दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
स्वर्गमत्रोद्देशे प्रवेक्ष्यन्नागतः। तामिमां प्रतिगृहाण। मदन्यत्र चेयं वणिग्भ्यो वारमुख्याभ्यो वा दुग्धे इति हि तद्गता प्रतीतिः। किन्तु यत्सकाशादन्यायापहृतं तत्तस्मै प्रत्यर्पणीयम्। न्यायार्जितं तु देवब्राह्म- णेभ्यस्त्याज्यम्। (३७) अथेयं देवतेव शुचौ देशे निवेश्यार्च्यमाना प्रातः-प्रातः सुव- र्णपूर्णेव दृश्यते। स एष कल्पः' इति बद्धाञ्जलये मह्यमेनां दत्त्वा किमपि ग्रावच्छिद्रं प्राविशत्। इयं च रत्नभूता चर्मभस्त्रिका देवायानिवेद्य नोप- जीव्येत्यानीता। परन्तु देवः प्रमाणम्' इति। राजा च नियतमेव वक्ष्य-
त्यर्थः। भूमिस्र्वगं भूमौ पृथिव्यां स्वर्गं इव तम्। स्वर्गतुल्यं किमपि स्थानमि- त्यर्थः। भूमितः स्वर्गगमनार्थं किमपि बिलं वा। प्रवेक्ष्यन्नित्यस्य कर्म । उद्देशे प्रदेशे। इमां चर्मरत्नभस्त्रिकाम्। मदन्यत्र मां विहाय अपरत्र। इयं चर्मरत्न- भस्त्रिका। वणिग्भ्यो वैश्येभ्यः। वारमुख्याभ्यः वाराङ्गनाभ्यः। चतुर्थी बहुवच- नम्। दुग्धे रत्नानि प्रसूते। तद्गता-चर्मरत्नभस्त्रिकाविषयिणी। प्रतीतिः प्रसि- द्धिः। यत्सकाशात्-यस्य जनस्य सकाशात्समीपात्। अन्यायापहृतं-अन्यायेना- नीतं तद् वस्तु तस्मै-यत्सकाशादानीताभ्यर्थः। त्याज्यं दातव्यम्। (३७) अथ-त्यागानन्तरम् । इयं-भस्त्री । शुचौ-पवित्रे । निवेश्य संस्था- प्य। अर्च्यमाना-पूज्यमाना। प्रातः प्रातः-प्रतिप्रातः कालम्। कल्पः प्रकारः। बद्धाञ्जलये-कृतप्रणामाय । एनां अस्त्रिकाम् । ग्रावच्छिद्रं पर्वतविवरम् । रत्न- भूता-रत्नस्वरूपा। देवाय भवते। अनिवेद्य अनुक्त्वा। नोपजीव्या न भोक्तव्या। प्रमाणं निर्णायकः। नियतमवश्यमेव । वक्ष्यति कथयिष्यति । यथेष्टम्-स्वेच्छा-
करती है। यह बात विख्यात हो चुकी है। लेकिन यह बात भी ध्यानमें रखनी चाहिए कि, यदि अन्यायसे किसीका कुछ अपहरण कर लिया जाय तो, वह उसे लौटा देना चाहिए। और न्यायसंगत रीतिसे जो उपलब्ध हो उसे देवताओं और ब्राह्मणोंके काम खर्च करना उचित है। (३७) यदि किसी पवित्र स्थानपर रखकर देवताकी भांति इसका पूजन किया जाय तो, प्रतिदिन यह सुवर्णसे पूर्ण दीखेगी। यही इसका विधान है।' अञ्जलि बांधकर खड़े मुझ दाससे यों कह कर वह जटाधारी किसी पर्वतकी कन्दरामें घुस गया। यह रत्नस्वरूपा भस्त्रिका आपको अर्पण किये बिना अपने काममें लाना अनुचित जानकर ही आपके समीप ले आया हूँ। अब आप जो उचित समझें सो, करें। इसपर राजा अवश्य कहेगा-
ति-'भद्र, प्रीतोऽस्मि । गच्छ । यथेष्टमिमामुपभुङ्क्ष्व' इति । भूयश्च ब्रूहि—'यथा न कश्चिदेनां मुष्णाति तथानुगृह्यताम्' इति । तदप्यवश्य- मसावभ्युपैष्यति । ततः स्वगृहमेत्य यथोक्तमर्थत्यागं कृत्वा दिने दिने वरिवस्यमानां स्तेयलब्धैरर्थैर्नक्तमापूर्य प्राह्णे लोकाय दर्शयिष्यसि । ततः कुबेरदत्तस्तृणाय मत्वार्थपतिमर्थलुब्धः कन्यकया स्वयमेव त्वा- मुपस्थास्यति । ( ३८ ) अथ कुपितोऽर्थपतिर्व्यवहर्तुमर्थगर्वाद्भियोत्स्यते । तं च भूयश्चित्रैरुपायैः कौपीनावशेषं करिष्यावः । स्वकं चौर्यमनेनैवाभ्युपायेन सुप्रच्छन्नं भविष्यति' इति ' हृष्टश्च धनमित्रो यथोक्तमन्वतिष्ठत् । तदहरेव नुरूपम् । इमां भस्त्रिकाम् । भूयः पुनरपि । मुष्णाति चोरयति । असौ राजा । अभ्युपैष्यति स्वीकरिष्यति । अर्थत्यागं धनदानम् । वरिवस्यमानाम् अर्च्यमा- नाम् । भस्त्रिकामिति शेषः । स्तेयलब्धैः चौर्येणाधिगतैः । नक्तं रात्रौ । आपूर्य रत्नैः पूरयित्वा । प्राह्णे प्रभाते । तृणाय मत्वा तृणवज्ज्ञात्वा अवज्ञायेत्यर्थः। उपस्थास्यति-आराघयिष्यति । ( ३८ ) व्यवहर्त्तुं विवादं कर्त्तुम् । अर्थगर्वात् धनमदात् । अभियोत्स्यते-राज- द्वारे अभियोगं करिष्यति । एनम् अर्थपतिम् । चित्रैर्नानाविधैः । स्वकं स्वकीयम्। अनेन-पूर्वोक्तेन । सुप्रच्छन्नं गुप्तम् । तदहः तस्मिन् दिने । मन्नियोगात्-ममा- 'भद्र ! मैं तुमपर प्रसन्न हूँ । जाओ और इच्छानुसार इसका उपयोग करो। तब तुम कहना कि, 'कृपा करके श्रीमान् कोई ऐसा प्रबन्ध कर दें कि, जिससे इसे कोई चुरा न सके ।' राजा तुम्हारी बात अवश्य मानेगा । तदनन्तर अपने घर आकर पूर्वोक्त रीतिसे धन दान करके सतत पूजित इस भस्त्रिकाको रातके समय चोरी करके प्राप्त धन से भर दिया करना । और सबेरे लोगोंको दिखाना । तब धनका लोभी कुबेरदत्त अर्थपतिको तृणकी भांति समझकर अपनी कन्याको साथ लेकर तुम्हारे पास आयेगा । ( ३८ ) इस बातसे अर्थपति क्रुद्ध होगा और धनके गर्ववश वह तुमसे द्वेष करने लगेगा । उसे हम दोनों विविध उपायोंसे कौपीनावशेष कर डालेंगे । चोरीका अपना दुष्कर्म इसी उपाय से छिपेगा ।' धनमित्रने प्रसन्न मनसे मेरे कहे हुए सब कार्य सम्पन्न
द्वितीयाेच्छ्वासः ] व्याखाद्वयाेपेतम् । १०१ मन्नियोगाद्विमर्दकोऽर्थपतिसेवाभियुक्तस्तस्योदारके वैरमभ्यवर्धयत् । अर्थ- लुब्धश्च कुबेरदत्तो निवृत्त्यार्थपतेर्धनमित्रायैव तनयां सानुनयं प्रादित्सत । प्रत्यबध्नाच्चार्थपतिः । ( ३६ ) एष्वेव दिवसेषु काममञ्जर्याः स्वसा यवीयसी रागमञ्जरी नाम पञ्चवीरगोष्ठे संगीतकमनुष्ठास्यतीति सान्द्रादरः समागमन्नागरजनः । स चाहं सह सख्या धनमित्रेण तत्र संन्यधिषि । प्रवृत्तनृत्यायां च तस्यां द्वितीयं रङ्गपीठं ममाभून्मनः । तद्दृष्टिविभ्रमोत्पलवनसञ्चापाश्रयश्च पञ्च- ज्ञया । विमर्दकः एतन्नामकः कश्चित् । अर्थपतीति-अर्थपतेः सेवायामाराधनेऽ- भियुक्तः संलग्नः । तस्य अर्थपतेः । उदारके धनमित्रे । वैरं द्वेषम् । अभ्यवर्धयत् वर्धयामास । निवृत्त्य परावृत्य । अर्थपतेः । सकाशात् । प्रादित्सत-प्रदातुमैच्छत् । प्रत्यबध्नात् प्रतिबन्धं विरोधमिति यावत् चकार । ( ३९ ) स्वसा भगिनी । यवीयसी कनिष्ठा । पञ्चवीरगोष्ठे जनपदसभायाम् 'तत्पञ्चवीरगोष्ठं तु यत्तु जानपदं सद' इति कोषसारः । सङ्गीतकं गानादि । यदाह- 'गीतं वाद्यं च नृत्यञ्च त्रिभिः सङ्गीतमुच्यते ।' इति अनुष्ठास्यति विधास्यति । सा- न्द्रादरः-तद्गानश्रवणे गाढस्पृहः । समागमत्-सम्मिलितोऽभवत् । अहम् । अप- हारवर्मेत्यर्थः । संन्यधिषि सन्निहितोऽभवम् । सन्नित्पूर्वकाद्धाधातोर्लुङि आत्म- नेपदस्योत्तमपुरुषैकवचने रूपम् । प्रवृत्तनृत्यायां प्रारब्धनर्तनायाम् । तस्यां रागम- ञ्जर्याम् । रङ्गपीठं नृत्यस्थानम् । निरन्तरस्मर्यमाणतया मन्मानसे नृत्यमकरोदिति भावः । तद्दृष्टीति-तस्या रागमञ्जर्या दृष्टिविभ्रमः कटाक्ष एवोत्पलवनं नीलकमल- माला तदेव सदुत्तमं चापं धनुराश्रयो यस्य तादृशः । पञ्चशरः कामः । भावरसानां आवानां प्राधान्येनाङ्गितव्यभिचारिणां निर्वेदादीनां रसानां शृङ्गारादीनाञ्च । कर दिये । उसी दिन मेरी प्रेरणानुसार विमर्दकने अर्थपतिके यहां नौकरी कर ली और धनमित्रमें बैर बढ़ाने लगा । ऐसा करनेसे लोभी कुबेरदत्तका मन अर्थपतिकी ओरसे फिर गया और उसने धनमित्रको ही अपनी कन्या प्रदान की । अर्थपतिने भी इस कार्यमें सभी सम्भव विघ्न डाले । ( ३९ ) इन्हीं दिनों काममञ्जरीकी छोटी बहिन रागमञ्जरीका नागरिक समामें नाच- गाना होनेवाला है, यह सुनकर बड़े आदरके साथ बहुतेरे नागरिक एकत्र हुए । मैं भी अपने मित्र धनमित्रके साथ वहां जा पहुँचा । जब वह गणिका नाचने लगी तब मेरा मन १२ द० कृ० उ० Nepal Sanskrit University, Balmeeki Campus, Kathmandu
