भारतकोश
संग्रह पर लौटें

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

LVII. 8, LVIII. 1-3.] अष्टपञ्चाशोऽध्यायः 503 अष्टौ सीसकभागाः कांसस्य द्वौ तु रीतिकाभागः । मयकथितो योऽगोयं विज्ञेयो वज्रसंघातः ॥८॥ Sloka 8.—A mixture consisting of eight parts of lead, two of bell-metal, and one of iron rust, has been mentioned by Maya and is to be known as Vajra san- ghata (Diamond compound). तथा च मयः । सङ्ख्याष्टौ सीसभागान् कांसस्य द्वौ तथांशकम् । रीतिकायास्तु सन्म्रो वज्राख्यः परिकीर्त्तितः ॥ Thus ends the 57th Adhyaya on "the Adamantine glue." प्रतिमालक्षणाध्यायः ॥५८॥ Description of Idols. जालान्तरगे भानौ यदणुतरं दर्शनं रजो याति । तद्विन्द्यात् परमाणुं प्रथमं तद्धि प्रमाणानाम् ॥१॥ Sloka 1.—The smallest particle of dust that comes to sight, when the Sun passes through the interstice of a window, is to be known as an Atom; and this is the smallest unit of all measures. परमाणुरजो वालाग्रलिक्षयूकं यवोऽङ्गुलं चेति । अष्टगुणानि यथोत्तरमङ्गुलमेकं भवति संख्या ॥२॥ Sloka 2.—An atom, a dust-particle, hair's tip, a nit, a louse, a barley-corn and a digit are in order eight times bigger than the preceding measure. One digit becomes an integer. देवागारद्वारस्याष्टांशोनस्य यस्तृतीयोंऽशः । तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ॥३॥

504 बृहत्संहितायाम् [Adh. LVIII. Sl. 4-7. Sloka 3.—The height of the pedestal (of an idol) is a third of the height of the door of a temple diminished by an eighth part. The idol is twice as high as the pedestal. स्वैरङ्गुलप्रमाणैर्द्वादश विस्तीर्णमायतं च मुखम् । नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम् ॥४॥ Sloka 4.—The face of an idol is 12 of its own digits long and broad. Nagnajit, however, states that its length must be 14 digits which is a measure prevalent in the Dravida country. Here a digit means ¹/₉₆ of the height of the idol. तथा च नग्नजित् । विस्तीर्णं द्वादश मुखं दैर्घ्येण च चतुर्दश । अङ्गुलानि तथा कार्यं तन्मानं द्राविडं स्मृतम् ॥ नासाललाटचिबुकग्रीवाश्चतुरङ्गुलास्तथा कर्णौ । द्वे अङ्गुले च हनुनी चिबुकं च द्व्यङ्गुलं विततम् ॥५॥ Sloka 5.—The nose, forehead, chin and neck are four digits long; so too are the ears; the jaws and the chin are two digits broad. अष्टाङ्गुलं ललाटं विस्ताराद्द्व्यङ्गुलात् परे शङ्खौ । चतुरङ्गुलौ तु शङ्खौ कर्णौ तु द्व्यङ्गुलौ पृथुलौ ॥६॥ Sloka 6.—The forehead is 8 digits in breadth. Two digits further off are the temples, being of four digits. The ears are two digits in extent. कर्णोपान्तः कार्योऽर्धपञ्चमे भ्रूसमेन सूत्रेण । कर्णस्रोतः सुकुमारकं च नेत्रप्रबन्धसमम् ॥७॥

Adh. LVIII. Sl. 8-11.] अष्टपञ्चाशोऽध्यायः 505 Sloka 7.—The tip of the ear is 4½ digits off the corner of the eye on a level with the brows. The ear- hole and the raised margin near it lie at the same level as the centre of the eye and measure one digit. चतुरङ्गुलं वसिष्ठः कथयति नेत्रान्तकर्णयोर्विवरम् । अधरोऽङ्गुलप्रमाणस्तस्यार्धेनोत्तरोष्ठश्च ॥८॥ Sloka 8.—Sage Vasishta observes that the distance between the eye-corner and the ear is four digits. The lower and the upper lip measure respectively one digit and half a digit in breadth. अर्धाङ्गुला तु गोच्छा वक्त्रं चतुरङ्गुलायतं कार्यम् । विपुलं तु सार्धमङ्गुलमव्यात्तं त्र्यङ्गुलं व्यात्तम् ॥९॥ Sloka 9.—The dimple above the lip is half a digit. The mouth must be made four digits in length and 1½ digits in thickness. An opened mouth is of three digits in the middle. द्व्यङ्गुलतुल्यौ नासापुटौ च नासा पुटाग्रतो ज्ञेया । स्याद्द्व्यङ्गुलमुच्छ्रायश्चतुरङ्गुलमन्तरं चाक्ष्णोः ॥१०॥ Sloka 10.—The sides of the nose measure two digits; the tip of the nose is two digits in height and breadth. The space between the eyes is four digits. द्व्यङ्गुलमितोऽक्षिकोषो द्वे नेत्रे तत्रिभागिका तारा । दृक्तारा पञ्चांशो नेत्रविकासोऽङ्गुलं भवति ॥११॥ Sloka 11.—The socket of the eye and the eye itself measure two digits. The pupil measures one-third of the above, i. e. ⅔ digit; and the innermost circle of the pupil is ⅖ digit. The width of the eye is one digit. बृ. सं. 64

