भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

२५८ आपस्तम्बधर्मसूत्रे [(प्र. ७) क. १९.

सभ्यावसथ्याभ्यां सह ।(१)पञ्चानां काठकाग्नीनामध्येता वा । ज्येष्ठसाम तलवकारिणां प्रसिद्धं उदु त्य,चित्रमित्येतयोर्गीतम् । तद्वायतीति ज्येष्ठ- समागः । ज्येष्ठसामिक इति पाठे व्रीह्यादित्वात् ठन् । वेदाध्यायी स्वाध्या- यपरः । अनूचानपुत्रः त्रैविद्यपुत्रः । श्रोत्रिय इत्यपि पठन्ति । तदादरार्थं द्रष्टव्यम् । एते श्राद्धे भुञ्जानाः पङ्क्तिं शोधयन्ति । वेदाध्यायीत्यस्यानन्तर मितिशब्दं पठन्ति । सोऽपपाठः । एतेन पञ्चाग्नीत्यविभक्तिकपाठो व्याख्यातः ॥ २२ ॥ न च नक्तं श्राद्धं कुर्वीत ॥ २३ ॥ श्राद्धकर्मण्यारब्धे कारणाद्विलम्बे मध्ये यदादित्योऽस्तमियात् तदा श्राद्धशेषं न कुर्वीत, अपरेद्युर्दिवैव कुर्वीतेति ॥ २३ ॥ आरब्धे चाऽभोजनमासमापनात् (अन्यत्र राहुदर्शनात्) ॥ २४ ॥ पूर्वेद्युर्निवेदनप्रभृत्यापिण्डनिधानान्मध्ये कर्तुर्भोजनप्रतिषेधः । अ- नन्तरमन्यत्र राहुदर्शनादिति पठन्ति । ‘न च नक्त’मित्यस्यापवादः राहु- दर्शने नक्तमपि कुर्वीतेति । उदीच्यास्त्वेतत्प्रायेण न पठन्ति । तथा च पूर्वैर्न व्याख्यातम् । प्रत्युत ‘न च नक्त’मित्येतत् सोमग्रहणविषयमिति व्याख्यातम् । पठ्यमानं तु न च नक्तमित्यस्यानन्तरं पठितुं युक्तम्॥२४॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तदशी कण्डिका ॥ १७ ॥

इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने सप्तमः पटलः ॥७॥


१. सावित्र, नाचिकेत, चातुर्होत्र, वैश्वसृजा, रुणकेतुकाख्या० पञ्च चयनविशेषाः तैत्तिरीयब्राह्मणे ३ याष्टके दशमादिषु त्रिषु (काठके. १. २. ३) प्रपाठकेषु समन्त्रका आम्नाता० पञ्चाग्नयः । छान्दोग्योपनिषद्याम्नातपञ्चाग्निविद्या- ध्यायी पञ्चाग्निरिति मनौ (३. १८५) मेधातिथिः ।

अथाष्टमः पटलः ॥ विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् ॥ १ ॥ विलयनं नवनीतमलम्। यस्य दध्नो हस्तादिना मन्थनमात्रं न जलेन मिश्रणं तन्मथितम् । तथा च नैघण्डुकाः- (१)'तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्'ति । यन्त्रपीडितानां तिलानां कल्कः पिण्याकम् । मधुमांसे प्रसिद्धे । मांस- मप्रतिषिद्धमपि । एतद्विलयनादिकं वर्जयेत् ॥ १ ॥ कृष्णधान्यं शूद्रान्नं ये चान्येऽनार्यसम्मताः ॥ २ ॥ कृष्णधान्यं(२)माषादि । न कृष्णा व्रीहयः । शूद्रान्नं पक्कमपक्वं च । ये चान्येऽनार्यत्वेनाभोज्यत्वेन सम्मताः तांश्च वर्जयेत् ॥ २ ॥ (३)अहविष्यमनृतं क्रोधं येन च क्रोधयेत् ॥ ३ ॥ अहविष्यं कोद्रवादि । अनृतं मिथ्यावचनम् । क्रोधः कोपः येन च कृते नोक्तेन वा परं क्रोधयेत्, तच्च वर्जयेत् ॥ ३ ॥ स्मृतिमिच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशै- तानि वर्जयेत् ॥ ४ ॥ स्मृतिरधिगतस्य स्मरणम् । यशः ख्यातिः । मेधा प्रज्ञा । द्वादशैतानि विलयनादीनि वर्जयेत् स्मृत्यादिकमिच्छन् । पुनर्वर्जयेदिति गुणार्थोऽ- नुवादः स्मृत्यादिकं फलं विधातुम् । द्वादशैतानीति वचनं विलयनादे- रपि परिग्रहार्थम्, अहविष्यादिकमेवानन्तरोक्तं मा ग्राहीदिति ॥ ४ ॥ अधोनाभ्युपरि जान्वाच्छाद्य त्रिषवणमुदकमुपस्पृश- न्नग्निकृद्वृत्तिरच्छाद्योपगतस्थानासनिकस्सं- वत्सरमेतद्व्रतं चरेदेतदष्टाचत्वारिंशत्स- म्मितमित्याचक्षते ॥ ५ ॥ १. अमरको. २. का. वै. ५३. २. कुलुत्थादि इति घ. च. पुस्तकयो , कृष्णकुलुत्थादि. इति ड. पु. ३. 'अहविष्यं'मित्यादि 'वर्जये' दित्यन्तमेकसूत्रं क. पुस्तके परम् ।

४. द्वितीय प्रश्न (पटल ६-८): राजधर्म व दण्ड-नीति

२६० आपस्तम्बधर्मसूत्रे [(प.८.)क.१८. अधोनाभ्युपरि जान्वाच्छाद्येति व्याख्यातम् (१.२४.११) त्रिषवण त्रिषु सवनेषु प्रातर्मध्यन्दिने सायमिति उदकमुपस्पृशन् स्नान कुर्वन् । अनग्नि- पक्ववृत्ति., वृत्तिः शरीरयात्रा, सा अग्निपक्वेन न कार्या । अग्निग्रहणात् कालपक्वस्याऽऽम्रादेरदोषः । अच्छाद्योपगतः छायामनुपगच्छन् । स्थानास निकः स्थानासनवान् । दिवास्थानं रात्रावासनं न कदा चिच्छयनम् । एतत् 'विलयनं मथित'मित्यारभ्याऽनन्तरमुक्त सवत्सरं व्रत चरेत् । एत द्ब्रतमष्टाचत्वारिंशद्वर्षसाध्येन ब्रह्मचारिव्रतेन सम्मित सदृशं यावत्तस्य फलं तावदस्यापीत्याचक्षते धर्मज्ञाः । न केवल स्मृत्यादिकमेव प्रयो जनमिति । अपर आह—'विलयनं मथित'मित्यादिकं व्रतान्तरं स्मृत्यादिकाम- स्य । 'अधोनाभी'त्यादिकं तु सम्मितं व्रतमिति । एतच्च ब्रह्मचारि णो गृहस्थस्य च भवति । तथा च बौधायनः— (१)'अष्टाचत्वारिंशत्समितमित्याचक्षते तस्य सङ्क्षेपः संवत्सरः । तं संवत्सरमनुव्याख्यास्यामः—स यदि ब्रह्मचारी स्यान्नियमेव प्रति- पद्येत । अथ यद्यपि ब्रह्मचारी स्यात् केशाश्मश्रुलोमनखानि वापयि त्वा तीर्थे गत्वा स्नात्वे'त्यादि ॥ ५ ॥ नित्यश्राद्धम् ॥ ६ ॥ अथाऽहरहः कर्तव्यं श्राद्धमुच्यते । तस्य नित्यश्राद्धमिति नाम ॥ ६ ॥ बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ॥ ७ ॥ तन्नित्यश्राद्धं बहिर्ग्रामात्कर्तव्यं तस्याऽन्नसंस्कारः शुचौ देशे अन्नं संस्कुर्वन्ति । शुचय इति वचनमाधिक्यार्थम् । आर्याः प्रयता इति पूर्व- मेव प्रायत्यस्य विहितत्वात् ॥ ७ ॥ तत्र नवानि द्रव्याणि ॥ ८ ॥ तत्र नित्यश्राद्धे द्रव्याणि नवान्येव ग्राह्याणि ॥ ८ ॥ कानि पुनस्तानि ? यैरन्नं संस्क्रियते येषु च भुज्यते ॥ ९ ॥ यैर्भाण्डैरन्नं संस्क्रियते येषु च कांस्यादिषु भुज्यते तानि नवानीति ॥ ९ ॥ १. नेदमयोपल+यमानबौधायनीये धर्मसूत्र उपलभ्यते ।