१७२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
१७२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां शरो भावरसानां सामग्र्यात्समुदितबल इव मामतिमात्रमव्यथयत् । (४०) अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमाला- शृङ्खलाभिर्नीलोत्पलपलाशश्यामलाभिर्मामबध्नात् । नृत्योत्थिता च सा सिद्धिलाभशोभिनी-'किं विलासात्, किमभिलाषात्, किमकस्मादेव वा, न जाने, — असकृन्मां सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमा- रेचितभ्रूलतमभिवीक्ष्य, सापदेशं च किंचिदाविष्कृतदशनचन्द्रिकं स्मित्वा, लोकलोचनमानसानुयाता प्रातिष्ठत । सामग्र्यात् सम्पूर्णतया । समुदितबलः प्राप्तसामर्थ्यः । अतिमात्रं गाढम् अव्य- थयत् अपीडयत् । (४०) अथ कामपीडनानन्तरम् । असौ रागमञ्जरी । लीलेति-लीलया विलासेन याः कटाक्षमालाः दृष्टिपंक्तयस्ता एव शृङ्खला बन्धनानि साधनानि ता- भिः। नीलोत्पलेति-नीलोत्पलानां यानि पलाशानि पत्राणि तद्वत् श्यामलाभिः कृष्णवर्णाभिः । शृङ्खला विशेषणमेतत् । अबध्नात् बबन्ध । नृत्योत्थिता नर्तना- द्विरता । सिद्धिलाभशोभिनी-मनोरथप्राप्तिशालिनी । सिद्धमनोरथेति यावत् । विलासाद् विभ्रमात् । अभिलाषात् स्वेच्छया । अकस्मात् विना कारणमित्यर्थः । असकृत् वारं वारम् । मामिति अभिवीक्ष्येत्यस्य कर्म । अनुपलक्षितेन अनवलो- कितेन । गुप्तरूपेणेति भावः । अपाङ्ग प्रेक्षितेन-कटाक्षावलोकनेन । सविभ्रमेति- सविभ्रमं सविलासं यथा तथा आरेचिते वक्रीकृते भ्रूलते भ्रूद्वयं यस्मिंस्तत्तथा तथा । अभिवीक्ष्य दृष्ट्वा । सापदेशं सकपटम् । किञ्चिदिति-किञ्चिदीषत्-आविष्कृता प्रकटिता दशनचन्द्रिका दन्तप्रभा यत्र तद्यथा तथा । स्मित्वा ईषद्विहस्य । लोके- ति-लोकानां जनानां लोचनैर्नेत्रैः मानसैश्चित्तैश्च अनुयाता अनुसृता । जनानां दूसरी रङ्गभूमि बन गया। उसकी सैनके कमलवनका निवासी कामदेव सभी भावों और सभी रसोंसे सम्पन्न एवं बलवान बनकर बहुत बुरी तरह सताने लगा । (४०) तदनन्तर नगरमें चोरीके करनेके कारण रोषिता नगरदेवीके सदृश उस सुन्दरी काममंजरीने अपने नीले कमलके पत्रोंके तुल्य आभावाले विलासी श्यामल कटाक्षोंकी श्रृंखला-(सीकड़ी-) से मुझे बद्ध कर लिया तथा नृत्यसे विरत होकर वह मनोरथप्राप्ति- शालिनी रागमञ्जरी अपने विलाससे या अभिलाषसे वा अकस्मात् (बिना कारण ही) न मालूम क्यों सखियोंसे भी छिपाकर अपने अपांगोंसे मुझे बार-बार देखती हुई एवं विलासके व्याजसे अपनी भौंहोंको तरेरती हुई और गुप्तरीत्या (कपटसे) अपनी दन्तप्रभा दिखाती हुई-मुस्कुराती हुई-जनोंके नेत्रों और चित्तोंको अपने साथ लेती हुई घरको चली गयी ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७३
( ४१ ) सोऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहारस्पृहः शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि । अतिनि- ष्णाताश्च मदनतन्त्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत्—'सखे, सैव धन्या गणिकादारिका, यामेवं भवन्मनोऽभिनिविशते । तस्याश्च मया सु- लक्षिता भाववृत्तिः । तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति । स्थानाभिनिवेशिनोश्च वामयत्नसाध्यः समागमः । किन्तु सा किल वार- कन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत—'गुण-
नेत्राणि तामेव अनुसरन्तिस्म मानसानि प्रस्थानानन्तरमपि तामेव ध्यायन्तिस्मेति भावः । प्रातिष्ठत-गृहं प्रति प्रतस्थे । ( ४१ ) दुर्निवारया निवारयितुमशक्यया । दूरीकृताहारस्पृहः-परित्यक्तभो- जनाभिलाषः । शिरःशूलेति-शिरःशूलं शिरोवेदना रोगविशेषस्तस्य स्पर्शन- मनुभवं अपदिशन् ख्यापयन् । तद्व्याजेनेत्यर्थः । विविक्ते विजने तल्पे शय्या- याम् । मुक्तैः प्रसारितैरवयवैरङ्गैः । अशयिषि शयितोऽभवम् । अतिनिष्णाततः अतिपटुः । मदनतन्त्रे कामशास्त्रे । रहसि निर्जने । गणिकाद्वारिका-वेश्याकन्या । एवं-अनेन प्रकारेण । भवन्मनः त्वच्चित्तम् । अभिनिविशते आकांक्षति । सुलक्षिता दृष्टा । भाववृत्तिः अनुरागावेशः । अयुग्मशर. कामः । शरशयने शरशय्यायाम् । शाययिष्यति णिजन्तमेतत् । स्थानाभिनिवेशिनोः युक्ताभिलाषवतोः । वां युवयोः । अयत्नसाध्यः अनायाससाध्यः । समागमः सम्मेलनम् । किंतु इत्यनेन किञ्चिद्वै- शिष्ट्यं सूचितम् । तदेवाह-गणिकेति-गणिकायाः वेश्यायाः यः शुल्कग्रहणरूपः स्वधर्मस्तस्मात् प्रतीपगामिना विरुद्धेन । भद्रोदारेण-भद्रः कल्याणजनक उदारो महांश्च तेन । आशयेन अभिप्रायेण । समगिरत-प्रतिज्ञातवती । गुणः शुल्कं मुख्यं
( ४१) मैं भी अपने गृहमें आकर, उस रागमञ्जरीकी उत्कण्ठाको निवारण करनेमें असमर्थ हो ( उसीसे ) भोजनादिकी इच्छासे रहित होकर शिरोवेदना के बहानेसे एकान्तमें जा करके, हाथ पैर फैला करके शय्यापर सो गया ।' अतिपटु धनमित्रने, मुझे कामशास्त्रमें ( कामजालमें ) फंसे हुए ( डूबे हुए ) समझकर एकान्तमें, आकर कहा—'हे मित्र ! वह वेश्याकी कन्या धन्य हैं, जो तुम्हारे चित्तमें आ बसी है । जिसके अनुरागविशेषको मैंने देख लिया है । कामदेव अपनी बाणशय्यापर, उसे भी शीघ्र सुलायेगा । युक्ताभिलाषियोंका ( पारस्परिक प्रेमियोंका ) सम्मेलन अनायाससाध्य ( सुख-साध्य ) होता है । परन्तु, उस वेश्याकन्याने अपने वेश्याधर्मसे विरुद्ध कल्याणजनक उदार आशयवाली प्रतिज्ञा की है।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
