बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
चतुर्दशः खण्डः ] द्वितीयप्रश्ने अष्टमोऽध्यायः २७१
रक्षोधनानि सामानि १अग्ने रक्षाणो अंहसः, २अग्ने युक्ष्वाहि ये तव, ३ प्रत्यग्ने मिथुना दहं यातुधाना, ४प्रत्यग्ने हरसा हरः, ५ न तस्य मा यया च न, ६ श्रुष्ट्यग्ने नवस्य मे, ७ यद्वा उ विश्पतिः शितः, ८ अग्निं होतारम्' एतत्सूक्तोत्पन्नानि स्वधाषन्ति यजूंषि च 'सोमाय पितृपीताय स्वधा नमः' इत्यादीनि । मध्वृचः 'मधु वाताः' इत्यादीनि त्रीणि पवित्राणि 'पवमानस्सुवर्जनः' इत्यादीनि भुञ्जानान् ब्राह्मणान् श्रावयेत् ॥ ५ ॥
९चरणवतोऽनूचानान्योनिश्रोत्रमन्त्रासम्बन्धाञ्छुचीन्मन्त्रवतस्त्र्यवरान्युजः पूर्वेद्युः प्रातरेव वा निमन्त्र्य सदर्भोंपक्लृप्तेष्वासनेषु प्राङ्मुखानुपवेशयत्युदङ्मुखान्वा ॥ ६ ॥
अनु०— उत्तम आचरण वाले, वेदों के विद्वान्, पवित्र, मन्त्र के ज्ञाता श्रोत्रिय, त्रिमधु आदि जानने वाले, वेदाङ्ग के विद्वान् कम से कम तीन और सदैव विषम संख्या में ब्राह्मण को, जो विवाह, गोत्र, मन्त्र आदि द्वारा सम्बन्धी न हों, श्राद्ध के दिन से एक दिन पहले अथवा श्राद्ध के दिन ही प्रातःकाल निमन्त्रण देकर श्राद्ध कर्ता उन्हें दर्भ से ढके हुए आसनों पर पूर्व या उत्तर की ओर मुख कराकर बैठावें ॥ ६ ॥
१. अग्ने रक्षाणो बंहसः प्रति स्म देव रिषतः । तपिष्ठैरजरो दह । ( सा. सं. पूर्वार्चिके १ प्रपाठके १ अर्ध ३. दशतो ३ ऋक् ) २. अग्ने युक्ष्वा हि ये तवाऽश्वासो देव साधवः । अरं वहन्त्याशवः । ( सा. सं. पू, अर्ध १. द. ३. ऋ. ४. ) । ३. ऋ. सं. ८. ४. ९, ४. ४. प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । यातुधानस्य रक्षसो बलं न्युब्ज वीर्यम् । ( सा. सं. पू. प्र. १. अ. २. ५ द. ऋ. ५. ) ५. न तस्य मायया चन रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातये । ( सा. सं. पू. प्र. २. अ. १. १. ऋ, ८, ) ६. श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते । नि मायिनस्तपसा रक्षसो दह । ( सा. सं. पू. २. १. १. १० ) ७. यद्वा उ विश्पतिश्शितस्सुप्रीतो मनुष्यो विशे । विश्वेदरिनः प्रति रक्षांसि सेधति । ( सा. सं. पू. २, १. २. ८. ) ८. अग्निं होतारं मन्ये दास्वंतं वसोस्सुनुं सहसो जातवेदसम् । विप्रं न जातवेदसम् । ( सा. सं. पू. ५. २. ३. ९. ) ९. cf आप. गृ. २. १६. ४.
| २७२ | बौधायन-धर्मसूत्रम् | [ श्राद्धविधिः |
|---|
टि०—गौतम के अनुसार कम से कम नो ब्राह्मणों को भोजन कराने का नियम है “नवावरान्मोजयेदयुजः” २. ६. ७ पृ० १५९. किन्तु साथ ही यह भी कहा गया है कि अपनी सामर्थ्य के अनुसार नो से कम ब्राह्मणों को भी भोजन कराया जा सकता है । “यथोत्साहं वा”। युवक ब्राह्मण को दान देना अधिक उत्तम बताया गया है किन्तु जिसे श्राद्ध का भोजन करावे उससे मित्रता का प्रयोजन न सिद्ध करे “ न च तेन मित्रकर्मं कुर्यात्” गौतम० २. ६. १२ पृ० १६०
चरणमाचारः । यद्वा—गुरुपूर्वकमागतं शाखाध्ययनं तद्विहितोपनयनं च येषां ते चरणवन्तः । वेदाङ्गाध्यायिनोऽनूचानाः । योन्यसम्बन्धाः । गोत्रासम्बन्धाः असगोत्राः । मन्त्रासम्बन्धाः अशिक्षोपाध्यायाः । शुचयो बाह्याभ्यन्तरयोः । मन्त्रवन्तः श्रोत्रियाः । त्रिमध्वादीनामेतेषां च सम्भवापेक्षया व्यस्तसमस्तभावः कल्प्यः । निमन्त्रणं-श्वः करिष्यामि प्रसीदन्तु भवन्तो भोक्तुमित्येवमादि ॥ ६ ॥
अथैनांस्तिलमिश्रा अपः प्रतिग्राह्य गन्धैर्मात्यैश्चाऽलङ्कृत्याऽग्नौ करिष्यामीत्यनुज्ञातोऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्निमुखात्कृत्वाऽऽज्यस्यैव तिस्र आहुतीर्जुहोति— “सोमाय पितृपीताय स्वधा नमस्सवाहा । यमायाऽङ्गिरस्वते पितृमते स्वधा नमस्सवाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्सवाहे”ति ॥ ७ ॥
इसके उपरान्त उनको तिल मिश्रित जल दे, उन्हें गन्ध और माला से अलंकृत करे और “अग्नौ करिष्यामि” ( मैं अग्नि में हवन करना चाहता हूँ) इस प्रकार उनकी अनुमति से अग्नि का उपसमाधान करे, उसके चारों ओर कुश बिछावे, अग्नि मुख तक की क्रियाएं कर इन मन्त्रों के साथ आज्य की तीन आहुतियां करे “सोमाय पितृपीताय स्वधानमस्सवाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्सवाहा” ॥ ७ ॥
अग्नौ करिष्यामीत्युक्ते कुरुष्वेत्यभ्यनुज्ञात इति शेषः । अन्यदतिरोहितम् । दार्विहोमिकतन्त्रप्राप्त्यर्थमग्निमुखादित्युकम् ॥ ७ ॥
तच्छेषेणाऽन्नमभिघार्याऽन्नस्यैता एव तिस्र आहुतीर्जुहुयात् ॥८॥
अनु०—अवशिष्ट आज्य अन्न में मिलाकर उस अन्न से ही तीन आहुतियां करे ॥ ८ ॥
तच्छेषेण आज्यशेषेण अन्नस्य अन्नेनेत्यर्थः । एता इत्याहुतिमन्त्रान् व्यपदिशति ॥ ८ ॥
वयसां पिण्डं दद्यात् ॥ ९ ॥
चतुर्दशः खण्डः ] द्वितीयप्रश्ने अष्टमोऽध्यायः २७३
अनु०—कौओं के लिए पिण्ड दे ॥ ९ ॥
वयश्शब्देनेह काका गृह्यन्ते ॥ ९ ॥
पितृभ्यो दातव्ये वयोभ्यः पिण्डदाने कारणमाह—
“वयसां हि पितरः प्रतिमया चरन्ती” ति विज्ञायते ॥ १० ॥
अनु०—क्योंकि वेद में कहा गया है कि पितृ लोग कौओं के रूप में विचरण करते हैं ॥ १० ॥
प्रतिमया आकारेण ॥ १० ॥
अथेतरत् साङ्गुष्ठेन पाणिनाऽभिमृशति ॥ ११ ॥
अनु०—शेष अन्न को हाथ और अंगूठे को स्पर्श करे ॥ ११ ॥