नित्यश्राद्धम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६१ तानि च भुक्तवद्भ्यो दद्यात् ॥ १० ॥ तानि भाण्डानि कांस्यादीनि च भुक्तवद्भ्यो ब्राह्मणेभ्यो दद्यात् । एवं प्रत्यहम् ॥ १० ॥ समुदेतांश्च भोजयेत् ॥ ११ ॥ समुदेतवचनं गुणाधिक्यार्थम् ॥ ११ ॥ न चाऽतद्गुणायोच्छिष्टं प्रयच्छेत् ॥ १२ ॥ भाण्डेषु यत् भुक्तशिष्टं तदिहोच्छिष्टम् । तदप्यतद्गुणाय भुक्तवतां ये गुणास्तद्रहिताय न दद्यात् तद्गुणायैव दद्यादिति(१) ॥ १२ ॥ एवं संवत्सरम् ॥ १३ ॥ एवमेतन्नित्यश्राद्धं संवत्सरं कर्तव्यमहरहः ॥ १३ ॥ तेषामुत्तमं लोहेनाजेन कार्यम् ॥ १४ ॥ तेषां संवत्सरस्याऽह्नां उत्तममहस्समाप्तिदिनम् । लोहेन लोहितवर्णेन अजेन श्राद्धं कर्तव्यम् । दृश्यते चाप्यन्यत्राऽस्मिन्नर्थे लोहशब्दः-(२) ‘लोहस्तूपरो भवत्यप्यतूपरः कृष्णसारङ्गो लोहितसारङ्गो वे’ति । च- मकेषु च भवति (३)‘श्यामं च मे लोहं च म’ इति ॥ १४ ॥ मानं च कारयेत्प्रतिच्छन्नम् ॥ १५ ॥ मानं धिष्ण्यं वेदिका । दृश्यते हि मिनोतेरस्मिन्नर्थे प्रयोगः अग्रेणाऽऽग्नीध्रं चतुर उपस्नावं विमितं विमिन्वन्ति पुरस्तादुन्नतं पश्चा- न्निन्नतमिति। स एवायमुपसर्गरहितस्य प्रयोग । तं मानं कारयेत् कर्म- करैः, प्रतिच्छन्नं च तद्वति तिरस्करिण्यादिना। इदमपि ग्रामाद्बहिरेव ॥ तस्योत्तरार्धे ब्राह्मणान् भोजयेत् ॥ १६ ॥ तस्य मानस्योत्तरस्मिन्नर्धे ब्राह्मणा भोजयितव्याः ॥ १६ ॥ उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने च पितॄन्नित्युपदिशन्ति ॥ १७ ॥ १. तदलाभे एतानि भुक्तवद्भ्यो ददाति उच्छिष्टानि श्राद्धे भुक्तवद्भ्य एव दद्यात् ॥ इत्यधिक घ. पुस्तके । २. लौहेन इति घ. पु. ३ तै स. ४. ७. ५. ‘‘अग्नाविष्णू सजोषसा’’इत्याद्या एकादशानुवाकाः चमका इ- त्युच्यन्ते ‘चमे’ शब्दघटित्वात् ।

२६२ आपस्तम्बधर्मसूत्रे [ (प.८.) क. १९. तस्यैवं कृतस्य कर्मणो महिम्ना उभयान् पश्यति, कांश्च कांश्च ब्राह्मणान्भु- ञ्जानान् तस्मिन्नेव च माने पितॄन् यथा। ब्राह्मणान् भुञ्जानान् प्रत्यक्षेण पश्यति तथा माने समागतान् पितॄनपि प्रत्यक्षेण पश्यतीत्युपदि- शन्ति धर्मज्ञाः ॥ १७ ॥ कृताकृतमत ऊर्ध्वम् ॥ १८ ॥ अत ऊर्ध्वं मासिश्राद्धं क्रियताम्, मा वा कारि । अकरणेऽपि न प्रत्यवाय इति ॥ १८ ॥ श्राद्धेन तृप्तिं निवेदयन्ते पितरः ॥ १९ ॥ हि यस्मादन्त्येऽहनि यद्दर्शनमुपगच्छन्ति, तच्छ्राद्धेन तृप्तिं हि वेदयन्ते ज्ञापयन्ति कर्तारम् । तस्मात् तत् कृताकृतमिति ॥ १९ ॥ अथ पुष्टिकामस्य प्रयोगस्तिष्येणेत्यादिरुच्छिष्टं दद्युरित्यन्त एकः। तिष्येण पुष्टिकामः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्नेऽष्टादशी कण्डिका ॥ १८ ॥ गौरसर्षपाणां चूर्णानि कारयित्वा तैः पाणिपादं प्र- क्षाल्य मुखं कर्णौ प्राश्य च यद्वातो नाऽतिवाति तदा- सनोऽजिनं बस्तस्य प्रथमः कल्पो वाग्यतो दक्षिणा- मुखो भुञ्जीत ॥ १ ॥ पुष्टिकामः पुरुषो वक्ष्यमाणं प्रयोगं कुर्यात् । तिष्येण(१) 'नक्षत्रे च लुपि'त्यधिकरणे तृतीया । तिष्ये नक्षत्रे गौराणां सर्षपाणां चूर्णानि कर्म- करैः कारयेत् । कारयित्वा तच्चूर्णैः पाणी पादौ प्रक्षाल्य मुखं कर्णौ च प्रक्षा- ल्य चूर्णशेषं प्राश्नीयात् । प्रास्येदिति पाठे प्रास्येत् विकिरेत् । एतावत् प्रतितिष्यं विशेषकृत्यम् । परं तु प्रत्यहं कर्तव्यम् । प्राश्य च यदासनं वा- तो नातिवाति अधो नातीत्य वाति तदासनस्तादृशासनः भुञ्जीतेति व- क्ष्यमाणेन सम्बन्धः । तत्र बस्ताजिनमासनं स्यादिति मुख्य कल्पः । वाग्यतो दक्षिणां दिशमभिमुखो भुञ्जीत ॥ १ ॥ अनायुष्यं त्वेवंमुखस्य भोजनं मातुरित्युपादिशन्ति ॥२॥ १. पा. सू. २. ३.४५.

