भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ४ सू० २६ निराकृतो वेदितव्यः । प्रथमाध्याय एव तन्मतमनूद्य विस्तरेण निराकृतमिति नात्रोच्यते ॥ २६ ॥ भाष्यप्रकाशः। पञ्चमस्कन्धीयेषु जडभरतवाक्येषु, 'अयं जनो नाम चलन् पृथिव्याम्' इत्यनेनावयवित्वमभिमा- नमात्रादेवेत्युक्त्वा, 'एवं निरुक्तं क्षितिशब्दवृत्तमसंविधानात् परमाणवो ये । अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः' रश्मिः। इत्युक्तेः । 'असत्कुलं निष्कलं श्रीकृष्णैनात्मसात्कृतम्' इति स्तोत्रे । पुष्टौ तु द्वादशाध्यायोक्ता 'वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः' इत्युक्ताः । सर्वात्मभावे मर्यादायामम्बरीषप्रभृतयः । पुष्टौ व्रजरजप्रभृतयः । सलक्षणं च तै

" -> "-त्तमाधिकारस्तेन"! When hyphenated at line break: Line 15: "...मुक्तत्वाद्दु-" (or "...मुक्तत्वात्तु-" with 'त्तु' or 'दु') Line 16: "त्तमाधिकारस्तेन तथा ।" Wait! If it was "मुक्तत्वात्" + "उत्तमाधिकारः", it would be "मुक्तत्वादुत्तमाधिकारः"! If line 15 ends with 'दु-', then line 16 starts with 'त्तमाधिकारस्तेन'! Wait, why double 'त' in "त्तमाधिकारस्तेन"? Because in "मुक्तत्वादुत्तमाधिकारः", the letters are: मु - क्त - त्वा - दु - त्त - मा - धि - का - रः ! Look at line 16: the first akshara has double 'त' with 'ा' matra: "त्तमा..."! Wait, where is the 'उ'? It's at the end of line 15! Look at line 15 end: "...मुक्तत्वाद्" + 'उ'? Look at the very last character of line 15: It is 'उ'! Or is it 'दु'? Wait, look at the character: it curves like 'उ' or 'द्दु'? It looks like 'उ'! Wait, let's look at the character before it: '...त्वाद्' then 'उ'? Let's look: म ->

८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० २ पा ० २ अ ० ५ सू ० २८ उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ यद्यभावाद् भावोत्पत्तिरङ्गीक्रियते तथा सत्युदासीनानामपि साधनरहि- तानां सर्वोऽपि धान्यादिः सिद्ध्येत । अभावस्य सुलभत्वात् ॥ २७ ॥ इति द्वितीयाध्याये द्वितीयपादे चतुर्थं समुदाय उभयहेतुकेपीत्यधिकरणम् ॥ ४ ॥ नाभाव उपलब्धेः ॥ २८ ॥ (२-२-५) एवं कारणासत्त्वं निराकृत्य विज्ञानवाद्यभिमतं प्रपञ्चासत्त्वं निराकरोति । भाष्यप्रकाशः इत्यनेन पूर्वोक्तज्ञानस्य मोहनिवारकत्वमुक्त्वा श्रुत्यादिसिद्धभगवच्चेष्टाकथनश्रवणाभ्यां मुख्यज्ञानलाभं भगवत्प्राप्तिरूपां मुक्तिं चाह, न तु पूर्वोक्तरीतिकज्ञानेनेति न कोऽपि विरोध इति बोध्यम् ॥ २६ ॥ उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ उदासीनानामपि साधनरहिताना- मिति कृष्यादिकर्मतत्साधनीभूतहलादिसाधनशून्यानाम् । निगदव्याख्यातमिदम् ॥ २७ ॥ ४ ॥ इति चतुर्थमुभयहेतुकेपीत्यधिकरणम् ॥ ४ ॥ नाभाव उपलब्धेः ॥ २८ ॥ द्वाभ्यां वैभाषिकसौत्रान्तिकयोर्मते निराकृते विज्ञानवाद्यपि कारणांशे निराकृत एव । तथापि कार्यांशे तन्मतं पूर्वस्माद् विलक्षणमिति तन्निराकरण- मातनोतीत्याशयेनाहुः एवं कारणेत्यादि । विज्ञानवाद्येव योगाचार इत्युच्यते । तत्स्वरूपं भास्कराचार्यैरुक्तम् । 'शमथविपश्यनायुगनद्धवाही मार्गो योगः' इति तेषां योगलक्षणम् । शमथः समाधिरुच्यते । विपश्यना सम्यग्दर्शनम् । यथा युगनद्धौ बलीवर्दौ वहतस्तथा यो मार्गः सम्यग्दर्शनवाही स योगस्तेनाचरतीति योगाचार इति । तेषां सम्यग्दर्शनं च सर्वं बाह्या- र्थशून्यं विज्ञानमेव, सर्वं क्षणिकं सर्वं निरात्मकमिति । तत्र सर्वक्षणिकत्वं, विज्ञानस्कन्धस्य क्षणिकत्वात् । निरात्मकत्वमालयविज्ञानातिरिक्तात्माभावात् । बाह्यार्थशून्यत्वं तु ज्ञानस्यैव साका- रत्वात् । तत्साकारत्वं तु ग्राह्यग्राहकसंविचिभेदेनै कस्यैव प्रत्यक्षतया प्रकाशमानत्वात् । न चैवं त्रिधा प्रकाशनेपि नानात्वम् । प्रमदातनुवदुपपत्तेः । तदुक्तम् रश्मिः। मुख्येति 'लब्धस्मृतिः' इत्यनेन । भगवत्प्राप्तीति 'अध्वनोऽन्तं पारं याति' इत्यनेन । आहेति ब्राह्मण आह । पूर्वोक्तेति कारणतत्त्वबोधेन । तथा च यदर्थं प्रवृत्तस्तेनैव मुक्तिरिति भावः । न कोपीति सप्तमस्कन्धे पञ्चदशे 'अबाधितोपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्धर्यविकल्पितम्' इत्यादिनावयवखण्डनं तत्राप्येवं न्यायः प्रचरतीति न कोपीत्यर्थः ॥ २६ ॥ उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ निगदेति सिद्ध्येतेति छान्दस आत्म- नेपदं, सिद्ध्येत् ॥ २७ ॥ इति चतुर्थमुभयहेतुकेत्यधिकरणम् ॥ ४ ॥ नाभाव उपलब्धेः ॥ २८ ॥ विलक्षणमिति प्रपञ्चानन्यत्वं प्रपञ्चस्य विज्ञानानन्यत्वम् । वहत इति रथम् । सम्यगिति सम्यग्दर्शनस्य वाही । तत्रेति सर्वविज्ञाने । ग्राह्येति ग्राह्य- ग्राहको विषयेन्द्रियात्मा रूपस्कन्धः संवित्तिर्विज्ञानस्कन्धस्तयोर्भेदे नैकस्य विज्ञानस्कन्धस्य । प्रमदेति 1260

..." what is the end? Let's read: "विज्ञानस्कन्धस्वरूपांशावयवस्तम् ।" or "वयवत्वम् ।"? Look at the letters: 'वि' 'ज्ञा' 'न' 'स्क' 'न्ध' 'स्व' 'रू' 'पां' 'शा' 'व' 'य' 'व' 'स्त' 'म्' or 'त्व' 'म्'? Look at the last ligature before 'म्': It has 'त' and 'व' = 'त्व'! Yes, "वयवत्वम् ।"!

बाह्यतया स्तम्भादितया । स्वप्नादीति । बहिर्गृह्णन्तीत्यनेनान्वेति । मिथ्यात्वं चेति । अनेन

शुक्तिरजतदृष्टान्तोऽपि स्फुटीकृतः । उपलब्धेरिति भाष्यस्योपलम्भिविषयत्वादित्यर्थात्प्रपञ्चस्य । सतो Wait, look at "भाष्यस्योपलम्भिविषयत्वादित्यर्थात्प्रपञ्चस्य" vs "भाष्यस्योपलब्धिविषयत्वादित्यर्थात्प्रपञ्चस्य": In L28: 'भा' 'ष्य' 'स्यो' 'प' 'ल' 'म्भि' ... wait, is that 'म्भि' or 'ब्धि'? Wait, the sutra is "उपलब्धेः"! In L26: "उप

९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ५ सू० २८ यस्तूपलभमान एव नाहमुपलभ इति वदति स कथमुपादेयवचनः स्यात् ॥ २८ ॥ भाष्यप्रकाशः। पपत्तये बाह्यार्थापेक्षा तसावश्यमभ्युपेया । तथा सति सिद्ध एव बाह्योऽर्थः प्रपञ्चरूपः । सहोपलम्भनियमादभेदस्तु सहपदार्थविचारादेवासंगतः । सहत्वं हि द्वयोर्भिन्नयोः पदार्थयो- रेकदेशवर्तित्वमेककालवर्तित्वं वा । उभयथापि हेतुतावच्छेदकतया प्रविष्टे पदार्थान्तरे भिन्नोपलम्भनियमादित्येव हेत्वर्थो भवति । तदेवं प्रतिज्ञाहेत्वोर्विरोधे यदि हेतुरादरणीयस्तदा प्रतिज्ञाबाधः । यदि प्रतिज्ञादरणीया तदा साधकं विना तदसिद्धिः । किंचाभेदोऽपि किमेकत्वमुत भेदाभावः । आद्येपि संख्या वा धर्मान्तरम् । आद्ये नीलतद्धियोरेकत्वसंख्याविशिष्टत्वमित्यर्थो भवति । तेन न बा

