बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
सप्तमः खण्डः ] प्रथमप्रश्ने चतुर्थोऽध्यायः ४५
सप्तमः खण्डः ] प्रथमप्रश्ने चतुर्थोऽध्यायः ४५
मूत्रोत्सर्गादेरनियतकालत्वात् ॥ ७ ॥
पदमपि न गच्छेदिषुमात्रादित्येके ॥ ८ ॥
यदिच्छेदधर्मसन्ततिमिति बौधायनः ॥ ६ ॥
अनु०—कुछ आचार्यों का मत है कि कमण्डलु के बिना बाण की दूरी से एक पद भी आगे नहीं जाना चाहिए ॥ ८ ॥
अनुं०—बौधायन का मत है कि यदि अपने धर्म का अनवरत पालन करता रहनी चाहे तो कमण्डलु के बिना कहीं न जाये ॥ ९ ॥
सन्ततिरविच्छेदः ॥ ९ ॥
ऋग्विधमृग्विधानं वाग्वदति ऋग्विधमृग्विधानं वाग्वदति ॥ १० ॥
अनु०—इस विषय में वाक् (ब्राह्मण ग्रन्थ) के अनुसार एक ऋचा भी (कमण्डलुविषयक नियम की) पुष्टि करती है ॥ १० ॥
टि०—गोविन्द स्वामी ने वाक् का अर्थ ब्राह्मण किया है और इस सन्दर्भ में “तस्यैषा भवति । यत्ते शिल्पं कश्यपरोचनावत्” उद्धृत किया है।
संभवतः कमण्डलु की शुद्धि-अशुद्धि एवं धार्मिक कर्मों के लिए उसकी उपयोगिता पर इस धर्मसूत्र में अन्य धर्मसूत्रों की अपेक्षा अधिक सामग्री प्रस्तुत की गयी।
वागिति ब्राह्मणमुच्यते । अस्मिन्नर्थे ऋगप्यस्तीति ब्राह्मणमाहेत्यर्थः । स यथा—'तस्यैषा भवति । यत्ते शिल्पं कश्यप रोचनावत्' इति ॥ १० ॥
इति प्रथमप्रश्ने चतुर्थाध्याये सप्तमः खण्डः
प्रथमप्रश्ने पञ्चमाध्याये अष्टमः खण्डः
कमण्डलुशौचप्रसङ्गेनाऽन्यद्रव्यविषयमपि शौचमारभ्यते—
अथाऽतश्शौचाधिष्ठानम् ॥ १ ॥
अनु०—अब शुद्धि के दूसरे कारणों या साधनों का वर्णन किया जाता है ॥ १ ॥
अधिष्ठानं निधानं कारणमित्यनर्थान्तरम् । शोध्यद्रव्यं वा ॥ १ ॥
अद्भिश्शुद्ध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुध्यति ।
अहिंसया च भूतात्मा मनस्सत्येन शुध्यतीति ॥ २ ॥
अनु०—जल से शरीर शुद्ध होता है, बुद्धि ज्ञान से शुद्ध होती है; अहिंसा से भूतात्मा पवित्र होता है और मन सत्य से शुद्ध होता है ॥ २ ॥
४६ बौधायन-धर्मसूत्रम् [ शौचविधिः
टि०—वाणी, मन और शरीर से प्राणियों को दुःख न देना अहिंसा है; कर्मों के कर्त्ता को भूतात्मा कहा जाता है। मन सङ्कल्प विकल्पात्मक है और सत्य से तात्पर्य है यथाभूतार्थ वचन । —गोविन्द स्वामी ।
अद्ग्रहणं मृदादीनामप्युपलक्षणार्थम् । गात्रग्रहणं पार्थिवद्रव्यान्तरप्रदर्शनार्थम् । बुद्धिरन्तरात्मा । सा च व्यवसायात्मिका । ज्ञानं तत्त्वावबोधः । तस्मिन् सति रागादिक्षयादन्तरात्मा शुद्धो भवति । वाङ्मनःकायैर्भूतानां दुःखस्याऽनुत्पादनं अहिंसा, तया च भूतात्मा शुध्यति । स पुनः कर्मणां कर्ता । आह च मनुः— यः करोति कर्माणि स भूतात्मोच्यते बुधैः । इति ॥ सङ्कल्पविकल्पात्मकं मन इत्युच्यते । सत्यं तु यथाभूतार्थवचनम् ॥ २ ॥ एवं च सति—
मनश्शुद्धिरन्तश्शौचम् ॥ ३ ॥
अनु०—मन की शुद्धि को आन्तरिक शौच कहा जाता है ॥ ३ ॥
तत्र ज्ञानेन सत्येन या शुद्धिरुक्ता तदन्तश्शौचमिति वेदितव्यम् । अन्यद्बहिश्शौचम् ॥ ३ ॥
तदेव तावद्याख्यास्यामः—
बहिश्शौचं व्याख्यास्यामः ॥ ४ ॥
अनु०—अब बाह्य शौच की व्याख्या की जायगी ॥ ४ ॥
टि०—इस प्रकार शौच या शुद्धि दो प्रकार की है: आभ्यन्तर या आन्तरिक तथा बाह्य शौच ।
विविधाऽऽख्या विस्तर इत्यर्थः ॥ ४ ॥
बाह्यस्याऽचेतनस्य गात्रादेरशुचिभावे पुरुषस्याऽप्यशुचित्वं भवतीति तदर्थं बाह्यशौचमारभ्यते । अद्भिरेवाऽऽचमनं क्रियत इति तदेव प्रथममारभ्यते—
कौशं सौत्रं वा त्रित्रिवृद्यज्ञोपवीतमानाभेर्दक्षिणं बाहुमुद्धृत्य सव्यमवधाय शिरोऽवदध्यात् ॥ ५ ॥
अनु०--यज्ञोपवीत कुश का बना हो, अथवा सूत का बना हो, और तीन बार त्रिगुण किया गया हो। नाभि के ऊपर तक, दाहिनी भुजा को ऊपर उठाकर, बायीं भुजा को नीचे करके तथा सिर को नीचे करके यज्ञोपवीत धारण करे ॥ ५ ॥
टि०—यज्ञोपवीत उपर्युक्त विधि से इन अवसरों पर अवश्य धारण करे। गुरुओं,
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ४७
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ४७
वृद्धों, अतिथियों की पूजा, होम, जप कर्म, भोजन, आचमन तथा स्वाध्याय। इसके विपरीत विधि से प्राचीनावीत होता है जिसका उल्लेख अगले सूत्र में किया गया है।
कुशविकारः कौशम्; सूत्रस्य विकारः, सौत्रम्। तच्च सूत्रं कार्पासमयम्। त्रिरिति क्रियाभ्यावृत्तिगणने सुच् भवतीति। त्रिवृदिति च त्रिगुणं भवति। एतदुक्तं भवति- नवकृत्वस्संपादयेदिति। यज्ञार्थमुपवीतं उपव्यानं विन्यासविशेषः। यज्ञग्रहणं गुरुपासनादेरपि प्रदर्शनार्थम्। तथा चाऽऽपस्तम्बः—'उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्' इति। आनाभेः, आङ्मर्यादायाम्, ऊर्ध्वं नाभेरेरित्यर्थः। दक्षिणं बाहुमवधाय बाहोरधस्तात्कृत्वा शिरोऽवदध्यात् दक्षिणं बाहुं शिरश्चोपरि गृह्णीयादित्यर्थः। तथा च श्रुतिः—'दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम्' इति च ॥ ५ ॥
विपरीतं पितृभ्यः ॥ ६ ॥
अनु०—इसके विपरीत ( दाहिनी भुजा को नीचे करके बायीं को ऊपर उठाकर तथा सिर नीचे करके ) पितृकर्म में धारण किया जाय ॥ ६ ॥
