भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

( २ )

एतत्पुस्तकाष्टकमवलम्ब्य संशोध्य मुद्रितमपीदं पुस्तकमन्ततः पुरुष- स्वभावसुलभया कयाचिदशुद्धिसन्तत्याऽपरित्यक्तमेव वर्ततीति तदपनुत्त- येऽशुद्धसंशोधनं ग्रन्थान्ते सन्नियोजितम् । प्रथमप्रश्नीयस्याऽष्टमपटला- त्मकस्याऽध्यात्मपटलस्याऽपरा काचिद्व्याख्या श्रीमच्छङ्करभगवत्पादाचार्य- प्रणीता अनन्तशयनग्रन्थमालायां पूर्व मुद्रिताऽपि अध्येतृसौकर्यार्थमत्रैवोज्ज्व- लया साकं पुनर्मुद्रिता । यद्यपि व्याख्याया अस्याः शङ्करभगवत्पादीयत्वेऽ- त्रैव तथोल्लेखनमृते नाऽन्यत्किञ्चन प्रमाणमुपलभ्यते, नाऽपि तदीयव्या- ख्याशैल्याऽन्यत्र स्थितया सेयं संवदति, तथाऽपि यावत्तदनुरोधि विरोधि वा प्रमाणमुपलभामहे तावदस्मिन्विषये जोषभावमेव शरणं समुचितं मन्वानौ तूष्णीमास्वहे । सूत्रप्रणेतुः श्रीमदापस्तम्बमहर्षेः श्रीमिश्रहरदत्ताचार्यस्य चेतिवृत्त- विषये यदुक्तमस्माभिरापस्तम्बगृह्यसूत्रभूमिकायां, न ततोऽधिकं विशेषं वक्तुं पार्यतेऽस्मद्धस्तगतामैतिहासिकसामग्रीमवलम्ब्य, परन्तु-हरदत्ताचार्याः मद्र- देशान्तर्गतचोलदेशनिवासिनः द्राविडभाषाभाषिणश्चेत्यवगम्यते तदीयैरेव वचनैः । ते हि- 'यथावर्षं प्रजा दानं दूरेदर्शनं मनोजवता' ( आप. धर्म. २-२३--७) इति सूत्रव्याख्यानावसरे दूरदर्शनोदाहरणार्थं यस्य क- स्यचिद्देशस्योपादाने प्रसक्ते, 'चोलेष्ववस्थितास्तदैव हिमवन्तं दिदृक्षेरन्' इति चोलदेशमेवोपाददते । एवं 'स्त्रीभ्यस्सर्ववर्णेभ्यः' ( आप. धर्म. २- २९-१६) इति सूत्रे 'द्राविडाः कन्याः मेषस्थे सवितर्यादित्य- पूजामाचरन्ती'ति द्राविडाचारमेव प्रमाणयन्ति । एवमेव गौतमधर्म- सूत्रव्याख्यायां मिताक्षरायामपि(१) 'बालदेशान्तरितप्रव्रजितानामसपि- ण्डानां सद्यश्शौचम्' ( गौ. ध. १४--४४ ) इत्याशौचप्रकरणस्थं सूत्रं व्याचक्षाणाः 'अनुष्ठानमपि चोलदेशे प्रायेणैवम्' (२) इति चो- लदेशाचारमेव प्रमाणयन्ति । एवं तत्रैव 'मौञ्जी ज्या मौर्वी मेखला क्रमेणे'


( १ ) इमे एव हरदत्ताचार्याः गौतमधर्मसूत्रव्याख्यातार इति निरूपितमापस्त- म्बगृह्यसूत्रभूमिकायाम् । तत् ततोऽवगन्तव्यम् । ( २ ) गौतमधर्मसूत्रव्याख्यायां मिताक्षरायां मद्रपुरे तैलङ्गाक्षरमुद्रितायां ११९ पृष्ठे २३ पङ्क्तौ द्रष्टव्यम् ।

( ३ ) ( गौ. ध. १--१५)ति सूत्रे(१) 'मूर्वा आरण्य ओषधिविशेषः, यस्याऽर- त्निप्रमाणानि पत्राणि द्व्यङ्गुलविस्ताराणि, मरल् इति द्राविडभाषायां प्रसि- द्धि'रिति, (२) 'कुण्डाशी' ( गौ. ध. (१५--१८ ) इति सूत्रे, 'किलासः त्वग्दोषः तेमल् इति द्राविडभाषाया प्रसिद्धः' इति च द्राविडीमेव प्रसिद्धिमु- पाददाना इमे आत्मनो द्राविडेदेशनिवासित्व द्राविडभाषाभाषित्त्वञ्च स्पष्टमे- वाऽवगमयन्ति । उज्ज्वलानाकुलयोः पौर्वापर्यालोचनायां प्रथममनाकुला तत उज्ज्वलेत्य- वगम्यते, यत उज्ज्वलायां बहुत्र "तस्यापि प्रयोगो गृह्य एवोक्तः । 'प्रपञ्चित- मेतत् गृह्ये' "वयं तु न तथेति गृह्य एवाऽवोचाम" 'एतत् गृह्ये व्याख्यातम् , (आप. ध. पृ. ५१, ७२, २०८) इति व्यपदिष्टं तैः । अतो यथा मूलभूत- तयोर्गृह्यधर्मसूत्रग्रन्थयोः पौर्वापर्य, एवमेव तद्वृत्त्योरनाकुलोज्ज्वलयोरपीति प्रतीयते-इत्येतावदाधिकमत्र विवक्षितम् । एतन्मुद्रणविषये पुस्तकप्रदानेन, पुस्तकालयीयं नियममप्यविगणय्य यावन्मुद्रणमस्मद्धस्त एव पुस्तकस्याऽवस्थापनेन चाऽस्मान् सुदूरमनुगृही- तवतां श्रीमतामाचार्यध्रुवमहोदयानां, श्रीमतां पण्डितप्रकाण्डगोपीनाथक- विराजमहोदयाना, अन्येषाञ्च विबुधवरेण्यानां विषयेऽत्यन्तमधमर्णावावां तान् प्रति कार्त्तज्ञ्यमतितरामाविष्कुर्वहे । एवं सुरभारतीसमुज्जीवनबद्धपरिकरं श्रीजयकृष्णदासहरिदासगुप्तम- होदयं श्रेष्ठिवर्य प्रति बहीराशिषः प्रयुञ्ज्वहे । इतः पूर्वतनान्यदसीयानि संस्करणान्यपेक्ष्य संस्करणेऽस्मिन् केनाऽपि चन वैजात्येन तादृश्या च छात्रोपकृत्या भाव्यमिति संकल्पेनाऽऽभ्यामत्र य- तितम् । तत्राऽऽवां प्राप्तसाफल्यौ न वेति निर्णये मनीषिमनीषैव निकषोपलः इति सर्वं शिवम् ॥ वाराणसी } सुधीजनवशंवदौ चैत्रकृष्णनवमी सं० १९८८ } अ. चिन्नस्वामिशास्त्री ३०-३-१९३२ } अ. रामनाथशास्त्री च १. २. तैलङ्गाक्षरमुद्रितमिताक्षरापुस्तके यथाक्रमं ४,१६, १२६ २३, पृष्ठे द्रष्टव्यम् ।