506 बृहत्संहितायाम् [Adh. LVIII. Sl.. 12-16. पर्यन्तात् पर्यन्तं दश भ्रुवोऽर्द्धाङ्गुलं भ्रुवोर्लेखा । भ्रूमध्यं द्व्यङ्गुलकं भ्रूदैर्घ्येणाङ्गुलचतुष्कम् ॥१२॥ Sloka 12.—The brows measure ten digits from end to end ; the line of the brows is 1/2 digit in width ; the interval between the brows is 2 digits and the length of each brow is 4 digits. कार्या तु केशरेखा भ्रूबन्धसमाङ्गुलार्धविस्तीर्णा । नेत्रान्ते करवीरकमुपन्यसेदङ्गुलप्रमितम् ॥१३॥ Sloka 13 —The line of hair should be made equal (ten digits) to the brows conjoined, and half a digit thick. At the end of the eyes must be made the inner corner, one digit in extent. द्वात्रिंशत्परिणाहाच्चतुर्दशायामतोऽङ्गुलानि शिरः । द्वादश तु चित्रकर्मणि दृश्यन्ते विंशतिरदृश्याः ॥१४॥ Sloka 14.—The head is 32 digits in circumference, and 14 digits in width. But in a picture, only 12 digits are visible and the remaining 20 are not visible. आस्यं सकेशनिचयं षोडश दैर्घ्येण नग्नजित्प्रोक्तम् । ग्रीवा दश विस्तीर्णा परिणाहाद्विंशतिः सैका ॥१५॥ Sloka 15.—The face and the hair put together, are 16 digits in length according to Nagnajit (i. e. the face, 14 digits and hair-line, 2 digits). The neck has a width of 10 digits and its circumference is 21 digits. कण्ठाद्द्वादश हृदयं हृदयान्नाभी च तत्प्रमाणेन । नाभीमध्यान्मेढ्रान्तरं च तत्तुल्यमेवोक्तम् ॥१६॥ Slokas 16.—The distance between the lower part of the neck and the heart is 12 digits; so also is that

Adh. LVIII. Sl. 17-21.] अष्टपञ्चाशोऽध्यायः 507 between the heart and the navel. The distance between the centre of the navel and the penis is the same as above. ऊरू चाङ्गुलमानैश्चतुर्युता विशतिस्तथा जङ्घे । जानुकपिच्छे चतुरङ्गुले च पादौ च तत्तुल्यौ ॥१७॥ Sloka 17. —The thighs measure 24 digits in length ; so do the shanks. The knee caps are 4 digits and the feet are also 4 digits in height. द्वादशदीर्घौ षट् पृथुतया च पादौ त्रिकायताङ्गुष्ठो । पञ्चाङ्गुलपरिणाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा ॥१८॥ Sloka 18.—The feet are 12 digits long and 6 broad; the great toes are 3 digits in length, and 5 digits in circumference ; the second toe is 3 digits long. अष्टांशाष्टांशोनाः शेषाङ्गुल्यः क्रमेण कर्तव्याः । सचतुर्थभागमङ्गुलमुत्सेधोऽङ्गुष्ठकस्योक्तः ॥१९॥ Sloka 19. --The remaining toes should be less by an eighth than the preceding one in order. The ele- vation of the big toe is 1 1/4 digits ; and that of the others less by an eighth than the preceding one in succession. अङ्गुष्ठनखः कथितश्चतुर्थभागोनमङ्गुलं तज्ज्ञैः । शेषनखानामर्धाङ्गुलं क्रमात् किञ्चिदूनं वा ॥२०॥ Sloka 20.—The experts have laid down that the nail of the big toe should be 3/4 digit ; that of the other toes at 1/2 digit or a little lessened for each succeeding toe. जङ्घाग्रे परिणाहश्चतुर्दशोक्तस्तु विस्तरात् पञ्च । मध्ये तु सप्त विपुला परिणाहात् त्रिगुणितः सप्त ॥२१॥