दक्षिणबाहुमधस्तात्कृत्त्वा सव्यं बाहुमुत्थाय शिरोऽवदध्यात्। श्रुतिरपि 'एतदेव विपरीतं प्राचीनावीतम्' इति। पितॄनुद्दिश्य यत्क्रियते तत्रतद्भवति ॥ ६ ॥
कण्ठेऽवसक्तं निवीतम् ॥ ७ ॥
अनु०—यदि यज्ञसूत्र कण्ठ में ही लटकाकर धारण किया जाय तो निवीत कहलाता है ॥ ७ ॥
मनुष्याणां भवति। ऋषीणामित्येवेदमुक्तं भवति ॥ ७ ॥
अधोऽवसक्तमधोवीतम् ॥ ८ ॥
अनु०—यदि यज्ञसूत्र नाभि से नीचे लटका कर धारण किया जाय तो अधोवीत कहलाता है ॥ ८ ॥
नाभेरधोऽवसक्तमधःक्षिप्तमधोवीतं भवति। एतदेव 'संवीतं मानुषम्' इति चोच्यते। मनुष्यकार्येषु कर्तव्यम्, तानि चाऽञ्जनाभ्यञ्जनोद्वर्तनादीनि ॥ ८ ॥ आचमनादिशौचाङ्गतया यज्ञोपवीतमुक्तम्। इदानीं तदेव शौचमाह—
प्राङ्मुख उदङ्मुखो वाऽऽसीनश्शौचमारभेत। शुचौ देशे दक्षिणं बाहुं जान्वन्तरा कृत्वा प्रक्षाल्य पादौ पाणी चाऽऽमणिबन्धात् ॥ ९ ॥
अनु०—शौच का कर्म पूर्व की ओर मुख करके अथवा उत्तर की ओर मुख
| ४८ | बौधायन-धर्मसूत्रम् | [ शौचविधिः |
|---|
करके पवित्र स्थान पर बैठकर करे। दाहिनी बाहु को दोनों घुटनों के बीच रखते हुए पैरों को धोवे और फिर मणिबन्धन तक दोनों हाथों को धोवे ॥ ९ ॥
**टि०—**गोविन्द स्वामी के अनुसार सूत्र में प्रयुक्त 'च' शब्द से मूत्रादि से अपवित्र बने शरीर के अन्य अंगों के प्रक्षालन का नियम भी इस सूत्र द्वारा निर्दिष्ट है।
शौचमिहाऽऽचमनमभिप्रेतम् । शुचावित्येव सिद्धे देशग्रहणं पादुकादावारूढेनाऽऽचमनं न कर्तव्यमिति बोधयितुम । अनेकपुरुषोन्नाय्योदे । आसीनग्रहणं शयनादिनिवृत्त्यर्थम् । प्रक्षाल्य पाणी पादौ चेति चशब्दान्मूत्राद्युपहतं गात्रान्तरमपि प्रक्षालयेति गम्यते ॥ ९ ॥
पादप्रक्षालनोच्छेषणेन नाऽऽचामेद्यद्याचामेद् भूमौ स्रावयित्वाऽऽचामेत् ॥ १० ॥
**अनु०—**पैर धोने के बाद बचे हुए जल से आचमन न करे। यदि आचमन करना ही हो तो उसमें से कुछ जल भूमि पर गिराकर तब अवशिष्ट जल से आचमन करे ॥ १० ॥
यत्पात्रस्थोदकेन पादप्रक्षालनं कृतं तदवशिष्टं पादप्रक्षालनोच्छेषणं तेनाऽऽचमनं न कार्यम् । अन्यस्याऽसम्भवे तेनाऽपि यद्याचामेद्भूभौ स्रावयित्वाऽऽचामेत् । तस्माद्भूभौ किञ्चिदुदकं विस्राव्याऽऽचमनं कार्यम् ॥ १० ॥
आचमन एव पाण्यवयवविशेषविधित्सयाऽऽह—
ब्राह्मेण तीर्थेनाऽऽचामेत् ॥ ११ ॥
**अनु०—**ब्राह्म तीर्थ से आचमन करे ॥ ११ ॥
किं तद्ब्राह्मं तीर्थम् ?
अङ्गुष्ठमूलं ब्राह्मं तीर्थम् ॥ १२ ॥
**अनु०—**अंगूठे के मूल भाग को ब्राह्म तीर्थ कहते हैं ॥ १२ ॥
तस्याऽङ्गुष्ठमूलस्योत्तरतो मेखला ॥ २१ ॥ १
एतत्प्रसङ्गात्पितृतर्पणाद्यर्थमन्यान्यपि तीर्थान्याह—
अङ्गुष्ठाग्रं पित्र्यमङ्गुल्यग्रं दैवमङ्गुलिमूलमार्षम् ॥ १३ ॥
**अनु०—**अंगूठे के अग्र भाग को पित्र्य तीर्थ, अङ्गुलियों के अग्रभाग को देवतीर्थ तथा अङ्गुलियों के मूल भाग को आर्ष तीर्थ कहते हैं ॥ १३ ॥
१. इतः सूत्रान्तरं पुस्तकान्तरेषु ।
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ४९
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ४९
.अङ्गुल्यङ्गुष्ठयोर्मध्यं पित्र्यम् । तथा च वसिष्ठः-‘प्रदेशिन्यङ्गुष्ठयोरन्तरे पित्र्यम्’ इति । ऋज्वन्यत् ॥ १३ ॥
इदानीमाचमन एव किञ्चित्पर्युदस्यति—
नाङ्गुलीभिर्न संबुद्बुधं सफेनाभिर्नोष्णाभिर्न क्षाराभिर्न लवणाभिर्न कटुकाभिर्न कलुषाभिर्न विवर्णाभिर्न दुर्गन्धरसामिः ॥ १४ ॥
**अनु०—**अङ्गुलियों से निकले हुए, बुल-बुले से युक्त, फेन वाले, गरम किये गये, किसी अन्य वस्तु को मिलाकर क्षार बनाये गये, नमक से युक्त, कड़वे, गन्दे, बदले हुए रंग वाले, दुर्गन्ध वाले जल से आचमन न करे ॥ १४ ॥
**टि०—**गोविन्द स्वामी के अनुसार यदि ये दोष स्वभावतः आये हों तो वह जल अयोग्य नहीं होता, उदाहरण के लिए सूर्य की किरणों द्वारा उष्ण बना जल, स्वभाव से खारा जल, वर्षा के कारण गन्दा बना जल, आचमन के लिए अयोग्य नहीं माना जाता ।
अङ्गुलोत्स्राविताभिः अद्भर्नाऽऽचामेत् इति सम्बन्धः । बुद्बुदः स्फोटः । सफेनाः सडिण्डीराः । उष्णाभिः अग्निना, नाऽऽदित्यरश्मिभिः । क्षाराश्च द्रव्यानन्तरसंक्रमणात्, न स्वभावतः । कालुष्यमपि कारणान्तरेण, न वर्षादिना । विवर्णत्वमपि तथा, न तु भूगुणेन ॥ १४ ॥
अथाऽऽचमन एव कर्तुरवस्थाः पर्युदस्यन्ते—
न हसन्न जल्पन्न तिष्ठन्न विलोकयन्न प्रह्वो न प्रणतो न मुक्तशिखो न प्रावृतकण्ठो न वेष्टितशिरा न त्वरमाणो नाऽयज्ञोपवीतो न प्रसारितपादो नाऽऽबद्धकक्ष्यो न बहिर्जानुः शब्दमकुर्वन् त्रिरापो हृदयंगमाः पिबेत् ॥ १५ ॥
**अनु०—**हँसते हुए आचमन न करे, बोलते हुए आचमन न करे, खड़े होकर न करे, चारो ओर देखते हुए न करे, सिर या शरीर को झुकाए हुए आचमन न करे, शिखा खोल कर अथवा कण्ठ को वस्त्र से ढककर आचमन न करे, सिर को आच्छादित करके आचमन न करे, जल्दीबाजी में, यज्ञोपवीती हुए बिना, पैरों को फैलाकर, कटि को वस्त्र से बाँधे हुए, दाहिने हाथ को घुटनों से बाहर किये हुए आचमन न करे, कोई शब्द किये बिना तीन बार इस प्रकार जल पिये जो जल हृदय तक पहुँचे ॥ १५ ॥
प्रह्वः अधोमुखः । प्रणतो वक्रकायः । ननु ‘आसीनश्शौचमारभेत’ इत्युक्तम् किमिति तिष्ठतः प्रतिषेधः ? उच्यते—तत्र उपवीतसाहचर्यादासनयोगविधानं
