सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

ād bhagavan... Yes! तादात्म्यात् becomes तादात्म्याद् before bh! Then भगवत्-निष्ठा becomes भगवन्-निष्ठा (t + n = nn)! So: तादात्म्याद् + भगवन्निष्ठा = तादात्म्याद्भगवन्निष्ठा! Wait, why would it be "भगवद्विष्ठा..."? If it were bhagavat + viṣṭhā, that makes no sense in Vedanta! "भगवन्निष्ठा" makes 100% sense! "भगवन्-निष्ठा" = devotion/steadfastness in Bhagavan! Wait, let's look at the letter between व and ष्ठा: It has a curve on top: that's an 'i' matra! And underneath, it's NOT 'द्वि', it's 'न्नि' (double n)! Yes! 'न्' + 'नि' = 'न्नि'! So it is definitely: भगवन्निष्ठा (bhagavanniṣṭhā)! Now, what is after भगवन्निष्ठा? Let's look at the next characters: There is: 'सृ' (or 'स्मृ' or 'मृ' or 'श्रु')? Wait! Could it be: "भगवन्निष्ठावताम्"? Look at the characters: Is there a 'व'? Look: after ष्ठा, there is: A character with a bottom

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २११ ब्रह्म प्राप्तस्य निर्दोषत्वादावृत्तिहेत्वभावात् प्रपञ्चेऽनावृत्तिः सम्भवति । तादृशं प्रतीश्वरेच्छापि न तथा भवितुमर्हति । 'ये दारागारपुत्राप्तप्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे' इति भगवद्वाक्यात् पर- प्राप्तिरूपत्वाच्च भोगस्य न नाशसम्भावना । किञ्च यत्रैकस्यैव भक्तस्य देशकाल- भेदेनानेकविधलीलासम्बन्धित्वेऽपि तत्तल्लीलासम्बन्धित्वमनश्वरमुच्यते, तन्न सर्वथा तदभावः कथं वक्तुं शक्यो ब्रह्मणापि । अपरञ्च । कालसाध्यो हि नश्वरः स्यात् । न हि पुरुषोत्तमे कालः प्रभवितुं शक्नोति । 'न यत्र कालोऽनिमिषां परः प्रभु'रित्यादिवाक्येभ्यः । तथा च ज्ञानमार्गीयभक्तिमार्गीययोरनावृत्तौ तुल्यत्वेऽपि फलप्राप्तौ बैलक्षण्यात् पूर्ववाक्येन भक्तानामाहाना Cyclical text repetition/variant: भक्तानामाहानावृत्तिम्, उत्तरवाक्येन ज्ञानि- नामिति ज्ञायते । न च फलप्रकरणान्तेऽनावृत्त्युक्तेः संसाराभाव एव जीवस्य परमं फलमित्याचार्याभिप्रायो ज्ञायत इति वाच्यम् । ब्रह्मविदः परप्राप्ति फलत्वे- नोक्त्वा तत्स्वरूपस्य सर्वकामभोगत्वेन श्रुत्या निरूपणात् । स च स्वस्वाधिकारा- नुसारेण निवेदितार्थाङ्गीकाररूप एवेति ज्ञेयम् । तेन स एव परमं फलम् । अना- वृत्तिस्त्वाार्थिकी, परन्त्वावृत्तौ सम्भवत्यां परमफलत्वं नोपपद्यत इति ज्ञानदुर्ब- लशङ्कानिरासायेयमुक्ता । भाष्यप्रकाशः। गन्तव्येत्यर्थः । ननूभयव्यामोहसूत्रे भक्तव्यामोहेच्छापि क्वचिदुक्तत्वात्तादृशेच्छया कदाचिदावृत्तिः स्यादिति शङ्कायामाहुः तादृशं प्रतीत्यादि । तथा च ये सर्वात्मभावप्रपत्तिरहिता उक्तभोगा- त्मकस्वरूपानुभवरहिताश्च तान् प्रत्येव तथेच्छेति, नात्र तत्सम्भावनापीत्यर्थः । समूलकाषमा- वृत्तिशङ्कानिवृत्त्यर्थं कैमुतिकेनापि तदभावं साधयन्ति किञ्चेत्यादि । ननु लीलायां देशकाल- सम्बन्धस्य पूर्वमुक्तत्वाल्लीलानित्यत्वोपपादनमात्रेण कथं शङ्कायाः समूलकाषं निवृत्तिरित्यतस्तत्र कालसांसामर्थ्ये प्रमाणमाहुः अपरं चेत्यादि । एवं लीलायाः स्वरूपानुभवस्य च नित्यत्वमुपपाद्य सिद्धमाहुः तथा चेत्यादि । ज्ञानमार्गीयफलस्तोकरूपमाशङ्क्य समादधते न चेत्यादि, इयमुक्तेत्य- न्तम् । स चेति भोगश्च । स एवेति उक्तरीत्यानुभूयमानः पुरुषोत्तम एव । आर्थिकीति । परप्रकाशनसामर्थ्याल्लिङ्गात्परप्राप्तिरूपवाक्यार्थबलेन प्राप्ता । तथा च श्रुत्या समर्पितायाः परप्राप्ते- रेव मुख्यत्वात्तत्रैवाचार्याभिप्रायः न तु लिङ्गिक्यामनावृत्तावित्यर्थः । यद्यपि द्विरुक्तिः समाप्ति- रश्मिः। इत्यादि । लिङ्गं शब्दस्य सामर्थ्यमिति पूर्वतन्त्रे । तादृशेति भक्तव्यामोहेच्छया । सर्वात्मभा- वेति । सर्वात्मभावेन शरणरहिताः । तथेच्छा व्यामोहेच्छा । नात्र तदिति नात्र भक्तिमार्गे तस्या आवृत्तेः सम्भावना । तथा च भाष्ये । तांस्त्यक्तुमुत्सहे इत्यस तान् भक्तान् त्यक्तुं भावर्तितुं उत्सह इत्यर्थः । अपि तु नेति काकुः । समूलकाषमिति, मूर्धन्यषकारान्तम्, कष हिंसायाम् । भ्वा. प. से. 'निमूलसमूलयोः कष' इति सूत्रेण णमुल, समूलकाषं कषति, कर्मणीत्वेव, कर्मणी- त्युपपद इत्यर्थः, द्वीपिर्न समूलकषभावं हिनस्तीत्यर्थः । प्रकृते तु समूलकाषमावृत्तिशङ्कानिवृत्त्यर्थम् । भाष्ये । तदभाव इति अनश्वरं लीलाभावः । प्रकृते । तदभावमिति भावृत्त्यभावम् । तथा चेत्यादि । पूर्ववाक्येनेति अनावृत्तिः शब्दादिति पूर्ववाक्येन । उत्तरेणेति द्वितीयेन तेन । ज्ञायत इति कर्ममार्गेण ब्रह्ममुक्तावप्येकदेशविकृतन्यायेनावृत्तिरेवेति ज्ञायत इत्युक्तम् । उक्तरीत्येति प्रदीपाधिकरणोक्तरीत्या । लैङ्गिक्यामिति लैङ्गिन्त्याम्, परप्रकाशनसामर्थ्य 2329

