गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
नवमः पटलः । ६३ यादीन् सधातुकान् देवि क्रमेणैव ततो न्यसेत् । त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ २६ ॥ प्राणात्मा च जीवात्मा च परमात्मा तथैव च । हृदये बाहुमूले च तथा कण्ठप्रदेशके ॥ ३० ॥ स्कन्ध(कच्छ)योर्हृदयप्रान्ते पाणिपादयुगे तथा । जठराननयोर्देवि सर्वाङ्गेषु क्रमान्न्यसेत् ॥ ३१ ॥ ❊ललाटेऽनामिकां मध्यां विन्यसेन्मुखपङ्कजे । तर्जनीमध्यमानामावृद्धा एव तु नेत्रयोः ॥ ३२ ॥ अङ्गुष्ठं कर्णयोर्देवि कनिष्ठाङ्गुष्ठकौ नसोः । मध्यास्तिस्रो गण्डयोश्च मध्यमामोष्ठयोः प्रिये ॥ ३३ ॥ अनामां दन्तयोर्देवि मध्यमामुत्तमाङ्गके । मुखेऽनामां मध्यमां च हस्तपादेऽथ पार्श्वयोः ॥ ३४ ॥ कनिष्ठानामिकामध्यास्तास्तु पृष्ठेऽथ पार्वति । तास्तु साङ्गुष्ठका नाभौ सर्वाः कुक्षौ प्रविन्यसेत् ॥ ३५॥ हृदये च तलं सर्वं बाह्वोः कण्ठप्रदेशके । स्कन्धयोर्हृदयप्रान्ते हस्तपादयुगे तथा ॥ ३६ ॥ जठरास्ययुगे देवि तलमेव प्रकीर्तितम् । एतास्तु मातृकामुद्राः क्रमेण परिकीर्तिताः ॥ ३७ ॥ अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य निष्फलः । अनामया वा पुष्पैर्वा मनसा वा न्यसेद्द्रुत ॥ ३८ ॥
१ 'ज' क पाठ । * मातृक न्यासमुद्रा निर्दिशति ललाटेऽनामिकामित्यादिना ।
६४ गन्धर्वतन्त्रे । एवं तु मातृकान्यासं यः कुर्यात् परमेश्वरि । सर्वयज्ञेषु पूजासु पूतो योग्यश्च जायते ॥ ३९ ॥ नातः परतरो मन्त्रो¹ विद्यते क्वचिदेव हि । ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम् ॥ ४० ॥ ते सर्वे मातृकामन्त्रे नित्यमेव प्रतिष्ठिताः । सर्वमन्त्रमयश्चायं सर्वदेवमयस्तथा ॥ ४१ ॥ चतुर्वर्गप्रदश्चायं तुष्टिपुष्टिप्रदायकः । सर्वपीठमयश्चापि मातृकान्यास उच्यते ॥ ४२ ॥ यः² कुर्यान्मातृकान्यासं विनैव सुरपूजनात् । तस्माद्बिभेति सततं भूतग्रामश्चतुर्विधः ॥ ४३ ॥ तं द्रष्टुमपि देवाश्च स्प(र्श?र्ध)यन्ति महौजसम् । स तु सर्वं³ वशं कुर्यान्न च याति पराभवम् ॥ ४४ ॥ पुटितां सर्वबीजेन समस्तजननीं पराम् । पञ्चाशन्मातृकां विद्यां जपेदष्टोत्तरं शतम् ॥ ४५ ॥ वाग्देवतां हृदि ध्यात्वा मूर्ध्नि सर्वाक्षराणि तु । द्विधा च मातृकामन्त्रैः सक्रमैर्व्युत्क्रमैरपि ॥ ४६ ॥ मन्त्रयित्वा महेशानि प्रभाते यः पिबेज्जलम् । स वाग्मी पण्डितो धीमाञ्जायते प्रवरः कविः ॥ ४७ ॥ चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्वं पठेद्बुधः । व्यञ्जनानि तु सर्वाणि केवलानि पठेत् प्रिये ॥ ४८ ॥ जलं हस्ततले गृह्य पठित्वाक्षरसंहतिम् ।
१ 'र मन्त्र' क पाठ । २ 'य' क पाठ । ३ 'वं' क पाठ ।
नवमः पटलः । ६५ अभिमन्त्र्य च तत्तोयं प्रथमं पू(र्वै?र)कैः पिबेत् ॥ ४६ ॥ कुम्भकेन द्वितीयं तु तृतीयं रेचकेन तु । एवं सकृत् त्रिवारं तु पीत्वा तोयं विचक्षणः ॥ ५० ॥ दृढाङ्गः पण्डितो भूयात् पुत्रपौत्रसमन्वितः । त्रिसंध्यमथ पीत्वैवं मातृकामन्त्रमन्त्रितम् ॥ ५१ ॥ तोयं कवित्वमाप्नोति सर्वान् कामांस्तथैव च । सततं कुरुते यस्तु मातृकामन्त्रमन्त्रितम् ॥ ५२ ॥ तोयदा[पा]नं महादेवि पूरकुम्भकरेचकैः । स सर्वकामान् संप्राप्य पुत्रपौत्रसमृद्धिमान् ॥ ५३ ॥ भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः । सर्वत्र दुर्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् ॥ ५४ ॥ राजानमथवा राजपुत्रं भार्यां च वा प्रिये । वशीकरोति न चिरान्मातृकामन्त्रपालकः ॥ ५५ ॥ ————— इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे करशुद्ध्यन्तर्बहिर्मातृकान्यासवर्णनं नाम नवमः पटलः ॥ ६ ॥