॥ श्रीः ॥ आपस्तम्बधर्मसूत्रीयविषयानुक्रमणिका ॥ विषयाः— पृष्ठम्— | विषयाः— पृष्ठम्— प्रथमप्रश्ने— | प्रथमप्रश्ने— प्रथमकण्डिकायाम्— | षष्ठकण्डिकायाम्— धर्मप्रमाणानि । ३ | ब्रह्मचारिनियमाः । ३७ चातुर्वर्ण्यम् । " | प्रथमप्रश्ने— तेषां जन्मतः ज्यैष्ठयम् । ४ | सप्तमकण्डिकायाम्— वर्णधर्मः । ५ | ब्रह्मचारिधर्माः । ४१ उपनयनविधिः । ७ | स्नातकधर्माः । ४५ विद्वानेवोपनेता । " | प्रथमप्रश्ने— उपनयनकालः । " | अष्टमकण्डिकायाम्— व्रात्यसंस्कारः ९ | ब्रह्मचारिधर्माः । ४७ प्रथमप्रश्ने— | अनध्यायाः ५१ द्वितीयकण्डिकायाम्— | प्रथमप्रश्ने— व्रात्यसंस्कारः । ११ | नवमकण्डिकायाम्— ब्रह्मचारिनियमाः । १३ | नैमित्तिकानध्यायः । ५३ दण्डाजिनमेखलादिकम् । " | प्रथमप्रश्ने— ब्रह्मचारिधर्माः । १७ | दशमकण्डिकायाम्— प्रथमप्रश्ने— | अनध्यायाः । ५७ तृतीयचतुर्थयोः कण्डिकयोः— | प्रथमप्रश्ने— ब्रह्मचारिनियमाः । १९ | एकादशकण्डिकायाम् — प्रथमप्रश्ने— | अनध्यायाः । ६१ पञ्चमकण्डिकायाम्— | प्रथमप्रश्ने— अभिवादनम् । ३१ | द्वादशकण्डिकायाम्— पादोपसंग्रहणम् । ३३ | नित्यस्वाध्यायः । ६९ ब्रह्मचारिनियमाः । ३५ | पञ्च महायज्ञाः । ७१ | प्रथमप्रश्ने— | त्रयोदशकण्डिकायाम्— | पञ्चयज्ञादि । ७३ | ओङ्कारप्रशंसा । ७६

२ आपस्तम्बधर्मसूत्रीय- विषयाः— पृष्ठम् । विषयाः— पृष्ठम् । प्रथमप्रश्ने— अपण्यानि । ११५ चतुर्दशकण्डिकायाम्— प्रथमप्रश्ने— नित्यकर्माणि । ७७ एकविंशकण्डिकायाम्— गुरूपसंग्रहणम् । ७८ पतनीयानि । ११७ अभिवाद्याः । ७९ अशुचिकराणि । ११९ अभिवादनविधिः । ८० प्रथमप्रश्ने— कुशलप्रश्नः । ८१ द्वाविंशकण्डिकायाम्— प्रथमप्रश्ने— अध्यात्मपटलम् । १२१ पञ्चदशकण्डिकायाम्— आत्मज्ञानोपायाः । १२३ आचमनविधिः । ८५ आत्मलाभश्रैष्ठ्यम् । १२४ प्रथमप्रश्ने— आत्मज्ञानप्रशंसा । १२५ षोडशकण्डिकायाम्— आत्मज्ञानसंपादनम् । १२९ आचमनविधिः । ९१ आत्मस्वरूपम् । १३१ अभोज्यानि । ९३ प्रथमप्रश्ने— क्वचित् भोजननिषेधः । ९५ त्रयोविंशकण्डिकायाम्— प्रथमप्रश्ने— आत्मज्ञानफलम् । १३३ सप्तदशकण्डिकायाम्— भूतदाहीया दोषाः । १३६ अभोज्यान्नानि । ९७ आत्मलाभयोगाः । १३७ अभक्ष्याणि । ९९ प्रथमप्रश्ने— प्रथमप्रश्ने— चतुर्विंशकण्डिकायाम्— अष्टादशकण्डिकायाम्— क्षत्रियवधप्रायश्चित्तम् । १४० अनापद्वृत्तिः । १०३ ब्रह्महत्याप्रायश्चित्तम् । १४१ अभोज्यान्नाः । १०५ ब्रह्मघ्नो वृत्तिः । १४३ भोज्यान्नाः । १०७ सुरापानप्रायश्चित्तम् । १४५ प्रथमप्रश्ने— गुरुदारगमनप्रायश्चित्तम् । ,, एकोनविंशकण्डिकायाम्— प्रथमप्रश्ने— भोज्यान्नाः । १०९ पञ्चविंशकण्डिकायाम्— प्रथमप्रश्ने— स्तेयादिप्रायश्चित्तम् । १४७ विंशतितमकण्डिकायाम्— प्रथमप्रश्ने— लौकिकप्रयोजनानपेक्ष्यैव षड्विंशकण्डिकायाम्— धर्मानुष्ठानम् । ११२ धेनुहननप्रायश्चित्तम् । १४८ धर्मलक्षणम् । ११३ अपतनीयप्रायश्चित्तम् । १४९

विषयानुक्रमणिका । ३ विषयाः— पृष्ठम् । विषयाः— पृष्ठम् । प्रथमप्रश्ने— प्रथमप्रश्ने— सप्तविंशकण्डिकायाम्— एकोनत्रिंशकण्डिकायाम्— अपतनीयप्रायश्चित्तम् । १९३ पतितधर्माः । १६१ प्रथमप्रश्ने— प्रथमप्रश्ने— अष्टाविंशकण्डिकायाम्— त्रिंशदादिषु तिसृषु कण्डिकासु — अपतनीयप्रायश्चित्तम् । १९७ स्नातकधर्माः । १७५ भ्रूणहत्याप्रायश्चित्तम् । १९९ इति प्रथमप्रश्नविषयाः ॥ अथ द्वितीयप्रश्नविषयाः ॥ द्वितीयप्रश्ने— अवध्याः । २१६ प्रथमद्वितीययोः कण्डिकयोः — दण्डप्रणयनम् । २१७ गृहस्थधर्माः । १७९ द्वितीयप्रश्ने— द्वितीयप्रश्ने— एकादशकण्डिकायाम्— तृतीयकण्डिकायाम्— मार्गप्रदानम् । २१८ वैश्वदेवम् । १८७ द्वितीयविवाहः । २१९ वैश्वदेवबलिः । १८९ सगोत्राविवाहनिषेधः । २२१ द्वितीयप्रश्ने— विवाहभेदाः । २२३ चतुर्थकण्डिकायाम्— द्वितीयप्रश्ने— वैश्वदेवबलिः । १९१ द्वादशकण्डिकायाम्— गृहस्थधर्माः । १९३ अभिनिम्रुक्तादिप्रायश्चित्तम् । २२५ द्वितीयप्रश्ने— द्वितीयप्रश्ने— पञ्चमकण्डिकायाम्— त्रयोदशकण्डिकायाम्— गृहस्थधर्माः । १९७ स्त्रीरक्षणम् । २२९ द्वितीयप्रश्ने— पुत्रस्य दानादिनिषेधः । २३१ षष्ठादिषु चतसृषु कण्डिकासु — दायभागः । २३३ अतिथिपूजा । २०१ द्वितीयप्रश्ने— द्वितीयप्रश्ने— चतुर्दशकण्डिकायाम्— दशमकण्डिकायाम्— दायविभागः । २३५ ब्राह्मणादिवृत्तिः । २१५ द्वादश पुत्राः । २३७