भोक्तृकामस्य ब्राह्मणस्य कराङ्गुष्ठेन अनखेन स्वपाणिना भोज्यद्रव्यमभि-मृशति । स्वपाणिर्व्यवहितकारणम् ॥ ११ ॥
तत्रैते मन्त्राः—
पृथिवीसमं तस्य तेऽग्निरुपद्रष्टर्चस्ते महिमा दत्तस्याऽप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितॄणां क्षेष्ठा अमुत्राऽमुष्मिन् लोक इति । अन्तरिक्षसमं तस्य ते वायुरुपश्रोता यजूंषि ते महिमा दत्तस्याऽप्रमादाय, पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहानां क्षेष्ठा अमुत्राऽमुष्मिन् लोक इति । द्यौसमं तस्य त आदित्योऽनुख्याता सामानि ते महिमा दत्तस्याऽप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा प्रपितामहानां क्षेष्ठा अमुत्राऽमुष्मिन् लोक इति ॥ १२ ॥
इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने चतुर्दशः खण्डः ।
अनु०—इसके बाद निम्नलिखित मन्त्रों का जप करे तुम पृथिवी के समान व्यापक हो, अग्नि तुमको देखता है, ऋचा तुम्हारी महिमा है, दिये गये दान के व्यर्थ न होने के लिए पृथिवी तुम्हारा पात्र है, आकाश आवरण है, मैं तुम्हें ब्रह्म के मुख में
२१ बौ० ध०
२७४ बौधायन-धर्मसूत्रम् [ श्राद्धविधिः
हवन करता हूँ मैं तुम्हें विद्वान ब्राह्मणों के प्राण और अपान में हवन करता हूँ, तुम अविनश्वर हो, तुम उस लोक में पितरों के पास पहुंचने में कभी विफल नहीं होते । तुम अन्तरिक्ष के समान हो, वायु तुम्हें सुनता है, यजुस मन्त्र तुम्हारी महिमा हैं... तुम द्युलोक के समान हो, सूर्य हो, सूर्य तुम्हें प्रकट करता है, साम तुम्हारी महिमा है...॥ १२ ॥
एते त्रयो मन्त्राः पृथिव्यन्तरिक्षद्युक्रमाः । लोकानां तावन्महिमा एष वेदितव्यः । यदेतद्धीयतेऽन्नं तदामन्त्र्यते । पृथिव्या समं तस्यैवंविधस्य तव अग्निरुपद्रष्टा साक्षिभूतः एवमुपश्रोता अनुख्यातेति च । ऋचस्ते महिमा महत्त्वम् । एवमुपासनया दत्तास्याऽन्नस्याऽप्रमादो भवति । पृथिव्येव तव पात्रं आधारः द्यौरेवाऽपिधानं ब्रह्मणा ब्राह्मणस्य मुखे त्वा जुहोमि । ब्राह्मणानामित्यादि जुहोमीत्यन्तं प्रतिपत्तिमात्रम् । अक्षितमसि मा क्षेष्ठाः क्षयं मा गाः पित्रादीनां परस्मिन् लोके ॥ १२ ॥
पञ्चदशः खण्डः
अथवै भवति ॥ १ ॥
अग्नौ करणशेषेण तदन्नमभिघारयेत् ।
निरङ्गुष्ठं तु यद्दत्तं न तत्प्रीणाति वै पितॄन् ॥ २ ॥
**अनु०—**अथवा यह इस प्रकार भी किया जाता है । अग्नि में हवन के बाद अवशिष्ट उस अन्न को अंगूठे से फेंके । जो अन्न बिना अंगूठे से स्पर्श किए हुए दिया जाता है वह पितृजनों को प्रसन्न नहीं करता ॥ १-२ ॥
हस्ताङ्गुष्ठेनाऽभिमर्शनमुक्तम् । तदभावे निन्दैषा ॥ १,२ ॥
उभयोश्शाखयोर्मुक्तं पितृभ्योऽन्नं निवेदितम् ।
$^१$तदन्तरमुपासन्तेऽसुरा वै दुष्टचेतसः ॥ ३ ॥
**अनु०—**पितरों के लिए जो अन्न दोनों हाथों से नहीं दिया जाता उसे दुष्ट असुर बीच में ही खा लेते हैं ॥ ३ ॥
सव्येन पाणिना भोजनपात्रमुपस्पृश्यैव भुञ्जीतेत्येतदनेन विधीयते । शाखयोः हस्तयोः ॥ ३ ॥
१. तदन्तरमुपासन्ते असुरा दुष्टचेतस. इति. क. पु.
पञ्चदशः खण्डः ] द्वितीयप्रश्ने अष्टमोऽध्यायः २७५
यातुधानाः पिशाचाश्च प्रतिलुम्पन्ति तद्धविः ।
तिलदाने ह्यदायादास्तथा क्रोधवशेऽसुराः ॥ ४ ॥
अनु०—भोजन के स्थान पर तथा आसनों पर तिल न बिखरने पर उस हवि को यातुधान और पिशाच, जिनका कोई अंश नहीं होता, छीन लेते हैं और श्राद्ध-कर्ता के क्रोध में आने पर उस हवि को असुर ले लेते हैं ॥ ४ ॥
भोजनस्थानेष्वासनेषु च तिलविकिरणस्याऽक्रोधस्य च प्रशंसैषा ॥ ४ ॥
काषायवासा यान्कुरुते जपहोमप्रतिग्रहान् ।
न तद्देवगमं भवति हव्यकव्येषु यद्धविः ॥ ५ ॥
अनु०—लाल या काषाय वस्त्र धारण कर मनुष्य जो प्रार्थनाएं या होम करता है अथवा जो दान लेता है, वह देवों के समीप नहीं पहुँचता उसी प्रकार उसके द्वारा यज्ञ में दी गयी हवि भी देवों को नहीं मिलती ॥ ५ ॥
टि०—तात्पर्य यह है कि देवकार्य और पितृकर्म में यजमान को श्वेत वस्त्र ही धारण करना चाहिए। गोविन्द के अनुसार काषाय वस्त्र धारण करने वाले संन्यासियों को भी पितृकर्म के अवसर पर निमन्त्रित नहीं करना चाहिए।
दैवे कर्मणि पित्र्ये च काषायवासोनिषेधः श्वेतवाससा भवितव्यमिति विधानार्थम्। किञ्च—काषायवाससो यतीश्वराः। तेऽपि पित्र्ये दैवे कर्मणि च जपहोमप्रतिग्रहान् कुर्वते। तद्देवगमं पितृगमं च न भवतीति शेषः। हव्यं देवदैवत्यं कव्यं पितृदैवत्यम् ॥ ५ ॥
यच्च दत्तमनाङ्गुष्ठं यच्चैव प्रतिगृह्यते ।
आचामति च यस्तिष्ठन् न स तेन समृध्यत इति ॥ ६ ॥
अनु०—जो दान अंगूठे से स्पर्श किये बिना दिया जाता है और जो दान अंगूठे से स्पर्श के बिना ग्रहण किया जाता है और जो आचमन खड़े होकर किया जाता है उससे कर्ता को कोई फल नहीं प्राप्त होता—वह लाभान्वित नहीं होता है ॥ ६ ॥
प्रदानप्रतिग्रहयोरङ्गुष्ठस्याऽबहिर्भावार्थः, तिष्ठतः आचमननिषेधार्थश्चाऽयं श्लोकः ॥ ६ ॥
आद्यन्तयोरपां प्रदानं सर्वत्र ॥ ७ ॥
अनु०—दान में आरम्भ और अन्त में सर्वत्र जलदान करना चाहिए ॥ ७ ॥
सर्वत्र दाने श्रद्धानेनाऽऽदावन्ते च जलदानं कर्त्तव्यम्। तथा च गौतमः—'भिक्षादानमत्पूर्वम्। ददातिषु चैवं धर्म्येषु' इति ॥ ७ ॥
| २७६ | बौधायन-धर्मसूत्रम् | [ श्राद्धविधिः |
|---|
जयप्रभृति यथाविधानम् ॥ ८ ॥