). So it literally says: "लिङ्गिन्‍यामनावृत्तावित्युक्तम्" or "लिङ्गिनामनावृत्तावित्युक्तम्"? Wait, why would it say "लिङ्गिन्‍या"? Could it be "लिङ्गिनाम् अनावृत्तौ"? If 'ना' had some ink smudge, it might look like 'न्या'. Wait, in "लिङ्गिनामनावृत्तावित्युक्तम्": if it's लिङ्गिनाम् + अनावृत्तौ -> लिङ्गिनामनावृत्तौ. In Sanskrit, लिङ्गिनाम् + अनावृत्तौ = लिङ्गिनामनावृत्तौ. That is completely standard Sanskrit! Wait, why would there be 'न्या'? Look at 'न्या' in 'न्याय' or 'सुबोधिन्यां': In line 28, 'सुबोधिन्याम्': 'न्या' has the loop of n, and the ya curve. In line 17: look at the glyph. It's 'न्या'! Wait, is it really 'न्या'? Yes, it looks identical to 'न्या' in 'सुबोधिन्याम्' (L28). Wait, could it be "लिङ्गिन्‍यामनावृत्तावित्युक्तम्"? Why would it be "लिङ्गिन्‍याम्"? Wait! Is "अनावृत्तिः" feminine? Yes! "अनावृत्तौ" is locative feminine. Could "लिङ्गिनी" be the feminine of "लिङ्गी"? If

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २१३ भाष्यप्रकाशः । नित्यसिद्धस्यैवेश्वरस्येति सिद्धान्तीक्रियते । तत्र हेतुः प्रकरणमितरेषामसन्निहितत्वं च । यत्र हि 'सदेव सोम्येदमग्र' इत्यादौ जगद्व्यापारः श्रूयते, तत्र परमेश्वर एव प्रकृतः, नेतरेषां सन्नि- धानम्, तस्मात् । न च 'आप्नोति स्वाराज्य'मिति प्रत्यक्षोपदेशविरोधः । एतदग्रे 'आप्नोति मनसस्पति'मित्यनेन आधिकारिको यः सवितृमण्डलादिषु विशेषायातनेष्ववस्थित ईश्वरः पूर्व- सिद्धः सर्वमनसां पतिस्तत्प्राप्तिश्रावणात्तद्भावेनैव स्वाराज्यप्राप्तिरिति बोधनात् तदग्रे, 'वाक्- पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवती'ति फलस्य तत एव श्रावणाच्च । एवं सूत्रद्वयं व्याख्याय विकारावर्त्तिसूत्रे त्वेवं वदन्ति । परमेश्वररूपं विकारावर्ति च । 'तावानस्य महिमा ततो

२१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २१. भाष्यप्रकाशः। ग्रहत्वस्योपासनविध्यगोचरत्वादुपासके तदक्रतुत्वस्य समर्थिततया अतत्क्रतुत्वस्यैव तत्रापि हेतुत्व- मुक्तप्रायमेवेति वाच्यम् । 'मनोमयः प्राणशरीर' इति हार्दोपासनवाक्ये 'सर्वकर्मे'ति विशेषणस्य सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्मास्य 'स सर्वकर्मा स हि सर्वस्य कर्ते'तिश्रुतेरित्येवं शङ्कराचार्यैरेव व्याख्याततया निरवग्रहत्वस्य विध्यगोचरतया वक्तुमशक्यत्वात् । न चोपासनानु पुरुषस्य विध्यधीनत्वेनाखातन्त्र्यात् फलदशायां तथात्वमिति युक्तम् । पूर्वावस्थाधर्मस्य तदानी- मुपगमे बद्धत्वस्यापि तदा प्राप्त्यापत्त्या मुक्तिविप्लवस्यैवापत्तेः । यच्च खातन्त्र्ये प्रातिभत्वप्रस- ङ्गादित्युक्तम्, तत्र नवनवोन्मेषशालिनी बुद्धिः प्रतिभा, तत्सम्बन्धित्वमिति यदि, तदा [L

नीयम्। 'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुत्या तादृशस्य फलस्य ततो व्यभिचारात् । 'यथा क्रतु'रिति पुरुषविशेषणबोधके पदे प्रकारांशे पुरुषाधिकारस्यापि निविष्टत्वात् समत्वाद्याकाङ्क्षायाश्च, 'तेनार्हति ब्रह्मणा स्पर्धितुं क' इति, 'उषति ह वै स तं योऽस्मात् पूर्वो बुभूषती'ति श्रुतिभ्यां निषिद्धत्वेन तादृशोपासनेऽधिकारस्य निवृत्तेश्च । न चायमेव समाधिः शाङ्करेऽपि मतेऽस्त्विति वाच्यम् । तन्मते निर्गुणस्य रूपस्य सर्वाभ्यधिकत्वेन सगुणेऽभ्यधिकराहित्यभावेनाधिकसाहित्ये प्राप्ते उक्तरीत्या समसाहित्यस्यापि वक्तुं शक्यतया तद्राहित्यस्यापि दुरुपपादत्वेनैतच्छ्रुतिविषयता- यास्तत्र वक्तुमशक्यत्वात्। समाभ्यधिकनिषेधावधिकतया निर्गुणबोधकत्वे च सगुणे समसाहित्यस्यै- देकं वाक्यं साकाङ्क्षं चेद्विभागे स्या'दिति द्वितीयाध्यायसूत्रे पूर्वमीमांसायां वाक्यलक्षणम् । 'अथ खलु क्रतुमयः पुरुषो यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवती'ति द्वितीयं वाक्यम् । 'स क्रतुं कुर्वीते'ति तृतीयम् । अग्रे 'मनोमयः प्राणशरीर' इत्यादि क्रतुस्वरूपम् । तत्र मनोमय- वाक्योक्तोपासकस्येत्यर्थः । तथात्वापत्तयेति ब्रह्मणो मननोपदेशे मननरूपोपासनायां सर्वकर्मेति- विशेषणस्यापि सत्त्वेन जीवन्मुक्तदशायां संशयाभावरूपे फले स्वातन्त्र्यापत्त्या इत्यर्थः । जगद्व्यापारेति जगद्व्यापारो जगज्जन्मादिकर्तृत्वलक्षणस्तत्सापत्तिः । स्वातन्त्र्ये निरङ्कुशजगत्कर्तृत्वस्य नियतत्वात् । 'स्वतन्त्रः कर्ते'ति पाणिनीयसूत्रादित्यर्थः । तादृशस्येति जगद्व्यापाररहितस्य 'यस्य स्यादद्धा न विचिकित्सास्ति' इति तत्रोक्तश्रुत्युक्तसंशयाभावरूपस्य फलस्य । तत इति समाभ्यधिकजगद्व्या- पारसहितप्रपञ्चाद्व्यभिचारात् । व्यभिचारोत्र समाभ्यधिकफलवत्त्वाभावाभावस्य । जगद्व्यापारसहित- प्रपञ्चत्वासमानाधिकरण्यं व्यभिचारस्तादृशफले । 'यथा क्रतुरस्मिंलोके पुरुषो भवति तथेतः प्रेत्ये'ति छान्दोग्ये । प्रकारांश इति थाल् प्रत्ययार्थः प्रकारस्तदंशे । अधिकारस्यापि प्रकारत्वान् निविष्टत्वं तस्मात् । समत्वादीति । आदिनाधिकत्वम् । स्पर्धितुमिति स्पर्ध सङ्घर्षे । सङ्घर्षः पराभिवेच्छा पराभवेष्टुम् । क इति न कोपीति । समत्वाकाङ्क्षाया निषिद्धत्वम् । उषति उष् दाहे दहति । स आत्मा । बुभूषतीति भवितुमिच्छतीति बुभूषति भू सत्ता- यामिच्छार्थे सन् सन् द्वित्वम् । अनयाधिक्याकाङ्क्षाया निषिद्धत्वम् । आधिक्यं पूर्वत्वम् । 'मद्भक्तपूजाभ्यधिके'त्यत्राधिक्यं प्राथम्यमिति व्याख्यानात् । तादृशेति मनोमयवाक्योक्ते ब्रह्मणो मननोपदेशे मननरूपोपासने । अधिकारस्येति 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपा- सीते'त्युक्ते सर्वजगतो ब्रह्मत्वेनोपासने स्पष्टनिरवग्रहोपासनाधिकारस्य । अयमेव समाधिरिति यथाक्रतुरिति पुरुषविशेषणबोधके पदे प्रकारांशे पुरुषाधिकारस्यापि निवृत्तत्वान्निर्गुणफलाप्राप्तिः सगुणोपासकस्य सावग्रहाणिमाद्यैश्वर्यप्राप्तिश्च न निरवग्रहैश्वर्यप्राप्तिरिति समाधिरेव । शाङ्करेपि मते सगुणोपासकस्य न निर्गुणप्राप्तिः, सगुणप्राप्तावपि न निरवग्रहाणिमाद्यैश्वर्यप्राप्तिः किन्तु सावग्रहाणि- माद्यैश्वर्यप्राप्तिरित्यस्मिन्मते । उक्तरीत्येति अव्यवहितोक्तरीत्या । तथाहि । निर्गुणस्य रूपस्य सर्वांसाम्येन सगुणे साम्यराहित्याभावेन समसाहित्ये प्राप्ते इति रीत्या । तद्राहित्यस्येति समाभ्य- धिकराहित्यस्य । एतच्छ्रुतीति 'न तत्समश्चाभ्यधिकश्चे'ति श्रुतिविषयतायाः । तत्र शाङ्करे मते । समाभ्यधिकेति समाभ्यधिकयोर्निषेधस्तत्सावधिकतया श्रुतेर्निर्गुणस्य बोधकत्वे च । समसा- हित्यस्येति श्रुतौ तदित्यव्ययं लुप्तपञ्चमीकम्, निर्गुणाद् अवधेः समाभ्यधिकनिषेधेऽधिकधर्मी- देर्मायिकत्वेनाधिक्यसाहित्याप्राप्त्या समसाहित्यस्यैवेत्यर्थः । विशिष्टं शुद्धानातिरिच्यत इति नैया-

