below: that's ह्ण! With 'ा' = ह्णा! Then ति! YES! गृह्णाति! Wait, look at गृ: it's 'ग' with 'ृ' = गृ! The top is a 'ग', the bottom is a 'ृ' loop! And ह्णा: 'ह' with 'ण' below = ह्ण, with aa-matra = ह्णा! So it is: गृह्णाति! Wait, what about before गृह्णाति? भजन्तस्तनुं or भजन्तस्तनून्? Look at स्तनु: is it स्तनुं? There might be a dot or it's स्तनुं printed as स्तनुं or स्तनूं or स्तनु! Wait, look between नु and गृ: there is no letter between them! Wait, what about the dot above नु? There is none, or it's faint. But wait, could it be भजन्तस्तनुं गृह्णाति? Wait, look at line 6 again: ज्ञानेन भजन्तस्तनुं गृह्णाति च वाचं Wait, look at the characters: ज्ञा ने [space] `भ

१९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ७ सू० ३९ संबन्धानुपपत्तेश्च ॥ ३८ ॥ जीवब्रह्मणोर्विभुत्वादजसंयोगस्यानिष्टत्वात् पतित्वानुपपत्तिः । तुल्यत्वादप्य- नुपपत्तिरिति चकारार्थः ॥ ३८ ॥ अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥ स चेश्वरो जगत्कर्तृत्वेन कल्प्यमानो लौकिकन्यायेन कल्पनीयः । स चाधिष्ठित भाष्यप्रकाशः। संबन्धानुपपत्तेश्च ॥ ३८ ॥ दृष्टानुसारेण दूषणान्तरं वदतीत्याहुः जीवेत्यादि । निमित्तमात्रत्वाङ्गीकारेण जीवपरमाण्वादीनां प्रधानस्य च नित्यत्वाङ्गीकारेण तन्निरूपितसम- वायस्य तदभिमतेश्वरे अभावात् समवायसंबन्धस्यानुपपत्तिः । जीवब्रह्मणोर्विभुत्वान्नव- यवत्वाच्च कर्मजस्यावयवजस्य च संयोगस्य वक्तुमशक्यतया जन्यस्य तस्याभावादजसंयोग

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३ एवं किंचित् करोतीतीश्वरेप्यधिष्ठानमङ्गीकर्तव्यम् । तस्मिन् कल्प्यमाने मतविरोधः, अनवस्था असंभवश्च ॥ ३९ ॥ भाष्यप्रकाशः । मान ईश्वरो लौकिकन्यायेनोपादानगोचरापरोक्षज्ञानचिकीर्षाप्रयत्नवत्ता कल्पनीयः । लौकिकश्च कर्ता शरीरमधिष्ठायैव करोतीतीश्वरेपि शरीराधिष्ठानमङ्गीकर्तव्यम् । न चाशरीरस्यैव कर्तृत्वम् । मनसो नित्यत्वेप्यशरीरेषु मुक्तेषु मानसकार्यादर्शनात् तत्र दृष्टान्ताभावेन न्यायानवतारात् । अतः शरीराधिष्ठानमवश्यमङ्गीकर्तव्यम् । अन्यथा दृष्टविरोधेन प्रतिवादिनं पर्यनुयुञ्जानस्य तवैव निग्रहात् । तस्मिंश्च कल्प्यमाने नित्यानित्यविकल्पेन मत- विरोधः । सावयवस्य शरीरस्य नित्यत्वे जगतोपि नित्यत्वाविरोधादीश्वरासिद्धेः । नच तन्निरवयवम् । अदर्श

११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ७ सू० ४० करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ करणवदङ्गीकारे असम्बन्धदोषः परिहृतो भवति । तन्न युक्तम् । भोगादिप्रसक्तेः ॥ ४० ॥ भाष्यप्रकाशः । करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ परोक्तं परिहारमाशङ्क्य दूषयतीत्याहुः करण- वदित्यादि । करणवदिति द्वितीयार्थे वतिः । तथा च यथा शरीररहितोपि जीवः करण- ग्रामं मनश्चक्षुरादिकमधितिष्ठति स्वस्वकार्ये प्रेरयति, तथा ईश्वरोऽप्यशरीरः सर्वाञ्जीवान- धिष्ठास्यति । प्रधानपुरुषौ चाधिष्ठास्यति । अधिष्ठानं चात्र स्वस्वकार्ये नियोजनम् । एवं चासं- बन्धदोषोपि परिहृतो भवति । श्रेणीमुख्यवत् स्वस्वामिभावेनैव निर्वाहादिति चेन्नेदं युक्तम् । कुतः । भोगादिभ्यः भोगादिदोषप्रसक्तेः । यथा हि करणान्यधितिष्ठञ्जीवः पुण्यपापाभ्यां सुखदुःखभोगभाग् भवति, तत्र रागद्वेषादिवांश्च । तथैवेश्वरोपि भवेत् । तत्र तदसंसर्गे नियामकाभावात् । न चैश्वर्यस्य नियामकत्वम् । लौकिकैश्वर्यवत्स्वपि तेषां दर्शनात् । नापि निरतिशयितरूपाया ऐश्वर्यकाष्ठायाः । केवलाभिर्युक्तिमत्तस्या एवासिद्धेः । अतो नानेनापि दृष्टान्तेनाधिष्ठानसंभव इत्यर्थः ॥ ४० ॥ रश्मिः । करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ परिहारमिति संबन्धानुपपत्तिसूत्रोक्तसंबन्धा- नुपपत्तावपि संबन्धान्तरस्य स्वस्वामिभावस्याङ्गीकरणरूपपरिहारमाशङ्क्येत्यर्थः । द्वितीयार्थे इति । 'तेन तुल्यं क्रिया चेद्वतिः' । 'तत्र तस्य' इति सूत्रद्वयेन तृतीयासप्तम्योपषष्ठ्यर्थेषु वतिर्विहित- स्तथापि छान्दसोयं वतिरित्यर्थः । अत्र शंकराचार्यैर्द्वितीयाव्याख्याने षष्ठ्यर्थे वतिरुक्तः । करणानां तुल्यमीश्वरस्यायतनं यदि तदा भोगादिदोष इति । रामानुजाचार्यैः प्रथमार्ये वतिरुक्तः । यथा भोक्तुर्जीवस्य करणकलेवराद्यधिष्ठानमशरीरस्यैव दृश्यते तद्वत् ईश्वरस्याप्यशरीरस्य प्रधानाधिष्ठान- मुपपद्यत इति । वस्तुतस्तु 'करणवदित्यारभ्य द्वितीयायाधिष्ठास्यति' इत्यन्त आर्पो ग्रन्थः । 'कर्मादी- नामपि संबन्धसामान्यविवक्षायां षष्ठ्येव' इति सिद्धान्तात् । एवं च सर्वत्र द्वितीयास्थले षष्ठी प्रयोक्तव्या । षष्ठ्यर्थे वतिरिति । करणग्रामस्य मनश्चक्षुरादिकस्य सर्वेषां जीवानां प्रधानपुरुषयोरिति । द्वितीया तु कर्मणोत्र संबन्धसामान्यविवक्षा नेतरस्येति । 'तदर्हम्'इति सूत्रेण द्वितीयान्ताद्वतिस्तु न साध्यबोधं जनयति । 'विधिवत्पूज्यते हरिः' इत्यत्र विधिविषययोग्यतातत्कर्तृ हरिकर्मकं देवदत्त- कर्तृकं पूजनमिति बोधात् । विग्रहस्तु विधिमर्हतीति विधिवदित्यन्यत्र विस्तरः । यद्वा वास्तु छान्दसो वतिर्मास्तु चार्षो ग्रन्थः । किंतु करणमर्हतीति करणवदिति सूत्रभाष्ये व्याख्यातव्ये । अधितिष्ठतीत्यसार्थोत्यर्थः । अधिष्ठास्यतीत्यनयोरिर्हत्यतीत्यर्थः । शरीररहित इति 'कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये' इति गीतायां पञ्च- मेऽध्याये । परोक्तौ ष्ठाधातुरत्र लिखितस्तदर्थमाहुः अधिष्ठानमिति । असंबन्धेति । संबन्धा- नुपपत्तिसूत्रोक्तो योऽसंबन्धः स दोषः सोपि परिहृतो भवतीत्यर्थः । श्रेण्यां पङ्क्तौ मुख्यः स्वामी । अन्ये ते सेवकास्तद्वत् । तन्न युक्तमिति भाष्यार्थमाहुः नेवमिति । सूत्रव्याख्येयांशोपन्यास- पूर्वकं भोगादीति भाष्यं विवृण्वन्ति स्म भोगादिभ्य इति । अधितिष्ठन्निति अर्हन्नित्यर्थः । तेषामिति दोषाणाम् । तथा चैश्वर्यस्य दोषासंसर्गनियमकत्वे दोषदर्शनं तस्मादिति भावः । तत्रेति ईश्वरे करणकृतदोषासंसर्गेः । असिद्धेरिति निरतिशयितैश्वर्यकाष्ठायाः कापीश्वरातिरिक्तऽ- भावात् । दृष्टानुसारिणी युक्तिरिति भावः । अधिष्ठानेति स्वस्वकार्ये नियोजनसंभवः ॥ ४० ॥ 1286

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११५ अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥ ईश्वरः प्रकृतिजीवनियमनार्थमङ्गीकृतः । तच्च तयोः परिच्छेदे संभवति । ततश्च लोकन्यायेन जीवप्रकृत्योरन्तवत्त्वं भवेत् । ततश्चानित्यतायां मोक्षशास्त्र- वैफल्यम् । एतद्दोषपरिहाराय विभुत्वनित्यत्वेऽङ्गीक्रियमाणे संबन्धाभावादसर्व- ज्ञता वा स्यात् । तस्मादसङ्गतस्तार्किकवादः ॥ ४१ ॥ इति द्वितीयाध्याये द्वितीयपादे सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥ भाष्यप्रकाशः। अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥ दूषणान्तरादपि तार्किकप्रतिपन्न ईश्वरो न युक्त इत्याशयं स्फुटीकुर्वन्ति ईश्वर इत्यादि । अयमर्थः । न हि तैरिश्वरः श्रुतिभङ्ग्याङ्गीकृतः, किंतु जीवानामनन्तत्वाच्चेतनतया स्वतन्त्रत्वाद्भानास्वभावत्वाच्च जगन्निर्माणं तैरै न भवति तेषां भोगनियमश्च न संभवति । प्रकृतेरुपादानत्वेपि चेतनानधिष्ठिताया अकिंचित्करत्वान्न तथापि केवलया जगन्निर्मितिः । यन्मते न प्रकृतिस्तन्मते परमाण्वादय इति जडचेतनयोः प्रकृतिजीवयोर्नियमनार्थमङ्गीकृतः । तच्च नियमनं तयोर्जडचेतनयोः परिच्छेदे