अनु०--जय प्रभृति दाविहोम की उत्तरवर्ती क्रियाएं पूर्वक करे ॥ ८ ॥
दार्बिहोमिकमुत्तरतन्त्रं कर्तव्यमित्यर्थः ॥ ८ ॥
शेषमुक्तमष्टकाहोमे ॥ ९ ॥
अनु०--शेष नियमो का विवेचन अष्टका होम के संबन्ध में किया गया है ॥ ९॥
इतोऽधिकमष्टकाहोमादवगमयितव्यम् । 'आशयेष्वन्नशेषान् सम्प्रकिरन्ति' इत्यादि । अनेनैतत् ज्ञापितं भवति—मासिश्राद्धस्यैवेदं प्रयोगान्तरमिति ॥ ९॥
¹द्वौ देवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ १० ॥
अनु०—देवकार्य में दो ब्राह्मणों को, पितृकर्म में तीन ब्राह्मणों को अथवा इन दोनों कर्मों में एक-एक ब्राह्मण को भोजन करावे अधिक समृद्ध होने पर भी इनसे अधिक संख्या में ब्राह्मणों को भोजन कराने की ओर प्रवृत्त न होवे ॥ १० ॥
देवे वैश्वदेवे ॥ १० ॥
इतरथा दोषमाह—
²सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान्विस्तरो हन्ति तस्मात्तं परिवर्जयेत् ॥ ११ ॥
अनु०—अधिक संख्या में ब्राह्मणों को भोजन कराने पर इन पाँचों का विनाश होता है—सत्कार, देश और समय के औचित्य का, पवित्रता का तथा योग्य ब्राह्मणों की उपलब्धि का। अतः ब्राह्मणों की संख्या के विस्तार का परित्याग करना चाहिए ॥ ११ ॥
कारुण्यात् स्नेहात् लोकगर्हाभयाद्वा श्राद्धविस्तरे प्रसक्ते सति प्रतिषेधः ॥ ११ ॥
उरस्तः पितरस्तस्य वामतश्च पितामहाः ।
दक्षिणतः प्रपितामहाः पृष्ठतः पिण्डतर्कका इति ॥ १२ ॥
इति द्वितीयप्रश्ने पञ्चदशः खण्डः ॥
अनु०—सामने की ओर से उसके पितृगण, बाएं की ओर से पितामह, दाहिने से
१ See. मनु. ३. १२५.
२. See. मनु. ३. १२६.
षोडशः खण्डः ] द्वितीयप्रश्ने नवमोऽध्यायः २७७
प्रपितामह और पीछे से पिण्ड की इच्छा करने वाले मातामहादि (पिण्ड ग्रहण करते हैं) ॥ १२ ॥
श्रद्धासञ्जननार्थवादः। पिण्डतर्ककाः पिण्डचिन्तकाः मातामहादयः॥१२॥
इति श्रीगोविन्दस्वामिकृते बौधायनधर्मविवरणे द्वितीयप्रश्नेऽष्टमोऽध्यायः।
द्वितीयप्रश्ने नवमोऽध्यायः
षोडशः खण्डः
औरसेन हि पुत्रेणर्णापाकरणं भवति । तत्तत्प्रशंसार्थमाह—
प्रजाकामस्योपदेशः ॥ १ ॥
अनु०—अब उत्तम पुत्र चाहने वाले के लिए उपदेश दिया जाता है ॥१॥
प्रजा सत्पुत्रः, तत्कामस्योपदेशः करिष्यते ॥ १ ॥
प्रजनननिमित्ता समाख्येत्यश्विनावूचतुः ॥ २ ॥
अनु०—पुत्र उत्पन्न करने से ही प्रसिद्धि मिलती है ऐसा अश्विन देवों ने कहा है ॥ २ ॥
प्रजननमुत्पादनं तन्निमित्ता पुत्र इति समाख्या प्रसिद्धिरित्यर्थः । न तु दानादिनिमित्ता पुत्रसमाख्या । अतो दत्तादिरत्रप्रतिनिधिः । तत्रैते ऋचौ भवतः-‘परिषद्वां ह्यररणस्य रेक्णो’ ‘न हि प्रभायारणस्सुशेवः’ इति ॥
प्रजाकामस्योपदेश इत्युक्तम् । कोऽसावुपदेश इत्याह—
आयुषा तपसा युक्तस्स्वाध्यायेज्यापरायणः ।
प्रजामुत्पादयेद्युक्तस्स्वे स्वे वंशे जितेन्द्रियः ॥ ३ ॥
अनु०—आयु और तप की वृद्धि करने वाली क्रियाएं कर, स्वाध्याय और यज्ञ में तत्पर होकर तथा अपनी इन्द्रियों को वश में रखकर विधिपूर्वक अपने ही वंश में सन्तान उत्पन्न करे ॥ ३ ॥
टि०—'अपने ही वंश में' से तात्पर्य यह है कि अपने ही वर्ण की स्त्री से । 'जितेन्द्रिय' से यहाँ जननेन्द्रिय के संयम का संकेत किया गया है, अर्थात् पर स्त्री से व्यभिचार न करे और अपनी पत्नी से भी उचित काल में ही सम्बन्ध रखे ।
| २७८ | बौधायन-धर्मसूत्रम् | [ ऋणापाकरणम् |
|---|
आयुश्शब्देन तत्करणं लक्ष्यते। तच्च विधिवत्सन्ध्योपासनं विप्रापवादा- भाव इत्यादि। आह च— ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः। आयुर्विप्रापवादेन सन्ध्यावन्दनहानतः॥ अतिथिपूजाहानाच्च नश्यत्यायुरपि ध्रुवम्। नाधितिष्ठेत केशांस्तु न भस्मास्थिकपालकान्। न कार्पासास्थि न तुषान् दीर्घमायुर्जिजीविषुः॥ इति ॥
तथा— न हीदृशमनायुष्यं लोके किञ्चन विद्यते। यादृशं पुरुषस्येह परदारोपसेवनम्॥ लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः। स विनाशं व्रजत्याशु सूचकोऽशुचिरेव ॥
इत्येवमादि द्रष्टव्यम्। तपो दानम् । 'एतत्खलु वाव तप इत्याहुर्यत्सर्वं ददातीति' इति श्रुतेः। वक्ष्यमाणं वा ब्रह्मचर्यादि। स्वाध्यायेज्ये तु प्रसिद्धे एव। स्वे इति स्वे स्वे वर्णे ब्राह्मणो ब्राह्मण्यामित्यादि। इन्द्रियमिहोपस्थमभि- प्रेतं पुत्रकारणत्वात्। तज्जयः परदारादिवर्जनम्, स्वदारेष्वप्यकालवर्जनं च। एते प्रजोत्पत्त्युपायाः यथाविधानं क्रियमाणाः प्रजोत्पत्त्युपाया भवन्तीत्य- भिप्रायः॥ ३ ॥
ब्राह्मणस्यर्णसंयोगस्त्रिभिर्भवति जन्मतः। तानि मुच्याऽऽत्मवान् भवति विमुक्तो धर्मसंशयात् ॥ ४ ॥
**अनु०—**ब्राह्मण जन्म से ही तीन प्रकार के ऋणों से युक्त होता है। उन ऋणों को चुकाकर वह धर्म के आचरण विषयक संशय से मुक्त हो जाता है॥ ४॥
ब्राह्मणग्रहणात् स्वमूलश्रुतिप्रमाणं द्रष्टव्यम् । त्रिभिः अवश्यकर्तव्यैरिति शेषः। जन्म उपनयनं ततः प्रभृति ऋणवान् भवति। ततः प्राक् शूद्रसमत्वात्। तानि कर्माणि ऋणानि विमुच्य यथाविधि सम्पाद्य आत्मवान् स्वतन्त्रो भवति। यस्मादयं धर्मसंशयात् किमेतानि यथावत् सम्पादयितुं शक्ष्यामो न वेत्येवंरूपसंशयाद्विमुक्तो भवति ॥ ४ ॥
केन कर्मणा तदृणमपाक्रियत इत्याह—
'स्वाध्यायेन ऋषीन् पूज्य सोमेन च पुरन्दरम् । प्रजया च पितॄन्पूर्वाननृणो दिवि मोदते ॥ ५ ॥
१. cf. मनु. ३. ८१.