पुंस्त्वर्थप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६३ यदेवंमुखस्य दक्षिणामुखस्य भोजनं तत् भोक्तुर्या माता तस्या अनायुष्यमनायुष्यकरमिति धर्मज्ञा उपदिशन्ति । तस्मान्मातृमता नैवं कृतं कार्यमिति ॥ २ ॥ औदुम्बरश्चमसः सुवर्णनाभः प्रशस्तः ॥ ३ ॥ चमु भक्षणे । यत्र चम्यते स चमसो भोजनपात्रम् । औदुम्बरस्ता- म्रमयः सुवर्णेन मध्येऽलंकृतस्स प्रशस्तः प्रशस्तो भोजने ॥ ॥ ३ ॥ नचाऽन्येनाऽपि भोक्तव्यम् ॥ ४ ॥ नचान्येनापि कर्तुः पित्रापि तत्र पात्रे भोक्तव्यम् । अपिर्धात्वार्था नुवादी । भोक्तव्य इति पुंलिङ्गपाठेऽप्येष एवार्थः ॥ ४ ॥ यावद्ग्रासं सन्नयन्नस्कन्दयन्नाऽपजिहीताऽपजिहीत वा कृत्स्नं ग्रासं ग्रसति सहाङ्गुष्ठम् ॥ ५ ॥ यावदेव सकृत् ग्रसितुं शक्यं तावदेव सन्नयन् पिण्डीकुर्वन् । अस्कन्द- यन् भूमावन्नलेपानपातयन् कृत्स्न ग्रासं ग्रसीतेत्यन्वयः । सहाङ्गुष्ठम् आ स्येऽपि ग्रासप्रवेशे यथाऽङ्गुष्ठोऽप्यनुप्रविशति तथा सर्वानैव ग्रासानु क्तेन प्रकारेण ग्रसति ग्रसतो मध्ये क्रियान्तरविधिः-नाऽपजिहीत भोजन पात्रं सव्येन पाणिना न विमुञ्चेत् । अपजिहीत वा विमुञ्चेद्वा । किमर्थमिदम् यावता न प्रकारान्तरं सम्भवति, सत्यं, 'प्रक्रमात्तु नियम्यत' इति न्यायेन य एव प्रकारः प्रथमे भोजने स एवाऽऽन्तादनुष्ठातव्य इत्येवमर्थ- मिदम् ॥ ५ ॥ न च मुखशब्दं कुर्यात् ॥ ६ ॥ भोजनदशायामिदम् । एवमुत्तरम् ॥ ६ ॥ पाणिं च नाऽवधूनुयात् ॥ ७ ॥ पाणिरत्र दक्षिणः ॥ ७ ॥ आचम्य चोध्र्वौ पाणी धारयेदाप्रोदकीभावात् ॥ ८ ॥ भुक्त्वाऽऽचम्य पाणी ऊर्ध्वौ धारयेत् यावत् प्रगतोदकौ शुष्कोदकौ भवतः ॥ ८ ॥ ततोऽग्निमुपस्पृशेत् ॥ ९ ॥ भुक्त्वा नियमेनाग्निरुपस्पृष्टव्यः ॥ ६ ॥

२६४ आपस्तम्बधर्मसूत्रे [(प.८.)क.१९] दिवाच न भुञ्जीताऽन्यन्मूलफलेभ्यः ॥ १० ॥ मूलानि कन्दाः । फलान्याम्रादीनि । तेभ्योऽन्यद्दिवा न भुञ्जीत । तद्भक्ष- णे न दोषः ॥ १० ॥ स्थालीपाकानुद्देश्यानि च वर्जयेत् ॥ ११ ॥ (१)तेन सर्पिष्मता ब्राह्मणं भोजये' दित्यादौ ब्राह्मणो भूत्वा न भु- ञ्जीत अनुद्देश्यानि च पितृभ्यो देवताभ्यश्च सङ्कल्पितानि च न भुञ्जीत । ११ । सोत्तराच्छादनश्चैव यज्ञोपवीती भुञ्जीत ॥ १२ ॥ उत्तराच्छादनमुपरिवासः । तेन यज्ञोपवीतेन यज्ञोपवीतं कृत्वा भुञ्जीत । नाऽस्य भोजने "अपि वा सूत्रमेवोपवीतार्थ" इत्ययं कल्पो भवतीत्येके । समुच्चय इत्यन्ये ॥ १२ ॥ नैयमिकं तु श्राद्धं स्नेहवदेव दद्यात् ॥ १३ ॥ यन्नियमेन कर्तव्यं मासि श्राद्धं, तत् स्नेहद्रव्ययुक्तमेव दद्यात् । न शुष्कम् ॥ १३ ॥ तत्र विशेषः- सर्पिर्मांसमिति प्रथमः कल्पः ॥ १४ ॥ स्पष्टम् ॥ १४ ॥ अभावे तैलं शाकमिति ॥ १५ ॥ सर्पिषोऽभावे तैल मांसस्याऽभावे शाकम् । इतिशब्दाद्यच्चान्यदेवं युक्तम् ॥ १५ ॥ मघासु चाधिकं श्राद्धकल्पेन सर्पिर्ब्राह्मणान् भोजयेत् ॥१६॥ मघासु पूर्वपक्षेऽपि श्राद्धविधानेन सर्पिर्मिश्रमन्नं ब्राह्मणान् भोजयेत् ॥१६॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकोनविंशी काण्डका ॥ १९ ॥ १. आप गृ. ७. १५.