१७४ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF १७४ दशकुमारचरितम् । [ उत्तरपीठिकायां शुल्काहम्, न धनशुल्का । न च पाणिग्रहणादृतेऽन्यभोग्यं यौवनम्' इति । (४२) तच्च मुहुः प्रतिषिध्याकृतार्था तद्भगिनी काममञ्जरी माता च माधवसेना राजानमश्रुकण्ठ्यौ व्यजिज्ञपताम्—'देव, युष्मद्दासी राग- मञ्जरी रूपानुरूपशीलशिल्पकौशला पूरयिष्यति मनोरथानित्यासीदस्मा- कमतिमहत्याशा साय मूलच्छिन्ना । यदियमतिक्रम्य स्वकुलधर्ममर्थनिर- पेक्षा गुणेभ्य एव स्वं यौवनं विचिक्रीपते । कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठा- सति । सा चेदियं देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेत्' इति । यस्याः सा । पाणिग्रहणात् विवाहात् । ऋते विना । अन्यभोग्यं अन्येन गुणवन्त- मन्तरा अपरेण भोग्यमुपभोग्यम् । (४२) तच्च-तादृशीं प्रतिज्ञां च । प्रतिषिध्य-निषिध्य । अकृतार्था-असिद्ध- मनोरथा । अश्रुकण्ठ्यौ रुदन्त्यौ । रूपेति-रूपस्य सौन्दर्यस्यानुरूपं तुल्यं शीलं स्वभावः शिल्पकौशलं कलानैपुण्यञ्च यस्याः सा । सा आशा । मूलच्छिन्ना- समूलं विनष्टा । यद् यतः । इयं रागमञ्जरी । स्वकुलधर्म गणिकावंशधर्मं धनग्र- हणादिरूपम् । अर्थनिरपेक्षा-धनाभिलाषशून्या । यौवनं तारुण्यम् । विचिक्री- पते-विक्रेतुमिच्छति कुलस्त्रीवृत्तं-कुलांगनाचरणम् । अच्युतं अविच्छिन्नम् । अनु- तिष्ठासति अनुष्ठातुमाचरितुमिच्छति । देवपादाज्ञया-भवदनुशासनेन । प्रकृतिं स्वस्थताम् । पेशलं-क्षमम् । 'मैं गुणशुल्का हूँ' 'धनशुल्का' नहीं हूँ—मेरा मूल्य गुण होगा, धनपर न विकूंगी और (मेरे) साथ बिना विवाह किये हुए कोई मेरे यौवनका उपभोग नहीं कर सकता है। (४२) उसकी ऐसी प्रतिज्ञापर उसकी बहिन काममञ्जरी और उसकी माता माधवसेनाने उसे (रागमञ्जरीको) बार-बार समझानेपर असिद्धमनोरथ होकर रोते हुए राजाको सूचना दी। 'हे देव ! आपकी दासी रागमञ्जरीने सौन्दर्यके अनुरूप स्वभाव, कलानिपुणता पायी है। जिससे हम लोगोंको यह आशा थी, कि, यह हम लोगोंके मनोरथोंको पूरा करेगी, किन्तु, आज वह आशा समूल विनष्ट हो गयी। क्योंकि, यह रागमञ्जरी अपने धर्मको (धनग्रहण करना आदि गणिकाओंके धर्मको) छोड़कर धनकी अभिलाषासे शून्य होकर गुणियोंको अपना तारुण्य बेचनेकी इच्छा करती है। कुलाङ्गनाओंके आचरणोंको ही अविच्छिन्नरूपसे धारण करना चाहती है। यदि रागमञ्जरी आपके आदेशसे भी अपनी (स्वस्थता-वृत्तित्व) का आचरण करे तो, बड़ा कल्याण हो'। Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७५ ( ४३ ) राज्ञा च तदनुरोधात्तथानुशिष्टा सत्यप्यनाश्रवैव सा यदासी- त्, तदास्याः स्वसा माता च रुदितनिर्बन्धेन राज्ञे समगिरताम्-‘यदि कश्चिद् भुजङ्गोऽस्मदिच्छ्या विनैनां बालां विप्रलभ्य नाशयिष्यति सतस्क- रवद्वध्यः' इति । तदेवं स्थिते धनादृते न तत्स्वजनोऽनुमन्यते । न तु धनदायासावभ्युपगच्छतीति विचिन्त्योऽत्राभ्युपायः' इति । अथ मयोक्तम्- ‘किमत्र चिन्त्यम् । गुणैस्तामावर्ज्य गूढं धनैस्तत्स्वजनं तोषयावः' इति । ( ४४ ) ततश्च कांचित्काममञ्जर्याः प्रधानदूतीं धर्मरक्षितां नाम शा- क्यभिक्षुकीं चीवरपिण्डदानादिनोपसंगृह्य तन्मुखेन तया बन्धक्या पण- ( ४३ ) तदनुरोधात्-तयोः माधवसेनाकाममंजर्योरनुरोधादाग्रहात्। तथा-यथा ताभ्यामुक्तं तेनैव प्रकारेण अनुशिष्टा उपदिष्टा । अनाश्रवा-अनाहृतवचना । अस्याः रागमञ्जर्याः । रुदितनिर्बन्धेन-अत्यन्तरোদনपूर्वकम् । राज्ञे-राजसमीपे । समगिरतां प्रतिज्ञातवत्यौ । भुजङ्गो विटः । विप्रलभ्य प्रतार्य । नाशयिष्यति-अप- वाहयिष्यति । धनाद् ऋते-अर्थेन विना । तत्स्वजनः-रागमञ्जर्याः मात्रादिः । धनदाय-वित्तदायिने पुरुषाय । असौ रागमञ्जरी । अभ्युपगच्छति स्वीकरोति । इति-इति हेतोः, अत्र अस्मिन् विषये । मया-अपहारवर्मणा । आवर्ज्य वशीकृत्य । गूढं गुप्तरूपेण । ( ४४ ) शाक्यभिक्षुकीं बौद्धसंन्यासिनीम् । चीवरपिण्डदानादिना वस्त्रखण्ड- भोजनादिदानेन । उपसंगृह्य वशीकृत्य । तन्मुखेन दूतीमुखेन । बन्धक्या-कुल- ( ४३ ) राजाने, उन लोगोंके आग्रहसे, (रागमञ्जरीको बुलाकर जैसा काममञ्जरी और माधवसेनाने कहा था।) उसी प्रकारसे, उपदेश किया । तब भी उसने उस उपदेशका अनादर ही किया । जिससे उन लोगोंने अति विलाप करते हुए राजासे यह कहा कि, (इस विषयमें निम्नांकित आज्ञा होनी चाहिये) 'यदि कोई भी विट, हम लोगोंकी इच्छाके विरुद्ध, इस बालिकाको फुसलाकर इसे प्रतारित करेगा; वह चोरके समान दण्डका भागी होगा।' ऐसी स्थितिमें बिना द्रव्यके उसके स्वजन माता आदि राज़ी ही न होंगे। और द्रव्यदाताको वह रागमञ्जरी स्वीकार न करेगी। इस विषयमें उचित उपाय विचारिये। यह श्रवण करके मैंने (अपहारवर्माने) कहा-‘इसमें विचारना ही क्या है।' गुणोंसे उस रागमञ्जरीको वश करके गुप्तरूपसे द्रव्य द्वारा उसके स्वजनोंको सन्तुष्ट कर लूंगा । ( ४४ ) इसके पश्चात्-काममञ्जरी की, बौद्धसंन्यासिनी धर्मरक्षिता नामकी मुख्य दूतीको वस्त्रखण्डान्नदानद्वारा वश करके उसी दूतीके मुखसे उस कुलटा काममञ्जरीसे Nepal Sanskrit University, Balmeeki Campus, Kathmandu
१७६ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
१७६ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
बन्धमकरवम्—‘अजिनरत्नमुदारकान्मुषित्वा मया तुभ्यं देयम्, यदि प्रति- दानं रागमञ्जरी' इति । सोऽहं संप्रतिपन्नायां च तस्यां तथा तदर्थं संपाद्य मद्गुणोन्मादिताया रागमञ्जर्याः करकिसलयमग्रहीषम् । यस्यां च निशि चर्मरत्नस्तेयवादस्तस्याः प्रारम्भे कार्यान्तरापदेशेनाहूतेषु शृण्वत्स्वेव नाग- रमुख्येषु मत्प्रणिधिर्विमर्द्दकोऽर्थपतिगृह्यो नाम भूत्वा धनमित्रमुल्लङ्घ्य बह्वतर्जयत् । उक्तं च धनमित्रेण—‘भद्र, कस्तवार्थो यत्परस्य हेतोर्मामा- क्रोशसि । न स्मरामि स्वल्पमपि तवापकारं मत्कृतम्' इति । स भूयोऽपि तर्जयन्निवात्रवीत्—‘स एष धनगर्बो नाम, यत्परस्य भार्या शुल्कक्रीतां पुनस्तत्पितरौ द्रव्येण विलोभ्य स्त्रीचिकीर्षसि । ब्रवीषि च—‘कस्तवाप-