४ आपस्तम्बधर्मसूत्रीयविषयानुक्रमणिका ।

विषया - पृष्ठम् । विषयाः- पृष्ठम् । द्वितीयप्रश्ने- द्वितीयप्रश्ने- पञ्चदशखण्डिकायाम्- द्वाविंशखण्डिकायाम्- प्रेतोदकदानम् । २४५ वानप्रस्थधर्माः । २७५ अहर्हविष्यहोमः । २४७ ब्रह्मचर्यादिप्रशंसा । २७७ द्वितीयप्रश्ने- द्वितीयप्रश्ने- षोडशखण्डिकायाम्- त्रयोविंशखण्डिकायाम्- श्राद्धकल्पः । २५१ गार्हस्थ्यश्रैष्ठ्यम् । २७९ द्वितीयप्रश्ने- द्वितीयप्रश्ने- सप्तदशखण्डिकायाम्-- चतुर्विंशखण्डिकायाम्- श्राद्धकल्पः । २५५ गार्हस्थ्यश्रैष्ठ्यम् । २८१ तस्य कालः । ,, द्वितीयप्रश्ने- श्राद्धीयब्राह्मणः । २५७ पञ्चविंशखण्डिकाम्- द्वितीयप्रश्ने- राजधर्माः । २८५ अष्टादशखण्डिकायाम्- द्वितीयप्रश्ने- नित्यश्राद्धम् । २६१ षड्‌विंशखण्डिकायाम्- द्वितीयप्रश्ने- राजधर्माः । २८७ एकोनविंशखण्डिकायाम्- नियोगविधिः । २८९ पुष्ट्यर्थप्रयोगः । २६३ द्वितीयप्रश्ने- पुष्टिकामप्रयोगः । २६५ सप्तविंशखण्डिकायाम् - द्वितीयप्रश्ने- परस्त्रीगमनप्रायश्चित्तम् । २९१ विंशखण्डिकायाम्- द्वितीयप्रश्ने- पुष्ट्यर्थप्रयोगः । २६७ अष्टाविंशखण्डिकायाम्- द्वितीयप्रश्ने- दण्डानर्हाः । २९५ एकविंशखण्डिकायाम्- द्वितीयप्रश्ने- आश्रमाः । २६९ एकोनत्रिंशखण्डिकायाम्- सन्यासधर्माः । २७१ साक्ष्यविधिः । २९७ वानप्रस्थाश्रमः । २७३ धर्मलक्षणम् । २९९

इति द्वितीयप्रश्नविषयाः ।

॥ श्रीः ॥ शिवाभ्यां नमः ॥ आपस्तम्बमहर्षिप्रणीतं धर्मसूत्रम् ॥ श्रीहरदत्तविरचितया उज्ज्वलाख्यया वृत्त्या सहितम् ॥ प्रथमः प्रश्नः ॥ (१)प्रणिपत्य महादेवं हरदत्तेन धीमता । धर्माख्यप्रश्नयोरेषा क्रियते वृत्तिरुज्ज्वला ॥ १ ॥ अथातस्सामयाचारिकान् धर्मान् व्याख्यास्यामः ॥ १ ॥ अथशब्द आनन्तर्ये । अतश्शब्दो हेतौ । उक्तानि श्रौतानि गा- र्ह्याणि च कर्माणि । तानि च वक्ष्यमाणान्धर्मानपेक्षन्ते । कथम् ? आ- चान्तेन कर्म कर्तव्यं, शुचिना कर्तव्य'मिति वचनादाचमनशौचादी- नपेक्षन्ते । (२) 'सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु' । इति वचनात् सन्ध्यावन्दनम् । एव 'अशुचिकरानिर्वेषः,'(३) 'द्विजा- तिकर्मभ्यो हानिः पतनम्' इति वचनात् ब्रह्महत्यादिप्रायश्चित्तानि च । एवमन्येष्वपि यथासम्भवमपेक्षा द्रष्टव्या । अतस्तदनन्तरं सामयाचारिका- न् धर्मान् व्याख्यास्यामः । पौरुषेयी व्यवस्था समयः । स च त्रिविधः—वि- धिर्नियमः प्रतिषेधश्चेति । तत्र प्रवृत्तिप्रयोजनो विधिः—(४) 'सन्ध्योश्च १. मातामहमहाशैलं महस्तदर्पितामहम् । कारणं जगतां वन्दे कण्ठादुपरि वारणम् ॥ १ ॥ इत्यधिक पाठः क० पु० । २. दक्षस्मृ० अ० २ श्लो २९ ' यदन्यत् कुरुते कर्म न तस्य फलभाग्भवेत् ' इति तस्योत्तरार्धम् । ३ गौ० ध० २१. ४. “अशुचिर्द्विजाती”ति. घ. पु ४. आप० ध० १. ३०. ८.

२ आपस्तम्बधर्मसूत्रे [(प्र.१.)कं.१. बहिर्गामादासनं वाग्यतश्चे'त्यादिः । निवृत्तिप्रयोजनावितरौ । (१)'प्राङ् मुखोऽन्नानि भुञ्जीते'ति नियमविधिः । क्षुदुपघातार्था भोजने प्र वृत्तिः । शक्यं च (२)यत्किञ्चिद्दिङ्मुखेनापि भुञ्जानेन क्षुदुपहन्तुम् । तत्र नियमः क्रियते-प्राङ्मुख एव भुञ्जीत, न दक्षिणादिमुख इति । (३)परिसङ्ख्या तु नियमस्यैव कियानपि भेदः । एवं द्रव्यार्जने रागा- त्प्रवृत्तं प्रति नियम क्रियते-'याजनाध्यापनप्रतिग्रहैरेव ब्राह्मणो द्रव्य मार्जयेत्, न कृषिवणिज्यादिने'ति । (४)'ब्राह्मणस्य गौरिति पदोपस्प र्शन वर्जये'दित्यादिः प्रतिषेधः । समयङ्कला आचारास्समयाचारा तेषु भवाः सामयाचारिकाः । एवम्भूतान् धर्मानिति । (५)कर्मजन्योऽभ्युद- यनिःश्रेयसहेतुरपूर्वाख्य आत्मगुणो धर्मः । तद्धेतुभूतकर्मव्याख्यानमेव तद्व्याख्यानम् । तत्र विधिषु तावद्विषयानुष्ठानाद्धर्म इति नास्ति वि- प्रतिपत्तिः । नियमेष्वपि (६)नियमानुष्ठानाद्धर्म, प्रतिषेधेष्वपि(७)न अर्थानुष्ठानाद्धर्म इति केचित् । अत एव धर्मानित्याविशेषेणाह । अन्ये तु-विधिष्वेव धर्मः, इतरयोस्तु विपरीतानुष्ठानादधर्मः केव- लम्, न तु विषयाननुष्ठानात् कश्चिद्धर्मः । न ह्यप्रतिगृह्णन्नपिवन्वा सुरां धार्मिक इति लोके प्रसिद्धः । सूत्रे तु धर्मग्रहणमधर्मस्याप्युपलक्षण- मिति स्थितिः-इति ॥ १ ॥ किं भोः समयोऽपि प्रमाणम्, ? (८)यदि स्यादिदमपि प्रमाणं भ- वितुमर्हति-'चैत्यं वन्देत स्वर्गकामः । प्रगे भुञ्जीत । केशानुलुञ्च्छेत् । १. आप० ध० १. ३१. १. २. यत्किञ्चनदिङ्मुखेन इति क० पु० । ३. प्रतिषेध परिसङ्ख्येत्यनर्थान्तरम् । परिसङ्ख्या वर्जनबुद्धिः । तद्विषयको विधि परिसङ्ख्याविधि । स परिसङ्ख्यापदेनाऽप्यभिधीयते इति मीमांसकाना मतम् । अत एव विधिरत्यन्तमप्राप्ते नियम पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥ इत्येव वार्तिककारैरुक्तम् । ग्रन्थकारस्त्वद्य परिसङ्ख्या नियमविधावेवान्तर्भावयति ॥ ४ आप० ध० १ ३१. ६. ५. इदं च तार्किकादिमतमनुसृत्य प्रभाकरमतञ्च । भाट्टमते तत्तत्कर्मणामेव यागदान- होमादिरूपाणा चोदनालक्षणाना धर्मत्वाङ्गीकारात् । उक्तं हि भट्टपादै - श्रेयो हि पुरुषप्रीतिस्सा द्रव्यगुणकर्मभिः । चोदनालक्षणैस्साध्या तस्मात्तेष्वेव धर्मता ॥ इति । श्लो. वा. १० १९१ ६. पक्षेऽप्राप्तांशस्य पूरणकरणादित्यर्थः । ७. तत्तन्निषेध्यक्रियाप्रागभावपरिपालनादिति यावत् । ८ यदि प्रमाणमिदमपि प्रमाण इति क० पु० ।