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९१ वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥ ननूपलब्धिमात्रेण न वस्तुसत्त्वम् । स्वप्नमायागन्धर्वनगरेष्वन्यथादृष्टत्वादितिचेत् न । वैधर्म्यात् स्वप्नादिषु तदानीमेव स्वप्नान्ते वा वस्तुनोऽन्यथाभावोपलम्भात् । न तथा जागरिते । वर्षानन्तरमपि दृश्यमानः स्तम्भः स्तम्भ एव । खस्य मोक्षे प्रवृत्तिसिध्याघातश्चकारार्थः ॥ २९ ॥ भाष्यप्रकाशः। पलभ इति वदति स कथमुपादेयवचनः स्यादिति । उपलभन्नेवेति पाठे तु औणादिको- ऽतिप्रत्ययः । उणादीनां सर्वधातुभ्यो भवनात् । 'वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च' इति शतृ- वद्भावाच्चानुम् । 'संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु' इति भाष्यानुशासनात् ॥ २८ ॥ वैधर्म्याच्च न स्वप्नादिवत् ॥२९॥ पूर्वसूत्रोक्तस्य हेतोरनैकान्तिकत्वं वारयितुं तद्दृष्टान्ता- संगतिं वदतीत्याशयेन सूत्रमुपन्यस्य व्याकर्तुमवतारयन्ति नन्वित्यादि । अन्यथा रश्मिः। एवातिप्रत्ययान्ता निपातिता इति कथं लभधातोरतिप्रत्यय इत्यत आहुः संज्ञास्विति । अनूबन्धमिति 'उपसर्गस्य घञ्यि'ति दीर्घः । शास्त्रमिति अनुशासनीयमित्यर्थः । तथाचोपलभेरुदात्तेतश्चातिर्नुम् । इति लभधातुरतिप्रत्ययः शतृवदिति उपलभन्निति भाष्यप्रयोगरूपकार्याद्विद्यादिति साधुरित्यर्थः । किंच रखेः क्युन्निति रखेर्विहितः क्युन् कृपेरपि दृश्यते कृपण इति । तथा पृषदादिभ्यो निपातितः शतृवदित

भाष्यप्रकाशः । दृष्टत्वादिति वस्तुसत्त्वस्य दृष्टत्वात् । तथा च पूर्वोक्तो हेतुः साधारण इत्यर्थः । व्याकुर्वन्ति नेत्यादि । तथा च स्वप्नदृष्टजागरितदृष्टयोस्तात्कालिकान्यथात्वतात्कालिकान्यकालिकान्य- थात्वाभावरूपवैधर्म्येण स्वप्नजागरितदृष्टयोस्तुल्यत्वमित्यर्थः । अन्ये तु बाधाबाधाभ्यां दुष्ट- कारणजन्यत्वशुद्धकारणजन्यत्वाभ्यां च वैधर्म्यमाहुः । एवं च मायास्थलेऽप्येतत् तुल्यम् । तत्र रश्मिः । तस्य सौगतस्य यौ दृष्टान्तौ स्वप्नवत् शुक्तिरजतवदिति तयोरसंगतिम् । पूर्वोक्त इति उपलब्धिविषय- त्वहेतुः । साधारण इत्युपलक्षणमसाधारणादीनाम् । सूत्र आदिशब्दो जागरितदृष्टान्तं वक्ति । 'स्वप्नः सुप्तस्य विज्ञाने' इति । षष्ठ्यन्ताद्वतिः तुल्यार्थ इत्याशयेनाहुः स्वप्नदृष्टेति । तात्कालिकान्यथात्वं च तात्कालिकान्यकालिकान्यथात्वाभावश्च तौ ताभ्यां रूप्यते व्यवह्रियत इति तद्रूपं वैधर्म्यम् । तात्कालिकान्यथात्वतात्कालिकान्यकालिकान्यथात्वाभावरूपवैधर्म्यं तस्मादित्यर्थः । इत्यर्थ इति तथा च जागरितस्यादिशब्दार्थत्वेन भाष्ये स्वप्नमायाभ्रमेष्वित्युक्त आदिशब्दार्थो न सिद्धान्ते अपि तु पूर्वपक्ष इति ज्ञापितम् । तथा चोक्तसूत्रार्थादिदं लभ्यते । स्वप्नजागरितदृष्टयोस्तुल्यत्वम् । स्वप्नदृष्टविषयत्वतुल्यं जागरितदृष्टविषयत्वं यदुक्तं तन्न संभवति । भ्रमप्रमाभ्यां विषयभेदात् । तथा च प्रमाविषयत्वस्य हेतुतावच्छेदकत्वान्नोपलब्धित्वेन सामान्यरूपेणोपलब्धिः पूर्वसूत्रे विवक्ष्यते अपि तु प्रमात्वेन रूपेणा- तो न साधारण्य इति । तदित्थम् । प्रपञ्चः असन्, उपलब्धिविषयत्वात्, स्वप्नवदित्यनेनानुमाना- न्तरेण दोषा उद्भावितास्ते न सन्ति स्वप्नादेः सत्त्वरूपसाध्यवदन्यत्वेपि तत्र प्रमाविषयत्वरूपहेतो- रभावान्न हेतोः साधारण्यम् । एवं स्वप्नादौ साध्यासामानाधिकरण्यविरहादसाधारण्यमपि न । एवं स्वप्नमायादौ हेतुमत्ताभावेन तद्वन्निष्ठात्यन्ताभावप्रतियोगित्वाभावात्साध्ये हेतोर्नानुपसंहारित्वम् । किंच संस्तूपलभ्यत इति सत्त्वव्यापकीभूतो हेत्वभाव उपलम्भाभावो न जातः किन्त्वन्याभावस्तादृशभावप्रति- योगी अन्यः । न तूपलब्धिविषयत्वमितीदं न विरुद्धम् । तथा असन् प्रत्ययत्वात्, स्वप्नप्रत्ययवदित्यस्य प्रतिपक्षस्य 'अत्रात्मा स्वयंज्योतिर्भवति' इति श्रुतेरात्मभिन्नस्य विषयस्य मिथ्यात्वेन प्रत्ययत्वहेतोः स्वप्नदृष्टिविषयकज्ञाने साधारण्यमिति न सत्त्वसाध्यकोपलब्धिविषयत्वहेतुकमनुमानं सत्प्रतिपक्षम् । किंच प्रपञ्चे पक्षतावच्छेदकाभावादाश्रयासिद्धत्वं यदुक्तं तत्तु पूर्वसूत्रे एवायमर्थ इत्यादिना बाह्यार्थ- साधनान्निखिले प्रपञ्चे प्रपञ्चत्वमस्तीति न संभवति । एतेन बाह्यार्थसाधनेनैवोपलब्धेर्विषयत्वस्यैव प्रप- ञ्चेऽङ्गीकार्यत्वाज्ज्ञानात्मकत्वाभावेन हेतोः पक्षसत्त्वाच्च व्याप्यत्वासिद्धत्वम् । किंच बाह्यार्थसाधनेन प्रपञ्चस्य सत्त्वात्साध्याप्रसिद्धिरपि नास्ति । तथा प्रपञ्चस्य सत्त्वादेवोपलब्धिविषयत्वस्य हेतुतावच्छेद- कस्य हेतौ सत्त्वाद्बाधसाधनाप्रसिद्धिः । बाधोऽपि नास्ति । प्रपञ्चस्य सत्त्वात् । ब्रह्मकार्यत्वात् । किंच प्रपञ्चः असन्, उपलब्धिविषयत्वात् स्वप्नवदिति । व्याप्यत्वासिद्धम् । कथम् । इत्थम् । मायिकत्व- मुपाधिः । यत्र यत्रासत्त्वं तत्र तत्र मायिकत्वमिति साध्यव्यापकत्वम् । यत्र यत्रोपलब्धिविषयत्वं तत्र तत्र मायिकत्वमिति नास्ति । प्रपञ्चे मायिकत्वाभावात् । तस्माद्विशुद्धं सत्त्वसाधकमुपलब्धिविष- यत्वलिङ्गकमनुमानमिति भावः । अन्ये त्विति शांकररामानुजमाध्वाचार्याः । स्वप्नजागरित- योर्बाधाबाधाभ्याम् । रामानुजाचार्यमते तु विशेषमाहुः दुष्टेति, निद्रादयो दोषाः । आहुरिति । सिद्धान्ते तु निर्हेतुकतात्कालिकान्यथात्वनिर्हेतुकतात्कालिकान्यकालिकान्यथात्वाभावाभ्यां वैधर्म्य- मित्युक्तम् । जागरितदृष्टेऽपि कश्चिदतिदिशन्ति स्म एवं चेति । मायास्थले इति शुक्तिरजतादिस्थले ।