षोडशः खण्डः ] द्वितीयप्रश्ने नवमोऽध्यायः २७९
अनु०—वेद के स्वाध्याय द्वारा ऋषियों की पूजा कर, सोमयज्ञ के सम्पादन से इन्द्र की पूजा कर, प्रजा उत्पन्न कर अपने पूर्वज पितरों को प्रसन्न कर वह ऋणों से मुक्त हो स्वर्ग में सुख प्राप्त करता है ॥ ५ ॥
सोमेन सोमयागेन ॥ ५ ॥
आयुषा युक्तः प्रजामुत्पादयेदित्य उक्तम् । तत्राह— 'पुत्रेण लोकान् जयति^२ पौत्रेणाऽमृतमश्नुते । अथ पुत्रस्य पौत्रेण नाकमेवाऽधिरोहतीति ॥ ६ ॥
अनु०—पुत्र की उत्पत्ति से पुरुष इन लोकों को जीत लेता है, पौत्र के माध्यम से अमृत प्राप्त करता है, और पुत्र के पौत्र को देखकर वह परम स्वर्ग ही प्राप्त करता है, ऐसा श्रुति में कहा गया है ॥ ६ ॥
पुत्रेण दृष्टेन । तत्पुत्रेण तत्पौत्रेण इत्यत्रापि दृष्टेनेति शेषः । अमृतं देवैस्सा- युज्यम् । नाकं कमिति सुखम्, तदभावो दुःखम् । एतत्प्रतिषिध्यते । दुःखाननु- विद्धं सुखं ब्रह्मणः पदमिति यावत् । 'दिवि मोदते' इति सिद्धे पुनरुपादानं बहुपुत्रोत्पादनार्थम् । यथाहः पौराणिकाः—
एष्टव्या बहवः पुत्राः यद्येकोऽपि गयां व्रजेत् । ^३यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ इति ॥ ६ ॥
अथेदानीं ऋणसंयोगतदपाकरणे श्रुतिप्रमाणं इत्याह—
विज्ञायते च—^४'जायमानो वै ब्राह्मणस्त्रिभिर् ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । एवमृणसंयोगं वेदो दर्शयति ॥ ७ ॥
अनु०—वेद के अन्तर्गत कहा गया है कि जन्म से ही ब्राह्मण तीन प्रकार के ऋणों से युक्त होकर उत्पन्न होता है, ऋषियों के लिए ब्रह्मचर्य के ऋण से, देवों के लिए यज्ञ के ऋण से तथा पुत्रोत्पत्ति के लिए पितरों के ऋण से ऋणी होता है । इस प्रकार वेद ने भी ऋणों का संयोग दिखाया है ॥ ७ ॥
तदपाकरणं चेति शेषः ॥ ७ ॥
१. cf. मनु. ९. १३७.
२. ह्यानन्त्यमश्नुते. इति. आ. इ. ग. पुस्तकेषु, मनावपि ॥
३. गौरीं वा वरयेत्कन्याम् इति घ. पु.
४. See. तै. सं. ६. ३. ११.
| २८० | बौधायन-धर्मसूत्रम् | [ ऋणापाकरणम् |
|---|
किञ्च— सत्पुत्रमुत्पाद्याऽऽत्मानं तारयति ॥ ८ ॥
अनु०— उत्तम आचरण वाला पुत्र उत्पन्न कर पुरुष अपनी रक्षा करता है॥८॥
सत्पुत्रस्साधुपुत्रः अध्ययनविज्ञानानुष्ठानसम्पन्नो यथा भवति तथोत्पादनीयः पुत्र इत्यर्थः । ‘अनुशिष्टं लोक्यं पुत्रमाहुः तस्मादेनमनुशास्ति’ इति श्रुतेः ॥ ८ ॥
इदं चाऽन्यत्— सप्ताऽवरान् सप्त पूर्वान् षडन्यानात्मसप्तमान् । सत्पुत्रमधिगच्छानः तारयत्येनसो भयात् ॥ ९ ॥
अनु०— उत्तम पुत्र प्राप्त करने वाला पुरुष अपने बाद के सात पीढ़ी के पुरुषों को, अपने पूर्व के सात पुरुषों को, दोनों ओर छः अन्य पुरुषों को तथा सातवें स्वयं को पाप के भय से मुक्त कर देता है ॥ ९ ॥
अधिगच्छानः प्राप्नुवानः सप्तपूर्वापरान्नात्मपञ्चदशान् एनसस्तारयतीति सम्बन्धः । अन्यानसत्पुत्रानौरसानधिगच्छानः त्रीन् प्राचस्त्रांन् प्रतीचः आत्मसप्तमान् तारयति ॥ ९ ॥
तस्मात्प्रजासन्तानमुत्पाद्य फलं प्राप्नोति ॥ १० ॥
अनु०— अतएव पुत्र उत्पन्न कर वह फल प्राप्त करता है ॥ १० ॥
तस्माद्यत्नवान् प्रजामुत्पादयेत् ॥ ११ ॥
अनु०— इसलिए यत्नपूर्वक पुत्र उत्पन्न करे ॥ ११ ॥
औषधमन्त्रसंयोगेन ॥ १२ ॥
अनु०— इसके लिए औषध तथा मन्त्रों की सहायता ले ॥ १२ ॥
ओषधिसंयोगेन हि प्रजा भवति, शुक्रपानां क्रिमीणामपनयनात् । तथा मन्त्रसंयोगेनाऽपि रक्षःपिशाचाद्यपनयनात् । ‘तस्माद्यत्नवान् प्रजामुत्पादयेत्’ इत्यस्य विस्तरः ॥ १०–१२ ॥
न चैतावता— या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥
इत्येवमाशङ्कनीयमित्याह— तस्योपदेशः श्रुतिसामान्येनोपदिश्यते ॥ १३ ॥
सप्तदशः खण्डः] द्वितीयप्रश्ने दशमोऽध्यायः २८१
अनु०—उस (पुत्रोत्पत्ति के इच्छुक) व्यक्ति के लिए उपदेश श्रुति के वचनों के अनुसार ही दिया गया है ॥ १३ ॥
तस्य प्रजोत्पादने यत्नवतः औषधाद्युपदेशोऽस्माभिरुपदिश्यते । केन मूलज्ञानेनेति ? श्रुतिसामान्येन श्रुतेस्समानभावस्तुल्यता ऐकरूप्यं श्रुतिसामान्यं तेन । किमुक्तं भवति ? प्रजामुत्पादयेदित्यस्याः श्रुतेः पुत्रकामेष्ट्याः, औषध-मन्त्रादिषु चैकरूपेणाऽऽपेक्षितत्वादिति ॥ १३ ॥
इदानीमृणश्रुतौ ब्राह्मणग्रहणं क्षत्रियवैश्ययोरपि प्रदर्शनार्थमेतदित्याह— सर्ववर्णेभ्यः फलवत्त्वादिति फलवत्त्वादिति ॥ १४ ॥
इति बोधायनीये धर्मसूत्रे द्वितीयप्रश्ने षोडशः खण्डः ॥
अनु०--क्योंकि यह सभी वर्णों के प्रयोजन सिद्ध करने से फल प्रदान करता है ॥ १४ ॥