पुष्टिकामप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५ मासि श्राद्धे तिलानां द्रोणंद्रोणं येनोपायेन शक्नुयात् तेनोपयोजयेत् ॥ १ ॥ येनोपायैनोपयोजयितुं शक्नुयात् अभ्यङ्गे, उद्वर्तने, भक्ष्ये, भोज्ये चेति तेनोपायेन मासिश्राद्धे तिलानां द्रोणं द्रोणमुपयोजयेत् । तत्रैकैकस्य ब्राह्म- णस्य तिलानां द्रोणं द्रोणमुपयोजयितुमशक्यत्वात् समुदितानुपयोजये त् । द्रौणंद्रोणमिति वीप्सावचनं तु प्रतिमासिश्राद्धमुपयोजनार्थमिति केचित् । अन्ये तु एवंभूताः प्रबलाः प्रयत्नेनान्विष्य भोजयित- व्या इति ॥ १ ॥ समुदेतांश्च भोजयेन्न चाऽतद्गुणायोच्छिष्टं दद्युः ॥२॥ व्याख्यातमिदम् । दद्युरिति बहुवचनं तथाविधकर्तृबहुत्वापेक्षम् । वचनव्यत्ययो वा ॥ २ ॥ अथ पुष्टिकामस्यैवाऽपरः प्रयोग आ पटलसमाप्तेः- उदगयन आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यमुपोष्य ति- ष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महाराज- मिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा पुष्ट्यर्थेन सिद्धिं वाचयीत ॥ ३ ॥ पुष्टिकामः पुरुष एकरात्रावरमुपवासं कृत्वा उदगयन आपूर्यमाणपक्षस्य पूर्वपक्षस्य सम्बन्धिन। तिष्येण तस्मिन्नक्षत्रे स्थालीपाकं श्रपयित्वा (१)महाराजं वैश्रवणं यजेत । आज्यभागान्ते महाराजाय स्वाहेति प्रधान होम । स्विष्टकृदादिजयादयः । परिषेचनान्ते तेन सर्पिष्मता स्थाली- पाकेन ब्राह्मणं भोजयेत् । उत्तरविवक्षयेदं वचनम् । भोजयित्वा सिद्धिं वाचयीत पुष्टिरस्त्विति ॥ ३ ॥ एवमहरहरापरस्मात्तिष्यात् ॥ ४ ॥ एवमिदं स्थालीपाकश्नपणादिसिद्धिवाचनान्तमहरहः कर्तव्यमापरस्मा- त्तिष्यात् यावदपरस्तिष्य आगच्छति ॥ ४ ॥ द्वौ द्वितीये ॥ ५ ॥ १ कुबेराय वैश्रवाणाय । महाराजाय नमः। ( तै आर. १. ३१. ) इति मन्त्रे वैश्रवणस्य महाराजपदेन सामानाधिकरण्यात् ॥ आप० ध० ३४

२६६ आपस्तम्बधर्मसूत्रे [(प.८)क.२०. द्वितीये तिष्ये प्राप्ते द्वौ भोजयेत् । अन्यत्समानम् । एवमातृतीयात् ॥५॥ त्रींस्तृतीये ॥ ६ ॥ तृतीये तिष्ये त्रीन् भोजयेदाचतुर्थात् ॥ ६ ॥ एवं संवत्सरमभ्युच्चयेन ॥ ७ ॥ एवमेतत्कर्म यावत्संवत्सरः पूर्यते तावत् कर्तव्यम् । ब्राह्मणभोजन चाऽभ्युच्चयेन भवति। चतुर्थप्रभृति चत्वारः, पञ्चमप्रभृति पञ्चेत्यादि॥७॥ एवं कृते फलमाह- महान्तं पोषं पुष्यति ॥ ८ ॥ महत्या पुष्ट्या युक्तो भवति ॥ ८ ॥ आदित एवोपवासः ॥ ९ ॥ उपवासस्त्वादित एव पुष्ये भवति । न प्रतिपुष्यम् ॥ ९ ॥ आत्ततेजसां भोजनं वर्जयेत् ॥ १० ॥ आत्ततेजांसि तक्रवाजिनादीनि । तानि नोपभुञ्जीत ॥ १० ॥ भस्मतुषाधिष्ठानम् ॥ ११ ॥ वर्जयेदित्येव । भस्मतुषांश्च नाऽधितिष्ठेत् नाऽऽक्रामेत् ॥ ११ ॥ पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥ १२ ॥ एकेन पादेन पादान्तरस्य प्रक्षालनं अधिष्ठानं च वर्जयेत् न कुर्यात् ॥१२॥ प्रेङ्खोलनं च पादयोः ॥ १३ ॥ प्रेङ्खोलन दोलनमितस्ततश्चालनम् ॥ १३ ॥ जानुनि चाऽत्याधानं जङ्घायाः ॥ १४ ॥ एकस्मिन् जानुनि इतरस्या जङ्घायाः अत्याधानमवस्थापनं च वर्जयेत्॥१४ नखैश्च नखवादनः ॥ १५ ॥ स्पष्टम् ॥ १५ ॥ स्फोटनानि चाऽकारणात् ॥ १६ ॥ पर्वसन्धीनां स्फोटनानि वर्जयेत् अकारणात्, कारणं श्रमवातादि । वादनस्फोटनानीति समासपाठेऽप्येष एवार्थः ॥ १६ ॥

पृष्ट्यर्थप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६७ यच्चान्यत्परिचक्षते ॥ १७ ॥ यच्चान्यदेवं उक्तव्यतिरिक्तं तृणच्छेदनादि शिष्टाः परिचक्षते गर्हन्ते तदपि वर्जयेत् ॥ १७ ॥ योक्ता च धर्मयुक्तेषु द्रव्यपरिग्रहेषु च ॥ १८ ॥ एकश्चशब्दोऽनर्थकः । केचिन्नैव पठन्ति । धर्माविरुद्धा ये द्रव्यप- रिग्रहास्तेषु च योक्ता उत्पादयिता स्यान्निरीहस्स्यात् ॥ १८ ॥ प्रतिपादयिता च तीर्थे ॥ १९ ॥ तीर्थं गुणवत् पात्रं, यज्ञो वा । तत्र द्रव्यस्याऽर्जितस्य प्रतिपाद- यिता स्यात् ॥ १९ ॥ यन्ता चाऽतीर्थे यतो न भयं स्यात् ॥ २० ॥ यन्ता नियन्ता अप्रदाता अतीर्थे अप्रदाता च स्यात् । यतः पुरुषादप्र- दानेऽपि न भयं स्यात् । भयसम्भवे तु पिशुनादिभ्यो देयम् ॥ २० ॥ सङ्ग्रहीता च मनुष्यान् ॥ २१ ॥ अर्थप्रदानप्रियवचनानुसरणादिभिर्मनुष्याणां सङ्ग्रहणशीलस्स्यात्२१ भोक्ता च धर्माविप्रतिषिद्धान् भोगान् ॥ २२ ॥ धर्माविरुद्धा ये भोगाः स्रक्चन्दनस्वभार्यासेवनादयः, तेषां च भोगशीलस्स्यात् ॥ २२ ॥ एवमुभौ लोकावभिजयति ॥ २३ ॥ एवं महत्या पुष्ट्या युक्त उक्तप्रकारमनुतिष्ठन्नुभौ लोकावभिजयति भोगेनेमं लोकं, तीर्थे प्रतिपादनेन चाऽमुं लोकमिति ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने विंशी काण्डिका ॥ २० ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्नेऽष्टमः पटलः ॥ ८ ॥

