आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पतितधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६१ अस्य प्रतिप्रसवः— यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन् दोष इति पुराणे ॥ ७ ॥ यस्तु हिंसाथं मारणार्थमभिक्रान्तमभिपतितं हन्ति न तस्मिन् दोषो विद्यत इति पुराणे श्रुतम् । दोषाभावे हेतुः—यस्मान्मन्युरेव मन्युं स्पृशति न पुनः पुरुषः पुरुषम् । अत्र वसिष्ठबौधायनौ— (१)स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ॥ इति । मनुस्तु- (२)शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते । आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे ॥ स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥' इति ॥ गौतमः-(३) प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीते'ति ॥ वसिष्ठः— (४) अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् ॥' इति ॥ ७ ॥ पतितैरकृतप्रायश्चित्तैरुत्पादितानां पुत्राणामपि पातित्यमस्तीति प्रतिपादयितुं पूर्वपक्षमाह— अथाऽभिशस्ताः समवसाय चरेयुर्धर्म्यमिति सांशिते- तरेतरयाजका इतरेतराध्यापका मिथो विवाहमानाः ॥८॥ अथशब्दोऽर्थान्तरप्रस्तावं सूचयति । अभिशस्ता. पतिताः । समवसाय चरेयुः । अवसानं गृहम् । समित्येकीभावे । ग्रामाद्वहिरेकस्मिन् प्रदेशे गृहाणि कृत्वा चरेयुः । धर्म्यं धर्म्यं वक्ष्यमाणं वृत्तमिति । संशित्य सं शितां तीक्ष्णां बुद्धिं कृत्वा । निश्चित्येत्यर्थः । इतरेतरं याजयन्तः । इत रेतरमध्यापयन्तः परस्परं विवाहसम्बन्धं च कुर्वन्तश्चरेयुः वर्तेरन्निति ॥ १. व. ध. ३. १८, बौ १. १० १२ २ म स्मृ ८ ३४८, ३४९. ३. गौ. ध ७ २५ ४. व. ध. ३. १६, १७, आप० ध० २१
१६२ आपस्तम्बधर्मसूत्रे [ (प.१०)क.२९. पुत्रान् सन्निष्याय ब्रूयुर्विप्रजताऽस्मदेवं ह्यस्म- त्स्वायास्सम्प्रत्यपत्स्यतेति ॥ ९ ॥ अथ ते पुत्रान् सन्निष्याय ब्रूयुः हे पुत्राः अस्मत् अस्मत्तः । विप्रव्रजत विविधं प्रकर्षेण च स्नेहमुत्सृज्याऽऽर्यसमीपं गच्छत । एव ह्यस्मत्सु अस्मा स्वायाः शिष्टाः सम्प्रत्यपत्स्यत । (१) 'आशंसायां भूतवच्चेति' भविष्यति लुङ् । सकारात्परो यकारोऽपपाठश्छान्दसो वा । सम्प्रतिपत्तिं करिष्य न्ति । आर्याणामप्येतदभिप्रेतं भविष्यति । यस्मादस्माभिरेव पतनीयं कर्माऽनुष्ठितं न भवद्भिः । न च पतितेनोत्पादितस्य पातित्यम्, अन्य- त्वात् ॥ ९ ॥ एतदेवोपपादयति - अथाऽपि न सेन्द्रियः पतति ॥ १० ॥ न हि पतितो भवन् सहेन्द्रियेण पतति, पुरुष एव पतति, नेन्द्रियं शुक्रमिति । अथापिशब्दावपि चेत्यस्यार्थे ॥ १० ॥ कथं न सेन्द्रियः पततीत्याह -- तदेतेन वेदितव्यमङ्गहीनो ऽपि साङ्गं जनयति ॥ ११ ॥ तदनन्तरोक्तमर्थरूपमेतेन वक्ष्यमाणेन निदर्शनेन वेदितव्यम् । चक्षुरा द्यङ्गहीनोऽपि साङ्गं चक्षुरादिमन्तं जनयति, एवमधिकारविकलः साधिकारं जनयिष्यति । स्त्रिया अपि कारणत्वात् तस्याश्च दोषाभावात् ॥ ११ ॥ दूषयति- मिथ्यैतदिति हारीतः ॥ १२ ॥ एतदनन्तरोक्तमर्थरूपं मिथ्या न युक्तमिति हारीतो मन्यते ॥ १२ ॥ कुत इत्याह - दधिधानीसधर्मा स्त्री भवति ॥ १३ ॥ दधि धीयते यस्यां सा दधिधानी स्थाली। तया सधर्मा सदृशी स्त्री भवति ॥ ततः किम् ? यो हि दधिधान्यामप्रयतं पय आतञ्च्य मन्थति न तेन धर्मकृत्यं क्रियेत एवमशुचि शुक्लं यन्निर्वर्तते न तेन सह सम्प्रयोगो विद्यते ॥ १४ ॥ यो हि पुरुषः दधिधान्यां स्थाल्याम्, अप्रयतं श्वादुपहतम् , पय आतञ्च्य १. पा. सू. ३ ३ १३२.
पतितधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६३ तक्राद्यातश्चनेन संस्कृत्य मन्थति न तेन तदुत्पन्नेन घृतादिना धर्मकृत्यं या- गादिकं क्रियते । एवं पतितसम्बन्धेनाऽशुचि शुक्लं स्त्रियां निषिक्तं शोणि- तेनाक्तं यन्निर्वर्तते येन रूपेण निष्पद्यते न तेन सह सम्प्रयोगो विद्यते शिष्टानाम् । अत्र च 'शुचि शुक्ल' मित्येत 'दथापि न सेन्द्रियं पतती' त्यस्य दूषणम् । न हि वाचनिकेऽर्थे युक्तय क्रमन्ते । तथा च समाना यामप्युत्पत्तौ पुत्र एव पतति न दुहिता । तथाऽऽह वसिष्ठः- (१)'पतितोत्पन्नः पतितो भवत्यन्यत्र स्त्रियाः । सा हि परगामिनी तामरिक्थामुपेयात्' । इति ॥ १४ ॥ अभीचारा(२)नुष्याहारावशुचिकरावपतनीयौ ॥ १५ ॥ अभिचार एवाभीचारः । (३)'उपसर्गस्य घञी'ति दीर्घः । अभीचारः श्येनादिः । अनुव्याहारः शापः । तौ ब्राह्मणविषयेऽपि क्रियमाणावशुचि- करावेव, न तु पतनीयौ ॥ १५ ॥ पतनीयाविति हारीतः ॥ १६ ॥ हारीतस्तु तावपि पतनीयाविति मन्यते ॥ १६ ॥ पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान् द्वाद- शाऽर्धमासान् द्वादश द्वादशाहान् द्वादश सप्ताहान् द्वादश त्र्यहान् द्वादश द्वयहान् द्वादशाहं सप्ताहं त्र्यहं द्वयहमेकाहम् ॥ १७ ॥ अशुचिकराणामपि कर्मणां येषामाहत्य प्रायश्चित्तं नोक्तं तेषामपि प- तनीयेषु कर्मसु या वृत्तिः प्रायश्चित्तं सैव प्रायश्चित्तिः । कियन्तं काल- म् ? द्वादश मासाद्येकाहान्तम् ॥ १७ ॥ किमविशेषेण सर्वेष्वेवाऽशुचिकरेष्वयं कालविकल्पः ? नेत्याह-- इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ॥ १८ ॥ इत्येषोऽशुचिकरनिर्वेषो यथा कर्माभ्यासस्तथा वेदितव्यः । बुद्धिपूर्वे सानुबन्धेऽभ्यासे च भूयांसं कालम्, विपरीते विपर्यय इति ॥ १८ ॥ ॥ इत्यापस्तम्बसूत्रवृत्तौ प्रथमप्रश्ने एकोनत्रिंशी कण्डिका ॥ २९ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्वलाया प्रथमप्रश्ने दशमः पटलः ॥ १० ॥ १. व. ध. ३. २. अनुव्यवहार इति. क ३. पा. सू ६. ३ १२२.