फलवत्त्वात् प्रयोजनवत्त्वात् । फलमिहोपनयनस्याऽध्ययनम्, तच्च वेदार्थ-ज्ञानाद्युपयुक्तत्वात् त्रैवर्णिकानामित्यर्थः । यद्वा—फलवत्त्वात् औषधमन्त्रा-देरपि ॥ १४ ॥
इति श्रीगोविन्दस्वामिकृते बौधायनीयधर्मविवरणे द्वितीयप्रश्ने नवमोऽध्यायः ॥
द्वितीयप्रश्ने दशमोऽध्यायः
सप्तदशः खण्डः
अथाऽतस्सन्न्यासविधिं व्याख्यास्यामः ॥ १ ॥
अनु०—अब हम यहाँ से संन्यास के नियमों की व्याख्या करेंगे ॥ १ ॥
सम्यक् न्यासः प्रतिग्रहाणां सन्न्यासः । विधिर्विधानमितिकर्तव्यता ॥ १ ॥
सोऽत एव ब्रह्मचर्यवान् प्रव्रजतीत्येकेषाम् ॥ २ ॥
अनु०—कुछ आचार्यों का मत है कि ब्रह्मचर्याश्रम समाप्त करने के बाद ही संन्यास ग्रहण किया जा सकता है ॥ २ ॥
टि०—गर्भाधानादि संस्कार से संस्कृत, वेदाध्ययन से सम्पन्न, ब्रह्मचर्यव्रत के नियमों का पालन कर गृहस्थाश्रम में प्रवेश करने योग्य व्यक्ति भी संन्यास आश्रम में प्रवेश कर सकता है यह विचार इस कारण है कि ब्रह्मचर्याश्रम में ब्रह्म के विषय
| २८२ | बौधायन-धर्मसूत्रम् | [ संन्यासविधिः |
|---|
में ज्ञान प्राप्त कर, नियमों के आचरण से संयमित इन्द्रियों वाला व्यक्ति ही संन्यास के योग्य हो सकता है, अन्य नहीं ।
प्रव्रजन का तात्पर्य है प्रकर्षरूप से जाना, अर्थात् पुनः न लौटने के लिये जाना।
स इति सर्वनाम्ना निर्दिश्यते । स च गर्भाधानादिसंस्कारैस्संस्कृतः अधीतवेदः चीर्णव्रतो गृहस्थाश्रमप्राप्तियोग्यो गृह्यते । तत्राऽपि दृष्टानुश्रविक-विषयवितृष्णस्य ब्रह्मविदो ब्रह्मचर्यादेव सन्न्यासेऽधिकारो नाऽन्यस्य । इदम्परं तस्य विशेषणं ब्रह्मचर्यवानिति । अतश्च विप्लुतब्रह्मचर्यस्याऽपि चरितनि-र्वेशस्य गृहस्थसन्न्यासवनाश्रमाधिकारः । प्रव्रजति प्रकर्षेण व्रजति न प्रत्याव-र्तते इत्यर्थः । तत्र दोषमाह—
चाण्डालाः प्रत्यवसिताः परिव्राजकतापसाः ।
तेषां जातान्यपत्यानि चाण्डालैस्सह वासयेत् ॥
संवासात्तत्र प्रायश्चित्तं संवर्त आह—
सन्न्यस्य दुर्मतिः कश्चित्प्रत्यापत्तिं व्रजेत्तु यः ।
स कुर्यात्कृच्छ्रमश्रान्तं षाण्मासात्प्रत्यनन्तरम् ॥ इति ।
एतदेकेषां मतम् ॥ २ ॥
अथ परेषामाह—
अथ शालीनयायावराणामनपत्यानाम् ॥ ३ ॥
अनु०—कुछ अन्य आचार्यों का मत है कि संन्यास उन शालीन और यायावर गृहस्थों के लिए है जिनके सन्तान नहीं हो ॥ ३ ॥
टि०—शालीन और यायावर आगे तृतीय प्रश्न के प्रथम अध्याय में स्पष्ट किया गया है।
शालीनयायावरा इति च गृहस्थानामेव केनचिद्वृत्तिविशेषेण संज्ञामुत्तर-स्मिन्नध्याये वक्ष्यति । अनपत्याश्चेदेतेऽपि प्रव्रजेयुः ॥ ३ ॥
एवमथ सापत्यानामपि—
विधुरो वा ॥ ४ ॥
अनु०—अथवा विधुर पुरुष संन्यास ग्रहण करे ॥ ४ ॥
स्वस्मिन् सञ्जात इति शेषः । विधुरो मृतभार्यः भार्यान्तरोपादानासमर्थश्च गृह्यते ॥ ४ ॥
साम्प्रतमविधुरस्याऽपि सापत्यस्याऽऽह—
प्रजाः स्वधर्मे प्रतिष्ठाप्य वा ॥ ५ ॥
सप्तदशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः २८३
अनु०—अथवा अपने पुत्रों को भलीभाँति अपने धर्म में लगाकर संन्यास ग्रहण करे ॥ ५ ॥
स्वयमसमर्थस्याऽग्निहोत्रादिषु समर्थापत्यस्याऽधिकारः ॥ ५ ॥
अयमपरः कालनियमः पूर्वैस्समुच्चीयते विकल्पार्थो वैराग्यापेक्षया—
सप्तत्या ऊर्ध्वं सन्न्यासमुपदिशन्ति ॥ ६ ॥
अनु०—अथवा सत्तर वर्ष की अवस्था के बाद संन्यास ग्रहण करने का उपदेश देते हैं ॥ ६ ॥
प्रायशस्सप्तत्या ऊर्ध्वमेव भार्यान्निवृत्तरजस्का गार्हस्थ्यधर्मानुष्ठानासामर्थ्यं वा भवतीति मत्वोक्तं सप्तत्या ऊर्ध्वमिति ॥ ६ ॥
वानप्रस्थस्य वा कर्मविरामे ॥ ७ ॥
अनु०—अथवा वानप्रस्थ अपने सभी विहित कर्मों को पूरा करके संन्यास ग्रहण करे ॥ ७ ॥
विरामोऽवसानम् । असामर्थ्यमाश्रमविहितधर्मानुष्ठाने । अस्यामवस्थायां प्रव्रज्याऽप्रव्रज्य वा वानप्रस्थेनाऽपि ध्यानपरायणेन भवितव्यं वानप्रस्थान्तरेभ्य एव भैक्षमाददानेन । उक्तावस्थान्यतिरिक्तावस्थासु कृतोऽपि संन्यासोऽकृत एव भवति ॥ ७ ॥
सम्प्रत्युक्तलक्षणानामप्यनात्मविदां संन्यासाधिकाराभावं दर्शयितुमृचं पठति—
^१एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् ।
तस्यैवाऽऽत्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेनेति ॥ ८ ॥
अनु०—ब्रह्म की यह शाश्वत महिमा कर्मों के करने से न तो बढ़ती है और न घटती है। आत्मा ब्रह्म के माहात्म्य को जानती है और इस कारण जो ऐसा जानता है, वह पाप कर्मों से युक्त नहीं होता ॥ ८ ॥
सैषाऽऽश्रमचातुर्विध्यप्रस्तावेऽस्माभिर्व्याख्याता । तं विदित्वेत्येतदत्रोपयुज्यते ॥ ८ ॥