७ बौ० ध०
| ५० | बौधायन-धर्मसूत्रम् | [ आचमनविधिः |
|---|
त्रैवर्णिकाधिकारं स्यात् । ततश्च स्त्रीशूद्राणां स्थानादियोगिनामप्याचमनं प्राप्येत, तन्माभूदिति पुनर्ग्रहणम् । अथ वा अत्यन्तापदि तत्प्रह्रताभ्यनुज्ञानाय । यद्वा—हसनजल्पनादिप्रतिषेधार्थं दृष्टान्तत्वेनोपन्यासः । ‘आबद्धकक्ष्यः कृतासनबन्धः’ बहिर्जानुः जान्वोर्बहिर्गतदक्षिणबाहुः । यथा च गोतमः—‘दक्षिणं बाहुं जान्वन्तरा कृत्वा’ इति । त्रिःपाने क्रियमाणे एकैकस्यामावृत्तौ हृदयङ्गमाभिरद्भिर्भवितव्यम् , ततश्च पाणिपूरणोदकेन पानं कार्यम् । अन्यदतिरोहितम् ॥ १५ ॥
'त्रिः परिमृजेद् द्विरित्येके ॥ १६ ॥
**अनु०—**तीन बार ( मुख से बाहर निकले हुए जल को ) पोंछे । कुछ आचार्यों का मत है कि केवल दो बार परिमार्जन करे ॥ १६ ॥
आस्यात् बहिर्भूतमुदकं त्रिः परिमृजेत्, द्विरित्येके । परिमार्जन एव द्विरभ्यासो न पानेऽपि । उत्तरत उभयग्रहणात् ॥ १६ ॥
^२सकृदुभयं स्त्रियाश्शूद्रस्य च ॥ १७ ॥
**अनु०—**स्त्री और शूद्र आचमनार्थ जल का पान तथा परिमार्जन केवल एक-एक बार ही करे ॥ १७ ॥
उभयं पानं मार्जनं च स्त्रीशूद्रयोरसकृत्सकृत् ॥ १७ ॥
अथाऽप्युदाहरन्ति— ^३गताभिर्हृदयं विप्रः कण्ठगाभिः क्षत्रियश्शुचिः । वैश्योऽद्भिः प्राशिताभिस्स्यात् स्त्रीशूद्रौ स्पृश्य चान्तत इति ॥ १८ ॥
**अनु०—**इस विषय में धर्मशास्त्रज्ञ निम्नलिखित पद्य उद्धृत करते हैं—ब्राह्मण हृदय तक पहुँचे हुए जल से शुद्ध होता है, क्षत्रिय कण्ठ तक पहुँचे हुए जल से । वैश्य मुख में पहुँचे हुए जल से शुद्ध होता है । स्त्री और शूद्र ओष्ठ से ही जल स्पर्श कर पवित्र हो जाते हैं ॥ १८ ॥
१. त्रिरोष्ठौ परिमृजेत् द्विरित्येक इत्यापस्तम्बः ( आप०ध० १. १५. ३. ४ ) एवं चोष्ठस्यैव परिमार्जनं कण्ठतो वदति सूत्रकार आपस्तम्बः । अत्र तु व्याख्याता बहिर्भूतस्योदकस्य परिमार्जनस्याऽयं विधिरित्यभिप्रेति ।
२. सकृदुभयं शूद्रस्य स्त्रियाश्च. अ. पु. पा. त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् । शारीरं शौचमिच्छन् हि स्त्री शूद्रस्तु सकृत् सकृत् ॥ इति मनुः (म.५.१३९)
३. हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ इति मनुः ( २. ६२ ) अनेन श्लोकेन साकं सूत्रस्य महत्साद्दश्यमस्त्यवलोकनीयम् ।
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ५१
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ५१
टि०—द्रष्टव्य-मनु०२.६२ हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥
वर्णान्तरस्योदकपरिमाणान्तरविधानादेव हृदयङ्गमविधिर्विप्रस्येति प्राप्ते पुनर्विप्रग्रहणमितरवर्णार्थमनुवादः । हृदयादुपरि कण्ठः । तस्मादुपरि काकलम् । तस्मादुपर्योष्ठमिति प्रतिवर्णं स्थाननिर्देशः । स्त्रीशूद्रयोरप्यास्यप्रक्षेप उदकस्य द्रष्टव्यो न स्पर्शनमात्रम् ॥ १८ ॥
दन्तवद्दन्तसक्तेषु दन्तवत्तेषु धारणा । स्रस्तेषु तेषु नाऽऽचामेत्तेषां संस्राववच्छुचिरिति ॥ १९ ॥
अनु०—दांतों के समान ही दाँतों में लगी जल की बूंदों को दाँतों के समान ही ( शुद्ध ) समझा जाता है । उनके मुख से बाहर निकलने पर आचमन न करे । उनके मुख से निकल जाने से ही शुद्धि हो जाती है ॥ १९ ॥
टि०—द्रष्टव्य, मनु० ५.११ दन्तवद्दन्तलग्नेषु जिह्वास्पर्शं शुचिनं तु । परिच्युतेषु तत्स्थानात् निगिरन्नेव तच्छुचिः ।।
दन्तवद्दन्तसक्तेषु उदकबिन्दुषु । किमुक्तं भवति ? दन्तवत्तेषु धारणा कार्या। बहिर्गतजलस्य परिमार्जनविधानादन्तर्गतस्य दोषाभाव इत्यभिप्रायः । संस्रावः लाला ॥ १९ ॥
अमुमेवाऽर्थं परकीयमतेन द्रढयितुमाह— अथाऽप्युदाहरन्ति—
'दन्तवद्दन्तलग्नेषु यच्चाऽप्यन्तर्मुखे भवेत् । आचान्तस्याऽवशिष्टं स्यान्निगिरन्नेव तच्छुचिरिति ॥ २० ॥
अनु०—इसकी पुष्टि के लिए एक अन्य पद्य उद्धृत करते हैं—दाँतों के समान ही दाँतों में चिपकी हुई वस्तुएं, अथवा जो मुख के भीतर गयी हुई वस्तु होती है, अथवा आचमन के बाद भी जो कुछ जलबिन्दु आदि मुख में अवशिष्ट होता है उसके निगल लेने से ही शुद्धि हो जाती है ॥ २० ॥
आचमनोत्तरकालं यदास्येऽवशिष्टमुपलभ्यते जलावशिष्टमवहार्यं द्रव्यं तन्निगिरन् प्रवेशयन्नेव तच्छुचिः, भवतीति शेषः ॥ २० ॥
१. दन्तवद्दन्तलग्नेषु जिह्वास्पर्शं शुचिनं तु । परिच्युतेषु यत्स्थानात् निगिरन्नेव तच्छुचिः ॥ इति मनुः ( म. ५. १९ )
५२ बौधायन-धर्मसूत्रम् [ शरीरशुद्धिः
तथाऽऽचमने किञ्चिद्विधित्सयाऽऽह—
खान्यद्भिस्संस्पृश्य पादौ नाभिं शिरः सव्यं पाणिमन्ततः ॥ २१ ॥
अनु०—सिर के छिद्रों ( चक्षु आदि इन्द्रियों ) का स्पर्श करके, दोनों पैरों, नाभि, सिर और बायें हाथ का स्पर्श करे ॥ २१ ॥
टि०—किन अङ्गुलियों से किस अंग का स्पर्श करना चाहिए इस संबन्ध में गोविन्द स्वामी ने दो पद्य उद्धृत किये हैं । यह स्पर्शविधि आचमन-नियम का ही अंग है ।
खानि शीर्षण्यानि चक्षुरादीनीन्द्रियाणि । कुतः ? स्मृत्यन्तरदर्शनात् 'ऊर्ध्वं वै पुरुषस्य नाभ्यै' इति वक्ष्यति—
अङ्गुष्ठानामिकाभ्यां तु चक्षुषी समुपस्पृशेत् ।