अथैकादशः पटलः ॥ 'न समावृत्ता वपेरन्' ( ८. ७. ) स्नातस्तु काल' ( १०.७. ) इत्यादिषु प्रसक्तस्य स्नानस्य कालमाह-- विद्यया स्नातीत्येके ॥ १ ॥ वेदविद्या विद्या । तया सम्पन्नः स्नानं कुर्यादित्येके मन्यन्ते । मनुर- त्याह-- (१)वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत्' ॥ इति ॥ १ ॥ तथा व्रतेनाऽष्टाचत्वारिंशत्परीमाणेण ॥ २ ॥ परिमाणमेव परीमाणम् । छान्दसो दीर्घः । अष्टाचत्वारिंशद्ग्रहणं (२)'पादूनम्, अर्धेने' (२.१३,१४ ) त्यादिपूर्वोक्तस्याप्युपलक्षणम् । अष्टाच त्त्वारिंशदादिपरिमाणेन व्रतेन (३)वा सम्पन्नः स्नायात् असम्पन्नोऽपि विद्यया ॥ २ ॥ विद्या व्रतेन चेत्येके ॥ ३ ॥ विद्येति तृतीयैकवचनस्याकारस्य(४) 'सुपां सुलुक्' इत्यादिना लुक् । विद्यया व्रतेन चोभाभ्यां सम्पन्नः स्नायादित्येके मन्यते । एवं च (५)वेदमधीत्य स्नास्य' न्नित्यत्र वेदमधीत्येत्युपलक्षणम् । अत्र याज्ञ- वल्क्यः-- (६)वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा । अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ॥' इति । १. म. स्मृ. ३ २. २. पादूनम्, अर्धेन, त्रिभिर्वा' इत्येतेषा पूर्वोक्तानामुपलक्षणम् । इति. क. पु. ३ अथ ब्रह्मचर्यविधि 'इत्यारभ्य प्रपञ्चितेन समिदाधानभिक्षाचरणगन्धादिवर्जनादि- रूपेण । अस्ति च तेषु व्रतशब्द. 'यथा व्रतेषु समर्थः स्यात्तथानि वक्ष्यामः” इति । इह तु समुदायाभिप्रायमेकवचनम् । तेन वा व्रतेन सम्पन्नस्स्नायात् । असम्पन्नोऽपि विद्यया । 'चत्वारि वेदव्रतानी' त्येषां तु ग्रहणमत्र नाऽऽशङ्कनीयम् । यथोक्तं विश्वरूपे । इत्यधिकः पाठो ग. पु. ४. पा सू. ७ १. २९ ५. आप गृ १२. १. ६ याज्ञ स्मृ. १. ५२.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६५
- अत्र व्रतशब्देनाऽग्नीन्धनभैक्षाचरणादयो ब्रह्मचारिधर्मा उच्यते । तेषु हि कालपरिमाणस्य श्रुतत्वात् पारं नीत्वेति युज्यते । दृश्यते च तेषु व्रतशब्दः । 'यथा व्रतेषु समर्थस्स्याद्यानि वक्ष्याम इति । न तु सावित्र्यादीनि वेदव्रतान्युच्यन्ते । तेषां तत्तत्प्रदेशाध्ययनशेषतया त- दभावेऽभावाद्शेदं व्रतानि वेति विकल्पानुपपत्तेः । अतः कालविशे- षावच्छिन्नानि व्रतानि वेदमुभयं वा पारं नीत्वेत्यर्थः * ॥ ३ ॥ तेषु सर्वेषु स्नातकवद्वृत्तिः ॥ ४ ॥ विद्यास्नातको व्रतस्नातक उभयस्नातक इति त्रयः स्नातका उक्ताः तेषु सर्वेषु स्नातकवत् 'तदर्हती'ति वतिः । स्नातकार्हा वृत्तिः पूजा(१) य- त्राऽस्मा अपचिति' मित्यादिः कार्या । न तु व्रतस्नातके न्यूना, उभयस्ना- तकेऽधिकेति ॥ ४ ॥ यद्यप्येवं तथाऽपि पूजयितुः फलविशेषोऽस्तीत्याह-- समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ॥५॥ कर्तव्येषु कर्मस्ववधानं समाधि । श्रुति श्रुतम् ॥ ५ ॥ अथ स्नातकव्रतानि ॥ ६ ॥ इत उत्तरं स्नातकव्रतान्यधिकृतानि वेदितव्यानि । यद्यपि वक्ष्यमाणे- षु कानिचित् साधारणान्यपि भवन्ति तथाऽपि भूम्ना स्नातकव्रतान्य- धिक्रियन्ते ॥ ६ ॥ पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण वा ॥७॥ यदा ग्रामान्निष्क्रामति ग्रामं वा प्रविशति तदा पूर्वेण द्वारेणोत्तरेण वा कुर्यात्, न द्वारान्तरेण । शीलयेदिति वचनाद्यदृच्छया द्वारान्तरेण निष्क्रमणप्रवेशनयोरपि न प्रायश्चित्तम् ॥ ७ ॥ सन्ध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ॥ ८ ॥ अहोरात्रयोः सन्धानं सन्धिः । तौ च द्वौ-सायं प्रातश्च । (२)सज्यो- तिष्याज्योतिषोऽदर्शनात्' इति गौतमः । तयोस्सन्ध्ययोर्ग्रामाद्बहिरासीत ।
- एतच्चिन्हान्तर्गतो भोगोऽधिकपाठतया परिगणित ख पुस्तके । ग. पुस्तके नास्ति पाठः । अन्यत्र तु यथायथमस्ति । १. आप. गृ. १३. २. २. गौ. २. ११, 'सज्योतिषि' इत्यादि 'गौतम' इत्यन्तं नास्ति छ. पु.