११६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २२ ० भाष्यप्रकाशः। बापत्तेश्च । अधिकारविचारेणातत्क्रतुत्वसाधने च निरवग्रहतायाः प्राप्तेरेवाभावेन स्वातन्त्र्य- शङ्काया एवानुदयात् स्वातन्त्र्ये प्रतिभत्वप्रसङ्गस्यैवाभावादिति दिक् । भास्कराचार्यास्तु, सिद्धान्ते 'अविभागेन दृष्टत्वा'दित्यारभ्य परंमकारणे सायुज्यं गतानां निरवधिकमैश्वर्यमिति स्थितम् । ये पुनर्वेदान्ते द्वैतवादिनो मन्यन्ते, मुक्ताः पृथगवति- ष्ठन्त इति, तन्मतमभ्युपगम्य, सावधिकमैश्वर्यं तेषामपि प्रतिपादयितुं जगद्व्यापारवर्ज्याधिकरण- मारभत इत्युक्त्वा, जगद्व्यापारादिसूत्रं पूर्ववदेव व्याख्याय, विकारावर्तिसूत्रे, पारमेश्वरं पुनरैश्वर्यं नित्यसिद्धं विकारावर्ति, स्वमहिमप्रतिष्ठत्वात्, 'तावानस्य महिमे'ति श्रुतेः । कार्यब्रह्मलोकवर्तिनां मुक्तानां 'सङ्कल्पादेवे'ति श्रुतेः । 'तदैरम्मदीय ९ सरस्तदश्वत्थः सोमसवन' इति बहुविधमैश्वर्ये प्रकीर्त्य तत्रेश्वरायत्तमित्युपपन्नम् । 'दर्शयतः' इति सूत्रे, परस्य ज्योतिषो विकारावर्तित्वं विका- रानुग्राह्यत्वं च 'न तत्र सूर्यो भाती'त्यादिश्रुतिस्मृती दर्शयत इत्युक्तवन्तः । तन्मते विकारावर्त्यादिसूत्रयोर्यद्यपि न वैयर्थ्यम्, तथापि दहरविद्योक्तब्रह्मलोकस्य कार्यत्वं यदङ्गीकृतमेतैरन्यैश्च तच्चिन्त्यम् । तत्कार्यत्वबोधकप्रमाणानुपलम्भात् । न च प्रद्यु- विमितं हिरण्मयमिति वेश्मविशेषणे विमितमितिपदे निर्मितत्वकथनादेकदेशस्य कार्यत्वे सर्वस्य तथात्वं शङ्क्यम् । विमितपदस्य विशेषेण मितं ज्ञातमित्यर्थकतयापि नेतुं शक्यत्वेन ततो निर्णया- भावात् । नापि, 'तृतीयस्यामितो दिवी'ति ब्रह्माण्डान्तर्वर्तित्वश्रावणात्तद्भाशे एतद्भासात्कार्य- त्वमिति वाच्यम् । 'नास्य जरयैतज्जीर्यती'त्यादिना आत्मरूपताबोधनेनास्याः शङ्कायाः प्रागेव निरस्तत्वात् । न च तदन्यदेव, नेदमिति वाच्यम् । एकप्रकरणगतत्वेन पूर्वे 'एतत्सत्यं ब्रह्मपुर'- रश्मिः। यिकोद्घोषात् । आपत्तिस्तु न तत्सम इति निषेधाद्बोद्ध्या । अधिकारेति यत्र यस्यानधिकारस्तस्य तत्क्रतुत्वं अन्यस्यातत्क्रतुत्वस्य साधने । निरवग्रहताया इति निरङ्कुशतायाः । स्वातन्त्र्येति निरङ्कुशतायाः । इत्युक्तवेति भेदाभेदवादादित्युकत्वा । सङ्कल्पादिति छान्दोग्ये 'स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ती'ति दहरविद्यायाम् । ऐरमिति इराया वारिणः सम्बन्धि न शुष्कम् । 'इरा वारिसुराभूमिभारतीषु प्रयुज्यत' इति विश्वः । इरान्नं तन्मय ऐरः मण्डस्तेन पूर्णमैरं सरः मदीयं तदुपयोगिनां हर्षोत्पादकमिति टीकायाम् । सोमसवन इति सोमं सूत इति सोमसवनः । नन्द्यादित्वाल्युः । सोमं स्रवतीति सोमसवन इति टीकायाम् । 'सवनं यजने स्नाने सोमनिर्दलनेऽपि चे'ति विश्वः । तेन स्रवतीत्यस्य निर्दलतीत्यर्थः । षूञ् विशरणे भ्वा. प. से. । तत्रेति छान्दोग्ये । ईश्वरायत्तमिति ऐश्वर्यम् । 'आत्मानमनुविद्य व्रजन्ती'ति पूर्वश्रुत्या स यदीत्यत्र स इत्यस्यात्मानुविदित्यर्थात् । न वैयर्थ्यमिति दृष्टान्तार्थत्वाभावान्न वैयर्थ्यमित्यर्थः । एकदेशस्येति हिरण्मयस्य । तथात्वं कार्यत्वम् । तृतीयस्यामिति छान्दोग्ये 'अथ यदिद'मित्यारम्भके प्रपाठकेऽस्ति । इतो भूलोकादारभ्यान्तरिक्षं चापेक्ष्य तृतीयस्यां तृतीयत्वेन व्यवस्थितायां दिवि द्युलोकाख्ये ब्रह्मलोके अरश्चेत्यादिरस्ति । प्रागेवेति दहराधिकरणे । 'जगद्व्या- पारवर्ज्या'धिकरणे । तृतीयचरणे 'कार्यं बादरि'रित्यधिकरणे च । न च तदिति छान्दोग्यीयं दहर- विद्योक्तम् । नेदमिति न 'तृतीयस्यामितो दिवी'त्यनया श्रुत्योक्तम् । तथा च 'नास्य जरये'त्यादिहेतुना तृतीयस्यामित्युक्ते नाशनिवृत्तिरिति भावः । एकप्रकरणेति मन्दाधिकारिप्रकरणगतत्वेन टीकायां स्पष्टम् । 2334