इयत्तायां संभवति । न हीयत्ताशून्याः सर्वे नियन्तुं शक्यन्ते, नापि व्यापकाः । अतो नियमनसिद्धयर्थं तेषामियत्ताङ्गीकार्या । ततश्च यदियत्तापरिच्छिन्नं तदन्तवत् यथा घटपटादिकमिति लोक- न्यायेन जीवप्रकृत्योरन्तवत्त्वं भवेत् । ततश्च जीवानित्यतायां लल्लक्षणस्य मोक्षशास्त्रस्य यदङ्गीक्रियते, तद्वैफल्यम् । यदि चैतस्स शास्त्रवैफल्यदोषस्य परिहाराय विभुत्वनित्यत्वम- ङ्गीक्रियते जीवानां, तदा तस्मिन्नङ्गीक्रियमाणे तेष्वियत्तावच्छेदकदेशसंख्ययोः संबन्धाभावा- दीश्वरस्यासर्वज्ञता स्यात् । यदपरिमितं तत् सर्वमज्ञेयमाकाशादिवदिति नियमात् । रश्मिः। अन्तवत्त्वमसर्वज्ञता वा ॥४१॥ दूषणान्तरादिति अन्तवत्त्वरूपात्, असर्वज्ञतारूपाच्च । योगमते ईश्वरनियामकत्वमाहुः प्रकृतेरिति । अकिंचिदिति । 'अचेतनत्वेपि क्षीरवच्चेष्टितं प्रधानस्य' इति कापिलसांख्यप्रवचनसूत्रवृत्तेः । एतेन चिदुपरागोपि प्रत्यूक्तः । न तयेति सेश्वरसारूय्मते अन्यथे- श्वरवैयर्थ्यप्रसङ्गात् । यन्मत इति नैयायिकमते । नियमनेति परमाणुक्रियोत्पादकेच्छाद्वारा नियमनार्थम्। पूर्वं भाष्यं विवृत्य तच्चेति भाष्यं विवृण्वन्ति स्म तच्चेति । नापीति । नियन्तुं शक्यन्त इत्यन्वयः । ततश्चेति । एतदिति भाष्यं विवृण्वन्ति स्म यदि चेति । विभुस्त्वेति । समाहारद्वन्द्वः । तेष्वित्यादि तेषु व्यापकेषु जीवेषु इयत्ता परिच्छिन्नपरिमाणं तदवच्छेदकयोरन्यूना- धिकदेशवर्तिनोर्द्देशसंख्ययोः । अयमर्थः । देश (ह) विशेषे स्थितो महत्त्वाणुत्वासमानाधिकरणसंख्याव- च्छिन्नो घटादिर्विषयो न तु जीवा इति । जीवस्त्वितरथाङ्गीकृत इति तादृशदेशसंख्ययोरसंबन्धादित्यर्थः । असर्वज्ञतेति । सर्वज्ञत्वं च विषयज्ञानाभावत्वं विषयज्ञानं विषयेन्द्रियसंबन्धमन्तरा न भवति । ब्रह्मजीवयोस्तु विभुत्वात्संयोगः । संयोगस्य जन्यत्वात् । नापि समवायः । अयुतसिद्धत्वाभावात् । विशेष्यविशेषणभावस्त्वभावप्रत्यक्ष एव । एवं च षड्विधलौकिकसन्निकर्षाभावादसर्वज्ञता । लौकिक- सन्निकर्षाभावेप्यलौकिकसन्निकर्षमाशङ्क्य व्याप्तिमाहुः यदिति । अपरिमितं अपरिच्छिन्नम् । अत्रैवं भावः । सामान्यलक्षणा ज्ञानलक्षणा योगजधर्मी चेति त्रिविधा प्रत्यासत्तिः । तत्र नान्त्यो 1287

५५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ८ सू० ४२ उत्पत्त्यसंभवात् ॥ ४२ ॥ ( २-२-८ ) भागवतमते कंचिदंशं निराकरोति । ते च चतुर्व्यूहोत्पत्तिं वदन्ति । वासुदेवात् संकर्षणस्तस्मात् प्रद्युम्नस्तस्माद- निरुद्ध इति । तत्रैषामीश्वरत्वं सर्वेषामृत संकर्षणस्य जीवत्वम् । अन्यान्यत्वम् । उत्पत्तिपक्षे जीवस्योत्पत्तिर्न संभवति । तथा सति पूर्ववत् सर्वनाशः स्यात् ॥ ४२ ॥ भाष्यप्रकाशः । तस्मादेकदोषवारणे दोषान्तरसंभवादसंगतस्तार्किकाणां वाद इति । माध्वा रामानुजाश्चात्र केवलं माहेश्वरमतनिराकरणमेवाधिकरणप्रयोजनमाहुः । शैवास्तु पूर्वाचार्यव्याख्यां शिवस्य केवलनिमित्तत्वबोधकशिवागमैकदेशदूषणपरामुकत्वा केवलेश्वरनिमित्तत्ववादिहिरण्यगर्भोक्तयोगस्मृतिमात्रनिराकरणपरामित्याहु । तदसङ्गतम् । केषां- चिदाचाराणां शैवपुराणाविरुद्धत्वेपि पूर्वोपदर्शिताचाराणां विरुद्धत्वेनाप्रामाण्यादिति । मिश्रस्तु सांख्याद्युक्तेन विरोधितर्केणानुकूलतर्काभावेन श्रुतिप्रवृत्तेः प्राग्व्याप्तिग्रहाभावेन केवलानुमानैरीश्वरसाधनं निराकर्तुमिदमधिकरणमासमाप्त्येकमित्याह ॥ ४१ ॥ इति सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥ उत्पत्त्यसंभवात् ॥ ४२ ॥ अधिकरणप्रयोजनमाहुः भागवतेत्यादि । ननु श्रुत्यविरुद्धा स्मृतिः प्रमाणमिति स्थितिः । पञ्चरात्रे च परमात्मा वासुदेव एव जगत उपादानं निमित्तं चोच्यते । योगश्च तत्प्राप्त्युपाय उपदिश्यते । अभिगमनोपादानेज्यास्वाध्याययोगै- र्भगवन्तं वासुदेवमाराध्य क्षीणक्लेशस्तमेव प्रतिपद्यत इति । अयं च सर्वोपि प्रपञ्चः श्रुति- प्रसिद्ध एवेति कुतो निराकरणमित्याशङ्कायां तमंशं स्फुटीकुर्वन्ति ते चेत्यादि । चतुर्व्यूहो- रश्मिः । गुणत्रयातिरिक्तयोगस्येश्वरेऽनङ्गीकारात् । नाद्या । लक्षणं स्वरूपं तु इन्द्रियसंबद्धविशेष्यकज्ञाने प्रकारीभूतं गृहीतम् । तत्रेन्द्रियसंबद्धेत्यत्रेन्द्रियसंबन्धश्च लौकिको गृहीत इत्यप्रसक्तेः । या द्वितीया सुरभिचन्दनमित्यत्र सौरभस्य सामान्यलक्षणया ग्रहणात्सुरभित्वग्राहिका सा तु भवेत्परं व्याप्तिं प्रति- रुन्ध्यादिति । तस्मादिति भाष्यं विवृण्वन्ति स्म तस्मादिति । अन्तवत्त्वदोषवारणेऽपि विभुत्वनित्यत्वा- भ्यामसर्वज्ञता दोषान्तरसंभवात् । इतीति तर्काप्रतिष्ठानसूत्रात् समाप्तावितिः । केवलेति एतादृश- निराकरणपरां तामाहेतीत्यन्वयः । इतिः शैवोक्तिसमाप्तौ । पूर्वेति पूर्वाचार्योपदर्शितानामाचाराणाम् । सांख्येति रचनानुपपत्तिसूत्रानूदितेन । श्रुतीति 'यतो वा इमानि' इति श्रुतिप्रवृत्तेः प्रागित्यर्थः । व्याप्तीति यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वमिति व्याप्तिस्तस्या ग्रहाभावेन । केवलेति क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवदित्याद्यनुमानैरीश्वरसाधनं तन्निराकर्तुम् । आ- समाप्तीति समाप्तिमभिव्याप्येत्यासमाप्ति ॥ ४१ ॥ इति सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥ उत्पत्त्यसंभवात् ॥ ४२ ॥ स्थितिरिति पूर्वतन्त्रे मर्यादा । अभीति अभिगमनं ज्ञानं ज्ञानपादे । उपादानेज्या क्रियापादचर्यापादयोः । स्वाध्याययोगो योगपादे । तमिति 1288

त्पत्तिमिति चतुर्भ्यो व्यूहेभ्य उत्पत्तिम् । तथाचायमंशो निराकार्य इत्यर्थः । ननु 'एकोऽहं बहु स्याम्' इति, 'स एकधा भवति' इत्यादिश्रुतावेकस्यानेकव्यूहता 'तस्माद्वा एतस्मात्' इत्यादौ क्रमसृष्टिश्च श्रावितेवेति किमत्र विसंवादस्थानमित्यत आहुः तत्रेत्यादि । अन्यान्यत्वमिति अन्वयोः प्रद्युम्नानिरुद्धयोरन्यत्वं जडत्वम् । तथा च श्रुतौ यत्रानेकव्यूहतोक्ता, न तत्रोच्च- नीचत्वम् । यत्रोच्चनीचत्वं बोधितम्, तन्न नानेकव्यूहता । इह तु साम्यमुच्चनीचत्वं चोच्यते । अथवा यत्रानेकव्यूहता तत्र सा । अत्र तूभयमेकत्रेति विसंवादस्थानमित्यर्थः । ननु 'आसीनो दूरं व्रजति' इत्यादौ विरुद्धधर्माश्रयत्वस्य ब्रह्मणि सिद्धत्वाद्, 'अजायमानो बहुधा विजायते' इति श्रुत्यानेकव्यूहतायामप्युत्पत्तेः श्रावणाच्च नात्रापि श्रुतिविरोध इत्यत आहुः

११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४४ न च कर्तुः करणम् ॥ ४३ ॥ कर्तुः संकर्षणसंज्ञकाज्जीवात् प्रद्युम्नसंज्ञकं मन उत्पद्यते इति । तल्लोके न सिद्धम् । न हि कुलालाद्दण्ड उत्पद्यत इति । चकारादग्रिमस्य निराकरणम् ॥४३॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ अथ सर्वे परमेश्वरा विज्ञानादिमन्त इति तथा सति तदप्रतिषेधः । ईश्वराणामप्रतिषेधः । अनेकेश्वरत्वं च न युक्तमित्यर्थः । वस्तुतस्तु स्वातन्त्र्यमेव दोषः ॥ ४४ ॥ भाष्यप्रकाशः । एवं संशोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः । कापालं लागुडं वामं भैरवं पूर्वपश्चिमम् । पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः' इति । साम्बपुराणे च । 'पाञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान् समुद्दिश्य कमलापतिरुक्तवान्' इति वाक्यात्तत्तोऽंशस्य बुद्धिपूर्वकमेव तत्र स्थापनात् । अतो न कश्चिद्दोषः ॥ ४२ ॥ न च कर्तुः करणम् ॥ ४३ ॥ अग्रिमस्येति अहंकारस्य । अत्रापि लोकश्रुत्योर्विरोध एव दोषः । स्फुटमन्यत् ॥ ४३ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ पक्षान्तरं प्रतिक्षिपतीत्याहुः अथे- त्यादि । विज्ञानादिमन्त इति विज्ञानैश्वर्यशक्तिबलवीर्यतेजःप्रभृतिपारमेश्वरधर्मान्विताः । अप्रतिषेधः अनियमनम् । शेषं स्फुटम् ॥ ४४ ॥ रश्मिः । 'पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्' इति मोक्षधर्मे वाक्यात् । स्थापनादिति भगवता स्थापनात् । दोष इति अत्र नेत्युत्तरसूत्रादनुकृष्यते मण्डूकप्लुत्या वा पूर्वसूत्रादनुवर्तते । पञ्चरात्रोक्तजीवोत्पत्तिर्न उत्पत्त्यसंभवादिति सूत्रार्थः ॥ ४२ ॥ न च कर्तुः करणम् ॥ ४३ ॥ अहमिति अनिरुद्धरूपस्य मनोभेदत्वात् । लोकेति लोको भाष्योक्तनिमित्तानिमित्तोत्पत्त्यभावः 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतिः । तयोर्विरोधः । दोष इति । अतो निराकरणमिति भावः । स्फुटमिति भाष्ये मनः इति करणस्य व्याख्यानमित्येवं स्फुटमित्यर्थः ॥ ४३ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ पक्षान्तरमिति वासुदेवात्परब्रह्मणः संकर्षणो नाम जीव इत्याद्युक्तपक्षादन्यं पक्षम् । एषामीश्वरत्वं सर्वेषामित्युक्तम् । स चात्र सूत्रे वाशब्देन द्योत्यते । आदिशब्दार्थं वक्तुमाहुः विज्ञानेति । एते तत्र प्रसिद्धाः । शेषमिति । भाष्ये तथा सतीति एवंविधे विज्ञानादिभावे इत्यर्थः । न युक्तमिति 'एकमेवाद्वितीयं ब्रह्म' इति श्रुतेर्न युक्तमित्यर्थः । ननु युक्तं 'निरञ्जनः परमं साम्यमुपैति' इति श्रुतेः सार्ष्ट्यादिश्रुतेश्चेत्याहुः वस्तुतस्त्विति । सत्यं साम्यं न स्वातन्त्र्यं भगवन्नियम्या एवेत्युपपादितमैतरेये । अत्र तु स्वातन्त्र्यमिति दोष इत्यर्थः । एवकारेणेश्वरत्वं न दोष इत्युक्तम् । एवं शेषं स्फुटमित्यर्थः ॥ ४४ ॥ 1290

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११9 विप्रतिषेधाच्च ॥ ४५ ॥ बहुकल्पनया वेदनिन्दया च विप्रतिषेधः । चकाराद् वेदप्रक्रियाविरोधः ४५ इति द्वितीयाध्याये द्वितीयपादे अष्टमं उत्पत्त्यसंभवादित्यधिकरणम् ॥ ८ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ २ ॥ भाष्यप्रकाशः । विप्रतिषेधाच्च ॥ ४५ ॥ बहुकल्पनेत्यादि प्रद्युम्नरूपं मनोऽनिरुद्धोऽहंकार इति करणत्वमहंकारत्वं चाभिधाय सर्व एते वासुदेवा आत्मान एवेति परमेश्वरत्वादिकल्पनया, शाण्डिल्यश्चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा इदं शास्त्रमधीतवानित्यादिरूपया वेदनिन्दया च स्वोक्त- विरोधो वेदविरोधश्चेत्यर्थः । वेदप्रक्रियाविरोध इति तप्तचक्रादिधारणरूपसाधनप्रकारविरोधः॥८॥ एवं च मोक्षधर्मे नरनारायणीये 'सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥ सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ॥ अपान्तरतमश्चैव वेदाचार्यः स उच्यते । प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥ उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः । ऊचिवानिदमव्यग्रो ज्ञानं पाशुपतं शिवम् ॥ पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । सर्वेष्वपि नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ यथागमं यथान्यायं निष्ठा नारायणः प्रभुः । न चैनमेवं जानन्ति तमोभूता विशांपते ॥ रश्मिः । विप्रतिषेधाच्च ॥ ४५ ॥ एत इति संकर्षणादयः । इत्यादीति आदिशब्देन पञ्चापि शास्त्राणि रात्रियन्तेऽत्रेति वेदनिन्दा । पञ्च शास्त्राणि तु वेदवेदान्तसांख्ययोगपशुपतिरूपाणि । विप्रति- षेध इत्यस्यार्थमाहुः स्वोक्तेति स्वोक्तस्य सर्व आत्मानः इत्यस्य विरोधे गौरवप्रसङ्गात् । वेदेति वेदेषु परं श्रेयोऽलब्ध्वेति वचनाद्वेदविरोधश्चेत्यर्थः । तप्तेति तच्च 'अतप्ततनूर्न तदामोऽश्नुते' 'गोविन्दु ईप्स आयुधानि बिभ्रत्' 'चरणं पवित्रम्' 'प्रतद्विष्णोः' 'अब्जचक्रे सुतसे' इति श्रुतिषु वर्तते । तत्राद्यास्तिस्रस्तु भगवल्लीलाबोधिकाः । चतुर्थी अप्रसिद्धापि पाद्मवाक्यादस्ति । न च 'शङ्खचक्रादिकं धार्यं मृदा पूजाङ्गमेव तत्' इति निबन्धविरोध इति शङ्क्यम् । तप्तचक्रादिधारणस्यापि पूजामात्राङ्गत्वेन पूजा- व्यक्ततापरिहारार्थत्वात्तस्य मृदा धारणेऽपि सिद्धे ब्राह्मणसाधारणमृदैव धारणात् । तप्तादिधारणे तु द्विजकर्मणि तन्नाशयितुमशक्यत्वेनानधिकारप्रसङ्गात् । एतच्च शङ्खचक्रादिधारणवादे एतैः स्फुट- मुक्तम् ॥ ८ ॥ इति श्रीति । अत्र पादस्तर्कपादः ब्रह्मसूत्रपुस्तके तथोल्लेखात् । भाष्ये-आकस्मिकैच्छिकमतनिराकरणवारणाय प्रमाणान्याहुः एवं चेति । वेदा इति वेदान्ता अपि वेदशब्देन संगृहीताः । तथा च षट् शास्त्राणि व्यवस्थापितानीति नाकस्मिकैच्छिकत्वमिति भावः । नानामतानि भगवत्क्रीडासाधनानि । अन्यानि प्रपञ्चरूपाणीति वा इत्युक्तम् । तेन नानामतानां विरोधनिरकरणं पञ्चसु शास्त्रेषु विचारितेषु भवतीति तानि गृहीतानि । शाक्तत्वाय कर्तृशुद्धिमाहुः सांख्यस्येति अपान्तरतमश्चावान्तरप्रलयाधारत्वमुत्पत्तिमत्त्वं च पुरातन इत्यर्थः । प्राचीनेति वेदगर्भम् । यथागममिति प्रकृत आगमा विषयवाक्यानि । न्यायाः सूत्राणि । निष्ठा 1291

१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४५ भाष्यप्रकाशः। तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिणः। निष्ठां नारायणमृषिं नान्येऽस्तीति वचो मम । निःसंशयेषु धर्मेषु नित्यं संवसते हरिः। ससंशये तु बलवान्बाध्यावसति माधवः ॥ पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ सांख्यं च योगश्च सनातनं वै वेदाश्च सर्वे निखिलेन राजन् । सर्वैः समस्तैऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम्' ॥ इति सर्वेषां भगवत्परत्वं वदतां पञ्चरात्रविदां भगवत्प्राप्तिं च वदताम् । 'सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः' इति च वदतामपि वाक्यानां न विरोधः । 'अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंशः श्रुत्येकशरणैर्नृभिः । जैमिनीये चे'ति पराशरोपपुराणीयवाक्योक्तस्य श्रुतिविरुद्धांशस्य कौर्मादिवाक्योक्तस्य विमोहनांशस्य च दूषणमुखेनात्र स्फुटीकरणात् । बहुषु भाष्येष्वेवं व्याख्यानदर्शनेन प्राचीन- रश्मिः। पराकाष्ठा भक्तिर्वा । अभेदान्वयात्सर्वात्मभावः । भूमत्वान्नारायणसर्वात्मभावयोरिति भूमत्वेनाभेदात् । ऋषिमिति सप्तर्षिरूपम् । संसंशय इति । संशयान्हेतुबलानिति क्वचित्पाठः । एकान्तेति निश्चितां भक्तिमुपगताः । वेदाश्चेति पूर्ववेदेदान्तसंग्राहकाः । निखिलेनेति अङ्गेन । विश्वमिति सर्वम् । सर्वेषां शास्त्राणाम् । वेदा इति पूर्ववत् । वदतामिति प्रामाण्यं वदताम् । न विरोध इति आकस्मिकैच्छिकतानिवारकत्वात् । श्रुतिविरुद्धांशत्यागः उक्तः तत्र प्रमाणमाहुः अक्षपादेति तेन प्रच्छन्नबौद्धानां स्मृत्युक्तानां बाह्यानां च स्मारणात्तत्रापि श्रुतिविरुद्धोंशस्त्याज्यः सर्वं चेत्सर्वमि- त्युक्तम् । जैमिनीय इति । न चास्य 'जैमिनीये च वैयासे न विरोधोऽस्ति कश्चन' इत्युत्तरान्वयेतेति- वाच्यम् । निरीश्वरजैमिनीयस्य पूर्वान्वयितायाः । जैमिनीये विरुद्धांशो हि शब्दमयी देवता प्रातिपदि- कार्थस्तु यः कश्चिदिति साध्यार्थपरता वेदस्येति च । न च 'भावार्थाः कर्मशब्दा' इत्यत्र व्याख्यानतो विशेषप्रतिपत्तेः कुतो वेदविरोध इति शङ्क्यम् । व्याख्यानस्य निरीश्वरार्थत्वात् । श्रुतिविरुद्धेति इदमुपलक्षणं श्रुतिविरुद्धांशस्य । कौर्मादीति । इमानि वाक्यानि 'उत्पत्त्यसंभवात्' इति सूत्रसभायावुक्तानि । रामानुजाचार्यास्तु पञ्चरात्राप्रामाण्यमाशङ्कयात्र तन्निराक्रियत इत्याहुस्ते च प्राचीनवृत्त्यनुसारिण इत्यमुत्पत्त्यसंभवसूत्रोक्तोंशोऽप्यप्रत्याख्येय इत्यत आहुः बहुष्विति । एतादृशेति प्राचीनवृत्तिरेतादृशव्याख्यानवती बहुषु भाष्येष्वेवं व्याख्यानदर्शनात् । अत्रैतादृश- सूत्रव्याख्यानं साध्यम् । तत्कार्यं दर्शनं हेतुः ।'