उभाभ्यां प्रत्येकमिति शेषः । एवमुत्तरत्राऽपि योज्यम् ॥
प्रदेशिन्यङ्गुष्ठाभ्यां तु नासिके समुपस्पृशेत् ॥
कनिष्ठिकाङ्गुष्ठाभ्यां तु श्रवणे समुपस्पृशेत् ।
पादावभ्युक्ष्य सर्वाभिः नाभिमङ्गुष्ठकेन तु ॥
दद्यात्तु मूर्ध्नि सर्वाभिस्सव्ये पाणौ ततो जलम् ॥ इति ॥ २१ ॥
गात्राणां शौचमुक्तम् । सम्प्रति तत्सम्बन्धिनो द्रव्यस्याऽऽह । तत्र यद्द्रव्य-हस्तश्चेदुच्छिष्टो भवति तस्य द्रव्यस्य किं शौचमित्यत आह—
तैजसं चेदादायोच्छिष्टी स्यात्तदुदस्याऽऽचम्याऽऽदास्यन्नद्भिः प्रोक्षेत् ॥ २२ ॥
अनु०—यदि धातु निर्मित पात्र को हाथ में लिये हुए अपवित्र हो जाय तो उसे रखकर आचमन करे, और उसे ग्रहण करते समय उस पर जल छिड़के ॥ २२ ॥
तेजसा हेतुभूतेन यत्क्रियते तत्तैजसं तद्धस्तस्तु उच्छिष्टो भवति, निधाय च तद्द्रव्यमाचम्याऽऽदास्यन् तद्द्रव्यं अद्भिः प्रोक्षेत् । स च तद्द्रव्यं च प्रयतं भवति ॥ २२ ॥
अथ चेदन्नेनोच्छिष्टी स्यात् तदुदस्याऽऽचम्याऽऽदास्यन्नद्भिः प्रोक्षेत् ॥ २३ ॥
अनु०—यदि हाथ में अन्न लिये हुए अशुद्ध हो जाय, तो उसे रखकर आचमन करे और उसे पुनः ग्रहण करते समय उस पर जल छिड़के ॥ २३ ॥
पृथगारम्भस्तैजसेनाऽन्नस्य वैलक्षण्यप्रदर्शनार्थः । पूर्वत्र तैजसहस्तस्याऽ-
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ५३
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ५३
प्रायत्ये संजाते शौचमुक्तम् । इह तु पात्रान्तरान्नहस्तस्य शौचमिति विशेषः । तथा च वसिष्ठः— चरन्नभ्यवहार्येषु उच्छिष्टं यदि संस्पृशेत् । भूमौ निधाय तत्पात्रमाचम्य प्रचरेत्पुनः ॥ इति ॥ २४ ॥
अथ चेदद्भिरुच्छिष्टी स्यात् तदुदस्याचम्यादास्यानद्भिः प्रोक्षेत् ॥ २४ ॥
एतदेव विपरीतममत्रे ॥ २५ ॥
अनु०—यदि हाथ में जल लिये हुए अशुद्ध हो जाय तो उसे रखकर आचमन करे और ग्रहण करते समय जल छिड़के ॥ २४ ॥
अनु०—यह मिट्टी के पात्र के विषय में बताये गये नियम के विपरीत है ॥२५॥
टि०—यहाँ तात्पर्य यह है कि मिट्टी का पात्र यदि अपवित्र हो जाय तो उसे फिर ग्रहण नहीं किया जाता। अन्य प्रकार के पात्रों का पुनः अग्नि से दाह किया जाता है।
अमत्रं मृन्मयपात्रमिहाऽभिप्रेतम् । तस्याऽत्यन्तोपहतस्योद्धसनमात्रमेव नाऽऽदानमित्यर्थः । इतरस्य पुनर्दाह एव ॥ २४-२५ ॥
वानस्पत्ये विकल्पः ॥ २६ ॥
अनु०—लकड़ी के पात्रों के विषय में विकल्प नियम है। (अर्थात् उसका त्याग भी किया जा सकता है और पुनः ग्रहण भी किया जा सकता है) ॥ २६ ॥
वानस्पत्ये वार्क्षे पात्रेऽप्रयते सति ¹आदानमुद्धसनं वा विकल्पः उपहतिविशेषापेक्षया । आचमनं तु स्थितमेव ॥ २६ ॥
पुरुषेण संयुक्तद्रव्यस्याऽप्रायत्ये शौचमुक्तम् । अधुना वियुक्तावस्थायामाह—
²तैजसानामुच्छिष्टानां गोशकृन्मृद्भस्मभिः परिमार्जनमन्यतमेन वा ॥ २७ ॥
अनु०—अशुद्ध हुए धातु के पात्रों को गोबर, मिट्टी, और भस्म से अथवा इनमें से किसी एक से मले ॥ २७ ॥
१. आदानस्य विकल्पः, इति क० पु० २, See. मनु from. ५. ११४ to १२४. कौशेयाविकयोरूषैः कुतपानामरिष्टकैः। श्रीफलैरंशु पट्टानां क्षौमाणां गौरसर्षपैः ॥ क्षौमवच्छङ्खशुक्तीनामश्मिस्यन्दतमयस्य च । शुद्धिविजानता कार्या गोमूत्रेणोदकेन वा ॥ इति स्मृत्यन्तरवचनमेतत्संवादि ।
५४ बौधायन-धर्मसूत्रम् [ द्रव्यशुद्धिः
उपघातापेक्षया द्रव्याणां समुच्चयविकल्पौ द्रष्टव्यौ । उदकं पुनस्सर्वत्रानुवर्तते ॥ २७ ॥
अथ विशिष्टानां तैजसानां शौचान्तरमाह—
ताम्ररजतसुवर्णानामम्लैः ॥ २८ ॥
**अनु०—**तांबे चांदी और सोने के पात्रों के अपवित्र होने पर उनको अम्ल से शुद्ध करे ॥ २८ ॥
परिमार्जनमित्यनुवर्तते । सलेपानामेतत् । निर्लेपानां तु पूर्वोक्तानामन्यतमेनैव । तथा च वसिष्ठः—'अद्भिरेव काञ्चनं पूयते तथा रजतम्' इति ॥ २८ ॥
अमत्राणां दहनम् ॥ २९ ॥
अनु०—( स्पर्श मात्र से दूषित ) मिट्टी के पात्रों का अग्नि पर दाह करने से शुद्धि होती है ॥ २९ ॥
स्पर्शमात्रादुच्छिष्टानां मृन्मयानां पुनर्दाहः शौचमाम्नातम् । अनर्हाप्रायत्ययुक्तस्पर्शे तु प्रोक्षणमेव ॥ २९ ॥
दारवाणां तक्षणम् ॥ ३० ॥
**अनु०—**लकड़ी के बने पात्रों के दूषित होने पर उनको छीलने पर शुद्धि होती है ॥ ३० ॥
शौचमित्यनुवर्तते ॥ ३० ॥
वैणवानां गोमयेन ॥ ३१ ॥
**अनु०—**बाँस से बने हुए उपकरणों की शुद्धि गोबर से होती है ॥ ३१ ॥
परिमार्जनमिति शेषः । विदलादीनामशुचिस्पृष्टानामेतत् ॥ ३१ ॥
फलमयानां गोवालरज्ज्वा ॥ ३२ ॥
**अनु०—**फल ( बिल्व, नारियल आदि ) से बने हुए पात्रों की शुद्धि गौ के केशों से बनी रज्जु से रगड़ने पर होती है ॥ ३२ ॥
बिल्वनालिकेरादिफलविकाराणां गोवालरज्ज्वा । परिमार्जनम् । रज्जुग्रहणं बालबहुत्वोपलक्षणार्थम् । तथा च वसिष्ठः—'गोबालैः ( परिमार्जनं ) फलमयानाम्' ॥ इति ॥ ३२ ॥
कृष्णाजिनानां विल्वतण्डुलैः ॥ ३३ ॥
षष्ठमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ५५
अनु०—काले मृग का चर्म पिसे हुए बिल्व और चावल के लेप द्वारा शुद्ध होता है ॥ ३३ ॥
बिल्वतण्डुलान् पिष्ट्वाऽवलेपनं कार्यमित्यर्थः ॥ ३३ ॥
कुतपानामरिष्टैः ॥ ३४ ॥