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २१७

भाष्यप्रकाशः। मित्यनेनोक्तस्य ब्रह्मपुरस्य, 'तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोक' इत्यादिना परिकरपूर्वकं तत्प्रपञ्चनस्यैव भासमानतया भेदस्य वक्तुमशक्यत्वात् । उपबृंहितं चैतद् वाराहे चातुर्मास्यमाहात्म्ये चतुर्दशाध्याये क्षीरसमुद्रं प्रकृत्य । 'तन्मध्ये मम लोकस्तु परितो वलयाकृतिः । योजनानां तु लक्षाणि विंशतिस्तस्य विस्तृतिः । श्वेतद्वीप इति ख्यातः प्रलयेपि न नश्यति' ॥ इत्युक्त्वा, तत्र श्रीभूदुर्गात्मकभागत्रयं तत्परिमाणं संख्यां चोक्त्वा, तत्र भूदुर्गाभागयो- स्तत्स्थानां चावान्तरप्रलये नाशाभावमुक्त्वा, 'तस्मिन् स्थाने लयं याते प्रविशन्त्युदरे मम' । इति ब्रह्मणो लये भूदुर्गाभागस्थानां स्वोदरे स्थितिमुक्त्वा 'श्रीभागे संस्थिता ये तु

११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २२. भाष्यप्रकाशः। तस्याप्येवं विभागोऽस्ति नित्यानित्यविभेदतः । अरण्याख्यौ सुधासिन्धू र्धूमलोकत्रयेपि च ॥ वर्तते मम भक्तानां क्रीडायै सर्वकामदौ' । इति लोकत्रयं तु वैकुण्ठानन्तासनश्वेतद्वीपभेदेन तत्रैवोक्तम् । तेषु छान्दोग्योक्तो वैकुण्ठाख्यो ज्ञेयः । 'तृतीयस्यामितो दिवी'ति विशेषणेन उच्चस्त्व- बोधनादिति । अतः स लोको न कार्यः, किन्तु नित्य एवेति निश्चयः । लोकस्य ब्रह्मरूपत्वादेव च न तत्रभोरपि स्वप्रतिष्ठत्वहानिरिति सर्वमनवद्यम् । रामानुजाचार्यास्तु, मुक्तस्यैश्वर्यं जगत्सृष्ट्यादिपरमंपुरुषासाधारणम्, उत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशये, जगदीश्वरत्वमपीति पूर्वः पक्षः । 'निरञ्जनः परमं साम्यमुपैती

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २१९ भाष्यप्रकाशः। प्रपद्ये' इत्यादिना श्यामवर्णश्रावणाच्च । लोकोपि ततः पूर्वं दहरविद्योक्त एव सन्निहितः । स चारण्याख्यार्णवद्वयव्याप्तो वाराहपुराणवाक्यैर्भगवल्लोकत्वेन निश्चितः । अथर्वशिरःशिखाद्याश्च विद्याः भगवद्विद्यानां न तुल्याः । 'अथर्वशिरःशिखाध्यायिशतमेकमेकेन मन्त्रराजजापकेन तत् सम'मिति नृसिंहपूर्वतापनीये श्रावणात् । अतस्तत्प्रतिपाद्यस्य रूपस्य न भगवत्तुल्यत्वम् । वेद्यो- त्कर्षत एव विद्योत्कर्षसिद्धेरिति । एतत् सर्वं पूर्वमपि किञ्चिदुक्तं प्रहस्तारूये वादे च मया निपुणतरमुपपादितमिति न पुनः प्रपञ्च्यते । माध्वास्तु, जगद्व्यापारसूत्रे, 'सर्वान् कामानाप्त्वा अमृतः समभव'दिति काञ्चन श्रुतिं लिखित्वा, तस्या जीवप्रकरणगतत्वाज्जीवानां जगज्जननादिसामर्थ्यविदूरत्वाच्च सृष्ट्यादिभ्योऽ- न्यान्येव कामानामोतीत्युक्त्वा, 'स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जते । तद्योग्यता नैव तेषां कदाचित् कापि विद्यते । न चायोग्यं विमुक्तोपि प्राप्नुयान्न च कामये'दिति वाराहवचनं लिखन्ति । अग्रिमसूत्रे च, 'सर्वेस्मै देवा बलिमावहन्ती'ति श्रुत्या ब्रह्मविदि जगदैश्वर्यमस्तीत्याशङ्क्य, तत्र आधिकारिकमण्डलस्थ आधि- कारिकसमूहाधिपतिर्ब्रह्मा, तत्रोच्यत इत्युक्त्वा, 'आत्मेत्येवं परं देवमुपासं हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन । अत्रैव च स्थितिस्तेषामन्तरिक्षे च केचन । केचित् स्वर्गे महर्लोके जने तपसि चापरे । केचित् सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् । तत्रापि क्रमयोगेन ज्ञानाधिक्यात् समीपगाः । सालोक्यं स्वरूपत्वं सामीप्यं योग एव च । इमामारभ्य रश्मिः। चेति छान्दोग्ये दहरादिविद्याङ्गमूतजपादिविधानार्थं मन्त्रोयम् । श्यामाच्छबलाच्छबलं आकाशशबल- माकाशशरीरं ब्रह्मलोकं प्रपद्ये गच्छामि । शबलाच्छ्याममिति व्यतिहारः । इत्यादिनेत्यादिना 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भ- वाम्यभिसम्भवामीती'ति । अर्थस्तु तत्रास्मिन्नेकदृष्टान्तेनाह अश्व इवेति । यथा अश्वो रोमाणि विधूय कम्पनेन श्रमं पांश्वादि च रोमतोपनीय निर्मलो भवति तथा दार्द्रब्रह्मज्ञानेनोपासको ह शरीरं धूत्वा पापं धर्माधर्माख्यं विधूयापनीय निर्मलः सन्, चन्द्र इवेति यथा राहुग्रस्तश्चन्द्रो राहोर्मुखात्प्रमुच्य भाखरो भवति विद्यमानस्वरूपो भवत्येवमुपासको ह शरीरं धूत्वा इहैव ध्यानेन कृतात्मा कृतकृत्यः सन् अण्वकृतं ब्रह्मलोकं नित्यं अभि अभितः मार्गभेदेन सम्भवामि प्राप्नोमि । द्विरुक्तिः कर्माभिप्राया । ज्ञानिनामक्षरे लयान्न नित्यब्रह्मलोकप्राप्तिः । इतिशब्दो ध्यातुर्ध्यानसमाप्त्यर्थः । अभ्यासो मन्त्रसमाप्त्यर्थोपि । आकाशशरीरं कथं ब्रह्मलोक इत्याकाङ्क्षायामग्र आह छान्दोग्य एव 'आकाशो ह वै नामरूपयोर्निर्वहिते'त्यादिना लोकप्रयोजकत्वमाकाशस्योक्तम् । अरण्याख्येति अरश्च ण्यश्च अरण्यौ, अल्पाक्षरं पूर्वमित्यस्य छन्दसि विकल्पः, तौ आख्या यस्यानवद्वयस्य तेन व्याप्तः । विद्या इति शिवविद्याः । भगवद्विद्यानामिति भगवद्विद्याभिरित्यर्थः । कर्मादीनामपि सम्बन्धसामान्यविवक्षायां षष्ठ्येवेति । पूर्वमिति द्वितीयाधिकरणे 'एवमप्युपन्यासात्पूर्वभावाद- विरोधं बादरायण' इति सूत्रभाष्ये । समभवदिति उपासको भक्तो वा । तद्योग्यतेति सृष्ट्यादिव्यापृतियोग्यता । सर्वेऽस्मा इति अस्मै नित्यक्रीडायुक्ताय ब्रह्मणे । इत्याशङ्क्येति 'प्रत्यक्षोपदेशा'दिति सूत्रांशेनाशङ्क्य । तपसीति तपोलोके । मुच्यन्त इति सद्योमुक्तिं कुर्वते । नोत्क्रामन्तीति देहेभ्यो नोत्क्रामन्ति । अत्रेति भूलोके । क्रमयोगेनेति क्रममाने- नेत्यपि पाठः । योग एवेति 'भक्त्या प्रसन्ने तु हरौ तं योगेनैव योजये'दित्युक्तम् । इमामिति 2337