धर्मप्रमाणानि] उज्ज्वलापेते प्रथमः प्रश्नः । ३

तिष्ठन् भुञ्जीत । न स्नाया'दिति । तत्राह- धर्मज्ञसमयः प्रमाणम् ॥ २ ॥ न हि ब्रूमः समयमात्रं प्रमाणमिति । किं तर्हि ? धर्मज्ञा ये मन्वा- दयस्तेषां समय प्रमाणं धर्माधर्मयोः ॥ २ ॥ कथं पुनरिद(१)मवगतं मन्वादयो धर्मज्ञा न बुद्धादय इति ? यद्यु- च्यते-बुद्धादीनामतीन्द्रियेऽर्थे ज्ञानं न सम्भवतीति, तन्मन्वादिष्वपि स- मानम् । अथ तेषा धर्मज्ञानातिशयादतीन्द्रियेऽपि ज्ञानं सम्भवतीति, तत् बुद्धादिष्वपि समानम् । यथाऽऽहुः- (२) 'सुगतो यदि धर्मज्ञः कपिलो नेति का प्रमा । तावुभौ यदि धर्मज्ञौ मतभेदः कथं तयोः ॥ इति । वक्तव्यो वा विशेष, तमाह- वेदाश्च ॥ ३ ॥ चोऽवधारणे । वेदा एव मूलप्रमाणं धर्माधर्मयोः । (३)न च नि- त्यनिर्दोषेषु वेदेषूपालम्भसम्भवः । (४) स्वतःप्रमाणस्य हि शब्द- स्य न वक्तृदोषनिबन्धनमप्रामाण्यम् । तदिहास्मदादीनां धर्मज्ञसमयः प्रमाणम्, धर्मज्ञानां तु वेदाः प्रमाणम् । मनुरप्याह- (५)वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ गौतमोऽपि-(६) 'वेदो धर्ममूलं, तद्विदां च स्मृतिशीले ।' इति । यद्यप्यप्रत्यक्षो वेदो मूलभूतोऽस्मदादिभिर्नोपलभ्यते । तथापि (७) म- न्वादय उपलब्धवन्तः इत्यनुमीयते । वक्ष्यति-(८) 'तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते' इति ॥ ३ ॥ चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः ॥ ४ ॥


१. अवगम्यते इति ख० पु० । २. अष्टसहस्री० पृ० ५ श्लोकोऽयं कौमारिल इति अष्टसहस्त्रीटिप्पण्याम् । ३. नित्येषु निर्दोषेषु, इति ख० पु० । अपौरुषेयेषु निर्दोषेषु इति घ. पु. ४. मीमांसकमते तावत् वैदिकानां वाक्यानां नित्यत्वाभ्युपगमात् तत्र कर्तृतया पुरुषसम्बन्धाभावात् स्वत एव प्रामाण्यमङ्गीकृतम् । तदभिप्रेत्याह-स्वत प्रमाणस्येति । ५. मनु० स्मृ० २. ६ ६. गौ० ध० १. १, २ ७. 'मन्वादिभिरुपलभ्यते इत्यनुमीयते' इति ख० पु० । ८. आ० ध० १ १२. १०.

४ आपस्तम्बधर्मसूत्रे [ (प्र.१.) कँ. १. ब्राह्मणाद्याश्चत्वारो वर्णसंज्ञिकाः । ते च सामयाचारिकैर्धर्मैरधि- क्रियन्ते । (१)चतुर्णामेवोपदेशेऽपि पुनश्चतुर्ग्रहणं (२)यथाकथञ्चित् चतुर्ष्वन्तर्भूतानामपि ग्रहणार्थम् । ततश्च (३) 'ब्राह्मणः क्षत्रियो वैश्य' इति बौधायनादिभिरुक्तानामनुलोमादीनामप्यत्र ग्रहणं मतम् । तथा च गौतमः प्रतिलोमानामेव धर्मेऽनधिकारमाह-(४)'प्रतिलोमास्तु धर्म- हीना" इति ॥ ४ ॥ तेषां पूर्वः पूर्वो जन्मतश्श्रेयान् ॥ ५ ॥ जन्मत इति वचनात् सद्वृत्तादपि शूद्राद्वैश्यवृद्धोऽपि श्रेयान् । एव वैश्यात् क्षत्रियः, क्षत्रियात् ब्राह्मणः ॥ ५ ॥ अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि ॥ ६ ॥ शूद्रवर्जितानां त्रयाणां वर्णानामदुष्टकर्मणामुपायनादयो धर्माः । उपाय- नमुपनयनम् । नात्र त्रैवर्णिकानामुपनयनादि विधीयते, प्राप्तत्वात् । ना- पि शूद्राणां प्रतिषिध्यते, प्राप्त्यभावात् । तथा हि-उपनयनं तावद्गृह्ये (५)'गर्भाष्टमेषु ब्राह्मणमुपनयीते'त्यादिना त्रैवर्णिकानामेव विहितम् । इहापि तथैव विधास्यते । अध्ययनमपि (६)'उपेतस्याचार्यकुले ब्रह्म- चारिवास' इत्यारभ्य विधानात् अनुपनीतस्य शूद्रस्याप्राप्तमेव । कि च (७)'श्मशानवच्छूद्रपतिता'दिति (८)अध्ययननिषेधो वक्ष्यते । (९)यस्य समीपे नाध्येयं स कथं स्वयमध्येतुमर्हति । अग्न्याधेयमपि (१०)'वसन्ते ब्राह्मण' इत्यादि त्रैवर्णिकानामेव विहितम्। फलवन्ति चाग्निहोत्रादीनि कर्माणि (११)'स त्रयाणां वर्णाना'मित्युक्तत्वात् त्रैव- र्णिकानामेव नियतानि । विद्यागम्यत्वाच्च शूद्राणामप्रसक्तानि। उक्तो वि- द्यागम्याभावः । तस्माददुष्टकर्मप्रतिषेधार्थं सूत्रम् । यथा शास्त्रान्तरे-(१२) 'द्विजातिकर्मभ्यो हानिः पतन'मिति । अप्रतिषेधे तु दुष्टकर्मणामप्यधि- १. 'वर्णानामुपदेशेऽपि पुनश्चतुर्ग्रहणं यथाकथञ्चिचतुर्ष्वन्तर्भूतानामपी'ति ख पु. २. यथाक्रम इति क० पु ३. बौ० ध० १. ७. १. ४. गौ० ध० ४ २५. ५. आप० गृ० ८. २. ६. आप० ध० १. २. ११. ७. आप० ध० १ ९.९. ८. अध्ययनप्रतिषेधप्रकरणे वक्ष्यत इति ख० पु । ९. यस्य यस्य, स सः इति द्विरुक्ति. क० पु० । १०. तै. ब्रा. १. १ २. ११. आप० परि० १. २ १२. गौ० ध० २१. ४.