508 बृहत्संहितायाम् [Adh. LVIII. Sl. 22-26] Sloka 21.—The circumference of the end of shank is 14 digits and its breadth 5 digits; but in the middle it is 7 digits in width and 21 in circumference. अष्टौ तु जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः । विपुलौ चतुर्दशोरू मध्ये द्विगुणश्च तत्परिधिः ॥२२॥ Sloka 22.—The width of the knee in the middle is 8 digits; its circumference, 24 digits. The thighs are 14 digits broad in the middle and its circumference is 28 digits. कटिरष्टादश विपुला चत्वारिंशच्चतुर्युता परिधौ । अङ्गुलमेकं नाभी वेधेन तथा प्रमाणेन ॥२३॥ Sloka 23.— The loins are 18 digits in breadth, and 44 digits in circumference. The navel is one digit deep and broad. चत्वारिंशद्द्वियुतः नाभीमध्येन मध्यपरिणाहः । स्तनयोः षोडश चान्तरमूर्ध्वं कक्ष्ये षडङ्गुलिके ॥२४॥ Sloka 24.—The circumference of the waist at the centre of the navel is 42 digits. The interval between the two paps is 16 digits. The armpits are at a height of 6 digits (in an oblique direction) from the paps. अष्टावंसौ द्वादश बाहू कार्यौ तथा प्रबाहू च । बाहू षड्विस्तीर्णौ प्रतिबाहू त्वङ्गुलचतुष्कम् ॥२५॥ Sloka 25.—The extent of the shoulders is 8 digits. The arms as well as the fore-arms measure 12 digits in length, the arms being 6 digits broad and the fore-arms, 4 digits. षोडश बाहू मूले परिणाहाद्द्वादशाग्रहस्ते च । विस्तारेण करतलं षडङ्गुलं सप्त दैर्घ्येण ॥२६॥

Adh. LVIII. Sl. 27-29.] अष्टपञ्चाशोऽध्यायः 509 Sloka 26. — The circumference of the arms at the arm-pit is 16 digits and at the wrist, 12 digits. The palm should measure 6 and 7 digits in breadth and length respectively. पञ्चाङ्गुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना । अनया तुल्या चानामिका कनिष्ठा तु पर्वोना ॥२७॥ Sloka 27.—The middle finger is 5 digits ; the fore- finger is half a joint smaller ; the ring-finger is equal to the fore-finger, and the little finger less by one joint. पर्वद्वयमङ्गुष्ठः शेषाङ्गुलयस्त्रिभिस्त्रिभिः कार्याः । नखपरिमाणं कार्यं सर्वासां पर्वणोऽर्धेन ॥२८॥ Sloka 28.—The thumb should have two joints, while the remaining fingers must have three each. The nail of each finger should measure a half of its joint. देशानुरूपभूषणवेषालङ्कारमूर्त्तिभिः कार्या । प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति ॥२९॥ Sloka. 29.—An image should be made in such a way that its ornaments, dress, decorations and form conform to the practices prevailing in the country. If it is possessed of the required good features, it will bestow prosperity by its presence. Saga Kasyapa is quoted here, but the idea is the same. तथा च काश्यपः । द्वादशाङ्गुलकं वक्त्रं ललाटं चतुरङ्गुलम् । नासा ग्रीवा तु कर्तव्या तुल्याचैतत्प्रमाणतः ॥ शङ्खान्तरं ललाटस्य ज्ञेयमष्टाङ्गुलं पृथु । हनुद्वयं तु चिबुकमङ्गुलद्वितयं स्मृतम् ॥ चतुरङ्गुलीकौ कर्णौ श्रुवावेव तथा स्मृते ।

[Header] 510 बृहत्संहितायाम् [Adh. LVIII. Sl. 29.