) ये (ye) षाम् (ṣām) तान् (tān)' !!! YES! WOW! LOOK AT IT: पि (pi) - letter with i-matra! हि (hi) - letter 'ha' with i-matra! ता (tā) - letter 'ta' with a-matra! न्य (nya) - 'n' + 'ya'! क्षी (kṣī) णि (ṇi)! "पिहितान्यक्षीणि येषां तान्" = "पिहिताक्षाः" (those whose eyes are covered/closed)! "पिहितानि अक्षीणि येषां तान् = पिहिताक्षान्"!! OF COURSE! पिहित = covered, closed (eyes)! "निषद्धान्यक्षीणि" made no sense in Sanskrit ("निषद्ध" is not a word, "निषिद्ध" means prohibited, eyes are not "prohibited", eyes are "पिहित" - closed/covered in blindman's buff)! That is BRILLIANT! It IS "पिहितान्यक्षीणि"! Let's re-read L1 with this realization: L1: जित्वा बलात्पिहिताक्षान् बटो (or भटो) हरति तद्धनम् ! Wait, let's look at L1: 'जित्वा बलात्पिहिताक्षान्' Look at the characters: ब (ba) ला (lā) त्पि (tpi) हि (hi) ता

९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ५ सू० ३० न भावोऽनुपलब्धेः ॥ ३० ॥ यदप्युच्यते, बाह्यार्थव्यतिरेकेणापि वासनया ज्ञानवैचित्र्यं भविष्यतीति तन्न । वासनानां न भाव उपपद्यते । तन्मते बाह्यार्थस्यानुपलब्धेः । उपलब्धस्य हि वासनाजनकत्वम् । अनादित्वेऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैव । अर्थव्यति- रेकेण वासनाया अभावाद् वासनाव्यतिरेकेणाऽप्यर्थोपलब्धेरन्वयव्यतिरेकाभ्या- मर्थसिद्धिः ॥ ३० ॥ भाष्यप्रकाशः। मात्मांशग्राहि वा न वा। आद्ये तस्य तथात्वे हेत्वन्तराकाङ्क्षा, तत्तद्धेतोरित्यनवस्थानाद- सिद्धिः । द्वितीये तु नीलादिज्ञानैः किमपराद्धं येन स्वानुमाने तथात्वमङ्गीकृत्यापि बाह्यप्र- काशकानि तान्यात्मन्यवरुध्यन्ते । किंच । अज्ञानविपर्ययज्ञानस्य ज्ञानाभाव एव ग्राह्यः । न च ज्ञानाभावस्य ज्ञानात्मता संभवति । अत्यन्तविरुद्धत्वादित्यादीनि बहूनि दूषणान्याहुरित्युपरम्यते । चकारसूचितं दूषणान्तरमाहुः । खस्येत्यादि । प्रवृत्तेरनर्थात्त्वात् तदस्तित्वस्य चानङ्गीकारात् तथे- त्यर्थः । तेन प्रपञ्चस्य न खमादित्यृत्वमिति सिद्धम् ॥ २९ ॥ न भावोऽनुपलब्धेः ॥ ३० ॥ क्षणिकविज्ञानवाद्युक्तं ज्ञानवैचित्र्यहेतुं दूषयतीत्याशयं स्फुटीकुर्वन्ति यदपीत्यादि । अयमर्थः । वासना हि अनुभवजनितः स्मृतिजनकः संस्कारः रश्मिः । घटितं वेद्यत्वं संवित्तिः तस्मात् । स्वसंवित्त्विं हेतुतावच्छेदकम् । एतच्च ग्रन्थे द्रष्टव्यम् । हेतुं विवृणोति स्म बाह्यत्वेति बाह्यत्वघटितग्राह्यलक्षणयोग इत्यत्र ज्ञाने बाह्यत्वेन घटितं ग्राह्यं गोचरस्त- ल्लक्ष्यतेऽनेन ग्राहकेन स ग्राहकः बाह्यत्वघटितग्राह्यलक्षणः तस्य योगो विषयतया संवित्तौ तस्मात्, संवित्तिप्रोक्तज्ञानात् । आदिशब्दार्थो द्रष्टव्यः । अनुमानादिति गृह्यत इति संबन्धः । दृष्टान्तस्तु खम एव । आत्मांशेति बाह्यत्वघटितग्राह्यग्राहि । तस्येति अनुमानं व्याप्तिज्ञानं न तु नीलादि- कम् । ज्ञानात्मांशभूतज्ञानाकार इत्यनुमितिमुद्भाव्य सनाथं न नीलज्ञानात्मांशभूतज्ञानाकारं गृह्णाति विषयीकरोति तस्मादनुमानस्य तादृशात्मांशग्राहित्वे विषयीकरणे हेत्वन्तरस्य परंपरास्वरूपास्याकाङ्क्षा भवति । हेत्वन्तरे परंपरास्वरूपे हेतोरुक्तन्यायाविरोधरूपस्य । यद्वा हेतोरनुमानतयोक्तविकल्पे प्राप्ते पुनः पुनराद्ये तस्य तथात्वे हेत्वन्तराकाङ्क्षा पूर्वोक्तप्रकारेण भवत्येवं तस्य तस्यापीत्यनवस्थानादात्मांशग्रा- हित्वासिद्धिरित्यर्थः । किमपराद्धमिति आत्मांशग्राहित्वे तुल्ये येनापराधेन नीलज्ञानस्य प्राथम्यमप- हतम् । प्रत्यक्षानुमानेत्यादिक्रमाद् एतदेवाहुः येनेत्यादिना । येन अपराधेन । तथात्वं आत्मांशग्रा- हित्वम् । बाह्येति अर्थप्रकाशकानि । तानीति नीलादिज्ञानानि । आत्मनि ज्ञानस्वरूपविषयेऽव- रुध्यन्ते संकुचितानि क्रियन्ते । एवेति भयं ज्ञानात्मकत्वं व्यवच्छिनत्ति । विरुद्धत्वं सहानवस्थाायि- त्वम् । सूचितमिति । तथा च व्यञ्जनया चकारार्थ इति भाष्येर्थः । तदस्तीति आलयविज्ञानास्ति- त्वस्य । तथेति मोक्षार्थी या प्रवृत्तिस्तस्या व्याघातः । चैत्रस्य गुरुकुलमितिवदन्वयः । खमादीति । आदिशब्देन मायाप्रभौ ॥ २९ ॥ न भावोऽनुपलब्धेः ॥ ३० ॥ क्षणिकेति । ननु वैधर्म्यमप्रयोजकं स्वप्नेपि समान्तर- वैधर्म्यदर्शनात् । अतो विचित्रवासनाभ्यो विचित्राणि ज्ञानानि तेभ्यः पुनस्ता इति चक्रवत्परिवृत्यङ्गी- कृतौ न किमपि दूषणमित्येवमुक्तम् । हेतुं वासनाम् । तन्मत इत्यादिभाष्यतात्पर्यमाहुः अयमिति । 1266