दशमः पटलः । श्रीदेव्युवाच षोढाख्यां मातृकां देव कथयस्व वृषध्वज । ईश्वर उवाच गणेशैः प्रथमो न्यासो द्वितीयस्तु ग्रहैर्मतः ॥ १ ॥ नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः । राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ २ ॥ षोढा न्यासस्त्वयं प्रोक्तः सर्वकामफलप्रदः । श्रीदेव्युवाच फलं चास्य प्रयोगं च विशदीकुरु तत्त्वतः ॥ ३ ॥ ईश्वर उवाच नारायणोऽस्यैर्षि प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् । शिवशक्त्यात्मवर्णा(ऋषी?राशि)र्देवता च सदाशिवः ॥४॥ हंसः शक्तिः परा बीजं श्रीबीजं चैव कीलकम् । पुरुषार्थप्रसाध्ये च विनियोगः प्रकीर्तितः ॥ ५ ॥ मूर्ध्नि संचिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् । (१) रमाबीजं परं पश्चाद्धंसात् स्वराद्यमीरितम् ॥ ६ ॥ विघ्नेश्वराय वै प्रोच्य श्रियै नमस्ततः परम् ⊛ । विघ्नराजादिकानेवं शक्तियुक्तांस्तथैव च ॥ ७ ॥ विन्यसेन्मातृकास्थाने मातृकैकान्वितं शिवे । विघ्नराजाय देवेशि(क्रि?ह्रि)यै नमस्ततः परम् । ८ १ ‘ऋषि’ क पाठ । * अंविरेश्वराय श्रियै नमो ललाटे इत्यादिरूपो न्यासो बोध्य ।
दशमः पटलः । ६७ विनायकाय च तुष्ट्यै शांत्यै शिवोत्तमाय च । विघ्नकर्त्रे तथा पुष्ट्यै नम इति प्रविन्यसेत् ॥ ९ ॥ विघ्नहर्त्रे सरस्वत्यै नम इति प्रविन्यसेत् । विनायकाय मेधायै पूर्ववच्च विन्यसेत् ॥ १० ॥ एकदन्ताय कान्त्यै च द्विदन्ताय च योंमिनीम् । गजवक्त्राय मोहिन्यै निरञ्जनजटे❄तथा ॥ ११ ॥ कपर्दिने च तीव्रायै ज्वालिनी दीर्घवक्त्रकः । शङ्कुकर्णाय नन्दायै खरसा च वृषध्वजः ॥ १२ ॥ गणनायश्च कामिन्या गजेन्द्रश्च शुभा तथा । जयिनी शूर्पकर्णश्च सत्यया च त्रिलोचनः ॥ १३ ॥ लम्बोदराय विघ्नेश्र्यै महानन्दैः३ स्वरूपिणी । कामदया चतुर्मूर्तिः सदाशिवस्ततः परम् ॥ १४ ॥ मदविह्वलया युक्त आमोदो विकटायुतः । दुर्मुखाय च घूर्णायै सुमुखो भूतिसंयुतः ॥ १५ ॥ प्रमदाय तथा भूम्यै एकपादो मतिस्तथा । द्विजिह्वो रमया युक्तः सुरसेनश्च मानुषी ॥ १६ ॥ मकरध्वजया युक्तो वीरश्च परमेश्वरि । षण्मुखाय विकर्णायै वरदो भृङ्क(?भ्रुकु)टीयुतः ॥ १७ ॥ वामदेवाय लज्जायै दीर्घघोणायुतस्ततः । वज्रतुण्डो द्विरण्डश्च धनुर्धरायुतः प्रिये ॥ १८ ॥ १ 'ह' क पाठः 'कृते' ख पाठ । २ 'का' ख पाठ । ३ 'न्दश्च' क. पाठः । ❄ निरञ्जनाय जटायै नम इति प्रयोगो बोध्यः ।