अस्यामृचि नित्यो महिमेति पदद्वयमस्ति । तत्तावदुपपादयति—
अपुनर्भवं नयतीति नित्यः ॥ ९ ॥
अनु०—यह पुनर्जन्म को समाप्त कर देता है ॥ ९ ॥
१. See. तै. ब्रा. ३. १२. ९.
२८४ बौधायन-धर्मसूत्रम् [ संन्यासविधिः
पुनर्भवः पुनर्जन्म तदभावं नयतीति नित्यः, पदविन्यासेनेत्यर्थः ॥ ९ ॥
'महदेनं गमयतीति महिमा ॥ १० ॥
अनु०— यह मनुष्य को महान् महिमा के स्थान पर पहुँचाता है ॥ १० ॥
स्पष्टार्थमेतत् ॥ १० ॥
विधिं व्याख्यास्याम इत्युक्तं, तमाह—
केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते ॥ ११ ॥
अनु०— केश, दाढ़ी, मूंछ, शरीर के रोम तथा नखों को काटकर संन्यास के लिए तैयारी करे ॥ ११ ॥
पूर्वाह्ने वपनं कृत्वा अपराह्ने उपकल्पयते आर्जयति ॥ ११ ॥
यष्ट्यशिक्यं जलपवित्रं कमण्डलुं पात्रमिति ॥ १२ ॥
अनु०— दण्ड, शिक्य (रस्सी से बना हुआ भिक्षापात्र लटकाने का छीका) जल छानने के लिए वस्त्र, कमण्डलु तथा भिक्षापात्र—
यष्टयो दण्डाः द्वितीयार्थे प्रथमा । शिक्यं रज्जुनिर्मितं भिक्षापात्रधारणम् । जलपवित्रं आचमनार्थोदकस्य पावनहेतुभूतं वस्त्रम् । तच्चाऽभिनवं केशादिरहितं च द्विगुणं त्रिगुणं वाऽष्टाङ्गुलं प्रादेशमात्रं भवति । उक्तः कमण्डलुः । पात्रं भैक्षाचरणार्थम् । तत्र विकल्पः--'अलाबुं दारुपात्रं वा मृन्मयं वैणवं तथा' इति । इति शब्दः पादुकाद्युपलक्षार्थः । तथा हि—
पादुकामजिनं छत्रं तथा सूत्रमुपानहौ ।
सूचीपल्लववल्कं च त्रिविष्टब्धं कमण्डलुम् ॥
विस्रमासोऽन्यतमाभावेऽपि दोषाभावख्यापनार्थः ॥ १२ ॥
एतत्समादाय ग्रामान्ते ग्रामसीमान्तेऽग्न्यगारे वाऽऽज्यं पयो दधीति त्रिवृत्प्राश्योपवसेदपो वा ॥ १३ ॥
अनु०— इन उपकरणों को लेकर गाँव के छोर पर, या ग्राम की सीमा के अन्त स्थान को जाकर अथवा जिस भवन में अग्नि का आधान किया गया हो उसमें जाकर घृत, दूध और दही तीनों के मिश्रण का भक्षण करे और उसके बाद उपवास करे, अथवा जल पी सकता है ॥ १३ ॥
टि०— 'यष्ट्यशिक्यम्' आदि सूत्र के अन्त में 'इति' शब्द से गोविन्द स्वामी
१. "महत्वं गमयति" क. ख. ग. पु.
सप्तदशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः २८५
ने यह अर्थ किया है कि पादुका भी ग्रहण करे। घृत, दूध, दधि के मिश्रण का भक्षण करे अथवा जल का पान करे, इस विषय में विकल्प के नियम का निर्बंध है।
आपरिसमाप्तेर्न भुञ्जीत । अपां त्रिवृता सह विकल्पस्सम्भवापेक्षः ॥ १३ ॥
तस्य प्राशनमन्त्रः— ओं भूर्सावित्रीं¹ प्रविशामि तत्सवितुर्वरेण्यम् । ओं भुवस्सावित्रीं प्रविशामि भर्गो देवस्य धीमहि । ओं३ँसुवस्सावित्रीं प्रविशामि धियो यो नः प्रचोदयादिति । पच्छोऽर्धर्चशतस्तस्समस्तया च व्यस्तया च ॥ १४ ॥
अनु०—निम्नलिखित मन्त्रों से प्राशन करे— ओं भूर्सावित्रीं प्रविशामि तत्सवितुर्वरेण्यम् । ओं भुवस्सावित्रीं प्रविशामि भर्गो देवस्य धीमहि । ओ३ँसुवस्सावित्रीं प्रविशामि धियो यो नः प्रचोदयात् ।
इस प्रकार प्रणव और व्याहृति के साथ सावित्री के प्रत्येक पाद का अलग-अलग तथा प्रत्येक अर्धर्च का पृथक्-पृथक् तथा सम्पूर्ण का एक साथ और अलग-अलग उच्चारण करे ॥ १४ ॥
पच्छः प्रणवव्याहृतिसावित्रीपादः सावित्र्याः विहरणमेतदित्यर्थः । अर्धर्चशतस्तस्समस्तया च व्यस्तया च । अर्धर्चशः सावित्र्याः प्रणवव्याहृत्योर्विहरेत् । ततस्समस्तयाऽनयोन्र्मुच्चरितया ता एव विहरेत् । व्यस्तया पच्छोऽन्ते विरम्योच्चरितया विहरेत् ॥ १४ ॥
एवमात्मानमात्मना— ²आश्रमादाश्रममुपनीय ब्रह्मपूतो भवतीति विज्ञायते ॥ १५ ॥
अनु०—एक आश्रम से दूसरे आश्रम में प्रवेश करते हुए पुरुष ब्रह्म के साथ एक हो जाता है, ऐसा वेद में कहा गया है ॥ १५ ॥
³आश्रमान्तरमितिबचनात्त्रिवृत्प्राशनेनैव संन्यासः कृत इत्येतदेकीयं दर्शनम् ॥ १५ ॥
१. 'प्रवेशयामि' इति घ. पुस्तक एव पाठः ।
२. आश्रमादाश्रममुपनीय ब्रह्मभूतः इति क. पु. एवमाक्षमा......ब्रह्मभूत इति, घ. पु. 'ब्रह्मभूतो ब्रह्मपूतः' इति स्मृतिमुक्ताफले ।
३. 'आश्रममुपनीय' इत्येव सर्वत्र सूत्रपाठः ॥ आश्रमान्तरमिति तु न कुत्राऽपि ।
| २८६ | बौधायन-धर्मसूत्रम् | [ संन्यासविधिः |
|---|
अथाऽपरेषाम्—
अथाऽप्युदाहरन्ति —
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
भिक्षावलिपरिश्रान्तः पश्चाद्भवति भिक्षुक इति ॥ १६ ॥
**अनु०—**उस सम्बन्ध से निम्नलिखित पद्य उद्धृत करते हैं—
जिसने एक आश्रम से दूसरे आश्रम में प्रवेश किया है, हवन किया है और जितेन्द्रिय है, वह भिक्षा और बलि अर्पित करने से श्रान्त होकर स्वयं भिक्षुक अर्थात् संन्यासी बन जाता है ॥ १६ ॥
न केवलं त्रिवृत्प्राशनादेव भिक्षुकः । किं तर्हि ? वक्ष्यमाणैर्होमादिभिरपि । भिक्षुकः इति 'संज्ञायां कन्' इति कन्प्रत्ययः ॥ १६ ॥
स एष भिक्षुरानन्त्याय ॥ १७ ॥
**अनु०—**इस प्रकार का संन्यासी ब्रह्म के साथ सायुज्य प्राप्त करता है ॥ १७ ॥
अनन्त एवाऽऽनन्त्यम् , स चाऽऽत्मा तद्भावाय भवतीत्यर्थः ॥ १७ ॥
हुतहोम इत्युक्तम् , तदिदानीं प्रपञ्चयति—
पुराऽऽदित्यस्याऽस्तमयाद्गार्हपत्यमुपसमाधायाऽन्वाहार्यपचनमा-
हृत्य ज्वलन्तमाहवनीयमुद्धृत्य गार्हपत्ये आज्यं विलाप्योत्पूय स्रुचि