अनु०—कुतपानाम के पर्वतीय बकरे के रोम से बनी वस्तुओं की शुद्धि रीठी से होती है ॥ ३४ ॥
कुतपा नाम पर्वतीयच्छागरोमनिर्मिताः कम्बला उच्यन्ते । ¹अरिष्टैः पूय-वृक्षफलैः ॥ ३४ ॥
और्णानामादित्येन ॥ ३५ ॥
अनु०—ऊन के वस्त्रों की शुद्धि सूर्य की किरणों से होती है ॥ ३५ ॥
ऊर्णा अविलोमानि । तद्विकाराणां प्रावरणादीनामादित्यातपेन शुद्धिः ॥३५॥
²क्षौमाणां गौरसर्षपकल्केन ॥ ३६ ॥
अनु०—रेशमी वस्त्रों की शुद्धि पीले सरसों के लेप से होती है ॥ ३६ ॥
क्षुमा अतसी तद्विकाराणाम् ॥ ३६ ॥
मृदा चेलानाम् ॥ ३७ ॥
अनु०—सूती वस्त्रों की शुद्धि मिट्टी से होती है ॥ ३७ ॥
कार्पासमयानां मृदा शुद्धिः ॥ ३७ ॥
चेलवत् चर्मणाम् ॥ ३८ ॥
अनु०—( कृष्णमृग चर्म के अतिरिक्त अन्य ) चर्म से बने वस्त्रादि की शुद्धि भी सूती वस्त्र के समान ही ( मिट्टी से ) होती है ॥ ३८ ॥
कृष्णाजिनव्यतिरिक्तानामिति शेषः ॥ ३८ ॥
³तैजसवदुपलमणीनाम् ॥ ३९ ॥
अनु०—पत्थरों और मणियों की शुद्धि धातुनिर्मित पदार्थों के समान ही ( गोबर, मिट्टी, भस्म से ) होती है ॥ ३९ ॥
१. रीठी इति भाषायाम् ।
२. "गौरसर्षपकल्केन क्षौमजानाम्" इति वसिष्ठः ( व० ३–५० )
३. तैजसवदुपलमणीनां, मणिवच्छङ्खशुक्तीनां, दारुवदस्थ्नां रज्जुविदलचर्मणां चेलवच्छौचम् । इति वसिष्ठः ( व० ३–४९ )
| ५६ | बौधायन-धर्मसूत्रम् | [ द्रव्यशुद्धिः |
|---|
उपलानां मणीनां च गोशकृदादिभिश्शुद्धिः ॥ ३९ ॥
दारुवदस्थ्नाम् ॥ ४० ॥
**अनु०—**अस्थिनिर्मित पदार्थों की शुद्धि काष्ठ की वस्तुओं के समान ही ( छोलकर ) होती है ॥ ४० ॥
तक्षणमित्यर्थः ॥ ४० ॥
क्षौमवच्छङ्खशृङ्गशुक्तिदन्तानाम् ॥ ४१ ॥
**अनु०—**शङ्ख, सींग, सीप और हाथी दाँत की वस्तुओं की शुद्धि रेशमी वस्त्र के समान ( पीले सरसों के लेप द्वारा ) होती है ॥ ४१ ॥
गौरसर्षपकल्केन शौचं कार्यम् ॥ ४१ ॥
पयसा वा ॥ ४२ ॥
**अनु०—**अथवा दूध से धोने से भी उनकी शुद्धि होती है ॥ ४२ ॥
प्रक्षालनमिति शेषः ॥ ४२ ॥
चक्षुर्घाणानुकूल्याद्वा मूत्रपुरीषासृक्शुक्लकुणपस्पृष्टानां पूर्वोक्तानामन्यतमेन त्रस्सप्तकृत्वः परिमार्जनम् ॥ ४३ ॥
**अनु०—**यदि देखने या सूंघने में अनुकूल प्रतीत होते हों तो मूत्र, मल, रक्त, वीर्य, या मृतक शरीर से दूषित पदार्थों को ऊपर बताये गये ( गोबर आदि ) किसी भी पदार्थ से तीन सात-सात बार करके परिमार्जन करे ॥ ४३ ॥
**टि०—**मूत्रादि से शरीरस्थ बारह प्रकार के मलों का उल्लेख है। इनकी गणना गोविन्दस्वामी ने अपनी व्याख्या में की है। यहाँ केवल इन मलों से स्पृष्ट वस्तुओं की शुद्धि का ही नियम दिया गया है।
मूत्रादिग्रहणं द्वादशमलप्रदर्शनार्थम्। तानि च मनुना प्रदर्शितानि—
वसा शुक्रमसृङ्मज्जा मूत्रविट्कर्णविण्णखाः।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥
पूर्वोक्तानां गोशकृदादीनामन्यतमेन शौचम्। एतच्च परिमार्जनं तैजसानामुच्छिष्टमात्रदुष्टानां वेदितव्यम्। परिमार्जनमुल्लेखनं पुनः-करणमिति यथोपघातं कर्तव्यम्। तथा च शङ्खः¹—'कुणपरेतोऽसृङ्मूत्रपुरीषोपहतानां आवर्तनमुल्लेखनं भस्मना परिमार्जनमुत्सर्गः' ॥ इति। अत्राऽऽवर्तनशब्देन पुनः करणमुच्यते। तत्रैवं व्यवस्था—स्पृष्टमात्राणां त्रिसप्तकृत्वः परिमार्जनम्।
१. मुद्रितशङ्खस्मृतौ नास्तीदं वचनम्।
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ५७
अष्टमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ५७
अल्पकालोपहतानामुल्लेखनम् । चिरकालोपहतानामाघर्तनम् । अत्यन्तोपह- तानां त्याग इति ॥ ४३ ॥
अतैजसानामेवंभूतानामुत्सर्गः ॥ ४४ ॥
अनु०— जो वस्तुएं धातुनिर्मित न हों और इस प्रकार मूत्रादि के संसर्ग से अपवित्र हों उनका त्याग कर देना चाहिए ॥ ४४ ॥
एवंभूतानामित्यन्तमलिनानां त्यागः । तेषामेव 'यथासम्भवमुत्सेदनं सन्मात्रच्छेदश्च' इति शङ्खवचनात् ॥ ४४ ॥
वचनाद्यज्ञे चमसपात्राणाम् ॥ ४५ ॥
अनु०— वेद के वचनानुसार यज्ञीय चमसपात्र उच्छिष्ठ दोष से अशुद्ध नहीं होता ॥ ४५ ॥
टि०— ब्यूह्लर के अनुसार इस सूत्र का अर्थ इस प्रकार होगा—चमस आदि पात्रों की यज्ञ में शुद्धि वेदोक्त नियम के अनुसार करनी चाहिए।
चमसानां पात्राणामुच्छिष्टस्पर्शदोषो नाऽस्तीति शेषः । मूत्राद्युपहतानां तु त्याग एव ॥ ४५ ॥
किं तद्वचनमित्यत आह —
न सोमेनोच्छिष्टा भवन्तीति श्रुतिः ॥ ४६ ॥
अनु०— सोम के स्पर्श से ( पुरुष, चमस पात्र या अन्य पात्र ) दूषित नहीं होते हैं, ऐसा श्रुतिवचन है ॥ ४६ ॥
सोमेनोच्छिष्टाः पुरुषास्सोमाश्रमसाश्चाऽन्यानि च पात्राणि उच्छिष्टानि न भवन्तीत्यर्थः ॥ ४६ ॥
इदानीं संक्षिप्याऽऽह—
'कालोऽग्निर्मनसश्शुद्धिरुदकाद्युपलेपनम् ।
अविज्ञातं च भूतानां षड्विधं शौचमुच्यत इति ॥ ४७ ॥
अनु०— समय का बीतना, अग्नि, मन की शुद्धि, जल तथा अन्य उसी प्रकार के द्रव, ( गोबर आदि द्वारा ) लेपन और अशुद्धि का ज्ञान न होना-इन छः प्रकारों से वस्तुओं की शुद्धि बतायी गयी है ॥ ४७ ॥
कालश्चावाशौचादौ शुद्धिसाधनं भवति । तथाऽन्यत्राऽपि तैजसानां
१. श्लोकोऽयं किञ्चिदेवान्यथयितं वासिष्ठे दृश्यते । See व० ध० २३. २७.