सेनान्ये चैव यामिन्यै ग्रामणी रात्रिसंयुतः । मत्तश्चन्द्रिकया युक्तो विमत्तायै शशिप्रभा ॥ १६ ॥ तथैव परमेशानि लोलया मत्तवाहनः । जटि[ले?ने]चपलाद्यै च मुण्डी वृद्धियुतस्तथा ॥ २० ॥ खङ्गी दुर्भगया युक्तो वरेश्यः [शु?सु]भगायुतः । न्यस्तव्यः परमेशानि शिवया वृषकेतनः ॥ २१ ॥ भक्त¹प्रियाय दुर्गायै मेघनादाय कामिनी । कालकुब्जा⁵समायुक्तो गणेश्वरः प्रकीर्तितः ॥ २२ ॥ गणेशो विघ्नहारिण्या न्यस्तव्यः साधकोत्तमैः । [२] सूर्यमुखान् महादेवि न्यसेत् कामदुघानथ ॥ २३ ॥ स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् । सूर्याय नम उच्चार्य हृदये च प्रविन्यसेत् ॥ २४ ॥ भ्रुवोर्मध्ये तथा सोमं [ष?य]वर्गेण प्रविन्यसेत् । भूपुत्रं लोचनद्वन्द्वे कवगेण तथैव च ॥ २५॥ बुधं च हृदये देवि चवर्गेण प्रविन्यसेत् । बृहस्पतिं तथा कण्ठे टवर्गेण प्रविन्यसेत् ॥ २६ ॥ भार्गवं तु गले देशे तवर्गेण तथा प्रिये । पवर्गेण शनिं नाभौ राहुं गुदे शवर्गकैः ॥ २७॥ ळक्षाभ्यां पादयोः केतुं न्यसेदेवं विधानतः । (३) स्वराद्यं च द्वितीयं च अश्विन्यै नम इत्यपि ॥२८॥ ललाटे च प्रविन्यस्य तथान्यानपि विन्यसेत् ।
पादटिप्पणी: १ 'लाय' ख पाठ । २ 'क्षित्यै' क. पाठ. । ३ 'द्य' ख पाठ । ४ 'लिका' ख. पाठ । ५ 'जिह्वा' ख पाठ ।
दशमः पटलः । ६६ इंयुतां भरणीं देवि दक्षनेत्रे प्रविन्यसेत् ॥ २९ ॥ ईंउंऊंकृत्तिकां चैव विन्यसेद्वामनेत्रके । ऋंॠंलूंलूंयुतां देवि रोहिणीं दक्षकर्णके ॥ ३० ॥ एंयुतां मृगशीर्षां च वामकर्णे प्रविन्यसेत् । ऐंकारेण तथाद्रां च दक्षनासापुटे न्यसेत् ॥ ३१ ॥ ओंऔंपुनर्वसुं चैव वामनासापुटे न्यसेत् । कंयुतं च न्यसेत् पुष्यं कण्ठैदेशे च पार्वति ॥ ३२ ॥ खगाभ्यां च तथाश्लेषां दक्षस्कन्धे प्रविन्यसेत् । घङाभ्यां च मघां देवि वामस्कन्धे प्रविन्यसेत् ॥ ३३ ॥ चंपूर्वफाल्गुनीं चैव दक्षकुर्परके न्यसेत् । वामकुर्परके देवि छंजंउत्तरफल्गु(णी?नी)म् ॥ ३४ ॥ दक्षिणे मणिबन्धे तु झंझंहस्तं च विन्यसेत् । मणिबन्धे तथा वामे टंठंचित्रां प्रविन्यसेत् ॥ ३५ ॥ डंकारेण तथा खातीं दक्षहस्ततले न्यसेत् । ढणाभ्यां च विशाखां वै वामहस्ततले तथा ॥ ३६ ॥ तथाभ्यामनुराधां च न्यसेन्नाभौ समाहितः । दंधंज्येष्ठां कटौ दक्षे त्रिभिर्मूलां च वामतः ॥ ३७ ॥ पूर्वाषाढां बकारेण दक्षोरौ विन्यसेत् ततः । भकारेणोत्तराषाढां वामोरौ तदनन्तरम् ॥ ३८ ॥ दक्षजानुप्रदेशे च मंश्श्रवणं च विन्यसेत् । १ 'तां' क पाठ. । २ 'ष्यां' क पाठः । ३ 'ण्ठे' क पाठः । ४ 'स्वां' क. पाठः । ५ 'ती' क पाठ. । ६ 'या' क. पाठ ।
१०० गन्धर्वतन्त्रे । यंरंयुतां धनिष्ठां च वामे जानुनि विन्यसेत् ॥ ३९ ॥ शतभिषां लकारेण दक्षजङ्घाप्रदेशके । वंशंवर्णस्थितां वामे पूर्वभाद्रपदां न्यसेत् ॥ ४० ॥ तथैवोत्तरभाद्रां च षसहैर्दक्षपादतः । ळक्षाभ्यां बिन्दु(मद्ध्वा?मूर्ध)भ्यां रेवतीं विन्यसेत्ततः ॥४१॥ (४) रक्ताक्षीं च श्वेतवर्णां पशुभीतिकरां शुभाम् । खड्गं च चषकं चैव शूलं खट्वाङ्गमेव च ॥ ४२ ॥ अनुग्रामुग्रदंष्ट्रां च एकास्यां रिपुनाशिनीम् । पायसान्नप्रसक्तां च खरैः कल्पितविग्रहाम् ॥ ४३ ॥ डाकिनीं भावयेद्देवीं सर्वकामप्रपूरणीम् । ❀स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् ॥ ४४ ॥ ठान्तद्वयं ततः पश्चात् पाशतूरीयभेदितम् । नादबिन्दुकलायुक्तं बीजद्वयमुदीरितम् ॥ ४५ ॥ ठान्तं भान्तं महीबीजं वारुणं वह्निवायवौ । वामकर्णस्ततो देवि नादबिन्दुकलायुतः ॥ ४६ ॥ डाकिन्यै नम इत्यन्ते संबोध्य डाकिनीं ततः । [दुग्धान्न?त्वग्धातु]गत इत्युक्त्वा चतुःषष्टिपदं ततः ॥४७॥ लक्षकोटिपदस्यान्ते योगिनीस्वामिनीति च । सर्वसत्त्ववशं ब्रूयात् क(वि?रि)शब्द(मयं?पदं)ततः ॥४८॥