लाघवात् । साध्यं हेतुविषयः । एतादृशसूत्रव्याख्यान- दर्शनमिति । भाष्यवत् । अत्र पक्षे साध्यहेतुमयाभावाद्वैत्वाभासत्वम् । 'पक्षे साध्याभावो बाधः' । यथा गौरश्वत्वात् । 'पक्षे व्याप्यत्वाभिमतस्याभावः स्वरूपासिद्धिः' । यथा ह्रदो द्रव्यं धूमादिति । तदुभयात्मकोऽयं हेत्वाभासः । अत्रोच्यते । हेतावेतादृशशब्दस्य सूत्रव्याख्यानादिभिः सदृशमित्यन्यथा- व्याख्यानविशेषणं तद्वत्त्वं प्राचीनवृत्तावस्तीति न हेत्वाभासत्वम् । न चास्मिन्ननुमाने साध्यसिद्धिः प्रतिबन्धिकेति वाच्यम् । सिषाधयिषाया उत्तेजिकायाः सत्त्वात् । यथा महानसो वह्निमानित्यनुमितिः । तेनेति । श्रुतिसूत्रस्मृतिविमर्शेन । षट्सु द्वयोरङ्गाङ्गिभाव उक्ते जिज्ञासाधिकरण एवेति चतुर्णां 1292

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१ भाष्यप्रकाशः । वृत्तिष्वप्येतादृशव्याख्यानानुमानात् । तेनात्रेर्दं निष्पन्नम् । सांख्ये हि प्रकृतिपुरुषपर्यन्तता निरीश्वरता च श्रुतिविरुद्धा । सेश्वरसांख्ये च तदैश्वर्यस्य प्रधानाधीनता केवलनिमित्तता । तथैव योगेपि । तदननुसंधाय तत्र प्रवृत्तानां जीवन्मुक्तताभवनोत्तरमपि पातः । तयोर्भगवन्निष्ठताया अज्ञानात् । तदत्रैवोक्तं, न चैनमित्यर्द्धेन । दशमस्कन्धे च । 'येन्येऽरविन्दाक्ष विमुक्तमानिनस्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः' इति । तयोर्भगवत्परत्वज्ञाने तु देवहूतिवत्कृतार्थता । तदप्युक्तं द्वितीयस्कन्धे । 'जज्ञे च कर्दमगृहे द्विजदेवहूत्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे

१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४५ भाष्यप्रकाशः। तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे । संपूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् । ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमः' इति । एवं पञ्चरात्रेपि यो विरुद्धांशस्तदननुसंधाने विमोहकत्वान्न मुक्तिः । तदनुसंधाय तदंशत्यागे तु तदुक्तसाधनपाकेन साक्षादेव मुक्तिः 'पञ्चरात्रविदः' इति मोक्षधर्मीयवाक्यात् । अतो न कस्यापि वाक्यस्यास्मिन् प्रकारे विरोध इति सर्वं सुस्थम् । रामानुजाचार्यास्तु आद्यं सूत्रद्वयं पूर्वपक्षसूत्रत्वेनाभिधाय, विज्ञानादीति सूत्रद्वयं सिद्धान्तीत्येवनाभिधायैवं व्याचक्रुः । वाशब्दः पक्षविपरिवर्तनार्थः । विज्ञानं च आदि चेति विज्ञानादि परं ब्रह्म । संकर्षणप्रद्युम्नानिरुद्धानां परमब्रह्मभावे परमब्रह्मरूपत्वाङ्गीकारे तदप्रति- षेधः । पञ्चरात्रप्रामाण्याप्रतिषेधः । विप्रतिषेधात् । अस्मिन्नपि तन्त्रे जीवोत्पत्तेर्विशेषेण प्रति- षेधाच्च नास्याप्रामाण्यमिति । एवं व्याख्याने प्रमाणत्वेन पञ्चरात्रस्थवाक्यान्यप्युदाजह्रुः शाण्डिल्याख्यत्वासंबन्धिनीं निन्दां च, 'न हि निन्दा'न्यायेनानुदितहोमनिन्दावत् पञ्चरात्र- प्रशंसातात्पर्यकामूचुः । रश्मिः। वाक्याच्छिवभक्तिः । केशवे इति कभेशश्च केशौ तयोर्वा सुखं यस्मादित्यलौकिकी व्युत्पत्तिः । लौकिकी तु व्याकरणे केशाः सन्त्यस्येति । पञ्चरात्रेति । 'पञ्चरात्रविदो ये तु यथाक्रमपरानृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वा' इति । पूर्वपक्षेति स्वसिद्धान्तः । द्वितीयसूत्रार्थोऽपि पूर्वपक्षार्थः । तादृशसूत्रत्वेनेत्यर्थः । द्वितीयसूत्रोपन्यासपूर्वकं व्याख्यानमाहुः विप्रतीति । अस्मि- न्निति पञ्चरात्रे । प्रतिषेधादिति । यथोक्तं परमसंहितायाम् । 'अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते । व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च । स ह्यनादि- रनन्तश्च परमाथैन निश्चितः' इति वाक्यैः पञ्चरात्रस्यैः । एवमिति सर्वांशे प्रामाण्यव्याख्याने । पञ्चरात्रस्येति तान्युक्तानि । अपिशब्देन भारतशास्त्रम् । तद्वाक्यानि तु मोक्षधर्मे ज्ञानकाण्डे 'गृहस्थो ब्रह्मचारी च वानप्रस्थोथ भिक्षुकः । य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः' इत्यारभ्य महता प्रबन्धेन पञ्चरात्रप्रक्रियां प्रतिपाद्य 'इदं शतसहस्राद्धि भारताख्यानविस्तरात् । आविक्ष मति- मन्थानं दध्नो घृतमिवोद्धृतम् । नवनीतं यथा दध्नां द्विपदां ब्राह्मणो यथा । आरण्यकं च वेदेभ्य औषधिभ्यो यथाऽमृतम् । इदं महोपनिषदं चतुर्वेदसमन्वितम् । सांख्ययोगकृतान्तेन पञ्चरात्रानु- शब्दितम् । इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् । ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा । भविष्यति प्रमाणं वै एतदेवानुशासनम्' इति । शाण्डिल्येति साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रमधीतवानिति वेदनिन्दा ताम् । नहीति नहि निन्दा निन्दितुं प्रवर्ततेपि तु विधेयं स्तोतुमिति न्यायेन । अनुदितेति 'प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्' इति श्रुतिः । ऊचुरिति । स्मार्गे तु 'भक्त्या प्रसन्ने तु हरौ तं योगेनैव योजयेत्' इति तृतीयस्कन्ध- निबन्धादुक्त्या प्रसन्ने हरौ सति पश्चादस्मार्थस्म योगः 'आसीज्ज्ञानमयो ह्यर्थः' इति सांख्ये श्रीभागवतात् । सांख्ययोगयोश्चैक्यात् । ज्ञानं सत्यानन्तयोरुपलक्षकम् । अङ्गीचक्रुरिति । सूत्रव्याख्यातुः स्वकिपक्षं दूषयति उत्पत्तीति । नहि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते । न 1294

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३ भाष्यप्रकाशः। मध्वाचार्यास्त्वेतत्सूत्रचतुष्टयं शाक्तमतनिराकरणार्थत्वेनाङ्गीचक्रुः । तथा चात्र वेदविरुद्ध- द्धानां स्मृतीनामप्रामाण्यान्न ताभिः स्वतः किंचित् फलमिति सिद्धम् ॥ ४५ ॥ इत्यष्टममुत्पत्त्यसंभवादित्यधिकरणम् ॥ ८ ॥ इति श्रीमद्वल्लभाचार्यचरणनलिनचञ्चरीकनिरस्तहृदयध्वान्तस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ २ ॥ रश्मिः । न कर्तुः करणम् । यदि पुरुषोङ्गीक्रियते तत्रापि करणाभावात्तदनुपपत्तिः । विज्ञानादिभाव इति । यदि विज्ञानादिकरणं तत्राङ्गीक्रियते तदा तत एव सृष्ट्याद्युत्पत्तेरीश्वरवादान्तर्भावः । विप्रतिषेधाच्च सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसमिति भाष्यम् । अत्रेति संपूर्णपादे । अप्रामाण्यादिति अंशेन सर्वांशेन चेत्यर्थ

प्रस्तुत पृष्ठ पूर्णतः रिक्त (कोरा) है। इसमें कोई पाठ (Text) अथवा सूत्र/भाष्य अंकित नहीं है, केवल एक छोटा-सा बिंदु/चिह्न दिखाई दे रहा है। अतः प्रतिलेखन के लिए कोई सामग्री उपलब्ध नहीं है।

श्रीकृष्णाय नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । शुद्धाद्वैतब्रह्मवादनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि- श्रीमद्वल्लभाचार्यचरणप्रणीतम् । दशदिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत- भाष्यप्रकाशसम्पूर्णवेत्तृश्रीमद्गोस्वामिश्रीगोपेश्वर- जिचरणप्रणीतभाष्यप्रकाशरश्मिपरिवृंहितम् । द्वितीयाध्यायस्य तृतीय-चतुर्थ-पादौ । 'भगवद्धर्मपरायणसद्गतशेठिगोवर्धनदास सुन्दरदास' इत्यस्य पुष्टिमार्गीय- संस्कृतसाहित्यसमुद्धारार्थं निर्दिष्टद्रव्यसंग्रहतः 'प्राप्तभगवत्पद- मूळचन्द्र तुलसीदास तेलीवाला, बी. ए., एल्एल्. बी., वकील, हाइकोर्ट' इत्येतेषां सुहृद्भिः संशोध्य 'निर्णयसागर' मुद्रणालये मुद्रयित्वा प्रकटीकृतम् । श्रीवल्लभाब्दाः ४५४. संवत् १९८९. मूल्यं रूपकत्रयम् ।