१६६ आपस्तम्बधर्मसूत्रे [(प.१०)क.३०. वाग्यतश्च भवेत् । मनुः पुनराह— (१)पूर्वां सन्ध्यां जपस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् । पश्चिमां तु समासीत सम्यगृक्षविभावनात् ॥' इति (२)'तिष्ठेत् पूर्वामासीतोत्तराम्, इति गौतमः । एते ब्रह्मचारिविषये । स्नातके आसनस्य वाङ्नियमस्य चाऽत्र विधानात् । अन्ये तु-आसनग्रहण स्थानस्याऽप्युपलणम्, वाग्यमश्च लौकिक्या वाचो निवृत्तिः, न सावित्रीजपस्येति वर्णयन्ति ॥ ८ ॥ आहिताग्निविषयेऽस्याऽपवादः— विप्रतिषेधे श्रुतिलक्षणं बलीयः ॥ ९ ॥ विरोधो विप्रतिषेध अग्निहोत्रिणो बहिरासनमग्निहोत्रहोमश्च विरु ध्येते । तथा च श्रूयते-‘समुद्रो वा एष यदहो रात्रः, तस्यैते गाधे तीर्थे यत्सन्धी तस्मात् सन्धौ होतव्यम्” इति । तत्र श्रुतिलक्षणमग्निहोत्रमेव कर्तव्यम्, न स्मार्त्तं बहिरासनम् । तस्य कल्प्यमूलत्वादितरस्य च क्लृप्तमूलत्वादिति । (३)जैमिनिरप्याह--(४)विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमिति ॥९॥ सर्वान्रागान्वाससि वर्जयेत् ॥ १० ॥ कुसुम्भादयस्सर्वे रागाः वाससि वर्जनीयाः, न केनचिद्रक्तं वासो बिभृयादिति ॥ १० ॥ कृष्णं च स्वाभाविकम् ॥ ११ ॥ यच्च स्वभावतः कृष्णं कम्बलादि तदपि न वसीत ॥ ११ ॥ अनूद्भासि वासो वसीत ॥ १२ ॥ उद्भासनशीलमुद्भासि उद्बणम् । ततोऽन्यदनूद्भासि । छान्दसो दीर्घः । एवम्भूतं वासो वसीत आच्छादयेत् ॥ १२ ॥ अप्रतिकृष्टं च शक्तिविषये ॥ १३ ॥ प्रतिकृष्ट निकृष्टं जीर्णे मलवत् स्थूलं च । तद्विपरीतमप्रतिकृष्टम् । तादृशं च वासो वसीत शक्तौ सत्याम् ॥ १३ ॥ १. म. स्मृ. २ १०१ २. गौ. ध २. ११. ३. इत्यादि नास्ति. छ. पु. ४. जै सू १. ३. ३.
[स्नानकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः। १६७
दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य ॥ १४॥ चकारः पूर्वापेक्षया समुच्चयार्थः । दिवा शिरसः प्रावरणं पटादिना न कुर्यात् । किमविशेषेण ? नेत्याह—मूत्रपुरीषयोः कर्म क्रियां परिहाप्य वर्जयित्वा ॥ १४ ॥ शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्यात् भूम्यां किञ्चिदन्तर्धाय ॥ दिवा रात्रौ च मूत्रपुरीषे कुर्वन् शिरः प्रावृत्य कुर्यात् । भूम्या किञ्चिदन्त- र्धाय तृणादिकम्, न साक्षात् भूम्यामेव । इह कामचारे प्राप्ते 'दिवा च शिरसः प्रावरणं वर्जये' दित्युक्तम् । तस्य पर्युदासः कृतः-'मूत्रपुरी- षयोः कर्म परिहाप्ये' ति । तत्र मूत्रपुरीषकाले स एव कामचारः स्थि- तः। अत आरभ्यते-शिरस्तु प्रावृत्येति । एव तर्हिदिमेवाऽस्तु । न पूर्वः पर्युदासः । सोऽप्यवश्यं कर्तव्यः । अन्यथा 'शिरस्तु प्रावृत्ये'त्यस्य रात्रौ चरितार्थत्वात् दिवा प्रतिषेध एव स्यात् । गौतमस्तु रात्रौ सदैव प्रावरणमाह(१) 'न प्रावृत्य शिरोऽहनि पर्यटेत्, प्रावृत्य रात्रौ, मूत्रोच्चारे चे'ति ॥ १५ ॥ छायायां मूत्रपुरीषयोः कर्म वर्जयेत् ॥ १६ ॥ 'न चोपजीव्यच्छायास्वि'ति स्मृत्यन्तरे दर्शनात् यस्यां पथिका- दयो विश्राम्यन्ति सा गृह्यते । तेन छत्रच्छायादेरप्रतिषेधः मेघच्छा- याया अप्यप्रतिषेधः, अवर्जनीयत्वात् ॥ १६ ॥ स्वां तु छायामवमेहेत् ॥ १७ ॥ छान्दसस्तुगभावः । द्वितीयाश्रुतेः प्रतिशब्दाध्याहारः । अवमेहनं मूत्रकर्म । अनुपजीव्यत्वान्नायं पूर्वस्य प्रतिषेधस्य विषय इति प्रतिप्रस वोऽयं न भवति । तेन सति सम्भवे स्वामेव छायां प्रत्यवमेढव्यम् ॥१७॥ (२) न सोपानन्मूत्रपुरीषे कुर्यात् ॥ १८ ॥ कृष्टे ॥ १९ ॥ पथि ॥२०॥ अप्सु च ॥२१॥ तथा(३)ष्ठेवनमैथुनयोः कर्मा-
१. गौ. ध. ९. ३५, ३६, ३७ २ एतदादि 'कर्म वर्जये'दित्यन्तमेकसूत्रतया परिगणितं ख. पुस्तके । सूत्रद्वादश- कतया छेदः कृतः क० पु० ३ ष्ठीवन इति. ख पु.
१६८ आपस्तम्बधर्मसूत्रे [(प.११)क.३१. ऽप्सु वर्जयेत् ॥२२॥ अग्निमादित्यमपो ब्राह्मणं गा देव- ताश्चाऽभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् ॥ २३ ॥ स्पष्टानि चत्वारि । ष्ठेवनमास्यश्लेष्मादीनामुत्सर्गः । देवताः देवता प्रतिमाः ॥ १८-२३ ॥ अश्मानं लोष्टमार्द्रानोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् ॥ २४ ॥ फलपाकावसाना ओषधयः । ये पुष्पैर्विना फलन्ति ते वनस्पतय । 'आर्द्रा' निति वचनात् शुष्केषु न दोषः । 'ऊर्ध्वा'निति वचनाद्वातादि- निमित्तेन भग्नेषु न दोषः । 'एतैरश्मादिभिर्मूत्रपुरीषयोश्शोधनं न कुर्यात् ॥ अग्निमादित्यमपो ब्राह्मणं गा देवताद्वारं प्रति पादं च शक्तिविषये नाऽभिप्रसारयीत ॥ २५ ॥ शक्तौ सत्यां अग्न्यादीन्प्रति पादौ न प्रसारयेत् ॥ २५ ॥ अथाऽप्युदाहरन्ति ॥ २६ ॥ ॥ इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने त्रिंशी कण्डिका ॥ ३० ॥ प्राङ्मुखोऽन्नानि भुञ्जीतोच्चरेद्दक्षिणामुखः । उदङ्मुखो मूत्रं कुर्यात्प्रत्यक्पादावनेजनमिति ॥ १ ॥ उच्चारः पुरीषकर्म । पादावनेजनं पादप्रक्षालनम् । भोजनादिषु चत स्रो नियम्यन्ते । मनुस्तु— (१)'आयुष्यं प्राङ्मुखो भुंक्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुञ्क(२) ऋतं भुङ्क्ते उदङ्मुखः'॥ इति। याज्ञवल्क्यश्च— (३)'दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥' इति ॥ १ ॥ आराच्चाऽऽवसथान्मूत्रपुरीषे कुर्याद्दक्षिणां दिशं दक्षिणापरां वा ॥ २ ॥ १. म. स्मृ. २. ५२. २. ऋत सत्यं, तत्फलमिच्छन् । ३. या स्मृ. १. १६.