द्व्यङ्गुलौ पृथुलौ कर्णौ स्रोतस्तत्सममेव तु ॥ कर्णनेत्रान्तरं कुर्यात्तत्प्रमाणं चतुरङ्गुलम् । अधरोऽङ्गुलमानं तु तदर्धेनोत्तरः स्मृतः ॥ चतुरङ्गुलकं वक्त्रं नासाग्रं तद्वपुःसमम् । नेत्रे द्व्यङ्गुले दीर्घे तत्रिभागेऽथ तारका ॥ दृक्तारापञ्चमांशेन दृष्टिकाङ्गुष्ठमार्गगा । द्व्यङ्गुलं चाक्षिपूटकं तथा नासापुटौ स्मृतौ ॥ कर्णश्रोतोऽङ्गुलमितं सुकुमारावधिश्च यः । गोच्छा चाङ्गुलिका कार्या तत्समा केशरेखिका ॥ द्व्यङ्गुलौ तु स्मृतौ शङ्खावाननी चतुरङ्गुलो । चतुर्दशाङ्गुलः शीर्षो द्वात्रिंशत् परिणाहतः ॥ एकाविंशत् स्मृता ग्रीवा विस्तारतश्चाष्टाङ्गुला । कण्ठाच्चाहृदयं नाभी मेढ्रं यावद्द्वादशाङ्गुलम् ॥ ऊरू जङ्घे चतुर्विंशा जानू च चतुरङ्गुलो । द्वादशाङ्गुलिको पादौ विस्तारस्तु षडङ्गुलाः ॥ गुल्फादधोभागगतं चतुरङ्गुलमुच्यते । अङ्गुष्ठं द्व्यङ्गुलं दीर्घं प्रदेशिन्या समं तथा ॥ शेषाः पादानुसारेण परिहीणा यथाक्रमम् । जङ्घाग्रे परिधिर्ज्ञेयो ह्यङ्गुलानां चतुर्दश ॥ ऊरु तद्द्विगुणो प्रोक्तः कटिस्त्रिगुणतः स्मृता । अङ्गुलं तु भवेन्नाभी वेधगाम्भीर्यतोऽपि वा ॥ नाभीमध्यं परीणाहश्चत्वारिंशत्प्रकीर्तितः । षोडश स्तनयोर्मध्यं कक्ष्ये ऊर्ध्वं षडङ्गुले ॥ अष्टाङ्गुलौ स्मृतौ स्कन्धौ बाहू त्रिंशच्चतुर्युतौ । बाहू मूले षोडश स्याद्धस्ताग्रे द्वादश स्मृताः ॥ षडङ्गुलं हस्ततलं सप्त दैर्घ्येण च स्मृतम् । पञ्चाङ्गुला भवेन्मध्या तर्जन्यर्धाङ्गुलोनिता ॥ अनामिका च तत्सुल्या कनिष्ठा चाङ्गुलोनिता । सुरूपाक्षाश्च कर्तव्या द्विपर्वाङ्गुष्ठिकासमृता ॥ त्रिपर्वाङ्गुलयः शेषा नखाः पर्वाधविस्तृताः । देशवेषयुतान् हस्तान् सौम्यरूपांश्च कारयेत् ॥ स्वरूपा लक्षणोपेता प्रतिमा वृद्धिदा भवेत् ।

Adh. LVIII. Sl. 30-35.] अष्टपञ्चाशोऽध्यायः 511 दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम् । द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः ॥३०॥ Sloka 30.—Sri Rama, son of Dasaratha, and Bali, son of Virochana should be made 120 digits in height. The heights of the other images—superior, moderate and inferior are less by 12 digits, i. e., 108, 96, and 84 digits. The measures given so far refer to images whose height is 108 digits. So, they have to be proportionately reduced or in- creased for the other varieties कार्योऽष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः । श्रीवत्साङ्कितवक्षाः कौस्तुभमणिभूषितोरस्कः ॥३१॥ अतसीकुसुमश्यामः पीताम्बरनिवसनः प्रसन्नमुखः । कुण्डलकिरीटधारी पीनगलोरोःस्थलांसभुजः ॥३२॥ खड्गगदाशरपाणिर्दक्षिणतः शान्तिदश्चतुर्थकरः । वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च ॥३३॥ अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः । दक्षिणपार्श्वे त्वेवं वामे शङ्खश्च चक्रं च ॥३४॥ द्विभुजस्य तु शान्तिकरो दक्षिणहस्तोऽपरश्च शंखधरः । एवं विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः ॥३५॥ Slokas 31-35.—Those who wish for prosperity should have the image of Lord Vishnu made in the following manner. The Lord should have either four or only two arms; his breast should bear the Srivatsa mark; it should be adorned with the Kaustubha gem; He should be made as dark as the Atasi flower; He is clothed in yellow garment, shows a serene face, wears a diadem and ear rings, has plump neck, breast, shoulders and arms. Of the eight arms, the right four have a sword, mace, arrow and emblem of

512 बृहत्संहितायाम् [Adh. LVIII. Sl. 35-39. peace (the fringes raised upward) ; the left ones, a bow, a buckler, a discus, and a couch. If only four arms are desired, one is the giver of peace or blessings, and the other wears the mace on the right and couch and discus on the left. If He is made with only two hands, then the right hand bestows peace and the other wears the conch. बलदेवो हलपाणिर्मदविभ्रमलोचनश्च कर्तव्यः । बिभ्रत्कुण्डलकमेकं शंखेन्दुमृणालगौरतनुः ॥३६॥ Sloka 36.—Baladeva should be made having a plough in his hand, with eyes rolling owing to intoxica- tion, and wearing an ear-ring and having his complexion as white as conch, the Moon and the lotus-stalk. एकानंशा कार्या देवी बलदेवकृष्णयोर्मध्ये । कटिसंस्थितवामकरा सरोजमितरेण चोद्वहती ॥३७॥ कार्या चतुर्भुजा या वामकराभ्यां सपुस्तकं कमलम् । द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च ॥३८॥ वामेऽथाष्टभुजायाः कमण्डलुश्चापमम्बुजं शास्त्रम् । वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च ॥३९॥ Slokas 37-39.—Goddess Ekanamsa should be situ- ated between Baladeva and Sri Krishna, with her left hand placed on the hip and the other hand holding a lotus. If she is to be four-armed, in the left hands she has a book and a lotus, and in the right ones, boon to the suppliants and a rosary. If she is to be eight-armed, in the left hands, she has a water-pot, a bow, a lotus and a book, and in the right ones, boon, an arrow, a mirror, and a rosary. Boon-giving hand is one with the open palm, fingers pointing downwards.