वर्णधर्मः] उज्ज्वलोपेते प्रथमः प्रश्नः । ५

कारो भवत्येव । 'फलवन्ति च कर्माणि'त्यभिधानात्, क्रियते इति कर्मेति निर्वचनात् । (१)'प्रागुपनयनात् कामचारवादभक्ष' इति गौतमस्मरणं ब्रह्महत्यादिमहापातकव्यतिरिक्तविषयमित्यनुपेतस्यापि दुष्टकर्मत्वसम्भ- वात् अदुष्टकर्मणा(२)मित्युक्तम् । शूद्रप्रतिषेधस्तु प्राप्तानुवादः ॥ ६ ॥ यथा ब्राह्मणादीनामुपनयनादयो धर्माः प्रधानभूताः तादृशं शूद्रस्य कर्माऽऽह- शुश्रूषा शूद्रस्येतरेषां वर्णानाम् ॥ ७ ॥ इतरेषा ब्राह्मणादीनां वर्णाना या शुश्रूषा सा शूद्रस्य परमो धर्मः ॥ ७ ॥ (३)तत्र विशेषमाह- पूर्वस्मिन्पूर्वस्मिन्वर्णै निःश्रेयसं भूयः ॥ ८ ॥ सर्वप्रकारं कृताया अपि वैश्यशुश्रूषाया मात्रयापि कृता क्षत्रियशु- श्रूषा बहुतर फलं साधयति । एव क्षत्रियशुश्रूषाया ब्राह्मणशुश्रूषा ॥८॥ उपायनं वेदाध्ययनमित्यादि यदुक्तं अस्मिन्क्रमे उपनयने विशेषमाह- उपनयनं विद्यार्थस्य श्रुतितस्संस्कारः ॥ ९ ॥ विद्या अर्थः प्रयोजनं यस्य स विद्यार्थः । तस्यायं श्रुतिविहितस्संस्कारः उपनयन नाम । 'विद्यार्थस्ये'ति वचनात् मूकादेर्न भवति । तथा च शङ्खलि- खितौ (४)'नोन्मत्तमूकान् संस्कुर्यात्' इति । (५)लिङ्गस्य विवक्षितत्वात् स्त्रिया अपि न भवति यद्यपि तस्याः (६)'अग्ने गृहपते' इत्यादिकया विद्यया अर्थः । 'श्रुतित' इति वचनं तदतिक्रमे श्रौतातिक्रमप्रायश्चित्त- प्राप्त्यर्थम् ॥ ९ ॥ अनेकवेदाध्यायिनां वेदव्रतवदुपनयनमपि प्रतिवेदं भेदेन कर्तव्य- मिति प्राप्ते उच्यते - सर्वेभ्यो वै वेदेभ्यस्सावित्र्यनूच्यत इति हि ब्राह्मणम् ॥१०॥ (७)'त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यृचोऽस्यास्सावित्र्याः परमेष्ठी प्रजापतिः ॥' इति (८)मनुः । ततश्चोपनयने यत्सावित्र्या अनुवचन तन्मुखेन सर्वे वेदा अनुक्ता १ गौ०ध ० २. १. २. उपनयनमुक्तं इति क० पु० ३. तत्र विशेष, इति क.पु. ४ इदानीमुपलभ्यमानमुद्रितशङ्खलिखितस्मृतिपुस्तकेषु श्लोकोऽयं नोपलभ्यते । ५ विद्यार्थस्येत्यत्र पुंलिङ्गस्य विवक्षितत्वात् इत्यर्थः । ६. तै स. १ ५ ६ ७ मनु स्मृ २ ७७. ८. मनुवचनम् इति. ख. पु

६ आपस्तम्बधर्मसूत्रे [(प्र. १.) कं. १. भवन्तीत्यगृह्यमाणविशेषत्वादेकमेवोपनयनं सर्वार्थमिति । अस्मिन्नर्थे ब्राह्मणमपि भवति (१) ब्राह्मणमेव वा पठितम् । आथर्वणस्य वेदस्य पृथगुपनयनं कर्तव्यम् । तथा च तत्रैव श्रुतम्—(२) 'नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयीते'ति ॥ १० ॥ विद्वानेवोपनेताऽभिगम्यत इति विधातुमविदुषो निन्दामाह— • तमसो वा एष तमः प्रविशति यमविद्वानुपनीयते यश्चाऽविद्वानिति हि ब्राह्मणम् ॥ ११ ॥ यथा कश्चित् तमसस्सकाशात्तम एव प्रविष्टो न किञ्चिज्जानाति एव- मेवैषः यं माणवकंमविद्वानुपनीयते, तथा यथाविद्वान् । उपनीयते इत्यपेक्ष्यते । यश्च स्वयमविद्वान् सन्नुपनीयते सोऽपि तमम एव तम प्रविशति । अस्मि- न्नर्थे ब्राह्मणमपि भवतीति ॥ ११ ॥ कीदृशस्तर्ह्युपनेताऽभिगम्यः ? तमाह— • तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् ॥ १२ ॥ अविच्छिन्न(३)वेदवेदिसम्बन्धे कुले जन्म अभिजन । षड्भिरङ्गैस्सहैव यथावदर्थज्ञानपर्यन्तमधीतो वेदो विद्या । सर्वासामसम्भवे वेद एव वा । तस्मिन्नुपनयने कर्तव्ये ताभ्यां अभिजनविद्याभ्यां समुदेतं सम्पन्नम्, समाहितं विहितप्रतिषिद्धेष्ववहितमनसम्, मस्कर्तारमाचार्यमीप्सेत् । इच्छया करणं लक्ष्यते । आप्नुयादभिगच्छेदिति ॥ १२ ॥ • तस्मिंश्चैव विद्याकर्माऽऽन्तंमविप्रतिपन्ने धर्मेभ्यः ॥ १३ ॥ तस्मिन्नेव चोपनेतारि विद्याकर्म विद्याग्रहणं कर्तव्यम् । आन्तमासमाप्तेः, अविप्रतिपन्ने धर्मेम्य यद्यसावाचार्यो धर्मेभ्यो न प्रच्युतो भवति । प्रच्युते तु तस्मिन्नसम्पर्कार्हे अन्यतोऽपि विद्याकर्म भवत्येव । *येषां त्वाचार्यकरणविधिप्रयुक्तमध्ययनं तेषामेतन्नोपपद्यते । क- १. प्रमाणं भवति, ब्राह्मणमिति हि वाचा पठितम्, इत्यशुद्ध. पाठ० ख पु २. गोप० ब्र० १ २९. ३ वेदवित्सम्बन्धे इति. क. पु *. एतच्चिह्नान्तर्गतो भागः प्रक्षिप्त इति Mysore पुस्तके । परन्तु क ग पुस्त- कयोरुपलभ्यते पाठ । एतच्च गुरुमतानुसारेण । गुरवो हि "अष्टवर्षं ब्राह्मणमुपनयीत, तमध्या- पयीत' इति विधिनाऽऽचार्यत्वसिद्ध्यर्थमध्यापनं विदधताऽध्ययनमपि प्रयुज्यते, अतो ऽध्यापनान्यथानुपपत्त्यैव सिध्यदध्ययनं न स्वविधिना "स्वाध्यायोऽध्येतव्य" इत्यनेन विधीयते इति ब्रुवते । अतस्तन्मतखण्डनमिदम् ।