स्नातकधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६९ आवसथो गृहम् । तस्य दूरतो मूत्रपुरीषे कुर्यात्, दक्षिणां दिशम् । द्वि- तीयानिर्देशादभिनिष्क्रम्येति गम्यते । दक्षिणापरा नैर्ऋती ॥ २ ॥ अस्तमिते च बहिर्ग्रामादारादावसथाद्वा मूत्रपुरीषयोः कर्म वर्जयेत् ॥ ३ ॥ अस्तमित आदित्ये बहिर्ग्रामान्मूत्रपुरीषे न कुर्यात् । तथा अन्तर्ग्रामेऽपि गृहस्य दूरतो न कुर्यात् । दृष्टार्थोऽयं प्रतिषेधश्चोरव्याघ्रादिशङ्कया । निर्भये देशे नाऽस्ति दोषः ॥ ३ ॥ देवताभिधानं चाऽप्रयतः ॥ ४ ॥ देवतानामग्न्यादीनामभिधानं चाऽप्रयतस्सन् वर्जयेत् । (१)अपिधानमि- त्यपि पाठे एष एवार्थः ॥ ४ ॥ परुषं चोभयोर्देवतानां राज्ञश्च ॥ ५ ॥ देवतानां राज्ञेश्चोभयोः । राज्यपेक्षया द्विवचनम् । परुषं निन्दां वर्जयेत् ॥ ५ ॥ ब्राह्मणस्य गोरिति पदोपस्पर्शनं वर्जयेत् ॥ ६ ॥ ब्राह्मणं गां च पादेन नोपस्पृशेत् । इतिशब्दः प्रकारे । तेन विद्यावयो- वृद्धानामब्राह्मणानामपि वर्जनम् ॥ ॥ ६ ॥ हस्तेन चाऽकारणात् ॥ ७ ॥ कारणमभ्यङ्गकण्डूयनादि । तेन विना हस्तेनाऽप्युपस्पर्शनं वर्जयेत् पूर्वोक्तानाम् ॥ ७ ॥ गोर्दक्षिणानां कुमार्याश्च परीवादान्वर्जयेत् ॥ ८ ॥ गोरदक्षिणाया अपि दक्षिणानामगवामपि हिरण्यादीनां कुमार्याः कन्यायाश्च दोषान् सतोऽपि न कथयेत् । अध्यात्मप्रकरणे योगाङ्गतया परीवादः प्रतिषिद्धः । अनन्तरं च वक्ष्यति(२) 'क्रोधादींश्च भूतदाहीयान् वर्जयेदिति । इदं तु वचनं गवादिषु प्रायश्चित्तातिरेकार्थम् ॥ ८ ॥ स्पृहतीं च गां नाऽऽचक्षीत ॥ ९ ॥ स्पृहतीं सस्यधान्यादिकं भक्षयन्तीं गां स्वामिने न ब्रूयात् ॥ ९ ॥ संसृष्टां च वत्सेनाऽनिमित्ते ॥ १० ॥ १ अपिधानमित्यपाठः । एष एवार्थ इति ख. ग. पु. २. आप. ध. ३१. २३. आप० ध० २२
१७० आपस्तम्बधर्मसूत्रे [(प.११.) क.३१. या च गौर्वत्सेन ससृज्यते तामपि न ब्रूयादनिमित्ते-इयं ते गौर्वत्से- न पीयत इति । 'अनिमित्ते' इति वचनात् (१) 'यस्य हविषे वत्सा अ- पाकृता धयेयु'रित्यादिके निमित्ते सति वक्तुर्नास्ति दोषः ॥ १०॥ नाऽधेनुमधेनुरिति ब्रूयात् । धेनुर्भव्येत्येव ब्रूयात् ॥ ११ ॥ या च गौरधेनुः पयस्विनी भवति तामप्यधेनुरिति न ब्रूयात् ॥११॥ किं तर्हि धेनुर्भव्येत्येव ब्रूयात्—भविष्यन्ती धेनुर्घेनुर्भव्या । 'धेनोर्भव्यायां (मुम् वक्तव्य) इति मुम् न भवति । व्यन्तत्वेनाऽव्ययत्वात् । वक्तव्यत्वे च सति शब्दनियमोऽयम् । न पुनरधेनुदर्शन एवं वक्तव्यम् ॥१२॥ (२) न भद्रं भद्रमिति ब्रूयात् ॥ १३ ॥ यत् भद्रं तत् भद्रमिति न ब्रूयात् ॥ १३ ॥ किं तु ? पुण्यं प्रशास्तमित्येव ब्रूयात् ॥ १४ ॥ पुण्यं प्रशास्तमित्यनयोरन्यतरेण शब्देन ब्रूयात् । प्रशास्तं प्रशस्तम्। छान्दसो दीर्घः ॥ १४ ॥ (३) वत्सतन्तीं च नोपरि गच्छेत् ॥ १५ ॥ वत्सानां बन्धरज्जुर्वत्सतन्ती । तस्या उपरि न गच्छेत् तां न लङ्घयेत् । व- त्सग्रहणं गोजातेरुपलक्षणम् ॥ १५ ॥ प्रेङ्खावन्तरेण च नाऽतीयात् ॥ ॥ १६ ॥ प्रेङ्खौ डोलास्तम्भौ । तोरणस्तम्भावित्यन्ये । तावन्तरेण नाऽतीयात्—त योर्मध्ये न गच्छेत् ॥ १६ ॥ नाऽसौ मे सपत्न इति ब्रूयात् यद्यसौ मे सपत्न इति ब्रूयात् द्विषन्तं भ्रातृव्यं जनयेत् ॥ १७ ॥ असौ देवदत्तो मे सपत्न इति न ब्रूयात् सदसि । किं कारणम् ? यद्यसौ मे सपत्न इति ब्रूयात् , द्विषन्तं, क्रियाशब्दोऽयम् , विद्विषाणं भ्रातृव्यं सपत्नं जनयेत् ‘व्यन् सपत्ने' इति भ्रातृशब्दे व्यन्प्रत्ययः । एवं ह्युक्ते स मन्येत—नाऽकस्मादयं ब्रूते नूनमस्य मयि द्वेषो वर्तत इति । ततश्च तत्प्र- तीकारार्थं यतमानसपत्न एव जायते इति ॥ १७ ॥ १ आप. श्रौ. ९. १. २३. २. म स्मृ. ४. १३९. ३ म. स्मृ. ४ ३८.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७१ नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥१८॥ इन्द्रधनुराकाशे पश्यन् परस्मै तेन शब्देन न ब्रूयात् । यद्यवश्यं वक्तव्यं मणिधनुरिति ब्रूयात् । गौतमीये (१) दर्शनात् ॥ १८ ॥ न पततः सञ्चक्षीत ॥ १६ ॥ पततः पक्षिणः सङ्घीभूय स्थितान्न सञ्चक्षीत न गणयेत्--इयन्त एत इति । अपर आह--'पुण्यक्षयेण स्वर्गात्पततः सुकृतिनः परस्मै न सञ्च- क्षीत-ज्योतींषि पतन्तीति न कथयेत् ॥ १९ ॥ उद्यन्तमस्तं यन्तं चाऽऽदित्यं दर्शने वर्जयेत् ॥ २० ॥ उदयसमये अस्तमयसमये वा आदित्यं न पश्येत् । (२)मनुस्तु- नेक्षेतोद्यन्तमादित्यं नाऽस्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥' इति ॥ २० ॥ दिवाऽऽदित्यः सत्त्वानि गोपायति नक्तं चन्द्रमाः । तस्मादमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिमि- च्छेत् प्रायतव्यव्रह्मचर्य्यकाले चर्य्यया च ॥ २१ ॥ दिवा अहनि । आदित्यः सत्त्वानि गोपायति प्राणिनो रक्षति, आलोकदा- नेन । नक्तं रात्रौ चन्द्रमाः । तस्मादमावास्यायां निशायां रात्रौ स्वाधीयः। वका- रश्छान्दसः । अन्तिकबाढयोर्नेदसाधौ । बाढतरं भृशतरं आत्मनो गुप्तिं रक्षणमिच्छेत् । केन प्रकारेण ? प्रायत्यब्रह्मचर्याभ्यां काले चर्यया च । अयं तावदर्थानुरूपः पाठः । अधीयमानस्तु प्रमादश्छान्दसो वा । प्रयतस्य भावः प्रायत्यूं नित्यप्रायत्यादाधिकेन प्रायत्येन स्नानादिजेन । ब्रह्मचर्येण मैथुनत्यागेन । काले कृत्या चर्यया देवार्चनजपादिकया च ॥२१॥ कस्मात्पुनरस्यां रात्रौ चन्द्रमा न गोपायतीत्याह- सह ह्येतां रात्रिं सूर्याचन्द्रमसौ वसतः ॥ २२ ॥ एतां रात्रिम् । अत्यन्तसंयोगे द्वितीया । सर्वामेतां रात्रिं सूर्याचन्द्रमसौ सह वसतः । न च सूर्येण सह वसतश्चन्द्रमसः प्रकाशोऽस्ति ॥ २२ ॥ न कुसृत्या ग्रामं प्रविशेत् ॥ २३ ॥ कुसृतिः कुमार्गः । तया ग्राम न प्रविशेत् ॥ २३॥ १. गौ. ध. ९. २२. \qquad\qquad २. म स्मृ ४. ३६.