Adh. LVIII. Sl. 40-44.] अष्टपञ्चाशोऽध्यायः 513 शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च । अनयोः स्त्रियौ च कार्ये खेटकनिस्त्रिंशधारिण्यौ ॥४०॥ Sloka 40.—Samba should be made with a mace in his hand ; Pradyumna, endowed with a charming body, with a bow in his hand. Their wives also should be made holding swords and shields in their hands. ब्रह्मा कमण्डलुकरश्चतुर्मुखः पङ्कजासनस्थश्च । स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ॥४१॥ Sloka 41.—Brahman should have four faces, a water-pot in his hand and is seated on a lotus. Subrah- manya should be a boy in appearance, hold a javelin in his hand and have a peacock for his ensign. शुक्लश्चतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम् । तिर्यग्ललाटसंस्थं तृतीयमपि लोचनं चिह्नम् ॥४२॥ Sloka 42.—Indra has a white four-tusked elephant, the thunderbolt in his hand and another characteristic, viz, a third eye placed horizontally on his forehead. शम्भोः शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमपि चोर्ध्वम् । शूलं धनुः पिनाकं वामार्थे वा गिरिसुतार्धम् ॥४३॥ Sloka 43.—On the head of Lord Siva, a digit of the Moon should be placed ; his ensign, is a bull ; he has a third eye, high on his fore-head ; he has a trident in one hand and a bow called Pinaka in the other. Or, he may be represented as having Parvati for his left half. पद्माङ्कितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च । पद्मासनोपविष्टः पितेव जगतो भवति बुद्धः ॥४४॥ Sloka 44.—The Buddha should be represented seated on a lotus and looking as if he were the father of बृ. सं. 65

514 बृहत्संहितायाम् [Adh. LVIII. Sl. 45-49. mankind, very forgiving, with hands and feet marked with lotuses, with a serene body and sparce hair. There are two other readings सुनीतकेशश्च and सुनीलकेशश्च. The first means "very dark" and the other 'well-trimmed." आजानुलम्बबाहुः श्रीवत्साङ्कः प्रशान्तमूर्तिश्च । दिग्वासास्तरुणो रूपवांश्च कार्योऽर्हतां देवः ॥४५॥ Sloka 45.—The God of the Jains, viz., Jina, should be represented naked, young, handsome and serene in appearance, with his arms reaching the knees and his breast marked with the Sri Vatsa figure. नासाललाटजङ्घोरुगण्डवक्षांसि चोन्नतानि रवेः । कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ॥४६॥ बिभ्राणः स्वकररुहे बाहुभ्यां पङ्कजे मुकुटधारी । कुण्डलभूषितवदनः प्रलम्बहारो वियद्वृतः ॥४७॥ कमलोदरद्युतिमुखः कंचुकगुप्तः स्मितप्रसन्नमुखः । रत्नोज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरोऽर्कः ॥४८॥ Slokas 46-48.—The Sun-God's nose, forehead, shanks, thighs, cheeks and breast should be elevated; he should be dressed in the northern style, covering the body from breast to foot. He holds two lotuses born of his hands, in his arms; wears a diadem; his face is adorned with ear-rings; he has a long pearl-neck- lace and a girdle round his waist. His face has the lus- tre of the interior of the lotus; his body is covered with an armour; face, pleasant with a smile and has a halo bright with gems (or circle of bright lustre of gems). Such a Sun is auspicious for the architect. सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा । क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणा या ॥४९॥