चतुर्गृहीतं गृहीत्वा 'समिद्धत्याऽऽहवनीये पूर्णाहुतिं जुहोति 'ओं स्वाहे'-
ति ॥ १८ ॥
**अनु०—**सूर्य के अस्त होने से पहले गार्हपत्य अग्नि प्रज्वलित करे, उस स्थान पर अन्वाहारपचन अग्नि लाकर जलते हुए आहवनीय अग्नि को निकाल कर गार्हपत्य अग्नि में घृत को पिघलावे, उसे ( कुश से ) शुद्ध करे स्रुक् से उसमें से चार बार अंश ग्रहण करे और समिध् रखकर प्रज्वलित किये गये आहवनीय अग्नि पर चार बार 'ओं स्वाहा' कहते हुए पूर्णाहुति करे ॥ १८ ॥
नाऽत्र तिरोहितं किञ्चिदस्ति ॥ १८ ॥
एतद्ब्रह्मान्वाधानमिति विज्ञायते ॥ १९ ॥
**अनु०—**इसी क्रिया को वेद में ब्रह्मान्वाधान कहते हैं ॥ १९ ॥
१ सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि । सप्तहोत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन .। (तै०सं० १. ५. ३. २.) इति समिद्धती ॥
सप्तदशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः. २८७
यथा ¹दर्शपूर्णमासयोरन्वाधानं तथैतदपि ब्रह्मप्रवेशस्य ॥ १९ ॥
अथ सायं हुतेऽग्निहोत्र उत्तरेण गार्हपत्यं तृणानि संस्तीर्य तेषु द्वन्द्वं न्यञ्चि पात्राणि सादयित्वा दक्षिणेनाऽऽहवनीयं ब्रह्मायतने दर्भान् संस्तीर्य तेषु कृष्णाजिनं चाऽन्तर्धायैतां रात्रिं जागर्ति ॥२०॥
**अनु०—**सायंकाल अग्निहोत्र हवन करने के बाद गार्हपत्य अग्नि के उत्तर तृणों को बिखेर कर उन पर जोड़ों में तथा उलट कर पात्रों को रखे, आहवनीय अग्नि के दक्षिण ब्रह्मान् नाम के ऋत्विज् के बैठने के स्थान पर कुशों को बिखरे, उसे काले मृग चर्म से ढंके और उस रात जागता रहे ॥ २० ॥
आहवनीयशब्दः परिगृहीताग्निपरिग्रहार्थः। तेनौपासनाग्निकेनाऽपि तत्संन्निकाश इदं कर्तव्यम्। जागर्ति बुध्यते। एषा हि ब्रह्मरात्रिः। अन्यदसंवृतम् ॥ २० ॥
य एवं विद्वान् ब्रह्मरात्रिमुपोष्याऽग्नीन् समारोप्य प्रमीयते सर्वं पाप्मानं तरति तरति ब्रह्महत्याम् ॥ २१ ॥
**अनु०—**इस प्रकार जानने वाला जो ब्राह्मण ब्रह्मरात्रि में उपवास करने के बाद अपने में पवित्र अग्नियों को धारण किए हुए मृत्यु को प्राप्त करता है, वह सभी पापों से ब्रह्महत्या के पाप से भी मुक्त हो जाता है ॥ २१ ॥
अग्नीन् समारोप्य आत्मनीति शेषः। वक्ष्यमाणस्याऽऽत्मसमारोपणस्याऽस्मिन्नप्यवसरे पाठोऽस्मिन्नपि क्रमेऽग्निसमारोपणाभ्यनुज्ञानार्थः। एतदवस्थापन्नस्य मृतस्याऽऽश्रमफलावाप्तिर्भवतीत्यभिप्रायः ॥ २१ ॥
अथ ब्राह्मे मुहूर्त उत्थाय काले एव प्रातरग्निहोत्रं जुहुयात् ॥ २२ ॥
**अनु०—**ब्राह्म मुहूर्त में उठकर उचित समय पर प्रातःकालीन अग्निहोत्र हवन करे ॥ २२ ॥
रात्रेः पश्चिमो यामः पञ्चघटिकावशेषो ब्राह्मो मुहूर्तः। उषःप्रभृत्योदयादित्येके। तत्र शक्त्यपेक्षो विकल्पः। कालग्रहणं उपोदयाभ्युषितोदयकालानां यस्य योऽङ्गीकृतः कालस्तत्प्रदर्शनार्थम् ॥ २२ ॥
१. दर्शपूर्णमासारम्भेऽग्निविहरणानन्तरं अन्वाधानं नाम विहृतेष्वग्निषु काष्ठाधानं विहितम्। तच्च “ममाग्ने वर्चः” इत्यादिमन्त्रैः कर्तव्यम्। तच्च श्वो यक्ष्यमाणानां देवतानां परिग्रहार्थम्।
| २८८ | बौधायन-धर्मसूत्रम् | [ संन्यासविधिः |
|---|
अथ पृष्ठ्याँस्तीर्त्वाऽपः प्रणीय वैश्वानरं द्वादशकपालं नि 'पति सा प्रसिद्धेष्टिसन्तिष्ठते ॥ २३ ॥
अनु०—इसके उपरान्त वेदी के पृष्ठ्या नाम के भाग को ढंक कर जल लाकर अग्नि वैश्वानर के लिए द्वादश कपालों में चरु तैयार करे । यह प्रसिद्ध इष्टि ही अन्तिम इष्टि है ॥ २३ ॥
अग्निर्वैश्वानरो देवता अस्य । औपासननिष्ठ आत्मसमारोपञ्चेत् तद्देवत्यश्चरुः । अन्यत्प्रसिद्धम् ॥ २३ ॥
आहवनीयेऽग्निहोत्रपात्राणि प्रक्षिपेदमृन्मया^१न्यनायसानि ॥ २४ ॥
अनु०—अग्निहोत्र के उन पात्रों को जो मिट्टी या पत्थर के न हों, आहवनीय अग्नि में डाले ॥ २४ ॥
उत्तरत्र मन्त्रविधानात् तूष्णीमेवाऽत्र प्रक्षेपः ॥ २४ ॥
गार्हपत्ये अरणी^२ "भवतं नस्समनसा" विति ॥ २५ ॥
अनु०—'भवतं नस्समनसो' (तुम हमारे मन के साथ एक होओ) कहते हुए दोनों अरणियों को गार्हपत्य अग्नि में डाले ॥ २५ ॥
प्रक्षीपतीत्यनुवर्तते ॥ २५ ॥
अथाऽऽत्मन्यग्नीन् समारोपयते "^३या ते अग्ने यज्ञिया तनू" रिति त्रिस्त्रिरेकैकं समाजिघ्रति ॥ २६ ॥
अनु०—अपने में पवित्र अग्नियों का समारोपण करे और 'या ते अग्ने यज्ञिया तनू ।' कहते हुए तीनों अग्नियों के धुएं को तीन-तीन बार खींचे ॥ २६ ॥
एकैकमग्नि सभ्यावसथ्यावपि यदि विद्येते, तथा औपासनमपि । जिघ्रतिः गन्धोपादाने वर्तते । ततश्च धूमायमाने नाग्नेराघ्राणं कर्तव्यमिति गम्यते । सर्वत्राऽयमात्मसमारोपणप्रकारः ॥ २६ ॥
अथाऽन्तर्वेदि तिष्ठन् ओं भूर्भुवस्सुवः संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुपांशुक्त्वा त्रिरुच्चैः ॥ २७ ॥
अनु०—तब यज्ञवेदि के भीतर खड़े होकर तीन बार मन्द स्वर से तथा तीन बार उच्च स्वर से कहे 'ओं भुर्भुवस्सुवः संन्यस्तं मया' ( मैंने संन्यास आश्रम में प्रवेश किया ) ॰॰॰॥ २७ ॥
१. अनश्ममयानि, इति सर्वत्र पाठः ।
२. भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञं हिंसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः ॥ (तै० सं० १. ३. ७.)