उपनयनविधिः] उज्ज्वलोपेते प्रथमः प्रश्नः । ७ थम् ? उपनीयाध्यापनेनाचार्यकं भावयेदिति । सकृदुपनीतस्य माणवकस्य न पुनरुपनयनसंस्कारः सम्भवति । तं कथमन्योऽध्यापयेत् ? एतेन मध्य आचार्यमरणे माणवकस्य तदध्ययन नाचार्यान्तरात् सम्भव तीति द्रष्टव्यम्* ॥ १३ ॥ (१)आचार्यशब्दं निराह— यस्माद्धर्म्मानाचिनोति स आचार्यः ॥ १४ ॥ यस्मात्पुरुषादयं माणवकः धर्मानिचिनोति आत्मनः प्रचिनोति शिक्षते स आचार्य । (२)'अप्यक्षरसाम्यान्निब्रूयादि'ति चकारमात्रेणेदं निर्वच नम् । अनेन प्रकारेण माणवकमाचार्यः शौचाचारांश्च शिक्षयेदित्युक्तं भवति ॥ १४ ॥ तस्मै न द्रुह्येत्कदाचन ॥ १५ ॥ तस्मै एवंभूताचार्याय कदाचन कदाचिदपि न द्रुह्येत् तद्विषयमपकार न कुर्यात् ॥ १५ ॥ कस्मादित्यत आह— स हि विद्यातस्तं जनयति ॥ १६ ॥ स ह्याचार्यः तं माणवक विद्यातो जनयति, यथा पिता मातृतः । (३)अत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ इति शास्त्रान्तरम् ॥ १६ ॥

  • तच्छ्रेष्ठं जन्म ॥ १७॥ तद्विद्यातो जन्म श्रेष्ठं प्रशस्ततमम्, अभ्युदयनिःश्रेयसहेतुत्वात् ॥१७॥ मातापितृभ्यामाचार्यः श्रेष्ठ इत्याह — शरीरमेव मातापितरौ जनयतः ॥ १८ ॥ मातापितरौ शरीरमात्रमेव काष्ठकुड्यादिसमं जनयतः । आचार्यस्तु सर्वपुरुषार्थक्षमंरूपं जनयति । (४)“आचार्यः श्रेष्ठो गुरूणा"मिति गौतमः ॥ १८ ॥ वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदि वैश्यं, गर्भाष्टमेषु ब्राह्मणं, गर्भेकादशेषु राजन्यं, १ आचार्यशब्दनिर्वचनमाह इति क ग पु २ निरु. २ १. १. ३. मनु स्मृ २. १७० ४ गौ ध. २. ५०

८ आपस्तम्बधर्मसूत्रे [(प. १) कं. १. गर्भद्वादशेषु वैश्यम् ॥ १९ ॥ (१)वसन्ते ब्राह्मणमित्यादि गृह्ये गतम् ॥ १९ ॥

  • अथ काम्यानि ॥ २० ॥ कामनिमित्तान्युपनयनानि वक्ष्यन्ते ॥ २० ॥ (२)सप्तमे ब्रह्मवर्चसकामम् ॥ २१ ॥ अष्टम आयुष्कामम् ॥ २२ ॥ नवमे तेजस्कामम् ॥ २३ ॥ दशमेऽन्नाद्यकामम् ॥ २४ ॥ एकादश इन्द्रियकामम् ॥ २५ ॥ द्वादशे पशुकामम् ॥ २६ ॥ 'ब्रह्मवर्चसकाम'मित्यादीनि षट् सूत्राणि स्पष्टार्थानि । सर्वत्रोपन- यीतेत्यपेक्षते ॥ २१-२६ ॥ (३)'आचार्याधीनस्स्या'दित्यादीनि यानि ब्रह्मचारिणो व्रतानि व- क्ष्यन्ते तेष्वसमर्थानां कुमाराणां वर्णक्रमेणानुकल्पमाह- आषोडशाद्ब्राह्मणस्यानात्यय आद्वाविंशात्क्षत्रियस्याऽऽचतुर्विंशाद्वैश्यस्य यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः ॥ २७ ॥ आकारोऽभिविधौ । अत्ययोऽतिक्रमः । स एवाऽऽत्ययः तदभावोऽनात्यय । यादृच्छिको दीर्घः, आङो वा श्लेषः । प्रकरणादुपनयनकालस्येति गम्यते । यथा व्रतेषु समर्थ स्यात् तथैतावान् कालः प्रतीक्ष्यः । पूर्वमेव तु सामर्थ्ये सत्यष्टमवर्षाद्यतिक्रमे वक्ष्यमाण प्रायश्चित्तमेव भवति । एव षोडशादिभ्य ऊर्ध्वं कियन्तञ्चित्कालमसमर्थानां पश्चात्सामर्थ्ये सति प्रायश्चित्त भवत्येव ॥ २७ ॥ तदानीं प्रायश्चित्तमाह- अतिक्रान्ते सावित्र्याः ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत् ॥ २८ ॥ १ आप. गृ ११. २ २ इतः प्रभृति सूत्रषट्कमेकसूत्रतया लिखित क. पुस्तके । ३ आप. ध १ २ १९.

व्रात्यसंस्कारः] उज्ज्वलोपेते प्रथमः प्रश्नः । ९ यस्य यः सावित्र्याः काल उक्तः तदतिक्रमे त्रैविद्यकं त्र्यवयवा वि- द्या तामधीयते ये ते त्रैविद्याः, तेषामिदं त्रैविद्यकम् । (१)'गोत्रचरणाद्वुञ्' । 'चरणाद्धर्माम्नाययोरि'ति वुञ् । एवम्भूतं ब्रह्मचर्यं, अग्निपरिचर्यामध्य- यनं गुरुशुश्रूषामिति परिहाप्य, सकल ब्रह्मचारिधर्मं चरेत् । कियन्तं कालम् ? ऋतुं, 'कालाध्वनो'रिति द्वितीया । ऋतुमिति वचनादृत्वारम्भे प्रायश्चित्तारम्भमिच्छन्ति ॥ २८ ॥ अथोपनयनम् ॥ २९ ॥ एवं चरितव्रत उपनेतव्यः ॥ २९ ॥ ततस्संवत्सरमुदकोपस्पर्शनम् ॥ ३० ॥ ततः उपनयनादारभ्य सम्वत्सरमुदकोपस्पर्शनं स्नानं कर्तव्यम् । शक्तस्य त्रिषवण स्नानम्(२) अशक्तस्य यथाशक्ति ॥ ३० ॥ अथाऽध्याप्यः॥ ३१ ॥ एवं चरितव्रतः पश्चादध्याप्य ॥ ३१ ॥ अथ यस्य पिता पितामह इत्यनुपेतौ स्यातां ते ब्रह्महसंस्तुताः ॥ ३२ ॥ यस्य माणवकस्य पिता पितामहश्चानुपेतौ स्यातां स्वयं च, ते तथाविधास्स माणवका ब्रह्महसंस्तुताः अब्राह्मण इत्येवं कीर्तिताः ब्रह्मवादिभिः । अतस्मि- न् तच्छब्दयोगस्तद्धर्मप्राप्त्यर्थः । एवं च (३)'श्मशानवच्छूद्रपतिता'त्वि- त्यध्ययननिषेधप्रकरणे वक्ष्यते । ततश्च ब्रह्म यथा ब्रह्महसमीपे नाध्ये यमेवमेषामपीति ॥ ३२ ॥ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् ॥ ३३ ॥ तेषामेतेषामभ्यागमनमाभिमुख्येन गमनम्, मातापितृपुत्रदारशरीरर- क्षणार्थमपि वर्जयेत् । यद्यपि भिक्षा सर्वतः प्रतिग्राह्येति वक्ष्यते भोजनमु द्यतमपि वर्जयेत् (४)'अपि दुष्कृतकारिण' इति सत्यपि वचने । विवाहं च वर्जयेत् यद्यपि (५)'स्त्रीरत्नं दुष्कुलादपी'ति मानवस्मरणम् ॥ ३३ ॥ तेषामिच्छतां प्रायश्चित्तम् ॥ ३४ ॥ १ पा० सू० ४३. १२६ २. अन्यस्य' क. ख. पु ३. आप० ध० १ ९. ९. ४. आप० ध० १ १९.१३. ५ मनु० स्मृ० २. २३८. आप० ध० २