१७२ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. ३१. यदि प्रविशे 'न्नमो रुद्राय वास्तोष्पतय' इत्येतामृचं जपेदन्यां वा रौद्रीम् ॥ २३ ॥ यदि गत्यन्तराभावात् प्रविशेत्(१) 'नमो रुद्राये' त्यादिकामृचं जपेत् । अ- न्यां वा रौद्रीम्(२) 'इमां रुद्राय तवस'इत्यादिकाम्। अत्र वाजसनेयगृहो- (३)'वनं प्रवेक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय वनसदे स्वस्ति मा सम्पारये' ति । पन्थानमारोक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय पथिषदे स्वस्ति मा स- म्पारये'ति । अपः प्रवेक्ष्यन्ननुमन्त्रयते—'नमो रुद्रायोऽप्सुषदे स्वस्ति मा सम्पारये'ति । तस्माद्यत्किञ्चन कर्म कुर्वन् स्यात् सर्वं 'नमो रुद्राये' त्येव कुर्यात् 'सर्वो ह्येष रुद्र' इति श्रुतेरिति । भारद्वाजगृहोऽप्यस्मि- न्विषये कियानेव भेदः ॥ २४ ॥ नाऽब्राह्मणायोच्छिष्टं प्रयच्छेत् ॥ २५ ॥ अब्राह्मणः शूद्रः । (४)'न शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्या'दिति वा- सिष्ठे दर्शनात् । तस्मा उच्छिष्टं न प्रयच्छे'दित्यनाश्रितविषयम् ॥२५॥ यदि प्रयच्छेद्दन्तान् स्कुप्त्वा तस्मिन्नवधाय प्रयच्छेत्॥२६॥ इदमाश्रितविषयम् । दन्तान्नखेन स्कुप्त्वा विल्लिख्य तन्मलं तस्मिन्नु- च्छिष्टेऽवधाय प्रयच्छेत् । 'स्कुप्त्वे'ति स्कुभ्नातेः क्त्वाप्रत्यये छान्दसं भ- कारस्य चर्त्वम् । स्कुनोतेर्वा पकार उपजनः ॥ २६ ॥ क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ॥ २७ ॥ क्रोधादयो भूतदाहीया अध्यात्मपटले(२२.५) व्याख्याताः । तद्वचनं योगि- विषयमित्ययोगिनोऽपि स्नातकस्य क्रोधादिनिवृत्त्यर्थमिदं वचनम् । इदमेव तर्ह्युभयार्थमस्तु—योग्यर्थमयोग्यथं च । एवं सिद्धे तद्वचनं क्रो- धादिवर्जनस्य योगाङ्गत्वप्रतिपादनार्थम् । तेन क्रोधाद्यनुष्ठाने योगसि- द्धिर्न भवति । न पुनः स्नातकव्रतलोपप्रायश्चित्तमिति ॥ २७ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने एकत्रिंशी कण्डिका ॥ ३१ ॥ १. ब्रा ३. ७ ९ नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे । उत्थायने यत्प- रायणे । आवर्तने निवर्तने । यो गोपायति त० हुवे ॥ इति समग्रा ऋक् ॥ २. 'इमां रुद्राय तवसे कपर्दिने क्षयद्वीराय' इतिषष्ठाध्यायगता (तै०सं०४ ५.१०) ३ पार. गृ. ३. १५. ११. ४. व. ध. १८ १४.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७३ प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् ॥ १ ॥ प्रवचनमध्यापनम् । तेन युक्तो वर्षासु शरदि च मैथुनं वर्जयेत् ऋतावपि॥१॥ मिथुनीभूय च न तया सह सर्वां रात्रिं शयीत ॥ २ ॥ मिथुनीभूय मैथुनं कृत्वा तया भार्यया सह तां रात्रि सर्वां न शयीत ॥ २ ॥ शयानश्चाऽध्यापनं वर्जयेत् ॥ ३ ॥ दिवा नक्तं च शयानस्याऽध्यापनप्रतिषेधः। स्वयं तु धारणार्थमधी- यानस्य न दोषः ॥ ३ ॥ न च तस्यां शय्यायामध्यापयेद्यस्यां शयीत ॥ ४ ॥ यस्या शय्यायां भार्यया सह शयीत रात्रौ तस्यां शय्यायामासीनोऽपि नाऽध्यापयेत् ॥ ४ ॥ अनाविःस्रगनुलेपणस्स्यात् ॥ ५ ॥ आविर्भूते प्रकाशिते स्रगनुलेपने यस्य एवंभूतो न स्यात् । णत्वं पूर्ववत्॥ सदा निशायां दारं प्रत्यलङ्कुर्वीत ॥ ६ ॥ 'दारं प्रती'ति वचनादुपगमनार्थमलङ्करणम् । तेन भार्याया अश- क्त्यादिना उपगमनायोग्यत्वे नाऽयं नियमः ॥ ६ ॥ सशिरा वमज्जनमप्सु वर्जयेत् ॥ ७ ॥ वमज्जनमवमज्जनम् । 'वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयो' रि- त्यकारलोपः । तत्सशिरा वर्जयेत् । सह शिरसा स्नानं न कुर्यात् । अवगा- हनविधयः सर्वे स्नातकव्यतिरिक्ते चरितार्थाः, नैमित्तिकाश्च । स्नात- कस्य तु नित्यस्नानमवगाहनरूपं न भवतीत्याचार्यस्य पक्ष ॥ ७ ॥ अस्तमिते च स्नानम् ॥ ८ ॥ अस्तमिते आदित्ये सर्वप्रकारं स्नानं वर्जयेत् ॥ ८ ॥ पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ॥९॥ पालाशमासनादि वर्जयेत् । दन्तप्रक्षालन दन्तकाष्ठम् । इतिशब्दः प्रकारे । तेनाऽन्यदपि गृहोपकरणं पालाशं वर्जयेत् ॥ ९ ॥ स्तुतिं च गुरोस्समक्षं यथा सुस्नातमिति ॥ १० ॥