१ 'द्व' क पाठः । २ 'ह' क पाठ । ३ 'श' क. पाठ ।
- अँ आँ इँ ईँ उँ ऊँ ऋँ ॠँ लूँ लूँ एँ ऐँ ओँ औँ अं अँ डाँ डीँ डमलवर यूँ डाकिन्यै नमः डाकिनि त्वग्धातुगते चतुष्षष्टिलक्षकोटियोगिनी स्वामिनि सर्वसत्त्ववश- करि आज्ञा मे देहि मम विच्चे । इति स्पष्टम् ।
दशमः पटलः । १०१ आज्ञां मे देहि तत्पश्चान्मम वि(क्रि?चे)पदद्वयम् । विशुद्धौ विन्यसेद्देवि राकिनीं चिन्तयेत् ततः ॥ ४६ ॥ हृत्पुण्डरीकमध्यस्थां दंष्ट्राभीममुखीं तथा । नवीननीरदश्यामां पीनोन्नतपयोधराम् ॥ ५० ॥ शूलं डमरुकं चैव दधतीं वज्रपद्मकै । १ शुक्ला(श्वाश?श्वास)कचितां च कठवर्णात्मविग्रहाम् ॥५१॥ कठवर्णांस्ततो रेफे पूर्ववत् स्वरभेदिते । [चा?ठा]न्तं हित्वाग्निवीजं च पूर्ववत् तदनन्तरम् ॥ ५२॥ राकिन्यै नम आभाष्य संबोध्य च तथा भवेत् । असृग्धातुगते पश्चाद् द्वात्रिंशल्लक्षकोटि च ॥ ५३ ॥ योगिनीस्वामिनि प्रान्ते पूर्ववत् तदनन्तरम् । रक्तवर्णां त्रिनेत्रां च देवदेवेशसंयुताम् ॥ ५४ ॥ दं[ष्ट्रीं?ष्ट्रिणी]मुग्ररूपाभां वज्रं शक्तिं वराभयौ । दधतीं चिन्तयेत् देवीं गुडभक्तोत्सुकां पराम् ॥ ५५ ॥ एवं ध्यात्वा महेशानीं डफवर्णात्मविग्रहाम् । डफवर्णांस्ततो देवि भूबीजद्वितयं तथा ॥ ५६ ॥ वह्निं हित्वा म[हा?ही]बीजं पूर्ववदपरं तथा । (सा?ला)किन्यै नम उच्चार्य संबोध्य च तथा व्रजेत् ३ ॥५७॥ मांसधातुगते पश्चात् षोडशलक्षकोटितः । पूर्ववदपरं सर्वं नाभिपद्मे प्रविन्यसेत् ॥ ५८ ॥ स्वाधिष्ठानाख्यपद्मे च काकिनीं परिचिन्तयेत् ।
१ 'वज्रपद्मे च धारिणीम्' क पाठ । २ 'रुद्रं' क पाठः । ३ 'भवेन्' ख पाठः ।
१०२ गन्धर्वतन्त्रे । पीतवर्णां महामत्तां गजकुम्भोपमस्तनीम् ॥ ५६ ॥ दध्यन्ना[श?स]क्तचित्तां च सुरप्रवरवन्दिताम् । शूलं डमरुकं चैव पाशं चाभयमेव च ॥ ६० ॥ वहन्तीं परमेशानीं बादिलान्तात्मविग्रहाम् । बादिलान्तांस्तथा कांकींकमलवरयूं ततः ॥ ६१ ॥ काकिन्यै नम इत्यन्ते संबोध्य चैव काकिनीम् । मेदोधातुगते पश्चात् तथाष्ट(दल?लक्ष)कोटि च ॥ ६२ ॥ योगिनीस्वामिनि प्रोच्य पूर्ववदपरं तथा । पञ्चवक्त्रां त्रिनेत्रां च वह्निभानुस्वरूपिणीम् ॥ ६३ ॥ चापं बाणं तथा पाशं स्त्रैणि च पुस्तकं तथा । ज्ञानमुद्रां च हस्ताब्जैर्दधतीं परमेश्वरीम् ॥ ६४ ॥ मुद्द्रान्नप्रीतिसंयुक्तां मूलाधारे विचिन्तयेत् । वादि[ध?सा]न्तांस्तथा सांर्सींसमलवरयूं तथा ॥ ६५ ॥ [शा?सा]किन्यै नम इत्यन्ते संबोध्य साकिनीं ततः । अस्थिधातुगते चैव चतुर्लक्षेति कोटि च ॥ ६६ ॥ योगि(नि?नी) स्वामिनि प्रान्ते वरवरदपदं तथा । बिन्दुस्थां शुक्लवर्णां च हक्षवर्णस्वरूपिणीम् ॥ ६७ ॥ डमरुं चाक्षसूत्रं च कपालं खड्गमेव च । पुस्तकं ज्ञानमुद्रां च दधतीं बाहुभिः सदा ॥ ६८ ॥ लोचनत्रयसंयुक्तां षड्वक्त्रां सर्वमोहिनीम् । १ 'न्त' क पाठः । २ 'नि' क पाठ । ३ 'सृ' क पाठः । ४ 'न्तास्त' क पाठ । ५ 'शाशी श' क पाठः । ६ 'शा' क पाठ ।