२२८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २२. भाष्यप्रकाशः। सर्वत्र यावत्सु क्षीरसागरम् । पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः । मानुषा वर्णभेदेन तयैवाश्रमभेदतः । क्षितिपा मनुष्यगन्धर्वा.देवाश्च पितरश्चिराः १। आजानजाः कर्मजाश्च तात्त्विकाश्च शचीपतिः । रुद्रो ब्रह्मेति क्रमस्त्वेषु चैवोत्तमोत्तमाः । नित्यानन्दे च भोगे च ज्ञाने- श्वर्यगुणेषु च । सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् । पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतु- र्मुखः । स्वजगद्यापृतिस्तेषां पूर्ववत् समुदीरिता । सयुजः परमात्मानं प्रविश्य च बहिर्गताः । चिद्रूपान् प्राकृताँश्चापि विना भोगॉस्तु काँश्चन । भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदीहृते'ति गारुडवाक्यानि लिखन्ति । तेन तन्मते मुक्तानां मुक्तेश्च तारतम्यं सिध्यति । विकारावर्तिसूत्रे च 'साधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् । बलिं हरन्ति मुक्ताश्च विरञ्च्याय च पूर्ववत् । समञ्जकास्तु ते देवा विष्णवेऽत्र विशेषतः । न विका- राधिकारास्तु मुक्तानामन्य एव तु । विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुने'ति वाराह- वचनं लिखन्ति । तेन तन्मते मनुष्यादीनां चतुर्मुखान्तानां स्वस्वव्यापारकरणं तत्तदाधिकारश्च सिध्यति । क्वचित्, मुक्तौ तारतम्यमस्ति, न वेति सन्देहे तारतम्ये प्रमाणाभावात्तदङ्गीकरणे च 'निरञ्जनः परमं साम्यमुपैती'ति श्रुतिविरोधान्मुक्तेः स्वर्गसंसारसाम्यापत्तेर्मुक्तानां स्वसाम्या- धिकदर्शने दुःखेष्र्यादिप्रसङ्गाच्च न मुक्तेस्तारतम्यमिति पूर्वपक्षः । सिद्धान्तस्तु तैत्तिरीये, 'सैषा- नन्दस्य मीमांसा भवति ते ये शतं मानुषा आनन्दाः। स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्ये'त्यादिश्रुत्या मनुष्यगन्धर्वप्रभृतिब्रह्मान्तानां श्रोत्रियत्वमकामहतत्वं च भाषितम् । वाजसनेयके च, 'अथ ये शतं कर्मदेवानामानन्दाः स एक आजानजानां देवा- नामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहत' इत्यादिश्रुत्याजानजानारभ्य ब्रह्मलोकानन्दपर्यन्त- मकामहतत्वमवृजिनत्वं च भावितम् । अकामहतत्वं च कामकृतोपद्रवरहितत्वम्, न त्वका- मत्वं हतशब्दवैयर्थ्यात् । अवृजिनत्वं च पापरहितत्वं दुःखरहितत्वं वा । अवृजिनत्वाकामहत- रश्मिः। भूमिम् । यावत्सु वस्तुषु । क्षीरसागरं लक्ष्यीकृत्य । चिराः पुराणाः । शचीपतिरिन्द्रः । स्वजग- दिति तृणारणिमणिन्यायेन तत्तद्ब्रह्माण्डान्तरेष्वपि बोध्या । पूर्ववदिति ब्रह्मवत् । ते समुदीरिताः । सयुज इति सह युनक्तीति सयुक् जसि सयुजः । चिद्रूपान् रौद्रान् । 'वेदः शिवः शिवो वेद' इति श्रुतेः । सदानन्दः कृष्णः चिच्छब्दः 'नामचिद्विकत्थने'त्यृग्वेदश्रुतेः । प्राकृतान्मायि- कान् मानसान् 'माया मनः सृजती'ति श्रीभागवतात् । विनायोगे द्वितीया मानसान्प्राकृतान् भोगान् विना । त इति । अर्थो गरुडपुराणाज्ज्ञातव्यः । पूर्ववदिति चतुर्य्यन्ताद्वतिः । ब्रह्मवत् । 'विकारावर्ति चे'ति सूत्रार्थः । न विकाराधीति ते न विकारावर्तिनः किन्तु मुक्तानां मध्येऽन्ये तरतममुक्तिं प्राप्ता एवेत्यर्थः । 'तथाहि स्थितिमाहे'ति सूत्रांशार्थः विकाराधीति । नियुक्ता इति आज्ञाद्वारा वैधे नियुक्ताः । क्वचिदिति मध्वा इवेव । सिद्धान्तस्त्विति वदन्तीत्यग्रेन्वयः । श्रोत्रियत्वमिति श्रोत्रियश्छन्दोधीते यः सः । अवृजिनत्वेति मुक्तलिङ्गत्वमित्यनेनान्वयः । १. चरा इति प्रकाशस्यपाठः । 2338