नवमः पटलः ॥ 'सर्वाश्रमाणां समयपदानि' त्युक्तं पुरस्तात् । के पुनस्ते आश्रमाः ? इत्यत आह— चत्वार आश्रमा गार्हस्थ्य, माचार्यकुलं, मौनं, वानप्रस्थ्यमिति ॥ १ ॥ आश्राम्यन्त्येषु श्रेयोऽर्थिनः पुरुषा इत्याश्रमाः । एषा सामान्यसंज्ञा । गृहे तिष्ठति कुटुम्भरक्षणपर इति गृहस्थः । तस्य भावो गार्हस्थ्यम् । स एक आश्रमः । आचार्यकुलं तत्र वासो लक्षणया सोऽप्येकः । 'मनु अवबोधन' मनुत इति मुनिर्ज्ञानपरः । तस्य भावो मौनम् । सोऽपरः । वनं प्रतिष्ठत इति वनप्रस्थः । स एव वानप्रस्थः । प्रज्ञादित्वादण् । तस्य भावो वानप्र- स्थ्यम् । इतिशब्दः परिसमाप्त्यर्थः । एतावन्त एवाऽऽश्रमा इति । चतुर्णा मेवोपदेशेऽपि चत्वार इति वचनं “(१)ऐकाश्रम्यं त्वाचार्याः प्रत्यक्ष- विधानात् गार्हस्थ्यस्ये”ति स्मृत्यन्तरोक्तं मा ग्राहीदिति ॥ १ ॥ तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति ॥ तेष्वाश्रमेषु चतुर्ष्वपि यथाशास्त्रमव्यग्रस्समाहितमना भूत्वा यो वर्तते, स क्षेममभयं पदं गच्छति । अनेनाऽऽश्रमविकल्प उक्तो वेदितव्यः निश्रेयसार्थिनाऽन्यतमस्मिन्नाश्रमे यथाशास्त्रमवाहितेन वर्तितव्यमिति । तथा च गौतमः—(२)'तस्याऽऽश्रमविकल्पमेके ब्रुवत' इति ॥ २ ॥ सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः ॥ ३ ॥ उपनयनप्रभृति य आचार्यकुले वासोऽष्टाचत्वारिंशद्वर्षादिनान्यत- मस्स सर्वेषामाश्रमाणां समानः ॥ ३ ॥ सर्वेषामनूत्सर्गो विद्यायाः ॥ ४ ॥ अनूत्सर्ग. छान्दसो दीर्घः । विद्याया अनूत्सर्गोऽपि सर्वेषामाश्रमाणां समानः । तस्मादाचार्यकुले वासस्समान इति ॥ ४ ॥ बुध्वा कर्माणि यत्कामयते तदारभेत ॥ ५ ॥ प्रत्याश्रमं यानि कर्माणि विहितानि, तानि बुध्वा गृहस्थस्यैतानि १. गौ. ध. ३. ३६. \hspace{10em} २. गौ. ध. ३. १.

आश्रमाः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६९ कर्तव्यानि । एषामननुष्ठाने प्रत्यवायः । फलं चेदमेषाम्, एतानि शक्या- न्यनुष्ठातुं, नैतानीत्याचार्यादुपश्रुत्य यत्कर्म फल वा कामयेत तदारभेत तमाश्रमं प्रतिपद्येतेति ॥ ५ ॥ तत्र गार्हस्थ्यस्य पूर्वमेव प्रपञ्चितत्वादध्ययनानन्तर प्रतिपित्सित- स्याऽऽचार्यकुलस्य स्वरूपमाह— यथा विद्यार्थस्य नियम एतेनैवान्तमनुपसीदत आचार्यकुले शरीरन्यासो ब्रह्मचारिणः ॥६॥ यथा विद्यार्थस्य उपकुर्वाणस्य ब्रह्मचारिणः 'अथ ब्रह्मचर्यविधि'रि- त्यारभ्याऽग्नीन्धनादिनियम उक्तः, अतस्तेनैव नियमेनाऽऽन्तमाशरीरपाता- दनूपसीदतः उपसदनमेवानुपसदनं तत्कुर्वतः आचार्यकुले शरीरन्यासः परि- त्यागो भवति ब्रह्मचारिणो नैष्ठिकस्य । तत्रैवाऽऽमरणात्तिष्ठेत्, नाऽऽश्रमा- न्तरं गच्छेत् । यदि तमेवाश्रममात्मनः क्षेमं मन्येतेति मनुः— (१)'आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ एषु त्वविद्यमानेषु स्थानासनविहारवान् । प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः ॥ एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुततः । स गच्छत्युत्तमं स्थानं न चेहाऽऽजायते पुनः ॥' इति ॥ ६ ॥ अथ परिव्राजः ॥ ७ ॥ अथाऽनन्तरं परिव्राजो धर्म उच्यते । दृष्टादृष्टार्थान् सर्वानैवाऽऽरम्भान् परित्यज्याऽऽत्मलाभाय सन्न्यासाश्रमं परिव्रजतीति परिव्राट् सन्न्यासी॥७॥ अत एव ब्रह्मचर्यवान् प्रव्रजति ॥ ८ ॥ अत एव ब्रह्मचर्याश्रमादेव ब्रह्मचर्यवानविप्लुतब्रह्मचर्यः प्रव्रजति परिव्रज्यां कुर्याद्यदि तथैव पक्ककषायो भवति । श्रूयते च(२) 'ब्रह्मचर्यादेव प्रव्र- जेत् गृहाद्वा वनाद्वे'ति, 'यदहरेव विरजेत्तदहरेव प्रव्रजेदि'ति च । अत्र केचिदाहुः—'अत एवे'ति वचनात् गृहाश्रमं प्रविष्टस्य तत्परित्यागेना- श्रमान्तरप्राप्तिराचार्यस्याऽनभिमतेवेति लक्ष्यते । तत्रायमभिप्रायः—दार- परिग्रहे सति 'यावज्जीवमग्निहोत्रं जुहुयादि'ति श्रुत्या विरुध्यते । स १. म. स्मृ. २४७—२४९. २. जाबालो. ४.

२७० आपस्तम्बधर्मसूत्रे [ (प.९.) क. २१. कथं प्रव्रजेदिति । तस्मात्सत्यपि वैराग्ये काम्यस्य कर्मणः परित्यागेन नित्यानि नैमित्तिकानि च कर्माणि कुर्वन् प्रतिषिद्धानि वर्जयन् गृहस्थ एव मुच्यत इति । तथाऽऽह याज्ञवल्क्यः- (१)'न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥' इति । अथ योऽनाहिताग्निस्तस्य विरक्तस्य मुन्याश्रमप्रवेशे को विरोधः ? ऋणश्रुतिविरोधः--(२)'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्र- ह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य' इति । मनुरपि-- (३)'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥' इति । मोक्षो मोक्षाश्रमः । नन्वेवं ब्रह्मचर्यादपि प्रव्रज्या नोपपद्यते । अथ तत्र(४) 'यदहरेव विरजेदि'ति श्रुत्या युक्तं प्रव्रजितुं तदा विरक्तस्य, (५)गार्हस्थ्यादपि भविष्यति । स्मर्यते च-- (६)'प्राजापत्या निरूप्येष्टि सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत् गृहादि'ति ॥ तथा यो गृहस्थो वृद्धो मृतभार्यः पुनर्दारक्रियायामसमर्थः, तस्यापि युज्यते प्रव्रज्या । तस्मा'द्यदहरेव विरजे'दि(७)त्येष एव कालः प्रव्रज्यायाः, सर्वमन्यद्विरक्तस्येति युक्तम् । एवकारस्तु सूत्रे श्रुत्यनुसारेण प्रयुक्तः । यथा 'गृहाद्वा वनाद्वे'ति ब्रुवाणैव श्रुतिर्ब्रह्मचर्यादेव प्रव्रजेदित्याह, तथेति ॥ ८ ॥ तस्योपदिशन्ति ॥ ९ ॥ तस्य परिव्राजः कर्तव्यमुपदिशन्ति धर्मज्ञाः ॥ ९ ॥ अनग्निरनिकेतस्स्यादशर्माऽशरणो मुनिः स्वाध्याय एवो- त्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्याऽनि- होऽनमुत्रञ्चरेत् ॥ १० ॥ ब्रह्मचारिणस्समिदाधानाद्यग्निकार्यं गृहस्थस्यौपासनाद्याग्निहोत्रादि वानप्रस्थस्य(८) 'श्रामणकेनाग्निमाधाये'ति विहितेऽग्नौ होमादि । तस्य १. या. स्मृ. ३. २०२. २. तै. सं. ६. ३. १० ३. म. स्मृ. ६. ३५. ४. जाबालो. ४. ५. गृहस्थस्यापि इति च. पु. ६. म. स्मृ. ६. ३८. ७. 'एक एवांश' इति ड. पु. ८. गौ. ध. ३. १७.

