गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
२०० | गौतमधर्मसूत्राणि
यथा पृथिव्यां बीजानि रत्नानि निधयो यथा ।
एवमात्मनि कर्माणि तिष्ठन्ति प्रसवन्ति च ॥ इति ।
उत्पन्ने तु फले नश्यति यथा बीजमङ्कुरे । प्रायश्चित्तानि तु निमित्ते कर्मान्तराणि । यथा गृहदाहादौ क्षामवत्यादयः ॥ ५ ॥
क्योंकि (पुण्य और पाप) कर्म कम नहीं होते ॥ ५ ॥
कुर्यादित्यपरम् ॥ ६ ॥
कुर्यात्प्रायश्चित्तमित्यपरं दर्शनम् । नास्मात्परमस्तीत्यपरसिद्धान्तः ॥ ६ ॥
अन्य लोगों का मत है कि प्रायश्चित्त करना चाहिए ॥ ६ ॥
तत्र प्रमाणत्वेन श्रुतिवाक्यान्युदाहरति—
पुनःस्तोमेनेष्ट्वा पुनः सवनमायान्तीति विज्ञायते ॥ ७ ॥
अप्रतिग्राह्याद् ब्रह्म प्रतिगृह्य पुनःस्तोमेन यजेतेति श्रूयते । अभक्ष्यभक्षणमवद्यवदनं पुनःस्तोमेन तरतीति च । असत्प्रतिग्रहादिदोषदूषिताः पुनःस्तोमनाम्नैकाहेनेष्ट्वा पुनः सवनमायान्ति । सवनशब्देन कर्मोच्यते । पुनरपि श्रौतानि स्मार्तानि च कर्माण्वायान्त्याप्नुवन्ति । तद्योग्या भवन्ति ॥ ७ ॥
क्योंकि कहा गया है कि जो पुनःस्तोम यज्ञ करता है वह पुनःसवन प्राप्त करता है (अर्थात् श्रौत एवं स्मृतिकर्मों के योग्य होता है) ॥ ७ ॥
व्रात्यस्तोमैश्चेष्ट्वा ॥ ८ ॥
पुनः सवनमायान्तीत्यनुषङ्गः । व्रात्या यथाकालमनुपनीताः । तेषां कर्तव्याः प्रायश्चित्तयागा व्रात्यस्तोमाः । बहुवचननिर्देशाद् बहवस्ते प्रत्येतव्याः ॥ ८ ॥
व्रात्यस्तोम यज्ञ करके भी (पुनः सवन प्राप्त करता है) ॥ ८ ॥
तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते ॥ ९ ॥
इति चेति वक्ष्यमाणमपेक्ष्यते । विज्ञायत इत्यनुषङ्गः ॥ ९ ॥
कहा गया है कि जो अश्वमेध यज्ञ करता है वह सभी पापों को पार कर जाता है तथा ब्रह्महत्या के पाप से भी मुक्त हो जाता है ॥ ९ ॥
अग्निष्टुताऽभिशस्यमानं याजयेदिति च ॥ १० ॥
अग्निष्टुन्नाम्नैकाहस्तेनाभिशस्यमानं याजयेत् । अत्र पुनःस्तोमादीनां दोषनिर्घातार्थतया श्रुतत्वादुपभोगेनेव प्रायश्चित्तेनापि पापकं कर्म क्षीयते ।
सानुवाद-मिताक्षरावृत्तिसहितानि २०१.
शङ्खवचनं चाकृतप्रायश्चित्तविषयं पुण्यविषयं च। अथ कस्माद्वचनगम्येऽर्थे विचारः क्रियते। कुर्यान्न कुर्यादिति। न ह्युपनयनादावेवं विचारः कृत इति उच्यते। प्रायश्चित्तस्तुत्यर्थोऽयं विचारः ॥ १० ॥
अग्निष्टुत् (नाम के एकाह) से अभिशंसन करता हुआ यज्ञ करे ऐसा भी कहा गया है ॥ १० ॥
इदानीं येष्वाहृत्य न प्रायश्चित्तं विहितं तेषु प्रायश्चित्तान्युपदिशति—
तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ॥ ११ ॥
तस्य याप्यस्य कर्मणो जपादीनि पञ्च निष्क्रयणानि शोधनानि ॥११॥
पाप कर्म के लिए जप, तप, होम, उपवास और दान शुद्धि के साधन हैं (प्रायश्चित्त हैं) ॥ ११ ॥
तत्र जप इत्युक्तं जपानाह—
उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्यघमर्षणम- थर्वशिरो रुद्राः पुरुषसूक्तं राजतरौहिणे सामनी बृहद्रथन्तरे पुरुष- गतिर्महानाम्न्यो महावैराजं महादिवाकीर्त्यं ज्येष्ठसाम्नामन्यत- मद् बहिष्पवमानं कूष्माण्डानि पावमान्यः सावित्री चेति पावमा- नानि ॥ १२ ॥