५८ बौधायन-धर्मसूत्रम् [ शौचविधिः
पात्राणां मूत्राद्युपहतानां गोमूत्रे सप्तरात्रं परिशयनमिति । अग्निरपि मृन्मयस्य शुद्धिहेतुः । मनसश्शुद्धिरनातङ्कः परितोष इत्यादि । तदपि प्रायश्चित्तादौ सहकारीति । तथा च मनुः—
यस्मिन् कर्मण्यस्य कृते मनसस्स्यादलाघवम् ।
तस्मिन् तावत्तपः कुर्याद्यावत्तुष्टिकारं भवेत् ॥ इति ॥
तथोदकैस्स्वर्णरजतादि शुध्यति । अन्यान्यपि यानि प्रातिस्विकानि शोधकानि कालगोवालबिल्वतण्डुलादीनि तेषामपि स्नानप्रोक्षणप्रक्षालनादिषु यथाद्रव्यं योजनीयम् । तथा भूमेरुपलेपनादि वक्ष्यते । अविज्ञातं च प्रत्यक्षादिना प्रमाणेनाऽनवगतदोषमपि शुध्यति । एवं षड्विधं शौचं भवति ॥ ४७ ॥
अधुनाऽन्यदपि शौचविधौ परकीयमतेन कारणमाह—
अथाऽप्युदाहरन्ति —
कालं देशं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिमवस्थां च विज्ञाय शौचं शौचज्ञः कुशलो धर्मेप्सुः समाचरेत् ॥४८॥
अनु०— इस विषय में धर्मशास्त्रज्ञ निम्नलिखित पद्य भी उद्धृत करते हैं—शुद्धि के नियमों को जानने वाला, बुद्धिमान् तथा धर्माचरण करने के लिए प्रयत्नशील व्यक्ति (अशुद्धि के) समय, स्थान का, अपना, द्रव्य का, द्रव्य के प्रयोजन का, अशुद्धि के कारण तथा अशुद्धि या अशुद्ध वस्तु की स्थिति का भली भाँति विचार कर शौच के नियमों का पालन करता है ॥ ४८ ॥
कालो ग्रीष्मादिः शीतोष्णादिमललक्षणः । देशः कान्तारादिः । द्रव्यं शोध्यं मृन्मयादि । द्रव्यप्रयोजनमुदकाहरणादि । उपपत्तिः न्यायः । अवस्था स्थितिरातुरादिका । चशब्दात् कर्तारमपि ज्ञात्वा, शौचज्ञः मन्वाद्यनेकाविरुद्धशास्त्रार्थज्ञः । कुशलः प्रवीणः ऊहापोहसमर्थः । अस्मिन् कालेऽस्मिन् देशेऽस्य द्रव्यस्याऽस्मै प्रयोजनायाऽस्मात् कारणादस्यामवस्थायामस्य पुरुषस्यैतावच्छौचमिति यो वेद स कुशलः धर्मजिज्ञासुस्समाचरेत् विदध्यात् । एतदन्यत्राऽपि दण्डप्रायश्चित्तादौ द्रष्टव्यम् ॥ ४८ ॥
इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने पञ्चमोऽध्यायः ।
नवमः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः ५९
नवमः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः ५९
प्रथमप्रश्ने षष्ठोऽध्यायः
इदानीं दृष्टदोषाणामपि केषांचिद्द्रव्याणां शौचमापादयितुमाह—
¹'नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् ।
ब्रह्मचारिगतं भैक्षं नित्यं मेध्यमिति श्रुतिः ॥ १ ॥
अनु०—कारु ( कारीगर ) का हाथ नित्य शुद्ध रहता है, विक्रय के लिए फैलायी गयी वस्तु भी सदा शुद्ध होती है, तथा ब्रह्मचारी के हाथ में गया हुआ भिक्षा से प्राप्त अन्न सदैव शुद्ध होता है ऐसी वेद की उक्ति है ॥ १ ॥
हस्तादन्येन पादादिना स्पर्शने दोषः । आपणगतैः विक्रीतुं पण्यं प्रसारितम् । श्रुत्युपन्यासः सामान्यतो दृष्टथा प्रक्षाळनाद्याशङ्कानिवृत्त्यर्थः ॥ १ ॥
किञ्च—
²वत्सः प्रस्नवने मेध्यः शकुनिः फलशातने ।
स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥ २ ॥
अनु०—दूध पेन्हाते समय ( गो को उपस्तृत करते समय ) गाय का बछड़ा शुद्ध होता है, वृक्ष से फल गिरते समय पक्षी पवित्र होता है, संभोग क्रिया के समय स्त्रियाँ पवित्र होती हैं और शिकार में मृग को पकड़ते समय कुत्ता शुद्ध होता है ॥ २ ॥
टि०—इस पद्य का भाव है कि तत्तत् क्रिया में इन प्राणियों के मुख से या श्वास, लार आदि से स्पृष्ट होने पर भी अशुद्धि का दोष नहीं होता । गो के दूध दुहते समय बछड़ा जो थन से दुग्धपान करता है उससे दुग्ध अशुद्ध नहीं माना जाता, किन्तु अन्य समय पर बछड़े के मुख से स्पृष्ट होने पर अशुद्धि मानी जाती है । कौआ आदि पक्षी यदि काटकर फल गिरावे तो वह अशुद्ध नहीं होता, किन्तु फल के गिरने पर यदि पक्षी उसे छूता है तो फल अशुद्ध माना जायगा । इसी प्रकार यदि शिकार में कुत्ता मृग आदि पशु को काटता है तो वह अशुद्ध नहीं समझा जायगा, अन्यथा कुत्ते के मुख से स्पृष्ट होने पर अशुद्धि मानी जाती है । रतिकाल में स्त्री के मुख या श्वास से स्पर्श अशुद्धिजनक नहीं होता । इस संबन्ध में गोविन्द स्वामी ने वसिष्ठधर्म सूत्र से तीन पद्य उद्धृत किये हैं ।
अत्र 'पक्षिजग्धं गवाऽऽघ्रातमवधूतंमवक्षुतम्'
१. श्लोकोऽयं समानानुपूर्वीको मनौ दृश्यते । cf. म. ५. १२९.
२. श्लोकोऽयं समानानुपूर्वीक एव वासिष्ठे दृश्यते । cf. व. ध. २८. ८. किञ्चिदेवान्यथयितो मनौ । See मनु. ५. १३०.