टय। सहति शेषः। पणबन्धं शुल्कादिदानव्यवस्थाम् । उदारकात् धनमित्रात् । मुषित्वा चोरयित्वा । प्रतिदानमिति-विनिमयरूपेण रागमञ्जरीं ददासि चेदित्यर्थः । सम्प्रतिपन्नायां स्वीकृतायाम् । तदर्थं तत्प्रयोजनं चर्मभस्त्रिकादानरूपम् । मद्गुणो- न्मादिताया-मद्गुणमुग्धायाः । करकिसलयं पाणिपल्लवम् । चर्मरत्नस्तेयवादः- चर्मभस्त्रिकाचौर्यवार्त्ताप्रचारः, अभूदिति शेषः । तस्याः रात्रेः । प्रारम्भे-प्रदोषे इत्यर्थः । कार्यान्तरापदेशेन-अन्यकार्यच्छलेन । आहूतेषु-आकारितेषु । नागर- मुख्येषु-नगरप्रधानपुरुषेषु । मत्प्रणिधिर्मम गुप्तचरः । अर्थपतिगृह्यः अर्थपतिपक्षी- यः। नृमेति अलीकसम्भावनायाम् । उल्लंघ्य मर्यादामतिक्रम्य । बहु-अनेक- प्रकारम् । अतर्जयत् भीषयामास । अर्थः प्रयोजनम् । हेतोः निमित्तम् । आक्रो-
पणबन्ध' शुल्कादिदान व्यवस्था की कि,–'धनमित्रसे चुराकर 'चर्मरत्नभस्त्रिका' को मैं तुम्हें दूंगा, यदि तुम मुझे उसके विनिमयमें रागमञ्जरी दो' उस काममञ्जरीके स्वीकार करनेपर मैने उसे चर्मरत्नभस्त्रिका का प्रबन्ध करके मेरे गुणोंसे उन्मुग्ध ( प्रफुल्लित ) राग- मञ्जरीके पाणिपल्लवोंको ग्रहण किया। जिस रातमें चर्मरत्नभस्त्रिकाकी चौर्यवार्त्ताका प्रकाश होनेवाला था, उसके पूर्व में ही अन्य कार्यके छलसे नगरके प्रधान पुरुषोंको एकत्र करके मेरे गुप्तचर विमर्दकने जो अर्थपतिका पक्षीय हो गया था, धनमित्रका अनादर किया और अनेक प्रकारसे डराया। धनमित्रने कहा—'इसमें आपका क्या प्रयोजन है जो आप दूसरे के निमित्त मुझे गाली देते हैं। मेरे द्वारा आपका स्वल्प भी अपकार हुआ हो इसका भी मुझे स्मरण नहीं है।' वह विमर्दक पुनः डरवाते हुए धनमित्रसे बोला-'यही धनका गर्व है, कि दूसरेकी स्त्रीको जो धनके द्वारा खरीदी गयी थी । फिरसे उसके माता-पिताको धनके लोभमें फंसाकर उसी ( परस्त्री ) को स्वीकार करना चाहते हो' । और कहते हो-
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७७ कारो मत्कृतः' इति, ननु प्रतीतमेवैतत् 'सार्थवाहस्यार्थपतेर्विमर्दको बहि- श्चराः प्राणाः' इति । ( ४५ ) सोऽहं तत्कृते प्राणानपि परित्यजानि । ब्रह्महत्यामपि न परिहरामि । 'ममैकरात्रजागरणप्रतीकारस्तवैष चर्मरत्नाहंकारदाहज्वरः'- इति । तथा ब्रुवाणश्च पौरमुख्यैः सामर्षं निषिद्ध्यापवाहितोऽभूत् । इयं च वार्ता कृत्रिमार्तिना धनमित्रेण चर्मरत्ननाशमादावेवोपक्षिप्य पार्थिवाय निवेदिता । स चार्थपतिमाहूयोपह्वरे पृष्टवान् 'अङ्ग, किमस्ति कश्चिद्विम- र्दको नामात्र भवतः' इति । तेन च मूढात्मना 'अस्ति देव, परं मित्रम्' । शसि निन्दसि । मत्कृतं मया कृतम् । अपकारमिति स्मरामीत्यस्य कर्म । स विम- र्दकः । । धनगर्वः अर्थमदः । शुल्कक्रीतां अर्थविनिमयेन गृहीताम् । द्रव्येण अर्थेन । स्वीचिकीर्षसि स्वीकर्त्तुमिच्छसि । प्रतीतं प्रसिद्धम् । बहिश्चराः प्राणाः परममित्रम् । ( ४५) सोऽहं-विमर्दकः । तत्कृते अर्थपतिनिमित्तम् । परिहरामि त्यजामि । ब्रह्महत्यामपि न गणयामीति भावः । एकरात्रेति-एकरात्रं जागरो जागरणमेव प्रतीकारो वैरशुद्धिर्यस्य सः । चर्मरत्नेति-चर्मरत्नस्याहङ्कारः मम चर्मरत्नमस्तीति गर्वः स एव दाहज्वर ऊष्मा । तव चर्मरत्नापहरणं ममैकरात्रजागरणसाध्यं तेन च ते चर्मरत्नाहङ्कारमपनयामीति भावः । ब्रुवाणः वदन् । सामर्षं सक्रोधम् । अपवा- हितः दूरीकृतः । कृत्रिमार्त्तिना-कृत्रिमा स्वाभाविकेतरा आर्त्तिः पीडा यस्य तेन । आदौ प्रथमम् । उपक्षिप्य प्रस्तूय । पार्थिवाय राज्ञे । निवेदिता विज्ञापिता वार्त्तेति शेषः । स पार्थिवः । उपह्वरे एकान्ते । तेन अर्थपतिना । मूढात्मना अल्पबुद्धिना । मैंने आपका कौनसा अपकार किया है।' यह तो प्रसिद्ध ही है कि, मैं सार्थवाह अर्थपतिका परममित्र हूं। ( ४५ ) 'मैं उसके ( अर्थपतिके ) लिये प्राणोंको भी त्याग सकता हूँ । ब्रह्महत्याको भी नहीं गिनता हूँ मेरे एक रातका जागरण तुम्हारे चर्मरत्नरूपी अहंकारके दाहज्वरकी वैरशुद्धिके लिए काफी है।' ऐसी क्रोधपूर्ण वाणी बोलनेवाले विमर्दकको मुख्यनगरवासियोंने मनाकर हटा दिया । राजासे, उस चर्मरत्नभस्त्रिकाकी चोरीकी वार्ताका प्रथम उपक्षेप करके बनावटी पीड़ाका बहाना करनेवाले धनमित्रने निवेदन कर दिया । उस राजाने अर्थ- पतिको एकान्तमें बुला करके पूछा- हे अङ्ग ! ( मित्र ! ) विमर्दक नामक कोई व्यक्ति तुम्हारे यहां है ?' उस मन्दबुद्धिने कहा-'हे देव ! मेरा परम मित्र है।' उससे आपका
१७८ दशकुमारचरितम् । [ उत्तरपीठिकायां
१७८ दशकुमारचरितम् । [ उत्तरपीठिकायां कश्च तेनार्थः' इति कथिते राज्ञोक्तम्- 'अपि शक्नोषि तमाह्वातुम्' इति । 'बाढमस्मि शक्तः' इति निर्गत्य स्वगृहे वेशवाटे द्यूतसभायामापणे च निपुणमन्विष्यन्नोपलब्धवान् । कथं वोपलभ्येत स वराकः । स खलु वि- मर्दको मद्ग्राहितत्वदभिज्ञानचिह्नो मन्नियोगात्त्वदन्वेषणायोज्जयिनीं तद- हरेव प्रातिष्ठत । अर्थपतिस्तु तमदृष्ट्वा तत्कृतमपराधमात्मसंबद्धं मत्वा मोहाद्भयाद्वा प्रत्याख्याय पुनर्धनमित्रेण विभाविते कुपितेन राज्ञा निगृह्य निगडबन्धनमनीयत । (४६) तेष्वेव दिवसेषु विधिना कल्पोक्तेन चर्मरत्नं दोग्धुकामा काममञ्जरी पूर्वदुग्धं क्षपणीभूतं विरूपकं रहस्युपसृत्य ततोऽपहृतं सर्वम- परमस्यन्तम् । तेन विमर्दकेन । अर्थः प्रयोजनम् । बाढमित्यङ्गीकारार्थकमव्ययम् । वेशवाटे वेश्यागृहमार्गे । निपुणं सावधानम् । स वराकः तुच्छो विमर्दकः । मद्- ग्राहितेति-मया ग्राहितं बोधितं तव राजवाहनस्य अभिज्ञानचिह्नं परिचयसूचकं यस्मै सः । मन्नियोगात् मदादेशात् । त्वदन्वेषणाय-तव भवतो राजवाहनस्या- न्वेषणमनुसन्धानं तस्मै । तदहः तस्मिन् दिने । प्रातिष्ठत चलितोऽभवत् । तत्कृतं विमर्दकविहितम् । आत्मसम्बद्धं-स्वकीयम् । प्रत्याख्याय विपरीतमुक्त्वा अस्वीकृत्य वा । विभाविते-प्रमाणीकृते । निगृह्य बलाद् धृत्वा । निगडबन्धनं- पादयोः शृङ्खलाबन्धनम् । अनीयत प्रापितः । (४६) विधिना-अनुष्ठानेन । कल्पोक्तेन-चर्मरत्ननियमोक्तेन । दोग्धु- कामा रत्नदोहनेच्छुः । पूर्वदुग्धं-प्राग्गृहीतसर्वस्वम् । क्षपणीभूतं-बौद्धभिक्षुकम् । क्या प्रयोजन है?' ऐसा कहनेपर राजाने कहा- 'क्या उसे बुला सकते हो ?' (अर्थपतिने कहा-) अतिसमर्थ हूँ।' इसके पश्चात् अर्थपतिने अपने घर जाकर विमर्दकको वेश्याओंके पथोंमें, जुआखानोंमें, बाजारोंमें खोजवाय । लेकिन, वह सावधान विमर्दक न मिला। भला वह तुच्छ (हीन) विमर्दकको कैसे पावे ? वह विमर्दक तो मेरे द्वारा बोधित कराये हुए परि- चय-सूचक चिह्नसे और मेरे आदेशसे आपको (राजवाहनको) खोजनेके लिए उसी दिन ही उज्जयिनी-(उज्जैन-) के लिए प्रस्थान कर चुका था। अर्थपतिने विमर्दकको न पा करके विमर्दकद्वारा किये अपराधको अपने ऊपर मान करके, मोहसे अथवा भयसे अस्वी- कार करनेपर फिरसे धनमित्रके आविष्कृत करने तक राजाने क्रोधसे अर्थपतिको बेड़ी पहिना दी। (४६) उन्हीं दिनोंमें चर्मरत्नभस्त्रिकाको नियमोक्त विधिसे दुहनेकी इच्छा करने वाली काममञ्जरी जो पहले बौद्धभिक्षुक विरूपकका धन ले चुकी थी। उस बौद्धभिक्षुक- Nepal Sanskrit University, Balmeeki Campus, Kathmandu