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९२१ भाष्यप्रकाशः। स्तयोश्च 'यत्राप्ताः कामास्तत्र माममृतं कृधी'ति श्रुत्या, 'स हि मुक्तोऽकामहत' इति ब्रह्माण्ड- वाक्येन च मुक्तलिङ्गत्वम् । न चैतयोरपरोक्षज्ञानिलिङ्गत्वमिति शङ्क्यम् । प्रारब्धपापतत्कार्य- दुःखयोस्तस्मिन्नपि सत्त्वात् । श्रोत्रियत्वमपि मुक्तस्यैव मुख्यम् । 'प्राप्तश्रुतिफलत्वात्तु श्रोत्रियाः प्राप्तमोक्षिणः । ते एव चाप्तकामत्वात् तथाऽकामहता मता' इति भारत्तोक्तेः । एवं सत्येतेषां मुक्तलिङ्गत्वम् । एवं सत्येतयोः श्रुत्योरुत्तरोत्तरमानन्दाधिक्यकथनं मुक्तितारतम्ये पर्यवस्यति । किञ्च 'अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवु'रित्यादितैत्तिरीयश्रुतौ मनोवेगे सर्वेषामसाम्यकथनात्, 'मुक्तानामपि सिद्धानां नारायणपरायणः स दुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने' इति श्रीभागवतवाक्ये, 'मुमुक्षोरमृतुक्तस्तु परो ह्येकान्तभक्तिमा'निति पुराणान्तरवाक्ये, 'अन्ये त्वेवमजानन्त' इति, 'स्त्रियो वैश्यास्तथा शूद्रा' इति गीतावाक्ये च साधनतारतम्येन फलतारतम्यप्रतिपादनात्, 'अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी'ति वाक्ये चाल्पभक्तिसाध्यमुक्तितोऽधिकभक्तिसाध्यमुक्तेराधिक्यप्रतिपादनात्, अस्मदादिमुक्तभोगो, मुक्तचतुर्मुखभोगात्निकृष्टः, अस्मदादिभोगत्वात्, संसारस्थास्मदादिभोगवदित्यनुमानादपि मुक्तौ तारतम्यमेव पर्यवस्यतीति प्रमाणाभावरूपो हेतुरसिद्धः । दुःखाभावसत्यकामतादिना सरः- सागरयोरिव स्वयोग्यानन्दपूर्त्या च मुक्तानां ब्रह्मसाम्ये साम्यश्रुत्युपपत्तेस्तद्विरोधरूपो हेतुरप्यसिद्धः। बहुजन्मनिर्गतदोषत्वे ब्रह्मापरोक्षाच्च द्वेषेष्यदिसम्भावनाया एवाभाव इति सोऽप्यसिद्धः । अतो मुक्तितारतम्यं निष्प्रत्यूहमिति वदन्ति । तत्र यदि मुक्तस्तारतम्यम्, तदापि मुक्तिं प्रति तत्तदुपासनाया भक्तेर्वा तदनुरूपाया एव कारणत्वमिति तत्क्रतुन्यायादेव तारतम्यक्रम्रादिसिद्धिरिति किमनेन विचारेणेति प्रकृतानुपयोगा- त्तदनुचिन्तनप्रयोजनस्याप्यनुपलब्धेश्च तत्र वयमुदासीनाः । प्रकृतमनुसरामः । अत्रैतत् सिद्धम् । ज्ञानमार्गीयाणां तद्रीयताऽदृश्यत्वादिकरणका- क्षरोपासने तत्क्रतुन्यायेन तादृशेऽक्षरे 'ब्रह्मैव सन् ब्रह्माप्येती' तिश्रुत्युक्तो लयः । अक्षरस्य, रश्मिः। एतयोरिति अवृजिनत्वाका महतत्वयोः । तस्मिन्निति ज्ञानिनि । प्राप्तमोक्षिणो मुक्ताः । एतेषा- मिति श्रोत्रियत्वाका महतत्वावृजिनत्वानाम् । एतयोरिति तैत्तिरीयवाजसनेयकयोः । सर्वेषामिति अक्षण्वतां कर्णवतां सखीनाम् । अन्ये त्वेवमिति 'श्रुत्वान्येभ्य उपासत' इति द्वितीयचरणः । प्रमाणाभावेति इमे हेतवः क्वचित्त्वित्यादिनोक्ताः । असिद्ध इति मुक्तिः तारतम्याभाववती तारतम्ये प्रमाणाभावाच्छ्रुतिविरोधाद्दुःखेर्ष्यादिप्रसङ्गाज् जनकवद् व्यतिरेके जयविजयवत् । मुक्ति- स्तारतम्यवती प्रमाणसत्त्वाच्छ्रुतिविरोधाभावाद् दुःखेर्ष्यादिप्रसङ्गाभावाद्युक्तभक्तवद् व्यतिरेके ज्ञानिवद् इति सत्प्रतिपक्षत्वेऽपि स्वरूपासिद्धः । सिद्धान्तवाक्यैः श्रुतेरिति स्वरूपासिद्धियोधात् । द्वितीये हेतुसम्बन्धिविचारमाहुः दुःखाभावेति । सोपीति दुःखेर्ष्यादिप्रसङ्गरूपो हेतुरपि । तत्क्रतुन्यायेनेति अप्रतीकालम्बनसूत्रेोक्तेन । तादृश इति ज्ञानिनामक्षरत्वेनोपस्थितेऽक्षरे । ब्रह्मैव सन्निति सामीप्यमुक्त्या ब्रह्मैव सन् बहिःप्रकटे निर्विशति सद्योमुक्तिं प्राप्नोतीत्यर्थे भक्तिमार्गे, ज्ञानेनाविद्यानिवृत्तौ सायुज्याद्ब्रह्मैव सन् ब्रह्माप्येतीत्युपचर्यते । यद्वा । युक्तः सन् भक्तिलाभे ब्रह्माप्येति परब्रह्मसामीप्यम्येति गच्छति ज्ञानीत्यर्थः । अक्षरत्वेनोपस्थितिमुरुत्वा १. श्रुत्वा । 2339

Here is the line-by-line transcription of the text from the image:

१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २२. भाष्यप्रकाशः। 'तद्धाम परमं ममे'ति वाक्योक्तभगवद्धामत्वज्ञानपूर्वकं नित्यभगवल्लोकत्वेन भगवदभिन्नत्वेन दहराद्युक्तरीत्योपासने यथाधिकारं सालोक्यादिचतुष्टयप्राप्तिः । आदित्याद्युपासनानामङ्गोपासना- त्वात् पञ्चाग्न्युपासनाया अपि तत्रैव प्रवेशस्योपपादितत्वादर्चिरादिक्रमेण गत्वाऽमानवेन पुरुषेण भगवल्लोकप्राप्तिरैश्वर्यादिभोगश्च । उपासनायां मर्यादाभक्तिसाहित्ये तु वैकुण्ठादिलोकेषु भगवत्सेवकत्वमधिकम् । तदा रामानुजभाष्योक्तरीत्या भगवदनुभवः । तत्रापि भक्तेरुत्कर्षे तु भगवच्चरणे कौस्तुभादौ वा प्रवेशेन भगवत्सायुज्यम् । अनुग्रहविशेषेण पुष्टिभक्तौ तु, 'भक्त्या मामभिजानाती'त्युक्तरीत्या स्वस्मिन् प्रवेश्य भूम

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६२१ जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् । तदन्यदिति ये प्राहुरासुराँस्तानहो बुधाः ॥ १ ॥ नानामतध्वान्तविनाशनक्षमो वेदान्तहृत्पद्मविकाशने पटुः । आविष्कृतोऽयं भुवि भाष्यभास्करो मुधा बुधा धावत नान्यवर्त्मसु ॥ २ ॥ पुरन्दरमदोद्भवप्रचुरवृष्टिसम्पीडित- स्वकीयवरगोकुलावनपरायणो लीलया । स्मितामृतसुवृष्टिभिः परिपुपोष तान् यो गिरिं दधार च स एव हि श्रुतिशिरस्तु संराजते ॥ ३ ॥ भाष्यप्रकाशः । एवं सर्वं शास्त्रं व्याख्याय स्वीयशिक्षार्थं सङ्क्षेपेण तदर्थमुपदिशन्ति जानीतेत्यादि । तद- न्यदिति । तत् परमं तत्त्वम् । अन्यत् यावद्धर्मशून्यम् ॥ १ ॥ भाष्यविभावनार्थमुपदिशन्ति नानेत्यादि ॥ २ ॥ अत्रोक्तस्य फलस्य भगवत्कृपाधीनत्वाद्वगवतः कृपालुत्वं स्वीयरक्षकत्वेन स्फुटीकुर्वन्ति पुरन्दरेत्यादि । हिर्हेतौ ॥ ३ ॥ रश्मिः । शास्त्रमिति उपाङ्गमीमांसाशास्त्रम् । अवयवेष्वपि शास्त्रत्वमविरुद्धम् । षट् शास्त्राणि । सङ्क्षेपे- णेति सन्दिग्धवाक्यानां मीमांसाविषयत्वाद्विस्तरे बुद्धिनिवेशाच्च सङ्क्षेपेण शास्त्रार्थम् । जानीतेत्यादीति । फलाध्याये प्रतिपादितं सन्दिग्धफलमुपदिशन्ति आज्ञापयन्ति यथा स्वमार्गीयः स्वार्थान्न नश्येत् । आचार्याज्ञोलङ्घनं महापराध इति । तत् परमं तत्त्वम् । अन्यत् यशोदोत्सङ्गलालितादन्यत् भिन्नं यावद्धर्मशून्यम् । हे बुधा आसुरान् तामसान् अभिन्ने भिन्नत्वबुद्धीन् तान् जानीतेत्युपदेशः ॥१॥ नानेत्यादीति । नानामतानि अन्यभाष्याणि ज्ञेयानि । नानामतैर्ध्वान्तः सूत्रार्थप्रकाशस्तस्य विनाशने क्षमः समर्थः । भावे ल्युट् विनाशन इत्यत्र, क्षम इत्यत्र पचाद्यच् । वेदान्तेति । उपनिष- त्सिद्धान्तविकाशने । भाष्येति अणुभाष्यभास्करः । नामैकदेशग्रहणम् । भास्करपदेन ब्रह्मज्ञाने- धिकारि अणुभाष्यमिति द्योतितम् । धावतेति । भाष्यविभावनार्थमुपदेशः आज्ञा । फलानन्तरं भाष्य- विभावनोक्त्या ज्ञापयन्ति । आत्मानन्दसमुद्रस्थं कृष्णमेव भाष्येण विचिन्तयेदिति । तदुक्तं सिद्धा- न्तमुक्तावल्यां 'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्द समुद्रस्थं कृष्णमेव विचिन्तये'- दिति ॥ २॥ भगवत्कृपेति । कृपा प्रथमचतुर्थचरणे 'सूक्ष्मं तु तदर्हत्वा'दिति सूत्रभाष्ये महतः परं निवेशिता । 'कृपाविष्टः साधनं भगवान् तत्कृपा 'तदन्तरप्रतिपत्ता'वित्यायुक्तसाधने ब्रह्मात्मके परम्परया वर्तत इत्याशयेन कृपालुत्वम् । भगवत्कृपया भाष्यं कृतमिति । 'इति भारतमाख्यानं कृपया मुनिना कृत'मिति न्यायेन । 'दत्त्वाज्ञां च कृपावलोकनपटु'रिति प्रथमसुबोधिन्याम् । पुष्टिमार्गीयत्वेन शेषानाहुः स्वीयरक्षकत्वेनेति । गिरिं दधारेति पदतात्पर्यार्थः । पदद्वयार्थानुसन्धाने बीजमग्रे वाच्यम् । पुरन्दरेत्यादीति । स्मितामृतेति स्मितं श्रीरामचन्द्रः हासरूपत्