Adh: LVIII. Sl. 50-54.] अष्टपञ्चाशोऽध्यायः 515 नृपभयमत्यङ्गायां हीनाङ्गायामकल्पता कर्तुः । शान्तोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् ॥५०॥ मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत् कर्तुः । वामावनता पत्नीं दक्षि णविनता हिनस्त्यायुः ॥५१॥ अन्धत्वमूर्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः । सर्वप्रतिमास्वेवं शुभाशुभं भास्करोक्तसमम् ॥५२॥ Slokas 49-52 —An idol of the Sun, one cubit high is beneficial ; one that measures two cubits in height bes- tows wealth ; those of 3 and 4 cubits lead to happiness and plenty respectively. When it is of larger limbs, there will be trouble from the king ; when of shorter limbs, the sculptor will be afflicted with disease ; when of slender belly, impending famine ; when of thin limbs, loss of wealth ; when it has injuries, the maker will die through the fall of a weapon ; when it is bent on the left side, it kills his wife ; on the right, it robs him of his life ; when its eyes are turned upwards, he will become blind ; when bent downwards, he will have worries. Thus, the good and bad effects of all images will have to be assessed as in the case of the Sun-God. लिङ्गस्य वृत्तपरिधिं दैर्घ्येणासूत्र्य तत्त्रिधा विभजेत् । मूले तच्चतुरस्रं मध्ये त्वष्टाश्रि वृत्तमतः ॥५३॥ चतुरस्रमवनिखाते मध्यं कार्यं तु पिण्डिकाश्वभ्रे । दृश्योच्छ्रायेण समा समन्ततः पिण्डिका श्वभ्रात् ॥५४॥ Slokas 53-54.—Treat the circumference of (the round part of) the emblem of Siva (made of wood, stone or gem) as the height and divide it into three parts. The part at the bottom should be quadrilateral; that in the middle, octagonal ; and the last one, cylindrical. The

516 बृहत्संहितायाम् [Adh. LVIII. Sl. '55-57. quadrilateral part must be kept in a pit in the earth, the middle one, in that of the pedestal ; and the pedestal around the pit must be equal in extent to the visible height. कृशदीर्घे देशघ्नं पार्श्वविहीनं पुरस्य नाशाय । यस्य क्षतं भवेन्मस्तके विनाशाय तल्लिङ्गम् ॥५५॥ Sloka 55.—An emblem being too thin and long destroys the country ; being devoid of a side, ruins the town ; and one with a wound on the head, tends to the ruin of the owner himself. मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः । रेवन्तोऽश्वारूढो मृगयाक्रीडादिपरिवारः ॥५६॥ Sloka 56. — The group of mothers should be repre- sented with the characteristics peculiar to the Gods whose name they bear. Revanta (Sun's son) should be seated on horse-back, with the companious of hunting, sport, etc. The mothers must have charming breasts, slender waist, large buttocks, so as to make them appear attractive. दण्डी यमो महिषगो हंसारूढश्च पाशभृद्वरुणः । नरवाहनः कुबेरो वामकिरीटी बृहत्कुक्षिः ॥५७॥ Sloka 57.---The God of death should be mounted on a buffalo with a club in his hand ; Varuna, on a swan with a noose in his hand ; and Kubera, on a human be- ing, with a pot-belly and a crown placed on the left side of the head. तथा च काश्यपः । एकदंष्ट्रो गजमुखश्चतुर्बाहुर्विनायकः । लम्बोदरः स्थूलदेहो नेत्रत्रयविभूषितः ॥ नवकुवलयकान्तिमक्षमालां कमलकमण्डलुदर्पणाङ्कहस्ताम् । प्रणतप्रवरपीनपीठप्रक्षालनसुस्थितां परमेश्वरीं वितस्ताम् ॥

Adh. LVIII. Sl. 58.] अष्टपञ्चाशोऽध्यायः 517 ब्रह्मा चतुर्मुखो दण्डी कृष्णाजिनकमण्डली । विष्णुश्चतुर्भुजः शार्ङ्गी शङ्खचक्रगदाधरः । श्रीवत्साङ्कः पीतवासा वनमालाविभूषितः ॥ नरसिंहः स्थूलदेहो रोमावर्तविभूषितः । उद्घाटितमुखः स्रग्वी वह्निकान्तिर्बृहद्भुजः ॥ वराहः सूकरमुखश्चतुर्बाहुविभूषितः । नीलाञ्जनचयप्रख्यो ध्यानशक्तः सुलोचनः ॥ ईश्वरो जटिलस्त्र्यक्षो वृषचन्द्राङ्कभूषितः । उरगेन्द्रोपवीती च कृत्तिवासाः पिनाकधृक् ॥ चण्डिकाष्टदशभुजा सर्वप्रहरणान्विता । त्र्यक्षा सिंहरता धन्या महिषासुरसूदिनी ॥ मयूरवाहनः स्कन्दः शक्तिकुक्कुटधारकः । सुरूपदेहः विक्रान्तो देवः सेनापतिः शिशुः ॥ आदित्यस्तरुणः स्रग्वी कवची खड्गधृत्तथा । तेजस्वी पद्मकरः षड्वर्गैश्च किरीटवान् ॥ ऐरावतश्चतुर्दन्तः श्वेतगात्रो महागर्जः । तदारूढो महेन्द्रस्तु वज्रहस्तं महाबलः ॥ तिर्यंग्ललाटगं नेत्र तृतीयं तस्य कारयेत् । नीललोहितवर्णा च शची तस्य समीपगा ॥ एवं देवगणाः सर्वे स्वायुधाभरणोज्ज्वलाः । कर्तव्याः स्वरूपाश्च संम्पूर्णाः शुभलक्षणाः ॥ हस्तमात्रा भवेत्सौम्या द्विहस्तान्नधनप्रदा । सुभिक्षक्षेमदा पुण्या त्रिहस्ता तु चतुष्करा ॥ वैकल्यं कुरुते हीना कृशाङ्गी देहनाशिनी । मरणं सक्षतायां तु सुदीर्घा वित्तनाशिनी ॥ वामे नता हन्ति पत्नीं कर्तुर्दक्षिणभागगा । ऊर्ध्वदृष्टिर्नेत्ररोगं गोकर्णा स्यादधोमुखी ॥ सुरुपा सुप्रभागैश्च सर्वाभरणभूषिता । स्वायुधैश्च समायुक्ता कर्तव्या प्रतिमा शुभा ॥ प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारधारी स्यात् । एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ॥५८॥