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५ क्षणिकत्वाच्च ॥ ३१ ॥ वासनाया आधारोऽपि नास्ति । आलयविज्ञानस्य क्षणिकत्वात् । वृत्तिवि- ज्ञानवत् । एवं सौत्रान्तिको विज्ञानवादी च प्रत्युक्तः । भाष्यप्रकाशः। कार्यलिङ्गकानुमानात् सिद्ध्यति । अनुभवं विना तु न तस्या उत्पत्तिः । अनुभवस्य चार्थं विना । अर्थस्तु तन्मते नास्त्येवेति तज्जनकाभावे कथं तस्याः सिद्धिः । अथ विचित्राज्ज्ञानाद् वासना, विचित्राभ्यो वासनाभ्यो ज्ञानानीति हेतुहेतुमद्भावेन विज्ञानवासनाचक्रमनादि परिवर्तत इति वदसि तदाप्यन्धपरंपरान्यायेन तस्य ज्ञानस्याप्रतिष्ठैव । अर्थव्यतिरेकेण वासनाया अभावात् । यदि ह्यर्थव्यतिरेकेण वासनाः स्युस्तदा स्वप्नं दृष्ट्वोत्थितस्य तदनुभवजन्या वासनास्ताभ्यश्च तादृशानि विज्ञानान्येव सर्वदानुवर्तेरन् न तु तद्विसदृशानि जाग्रद्विज्ञानानि भवेयुः । तदुपमर्दकस्य बाह्यार्थस्य तन्मते अभावात् । दृश्यते त्वन्यथा, अतोऽर्थव्यतिरेकेण वासनाया अभावादान्वयेन वासनाव्यतिरेकेणार्थोपलब्धेश्च व्यतिरेकेणेत्यन्वयव्यतिरेकाभ्यामर्थ- सिद्धिरिति न बाह्यापलापः शक्यः ॥ ३० ॥ क्षणिकत्वाच्च ॥ ३१ ॥ प्रकारान्तरेणापि वासनां निराकरोतीत्याशयेनाहुः वासनाया इत्यादि । अयमर्थः । वृत्तिविज्ञानं वासनाजनकं पूर्वक्षणवृत्ति । तदाधारआलयविज्ञानं तत्समान- कालम् । एवं सति वृत्तिविज्ञानेन यदा वासनोत्पादनीया तदानीं वृत्तिविज्ञानाधारस्यालय- विज्ञानस्य नष्टत्वादधाराभावेनापि वासनानुपपत्तिः । तदानीमालयविज्ञानसत्त्वाङ्गीकारे क्षणिक- रश्मिः। आर्षेतरे प्रत्यक्षाभावादाहुः कार्येति देवदत्तो वासनावान्, स्मृतेः, अस्मदादिवदित्यनुमानात् । विनेति नोत्पत्तिरित्यर्थः । तज्जनकेति वासनाजनकानुभवाभावे । तस्या इति वासनायाः । तथा चोपलब्धस्य बाह्यार्थस्य विषयस्यानुभवद्वारा वासनाजनकत्वं हि निश्चयेनेतिभाष्यार्थः । अनादित्व इत्यादि भाष्यं विवृण्वन्ति स्म अथेति । विचित्राज्ज्ञानादिति स्मार्तः प्रयोगः । अप्रतीति युक्ते- रप्रतिष्ठा । तर्कप्रतिष्ठानसूत्रादेवकारः । अर्थेत्यादि । इदं व्याख्येयं भाष्यम् । उक्तं भाष्यं विवृण्वन्ति स्म यदीति । तदुपति स्वप्नोपमर्दकस्य । सिद्धान्ते स्वयं दोषो नास्तीत्याहुः त्वन्मत इति । अन्यथेति स्वप्नविज्ञानोपमर्दनेन विसदृशानि विज्ञानानीत्यर्थः । अन्वयेनेति अर्थसत्त्वे वासनासत्त्वमित्यनेन । वासनेत्यादिभाष्यं विवृण्वन्ति स्म वासनाव्यतीति अर्थाभावे वासनाभाव इति व्यतिरेको न तु वासनाभावेऽर्थाभाव इति । ननु किमनेन न त्वित्युक्तपक्षेणार्थाभावे वासनाभाव इत्यस्यैव सुवचत्वादिति चेन्न । चक्रवत्परिवृत्तौ वासनाया अपि कारणत्वसंभवो न भवतीत्यसत्कारण- ताग्राहकव्यतिरेकेऽवश्यवक्तव्यत्वात् लाघवमत्र शरणम् । अर्थसिद्धिरिति विषयसिद्धिः ॥ ३० ॥ क्षणिकत्वाच्च ॥ ३१ ॥ वृत्तिविज्ञानक्षणिकत्वतुल्यमालयविज्ञानस्य क्षणिकत्वम् । तस्मा- द्वासनाया आधारोऽपि नास्तीति भाष्यार्थमाहुः अयमिति । वृत्तिविज्ञानमिति । वृत्तौ तु प्रवृत्तिविज्ञानमुक्तं शांकरभाष्येपि तथोक्तम् । तत्र प्रवृत्तेर्वासनाजनकत्वं दुरूहमिति तत्त्यक्तम् । पूर्वेति वासनायाः पूर्वक्षणवृत्ति । तदाधारः वासनाधारः । तत्समानेति क्षणिकत्वेऽपि वृत्तिविज्ञानसमकालं भवति । यदेति द्वितीयक्षणे । तदानीमिति आलयविज्ञानतृतीयक्षणे । एवमेतावता भाष्यं व्याख्या- तम् । अन्यदाहुः तदानीमिति । क्षणिकेति । आधारस्यालयविज्ञानस्य द्विक्षणावस्थापित्वात् । 1267

९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ५ सू० ३१ माध्यमिकस्तु मायावादिबदत्यसंबद्धभाषित्वादुपेक्ष्य इति न निराक्रियत आचार्येण ॥ ३१ ॥ भाष्यप्रकाशः । वादहानिः । यदि च संतानिन आलयविज्ञानस्य वृत्तिज्ञानाधारत्वं तत्संतानस्य वासनाधारत्वमित्युच्यते, तदापि वृत्तिज्ञानवैसादृश्यहेत्वभावादसंगतिः । यदि च संतानप्रवाह एव वासनेत्युच्यते, तदापि, उत्तरोत्पादे च पूर्वनिरोधादित्यादीनां दूषणानामा- पत्तिः । तस्मादसङ्गतमेवेदं मतमिति । उपसंहरन्ति एवमित्यादि । तर्हि माध्यमिकः कुतो न दूष्यत इत्यत आहुः माध्यमिकेत्यादि । यथा हि मायावादिनः श्रुतिच्छायामादाय सर्वं विप्लावयन्ति तथा सोऽपि युक्तिच्छायामादाय सर्वं नाशयतीत्यसंबद्धभाषित्वात् स्व- युक्तिभिरेव दूषितप्रायः । स हि सर्वशून्यवादी येन प्रमाणेन शून्यतां साध

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९७ भाष्यप्रकाशः। ष्यभावः । नापि सदसत् । सदसतोरेतरतरविलक्षणत्वादेकस्य सदसद्भावानुपपत्तेः । नापि सदसद्विलक्षणम् । एकस्य तथात्वानुपपत्तेः अदर्शनाच्च । अतः कोटिचतुष्टयनिर्मुक्तं शून्यमेव तत्त्वम्, अभावापत्तिरेव मोक्ष इति । तदिदमसंगतम् । तथाहि । यस्यया चतुष्कोटिनिर्मुक्तं शून्यं तत्त्वं व्यवस्थाप्यते, तत् केनचित् प्रमाणेनावगतमुत प्रमाणं विना वस्तुसामर्थ्यात् । नान्त्यः । तथा सत्याकाशवत् सार्वजनीनं स्याद् न वादिनो विप्रतिपद्येरन् । किंच, तत् सामर्थ्यं तत्रास्ति न वा । यद्यस्ति तर्हि तदाधारं शून्यमप्यस्त्येवेति न चतुष्कोटिनिर्मुक्कता । अथ नास्ति, तदापि तथा । नाद्यः । प्रमाणेप्यस्तिनास्तिभ्यां विकल्पिते चतुष्कोटिविधुवनासिद्धेः । किंच । येनावगतं तत् किं प्रमाणं, प्रत्यक्षममुमानं वा । नाद्यः । सार्वजनीनत्वाभावेन तव प्रत्यक्षस्य प्रतिवाद्यनादरणीयत्वात् । अथ यद्विचारासहं तच्छून्यमित्यनुमातव्यं तदा तवो- दाहरणाभावः । सर्वस्यैव पक्षीकरणात् । तथा च नानुमानस्य सिद्धिः । अथ, घटः शून्यः उक्तरीत्या विचारासहत्वात् पटवत्, इति परोक्तरीतिकप्रयोगेणानुमातव्यं तदा तु सुवर्ण- जन्यकटकादौ तन्तुजन्यपटादौ च व्यभिचारेणोपमृद्य प्रादुर्भावस्य निरस्तत्वादभावादेव भावोत्पत्तिः सिद्धैवेति न विचारासहत्वस्य सिद्धिरिति स्रयुक्तिभिरेव दूषितत्वान्न निरा- क्रियत इत्यर्थः ॥ ३१ ॥ रश्मिः। अभाव इति । 'जातस्य हि ध्रुवो मृत्युः' इति । नापीति उत्पद्यत इत्यन्वयः पूर्ववत् । एकस्येति सत्त्वमसत्त्वं चैकस्य नास्तीति नापीति उत्पद्यत इत्येव पूर्ववत् । एकस्येति सद्विलक्षणमसत् , अस- द्विलक्षणं सदिति द्वैतं त्वेकमिति भावः । भिन्नमुभयादेकमिति चेत्तत्राह अदर्शनादिति । कोटीति सदसत्सदसत्सदसद्विलक्षणरूपकोटिचतुष्टयं तेन निर्मुक्तम् । नन्वाकाशवत्सार्वजनीनत्वेपि वादि- विप्रतिपत्तिर्दृश्यत इत्यत आहुः किंचेति । न चतुरिति असत्कोट्यभावादिति भावः । किंतु सत्कोटौ निवेशः । तथेति अभावाधारः शून्यमस्तीति सत्यया न चतुष्कोटिनिर्मुक्कता । नाद्य इति शून्यं प्रमाणेनावगतमिति पक्षो नेत्यर्थः । चतुरिति चतुष्कोटिनिर्मुक्तासिद्धेः । प्रमाणमपि शून्यमिति शून्येनावगतं शून्यमिति वक्तुं योग्यं नेत्यर्थः । धुञ् कम्पने स्वादिः ल्युट् । उवङ् । धू विधूनने तुदादिर्वा । चलनशब्दार्यादकर्मकाद्युजिति युच् तु न । अकर्मकत्वाभावात् । चतुष्कोटेः कर्मत्वात् । पठिताविद्यामितिवत् । सर्वेति शून्यस्य सार्वेत्यादिः । अनुमातव्यमिति । सर्वं शून्यं विचारा- सहत्वादित्यत्र केवलव्यतिरेकिणि व्याप्तिज्ञानविषयं कर्तव्यं शून्यमित्यर्थः । उदाहरणमन्वये दृष्टान्तस्तदभावात् । तथा चेति सामानाधिकरण्यग्रहे स्थलान्तराभावे च दृष्टान्ताभावेन व्याप्तिज्ञानस्या- सिद्धिः । तथा चाज्ञानरूपा सिद्धिरेव न हेत्वाभासत्वमसेति क्षितमनुमानपरिच्छेदसमाप्तौ मुक्ताव- ल्याम् । दृष्टान्तार्थं यतते स्म अथेति । उक्तरीत्येति कोटिचतुष्टयखण्डनरीत्या । परोक्तेति सामान्यतः पक्षासंभवे विशिष्य पक्षसंभव इति नैयायिकोक्तरीतिकप्रयोगेण । व्यभीति उपमृद्येत्या- भावं प्राप्य प्रादुर्भावस्य व्यभिचारेणेत्यर्थः । उपमृद्येति अभावं प्राप्य । निरस्तत्त्वात् 'नासतो दृष्टत्वात्' इति सूत्रे । स्वेति नाप्यभावाद् अभावार्मकत्वस्याभावान्वयस्य च कार्येष्वदर्शनादिति युक्त्या । एवं भावात् स्वतः परतश्चोत्पत्तिः । स्वयुक्तिभिर्दूषितेति बहुवचनात् । इत्यर्थ इति । आचार्येण व्यासेनेत्यर्थो भाष्ये । आईतास्तु द्वितीयाधिकरणे निरस्कीरणीयाः । चार्वाकस्त्वग्रे प्रतिवक्तव्य इति पदं सौगताः ॥ ३१ ॥ 1269 ११ ब्र० सू० २०