सन्न्यासिधर्माः ] [उज्ज्वलोपेते द्वितीयः प्रश्नः। २७१ तु नैवंविधं किञ्चिदग्निकार्यमस्तीत्यनग्निः । निकेतो निवासस्थानं स्वभूतं तदभावादानिकेतः । शर्म सुखं वैषयिकं तदस्य नास्तीत्यशर्मा । किञ्चिदपि शरणं न प्रतिपन्नः न वा कस्यचिच्छरणभूत इत्यशरणः । स्वाध्यायः प्रणवा- दिपवित्राणां जपः । अत्र बौधायनः-- 'वृक्षमूलिको वेद सन्न्यासी वेदो वृक्षस्तस्य मूलं प्रणवः प्रण- वात्मको वेदः प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापति'रिति । तत्रैव वाचं विसृजेत् । अन्यत्र मौनव्रतः स्यात् । यावता प्राणा ध्रियन्ते सा प्राणवृत्तिः । तावतीं भिक्षां ग्रामे प्रतिलभ्य । एतावानस्य ग्रामे प्रवे शः । अन्यदा बहिर्वासः । इहार्थाः कृष्यादयः परलोकार्थाश्च जपहोमा- दयो यस्य न सन्ति सोऽनिहोऽनमुत्र इत्युक्तः । एवम्भूतश्चरेत् । नैकस्मिन् ग्रामे द्व्यहमपि वसेत् । अत्र गौतमः--(१)'न द्वितीयामपर्तुं रात्रिं ग्रामे वसेदि'ति (२) वर्षासु ध्रुवशील'इति च ॥ १०॥ तस्य मुक्तमाच्छादनं विहितम् ॥ ११ ॥ यत् परैर्मुक्तं परित्यक्तमयोग्यतया, तत् तस्य विहितमाच्छादनं, तद्वा- स आच्छादयेत । निर्णिज्येति गौतमः ॥ ११ ॥ सर्वतः परिमोक्षमेके ॥ १२ ॥ सर्वैरेव वासोभिः परिमोक्षमेक उपदिशन्ति । न किञ्चिदपि वासो विभृयात् । नग्न एव चरेदिति । अपर आह-- सर्वतो विधितो निषेधतश्चाऽस्य परिमोक्षमेके ब्रुवते । न किञ्चिदस्य कृत्यं न किञ्चिदस्य वर्ज्यमिति ॥ १२ ॥ एतदेवोदाहरणैः प्रपञ्चयति-- सत्यानृते सुखदुःखं वेदानिमं लोकममुं च परि- त्यज्याऽऽत्मानमन्विच्छेत् ॥ १३ ॥ सत्यं वक्तव्यमिति योऽयं नियमस्तं परित्यज्य तथा तत्र वक्तव्यमनृ तं (३) 'ताद्धि सत्याद्विशिष्यत" इत्यादिके विषये अनृतं वक्तव्यमिति योऽयं नियमस्तं च परित्यज्य । सुखं मृष्टभोजनादिजन्यम् । दुःखं शीत- वातादिजन्यम् । वेदान् स्वाध्यायाध्ययनम् । इमं लोकं ऐहलौकिकं काम्यं कर्म । अमुं च लोकं पारलौकिकं काम्यं कर्म । सर्वमेतत् परित्यज्य आत्मान- १. गौ. ध. ३. २१. २. गौ. ३. १३. ३ म. स्मृ. ८. १०४.

२७२ आपस्तम्बधर्मसूत्रे [ (प.९०) क.२१. मध्यात्मपटलो (१-२२. २३) क्रमन्विच्छेत् उपासीतेति। तदेवं ज्ञानबलावल- म्बनेन हतविधिनिषेधा ये स्वैरं प्रवर्तन्ते सिद्धाः तेषां मतमुपन्य- स्तम् ॥ १३ ॥ अथैतेषामेव स्वैरचारिणां (१) किं तत्र प्रमाणम् ? तत्राह-- बुद्धे क्षेमप्रापणम् ॥ १४ ॥ आत्मनि बुद्धेऽवगते सति तदेव ज्ञानं सर्वमशुभं प्रक्षाल्य क्षेमं प्रा- पयति । श्रूयते हि-- (२)'न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेने' ति (३) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते' इति च ॥ स्मर्यते च-- '(४)यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ॥ १४ ॥ तदिदं निराकरोति-- तच्छास्त्रैर्विप्रतिषिद्धम् ॥ १५॥ यानि यतेरेव कर्तव्यप्रतिपादनपराणि शास्त्राणि, तैरेव तद्विप्रतिषिद्धम् । तत्र मनुः- (५)क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ इति अतो यतिमेव प्रकृत्य यानि विहितानि कर्माणि तानि कर्तव्या नि । यानि च निषिद्धानि तानि च वर्जनीयानि ॥ १५ ॥ 'बुद्धे क्षेमप्रापण' मित्येतत् प्रत्यक्षविरुद्धमित्याह- बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेत ॥ १६ ॥ आत्मबोधमात्रेण चेत् क्षेमं प्राप्यते, तदा इहैव शरीरे दुःखं नोपलभेत ज्ञानी । न चैतदस्ति । न हि ज्ञानिनां मूर्धाभिषिक्तमन्द्योऽपि क्षुधादुःख- मेव तावत् क्षणमात्रमपि सोढुं प्रभवति ॥ १६ ॥ १. किंन्नाणम् इति. च. मु २. बृ उ ७ ४ २३. तै. ब्रा २ १२. १४ ३. छान्दो ५ २४. ३. ४. श्रीमद्भग. ग. ४, ३७ ५. म. स्मृ. ६. ४८, ५०