दशमः पटलः । १०३ हरिद्रान्नप्रसक्ता च मधुमदमुदान्विताम् ॥ ६६ ॥ देवेन्द्रवन्दितां देवीं भावयेद्धाकिनीं पराम् । हंक्षंहांहीं च देवेशि हमलवरयूं तथा ॥ ७० ॥ हाकिन्यै नम उच्चार्य संबोध्य चैव हाकिनीम् । मज्जाधातुगते पश्चाद् द्विलक्षकोटिशब्दतः ॥ ७१ ॥ शेषं पूर्ववदुद्धृत्य भ्रुवोर्मध्ये प्रविन्यसेत् । अकारादिक्षकारान्तां मातृकां सर्वमुद्धरेत् ॥ ७२ ॥ यांयीं^२ तु परमेशानि यमलवरयूं तथा । याकिन्यै नम इत्यन्ते संबोध्यैव तु याकिनीम् ॥ ७३ ॥ शुक्रधातुगते पश्चाद्दशकोटिपदं ततः । पूर्ववच्च प्रविन्यस्य (५) राशिन्यासमतः परम् ॥ ७४ ॥ ❀वेदार्णैर्दक्षगुल्फेऽथ मेषं विन्यस्य पार्वति । दक्षजानौ वृषं त्र्यर्णैर्वृषणे मिथुनं त्रिभिः ॥ ७५ ॥ द्वाभ्यां कर्कटकं कुक्षौ द्वाभ्यां स्कन्धेऽथ सिंहकम् । अनुस्वारविसर्गाभ्यां शवर्गेण च कन्यकाम् ॥ ७६ ॥ दक्षिणे च शिरोभागे विन्यसेद्वीरवन्दिते । तथा वामशिरोभागे कवर्गेण तुलां न्यसेत् ॥ ७७ ॥ चवर्गेण तथा स्कन्धे वृश्चिकं विन्यसेत् ततः । टवर्गेण तथा कुक्षौ धन्विनं विन्यसेत् ततः ॥ ७८ ॥ मकरं तु तवर्गेण वृषणे (दक्षिणे?वामके) न्यसेत् । १ 'ष' क पाठः । २ 'यां' क पाठ ।
- ॐ आं ह्रीं ईं मेषाय नमो दक्षगुल्फे इत्यादि ज्ञेयम् । वेदार्णैश्चतुरभिरक्षरैरित्यर्थः ।
१०४ गन्धर्वतन्त्रे । पवर्गेण तथा कुम्भं वामजानुनि विन्यसेत् ॥ ७६ ॥ यवर्गेण चकारेण मीनं गुल्फे तु वामके । चतुर्थीनतिसंयुक्तं स्थानेष्वेवं क्रमान्न्यसेत् ॥ ८० ॥ (६)अथ [पि?पी]ठानि विधिना यथास्थाने प्रविन्यसेत् । परापूर्वं च सर्वेषां मातृकां च पृथक् पृथक् ॥ ८१ ॥ चतुर्थीनतियुक्तानि मातृकावन्न्यसेत् क्रमात् । कामरूपं महापीठं वाराणसीं ततः परम् ॥ ८२ ॥ नेपालं१ च महापीठं पौण्ड्रवर्धनमेव चै३ । पुरास्थिरं महादेवि चरस्थिरमतः परम् ॥ ८३ ॥ पूर्णशैलं महापीठमर्बुदं च ततः परम् । काश्मीरं च तथा पीठं कान्यकुब्जमथो भवेत् ॥ ८४ ॥ आम्रातकेश्वरं पीठमेकाम्रं च ततः शिवे । त्रिस्रोतः पीठमुद्दिष्टं कामकोट्ठर्मतः परम् ॥ ८५ ॥ कैलासं भूतगरं केदारं पीठमुत्तमम् । श्रीपीठं च तथोंकारं जालन्धरमतः परम् ॥ ८६ ॥ मालवं च कुलान्तं च देवमातृकमेव च । गोकर्णं च ततो देवि मारुतेश्वरमेव च ॥ ८७ ॥ अट्टहासं च विरजं राजगृहमतः परम् । पीठं कोल्लागिरिं चैव एलापुरमतः प्रिये ॥ ८८ ॥ कालेश्वरमहापीठं प्रणवं च जयन्तिका । १ 'व' क पाठ । २ 'मेदान' क पाठ । ३ 'पौगण्डवर्द्धन तथा' ख पाठ । ४ 'दारु- केश महा' ख पाठ । ५ 'प्र' ख पाठ । ६ 'टि' ख पाठ । ७ 'नव' क पाठ. ।
दशमः पटलः । १०५ पीठमुज्जयिनीं चैव क्षीरिकापीठमेव च ॥ ८६ ॥ हस्तिनापुरकं पीठं पीठमुड्डीशमेव च । प्रयागं चैव षष्ठीशं मायापुरजलेश्वरौ ॥ ६० ॥ मलयं च महापीठं श्रीशैलमथवापि वै १ । मेरुं गिरिं महेन्द्रं च वामनं चापि विन्यसेत् ॥ ६१ ॥ हिरण्यपुरकं पीठं महालक्ष्मीपुरं च वै । उड्डीयानं महापीठं छायापुर २ मतः परम् ॥ ६२ ॥ षोढान्यासस्त्वयं प्रोक्तः सर्वपापहरः सदा । षोढान्यासविहीनो यः प्रणमेद्देवि सुन्दरीम् ॥ ६३ ॥ सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते । एवं न्यस्तशरीरस्तु भवेद् गङ्गाधरः स्वयम् ॥ ६४ ॥ मन्त्री नचात्र संदेहो निग्रहानुग्रहक्षमः । न तस्य पूज्यो लोकेऽस्मिन् पितृमातृमुखो नरः ॥६५॥ स्वयं च साधकश्रेष्ठो यं कंचन न (विन्दति?वन्दते) । स म(र्थो?र्त्यो)मृत्युमाप्नोति नात्र कार्या विचारणा ॥६६॥ नमस्कारं न कुर्वीत ज्येष्ठस्यापि कदाचन । गुरोरपि न पश्येतै म्रियते नात्र संशयः ॥ ६७ ॥ तस्मात् सर्वप्रयत्नेन नमस्कारं विवर्जयेत् । कामं क्रोधं तथा लोभं मायाहंकारमेव च ॥ ६८ ॥ संकल्पं भोजनालापं न कुर्यात् केनचित्सह । भोक्तव्यं योषिता सार्धं यत्किंचित् तत्तैयैव हि ॥ ६६॥ १ 'च तथा प्रिये' ख पाठ. । २ 'पीठ' ख. पाठ । ३ 'वन्देत' क पाठः । ४ 'म्म' क पाठ. ।