१० आपस्तम्बधर्मसूत्रे [(प्र. १.) क. २. इच्छतामिति वचनान्न बलात्कारेण प्रायश्चित्तं कारयितव्यम् ॥ ३४ ॥ यथा प्रथमेऽतिक्रम ऋतुरेवं सम्वत्सरः ॥ ३५ ॥ यथा प्रथमेऽतिक्रमे ब्रह्मचर्यस्य ऋतु काल. एवमन्यस्मिन्नतिक्रमे संवत्सर- कालः ॥ ३५ ॥ अथोपनयनम् ॥ ३६ ॥ तत उदकोपस्पर्शनम् ॥ ३७ ॥ गते ॥ ३६ ॥ ३७ ॥ इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने प्रथमा (१) काण्डका । प्रतिपूरुषं संख्याय संवत्सरान् यावन्तोऽनुपेताः स्युः ॥ १॥ यदि पितावानुपेतः ततस्संवत्सरमेकम् । अथ पितामहोऽपि, ततो द्वौ । अथ स्वयमपि यथाकालमनुपेतः, ततः संवत्सरानिति ॥ १ ॥ अथोदकोपस्पर्शन मन्त्राः- सप्तभिः पावमानीभि"र्यदन्ति यच्च दूरक" इत्येताभि र्यजुष्पवित्रेण सामपवित्रेणाऽऽङ्गिरसेनेति ॥ २ ॥ पवमानः सोमो देवता यासां ताः (२) पावमान्यः । यजुष्पवित्रेण (३) 'आपो अस्मान्मातरः शुन्धन्तु' त्यनेन, सामपवित्रेण 'कया नश्चित्र आभु १. खण्डिका इति क. पुस्तके । खण्डः इति ख. पुस्तके । एवमेव प्रतिखण्डसमाप्ति ॥ २. यदन्ति यच्च दूरके भय विन्दति मामिह । पवमान वितज्जहि ॥ १ ॥ पवमानस्सोऽअद्य नः पवित्रेण विचर्षणि. । यः पोता स पुनातु नः ॥ २ ॥ यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि नः ॥ ३ ॥ यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्म सवै. पुनीहि नः ॥ ४ ॥ उभाभ्यां देव सवितः पवित्रेण सवेन च । मा पुनीहि विश्वतः ॥ ५ ॥ त्रिभिष्ट्व देव सवितर्वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥ ६ ॥ पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । विश्वे देवाः पुनीतन मा जात- वेदः पुनीहि मा ॥७॥ (ऋ० सं० ७. २. १७, १८) इति सप्त पावमान्यः ॥ ३. आपो अस्मान् मातरश्शुन्धन्तु घृतेन नो घृतपुव. पुनन्तु विश्वमस्मत्प्रवहन्तु रिप्रम्" (तै.सं १ २.१.) इति यजु पवित्रम् । 'कया नश्चित्र आ भुवदूती सदावृधस्सखा । कया शचिष्ठया वृता' इत्यस्यामृचि गीयमान वामदेव्याख्यं साम सामपवित्रम् ॥

व्रात्यसंस्कारः] उज्ज्वलोपेते प्रथमः प्रश्नः । ११ वदि' त्यादिगीतेन वामदेव्येन साम्ना, आङ्गिरसेन(१) 'हंसःशुचिषदि'त्यनेन एतैरञ्जलिना शिरस्यपोऽवसिञ्चेत् ॥ २ ॥ अपि वा व्याहृतिभिरेव ॥ ३ ॥ पूर्वैः सह व्याहृतीनां विकल्पः ॥ ३ ॥ अथाऽध्याप्यः ॥ ४ ॥ गतम् ॥ तत्र 'यस्य पिता पितामह' इत्युपक्रमे 'यस्ये'त्येकवचनमन्ते ऽ 'प्यध्या- प्य' इति । मध्ये तु 'ब्रह्महसस्तुताः' 'तेषामभ्यागमनं' 'तेषामिच्छता'- मिति बहुवचनम् । तत्रोपक्रमोपसंहारानुसारेण माणवकस्यैव प्राय- श्चित्तमुपनयनमध्यापन च । बहुवचन तु तथाविधमाणवकबहुत्वापे क्षमित्यवोचाम ॥ ४ ॥ अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं ते श्म- शानसंस्तुताः ॥ ५ ॥ प्रपितामहादि प्रपितामहादारभ्य प्रपितामहः पितामहः पिता स्वयं च यथाकालमिति । ते तथाविधा माणवकाः श्मशानसंस्तुताः । एतेन (२)'श्मशाने सर्वतः शम्याप्रासा' दित्यध्ययननिषेध एषामपि सन्निधौ भवति ॥ ५ ॥ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्तेषामि- च्छतां प्रायश्चित्तं द्वादश वर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनं(३)तत उदकोपस्पर्शनं पावमान्या- दिभिः ॥ ६ ॥ गतम् । पावमान्यादिभिरित्यनेनैव प्रतिपूरुषं सङ्ख्याय सम्बत्सरा- नित्येतदपि द्रष्टव्यम् ॥ ६ ॥ अथ गृहमेधोपदेशनम् ॥ ७ ॥ गृहमेधो गृह्यशास्त्रं गृहस्थधर्मो वा ॥ ७ ॥ १. हंसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमस दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्” ( तै सं. ४ २ १ ४. ) इत्याङ्गिरस ॥ २ आप. ध १ ९. ६. ३. ततस्संवत्सरमुदकोपस्पर्शनम् . इति ग . पु . ।