१७४ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. ३२. 'सुस्नात' मित्यादिकां च स्तुतिं गुरोस्सन्निधौ वर्जयेत् ॥ १० ॥ आ निशाया जागरणम् ॥ ११ ॥ निशा रात्रेर्मध्यमो भागः । आ तस्मात् जागृयात् न स्वप्यात् ॥११॥ अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः॥१२॥ निशायामनध्यायः अध्ययनमध्यापनं च न कुर्यात् । शिष्येभ्यस्तु धर्मो- पदेशोऽनुज्ञायते ॥ १२ ॥ मनसा वा स्वयम् ॥ १३ ॥ निशायामनध्यायस्य प्रतिप्रसवः-मनसा वा स्वयं चिन्तयेदिति ।१३। ऊर्ध्वमर्धरात्रादध्यापनम् ॥ १४ ॥ अयमपि प्रतिप्रसवः । निशायामपि षोडश्या नाडिकाया आरभ्या- ध्यापनं भवतीति ॥ १४ ॥ नाऽपररात्रमुत्थायाऽनध्याय इति संविशेत् ॥ १५ ॥ रात्रेस्तृतीयो भागोऽपररात्र. । ऊर्ध्वमर्धरात्रादुत्थायाऽध्यापयन्नपररात्रे न संविशेत् न शयीत । यद्यपि तस्मिन्नष्टम्यादिरनध्यायः प्राप्तो भवति । किं पुनः स्वाध्याये । तथा च मनुः— (१)'न निशान्ते परिश्रान्तो ब्रह्माऽधीत्य पुनः स्वपेत् ।' इति ॥१५॥ (२)काममपश्शयीत ॥ १६ ॥ अनेन स्तम्भाद्युपाश्रयेणाऽऽसीनस्य स्वापोऽनुज्ञायते । श्रिञ्सेवा- याम् । तत्र रेफलोपश्चान्दसः । तथा शकारस्य द्विर्वचनम् ॥ १६ ॥ मनसा वाऽधीयीत ॥ १७ ॥ अयमप्यूर्ध्वमर्धरात्रादुत्थायाऽध्यापयतोऽनध्यायप्राप्तावेवोच्यते । म- नसा प्राप्तं प्रदेशमधीयीत स्वयं चिन्तयेत् । उपाश्रित्य वा स्वप्यात् ॥१७॥ क्षुद्रान् क्षुद्राचरितांश्च देशान्न सेवेत ॥ १८ ॥ क्षुद्रानल्पकान् पुरुषान्न सेवेत । क्षुद्रैर्निषादादिभिरधिष्ठितांश्च देशान्न सेवेत ॥ १८ ॥ सभास्समाजांश्च ॥ १९ ॥ १. म स्मृ ४. ९९ २ काममुपशयीत इति ग. पु.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७५ सभाससमाजाश्च व्याख्याताः । तान्न सेवेत ॥ १९ ॥ समाजं चेद्गच्छेत्प्रदक्षिणीकृत्याऽपेयात् ॥ २० ॥ यद्यर्थात् समाजं गच्छेत् तं प्रदक्षिणीकृत्याऽपेयादपगच्छेत् ॥ २० ॥ नगरप्रवेशनानि च वर्जयेत् ॥ २१ ॥ बहुवचननिर्देशात् बहुकृत्वो नगरं न प्रवेष्टव्यम् । यदाकदाचिदा- दृष्टिलुके प्रवेशे न प्रायश्चित्तम् ॥ २१ ॥ प्रश्नं च न विब्रूयात् ॥ २२ ॥ विविच्य वचनं विवचनं निर्णयः । पृष्टमर्थं न विविच्य ब्रूयादिद- मित्थमिति । दुर्निरूपार्थविषयमिदम् ॥ २२ ॥ अथाऽप्युदाहरन्ति ॥ २३ ॥ अपि चाऽस्मिन्नर्थे श्लोकमुदाहरन्ति ॥ २३ ॥ मूलं तूलं वृहति दुर्विंवक्तुः प्रजां पशूनायतनं हिनस्ति । धर्मप्रह्लाद न कुमालनाय रुदन् ह मृत्युर्व्युवाच प्रश्नम् । इति ॥ २४ ॥ दुर्निरूपमर्थं सहसा निर्णीय यो दुर्विंवक्ति अन्यथा वर्णयति स दु- र्विवक्ता । तस्य दुर्विंवक्तुस्तदेव दुर्वचनमेव मूलं तूलं च वृहति । मूलं पितृध- नम् । तूलमागामिनी सम्पत् । तदुभयमपि वृहति उत्पाटयति । दन्तोष्ठ्यो वकारः। किमेतावदेव ? न, प्रजां पुत्रादिकाम् । पशून् गवादिकान् । आयतनं गृहं च हिनस्ति । अतो दुर्वचनसम्भवात् प्रश्नमात्रमेव न विब्रूयादिति। अत्रेतिहासः-कस्यचिदृषेर्धर्मप्रह्लादः कुमालनश्चेति द्वौ शिष्यावास्ताम् । तौ कदाचिदरण्यान्महान्तौ समिद्धारावाहृत्य श्रमा(१)द्ददृष्टिपूत एवाचा- र्यगृहे प्राक्षिपताम् । तयोरेकेनाऽऽक्रान्त आचार्यस्य शिशुः पुत्रो मृतः । ततः शिष्यावाहूयाऽऽचार्यः पप्रच्छ-केनायं मारित इति । तावुभावपि न मयेत्यूचतुः । तथा पतितस्य परित्यागमदुष्टस्य परिग्रहं कर्तुमश- क्नुवन्नृषिर्मृत्युमाहूय पप्रच्छ-केनाय व्यापादित इति । ततो धर्मसङ्क- टे पतितो मृत्यूरुदन्नेव प्रश्नं व्युवाच विविच्य कथितवान्। कथम् ? हे धर्मप्रह्लाद न कुमालनाय । षष्ठ्यर्थे चतुर्थी । कुमालनस्य नेदं पतनीयमिति । १. दृष्टिपथ एव इति ख. पु.