१०६ गन्धर्वतन्त्रे । विन्यसेद्देवि युक्तात्मा त्रिकालं च दिवा निशि । यथा साभ्यासयोगेन सामर्थ्यं तद्वदाम्यहम् ॥ १०० ॥ यत्रायं निवसेद्देवि षोढान्यासी च साधकः । दिव्यं क्षेत्रं भवेत्तत्र समन्ताच्छतयोजनम् ॥ १०१ ॥ देवाः सर्वे नमस्यन्ति तं नमामि न संशयः । कृत्वा न्यासमिमं देवि यत्र गच्छति साधकः ॥ १०२ ॥ तत्र यद्विषये चैव यन्मानं¹ पुरुषैः सह । द्यावान्तरिक्षभूशैलजललाररायनिवासिनः ॥ १०३ ॥ भूतप्रेतपिशाचाश्च यक्षकूष्माण्डराक्षसाः । पश्यन्ति पावकारूढं ये चान्ये हिंसका जनाः ॥ १०४ ॥ शत्रुसंहतिसंकीर्णे² संग्रामेऽथापदेषु च । न भयं विद्यते तस्य परत्र शिवतां व्रजेत् ॥ १०५ ॥ ये केचित् पापसंघाताः सप्तजन्मान्तरोद्भवाः । नश्यन्ति न्यासमात्रेण भास्करेण तमो यथा ॥ १०६ ॥ सतताभ्यासयोगेन षण्मासेन च मानवे³ । दह्यते सर्वपापानि ब्रह्महत्यादिकानि च । किंचातिबहुनोक्तेन मम तुल्यो भवेद् ध्रुवम् ॥ १०७ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे षोढान्यासक्रमनिरूपणं दशमः पटलः ॥ १० ॥ १ 'षण्मा' क पाठः । २ 'र्णे' क पाठ । ३ 'व' क पाठ. ।
एकादशः पटलः । —०— ईश्वर उवाच करशुद्धिर्ऋषिन्यास आसनं च ततः परम्¹ । कराङ्गयोः षडङ्गानि वशिन्याद्यमतः परम्³ ॥ १ ॥ न(र? [व])योनिचतुर्व्यूहतत्त्वन्यासादिकं तथा । मूलवर्णादिविन्यासः संमोहनाख्य एव च ॥ २ ॥ एतदेव हि नित्यं स्यात् काम्यं चान्यत् प्रकीर्तितम् । करशुद्धिकरीपूर्वं ⊛ त्रिपुरेति पदं ततः ॥ ३ ॥ अमृतार्णवशब्देऽपर्यासनाय नमो मनुः । पादयोर्विन्यसेत् पश्चाद्धालान्ते त्रिपुरेश्वरी ॥ ४ ॥ पोताम्बुजासनायान्ते नमो जानुनि विन्यसेत् । ह्रींक्लींसौस्त्रिपुरेत्युक्त्वा सुन्दरीति पदं ततः ॥ ५ ॥ डेन्तमात्मासनायान्ते नम(उच्चार्य?ऊर्वोः प्र)विन्यसेत् । आद्यं मध्यं तथान्तं च(श?कु)मार्याः शिवसंयुक्तम् । ॥६॥ त्रिपुरवासिनीत्युक्त्वा चक्रासनाय हृत्ततः । कटिद्वये प्रविन्यस्य शिवं सोमयुतं कुरु ॥ ७ ॥ एतस्या एव विद्याया ‡ त्रिपुरँश्रीपदं ततः । सर्वमन्त्रासनायान्ते नमो गुह्ये प्रविन्यसेत् ॥ ८ ॥ १ 'भूत' ख पाठ । २ 'पीठन्यास तथैवच' ख पाठ । ३ 'मातृकान्यासमेव च' ख पाठ । ४ 'द्री' क पाठ । ५ 'दि' क पाठ । ६ 'देशे' क पाठ । ७ '२' क पाठ । ⊛ अआसौ. इति करशुद्धिकरीविद्या । † बालाया बीजत्रये शिवेनि हकारेण सयुतम् । ‡ समनन्तरोक्तविद्याया एव बीजत्रये शिवो हकार सकारेण युत ।
१०८ गन्धर्वतन्त्रे । † परा च कामबीजं च वारुणां त्विन्द्रसंयुक्तम् । योनियुक्तं सबिन्दुं च त्रिपुरमालिनी ततः ॥ ६ ॥ साध्यासनाय मूले च नम इति प्रविन्यसेत् । ‡ मायाबीजं रमाबीजं कुमार्याश्च तृतीयकम् ॥ १० ॥ तथा त्रिपुरसिद्धान्ते साध्यसिद्धासनं ततः नाभिदेशे प्रविन्यस्य हृदये च प्रविन्यसेत् ॥ ११ ॥ § शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् । कामराजं कुमार्यास्तु शिवचन्द्रान्वितं कुरु ॥ १२ ॥ पृथ्वीबीजात्ततो वह्निं शक्तिबीजे ततः परम् । शिववह्नी नियोज्यैव हित्वा सर्गं तु बैन्दवम् ॥ १३ ॥ संयोज्य परमेशानि त्रिपुराम्बापदं ततः । प[र्वण?र्यङ्क]शक्तिपीठाय नमो हृदि प्रविन्यसेत् ॥ १४ ॥