६० बौधायन-धर्मसूत्रम् [ शुद्धिप्रकरणम्
इत्येवमायालोचनया जुगुप्सा नैव कर्तव्या। दोहकालादन्यत्र वत्सलो- ढेऽपि दोषः। तथा शातनग्रहणात् वृक्षात्पतितस्य शकुनिजग्धस्य भक्षणे दोषः। रतिसंसर्गग्रहणात् अन्यत्र स्त्रीणां श्वासलालास्वादने दोषः। तत्राऽपि स्वभार्याया एव। तथा मृगयाया अन्यत्र श्वलोढस्य दोषः। तथा च वसिष्ठः—
श्वहताश्च मृगा वन्याः पतितं च खगैः फलम्।
बालैस्तनुपरिक्रान्तं स्त्रीभिराचरितं च यत्॥
प्रसारितं च यत्पण्यं यो दोषः स्त्रीमुखेषु च।
मशकैर्मक्षिकाभिश्च लीढं चेन्नाऽवहन्वते॥
क्षितिस्थाश्चैव या आपो गवां तृप्तिकराश्च याः।
परिसङ्ख्याय तान् सर्वान् शुचीनाह प्रजापतिः॥ इति॥ २॥
आकराश्शुचयस्सर्वे वर्जयित्वा सुराकरम्।
अदूष्यास्सन्तता धारा वातोद्धूताश्च रेणवः॥ ३॥
**अनु०—**सुरा निर्माण के स्थान को छोड़कर अन्य सभी वस्तुओं के उत्पत्ति स्थान या निर्माण के साधन पवित्र होते हैं। बहते हुए जल की धारा और वायु द्वारा उड़ायी गयी धूल अदृष्य होती है॥ ३॥
आकरा उत्पत्तिस्थानानि। गुडक्षौद्रादीनां दुष्टदोषाणां न तत्र शङ्का कार्ये- त्यभिप्रायः। सुराकरं तु वर्जयेत्, स्पर्शनगन्धग्रहणादीनां प्रतिषेधात्। अदूष्या- स्सन्तता एव धाराः। अशुचिस्पृष्टा अपि जलप्रस्रवणादयः अदूष्याः। विच्छि- न्नास्तु दूष्याः। अत एतद्गम्यते विच्छिन्नया करकादिधारया नाऽऽचामेदिति। वायूत्थापिताश्चेदवस्करादिदेशादुत्थापिता अप्यदूष्या एव रेणवः॥ ३॥
किञ्च—
अमेध्येषु च ये वृक्षा उप्ताः पुष्पफलोपगाः।
तेषामपि न दुष्यन्ति पुष्पाणि च फलानि च॥ ४॥
**अनु०—**पुष्प और फल देने वाले जो वृक्ष या पौधे अपवित्र स्थानों पर उगते हैं उनके भी फूल और फल दूषित नहीं होते हैं॥ ४॥
वृक्षग्रहणं पुष्पग्रहणं चौषधिशाखादीनामप्युपलक्षणार्थम्॥ ४॥
किञ्च—
चैत्यवृक्षं चितिं यूपं चण्डालं वेदविक्रयम्।
एतानि ब्राह्मणस्स्पृष्ट्वा सचेलो जलमाविशेत्॥ ५॥
**अनु०—**पवित्र स्थान पर स्थित वृक्ष को, चिता, यज्ञीय यूप, चण्डाल या वेद
नवमः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः ६१
नवमः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः ६१
को बेचने वाले व्यक्ति को छूने पर ब्राह्मण वस्त्रों को धारण किये हुए ही जल में प्रवेश कर स्नान करे ॥ ५ ॥
ऋज्वेतत् ॥ ५ ॥
किञ्च—
आत्मशय्याऽऽसनं वस्त्रं जायाऽपत्यं कमण्डलुः ।
शुचीन्यत्मन एतानि परेषामशुचीनि तु ॥ ६ ॥
अनु०— अपनी ही शय्या, अपना आसन, अपने वस्त्र, अपनी पत्नी, अपने बच्चे और अपना कमण्डलु-ये सभी अपने लिए पवित्र होते हैं, किन्तु दूसरों के लिए ये सभी अपवित्र होते हैं ॥ ६ ॥
स्पष्टमेतत् ॥ ६ ॥
आसनं शयनं यानं¹ नावः पथि तृणानि च ।
²चण्डालपतितस्पृष्टं मारुतेनैव शुध्यति ॥ ७ ॥
अनु०— आसन शय्या, यान, नौका, मार्ग और घास चण्डाल या पतित व्यक्ति द्वारा स्पृष्ट होने पर वायु से ही शुद्ध हो जाते हैं ॥ ७ ॥
टी०— गोविन्दस्वामी के अनुसार यदि आसन और शय्या आदि की चण्डाल या पतित ने छू दिया हो तभी उसकी शुद्धि वायु द्वारा अपने आप मानी जाती हैं अन्यथा यदि वे उन पर बैठे या सोए हों तो शुद्धि करनी पड़ती है ।
पन्थानो भूमिविषयाः । नौः दारुमयी फलका । आन्दोलिकादीन्यपि द्रव्याणीति केचित् । एषामन्यतमानीत्यव्याहार्यम् । तत्राऽपि स्पर्शनमात्रेऽदोषः । एतद्व्यासनादिषु तु यथादोषं शौचं कर्तव्यम् ॥ ७ ॥
किञ्च—
खलक्षेत्रेषु यद्धान्यं कूपवापीषु यज्जलम् ।
अभोज्यादपि तद्भोज्यं यच्च गोष्ठगतं पयः ॥ ८ ॥
अनु०— जो अनाज खलिहान में हो जो जल कूप या तालाब में हो तथा जो दूध गायों के रहने के स्थान पर हो वह ऐसे व्यक्ति से भी, जिसका अन्न खाना निषिद्ध है, लेकर प्रयोग में लाया जा सकता है । ॥ ८ ॥
१, नौः पन्थाश्च, इति क. पु.
२. 'श्वचण्डाल' इति. ई. व्यतिरिक्तैषु मूलपुस्तकेषु.
६२ बौधायन-धर्मसूत्रम् [ कमण्डलुधर्या
**टी०—**यदि खलिहान में कोई ऐसा व्यक्ति जिसका अन्न अभोज्य बताया गया है अन्न उठाकर देता है तो वह अन्न दूषित नहीं माना जाता । इसी प्रकार कुएँ या तलाव से कोई इस प्रकार का व्यक्ति जल निकाल रहा हो तो वह ग्राह्य है और गाय के दुहे जाते समय दुहने के स्थान पर कोई उपर्युक्त व्यक्ति दूध देता हो तो वह दूध अशुद्ध नहीं माना जाता । गोविन्द स्वामी ने अपनी व्याख्या में यह निर्देश दिया है कि यदि पतित या चण्डाल ने इन पदार्थों में हाथ लगाया हो तो ये पदार्थ दूषित हो जाते हैं ।
अभोज्यान्नैः पुरुषैर्निष्पादितेषु खलक्षेत्रधान्यादिषु पुनश्च साधारणत्वेन सङ्कल्पितेष्वेतद् द्रष्टव्यम् । तत्राऽपि पतितचण्डालपरिगृहीतं दुष्टमेव । गोदोहन-वेलायामेव परिगृहीतं पयो भोज्यम् , गोष्ठगतत्वविधानात् ॥ ८ ॥
किञ्च—
१त्रीणि देवाः पवित्राणि ब्राह्मणानामकरूपयन् ।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ ९ ॥
**अनु०—**देवों ने ब्राह्मणों के लिये शुद्धि के तीन उपाय बनाये—प्रत्यक्षतः दोष का ज्ञान न होना, जल से प्रक्षालन तथा वाणी द्वारा प्रस्तुत पदार्थ के निर्दोष होने की प्रशंसा ॥ ९ ॥
ब्राह्मणग्रहणं प्रदर्शनार्थम् , पुराकल्पप्रशंसैषा । अदृष्टं प्रत्यक्षादिभिरनव-गतदोषम् , उपहतानुपहताशङ्कायामद्भिर्निर्णिक्के प्रक्षालितम् , तथा वाचा प्रशस्तं च । आह च वसिष्ठः—'वाचा प्रशस्तमुपयुञ्जीत' इति । वाक्प्रशस्तान्यद्भिः प्रोक्ष्योपयुञ्जीतेति ॥ ९ ॥
२आपः पवित्रं भूमिगताः गोतृप्तिर्यासु जायते ।
अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ॥ १० ॥
**अनु०—**पृथ्वी पर एकत्र हुए जिस जल से गायें अपनी प्यास बुझाती हैं, वह यदि अपवित्र पदार्थ से बहुत अधिक मिश्रित न हो, या दुर्गन्धयुक्त गँदले रंग या बुरे स्वाद का न हो तो पवित्र होता । है ॥ १० ॥
अमेध्येन पुरीषादिना । भूगुणव्यतिरिक्तगन्धवर्णरसान्विताः वर्ज्या इत्यर्थः ॥ १० ॥
१. श्लोकोऽयं समानानुपूर्वीक एव मनौ दृश्यते ॥ cf. मनु. ५. १२७.