१७८ आपस्तम्बधर्मसूत्रे [ (१११.) क. ३२. धर्मप्रह्राद त्वयेदं कृतमिति वक्तव्ये इतरस्य नाऽस्तीत्युक्तम् । तथा पीतरस्यास्तीत्यर्थाद्गम्यते । इति रुदन् ह व्युवाचेति । हशब्द ऐतिह्य त्वद्योतनार्थः । प्रह्रादशब्दे हकारात्परो रेफश्छान्दसः ॥ २४ ॥ गार्दभं यानमारोहणे विषमारोहणाव- रोहणानि च वर्जयेत् ॥ २५ ॥ गर्दभयुक्तं यानं गर्दभं शकटादि । आरोहणे वर्जयेत् नाऽऽरोहेत् । तथा विषमेषु निम्नोन्नतेष्वारोहणमवरोहणं च वर्जयेत् । उन्नतेष्वारोहणं नि- म्नेष्ववरोहणम् ॥ २५ ॥ बाहुभ्यां च नदीतरणम् ॥ २६ ॥ तरण तरः । बाहुभ्यां च नद्यास्तरणं वर्जयेत् । 'बाहुभ्यां' मिति व- चनात् प्लवादिना न दोषः ॥ २६ ॥ नावं च सांशायिकीम् ॥ २७ ॥ भिद्यते न वेति संशयमापन्ना सांशायिकी नौः । जीर्णां नावं वर्जयेत् । 'नावा' मिति षष्ठ्यन्तपाठे नावां मध्ये सांशायिकीं नावं वर्जयेत् ॥ २७ ॥ तृणच्छेदनलोष्टविमर्दनष्ठेवनानि चाऽकारणात् ॥ २८ ॥ तृणच्छेदनादि नाऽकारणाद्वर्जयेत् न कुर्यात् । तृणच्छेदनस्याऽग्नि ज्वलनादि कारणम् । ष्ठेवनस्य कारण प्रतिश्यायादि । इतरच्च मृग्यम् ॥ यच्चाऽन्यत्परिचक्षते यच्चाऽन्यत्परिचक्षते ॥ २९ ॥ यच्चाऽन्यदेवं युक्तमाचार्याः परिचक्षते वर्जयन्ति तदप्यक्षक्रीडादि वर्ज- येत् । द्विरुक्तिः प्रश्नपरिसमाप्तिकृता ॥ २९ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने द्वात्रिंशी काण्डका ॥ ३२ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायामेकादशः पटलः ॥ ॥ समाप्तः प्रथमः प्रश्नः ॥
॥ श्रीः ॥ आपस्तम्बधर्मसूत्रे उज्ज्वलोपेते अथ द्वितीयः प्रश्नः ॥ पाणिग्रहणादधि गृहमेधिनोर्व्रतम् ॥ १ ॥ पूर्वस्मिन् प्रश्ने आद्ययोः पटलयोः प्रायेण ब्रह्मचारिणो धर्मा उक्ताः । इतरेष्वष्टसु सर्वाश्रमाणां । एकादशे समावृत्तस्य । इदानीं पाणिग्रहणा- दारभ्य कर्तव्यानि कर्माण्युच्यन्ते । पाणिर्यस्मि(१)न्ग्रहनि गृह्यते तत्पा- णिग्रहणम्(२) । अधिशब्द ऊर्ध्वार्थे वर्तते । तस्मादूर्ध्वं गृहमेधिनोर्गृहस्था- श्रमवतोः यद्व्रतं नियतं कर्तव्यम्, जातावेकवचनम्, तदुच्यते । 'पाणि- ग्रहणादधी'ति वचने(३)'भार्यादिरग्निर्दायादिर्वे'ति शास्त्रान्तरोको वि- कल्पो मा भूदिति । 'गृहमेधिनो'रिति द्विवचनमन्यतरमरणे मा भूदि- ति(४) । वैश्वदेवं तु विधुरा अपि कुर्वन्ति ॥ १ ॥ कालयोर्भोजनम् ॥ २ ॥ कालयोरुभयोरपि भोजनं कर्तव्यम्—सायं प्रातश्च, नाऽन्तरेति परिसं- ख्येयम्, भोजनस्य रागप्राप्तत्वात् । मानवे च स्पष्टमुक्तम्— (५)'सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नाऽन्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥' इति । अन्ये तु नियमं मन्यन्ते(६) शक्तौ सत्यां गृहमेधिनोरुभयोरपि कालयोरवश्यं भोक्तव्य प्राणाग्निहोत्रस्याऽलोपायेति ।
१. यस्मिन् कर्माणि इति. क ड. पु. २. चतुर्थीकर्मान्तो विवाहः इत्यधिकं ड पु ३. गौ. ध ५ ७ ४. अनेकभार्यस्य एकस्यामपि सत्या भवत्येव । अनेकाश्रितस्याऽधिकारस्य विद्यमा- नत्वाच्छाखान्तरत्वाच्च । इत्यधिकं क पु. ५. वचनमिदं मुद्रितमनुस्मृतिकोशेषु नाऽस्ति । परं तु बहुषु निबन्धेषु परं मान- वत्वेनोपन्यस्तम् । ६. शक्तौ सत्या कालयोर्वर्जने च प्राणाग्निहोत्रलोपः । तस्यालोपाय कालयोरवश्यं भोजनं कर्तव्यमिति ढ पुस्तके पाठः । आप० ध० २३
१७८ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क. १. तथा च बौधायनः- (१)'गृहस्थो ब्रह्मचारी वा योऽनश्नंस्तु तपश्चरेत् । प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः ॥' इति । (२)अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तु तदेव विधानमिति ॥ २ ॥ अतृप्तिश्चाऽन्नस्य ॥ ३ ॥ सुहितार्थयोगे करणे षष्ठी भवति । (३)पूरणगुणसुहितार्थे'ति ज्ञा- पनात् । अन्नेन तृप्तिं न गच्छताम् । यावत्तृप्ति न भोक्तव्यम् ॥ ३ ॥ पर्वसु चोभयोरुपवासः ॥ ४ ॥ पक्षसन्धिः पर्व । इह तु तद्युक्तमहर्गृह्यते । तेषु पर्वसूभयोर्दम्पत्यो- रुपवासः कर्तव्यः । उपवासो भोजनलोपः ॥ ४ ॥ अविशेषादुभयोरपि कालयो. प्राप्तावाह- औपवस्तमेव कालान्तरे भोजनम् ॥ ५ ॥ यत्कालान्तरे एकस्मिन् काले भोजन तदप्यौ(४)पवस्तमेव उपवास एव । (५)'औपवस्तं तूपवासः' इति निघण्टुः । तदपि दिवा, न रात्रौ; श्रौते तथा दर्शनात् (६)'न तस्य सायमश्नीया'दिति । तदिह (७)'एव मत ऊर्ध्व'मित्यादि गृह्ये यदुक्तं तत्रत्य उपवासो व्याख्यातः ॥ ५ ॥ तृप्तिश्चाऽन्नस्य ॥ ६ ॥ पर्वसु सकृद्भुञ्जानौ यावत्तृप्ति भुञ्जीयाताम् ॥ ६ ॥ यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् ॥ ७॥ 'एतस्मिन्नहनी'ति न वक्तव्यम् । प्रकृतत्वात् । यथा 'तृप्तिश्चान्नस्ये' ति पर्वसु भवति, एवमिदमपि भविष्यति । किं च 'पर्वस्वि'ति बहुव चनान्तस्य प्रकृतस्य 'एतस्मिन्नहनी'त्येकवचनान्तेन प्रत्यवमर्शो नाऽतीव समञ्जसः । तस्माद्व्यवहितमपि पाणिग्रहणमहः प्रत्यवमृश्यते । एतदर्थ- १. बौ ध २. ७ २४ २. अय भागो घ. पुस्तके नास्ति । ३. पा. सू. २. २. ११ ४. 'वसु, स्तम्भ' इत्यस्मादैवादिकाद्भावे के स्वार्थेऽणि च सति औपवस्तमिति रूपं, धातुनामनेकार्थत्वादभोजने वृत्तिरिति च वेदितव्यम् । ५. नामलि. का. २. ब्र व. ३८ ६. आप श्रौ. ३. ७. आप. गृ. ७. १७.