वानप्रस्थाश्रमः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७३ एतेन परं व्याख्यातम् ॥ १७ ॥ परलोके भवमपि दुःखमेतेन व्याख्यातं-न स्वैरचारिणां निवर्तत इति । तस्मात् कर्मभिः परिपक्वकषाय एव श्रवणमनननिदिध्यासनैः साक्षा- त्कृतात्मस्वरूपः प्रतिषिद्धेषु कटाक्षमप्यनिक्षिपन्नष्टाङ्गयोगनिरतो मु- च्यत इति* । अत्र बोधायनः(१)--'एकदण्डी त्रिदण्डी वे'ति । गौतमः (२)-'मुण्डश्शिखी वे'ति ॥ १७ ॥ अथ वानप्रस्थः ॥ १८ ॥ अनन्तरं वानप्रस्थाश्रम उच्यते ॥ १८ ॥ अत एव ब्रह्मचर्यवान् प्रव्रजति ॥ १९ ॥ प्रव्रजति प्रकर्षेण व्रजति अपुनःप्रवेशाय वनं प्रतिष्ठिन इति । तथा च गौतमः(३) - 'ग्राम च न प्रविशेदि' ति । गतमन्यत् , उत्तरं च ॥१९॥ तस्योपदिशन्त्येकाग्निरनिकेतस्स्यादशर्माऽशरणो मु- निःस्वाध्याय एवोत्सृजमानो वाचम् ॥ २० ॥ कः पुनरेकोऽग्निः ? न तावदौपासनं,ब्रह्मचारित्वात् । तस्माल्लौकि- केऽग्नौ यथापूर्वं सायंप्रातस्समिध आदध्यादित्यर्थो विवक्षितः । अपर आह - 'श्रामणकेनाग्निमाधाये' ति गौतमः । अस्यार्थः - श्रा- मणकं नाम वैखानससूत्रम् । तदुक्तेन प्रकारेण एकोऽग्निराधेयः । तस्मिन् सायंप्रातरग्निकार्यमिति । (४)तथा च बौधायनः- 'वानप्रस्थो वैखान- सशास्त्रसमुदाचारो, वैखानसो वने मूलफलाशी तपश्शीलस्सवनेषू- दकमुपस्पृशन् श्रामणकेनाऽग्निमुपसमाधाये'त्यादि । अन्यद्गतम् ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकविंशी कण्डिका ॥ २१ ॥

  • एतद्विद्वानन्तरं अत्र यदुदाहृतं 'ज्ञानेन सर्वं दह्यत' इति तत्र ज्ञानदशायाः प्रागा- र्जितानि कर्माणि प्रायश्चित्तेन ज्ञानेन वा दह्यन्त इत्युच्यते, न पुनर्शानदशायां स्वैरचारोऽनु- ज्ञायते। यस्य हि स्वशरीरेऽपि वीभत्सा स कथं परत्रादिभिरविशेषस्त्रीमङ्गमादौ प्रवर्तत' इति भागः क. पुस्तक एवास्ति अधिकपाठतया परिगणितः च. पुस्तके टिप्पण्याम् १. बौ. ध. २. २. १०. ४०. २. गौ. ध ३. २२. ३ गौ. ध. ३. ३३ ४. तथा च बौधायनः इत्यादिन्रन्थो नास्ति ङ च. पुस्तकयोः । बौ.ध.२.६.१६.१७. आप० ध० ३५

२७४ आपस्तम्बधर्मसूत्रे [(प.९)क.२२. तस्याऽऽरण्यमाच्छादनं विहितम् ॥ १ ॥ अरण्ये भवमारण्यमजिनवल्कलादि ॥ १ ॥ ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेत् ॥ २ ॥ ततो मूलादिभिर्वर्तयन् वृत्तिः प्राणयात्रा तां कुर्वंश्चरेच्चरणशीलः स्यात् ॥ २ ॥ अन्ततः प्रवृत्तानि ॥ ३ ॥ मूलादिभिः स्वयंगृहीतैः कञ्चित्कालं वर्तयित्वा अन्ततः अन्ते प्रवृत्तानि स्वयमेव पतितानि अभिनिश्रयेदिति वक्ष्यमाणेन सम्बन्धः । तान्य- भिनिश्रित्य तैर्वर्तयेदिति ॥ ३ ॥ ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ॥ ४ ॥ ततः कियन्तञ्चित्कालमब्भक्षः ततो वायुभक्षः तत आकाशमभि निश्रयेत् न किञ्चित् भक्षयेदिति । अभिनिश्रयण सेवनम् ॥ ४ ॥ तेषामुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥ ५ ॥ संयुज्यते संश्रयत इति संयोगः । तेषां मूलादीनां मध्ये उत्तरमुत्तरं समाश्रयणं फलतो विशिष्टमिति द्रष्टव्यम् ॥ ५ ॥ अथ वानप्रस्थस्यैवाऽऽनुपूर्व्यमेक उपदिशन्ति ॥ ६ ॥ अथेति पक्षान्तरोपन्यासे । पूर्वं ब्रह्मचर्यादेव वनप्रवेश उक्तः । एके त्वाचार्यास्तस्यैव वानप्रस्थस्याऽऽनुपूर्व्यं कर्मोपदिशन्ति ॥ ६ ॥ कथम् ?— विद्यां समाप्य दारं कृत्वाऽग्नीनाधाय कर्माण्यरभतै सोमावराध्यानि यानि श्रूयन्ते ॥ ७ ॥ ब्रह्मचर्ये स्थितो विद्यां समाप्य गृहस्थश्च भूत्वाऽग्नीनाधाय कर्माणि कुर्यात् । कानि ? सोमावराध्यानि अवरार्धं पश्चार्धं तत्र भवोऽवरार्ध्यः सोमः अवरार्ध्यो येषां तानि सोमावराध्यानि सोमान्तानि हविर्यज्ञाख्यानि चातुर्मास्यादीन् हविर्यज्ञान् सोमं चेत्यर्थः । यानि श्रूयन्ते श्रुतौ वि- हितानि ॥ ७ ॥ गृहान् कृत्वा सदारस्सप्रजस्सहाग्निभिर्बहिर्ग्रामाद्वसेत् ॥८॥