३२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २२. श्रीकृष्णकृपयाप्ययं सिद्धान्तो हृदि भासते । तेनाधिकं वरीवर्ति न वक्तव्यं हरेर्नृणाम् ॥ ४ ॥ भाष्यपुष्पाञ्जलिः श्रीमदाचार्यचरणाम्बुजे । निवेदितस्तेन तुष्टा भवन्तु मयि ते सदा ॥ ५ ॥ इति श्रीमद्वेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥ ४ ॥ समाप्तश्चतुर्थोऽध्यायः ॥ ४ ॥ भाष्यप्रकाशः। भाष्यविभावनयार्थस्फुरणेपि भगवत्कृपाया एव कारणत्वम्, न पाण्डित्यादेरित्याशयेनाहुः श्रीकृष्णेत्यादि ॥ ४ ॥ गुणोपसंहारपादमारेभ्य सार्धाध्यायस्य स्वयंकरणात्तदाचार्येषु निवेदयन्तः समाप्तौ मङ्गलं कर्तव्यमिति शिष्टाचारं च शिक्षयन्त आचार्याणां प्रसादमभ्याशास्ते भाष्येत्यादि। अर्थस्तु श्लोकानां स्फुट इति शुभम् ॥ ५ ॥ क्रीडन् श्रीबालकृष्णः परमकरुणया मन्मनः प्रेरयित्वा भाष्यार्थं योगतिगूढं प्रकटितमकरोत् सम्प्रदाये निवृत्ते । तं नित्याकुण्ठशक्तिं शृतनिखिलनिजाज्ञानसंसारहारं स्मृत्वा स्मृत्वोपकारं प्रमुदितसुचितः स्वप्रभुं संनमामि ॥ १ ॥ रश्मिः। तापनीये 'गोपिकानयनाम्भोजमालिने नृत्यशालिने' इति नमनं फलात्मकसोक्त्वा यद्यपि गिरिधराय वेति साधनरूपमुक्तम् । तथापि 'नमः प्रणतपालाये'त्यस्यानुक्तौ बीजं स्वरूपमर्यादां परित्यज्य भक्त- मनोरथपूरकत्वेनोपकारस्मरणम् । पादसेवनवत् । श्रुतिशिरःस्थिति वेदान्तेषु । 'ऋचां मूर्धानं यजुषामुत्तमाङ्गं साम्नां शिरोऽर्थवणां मुण्डमुण्ड'मिति वाक्यात् । संराजत इत्यपि श्रद्धाविशेषात् । प्रथमं पादसेवनं पश्चादन्याङ्गसेवनमिति ॥३॥ श्रीकृष्णेत्यादीति। तेन सिद्धान्तेनाधिकं वरीवर्ति तथापि हरेर्नृणां नृभिर्न वक्तव्यम् । यत एतावत्तैव परमार्थसिद्धेऽधिकवचने गौरवदिति भावः ॥४॥ निवेदयन्त इति यत्करोषीति स्मृतेः । कर्तव्यमिति ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते कृतमङ्गलानि शास्त्राणि प्रथन्त इति सदाचारात्कर्तव्यम् । प्रसादमिति तोषम् तेन 'अलौकिको हि वेदार्थो न युक्त्या प्रतिपद्यते । तपसा वेदयुक्त्या च प्रसादात्परमात्मन' इति श्रुत्युक्तसाधनसम्पत्तिम् । स्फुट इति । श्रीमदाचार्येति श्रीमन्त आचार्याः श्रीमदाचार्याः व्यासचरणाः । आचार्यभाष्यपक्षे । श्रीमद्गोस्वामिभाष्यपक्षे श्रीमदाचार्याः श्रीवल्लभाचार्या इति सर्वं शुभम् ॥ ५ ॥ स्वयं मङ्गलश्लोकाञ्जिगभ्रन्ति स्म क्रीडन्नित्यादिना । प्रकृतिजातिः । 'त्र्यैर्यानां त्रयेण त्रिमुनियति- युता स्रग्धराकीर्तितेयम्' । बालश्चासौ कृष्णः सदानन्दः 'नैर्भिन्न्यं वाषि पूर्व्व'दिति सुबोधिन्या 'समान एवं चाभेदा'दिति सूत्रेणावतारिवदवतारेपि मङ्गलघटकत्वेपि स्वसेव्यस्वरूपनमनात्मकपि मङ्गलमिदम् । 2342

भाष्योक्तबालत्वात् तस्य तुरीयत्वात् सोभिषेविति श्रुतिलिङ्गात् । तदुक्तम् 'ब्रजे स बालको भूत्वा क्रीडते पुरुषोत्तम' इति श्रुतेः । किञ्च एकादशस्कन्धर्विंशाध्याये 'यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया । मदर्चोपासनाभिर्वा नान्यैर्योभ्यं स्मरेन्मन' इति वाक्य ईश्वरवाक्ये मदर्चोपासनायां योग्यस्मारकत्व- पर्यवसानात् । यथा 'शङ्खचक्रं मृदा यस्तु कुर्यात्प्तायसेन वा । स शूद्रवद्बहिष्कार्यः सर्वस्माद्विज- कर्मण' इत्यत्र तप्तायसे निषेधपर्यवसानं तद्वत् । न च तप्तायसेन शङ्खचक्रादिकृतौ निषेधपर्य- वसानमिति वाच्यम् । निषेधोस्तु तत्पर्यवसानं तु दुर्घटमिति । एवं स्वसेव्यस्वरूपेऽन्यत्रापि बोध्यम् । अतिगूढमिति 'गूढं ब्रह्मणि वाङ्मय' इति तृतीयस्कन्धात् सोश्नुते सर्वान्कामानित्यतिगूढम् । निवृत्त इति ननु 'तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा

१२१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् [अ० ४ पा० ४ अ० ५ सू० २२. भाष्यप्रकाशः। श्रीविट्ठलेशपादाब्जप्रसादवरलाभतः । प्रकाशनमणुभाष्यस्य वितन्वन् पुरुषोत्तमः ॥ ४ ॥ तदीयचरणद्वन्द्वे निवेद्य कुसुमाञ्जलिम् । तदीयदासलाभाय प्रसादमभिवाञ्छति ॥ ५ ॥ यदत्र सदसद्वापि जीवबुद्ध्या मयोदितम् । तत् क्षमन्त्वपराधं मे कृपया दीनबत्सलाः ॥ ६ ॥ प्रलयजलदवृष्टेर्गोव्रजस्यावनाय स्वमृदुकरनखाग्रन्यस्तगोवर्धनाद्रिः । वदनविधुमयूखैर्नेत्रतर्पं निजाना- मपनयतु हृदीशः स्थापयन् पादपद्मम् ॥ ७ ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य श्रीपीताम्बरा- त्मजस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे चतुर्था- ध्यायस्य चतुर्थ