२. श्लोकोऽयं किञ्चिदेवाऽन्यथयितो मनावुपलभ्यते । cf. मनु. ५. १२८.
नवमः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः ६३
नवमः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः ६३
भूमिगता इत्युक्तम्, तत्प्रसङ्गादाह—
'भूमेस्तु सम्मार्जनप्रोक्षणोपलेपनावास्तरणो-
ल्लेखनैर्यथास्थानं दोषविशेषात् प्रायत्यम् ॥ ११ ॥
**अनु०—**भूमि की शुद्धि स्थान के अनुसार तथा अशुद्धिदोष की मात्रा के अनुसार झाडू आदि से झाड़ने, जल से धोने, लीपने (दर्भ आदि के) अवस्तरण, (कुदाली आदि से) खोदने-खुरचने से—इनमें से एक, दो, तीन या एकसाथ सभी विषयों से होती है ॥ ११ ॥
भवेदिति शेषः । सम्मार्जनं संमूहन्या । प्रोक्षणं त्वद्भिः । उपलेपनं गोमयादिना । अवस्तरणं दर्भादिभिः । उल्लेखनं खनित्रैः ।
आह च मनुः—
सम्मार्जनेनाञ्जनेन सेचनोल्लेखनेन च ।
गवां च परिवासेन भूमिशुध्यति पञ्चभिः ॥ इति ॥
यथास्थानं यथादेशम्, दोषविशेषात् दोषगुरुलघुतापेक्षया सम्मार्जनादीनां व्यस्तसमस्तापेक्षया प्रायत्यं शुचित्वं भवति । तत्रैकेनँ क्वचिच्छुद्धिः, क्वचिद् द्वाभ्याम्, क्वचित्त्रिभिः क्वचित्समस्तैरिति द्रष्टव्यम् ॥ ११ ॥
तत्र क्वचित्प्रोक्षणस्यैव शुद्धिहेतुतामाह—
अथाऽप्युदाहरन्ति ॥ १२ ॥
इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने नवमः खण्डः ॥ ९ ॥
**अनु०—**इस सम्बन्ध में धर्मशास्त्रज्ञ निम्नलिखित पद्य भी उद्धृत करते हैं—॥ १२ ॥
षष्ठाध्याये दशमः खण्डः
गोचर्ममात्रमम्बिन्दुः ॥
गोचर्मगात्रमम्बिन्दुः भूमेश्शुद्ध्यति पातितः ।
समूढमसमूढं वा यत्राऽमेध्यं न लक्ष्यत इति ॥ १ ॥
**अनु०—**गिराया गया (या न झाड़ा गया) हो जल का एक बिन्दु बैल के चर्म के
१. खननाद्दहनाद्वर्षाद्गोभिराक्रमणादपि । चतुर्भिश्शुध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥ इति वसिष्ठः । (व. ध. ३. ५१)
| ६४ | बौधायन-धर्मसूत्रम् | [ शुद्धिप्रकरणम् |
|---|
बराबर भूमि के भाग को चाहे वह झाड़ा गया हो, यदि उस भूमि पर कोई अपवित्र पदार्थ दृष्टिगोचर न हों तो पवित्र कर देता ॥ १ ॥
अष्ठिबिन्दुः जललवः पातितः शुष्यतीति अन्तर्णीतणिजर्थो द्रष्टव्यः । समूढं सम्मार्जन्या । असमूढं स्पर्शादिशिष्टं देशं गोचर्ममात्रप्रमाणं यत्र गोशतमावेष्ट-यति, यत्र देशे, अमेध्यं पुरीषादि न लक्ष्यते तमिति शेषः ॥ १ ॥
परोक्षमधिश्रितस्याऽन्नस्याऽवद्योत्याऽभ्युक्षणम् ॥ २ ॥
**अनु०—**खाने वाले की दृष्टि से परोक्ष में पकाये गये अन्न को जलती हुई अग्नि दिखानी चाहिए तथा उसके चारो ओर जल छिड़कना चाहिए ॥ २ ॥
**टि०—**ब्यूह्लरे ने अपने अनुवाद में यह सुझाया है कि यहाँ परोक्ष पकाये गये अन्न से शूद्र द्वारा पकाये गये अन्न का तात्पर्य है "ऐसा प्रतीत होता है कि यह नियम आर्यों के निरीक्षण के बिना ही शूद्रों द्वारा पकाये गये अन्न की ओर संकेत करता है । क्योंकि आपस्तम्ब सूत्रों में भी उसी शब्द 'परोक्षम्' 'आँख से परे' का प्रयोग है और निश्चित रूप से उसी स्थिति का निर्देश है, इस बात के लिए कोई कारण नहीं कि ब्राह्मण रसोइए द्वारा बनाये गये भोजन को खाने से पहले पवित्र किया जाय ।"—ब्यूह्लरेर, वही, पृ० १७२ टि० किन्तु गोविन्द स्वामी ने यह सुझाया है कि शङ्का होने-पर ही उपर्युक्त विधि से भोजन की शुद्धि की जाती है: 'शङ्का-पदमापन्नस्य शुद्धिर्भवति ।' शङ्का न होने की स्थिति में ऊपर बतायी गयी १.९.९ की तीन विधियों से शुद्धि हो ही जाती है ।
परोक्षं भोक्तुरसमक्षमधिश्रितस्य पक्वस्याऽन्नस्याऽवद्योत्याऽभ्युक्षणं शङ्कापद-मापन्नस्य शुद्धिर्भवति । अनाशङ्कितस्य तु 'त्रीणि देवाः पवित्राणि' ( १.९.९. ) इत्युक्तम् ॥ २ ॥
तथापणेयानां च भक्ष्याणाम् ॥ ३ ॥
**अनु०—**इसी प्रकार बाजार की खाने योग्य वस्तुओं की भी शुद्धि होती है ॥३॥
**टि०—**बाजार की खाद्य वस्तुओं के अन्तर्गत गोविन्द ने लड्डु, अपूप, मोदक आदि तैयार बनी हुई मिठाइयों का उल्लेख किया है ।
आपणं वाणिजां पण्यस्थानम् ; क्रयविक्रयस्थानमित्यर्थः । तत्र भवा आप-णेया भक्ष्या ^१लड्डुकापूपसक्तुमोदकादयः उत्तरापथवासिनां प्रसिद्धाः । तेषा-मवद्योत्याऽभ्युक्षणम् । तथा च शङ्खः—"आकरजानामभ्युक्षितानां घृतेनाऽभि-घारितानामभ्यवहरणीयानां पुनः पचनमेव स्नेहद्रव्यसमानाम् इत्यादिना ॥३॥
१. मण्डकेति. क. पु.