वानप्रस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७५ अथ ग्रामाद्वहिररण्ये गृहान् कृत्वा सकुटुम्बस्सहैव चाग्निभिर्माद्वाहिर्र्वसेत् । अस्मिन्पक्षे प्रागुक्तमेकाग्निरित्येतन्नाऽस्ति ॥ ८ ॥ एको वा ॥ ९ ॥ अथवा पुत्रेषु भार्यां निक्षिप्य स्वयमेक एव वसेत् । अस्मिन् पक्षे 'प्राजापत्यां निरूप्येष्टि'मिति परिव्राज उक्तेन न्यायेन श्रौतानग्नीनात्मनि समारोप्य श्रामणकेनाऽग्निमाधाय एकाग्निर्भवेत् ॥ ९ ॥ सिलोञ्छेन वर्त्तयेत् ॥ १० ॥ व्याख्यातः सिलोञ्छ । तेन वर्तयेत् प्राणयात्रां कुर्यात् । इदं सकु- टुम्बस्य एकाकिनश्च साधारणम् । एकाकिन एवेत्यन्ये ॥ १० ॥ न चाऽत ऊर्ध्वं प्रतिगृह्णीयात् ॥ ११ ॥ यदा सिलोञ्छेन वृत्तिर्जाता अत ऊर्ध्वं न कुतश्चिदपि प्रतिगृह्णीयात् ॥११॥ अभिषिक्तश्च जुहुयात् ॥ १२ ॥ यदा जुहुयात्तदा अभिषिक्तः स्नातः । अनुवादोऽयं स्नाने विशेषं विधातुम् ॥ १२ ॥ शनैरपोऽभ्युपेयादभिघ्नन्नभिमुख आदित्यमु- दकमुपस्पृशेत् ॥ १३ ॥ शनैरवेगेन जलाशय प्रविशेत् । प्रविश्य चाऽभिघ्नन् हस्तेनोदकं ताड- यन् उदकमुपस्पृशेत् स्नायात् आदित्याभिमुखः ॥ १३ ॥ (१)इति सर्वत्रोदकोपस्पर्शनविधिः ॥ १४ ॥ सर्ववर्णाश्रमसाधारणमेतत् । तथाचोत्तरत्र तस्य ग्रहणम् ॥ १४ ॥ तस्य द्वन्द्वद्रव्याणामेक उपदिशन्ति पाकार्थं भोजनार्थं वासिपरशुदात्रकाजानाम् ॥ १५ ॥ यानि पाकार्थानि ताम्रभाण्डादीनि । यानि च भोजनार्थानि कां- स्यादीनि । वासिर्द्रव्यादि । तेषां सर्वेषां वास्यादीनां चतुर्णा(२) मेकैकस्य द्वे द्वे द्रव्ये उत्पाद्ये इत्येक उपदिशन्ति । काजमपि वास्यादिवदुपकर- णविशेषो दारुमयः ॥ १५ ॥ द्वन्द्वानामेकैकमादायेतराणि दत्त्वाऽरण्यमवतिष्ठेत ॥ १६ ॥ १. 'इति विविः' इत्येव सूत्रम् च्छ. पु. २. एकैकस्यां विधायां इति च पु.

२७६ आपस्तम्बधर्मसूत्रे [(प. ९) क. २२. तेषां पाकादिसाधनानां द्रव्याणामेकैकं द्रव्यं स्वयमादायेतराणि भार्यायै दत्वा अरण्यमवतिष्ठेत उपतिष्ठेत् आश्रयेदिति ॥ १६ ॥ तस्याऽऽरण्येनैवाऽत ऊर्ध्वं होमो वृत्तिः प्रतीक्षाच्छादनं च ॥ तस्य वानप्रस्थस्याऽतोऽरण्यप्रवेशादूर्ध्वं आरण्येनैव नीवारादिना होमः वृत्तिः प्राणयात्रा प्रतीक्षा अतिथिपूजा च आच्छादनं वल्कलादिना ॥ १७ ॥ येषु कर्मसु पुरोडाशाश्चरवस्तेषु कार्याः ॥१८॥ येषु दर्शपूर्णमासादिषु पुरोडाशा विहिताः गृहस्थस्य, तेष्वस्य तत्स्थाने (१)चरव. कार्याः ॥ १८ ॥ सर्वं चोपांशु सह स्वाध्यायेन ॥ १९ ॥ सर्वं च कर्मकाण्डं साङ्गं प्रधानमुपांशु भवति पारायणब्रह्मयज्ञाध्य- यनेन सह । तदप्युपांशु कर्तव्यमिति ॥ १९ ॥ नाऽऽरण्यमभ्याश्रावयेत् ॥ २० ॥ उपांशुवचनादेव सिद्धे वचनमाभिमुख्यप्रतिषेधार्थम् । तेनाऽरण्य- स्था यथा नाऽऽभिमुख्येन शृणुयुः तावदुपांश्विति ॥ २० ॥ अग्न्यर्थं शरणम् ॥ २१ ॥ शरणं गृहं तदग्न्यर्थमेव ॥ २१ ॥ आकाशे स्वयम् ॥ २२ ॥ स्वय चाऽऽकाश एव वसेत् ॥ २२ ॥ अनुपस्तीर्णे शय्यासने ॥ २३ ॥ शयनं चाऽऽसन चाऽनुपस्तीर्णे देशे कुर्यात् न तु किञ्चिदुपस्तीर्य ॥२३॥ नवे सस्ये प्राप्ते पुराणमनुजानीयात् ॥ २४ ॥ नवे धान्ये श्यामाकनीवारादौ प्राप्ते जाते पुराणं पूर्वसञ्चितं सस्यमनु- जानीयात् परित्यजेत् । तत्र मनुः— (२)'त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् । जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥' इति ॥ २४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने द्वाविंशी कण्डिका ॥ २२ ॥ १. अनवस्त्रावितानन्तरूष्मपक्वखण्डुलप्रकृतिकश्चरुः । २. म. स्मृ. ६. २५.

ब्रह्मचर्यादिप्रशंसा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७७ भूयांसं वा नियममिच्छन्नन्वहमेव पात्रेण सायंप्रातरर्थमाहरेत् ॥ १ ॥ इदमेकाकिनो वानप्रस्थस्य । भूयांसं नियममिच्छन्न सस्यं सञ्चिनुयात् । किं तर्हि ? अन्वहमेव पात्रेण येनकेनचित् सायंप्रातश्चाऽर्थमशनीयमात्रमाहरेत् वानप्रस्थेभ्य एव ॥ १ ॥ एवं कियन्तचित्कालं वर्तयित्वा— ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेदन्ततः प्रवृत्तानि ततोऽपो वायुमाकाशमित्यभिनि- श्रयेत् । तेषामुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥ २ ॥ सर्वं गतम् ॥ २ ॥ निरूपिता आश्रमाः । अथेदानों पक्षप्रतिपक्षरूपेण तेषामेव प्राधा- न्यमप्राधान्यं च निरूप्यते— अथ पुराणे श्लोकावुदाहरन्ति— अष्टाशीतिसहस्राणि ये प्रजामीषिर ऋषयः । दक्षिणेनाऽर्यम्णः पन्थानं ते श्मशानानि भेजिरे ॥ ३ ॥ अष्टाशीतिसहस्राणि ये गृहस्था ऋषयः प्रजामीषिरे प्रजातिमभ्यनन्दन् ते अर्यम्णो यो दक्षिणेन पन्थाः दक्षिणायनमार्गः तं प्राप्य छान्दोग्योक्तेन (१)धूमादिमार्गेण गत्वा पुनरपि सम्भूय श्मशानानि भेजिरे मरणं प्रतिपेदिरे । जायस्व म्रियस्वेत्याजीवं जीवभावमापेदिर इति गृहस्थानां निन्दा ॥३॥ अष्टाशीतिसहस्राणि ये प्रजां नेषिर ऋषयः । उत्तरे- णाऽर्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ॥ ४॥ ये(२)तु प्रजातिं नाभ्यनन्दन् ते उत्तरायणमार्गेण (३) अर्चिरादिमार्गेण गत्वा अमृतत्वं विभक्तिव्यत्ययः, अमृतत्वाय कल्पते वचनव्यत्ययः कल्पन्ते समर्थास्सम्पद्यन्ते ॥ ४ ॥ इत्यूर्ध्वरेतसां प्रशंसा ॥ ५ ॥


१. छा. उ ५ १०. ३–६ २. प्रजा, इति च. पु ३ छा. उ. ५. १०. १,२