द्विरुक्तस्तत्र नखगुणो विहितः । वदनं विधुश्चन्द्रः तस्य मयूखैः किरणैः । नेत्रतापं नेत्राभ्यां दृष्टानामन्यथाकरणेन शब्दबलविचारकाणामस्माकं यो नेत्राभ्यां तापः तमीशः हृदि पादपद्मं स्थापयन्नपनयत्वित्यर्थः । उपकारस्मरणेन पादसेवार्थमुक्तम् ॥ ७ ॥ इति श्रीविठ्ठलेशपादान्जप्रसादवरलाभतः । रश्मिं प्रकाशे व्यतनोत्सत्चमकृतिमेश्वरः ॥ १ ॥ पौनःपुन्यं च रमसो भ्रमादिः क्रीडया कृतः । सोढव्यः कृपया सद्भिर्गूढत्वात्सेश्वरादपि ॥ २ ॥ प्रसङ्गः कृतकृत्यश्च हृदीश्वरश्च एव च । कृतार्थश्च प्रमाणज्ञस्तत्कृतिं ज्ञातुपेश्यत ॥ ३ ॥ एतेनास्मत्कुलपतिः श्रीगोपीजनवल्लभः । श्रीमदाचार्यवर्यश्च नित्यलीलास्थतज्जनः ॥ ४ ॥ प्रीतो भवतु ज्ञात्वा मामाचार्यकुलसम्भवम् । श्रीदामोदरजित्पुत्रौ द्वौ श्रीविठ्ठलरायजित् ॥ ५ ॥ श्रीगिरिधारिजित्चैव तत्पुत्रो (श्री)रघुनाथजित् । श्रीगोविन्दरायजित् तत्पुत्रो (श्री)विठ्ठलरायजित् ॥ ६ ॥ श्रीगोकुलोत्सवो भ्राता श्रीगोपेश्वरजिदहम् । तत्पुत्रस्तु प्रकाशेऽस्मिन्मश्मिं तु वितनोमि ह ॥ ७ ॥ इति श्रीविठ्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीदामोदरजिद्भात्रीयेण श्रीगोविन्दरायजित्पौत्रेण सम्पूर्णवेद्या विठ्ठलरायजिद्भात्रीय- गोकुलोत्सवात्मजगोपेश्वरजिता कृते भाष्यप्रकाशस्य रश्मौ चतुर्थाध्याये चतुर्थः पादः सम्पूर्णतामगमत् ॥ ४ ॥ ४ ॥ समाप्तोयमध्यायः । समाप्तश्च रश्मिः । सेवानवसरे दैवीजीववाचनार्थमयं ग्रन्थः स्वयं गोपेश्वरेण लिखितः श्रीगोवर्धननाथद्वारे । श्रीरस्तु । मिति चैत्रशुक्लत्रयोदशी । संवत् १८९७ । मङ्गलवारे । लेख- कपाठकयोर्दीर्घायुः । मङ्गलमस्तु । एतावतो ग्रन्थस्य श्लोकसंख्या ८४२४ अष्टसहस्रचतुःशतचतुर्विंश । अध्यायचतुष्टयस्य श्लोकसंख्या ४२६६६ द्विचत्वारिंशत्सहस्रषट्शतषट्षष्टिः । श्रीकृष्णार्पणमस्तु. १. ङ्गदुपश्यत इति पूर्वमासीत, पश्चादेवं संस्कृतं हस्ताक्षरेण ।

INTRODUCTION. By the Grace of God we are able to put before the public the third and the fourth pādas of the Fourth Adhyâya, together with the charming रश्मिपरिशिष्ट of भक्तिमार्गीय उपसन्निधान and फलदानादि on 3. 3. 16, revealing how God (रसो वै सः) becomes manifest before His भक्त in पुष्टिमार्ग, and what sort of फल the भक्त gets. Unfortunately seven pages of the manuscript are missing, and hence we have lost the description of some of the subjects mentioned in the contents. The delay in the publication of this Volume is chiefly due to the extreme difficulty of deciphering the परिशिष्ट, in which additions and interlineations have been made by the author on almost all the pages and on all the sides of the margin so closely, that it is almost impossible to read them and to put them in their proper places; and in spite of our devoting as much labour as we could, we had unavoidably to leave out some words which could not be deciphered. Shastri Kalyanji Kanji has rendered us very valuable assistance in carry- ing this edition through the press and has often solved knot

INTRODUCTION. II We invite the scholars of the सम्प्रदाय as well as others to study these works with devotion, and with a view to approach the Presence of God, for which they have been intended. The generality of people go in the wrong direction because पराञ्चि खानि व्यतृणत् स्वयंभूः, तस्मात् पराङ् पश्यति नान्तरात्मन्, and because मनुष्याणां सहस्रेषु कश्चियतति सिद्धये. It is only in this भारतवर्ष that people were engrossed so much in religion, for which men like Emerson, Carlyle, Max Muller and many others have lavished praises over it; but here also काल has been rapidly doing its work, and the contact with materialism and आसुरत्व of the West has hastened this change. We have therefore to be very careful, and in all our religious studies we should never miss the goal viz. the Presence of God. We are thankful to many Western Oriental Scholars for the vast amount of labour devoted by them to the study of Sanskrit literature, Vedic and modern. They have approached the subject also very sympathetically, but partly on account of their being strangers unacquainted with our manners and customs with their roots buried in the hoary past, partly on account of partiality for their own Christian religion, partly due to the Doctrine of Evolution which looks upon ancient things in quite a different light, partly on account of want of श्रद्धा, and finally on account of a difference in the idea of civilisation,—the west being generally engrossed in finding fresh means of material comforts and gratification of the senses, and not caring for the vision of God, Who lies deeply buried in the heart,—we have to be very cautious in accepting their premises and their conclusions. Even a sympa- thetic man like Prof. Max Muller, after his lifelong study of Sanskrit literature opined that writing was unknown to Vedic ऋषिस. Again वेद means knowledge from विद् to know and ऋषि means a seer, from दृश् to see. Do they implicitly believe that वेद contains true knowledge and that ऋषिस were Seers? If not, it can well be questioned whether the true meaning underlying these writings will ever be revealed to them. They only see the worship of the Sun and the Moon and elements such as Fire, Water etc. in these writings, and they imagine terror to be the root cause of this worship. We are inclined to ask them as to how many Saints and Sages of भारतवर्ष they believe to have got a vision of God, from Vedic Revelation up to the modern times. One writer after another has written about श्रीवल्लभाचार्य and his System, and has condemned outright the sect of Maharajas. But both श्रीवल्लभाचार्य and श्रीविठ्ठलेश्वर were so holy and learned that they were worshipped, as gods upon the Earth. At that very time another divine personage श्रीकृष्णचैतन्य was similarly worshipped in Bengal. They were all called महाप्रभुs, because they had साक्षात्कार of God, their mind was in tune with the Infinite and they were able to lead their followers into the Presence of God. Millions of men in Gujarat, Kathiawar, Sind, Rajputana, Muttra and Madras, including several princes, are followers of श्रीवल्लभाचार्य, and millions in Bengal and elsewhere are followers of श्रीकृष्णचैतन्य. Many of the descendents of श्रीवल्लभाचार्य have been great devotees and inspired authors, who have kept the torch of Hinduism burning for these four dark centuries. The latest of them पंडित गट्टूलाल— 2347