९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ५ सू० ३२ सर्वथानुपपत्तेश्च ॥ ३२ ॥ किं बहुना बाह्यवादो यथा यथा विचार्यते तथा तथा असंबद्ध एवेत्यलं विस्तरेण । चकाराद् वेदविरोधो मुख्यः ॥ ३२ ॥ इति द्वितीयाध्याये द्वितीयपादे पञ्चमं नाभाव उपलब्धेरित्यधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः। सर्वथानुपपत्तेश्च ॥ ३२ ॥ भाष्यमत्र निगदव्याख्यातम् । एतेनैवात्यसंबद्धत्वबोधनेन केवलदृष्टमात्रानुसारी चार्वाकोपि प्रत्युक्तो ज्ञेयः । ननु यद्यप्यत्र विज्ञानातिरिक्तप्रपञ्चसत्त्वं साधितं, तथापि तृतीयस्कन्धे कापिलेये, 'ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा' इत्यत्र, तथा दशमस्कन्धे 'सत्त्वं रजस्तम इति गुणास्तद्वृत्तयश्च याः । त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया । तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः' इत्यत्रैवमन्यत्र च प्रपञ्चस्य ज्ञानमात्रत्वं कल्पितत्वं चोच्यत इति कथं तद्विरोधः परिहर्तव्य इति चेत् । उच्यते । कपिलेन हि प्रपञ्चं ब्रह्मात्मकत्वेनाजानतां बहिर्मुखतया ब्रह्मभिन्नगुणजन्यपृथगर्थत्वेन जानतां प्रतीतिमादाय तस्या एकदेशस्थस्वभावग्राहित्वेन तादृशप्रतीतिविषयमर्थत्वमपोद्य ज्ञानात्मकब्रह्म- रूपता बोध्यते वैराग्यार्थ, न तु ब्रह्मोपादेयार्थरूपताप्यपोद्यत इति ब्रह्मनिर्गुणपदाभ्यामवसीयते । रश्मिः। सर्वथानुपपत्तेश्च ॥ ३२॥ निगदेति । चकारादित्यादिभाष्ये चकारोनुक्तस्य वेद- विरोधस्य समुच्चायक इति हृदयम् । एतेनैवेति भाष्येणैव । एवकारेण युक्तिव्यवच्छेदः। रामानुजा- चार्यैरेतस्मिन्सूत्रे माध्यमिको निराकृतः । तथा सति षट्सु सर्वथानुपपत्तिर्न संभवति । या तु 'स्मृतेश्च' इति सूत्रेणानुस्मृतिमात्रेण निराकृतात आचार्यैः षट्सु सर्वथाऽनुपपत्तिं बोधयितुं बाह्यवाद इत्युक्तं तदाहुः अत्यसंबद्धेति । चार्वाक इति । अयं तु लोकायतदर्शनं बृहस्पतिप्रणीतमनुसरति देहात्मवादी प्रत्यक्षैकप्रमाणवादी च । अस्य देहात्मविवेकदर्शनज्ञानप्रत्यक्षत्वानुसंधानात्प्रत्यक्षैक- प्रमाणवादित्वेऽत्यसंबद्धभाषित्वात् । पराचीनैरिति पराङ्मुखैः केवलदृष्टमात्रग्राहकैः । शब्दा- दीति शब्दादिधर्मो यस्य विद्यते स शब्दादिधर्मी तेनार्थरूपेण । द्वात्रिंशेऽस्ति श्लोकः । दशमेति पञ्चाशीतितमेऽध्याये । तद्वृत्तय इति प्रकृतिपरिणामादयः । उच्यत इति इयं मता- न्तरभावेऽप्युच्यते । ब्रह्मेति प्रकृतिजन्येत्यर्थः । जानतामिति सांख्यानाम् । एकोनत्रिंशत्तमे देवहूतेः 'यथा सांख्येषु कथितम्' इति प्रश्नात् । उत्तरस्यापि सांख्यानुसारित्वात् । तस्या इति ब्रह्मात्मकेऽन्यथाबुद्धिर्भ्रान्तिरितो भ्रान्तेरित्यर्थः । सर्वजनीना प्रतीतिः कथं भ्रान्त्येत्यत आहुः एकेति व्यापकसर्वार्थकारज्ञानस्यैकदेशः कश्चिदाकारः परिच्छेदश्च तद्ग्रहणेन खल्विन्द्रियस्य यः स्वभावः पराक्त्वं तद्ग्रहणेन च तद्ब्रह्मात्मकं निर्गुणं ज्ञानमन्यथागृहीतं भवतीति भ्रान्तिरित्यर्थः । तादृशेति भ्रान्त- प्रतीतिविषयम् । अपोद्येति विशेषदर्शनवद्विद्यमानघटत्वादिकप्रकारकं ज्ञानमपोद्य ब्रह्मत्वेन ज्ञानात्म- कब्रह्मरूपता घटादीनां बोध्यते इति । वैराग्यार्थमिति 'विरागो येन पुरुषो भगवन्सर्वतो भवेत्' इति देवहूतिप्रश्नादिदं कपिलवाक्यं वैराग्यार्थम् । स्फुटं चेदमाकरे । ब्रह्मोपेति ब्रह्म उपादेयार्थः ब्रह्मोपादेयार्थस्तद्रूपतापीत्यर्थः । ब्रह्मनिर्गुणेति । अत्र ज्ञानमर्थरूपेण भ्रान्त्यावभातीत्युच्यते । तत्र 1270

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९९ नैकस्मिन्नसंभवात् ॥ ३३ ॥ (२-२-६) विवसनसमयो निराक्रियते । ते ह्यनन्तनिष्ठाः प्रपञ्चे उदासीनाः सप्त विभक्तीः भाष्यप्रकाशः। तथा सति कस्तत्र विरोधः । एवमेव दशमस्कन्धीये वाक्येऽपि ज्ञेयम् । तत्रापि सांख्यसिद्धानामेव योगमायाकल्पिततया अभावविधानात् । एवं सर्वत्रावान्तरप्रकरणवशेन वैराग्यार्थं महेन्द्रजालपक्षमपीन्द्रियायनसृष्टिपक्षं चादाय मतान्तरसिद्धस्यैव बोधकं ज्ञेयम् । अतो न कोपि क्वापि विरोध इति सर्वं सुस्थम् ॥ ३२ ॥ इति नाभाव उपलब्धेरित्यधिकरणम् ॥ ५ ॥ नैकस्मिन्नसंभवात् ॥ ३३ ॥ अधिकरणमवतारयन्ति विवसनेत्यादि । एत एव क्षपणका आर्हता जैनाश्चोच्यन्ते । मुक्तकच्छाः पूर्वं दूषिताः, इदानीं विवसना दूष्यन्त इति वाचस्पतिमिश्राः । सौगतवज्जैना अप