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७६ र्थजातं तस्मै प्रत्यर्प्य सप्रश्रयं च बहुनुनीय प्रत्यागमत् । सोऽपि कथंचि- न्निर्ग्रन्थिकग्रहान्मोचितात्मा मदनुशिष्टो हृष्टतमः स्वधर्ममेव प्रत्यप- द्यत । काममञ्जर्यपि कतिपयैरेवाहोभिरश्मन्तकशेषमजिनरत्नदोहाशया स्वमभ्युदयमकरोत् । (४७) अथ मत्प्रयुक्तो धनमित्रः पार्थिवं मिथो व्यज्ञापयत्—'देव, येयं गणिका काममञ्जरी लोभोत्कर्षाल्लोभमञ्जरीति लोकावक्रोशपात्रमा- सीत्, साद्य मुसलोलूखलान्यपि निरपेक्षं त्यजति । तन्मन्ये मच्चर्मरत्नलाभं विरूपकं-वसुपालितापरनामकम् । ततस्तस्माद्विरूपकात् । तस्मै विरूपकाय । प्रत्यर्प्य दत्त्वा । सप्रश्रयं-सविनयम् । सप्रश्रयमिति पाठे सशपथम् । प्रत्यागमत् प्रतिगतवती । सोऽपि-विरूपकोऽपि कथञ्चित् केनापि प्रकारेण । निर्ग्रन्थिकग्रहात्- निर्ग्रन्थिकः क्षपणकाचारः स एव ग्रह उत्पातविशेषस्तस्मात् । 'निर्ग्रन्थोऽर्हन् क्षप- णकः श्रमणो जिन इत्यपी'त्यमरः । निर्ग्रन्थस्यायमिति निर्ग्रन्थिको निर्ग्रन्थ्याचार इत्यर्थः । मदनुशिष्टः मया बोधितः । स्वधर्मं वैदिकधर्मम् । प्रत्यपद्यत-पुनरग्रहीत् । अश्मन्तकशेषम् । अश्मन्तकं चुल्लिः शेषोऽवशिष्टं यस्मिन् तमिति स्वमभ्युद- यमित्यस्य विधेयविशेषणम् । 'अश्मन्तमुद्धानमधिंश्रयणी चुल्लिरन्तिके'त्यमरः । स्वमभ्युदयं स्वकीयसम्पदम् । काममञ्जरी सर्वाण्येव स्वधनानि तथा व्यतरद् यथा चुल्लिमात्रमेव गृहेऽवशिष्टमासीदिति भावः । (४७) मत्प्रयुक्तः मयोपदिष्टः । पार्थिवं राजानम् । लोभोत्कर्षात् लोभातिशया- त् । लोकावक्रोशपात्रं जनापवादभाजनम् । निरपेक्षं निर्विचारं यथा तथा । त्यजति ददाति । तत्-तस्मात्कारणात् । मच्चर्मरत्नलाभं मदीयचर्मरत्नप्राप्तिम् । हेतुं (क्षपणक-) को एकान्तमें बुलाया तथा उस बौद्धभिक्षुसे जो धन पहले प्राप्त किया था उस धनको बौद्धभिक्षुको विनयपूर्वक देते हुए तथा उस भिक्षुकी बहुत सम्मान्यता करके पुनः घर पर लौट आयी । वह बौद्धभिक्षु भी किसी प्रकारसे अर्हन् सिद्धान्तकी वेदनाओंसे युक्त हो करके मेरे आदेशोंसे प्रसन्न वदन होकर अपने वैदिक-धर्ममें लौटकर आ गया । काममञ्जरीने भी थोडे ही दिनोंमें अपने अभ्युदयके लिये चर्मरत्नभक्षिका दुहनेकी इच्छासे सब धनको दान करके केवल चूल्हामात्र अवशिष्ट अपनेको बना डाला । (४७) तत्पश्चात् मेरे द्वारा उपदिष्ट धनमित्रने एकान्तमें राजासे कहा—'हे देव ! आजकल जो यह काममञ्जरी वेश्या है । वह अतिशय लोभके कारण लोभमञ्जरीकी तरह जनोंके द्वारा अपवादधारिणी हो रही है । वह आज मूसल, ओखली भी अविचारसे त्याग
१८० दशकुमारचरितम् । [ उत्तरपीठिकायां
१८० दशकुमारचरितम् । [ उत्तरपीठिकायां हेतुम् । तस्य खलु कल्पस्तादृशः । वणिग्भ्यो वारमुख्याभ्यश्च दुग्धे ना- न्येभ्य इति हि तद्गता प्रतीतिः । अतोऽमुष्यामस्ति मे शङ्का' इति । सा सद्य एव राज्ञा सह जनन्या समाहूयत । (४८) व्यथितवर्णनेव मयोपह्बरे कथितम्—'नूनमार्ये, सर्वस्वत्या- गादतिप्रकाशादाशङ्कनीयचर्मरत्नलाभा । तदनुयोगायाङ्गराजेन समाहू- यसे । भूयोभूयश्च निर्बद्धा त्वया नियतमस्मि तदागतित्वेनाहमपदेश्यः। ततश्च मे भावी चित्रवधः । मृते च मयि न जीविष्यत्येव ते भगिनी। तादृशदानस्य कारणम् । मन्ये-निश्चिनोमि । तस्य चर्मरत्नस्य । कल्पो नियमः। तादृशः पूर्वोक्तप्रकारः । अमुष्यां काममञ्जर्याम् । शङ्का-चौर्यसन्देहः । सा काम- मञ्जरी । सद्यः तस्मिन्नहनि । जनन्या रागमञ्जरीमात्रा । सहेति सम्बध्यते । (४८) व्यथितवर्णेन-दैन्यपूर्णेन । मया अपहारवर्मणा । उपह्वरे एकान्ते। अतिप्रकाशात्-सर्वजनसंवेद्यात् । आशंकनीयेति-आशङ्कनीयः संशयनीयः चर्म- रत्नस्य लाभो यस्याः सा । त्वया चर्मरत्नं लब्धमिति सर्वे संशेरत इति भावः। तदनुयोगाय-तत्प्रश्नं कर्तुम् । भूयो भूयः पुनः पुनः । निर्बद्धा साग्रहं पृष्टा। नियतं अवश्यम् । तदागतित्वेन चर्मरत्नप्राप्तिहेतुत्वेन । अपदेश्यः वक्तव्यः। चित्रवधः-विचित्रनिधनम् । आस्वाभाविकं मरणमिति भावः । ते भगिनी-रागम- रहो है। उस चर्मरत्नभस्त्रिकाकी दोहनक्रिया इसी रीतिसे है। वेश्या और बनिया ही इसे दुह सकते हैं। अन्य लोग नहीं दुह सकते । इसलिए उसीपर विश्वास होता है कि, उसी वेश्याने मेरी चर्मरत्नभस्त्रिका प्राप्त की है। उसी पर शङ्का है। राजाके द्वारा वह काम- मञ्जरी माताके साथ तुरत बुलायी गयी । (४८) मैंने (अपहारवर्माने) बनावटी दुःखमयवेष करके काममञ्जरीसे एकान्तमें जा करके कहा—'हे आर्य्ये ! आपने अपना सम्पूर्ण धन दान कर दिया है इस हेतुसे सबको पूर्ण सन्देह हो गया है कि, आपके (काममञ्जरीके) पास चर्मरत्नभस्त्रिका है । उसीके विषयमें पूछनेके लिये राजाने आपको बुलाया है । राजा द्वारा आग्रहपूर्वक बार-बार पूछे जानेपर कि, यह चर्मरत्नभस्त्रिका आपको (काममञ्जरीको) कैसे मिली ? कहां मिली! आदि तो आप (काममञ्जरी) अवश्य मेरा नाम बतलावेंगी। उसपर मेरा विचित्र रीतिसे निधन हो जायगा' । (मेरे अपहारवर्माके) इस अस्वाभाविक रीति के मरणसे आपकी बहिन रागमञ्जरी भी जीवित न रहेगी । आप (काममञ्जरी) दरिद्रावस्थामें हैं ही।