३. तैत्तिरीयादौ श्रूयमाणमिदं वाक्यम् ॥ तै. सं. ६. ३. १०. १.
सप्तदशः खण्डः] द्वितीयप्रश्ने दशमोऽध्यायः २८९
ब्रूयादिति वाक्यसमाप्तिः। संन्यस्तं त्यक्तम् ॥ २७ ॥
'त्रिषत्या हि देवा इति विज्ञायते ॥ २८ ॥
अनु०—वेद में कहा गया है कि देवता तीन बार कहने पर सत्य मानते हैं॥२८॥
त्रिषत्याः। सुषामदिषु पाठात् षत्वम्। देवा हि सकृद्द्विर्वोक्तावनृतमिति मन्वते, अनृतसम्मित्ता मनुष्याः' इति श्रुतेः। त्रिरुक्तैः प्रतियन्ति श्रद्दधति॥२८॥
“अभयं सर्वभूतेभ्यो मत्तः” इति चाऽपां पूर्णमञ्जलिं निनयति ॥२९॥
अनु०—'मुझसे सभी जीवित प्राणियों को अभय हो' ऐसा कहते हुए जल से पूरी अंजली भरकर गिराए ॥ २९ ॥
अस्मत्तः निर्भयानि भूतानि सन्त्विति मन्त्रार्थः। अपां पूर्णः अद्भिः पूर्णः। अञ्जलिः द्विहस्तसंयोगः ॥ २९ ॥
अथाऽप्युदाहरन्ति— अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः। न तस्य सर्वभूतेभ्यो भयं चाऽपि ह जायते इति ॥ ३० ॥
अनु०—इस सन्दर्भ में भी निम्नलिखित उद्धृत करते हैं— जो संन्यासी सभी प्राणियों को अभय प्रदान कर विचरण करता है, उसे भी किसी प्राणी से कोई भय नहीं होता ॥ ३० ॥
अभयदानप्रशंसैषा एतदन्तश्च संन्यासविधिः। ये पुनरनग्नयो विधुरादयः तेषामप्युपकल्पनप्रभृति दानान्तः प्रयोगोऽग्निकार्यरहितो द्रष्टव्यः ॥ ३० ॥
संन्यासाश्रमधर्मविधानायोत्तरः प्रपञ्चः— स वाचंयमो भवति ॥ ३१ ॥
अनु०—इसके बाद वाणी पर नियन्त्रण रखे ॥ ३१ ॥
य एवं कृतसंन्यासः स वाचंयमस्स्यात् आत्यन्तिकमेतद् व्रतमन्यत्र स्वाध्यायान्मन्त्रोच्चारणाच्च। उक्तं च—'स्वाध्याय एवोत्सृजमानो वाचम्' इति ॥ ३१ ॥
'सखा मे गोपाये' ति दण्डमादत्ते^२ “यदस्य पारे रजस” इति
१. या ते अग्ने यज्ञिया तनूस्तयेह्यारोह ॥ इति समग्रो मन्त्रः ॥
२. यदस्य पारे रजसश्शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषोजने वैश्वानर स्वाहा ॥ ( तै. सं. ४. २. ५. २. )
२२ बौ०ध०
| २९० | बौधायनधर्मसूत्रम् | [ संन्यासविधिः |
|---|
शिक्यं गृह्णाति ^१"येन देवाः पवित्रेणे" ति जलपवित्रं गृह्णाति^२ "येन देवा ज्योतिषोर्ध्वा उदाय'न्निति कमण्डलुं गृह्णाति सप्तव्याहृतिभिः पात्रं गृह्णाति ॥ ३२ ॥
अनु०—'सखा मे गोपाय' ( तुम मेरे मित्र हो रक्षा करो ) ऐसा कहते हुए दण्ड ग्रहण करे । 'यदस्य पारे रजसः' मन्त्र का पाठ कर शिक्य ग्रहण करे । 'येन देवा पवित्रेण' कहकर जल छानने का पवित्र ग्रहण करे । 'येन देवा ज्योतिषोर्ध्वा उदायन्' मन्त्र कहकर कमण्डलु ग्रहण करे तथा सात व्याहृतियों का उच्चारण कर भिक्षा पात्र ग्रहण करे ॥ ३२ ॥
टि०—'यदस्य पारे रजसः' मन्त्र तैत्तिरीय संहिता ४. २. ५. २. का है । 'येन देवाः पवित्रेणाऽऽत्मानं पुनते सदा । तेन सह्र सुधारेण पावमान्यः पुनन्तु मा । तैत्तिरीय ब्राह्मण १. ४. ८ का तथा 'येन देवा ज्योतिषोर्ध्वा उदायन् येनाऽऽदित्या वसवो येव रुद्राः । येनाऽङ्गिरसो महिमानमानशुस्तेनैतु यजमानस्स्वस्ति ।' तैत्तिरीय संहिता ५. ७. २. २ का मन्त्र है ।
अविरोहितमेतत् ॥ ३२ ॥
यष्ट्यशिक्यं जलपवित्रं कमण्डलुं पात्रमित्येतत्समादाय, यत्राऽऽपस्तद्गत्वा स्नात्वाऽप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वाऽन्तर्जलगत्तोऽघमर्षणेन षोडश प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत् प्रयतं वासः परिधायाऽप आचम्यों भूर्भुवस्सुवरिति जलपवित्रमादाय तर्पयति—ॐ भूर्स्तर्पयाम्यों भुवस्तर्पयाम्योँ सुवस्तर्पयाम्यों महस्तर्पयाम्यों जनस्तर्पयाम्योँ तपस्तर्पयाम्यों सत्यं तर्पयामीति ॥ ३३ ॥
**अनु०—**अपने साथ दण्ड, शिक्य, जलपवित्र, कमण्डलु, भिक्षापात्र लेकर जहाँ जल हो वहाँ जाकर स्नान करे, जल से आचमन करे, सुरभिमती, जलदेवता, वरुण देवता के हिरण्य वर्ण और पवमान मन्त्रों से स्नान करे, जल के भीतर प्रवेश कर
१. येन देवाः पवित्रेणाऽऽत्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु मा ॥ ( तै. ब्रा. १. ४. ८. )
२. येन देवा ज्योतिषोर्ध्वा उदायन् येनाऽऽदित्या वसवो येन रुद्राः । येनाऽङ्गिरसो महिमानमानशुस्तेनैतु यजमानस्स्वस्ति ॥ ( तै. सं. ५. ७. २. २. )