गृहस्थधर्मा: ] उज्ज्वलोपेते द्वितीय: प्रश्न: । १७९
मेव च गृहे (१) 'एतदहर्विजानीयाद्यदहर्भार्यामावहत' इत्युक्तम् । एतस्मिन् पाणिग्रहणेऽहनि यदेनयोर्दम्पत्योः प्रियं तत् भुञ्जीयाताम् । न तु 'नाऽऽत्मार्थ- मभिरूपमन्नं पाचये' (२-७-४) दिति निषेधस्याऽयं विषय इति । प्रतिसंव- त्सरं चैतत्कर्तव्यम् । यथा चैत्रे मासि स्वातौ कृतविवाहस्याऽपरस्मिन्नपि संवत्सरे तस्मिन्मासे स्वातावेव कार्यम् । एवं हि तदेवाऽहरिति भवति । प्रतिमासं तु नक्षत्रागमेऽपि चैत्रादिभेदान्न तदेवेति प्रतिपत्तिः । तस्मात् प्रतिसंवत्सरमिदं विवाहनक्षत्रे कर्तव्यम् । (२) यथा राज्ञामभिषेकनक्षत्र मेवं हि गृहमेधिनोर्विवाहनक्षत्रमिति ॥ ७ ॥ अधश्च शयीयाताम् ॥ ८ ॥ एतस्मिन्नहनि स्थण्डिलशायिनौ स्याताम् ॥ ८ ॥ मैथुनवर्जनं च ॥ ९ ॥ (३) मैथुनवर्जनं चैतस्मिन्नहनि कर्तव्यम् ॥ ९ ॥ श्वो भूते स्थालीपाक: ॥ १० ॥ स्थालीपाकश्च कर्तव्योऽपरेद्युः ॥ १० ॥ तस्योपचारः पार्वणेन व्याख्यातः ॥ ११ ॥ तस्य स्थालीपाकस्योपचारः प्रयोगप्रकारः पार्वणेन व्याख्यातः । एतदेव ज्ञापयति-न सामयाचारिकेषु पार्वणातिदेश प्रवर्तत इति । केचित्तु सर्वमेवैतत्पर्वविषयं मन्यन्ते । तेषामुक्त्तो दोषः । 'पार्वणेन व्या ख्यात' इति चाऽनुपपन्नम् । न हि स एव तेन व्याख्यातो भवति । 'श्वो भूते स्थालीपाक' इति च व्यर्थम् । (४) 'उपोषिताभ्यां पर्वसु कार्य' इति पूर्वमेवोक्तत्वात् । 'एतदहर्विजानीया' दिति चास्य प्रयोजनं तत्पक्षे चिन्त्यम् (५) ॥ ११ ॥ नित्यं लोक उपदिशन्ति ॥ १२ ॥ लोके शिष्टाचासिद्धमेतत्कर्म नित्यं प्रतिसंवत्सरं कर्तव्यमिति शिष्टा उपदिशन्ति । अपर आह—वक्ष्यमाणं कर्म शिष्टाचारासिद्धं नित्यं सार्वत्रिक इति
१. आप गृ ८. ७ २. यथा इत्यादिग्रन्थः घ. ङ पुस्तकयोर्नास्ति । ३. 'एतस्मिन्नहनि तन्न कर्तव्यम्' इति छ. पु ४ आप. गृ. ७. १७. ५. सूत्रस्वारस्यं तु पर्वविषयत्व एव पश्यामः ।
३. द्वितीय प्रश्न (पटल १-५): गृहस्थ-धर्म व पंचमहायज्ञ
१८० आपस्तम्बधर्मसूत्रे [ (प.१.) क.१. शिष्टा उपदिशन्ति ॥ १२ ॥ यत्र क चाऽग्निमुपसमाधास्यन् स्यात्तत्र प्राचीरुदी- चीश्च तिस्रस्तिस्रो रेखा लिखित्वाऽद्भिरवोक्ष्या- ऽग्निमुपसमिन्ध्यात् ॥ १३ ॥ होमप्रसङ्गादिदमुच्यते—यत्र क्व च गार्ह्ये सामयाचारिके वा कर्म णि गृहेऽरण्ये वाऽग्निमुपसमाधास्यन् प्रतिष्ठापयिष्यन् स्यात्तत्र पूर्वं प्राचीः प्रा गग्रास्तिस्रो रेखा विलिखेत् । तत उदीचीः उदगग्रास्तिस्रः । एव तिस्रो लेखा लि- खित्वाऽद्भिरवोक्षेत् । अवोक्ष्याऽग्निं श्रोत्रियागारादाहृत्य प्रतिष्ठाप्योपसमिन्ध्यादु- पसमिन्धीत काष्ठैरभिज्वलयेत् । तत्र(१) 'पुरस्तादुदग्वोपक्रमः, तथाप- वर्ग' इति परिभाषितम् । उपदेशक्रमाच्च प्राच्यः पूर्वं लेखा लेखनीयाः ततश्चोदीच्यः(२) । (३)प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् । अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥ (४)अन्ये तु प्राचीरुद्गारम्भं दक्षिणान्तमालिखन्ति ॥ १३ ॥ उत्सिच्यैतदुदकमुत्तरेण पूर्वेण वाऽन्यदुपदध्यात् ॥१४॥ एतदवोक्षणशेषोदकमग्नेरुत्तरतः पूर्वतो वा उत्सिञ्चेत् । उत्सिच्याऽन्य दुदकं पात्रस्थमुपदध्यात्तत्रैव ॥ १४ ॥ नित्यमुदधानान्धद्भिररिक्तानि स्युर्गृहमेधिनोव्रतम् ॥१५॥ गृहे यावन्त्युदधानान्युदपात्राणि घटकरादीनि तानि सदाऽद्भिररिक्तानि स्युः । एतदपि गृहमेधिनोव्रतम् । पुनः 'गृहमेधिनो'रिति वचनमस्मिन् कर्मणि स्वयं कर्तृत्वमेव यथा स्यात् प्रयोजककर्तृत्व मा भूदिति । अन्य आह—पुन 'गृहमेधिनो'रिति वचनात् पूर्वसूत्रं ब्रह्मचारिवि षयेऽपि 'सावित्र्या समित्सहस्रमादध्या' (१.२६.१.) दित्यादौ भवति । पाके तु स्त्रिया न भवति । 'उपसमाधास्य'न्निति लिङ्गस्य विवक्षित- त्वात् । आर्याः प्रथता' (२.३.१.) इत्यादौ भवतीति ॥ १५ ॥ १. आप. गृ. १. ५, ६. २. ‘एकमेवेदं कर्मलेखाकरणं नाम स्थण्डिलसंस्काररूपम् । ततश्च’ इत्याधिकं घ.ड पु. ३. प्राचीः पूर्वं दक्षिणान्तमुद्गारभ्यमालिखेत् । इति ख. च. पु. ४. अन्ये तु प्राचीर्दक्षिणारम्भमालिखन्ति इति च. पु. ।