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १८१ त्वं च निःस्वीभूता । चर्मरत्नं च धनमित्रमेव प्रतिभजिष्यति । तदियमा- पत्समन्ततोऽनर्थानुबन्धिनी । तत्किमत्र प्रतिविधेयम्' इति । ( ४६ ) तया तज्जनन्या चाश्रूणि विसृज्योक्तम्-'अस्त्येवैतदस्मद्बा- लिश्यान्निर्भिन्नप्रायं रहस्यम् । राज्ञश्च निर्बन्धाद् द्वित्रिश्चतुर्निहुत्यापि निय- तमागतिरपदेश्यैव चोरितस्य त्वयि । त्वयि त्वपदिष्टे सर्वमस्मत्कुटुम्बम- वसीदेत् । अर्थपतौ च तदपयशो रूढम् । अङ्गपुरप्रसिद्धं च तस्य कीनाशस्यास्माभिः संगतम् । अमुनैव तदस्मभ्यं दत्तमित्यपदिश्य वर- मात्मा गोपायितुम्' इति मामभ्युपगमय्य राजकुलमगमत्ताम् । राज्ञानुयुक्ते अरी । निःस्वीभूता-दरिद्रीकृता । प्रतिभजिष्यति-प्राप्स्यति । समन्ततः सर्वतः । अनर्थानुबन्धिनी-अनर्थोत्पादिका । अत्रास्मिन् विषये । प्रतिविधेयं कर्त्तव्यम् । ( ४९ ) तया काममञ्जर्या । तज्जनन्या तन्मात्रा च । अस्त्येवैतत्-सत्यमेवै- तत् । अस्मद्बालिश्यात्-अस्माकं मूर्खतया । निर्भिन्नप्रायं-बाहुल्येन प्रकाशि- तम् । निर्बन्धात् आग्रहातिशयात् । द्विर्द्विवारम् । त्रिस्त्रिवारं चतुश्चतुर्वारम् । द्वित्रिचतुर्भ्यः सुजिति सुच् प्रत्ययः । निहुत्य संगोप्य । आगतिः प्राप्तिहेतुत्वम् । चोरितस्य अपहृतस्य पदार्थस्य । अपदिष्टे कीर्त्तिते चोरत्वेनेति शेषः । अवसीदेत् । विनश्येत् । तदपयशः-चर्मरत्नचौर्यापवादः । रूढं प्रसिद्धम् । तस्य अर्थपतेः । कीनाशस्य-क्षुद्रस्य । संगतं मैत्री । अमुना अर्थपतिना । तत्-चर्मरत्नम् । वरं मनागिष्टः । गोपायितुं रक्षितुम् । अभ्युपगमय्य बोधयित्वा । अगमतां गतवत्यौ । चर्मरत्नभस्त्रिका-जिससे धनकी प्राप्ति होनेकी आशा है वह भी-धनमित्रको ही मिल जायगी । इस कारणसे यह आपत्ति सर्वथा अनर्थकारिणी है अत एव इस विषयमें क्या उपाय करना चाहिये । ( ४९ ) इस पर वह काममञ्जरी और उसकी माता माधवसेनाने आंख से आंसुओंको छोड़ते हुए कहा- 'यह सर्वदा सत्य है कि, हम लोगोंकी मूर्खताके कारण ही यह रहस्य बहुलतासे प्रकाशित हो गया है । राजाके अतिशय आग्रहसे यदि आपने दो बार तीन बार चार बार बातको छिपानेपर फिर अपहृत ( चोरी की हुई ) वस्तुके विषयमें कह दिया तो, आप पर ही चोरीका सन्देह हो जायगा । और आपके नाम-कथनसे हमारा सारा परिवार विनष्ट हो जायगा । वह चर्मरत्नभस्त्रिका का चौर्यापवाद अर्थपतिके लिए प्रसिद्ध हो चुका है । अङ्गपुरमें यह प्रसिद्धि है ही कि, उस क्षुद्र अर्थपतिके साथ हम लोगोंकी मैत्री है । ऐसी अवस्थामें हम लोग यह कह करके अपनी रक्षाका उपाय ठीक सोचती हैं कि यह चर्मरत्नभस्त्रिका मुझे उसी अर्थपति ने दी है ।' ऐसा मुझे समझा करके वे लोग राजदरबारमें
१८२ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF १८२ दशकुमारचरितम् । [ उत्तरपीठिकायां
च 'नैष न्यायो वेशकुलस्य यदातुरपदेशः । न ह्यर्थैन्र्यायार्जितैरेव पुरुषा वेशमुपतिष्ठन्ति' इत्यसकृदतिप्रणुद्य कर्णनासाच्छेदोपक्षेपभीषिताभ्यां दग्धबन्धकीभ्यां स एव तपस्वी तस्करत्वेनार्थपतिरग्राह्यत । (५०) कुपितेन च राज्ञा तस्य प्राणेषूद्यतो दण्डः । प्राञ्जलिना धनमित्रेणैव प्रत्यषिध्यत- 'आर्य, मौर्यदत्त एष वरो वणिजाम् ईदृशेष्व- पराधेष्वसुभिरवियोगः । यदि कुपितोऽसि हृतसर्वस्वो निर्वासनीयः पाप एषः' इति । तन्मूला च धनमित्रस्य कीर्तिरप्रथत । अप्रीयत च भर्त्ता।
अनुयुक्ते-पृष्टे । न्यायः नियमो रीतिर्वा । वेशकुलस्य वेश्याजनस्य दातुरपदेशः दातृनामकीर्त्तनम् । नहीति-अन्यायार्जितेनार्थेनैव प्रायो वेश्यासु आसक्ता भवन्ति पुरुषा इति भावः । असकृत् पुनः पुनः । अतिप्रणुद्य परिहृत्य निहुत्य वा । कर्ण- योर्नासायाश्च छेदः कर्त्तनं तस्योपक्षेपः प्रस्तावस्तेन भीषिताभ्यां तर्जिताभ्याम्। यदि पुनर्मिथ्या कथयिष्यसि तदा कर्णनासिकच्छेदं करिष्यामीति भयं प्रदर्शितमिति भावः । दग्धवन्धकीभ्यां भाग्यहीनगणिकाभ्यां काममञ्जरीतज्जननीभ्याम् । तपस्वी- निर्दोषः । अग्राह्यत ग्राहितो राजेति शेषः । (५०) तस्य अर्थपतेः । उद्यत ऊर्द्धीकृतः । प्राणदण्डो विहित इत्यर्थः । प्रत्यषिध्यत निवारितः । मौर्यदत्तः-मौर्येण चन्द्रगुप्तेन नीतिशास्त्रकर्त्रा दत्तोऽर्पितः। वणिजां वैश्यानाम् । ईदृशेषु-चौर्यादिषु । असुभिः प्राणैः । अवियोगः अवि- च्छेदः । एतादृशेनापराधेन वैश्यानां प्राणदण्डो न कर्त्तव्य इति भावः । हृत- सर्वस्वः गृहीतधनः । निर्वासनीयः देशान्निष्कासनीयः । तन्मूला-अर्थपतिप्राण-
चली गयीं । राजा द्वारा पूछे जानेपर (उन्होंने कहा)-'राजन् ! यह वेश्याओंका धर्म नहीं है कि, वे दाताओंका नाम बतलावें । और यह भी बात नहीं है कि- जो धन वेश्याओंके यहां आता है वह न्यायार्जित ही हो, (क्योंकि) प्रायः अन्यायार्जित धनवाले पुरुष वेश्याओं पर आसक्त होते हैं और न्यायार्जित धनवाले ही पुरुष वेश्याओंके यहां आते हों ।' ऐसे वाक्योंसे बार-बार छिपाने पर भी जब भाग्यहीना उन वेश्याओंको कान-नाक काटनेकी धमकी दी गयी तो, उन लोगोंने डर करके निर्दोष अर्थपतिको चोर बतलाया । (५०) राजाने क्रोध करके उस अर्थपतिके लिए प्राणदण्डकी आज्ञा दे दी। ऐसी आज्ञापर धनमित्रने हाथ जोड़ करके आज्ञाका प्रतिरोध करते हुए राजासे कहा- 'हे आर्य! नीतिशास्त्रकर्त्ता महाराज चन्द्रगुप्त मौर्यका ऐसा मत है कि, ऐसे अपराधोंके लिए वैश्योंके प्राणोंको न लेना चाहिये । अपितु, उनका सर्वस्वहरण करके उन्हें राज्यसे निर्वासित कर देना चाहिये।' यदि आप कुपित ही हैं, तो, इसका सर्वस्व अपहरण कर लें और इसे
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
पटच्चरच्छेदशेषोऽर्थपतिरर्थमत्तः सर्वपौरजनसमक्षं निरवास्यत । तस्यैव द्रव्याणां तु केनचिदवयवेन सा वराकी काममञ्जरी चर्मरत्नमृगतृष्ण- कापविद्धसर्वस्वा सानुकम्पं धनमित्राभिनोदितेन भूपेनान्वगृह्यत । धन- मित्रश्चाहनि गुणिने कुलपालिकामुपांयस्त । तदेवं सिद्धसंकल्पो राग- मञ्जरीगृहं हेमरत्नपूर्णमकरवम् । ( ५१ ) अह्मिश्च पुरे लुब्धसमृद्धवर्गस्तथा मुषितो यथा कपालपाणिः स्वैरेव धनैर्मद्विश्राणितैः समृद्धीकृतस्यार्थिवर्गस्य गृहेषु भिक्षार्थमभ्रमत् । न ह्यलममतिनिपुणोऽपि पुरुषो नियतिलिखितां लेखामतिक्रमितुम् । यतोऽ- रक्षणनिमित्ता । अप्रथत-विख्याताऽभवत् । भर्त्ता स्वामी-राजेत्यर्थः । पटच्चरेति- पटच्चरं जीर्णवस्त्रं तस्य च्छेदः खण्डः शेषोऽवशिष्टो यस्य सः । कौपीनमात्राव- शेष इत्यर्थः । तस्यैव अर्थपतेरेव । द्रव्याणां धनानाम् । अवयवेन अंशेन । चर्म- रत्नेति-चर्मरत्नस्य मृगतृष्णिकया मरीचिकया अपविद्धं नाशितं सर्वस्वं यया सा । सानुकंपं सकृपम् । धनमित्राभिनोदितेन धनमित्रप्रेरितेन । अन्वगृह्यत अनु- गृहीता । गुणिनि प्रशस्ते अहनीत्यस्य विशेषणम् । उपायंस्त परिणीतवान् । सिद्धसंकल्पः सिद्धमनोरथः । अपहारवर्मेति शेषः । ( ५१ ) लुब्धेति । लुब्धानां धूर्त्तानां समृद्धानां धनिनां वर्गः समूहः । कपाल- पाणिः-खर्परहस्तः । स्वैरेव निजैरैव । मद्विश्राणितैर्मया दत्तैः । समृद्धीकृतस्य पुष्टस्य धनीकृतस्येति यावत् । लुब्धानां धनान्यपहृत्य मया याचकेभ्यो दत्तानि । साम्प्रतं लुब्धानां