- वदन्याशेषबीजान्ते महात्रिपुरभैर[व?वी] । सदाशिवमहाप्रेतपद्मासनाय चालिखेत् ॥ १५ ॥ नम इत्यज[बंधे?रन्ध्रे]तु विन्यसेत् साधकोत्तमः । ‡‡ वह्निर्वरुणशक्रं च षष्ठस्वरविभूषितम् ॥ १६ ॥ - नादबिन्दुकलायुक्तं वशिनीति पदं ततः । १ 'त्रिपुर' क पाठ. । † परा ह्रीं कामबीजं क्लीं । वारुण व इन्द्रः ल योनि ए सबिन्दु तेन व्ले । ‡ माया ह्रीं रमा श्रीं बालायास्तृतीय सौः । § शिवचन्द्रौ हकारसकारौ वह्नीति रकारारूढौ वाग्भवं ऐं तेन ह्सरैं । कामराजशक्तिबीजयोरपि उक्त- वर्णाम्योजनया बीजान्तरे बोध्ये केवलमन्त्यकूटे विसर्गस्थाने बिन्दु स्थाप्य । तेन हसकलरीं । ह्सरौ इति । * वदन्त्येति संपत्प्रदामैश्वीविद्या सा यथा ह्सैं हसकलरीं ह्सौः इति । ‡‡ वह्नि र वरुणो व शक्रं ल षष्ठस्वर. नादादियुक्तः ऊ तेन रव्लूं इति वशिनीवाग्देवताविद्या इति ।
एकादशः पटलः । १०६ वाग्देवता चतुर्थ्यन्ता नमः स्वरैः प्रविन्यसेत् ॥ १७ ॥ † मादनं शक्रमारूढं महामाया ततः परम् । इयं कामेश्वरी ज्ञेया कवर्गॆण ललाटके ॥ १८ ॥ § धान्तं वरुणमिन्द्रं च चतुर्थस्वरबिन्दुकम् । एषैव मोदिनी देवी भ्रुवोर्मध्ये चवर्गेके ॥ १९ ॥ ‡ वायुं पुरन्दरं देवि षष्ठस्वरविभूषितम् । नादबिन्दुकलायुक्तं विमलेयं समीरिता ॥ २० ॥ न्यस्तव्या कण्ठदेशे तु टवर्गेणैव पार्वति ।
- ष्टान्तं भान्तं च ज्वलनं तुरीयस्वरबिन्दुकम् ॥ २१ ॥ अरुणेयं तु वाग्देवी तवर्गेण हृदि स्मृता । जयिनी च ततो देवि ☿ नकुलिः सोमशक्रकम् ॥ २२ ॥ ¶ वारुणं वायुबीजं च षष्ठस्वरविभूषितम् । नाभिदेशे समाख्याता पवर्गॆण वरानने ॥ २३ ॥ ऽ जान्तं भान्तं ततो रेफं वायुबीजसमन्वितम् । षष्ठस्वरसमायुक्तं नादबिन्दुकलायुतम् ॥ २४ ॥ सर्वेश्वरी(ष?य)वर्गेण स्वाधिष्ठानाख्यपङ्कजे । ∥ संवर्तकं महेशानि कालबीजोपरिस्थितम् ॥ २५ ॥ वह्निबीजं ततो माया नादबिन्दुकलान्विता । † मादन क शक्रोति लकारारूढ महामाया ह्री इति कामेश्वरी । § धान्तं न वरुण व इन्द्र ल चतुर्थस्वर ई तेत नवली । ‡ वायुः य पुरन्दर ल तेन ल्यूँ ।
- ष्टान्त ज भान्त म ज्वलन र तुरीयेति चतुर्थस्वर. ईं तेन ज्रीं । ☿ नकुलि ह सोमशक्रोति सकारल्लकारौ । ¶ वारुण व वायु. य तथा षष्ठस्वर. तेन हसलवयूँ इति । ऽ जान्त क भान्त म रेफ र वायु य तथा षष्ठः स्वरः तेत क्ष्मर्यू इति । ∥ संव- र्तक क्ष कालो म वह्नि र माया ईं तेन क्ष्मीं इति ।
११० गन्धर्वतन्त्रे । मूलाधारे शवर्गेण कौलिनी परिकीर्तिता ॥ २६ ॥ एता वाग्देवता देवि वशिनीवत् प्रविन्यसेत् । मूलविद्याद्विरावृत्त्या सर्वाङ्गुलितलेषु च ॥ २७ ॥ ङेन्तेषु परमेशानि न्यसेदङ्गानि षट् क्रमात् । नमः स्वाहा वषड् वौषड् हुं फडिति षडङ्गकम् ॥ २८ ॥ करयोरथ विन्यस्य षडङ्गेषु तथा न्यसेत् । नमोऽन्तं हृदयं ङेन्तं स्वाहान्तं च तथा शिरः ॥ २६ ॥ शि[खरे?खा व]षट् चतुर्थ्यन्ता हुं ङेन्तं कवचं ततः । नेत्रत्रयं च वौषट् च अस्त्रं फडन्तमीश्वरि ॥ ३० ॥ *हृदयं मध्यमानामातर्जनीभिः स्मृतं शिरः । मध्यमातर्जनीभ्यां स्यादङ्गुष्ठेन शिखा प्रिये ॥ ३१ ॥ दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् । तथैवोक्ताङ्गुलीभ्यां च सशब्दमस्त्रमीरितम् ॥ ३२ ॥ पूजा तपोऽर्चनं होमः सिद्धमन्त्रकृता अपि । अङ्गविन्यासविधुरा न दास्यन्ति फलान्यमी ॥ ३३ ॥ वशिनीप्रमुखान् देवि विन्यसेत्तदनन्तरम् । १ मूलकूटत्रयेणैवं स्थानेष्वेष्ठु क्रमान्न्यसेत् ॥ ३४ ॥ § कर्णयोश्चिबुके चैव शङ्खयोर्वदने पुनः । नेत्रयोर्नासि विन्यस्य अंसयोर्जठरे ततः ॥ ३५ ॥ पुनः कुर्परयोः कुचौ जानुनोर्लिङ्गमूर्धनि । १ 'ये' क पाठः । २ 'त शिव' क पाठः । ३ 'अश' क पाठः ।
- हृदयमित्यादिना षडङ्गन्यासमुद्रा निर्देशति । § नवयोनिन्यासमाह कर्ण- योरिति । मूलबीजत्रयेणैवाय कार्य ।
एकादशः पटलः । १११ पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयाम्बुजे ॥ ६३ ॥ स्तनयोः कण्ठदेशे च न्यसेदेवं विधानतः । चतुर्व्यूहं ततो देवि न्यसेत् पीठसमन्वितम् ॥ ३७ ॥ *मूलवाग्भवमुच्चार्य अग्निचक्रेपदं ततः । कामगिर्यालये पश्चान्मित्रेशपदमुद्धरेत् ॥ ३८ ॥ नाथात्मकेपदं पश्चात् कामेश्वरी पदं ततः । रुद्रात्मशक्तिशब्दाच्छ्रीपादुकायै नमो न्यसेत् ॥ ३६ ॥ आधारे परमेशानि हृदये च ततः परम् । मूलद्वि[त?ती] यमुच्चार्य सूर्यचक्रेपदं ततः ॥ ४० ॥ जालन्धरपदात् पीठे षष्ठीशनाथशब्दतः । आत्मकेपदमाभाष्य वज्रेश्वरीपदं ततः ॥ ४१ ॥ विष्ण्वात्मशक्तिशब्दान्ते पूर्ववच्च तदीरितम् । शक्तिकूटं समुच्चार्य सोमचक्रेपदं ततः ॥ ४२ ॥ पूर्णगिरिपदान्ते च पीठेपदमतः परम् । उड्डीशपरतो देवि नाथात्मकेपदं ततः ॥ ४३ ॥ तदन्ते योजयेद्देवि भगपूर्वा च मालिनी । ब्रह्मात्मशक्तिशब्दान्ते पूर्ववद् द्विद्ले न्यसेत् ॥ ४४ ॥ तुर्यबीजमथोच्चार्य ब्रह्मचक्रेपदात् ततः । तथैवोड्रयानपीठे तु [व?च]र्यानाथात्मकेपदम् ॥ ४५ ॥ तदन्ते परमेशानि महात्रिपुरसुन्दरी । १ 'श्री' क पाठ । २ 'मी' क पाठ ।
- स्पष्टं यथा ऐं अग्निचक्रे कामगिर्यालये मित्रेशनाथात्मके कामेश्वरीरुद्रात्मशक्ति- श्रीपादुकायै नम आधारे । एवमग्रेऽपि बोध्यम् ।
११२ गन्धर्वतन्त्रे । परंब्रह्मात्मशक्त्यन्ते पूर्ववद् ब्रह्मरन्ध्रके ॥ ४६ ॥ विन्यस्यैवं महेशानि तत्त्वन्यासं समाचरेत् । मूलादिब्रह्मरन्ध्रान्तं मूलान्तं पुनरेव हि ॥ ४७ ॥ मूलवाग्भवमुच्चार्य आत्मतत्त्वपदं ततः । [स्वा?ख्या]पिकायै चतुर्थ्यन्ता महात्रिपुरसुन्दरी ॥ ४८ ॥ नम इति प्रविन्यस्य कामराजमतः परम् । विद्यातत्त्वपदात् पूर्वं पूर्ववद् हृदयावधि ॥ ४६ ॥ न्यसे(त्वात्मी?त्तार्ती)यबीजान्ते शिवतत्त्वस्वरूपिणीम् । मूलादिब्रह्मरन्ध्रान्तं तदादिभ्रूलतावधि ॥ ५० ॥ ततो न्यसेन्महादेवि विद्याकूटत्रयं पृथक् । करयोर्मूलमध्याग्रमूलहृद्गुह्युगान्तरे ॥ ५१ ॥ मूलविद्यात्रयावृत्त्या स्थानेष्वेषु क्रमान्न्यसेत् । ब्रह्मरन्ध्रे तुरीयं च तेनैव व्यापकं न्यसेत् ॥ ५२ ॥ ब्रह्मरन्ध्रे तथाधारे हृदि नेत्रत्रये तथा । कर्णयोर्मुखवृत्ते च भुजयोः पृष्ठदेशके ॥ ५३ ॥ जानुद्वये तथा नाभौ मूलवर्णान् प्रविन्यसेत् । स्वयं मन्त्रतनुर्भूत्वा देवीं मन्त्रमयीं यजेत् ॥ ५४ ॥ त्रैलोक्यमरुणं ध्यायञ् श्रीविद्यां मनसि स्मरेत् । योनिमुद्रां महेशानि ब्रह्मरन्ध्रे प्रविन्यसेत् ॥ ५५ ॥ ललाटे च प्रविन्यस्य भ्रुवोर्मध्ये च विन्यसेत् । मुखे कण्ठप्रदेशे तु हृदये तामनुक्रमात् ॥ ५६ ॥ १ 'र' क पाठ । २ 'प्र' क पाठ ।