518 बृहत्संहितायाम् [Adh. LIX. Sl. 1-4. Sloka 58—The Lord of Siva's hosts has an ele- phantine face with a single tusk, a bulging belly, a hatchet in his hand and a turnip of very dark foliage and root. Thus ends the 58th Adhyaya on "Description of Idols." वनसम्प्रवेशाध्यायः ॥५९॥ Ingress into the Forest. कर्तुरनुकूलदिवसे दैवज्ञविशोधिते शुभनिमित्ते । मङ्गलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ॥१॥ Sloka 1.—The maker of images should enter the forest on a favourable day, i. e., a day presided over by a planet bestowing prosperity, and having an unhurt as- terism—when good foretokens are discovered by the astrologer and when there are auspicious omens pre- scribed for a journey. पितृवनमार्गसुरालयवल्मीकोद्यानतापसाश्रमजाः । चैत्यसरित्सङ्गमसम्भवाश्च घटतोयसिक्ताश्च ॥२॥ कुब्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः । स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ॥३॥ तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः । अभिमतवृक्षं गत्वा कुर्यात्पूजां सबलिपुष्पाम् ॥४॥ Slokas 2-4.—Those trees that grow in cemeteries, roads, temples, ant-hills, gardens, hermitages (penance- groves), sacred spots, near the confluences of rivers, those that are reared being watered, those that are stunt- ed, those that have grown beside others, those that are infested with creepers, that are broken by thunderbolt

Adh. LIX. Sl. 5-7.] एकोनषष्टितमोऽध्यायः 519 and storm, one that has fallen by itself, that is broken by elephants, that has withered, is burnt by fire, that con- tains bee hive—all these trees are to be avoided. Those that have soft leaves, flowers and fruits will be auspi- cious. Going to the desired (chosen) tree, he should worship it with food and flowers. सुरदारुचन्दनशमीमधूकतरवः शुभा द्विजातीनाम् । क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा विवृद्धिकराः ॥५॥ वैश्यानां जीवकखदिरसिन्धुकस्यन्दनाश्च शुभफलदाः । तिन्दुककेसरसर्जार्जुनश्राम्रालाश्च शूद्राणाम् ॥६॥ Slokas 5-6.—Deodar, sandalwood, Sami and Ma- dhuka are good for the images installed by Brahmins ; Arishta, Aswattha, Khadira and Bilwa bestow prosperity on the Kshatriyas ; Jivaka, Khadira, Sindhuka and Sy- andana on the Vaisyas ; and Tinduka, Kesara, Sarja, Arjuna, Mango and Sala, on the Sudras. तथा च काश्यपः । सुरदारुः शमीवृक्षो मधूश्चन्दनस्तथा । प्रतिष्ठार्थं ब्राह्मणानामेते प्रोक्ताः शुभावहाः ॥ अरिष्टाश्वत्थखदिरबिल्वाः क्षत्रियजातिषु । जीवकः खदिरश्चैव सिन्धुकः स्यन्दनस्तथा ॥ वैश्यानां शुभदाः प्रोक्तास्तिन्दुकः केसरस्तथा । सर्जार्जुनश्राम्रालाश्च शूद्राणां शुभदाः स्मृताः ॥ लिङ्गं वा प्रतिमा वा द्रुमवत् स्थाप्या यथादिशं यस्मात् । तस्माच्चिह्नयितव्या दिशो द्रुमस्योर्ध्वमथवाधः ॥७॥ Sloka 7.—Since an emblem of Siva or an image should be installed according to the directions of the tree, the different directions as well as the upside and downside should be marked on the tree.