१०७ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ६ सू० ३३ परेच्छया वदन्ति । स्याच्छब्दोऽभीष्टवचनः । अस्तिनास्त्यवक्तव्यानां प्रत्येकसमु- च्चयाभ्यां स्यात्पूर्वकः सप्तप्रकारो भवति । तदेकस्मिन् योजयन्ति । भाष्यप्रकाशः । सूत्रेषु तथैव प्रतीतेरिति प्रतिभाति । दूष्यांशमनुवदन्ति ते हीत्यादि । यतस्त ईदृशा अतो भङ्गीरूपान् सप्त विभागान् परेषां विवक्षावशेन वदन्ति । तत्रायं प्रकारः । स्याच्छब्दो- ऽभीष्टवचनः । इववाएवप्रभृतीनामुपमादिवाचकत्वस्य सुप्रसिद्धत्वात् । तथाऽयमप्यभीष्टवाच- कोऽनेकान्तं द्योतयति । अतोऽस्त्यादिभेदैः समयस्तेषां सप्तप्रकारो भवति । तत्प्रकारसप्तक- मेकैकस्मिन् योजयन्तीत्यर्थः । परेच्छा त्वग्रे वाच्या । सांप्रतं तु दूषणं प्रपञ्चयितुं ग्रन्थान्तरो- क्तं तन्मतमन्यदप्यनूद्यते । ते ह्येवं मन्यन्ते । जीवाजीवात्मकं जगदेतन्निरीश्वरम् । तेन सङ्क्षेपतो द्वावेव जीवजडौ बोधाबोधात्मकौ पदार्थौ । विस्तरतस्तु जगत् षड्द्रव्यात्मकम् । तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशाख्यानि । अत्र जीवास्त्रिविधाः । बद्धा योग- सिद्धा मुक्ताश्च । धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्व्यापी । अधर्मश्च स्थितिहेतुभूतो व्यापी । पुद्गलो नाम वर्णगन्धरसस्पर्शवद्द्रव्यम् । तच्च द्विविधं, परमाणुरूपं तत्संघातात्मकपवनज्वलनसलिलधरणीतनुभवनादिकं च । कालस्तु अभूदस्ति भविष्यतीतिव्यवहारहेतुरणुरूपो द्रव्यविशेषः । आकाशोऽप्येकोऽनन्तप्रदेशश्च । तेषु परमाणु- व्यतिरिक्ताः पञ्चास्तिकाया इति संगृह्यन्ते । जीवास्तिकायो, धर्मास्तिकायोऽधर्मास्तिकायः रश्मिः । सूत्रेष्विति आत्मशब्दाधिष्ठात्मशब्दाभ्यां संबद्धेषु । प्रतिभातीति । न चासंगतमधिकरणम् । संगतेः पूर्वोक्ताया एव सत्त्वात् सावान्तरेति । एककार्यत्वं च सा समन्वयसूत्रोक्तमभिन्ननिमित्तो- पादानत्वम् । अध्यायोक्तसमन्वयश्च कार्यं, परमतनिराकरणं च कारणम् । अत्र मते विशेषः समासौ भवेति । भङ्गीरूपानिति अभङ्गा भङ्गाः संपद्यन्ते तथाभूता भङ्गीभूतास्ते च रूपा इति भङ्गीरूपास्तान् । भाष्ये सप्तविभक्तीः सप्तविभागान् । परेच्छया नाम परेषां विवक्षावशेन । स्याच्छब्द इति । भाष्यमवतारयन्ति स्म तत्रायमिति । स्याच्छब्द इति व्याख्येयं भाष्यम् । स्यादिति विभक्तिप्रतिरूपकमव्ययम् । निपातानां द्योतकता न वाचकतेति । अभीष्टवचनं व्याचक्षते स्म इव वा इति सुप्रसिद्धत्वादिति । नैयायिकमते तथा । वैयाकरणास्तु प्रादीनामिव चादीनामपि द्योतकत्वमिच्छन्ति । तथेति इत्यादीनामुपमावाचकत्वस्य सुप्रसिद्धत्वं तथेत्यर्थः । अनेकान्तमिति । अनिश्चितमर्थम् । समयः अभ्युपगमः । एकैकस्मिन्निति घटपटादौ सर्वत्र विरुद्धधर्मास्तित्व- नास्तित्वे आदाय तथेत्यर्थः । अग्रे इति अनन्तवीर्यनाम्नः स्याद्वादिनः कारिकोपन्यासावसरे । ग्रन्थान्तरोक्तमिति शंकरभाष्याद्युक्तम् । तत्र रामानुजाचार्यग्रन्थोक्तानुवादमुपक्षिपन्ति स्म जीवेति । शंकरभाष्ये कालो नोक्तः । रामानुजभाष्ये तूक्तः । जगद्व्यापीति व्यापित्वमनुगामि- त्वम् । व्यापीति पूर्वोक्त एव । पुद्गल इति पूर्यते गलतोति । तत्संघातेति अन्त्ये पार्थिवविकारा भादिगन्धांशाः । तेष्विति । परमाण्विति पुद्गलः परमाणुसाङ्ख्याद्व्यतिरिक्ताः । इतीति इत्यपि 1272

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०१

भाष्यप्रकाशः । पुद्गलास्तिकायः, आकाशास्तिकायश्चेति । अनेकदेशवर्तिनि द्रव्ये अस्तिकायशब्दः । तत्र जीवास्तिकायस्त्रिविधजीवात्मको व्याख्यातः । धर्मास्तिकायः प्रवृत्त्यनुमेयः । अधर्मास्तिकायः स्थित्यनुमेयः । पुद्गलास्तिकायस्तु परमाणुव्यतिरिक्तानि चत्वारि भूतानि, स्थावरं जङ्गमं चेति । परमाणवस्तु नास्तिकाय इत्युच्यन्ते । परमाणवश्चैतेषां मते एकविधाः, न तु चतुर्विधाः । पृथिव्यादिभेदस्तु परिणामभेदकृतः । आकाशास्तिकायो द्वेधा । लोकाकाशोऽलोकाकाशश्चेति । तत्रोपर्य्युपरिस्थितानां लोकानामन्तर्वर्ती लोकाकाशः । तेषामुपरि मोक्षस्थानमलोकाकाशस्तत्र हि न लोकाः सन्तीति । तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ । जीवानां मोक्षोपयोगिनम- परमपि सङ्ग्रहं कुर्वन्ति । जीवाजीवास्रवसंवरनिर्जराबन्धमोक्षा

१०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ६ सू० ३३ भाष्यप्रकाशः। कर्मबहुषु विप्रतिषिद्धेषु मोक्षमार्गेषु तीर्थंकरैरुपदिष्टेषु विशेषानवधारणं मोहनीयं कर्म । सन्मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म । तद्धि जीवगुणानां ज्ञानदर्शन- वीर्यसुखानां घातकरमिति घातिकर्मेत्युच्यते । वेदनीयं नामिकं गोत्रिकमायुष्कमिति चतुर्विधमघातिकर्म । तद्धि शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखोपेक्षाहेतुभूतम् । तत्र वेदनीयं नाम शुक्रपुद्गलविपाकहेतुः । तन्निबन्धोपि न मोक्षपरिपन्थी । तत्त्वज्ञानाविघातकत्वात् । शुक्रपुद्गलारम्भकं वेदनीयकर्मानुगुणं नामिकं कर्म । तद्धि शुक्र- पुद्गलसाद्यावस्थां कललबुद्बुदादिरूपामारभते । गोत्रिकं त्वव्याकृतं ततोऽप्याद्यं शक्ति- रूपेणावस्थितम् । आयुष्कं तूत्पादद्वारेणायुष्कायति कथयतीति । तान्येतानि शुक्रपुद्गलाश्र- यत्वादघातीनि कर्माणि । तदेतत्कर्माष्टकं पुरुषबन्धकत्वाद् बन्ध इत्युच्यते । मोक्षस्तु विग- लितसमस्तक्लेशत्तद्वासनस्य अनावरणज्ञानस्य सुखैकतानस्य स्वरूपाविर्भावः । तादृशस्य उपरि- देशावस्थानं वा । स च बन्धनिवृत्तौ नित्यसिद्धार्हदनुग्रहाद् भवतीति । एवं जीवाद्यः पदार्था व्याख्याताः । एतत् सर्वं वस्तुजातं सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिभिरनैका- न्तिकमिच्छन्तः सप्तभङ्गीनयं नाम न्यायमवतारयन्ति । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यः, स्यान्नास्ति चावक्तव्यः, स्यादस्ति च स्यान्नास्ति चावक्तव्यश्चेति । स्याच्छब्दो निपातः । यथाहुः । रश्मिः । योग्यम् । कर्मेति । कर्माणि बहूनि येषु मार्गेषु । विप्रतीति यथाऽस्मन्मते कर्मचितशुद्धस्य भक्तिः सा नास्तीत्येवं विप्रतिषिद्धेषु । ज्ञानेति यथाक्रमं बोध्यम् । शुक्रेति सलिलं शुक्र- पुद्गलस्तस्य जाठराग्निवायुभ्यामीषद्धनीभावो विपाकस्तस्य हेतुः । तन्निबन्धः कललबुद्बुदावस्था निबन्धः । तत्त्वेति शुक्रपुद्गले शरीरे तत्त्वज्ञानात् । अव्याकृतमित्यादि रूपनामभ्यामव्याकृ- तम् । कललबुद्बुदादितोपीति ततोऽपीत्यस्यार्थः । शक्तीति तस्य तत्त्वज्ञानानुकूलदेहपरिणाम- शक्तिर्गोत्रिकमिति रत्नप्रभा । उत्पादेति रत्नप्रभायां तु शुक्रशोणितमिश्रितमायुष्कम् । शुक्रपुद्गलः सलिलमिति व्याख्यातम् । मोक्ष इति विगलिताः समस्ताः क्लेशाः तद्वासनाः क्लेशजनक- संस्कारा यस्य ज्ञानस्य पुंसः, न विद्यते आवरणं यस्य तस्य स्वाभाविकस्य, तादृशस्येति उक्तपुंसः । स चेति मोक्षः । अनैकान्तिकमिति अनिश्चितं वादकवलितमित्यर्थः । सप्तेति सप्तानां भङ्गानां अस्तित्वादीनां समाहारः सप्तभङ्गी तस्या नयो न्यायस्तम् । अस्तित्वनास्तित्वविरुद्धधर्म- द्वयमादायैकस्मिन्घटपटादौ योजयन्तीत्यर्थः । स्यात्पूर्वकाः षट् । सप्तमस्तु स्यात्पूर्वकः स्यान्मध्यमश्च एते सप्तभङ्गा इति व्यवह्रियन्ते । स्याच्छब्दोऽभीष्टवचन इत्युक्तम् । अभीष्टं घटाद्यस्तीत्यर्थः । अभीष्टं घटादि नास्तीति द्वितीयमङ्गार्थः । यदि स्यात्कथंचिदर्थकं तदा घटत्वादिरूपेण कथंचिदस्ति । सदेकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्राप्तये यत्नो न स्यादतः प्राप्तत्वादिरूपेण कथंचिन्नास्तीत्यर्थः । वस्तुनोऽस्तित्ववाञ्छायामाद्यः स्यादस्तीति भङ्गः । प्रवर्त्तनास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयः । क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयः । युगपदुभयवाञ्छायामस्ति नास्तीति पदद्वयस्य सकृदुक्तुमशक्यत्वात्स्यादवक्तव्यश्चतुर्थः । आद्यचतुर्थभङ्गयोर्वाञ्छायां पञ्चमः स्यादस्ति चाव- क्तव्यः । द्वितीयचतुर्थमङ्गवाञ्छायां स्यान्नास्ति चावक्तव्य इति षष्ठः । तृतीयचतुर्थमङ्गवाञ्छायां स्यादस्ति च स्यान्नास्ति चावक्तव्य इति सप्तमो भङ्गः, इति विभागो रत्नप्रभायां दर्शितः । 1274