धनेनैव ये समृद्धा याचकास्तेषां गृहेष्वेव ते लुब्धा भिक्षार्थं निर्वासित कर दें । यही इसके पापका दुष्परिणाम होगा । अर्थपतिके प्राण बचानेके कारण धनमित्रकी कीर्ति भी फैल गयी । और राजा भी धनमित्रपर प्रसन्न हो गया । कौपीनवेश बना करके सब पुरवासियोंके सामने ही अर्थपतिको राज्य-निर्वासित करा दिया । उसी अर्थपतिके धनका कुछ भाग उस तुच्छा काममञ्जरीको भी दिला दिया जो चर्मरत्नभस्रिका को दुहनेकी इच्छासे अपना सर्वस्व दान कर चुकी थी । धनमित्रकी प्रेरणासे राजाने प्रसन्नता प्रकट की । धनमित्रने शुभ दिवसमें कुलमालिकाके साथ पाणिग्रहण कर लिया । मैने (अपहारवर्माने) भी इस प्रकारसे सिद्धमनोरथ होने पर रागमञ्जरीके गृहको सुवर्ण, रत्न आदिसे परिपूर्ण कर दिया । ( ५१ ) इस नगरमें जितने भी धूर्त्त धनिक-समुदाय थे, उनके धनोंको इस रीतिसे आहरण करा दिया । जिससे उनके पास केवल एक-एक खर्परमात्र हाथोंमें अवशिष्ट रह गया । मेरे द्वारा वितरित किये हुए अपने ही धनको वे लोग उन याचकोंके घरपर मांगते
१८४ दशकुमारचरितम् । [ उत्तरपीठिकायां
१८४ दशकुमारचरितम् । [ उत्तरपीठिकायां हमेकदा रागमञ्जर्याः प्रणयकोपप्रशमनाय सानुनयं पायितायाः पुनःपुनः प्रणयसमर्पितमुखमधुगण्डूषमास्वादमास्वादं मदेनास्पृश्ये । शीलं हि म- दोन्माद्योरमार्गेणाप्युचितकर्मस्वेव प्रवर्तनम् । यदहमुपोढमदः 'नगरमिद- मेकयैव शर्वर्या निर्धनीकृत्य त्वद्भवनं पूरयेयम्' इति प्रव्यथितप्रियतमा- प्रणामाञ्जलिशपथशतातिवर्ती मत्तवारण इव रभसच्छिन्नशृङ्खलः कयापि धात्र्या शृगालिकाख्ययानुगम्यमानो नातिपरिकरोऽसिद्वितीयो रंहसा परे- गच्छन्तीति भावः । अलं समर्थः । अतिनिपुणः अतिचतुरः । नियतिलिखितां विधिनिर्दिष्टं लेखां गणनाम् । अतिक्रमितुमुल्लंघयितुम् । अहमपहारवर्मा । प्रण- यकोपप्रशमनाय मानभञ्जनाय । पायितायाः कृतपानायाः सुरामिति शेषः । प्रण- येति-प्रणयेन प्रेम्णा समर्पितं दत्तं यन्मुखमधुनो मुखामृतस्य गण्डूषं तत् । आस्वा- दमास्वादम्-पुनः पुनरास्वाद्य । णमुल् । मदेन मत्ततया । अस्पृश्ये स्पृष्टोऽभवम् । मत्तोऽभवमित्यर्थः । शीलं स्वभावः । मदोन्माद्योः-मदो मत्तता-उन्मादः चि- त्तता तयोः शीलमित्यनेन सम्बन्धः । अमार्गेण विरुद्धमार्गेण । उचितकर्मसु अभ्यस्तकार्येषु । प्रवर्त्तनं प्रवृत्तिः । एतदेव शीलं मदोन्मादयोः । उपोढमदः अतिशयत्तः । प्रव्यथितेति-प्रव्यथिता दुःखिता या प्रियतमा राजमञ्जरी तस्याः प्रणामाञ्जलिना यत् शपथशतं तदतिक्रम्य वर्त्तत इति । रभसच्छिन्नशृङ्खलः-रभ- सेन वेगेन छिन्ना शृङ्खला बन्धनरज्जुर्येन सः । नातिपरिकरः स्वल्पपरिजनः । डोलने लगे, जिन्हें मैंने समृद्ध कर दिया था । परम प्रवीण मनुष्य भी ब्रह्माकी लिखित रेखाको मिटाने में सर्वदा असमर्थ ही रहते हैं । एक दिनकी घटना है कि, मैंने रागमञ्जरीके प्रणयकोपके शमनार्थ प्रेमसे उसके मुखके अमृत-गण्डूषका बार-बार आस्वादन किया । और मैं प्रेमसे पान करता हुआ, मन्दोन्मत्त हो गया । मद और उन्माद दोनोंका यही स्वभाव है कि, उनके वशीभूत होनेपर भी मनुष्य पूर्वकी अभ्यस्त उचित प्रवृत्तिकी ओर ही प्रवृत्त होता है। मैं उस कालमें अति मदोन्मत्त था । 'मैं एक ही रातमें इस नगरको निर्धन बना करके तुम्हारे घरको धनसे पाट दूँगा।' (आदि बक रहा था)। दुःखिता प्रियतमा रागमञ्जरी द्वारा बार-बार हाथ जोड़ करके प्रणाम करनेको तथा शपथादि खानेको न मान करके मैं उस मतवाले हाथीके समान हो गया जो बड़े वेगसे अपनी लोहेकी सीकड़ी आदि तोड़ देता है । कोई शृगालिका नामक दूती जो (मुझे समझाने) मेरे पीछे आ रही थी । उससे अनुगम्यमान मैं स्वल्पपरिजनवाला एक हाथमें तलवार लिये हुए वेगसे मार्गपर आ गया । नगररक्षक पुरुष जो मुझे चोर समझ करके
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १८५ णोदचलम् । अभिपततोऽपि नागरिकपुरुषानशङ्कमेव विगृह्य तस्कर इति तैरभिहन्यमानोऽपि नातिकुपिंतः क्रीडन्निव मदावसन्नहस्तपतितेन निस्त्रिं- शेन द्वित्रानेव हत्वावघूर्णमानताम्रदृष्टिरपतम् । ( ५२ ) अनन्तरमार्तरवान्विसृजन्ती शृगालिका ममाभ्याशमगमत् । अबध्ये चाहमरिभिः । आपदा तु मदापहारिण्या सद्य एव बोधितस्तत्क्ष- णोपजातया प्रतिभया व्यचीचरम्—'अहो, ममेयं मोहमूला महत्यापदा- पतिता । प्रसृततरं च सख्यं मया सह धनमित्रस्य, मत्परिग्रहत्वं च राग- मञ्जर्याः । मदेनेसा च तौ प्रोर्णतौ श्वो नियतं निग्रहीष्येते । तदियमिह असिद्वितीयः खड्गमात्रसहायः । रंहसा वेगेन । परेण अतिशयितेन । अभिपततः सम्मुखमागच्छतः । विगृह्य युद्धं कृत्वा । अभिहन्यमानस्ताड्यमानः । मदेति- मदेन मत्ततया अवसन्नः शिथिलो यो हस्तस्तस्मात् पतितेन भ्रष्टेन । निस्त्रिं- शेन खड्गेन द्वित्रान्-द्वौ वा त्रयो वा परिमाणमेषामिति द्वित्रास्तान् । अवघूर्णेति-अवघूर्णमाना विह्वला ताम्रा रक्तवर्णा दृष्टिर्नयने यस्य सः । अपतम् । भूमाविति शेषः । (५२) आर्त्तरवान्-पीडासूचकध्वनीन् । विसृजन्ती-मुञ्चन्ती । रुदती- त्यर्थः । अभ्याशं समीपम् । अबध्ये बद्धोऽभवम् । बध्यतेः कर्मणि लङ् । मदापहारिण्या-मत्ततानाशिन्या । प्रतिभया-प्रज्ञया । व्यचीचरं विचा- रितवानस्मि । मोहमूला अज्ञाननिबन्धना । आपतिता आगता । प्रसृततरं प्रसिद्धतरम् । मत्परिग्रहत्वं मद्भार्थ्यात्वम् । मदेनसा मदपराधेन तौ-रागमञ्जरी- धनमित्रौ । प्रोर्णुतौ-आच्छादितौ अभिभूताविति यावत् । श्वः-आगामि- दिने । निग्रहीष्येते निग्रहं प्राप्स्यतः । प्रतिपत्तिः कर्त्तव्यम् । यया-प्रतिपत्त्या । पकड़ने आये उनसे युद्ध करके तथा उनमें से दो-तीनको ताड़ित कर दिया। मैं (अपहारवर्मा) मदके जोशमें विह्वल हो करके शिथिल हाथों युक्त तलवार रहित होकर एवं लाल-लाल नेत्रोंको किये हुए भूमिपर गिर पड़ा। ( ५२ ) इसके अनन्तर पीड़ासूचक शब्दोंको करती हुई शृगालिका भी मेरे पास आ गयी। मैं (अपहारवर्मा) शत्रुओं द्वारा (नगर-रक्षकों द्वारा) बांध लिया गया। उन्मादतत्त्वको नाश करनेवाली आपत्तिकाने तत्क्षणमें ही मुझे बुद्धि दी और उसी उत्पन्न हुई प्रज्ञासे (बुद्धिसे) मैंने विचार किया। 'अहो ! मेरे अज्ञान निबन्धनसे यह विपुला आपत्ति Nepal Sanskrit University, Balmeeki Campus, Kathmandu
१८६ दशकुमारचरितम् । [ उत्तरपीठिकायां.
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF १८६ दशकुमारचरितम् । [ उत्तरपीठिकायां.