१२ आपस्तम्बधर्मसूत्रे [ (प्र. १.) कं. २. नाध्यापनम् ॥ ८ ॥ नाध्यापनं कृत्स्नस्य वेदस्य । किं तु गुह्यमन्त्राणामेवेति ॥ ८ ॥ ततो यो निवर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ॥९॥ ततः एवं कृतप्रायश्चित्तात् गृहस्थीभूताद्यो निवर्तते उत्पद्यते तस्योपन- यनसंस्कारः कर्तव्यः । कथम् ? यथा प्रथमेऽतिक्रमे ऋतुं त्रैविद्यकं ब्रह्मचर्यं चारयित्वेत्यर्थः ॥ ९ ॥ तत ऊर्ध्वं प्रकृतिवत् ॥ १० ॥ ततः यो निवर्तते तस्य प्रकृतिवत् यथा प्राप्तमुपनयनं कर्तव्यमिति । यस्य तु प्रपितामहस्य पितुरारभ्य नानुस्मर्यत उपनयनं तत्र प्रायश्चित्तं नोक्तम्, धर्मज्ञैरुहितव्यम् ॥ १० ॥ एवं ततः पूर्वेष्वपि निरूपितमुपनयनम् , अथाऽध्ययनविधिः- उपेतस्याऽऽचार्यकुले ब्रह्मचारिवासः ॥ ११ ॥ एवं यथाविध्युपेतस्य ब्रह्मचारिणस्तत आचार्यकुले वासो भवति । ब्रह्म वेदस्तदर्थं व्रतं चरतीति ब्रह्मचारी । अध्ययनाङ्गानि व्रतानि चरता आचार्यकुले वस्तव्यमित्युक्तं भवति ॥ ११ ॥ तत्र कालः- (१)अष्टाचत्वारिंशद्वर्षाणि ॥ १२ ॥ चतुर्णां वेदानामध्ययनकाल एषः । प्रतिवेदं द्वादश ॥ १२ ॥ पादूनम् ॥ १३ ॥ स एव कालः पादून वा प्रत्येतव्यः । पादेनोने पादूनम् । पररूपं (२)कतन्तवत् । षट्त्रिंशद्वर्षाणि । प्रतिवेदं नव ॥ १३ ॥ अर्धेन ॥ १४ ॥ ऊनमिति (३) समस्तमप्यपेक्षते । चतुर्विंशतिवर्षाणि । प्रतिवेदं षट् ॥१४॥ १. गोपथब्राह्मणेऽथर्ववेदीये द्वितीयप्रपाठके पञ्चमब्राह्मणेऽस्य विधिर्हश्यते--'तस्मा एतत् प्रोवाचाष्टाचत्वारिंशद्वर्षं तच्चतुर्धा वेदेषु व्यूह्य द्वादशवर्षं ब्रह्मचर्यं, द्वादशवर्षाण्यवरार्ध- मपि स्तायंश्रेयस्या शक्त्यपरम्' ( गोप. ब्रा. पू. २. ५. ) इति ॥ २. 'शकन्ध्वादित्वात्' इति घ. पु. । ३. उपसमस्तमिति ख० पु० प्राप्तसमासमपीत्यर्थः । सर्वत्राप्यपेक्षते इति. घ. पु.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३ त्रिभिर्वा ॥ १५ ॥ पादैरूनमिति प्रकरणाद्गम्यते । द्वादशवर्षाणि । प्रतिवेदं त्रीणि ॥१५॥ द्वादशावराध्यंम् ॥ १६ ॥ अवराध्यंशब्दोऽवरमात्रेत्येतस्मिन्नर्थे वर्तते । द्वादशवर्षाणि अवर- मात्रा यथा भवति तथा ब्रह्मचारिणा गुरुकुले वस्तव्यम् । पूर्वेणैव सिद्धे यो ब्रह्मचार्यतिमेधावितया चतुरोऽपि वेदानितोऽल्पीयसा कालेन गृह्णा- ति तेनाप्येतावन्तं कालं गुरुकुले वस्तव्यम् । (१)'विद्यया स्नासी'त्यत- स्मिन्नपि पक्षे नातित्वरितेन स्नातव्यमित्येवमर्थमिदमारभ्यते । एतेन एकस्य वेदस्य त्रीणि वर्षाणि ब्रह्मचर्यमवश्य (२) भावीत्यर्थात्सिद्धम् । मनुरप्याह— (३)षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैविद्यकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ इति ॥ त्रयाणां वेदानां षट् त्रिंशत् ; एकैकस्य द्वादश । तदर्धिकं त्रयाणामष्टा- दश; एकैकस्य षट् । पादिकं वा त्रयाणां नव, एकैकस्य त्रीणि । ग्रहणा- न्तिकमेव वेति एकैकस्य त्रिभ्य ऊर्ध्वमनियमः, न प्रागित्यर्थो द्रष्टव्यः॥१६॥ न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति ॥ १७ ॥ ब्रह्मचारिविद्यार्थशब्दयोरर्थ उक्तः । यो ब्रह्मचारी विद्यार्थो भवति न तेन दिवसमात्रमपि परस्य समीपे वस्तव्यम् । आचार्यस्य समीप एव वस्तव्यमित्युक्तं भवति । विद्यार्थस्येति वचनात् नैष्ठिकस्य कदाचिद- न्यत्र (४)वासेऽपि न दोषः । यद्वा भोजननिवृत्तिरेवोपवासः । परलो- कार्थ उपवासः परोपवासः स विद्यार्थस्य न भवति । नैष्ठिकस्य तु(५) दोषः । अत्र पक्षे(६)'आहिताग्निरनड्वा'निति विद्यार्थब्रह्मचारिविषयम् ॥१७॥ अथ ब्रह्मचर्यविधिः ॥ १८ ॥ ब्रह्म वेदस्तदर्थं यद्व्रतं चरितव्यं तद्ब्रह्मचर्यं तदधिक्रियते ॥ १८ ॥ आचार्याधीनस्स्यादन्यत्र पतनीयेभ्यः ॥ १९ ॥ “आचार्याधीनो भवे”त्युपनयनान्ते यत् संशासनं तत्सिद्धैवाचार्या- १. आप० ध १.३०.१. २. भावीत्ययमर्थस्सिद्धः । इति ख० पु० ३. मनु० स्मृ० ३. १ ४. वासो न दोषः इति क० पु० ५. न दोषः इति ख० पु० ६ आप० ध. २. ९ १३

१४ आपस्तम्बधर्मसूत्रे [(प. १.) कं. २. धीनताऽनुद्यते 'अन्यत्र पतनीयेभ्य' इति विशेषं वक्ष्यामीति। (१)पतनीय इति करणे कृत्यप्रत्ययः। (२)अमुमरातिं ब्राह्मणमित्थं व्यापादयेत्याचार्येण चोदितोऽप्येवमादि न कुर्यादिति ॥ १९ ॥ हितकारी गुरोरप्रतिलोमश्चाचा ॥ २० ॥ आचार्येण प्रयुक्तोऽप्यप्रयुक्तोऽपि तस्मै हितमेव कुर्यात्, वा- चा (३)प्रातिलोम्यमकुर्वन् ॥ २० ॥ अधासनशायी ॥ २१ ॥ शयनं शायः। (४)'कृत्यल्युटो बहुल'मिति बहुलवचनात् घञ्। अधः आसनशायो यस्य सः अधासनशायी। गुरुसन्निधावध आसीत अ धश्शयीतेत्युक्त भवति। अधश्शब्दस्य सवर्णदीर्घश्छान्दसः, अपपाठो वा। तृणेषु प्रस्तरेषु चासनशयने शिष्टाचारसिद्धे ॥ २१ ॥ नानुद्देश्यं भुञ्जीत ॥ २२ ॥ अनुद्देश्यं श्राद्धार्थं देवतार्थं वा उद्दिष्टं न भुञ्जीत ॥ २२ ॥ तथा क्षारलवणमधुमांसानि ॥ २३ ॥ न भुञ्जीतेत्येव। (५)क्षारादीनि गृह्ये गतानि ॥ २३ ॥ अदिवास्वापी ॥ २४ ॥ न दिवा स्वप्यात् ॥ २४ ॥ अगन्धसेवी ॥ २५ ॥ चन्दनादीनि गन्धद्रव्याणि न सेवेत ॥ २५ ॥ मैथुनं न चरेत् ॥ २६ ॥ उपचारक्रिया केली स्पर्शो (६)भूषणवाससाम्। एकशय्यासनं क्रीडा चुम्बनालिङ्गने तथा ॥ इत्यादेस्सर्वस्योपलक्षणं मैथुनग्रहणम् ॥ २६ ॥ १. करणे प्रत्ययः इति क० पु० २. अस्मदरातिं इति ख० पु० ३. प्रातिकूल्य इति ख० पु० ४ पा० सू० ३. ३. ११३ ५. क्षारपदार्थः आप. ध. २ १५. ११ सूत्रे व्याख्यास्यते। ६ भूषणवाससी. इति. क. पु.