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०३ तद् विरोधेनासम्भवादयुक्तम् ॥ ३३ ॥ भाष्यप्रकाशः । 'वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपकः' इति । तदिदं दूषयन्ति तद् विरोधेनासम्भवादयुक्तमिति । अयमर्थः । योऽयं सप्तभङ्गीनयो नाम न्यायः सर्वत्रावतारितः स त्वयाभ्युपगतेषु जीवधर्माधर्मपुद्गलकालाकाशेषु तदवान्तरविधासु अस्तिकायादिषु तद्धर्मेषु आस्रवसंवरनिर्जरेषु बन्धमोक्षसाधनेषु तत्तत्फले बन्धे मोक्षे चावतरन् सर्वानैव त्वदुक्तान् पदार्थान् सत्त्वासत्त्वादिभिः स्वरूपतो नित्यत्वानित्यत्वादिभिर्धर्मतोऽवस्थातश्च सन्दिग्धान् कुर्वंस्तद्दर्शनस्यातिपेलवत्वं तीर्थकरस्यार्हतश्च भ्रान्तिमेव द्योतयन् प्रेक्षावत्प्रवृत्तिमेव निरुणद्धीत्युक्तम् । न च यथा घटो घटरूपेणास्ति, पटरूपेण नास्त्येवं सर्वं स्वरूपेणास्ति रूपान्तरेण नास्तीति कथमसंभव इति वाच्यम् । एवं सति येन रूपेणास्ति तेन रूपेणास्त्येव, येन नास्ति तेन नास्त्येवेति तत्तद्रूपे तत्तद्भेदे तद्विरुद्धभङ्गासंभवाद्, वस्तुतस्तु विषयभेदेनास्तिनास्त्योस्तत्रैकान्त्या- द्भञ्जकतया भङ्गत्वस्यैवाभावाच्च सप्तभङ्गीनयस्यासार्वत्रिकप्रसङ्गः । यदि च तत्राप्यस्ति सप्त- भङ्गी, तदा तत्पदार्थस्वरूपमस्तीत्यपि स्यान्नास्तीत्यपीति स्वरूपानध्यवसानप्रसङ्गः । किंच । ये भङ्गरूपाः सप्तार्थास्तत्रापि सप्तभङ्गीसद्भावादेकोनपञ्चाशद्भङ्गीति प्रसङ्गः । तेऽपि यथा त्वयो- च्यन्ते तथाऽन्यथा वेत्यनध्यवसानप्रसङ्गश्च । नच सर्वमनैकान्तिकमित्यवधारणं निश्चितमे- वेति वाच्यम् । अवधारणस्य सर्वमध्यपातेन तत्रापि सप्तभङ्ग्युपनिपातात् तस्याप्यनिश्चयप्रस- ङ्गात् । अतो भङ्गानां परस्परविरोधेनैकस्मिन् धर्मिण्यसंभवादयुक्तमेवेदं दर्शनमिति । किंच । या एषा सप्तभङ्गी एकैकस्मिन् योज्यते सा केन प्रमाणेन, कुत्र वाऽवधृता इति वक्तव्यम् । प्रत्यक्षेणैव सर्वत्रेति चेन्न । सर्वत्रावध्रियमाणस्य सर्वजनीनत्वदर्शनान्न तत्र वादिनां विप्रति- पत्तिः स्यात् । प्रत्यक्षस्य निश्चयाङ्गीकारे च तत्र नास्तीत्यादिभङ्गनिवृत्त्या त्वन्न्यायस्य सार्व- त्रिकत्वं च भज्येत । कथनादवक्तव्यत्वं भज्येत । एवं प्रमाणान्तरेणावधारणेऽपि ज्ञेयम् । रश्मिः । वाक्येष्विति सप्तसु । गम्यं अस्ति नास्त्यादि । अर्थयोगित्वं अर्थविशेषणत्वम् । सर्वत्रेति घटपटादौ । सत्त्वासत्त्वेति सत्त्वं स्यादस्ति असत्त्वं स्यान्नास्तीत्यादिपूर्वोक्तप्रकारेण । नित्यत्वेति नित्यत्वं स्यादस्ति अनित्यत्वं स्यान्नास्तीत्यादिप्रकारेण । सन्दिग्धानिति विरुद्धकोटि- द्वयावगाहिज्ञानविषयान् । अतिपेलेति पिल क्षेपे चुरादिः परस्मैपदी अत्यन्ताक्षेपवत्त्वम् । अतिपेशलत्वं वा अतिक्रान्तपेशलवत्त्वम् । भ्रान्तिमिति । यथा रजुः सर्प इत्यत्र तामसे ज्ञाने तमसि रजोवैशिष्ट्ये रजुर्वा सर्पो वेति संशयो विशेषदर्शनोत्तरमपि तथा । प्रेक्षावन्तः पण्डिताः । अयं दोषो नैयायिकप्रसिद्धिं विरुणद्धीति । वस्तुतस्तुपक्षमाहुः वस्तुत इति । विषयेति । स्यादस्तीत्यत्रास्तीत्यस्य विषयः स्यात्पदवाच्यो घटादिः सत्ताश्रय इत्यर्थः । स्यान्नास्तीत्यत्र नास्तीत्यस्य विषयः प्रतियोगी स्याद्वाच्य इति विषयभेदेनेत्यर्थः । ऐकान्त्येति निश्चयामञ्जकतया । तत्रापीति । विषयभेदेऽपि । स्वरूपेति । अध्यवसानं निश्चयः । एकेनेति सप्तानामेकैकस्य सप्तधा विभागे एकोनपञ्चाशद्भङ्गी भवतीति । समुदाये सप्तभङ्गयोजने यो दोषस्तमाहुः त इति सप्तभङ्गाः । अध्यवेति । निश्चयप्रसङ्गः प्रथमद्वितीयभङ्गाभ्यामित्यर्थः । अनैकान्तिकमनिश्चितस्वरूपम् । निश्चयेति स्यादस्तीति प्रथमभङ्गाङ्गीकारे । कथनादिति प्रत्यक्षेण स्यादस्तीति कथनादवक्तव्यत्वं चतुर्थो भङ्गो भज्येत । प्रमाणान्तरेति अनुमानादिना प्रथमभङ्गाङ्गीकारे द्वितीयादिभङ्गनिवृत्ति- 1275