प्रतिपत्तिर्यानुष्ठीयमानया मन्नियोगतस्तौ परित्रास्येते । मां च कदाचि- दनर्थादितस्तारयिष्यति' इति कमप्युपायमात्मनैव निर्णीय शृगालिकाम- गादिषम्-'अपेहि जरतिके, या तामर्थलुब्धां दग्धगणिकां रागमञ्जरि- कामजिनरत्नमत्तेन शत्रुणा मे मित्रच्छद्मना धनमित्रेण संगमितवती, सा हतासि । तस्य पापस्य चर्मरत्नमोषाद् दुहितुश्च ते साराभरणापहा- रादहमद्य निःशल्यमुत्सृजेयं जीवितम्' इति । (५३) सा पुनरुद्धट्टितज्ञा परमधूर्ता साश्रुगद्गदमुदञ्जलिस्तान्पुरुषान्स-
अनुष्ठीयमानया-क्रियमाणया । मन्नियोगतः-मदादेशात् । तौ-रागमञ्जरीधन- मित्रौ । कदाचित्-पक्षान्तरेण । अनर्थात्-विपदः । इतः-अस्मात् । तारयिष्यति उद्धरिष्यति । आत्मनैव स्वयमेव । अपेहि-अपसर दूरङ्गच्छेति यावत् । जरतिके वृद्धे । सम्बोधनमेतत् । या त्वमित्यर्थः । अजिनरत्नमत्तेन-चर्मरत्नगर्वितेन । मित्र- च्छद्मना-कपटमित्रेण । संगमितवती संयोजितवती । सा त्वम् । हता विनष्टा। पापस्य दुरात्मनो धनमित्रस्य । चर्मरत्नमोषात्-चर्मरत्नापहरणात् । दुहितुः कन्या- या रागमञ्जर्या इत्यर्थः । सारेति-सारो मूलधनम् आभरणमलङ्कारस्तयोरपहारा- दपहरणात् । निःशल्यं निर्वाधमवश्यमिति यावत् । उत्सृजेयं त्यजेयम् । (५३) सा शृगालिका। उद्धट्टितज्ञा-उद्घट्टितं सूचितं जानातीति तथा।
आ पड़ी है। मेरे साथ धनमित्रकी प्रगाढ़ मित्रता और रागमञ्जरीका मेरे साथ पाणिग्रहणक्रिया प्रसिद्धि पा रही है। मेरे इस पापसे वे दोनों धनमित्र और रागमञ्जरी अपराधी हो जायेंगे ! (अरे !) कल वे लोग अवश्य पकड़े जायेंगे ! इसलिए अब ऐसा कोई कर्त्तव्य करना चाहिये। जिसके करनेसे ये दोनों रागमञ्जरी और धनमित्र मेरे नियोग (आदेश) से बच जायं। क्योंकि-बचे रहनेसे कदाचित् वे लोग मुझे भी बचा सकें।' इस प्रकारकी कोई तरकीव अपने आप ही सोच करके शृगालिकासे बोला-'ओ वृद्धे ! दूर भाग । उस धनलोभिनी भाग्यहीना वेश्या रागमञ्जरीसे और चर्मरत्न-भस्त्रिकासे उन्मत्त मेरे शत्रु धनमित्रसे मित्रता करानेके छलसे तुमने समागम कराया है। सो अब तुम मारी गयी। उस पापी धनमित्रकी चर्मरत्न भस्त्रिकाके चुरानेसे तथा तुम्हारी कन्या रागमञ्जरीके आभूषणोंके अपहरणरूपदोषसे मैं (अपहारवर्मा ) आज अवश्य प्राणोंको विसर्जित करूंगा।' (५३) वह सूचितज्ञा (प्रत्युत्पन्नमतिवाली) परम कुटिलप्रवीणा आंसू भर करके
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १८७ प्रणाममासादितवती सामपूर्वं मम पुरस्तादयाचत—'भद्रकाः, प्रती- क्ष्यतां कंचित्कालं यावदस्मादस्मदीयं सर्वं मुषितमर्थजातमवगच्छेयम्' इति । तथेति तैः प्रतिपन्ने पुनन्मत्समीपमासाद्य 'सौम्य, क्षमस्वाम्य दा- सीजनस्यैकमपराधम् । अस्तु स कामं त्वत्कलत्राभिमर्शी वैरास्पदं धन- मित्रः । स्मरंस्तु चिरकृतां ते परिचर्यामनुग्रहीतुमर्हसि दासीं रागमञ्ज- रीम् । आकल्पसारो हि रूपाजीवाजनः । तद्ब्रूहि क्व निहितमंस्या भूषणम्' इति पादयोरपतत् । (५४) ततो दयमान इवाहमब्रवम्—'भवतु, मृत्युहस्तवर्तिनः किं
प्रत्युत्पन्नमतिरिति भावः । उदञ्जलिर्बद्धाञ्जलिः । तान् ये खलु अपहारवर्माण- मबध्नन् आसादितवती प्राप्तवती । सामपूर्वं सविनयम् । भद्रकाः सौम्याः सम्बो- धनम् । प्रतीक्ष्यताम्-अपेक्ष्यतां युष्माभिरिति शेषः । अस्मात् तस्करात् । मुषितं अपहृतम् । अवगच्छेयं जानीयाम् । तथा-तथास्तु । तैः पुरुषैः । प्रतिपन्ने स्वी- कृते । अस्य दासीजनस्य ममेत्यर्थः । स धनमित्रः । कामं यथेष्टम् । त्वत्कल- त्रेति-त्वत्कलत्रं तव भार्यां रागमञ्जरीमित्यर्थः । अभिमृष्टवान् धर्षितवान् इति तथा । अत एव वैरास्पदं शत्रुताभाजनम् । चिरकृतां बहुकालविहिताम् । परि- चर्यां सेवाम् । आकल्पसारः भूषणप्रधानः । हि यस्मात् । रूपाजीवाजनः- वेश्याजनः । रूपेण आजीवति जीविकां करोतीति रूपाजीवा । निहितं स्थापितम् । अस्या रागमञ्जर्याः । (५४) दयमानः कृपां कुर्वन् । भवतु यथा वास्तु । श्रूयतां वा । संवादे वर्त-
और बद्धाञ्जलि होकर एवं प्रणाम करती हुई उन नगररक्षकोंसे गद्गद् वाणीमें विनयके साथ मेरे सामने ही बोली—'हे सौम्यो ! आप लोग कुछ समय तक प्रतीक्षा करें जिससे मैं इस चोरसे अपने चोरी गये हुए सब धनका पता लगा लूं।' उन रक्षकोंसे 'तथास्तु' ऐसी स्वीकृति पानेपर (वह) मेरे पास आयी और बोली—'हे सौम्य ! आप इस दूतीका एक अपराध क्षमा करें। आपकी भार्या रागमञ्जरीका अभिगामी वह धनमित्र आपका पूर्ण शत्रु रहे। किन्तु, बहुकालसे परिचर्या करनेवाली (अपनी) दासी रागमञ्जरीके ऊपर तो, अनुग्रह करनेकी कृपा करें । 'रूपाजीवा—रूपसे जीवनवृत्ति चलानेवाली—वेश्याओंका अलंकार ही मुख्य होता है। अत एव आप बतायें कि, उस रागमञ्जरीका गहना (आभूषण) कहां पर धरा हुआ है।' इतना कह करके वह मेरे पैरोंपर गिर पड़ी । (५४) तत्पश्चात् मैं (अपहारवर्मा) कृपालु पुरुषके समान बोला—'होगा, मैं
१३ द० कृ० उ० Nepal Sanskrit University, Balmeeki Campus, Kathmandu
१८८ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF १८८ दशकुमारचरितम् । [ उत्तरपीठिकायां ममामुष्या वैरानूबन्धेन' इति तद् ब्रुवन्निव कर्णे एवैनामशिक्षयम्-' एव- मेवं प्रतिपत्तव्यम्' इति । सा तु प्रतिपन्नार्थेव जीव चिरम् , प्रसीदन्तु ते देवताः, देवोऽप्यङ्गराजः पौरुषप्रीतो मोचयतु त्वाम् , एतेऽपि भद्रमुखा- स्तव दयन्ताम् , इति क्षणादपासरत् । आनीये चाहमारक्षिकनायकस्य शासनाच्चारकम् । ( ५५ ) अथोत्तरेद्युरागत्य दृष्टतरः सुभगमानी सुन्दरंमन्यः पितुरत्य- यादचिराधिष्ठिताधिकारस्तारुण्यमदादनतिपक्वः कान्तको नाम नागरिकः मानमिदमव्ययम् । मृत्युहस्तवर्त्तिनः यमहस्तगतस्य । अमुष्या रागमञ्जर्याः। वैरानूबन्धेन-शत्रुताचरणेन । एनां शृगालिकाम् । प्रतिपत्तव्यम्-विधातव्यम्। सा शृगालिका । प्रतिपन्नार्था गृहीतार्था यत्तेनोक्तं तत् सर्वं तया बुद्धमिति भङ्ग्या प्रकाशयन्तीत्यर्थः । पौरुषप्रीतः तव पुरुषकारेण सन्तुष्टः । एते नगररक्षकाः। दयन्तां कृपां कुर्वन्तु-रक्षन्तु इति यावत् । अपासरत् अपसृताऽभवत् । आनीये- आनीतः । आरक्षिकनायकस्य नगरपालाध्यक्षस्य । शासनादादेशात् । चारकं कारागृहम् । ( ५५ ) उत्तरेद्युः परदिने । दृप्ततरः अतिगर्वितः । सुभगमानी-आत्मानं सुभगं मन्यतेऽसौ । सुन्दरम्मन्यः सौन्दर्याभिमानी । पितुरत्ययात् पितृमरणात्। अचिरेति-अचिरेण स्वल्पकालेन अधिष्ठितः प्राप्तः अधिकारो येन सः । तारुण्य- ( अपहारवर्मा ) तो, अधुना, यमराजके हाथोंमें पड़ा हूं ! अब मुझे रागमञ्जरीसे शत्रुताका आचरण करनेसे क्या लाभ ?' ऐसा कहते हुए मैंने उस दासीके कानोंमें शिक्षा दी। कि- 'इस प्रकारसे उपाय करो।' वह शृगालिका सब बातोंको ग्रहण करके ( मुझे आशीर्वचन देने लगी ) आप दीर्घायु हों ! आपपर देवतागण प्रसन्न हों । अंगराज नृपति भी आपके पौरुषसे सन्तुष्ट होकर आपको छोड़ दें । ये भद्र पुरुषगण ( नगररक्षकगण ) आपपर दया करें।' ऐसा कह करके वह एक क्षणमें ही चली गयी । मैं ( अपहारवर्मा ) नगरपालाध्यक्षकी आज्ञासे कारागारमें लाया गया । ( ५५ ) इसके अनन्तर दूसरे दिन, अत्यन्त गर्वित अपनेको सुभग माननेवाला सौन्दर्याभिमानी कान्तक नामक काराध्यक्ष जो अपने पिताकी मृत्युके कारण थोड़े ही दिनोंते उस स्थानपर आरूढ़ हुआ था । जिसे यौवनगर्वके हेतुसे युक्त अधिकारमें स्वायत्त अधिकारकी परिपक्वतामयी जानकारी भी न थी । उसने तिरस्कार करके मुझसे Nepal Sanskrit University, Balmeeki Campus, Kathmandu