520 बृहत्संहितायाम् [Adh. LIX. Sl. 8-12. तथा च काश्यपः । वृक्षवत्प्रतिमा कार्या प्राग्भागानुपलक्षिता । पादाः पादेषु कर्तव्याः शीर्षमूर्ध्वे तु कारयेत् ॥ परमान्नामोदकौदनदधिपललोल्लोपिकादिभिर्भक्ष्यैः । मद्यैः कुसुमैर्धूपैर्गन्धैश्च तरुं समभ्यर्च्य ॥८॥ सुरपितृपिशाचराक्षसभुजगासुरगणविनायकाद्यानाम् । कृत्वा रात्रौ पूजां वृक्षं संस्पृश्य च ब्रूयात् ॥९॥ Slokas 8-9.—After worshipping the tree with Payasa, sweets, rice, curds, sesamum seeds, edibles, etc., wine, flowers, incenses and perfumes, Gods, manes, Goblins, demons, serpents, Asuras, hosts of Siva, Ganesa, etc. should be worshipped at night. Thereafter, touching the tree, one should recite the following : अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः । नमस्ते वृक्ष पूजेयं विधिवत् सम्प्रगृह्यताम् ॥१०॥ यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम् । अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥११॥ Slokas 10-11.—" Oh Tree, you have been selected for the worship of the particular deity. Salutation to you! I worship you in accordance with the rules; kindly accept it. May all those beings that dwell in this tree fix their residence elsewhere after receiving the offer- ings made according to rules. May they forgive us now; We bow to them." वृक्षं प्रभाते सलिलेन सिक्त्वा पूर्वोत्तरायां दिशि सन्निकृत्य । मध्वाज्यदिग्धेन कुठारकेण प्रदक्षिणं शेषमतो निहन्यात् ॥१२॥ Sloka 12.—In the morning, one should sprinkle the tree with water and cut it on the north-eastern side with

षष्टितमोऽध्यायः

पूर्वेण पूर्वोत्तरतोऽथवोदक्पतद्यदा वृद्धिकरस्तदा स्यात् । आग्नेयकोणात्क्रमशोऽग्निदाहरुग्रोगरोगास्तुरगक्षयश्च ॥१३॥

यन्नोक्तमस्मिन् वनसम्प्रवेशे निपातविच्छेदनवृक्षगर्भाः । इन्द्रध्वजे वास्तुनि च प्रदिष्टाः पूर्वं मया तेऽत्र तथैव योज्याः ॥१४॥

प्रतिमाप्रतिष्ठापनाध्यायः ॥६०॥

दिशि याम्यायां कुर्यादधिवासनमण्डपं बुधः प्राग्वा । तोरणचतुष्टययुतं शस्तद्रुमपल्लवच्छन्नम् ॥१॥ पूर्वे भागे चित्राः स्रजः पताकाश्च मण्डपस्योक्ताः । आग्नेयां दिशि रक्ताः कृष्णाः स्युर्याम्यनैर्ऋत्योः ॥२॥ श्वेता दिश्यपरस्यां वायव्यायां तु पाण्डुरा एव । चित्राश्चोत्तरपार्श्वे पीताः पूर्वोत्तरे कार्याः ॥३॥

बृ सं 66

522 बृहत्संहितायाम् [Adh. LX. Śl. 4-6. Slokas 1-3.—A wise man ought to construct in the north or east a platform for the installation ceremony with four archways and covered with the sprouts of aus- picious trees. For the eastern side of the platform are laid down variegated garlands and flags ; for the south- eastern one, red ones ; for the southern and south-wes- tern sites, black ones. They must be white in the west, pale-white in the north-west, variegated in the north and yellow in the north-east. आयुः श्रीबलजयदा दारुमयी मृन्मयी तथा प्रतिमा। लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति ॥४॥ रजतमयी कीर्तिकरी प्रजाविवृद्धिं करोति ताम्रमयी। भूलाभं तु महान्तं शैली प्रतिमाथवा लिङ्गम् ॥५॥ Slokas 4-5.—An idol, made of wood or clay bestows long life, prosperity, strength and victory ; one made of precious stone tends to the weal of the world ; one of gold bestows health ; one of silver, fame ; one of copper, increase of children ; and an idol or emblem of Siva made of stone, acquisition of immense landed property. तथा च काश्यपः। यार्चा मृद्दारुसम्भूता सायुः श्रीबलदा मता। सौवर्णी पुष्टिदा ज्ञेया रत्नजा हितकारिणी ॥ राजती कीर्तिदा ज्ञेया ताम्रजा जनवर्धिनी। महस्करोति भूलाभं यार्चा पाषाणनिर्मिता ॥ शङ्कूपहता प्रतिमा प्रधानपुरुषं कुलं च घातयति। श्वभ्रोपहता रोगानुपद्रवांश्च क्षयं कुरुते ॥६॥ Slokas 6.—An image being hurt by a wedge destroys the headman and the family ; one being damaged by a hole causes diseases, troubles and ruin.