यदि च सर्वं वस्तुजातं द्रव्यपर्यायात्मकमिति द्रव्यात्मना सत्त्वैकत्वनित्यत्वादिकं व्युत्पाद्यते । पर्यायात्मना च तद्विपरीतं व्युत्पाद्यते पर्यायाश्च द्रव्यस्यावस्थाविशेषास्तेषां भावाभावरूपत्वा- दिकं सर्वमुपपन्नमित्युच्यते तदाप्येकस्य वस्तुन एकस्मिन् कालेऽस्तित्वनास्तित्वयोरसंभव एव । उत्पादविनाशशालित्वतद्वैपरीत्यरूपानित्यत्वनित्यत्वयोश्चासंभव एव । इदं च कालभेदेऽपि न संभवतीत्ययुक्त एवायमभ्युपगमः । यत्तु कश्चिदनन्तवीर्यनामा स्याद्वादी । 'तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यान्निषेधे विवक्षिते ॥ क्रमेणोभयवाञ्छायां प्रयोगः समुदायवान् । युगपद्विवक्षायां स्यादवाच्यमशक्तितः ॥ आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥ समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते' । इति परेच्छाकृतव्यवस्थया सप्तभङ्गान् प्रतिपादयामास । युगपदस्तित्वनास्तित्वयोर्विवक्षायां क्रमवर्तित्वादुभयं युगपदवाच्यम् । आद्यास्तित्वभङ्गोऽन्त्येनासत्त्वेन सह युगपदवाच्यः । अन्त्य- श्वाद्येन भङ्गेन सह युगपदवाच्यः । समुच्चितरूपश्चान्य एकैकेन सह युगपदवाच्य इति तदर्थ माह । अत्रोच्यते । ये एते सप्तभङ्गा विवक्षाभेदेनोपपादितास्ते किं वस्तुनो नैसर्गिका धर्मा, आगन्तुका वा, आरोपिता वा, तद्विषया वा । नाद्यः । नैसर्गिकस्य धर्मस्य स्वभावत एव वस्तुपु रित्यर्थः । अनुमानं तु सर्वः प्रथमभङ्गः स्यादस्ति, प्रकारान्तरदर्शनात् । घटादिवत् । न चात्र पक्षतावच्छेदकसाध्यतावच्छेदकयोरैक्यमिति सिद्धसाधनमिति वाच्यम् । सिषाधयिषासत्त्वेन सिषाधयिषाविरहविशिष्टयाः सिद्धेरभावो वर्तत इति पक्षतासत्त्वे सर्वत्वस्य पक्षतावच्छेदकत्वेन तयोर्भेदात् । एवं शब्दप्रमाणेनावधारणं प्रथमभङ्गः स्यादस्तीति । एवमुपमानमपि । प्रथमभङ्ग- स्तुतीयभङ्गसदृश इति प्रथमभङ्गपदार्थमजानन्तं प्रत्युक्ते प्रथमभङ्गदर्शने नास्ति चेत्यंशाभावादयं प्रथमभङ्गपदवाच्य इत्युपमितिरिति । द्रब्येति । अवस्थात्र पर्यायः कललद्बुदुदादिः शक्तिरूपा आयुःकथनरूपा च । इदं चेति उत्पादविनाशशालित्वरूपमनित्यत्वं तद्वैपरीत्यरूपं नित्यत्वं चैकस्मिन्वस्तुनि कालभेदेपि न संभवतीत्यर्थः । तद्विधानेति वस्तुविधानकथनपरवाञ्छायाम् । स्यादस्तीति घटादिः कथंचिदस्तीति । तन्निषेध इति वस्तुनिषेधे । उभयेति वस्तुविधान- निषेधवाञ्छायाम् । समुदायवान् तृतीयभङ्गवान् । चतुर्थमाह युगपदिति । तद्विवक्षायां भावाभावविवक्षायाम् । पञ्चम इति स्यादस्ति चावक्तव्यः । अन्त्येति स्यादस्ति सान्नास्ती- त्येनयोरन्त्यः स्यान्नास्तीति तस्यावाच्यविवक्षायाम् । षष्ठेति स्यान्नास्ति चावक्तव्य इत्यस्य भङ्गस्य समुद्भवः । समुच्चयेनेति । षष्ठपञ्चमौ चकारेणोक्तौ अवक्तव्यसमुच्चये एकेनान्यकेनायुक्तः । सप्तम इति स्यादस्ति च स्यान्नास्ति चावक्तव्यः । परेच्छेति स्वस्वेच्छायां तु हृदये व्यवस्था कृता स्यात् । क्रमेति उभयोः क्रमवर्तित्वात् । असत्त्वेति द्वितीयभङ्गेन । समुच्चितेति । षष्ठ- पञ्चमावक्तव्यसमुच्चयरूपः । अन्य इति सप्तमः । एकैकेनेति आद्येन सहान्यस्यान्येन सहाद्यस्य । तदर्थमिति । युगपदिति कारिकाद्वयार्थः । नैसर्गिका इति घटत्वादय इव । आगन्तुका इति सन्निद्वत्वादय इव । आरोपिता इति शुक्तिरजतादय इव । तद्विषया आरोपविषयाः ।

एवं चात्माऽकार्त्स्न्यम् ॥ ३४ ॥ ननु कथं बहिरुदासीनस्य तद्दूषणमत आह । एवमपि सति आत्मनो वस्तुपरिच्छेदादकार्त्स्न्यं न सर्वत्वम् । अथवा शरीरपरिमाण आत्मा चेत् तदा सर्वशरीराणामतुल्यत्वादात्मनो न कार्त्स्न्यं न कृत्स्नशरीरतुल्यत्वम् ॥ ३४ ॥ भाष्यप्रकाशः। सृष्ट्याया नियततया सप्तानामपि भङ्गानां विवक्षां विनापि सप्तप्रकारैर्विधानान्निवेशनस्य तत्राप्रयोजक- त्वात् । न द्वितीयः । एकान्तस्य कस्यापि नैसर्गिकस्याभावे आगन्तुकस्यापि दृष्टविरोधेनाशक्य- वचनत्वात् । अत एव न तृतीयोपि । आरोपितैर्धर्मैर्वास्तवधर्मैर्वैकान्त्यस्य कर्तुमशक्यत्वेन तस्य वैयर्थ्याच्च । न तुरीयः । अनया भङ्गकल्पनया नैसर्गिकस्यानेकान्तित्वायोगात् । नाप्येशां नैसर्गिक- त्वम् । परस्परविरोधप्रदर्शनेन प्राचीनैरेव दूषितत्वात् । अतः सप्तानां भङ्गानामितरेतरविरोघे- नासंभवादयुक्तमेवैकत्र निवेशनम् ॥ ३३ ॥ एवं चात्माऽकार्त्स्न्यम् ॥ ३४ ॥ सूत्रमवतारयन्ति नन्वित्यादि । व्याकुर्वन्ति एव- मित्यादि । एवमात्मनिष्ठतया तद्दूषणेऽङ्गीकृतेऽपि सति परमाणुभ्य एव सज्जङ्गीकारे- णात्मनो वस्तुपरिच्छेदाङ्गीकाराद् अकार्त्स्न्यं सर्वत्वं न भवति । तथा च मोक्षदशायाम- लोकाकाशवर्तित्वेन तत्कृतावरणसंभवाभिरावरणप्रतिज्ञाहानिः । किंच । सर्ववस्तुष्वारमाभा- वादात्मनामस्तिकायतप्रतिज्ञाहानिरेवेत्यर्थः । अथाकाशावरणं नावरणम् । दिगम्बरेष्वना- वृतत्वव्यवहारात् । आत्मनामसर्वत्वेपि जातित्वत् तत्र तत्र व्याप्तेः सुवचनत्वेन जीवास्ति- कायस्य न हानिरित्याशङ्क्य पक्षान्तरमाहुः अथवेत्यादि । यथा बहिर्विरोधेन सप्तभङ्गामोघो दूषणम्, एवमेव देहपरिमाणात्मवादाङ्गीकारेण देहानां सर्वेषां व्यक्तिभेदेनावस्थाभेदेन च रश्मिः। अप्रयोजकेति अप्रयोजकत्वापातात् । एकान्तस्येति निश्चितस्य धर्मस्येत्यर्थः । अभावे इति यथा ब्राह्मण्यादेः 'त्रिभिर्नश्यति ब्रह्मत्वं हालाहलहलाहैः' इति वाक्यात् । दृष्टेति दृष्टान्तसिद्ध- त्वादि । अत एवेति आरोपितानामागन्तुकत्वविशेषादेव । वास्तवधर्मैरिति शास्त्रधर्माणा- मनिमित्तत्वस्य । तस्येति आरोपितभङ्गस्य । अनयेति आरोपविषयभूतया । नैसर्गिकस्येति नैसर्गिकस्य घटत्वादेः । अनेकान्तिकत्वमनिश्चयविषयत्वं तस्यायोगात् । भङ्गानामेवारोपविषयत्वात् । आरोपविषयः सोऽनेकान्तिक इति शुक्तिरजतादौ दर्शनात् । तथा चानेकान्तिकवादार्थं भङ्गाङ्गीकारो व्यर्थ इत्यर्थः । एषामिति भङ्गानाम् । प्राचीनैरिति । एकत्रेति यद्यपि तु सर्वं विरुद्धं संभवति । विद्वत्त्वस्यात् 'नहि विरोध उभयं भगवति' इति शब्दाच्च ॥ ३३ ॥ एवं चात्माऽकार्त्स्न्यम् ॥ ३४ ॥ तद्दूषणे तन्मते दूषणे । आत्मन इति । जगति समवायाकाङ्क्षापूरणार्थेत्यर्थः । वस्तु शरीरं तेन परिच्छेदस्तत्सङ्गीकारात् । वस्त्वात्मा वा । सर्वत्वमिति । तथा च देहमात्रमात्मेति घटपटादिरूपताकाशरूपता च न भवति । आलोकेति लोकोत्तराकाशवर्तित्वेन । तत्कृतेति भाकाशकृतेत्यर्थः । तत्र जीवमिश्रित्त्वावरणं संभवति । अस्तिकायत्वेति जीवोस्तिकायः जीवोनेकदेशवर्ति द्रव्यमिति प्रतिज्ञाया हानिः । जातित्वदिति । एष सामान्यं विकल्पमात्रमभ्युपगच्छति न वस्तु तस्य च विकल्पवदित्यर्थः । तत्र तत्र घठपटादौ । १४ ब्र० सू० २० 1277