उपनिषदो रहस्यब्राह्मणान्याध्यात्मिकानि। तद्व्यतिरिक्ता आरण्यकभागाः वेदान्ताः। सर्वच्छन्दःसु सर्वेषु प्रवचनेषु संहिता संहितापाठो न पदक्रमादिपाठः। मधूनि मधुशब्दयुक्तानि यजूंषि ब्रह्ममेतु मामित्यादीनि। अघमर्षणम् 'ऋतं च सत्यं च' इति सूक्तं षडृक्षमघमर्षणेन ऋषिणा दृष्टम्। अथर्वशिरोऽथर्ववेदे प्रसिद्धम्। देवा ह वै स्वर्गं लोकमगमन्, इत्यादि। रुद्राः 'नमस्ते रुद्र मन्यवे' इत्याद्या अनुवाका एकादश। एकशतं यजुःशाखास्तासु सर्वासु पठ्यन्ते। पुरुषसूक्तं। 'सहस्रशीर्षा' इत्यादि। राजतरौहिणे सामनी 'इन्द्रं नरो नेमधिता हवन्ते' इत्यस्यामृचि गीयेते। 'त्वामिद्धि हवामहे' इत्यस्यां बृहत्। 'अभि त्वा शूर नोनुमः' इत्यत्र रथन्तरम्। 'अहमस्मि प्रथमजा ऋतस्य' इत्यस्यां पुरुषगतिः। महानाम्न्यः 'विदामघवन्' इत्याद्या ऋचः। 'महावैराजम् पिवा सोमन्' इत्यस्यां गीतं साम। महादिवाकीर्त्यम् 'विभ्राड्बृहत्पिबतु' इत्यस्याम्। ज्येष्ठसामानि तलवकारिणाम् 'उदुत्यं चित्रम्' इत्येतयोर्गीतानि। छन्दोगास्त्वाहुः— 'मूर्धानं दिवः' इत्यस्यां गीतानि त्रीणि सामान्याज्यदोहादीनि। ब्राह्मणे
२०२ गौतमधर्मसूत्राणि
तथा श्रुतत्वात् । बहिष्पवमानम् 'उपास्मै गायता नरः' इत्येतासु गीतम् । कूष्माण्डानि तैत्तिरीयके स्वाध्यायब्राह्मणे 'यद्देवा देवहेडनम्' 'यददीव्य नृणाम्' 'आयुष्टे विश्वतोऽदधत्' इति त्रयोऽनुवाकाः । यजुष्ट्वाभिप्रायो नपुंसकनिर्देशः । तत्रैवाच्छिद्राख्ये प्रश्ने 'यद्देवा देवहेलनम्' इत्यनुवाके या ऋचस्ताः कूष्माण्ड्यः । पवमानः सोमो देवता यासां ताः पावमान्यः 'स्वादिष्ठया मदिष्ठया' इत्याद्या आ मण्डलसमाप्तेः । 'तत्सवितुर्वरेण्यम्' इत्येषा सावित्रो प्रसिद्धा । न या काचन सवितृदेवत्या । इति—शब्दः प्रकारवचनः । एवं प्रकाराण्यन्यान्यपि पावमानानीति । तत्र मनुः—
कौत्सं जप्त्वाऽप इत्येतद्वासिष्ठं च तृचं प्रति । माहित्रं शुद्धलिङ्गं च सुरापोऽपि विशुध्यति ॥ सकृज्जप्त्वाऽस्यवामीय शिवसंकल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥ हविष्पान्तीयमभ्यस्य न तमंह इतीति च । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ सोमारौद्रं तु बहुना मासमभ्यस्य शुध्यति । इत्यादि ।
प्रायश्चित्तप्रकरणे पुनः पावमानानीतिवचनात्प्रायश्चित्तव्यतिरेकेणाप्युद्धिकामस्याहरहरेतानि जप्यानि ॥ १२ ॥
उपनिषद् , वेदान्त, सभी वेदों का संहितापाठ, मधु शब्द से युक्त यजुर्वेद का अंश, ('ऋतं च सत्यं च' आदि) अघमर्षण ऋषि द्वारा दृष्ट मन्त्र, ('देवा ह वै स्वर्गं लोकमगमन्' इत्यादि) अथर्वशिरस् मन्त्र, ('नमस्ते रुद्र मन्यवे' इत्यादि) रुद्र का अनुवाक, ('सहस्रशीर्षा' इत्यादि) पुरुषसूक्त, राजत और रौहिण नाम के दो सामन्, ('त्वामिद्धि हवामहे' आदि) बृहत् सामन् ('अभित्वा शूर नोनुमः' इत्यादि) रथन्तर, ('अहमस्मि प्रथमजा ऋतस्य' आदि) पुरुषगति, ('विदामघवन्' इत्यादि) महानाम्नी ऋचाएँ, ('पिवासोमम्' आदि) महावैराज साम, ('विभ्राड्बृहत्पिबतु' आदि) महादिवाकीर्त्य, ('उदुत्यं चित्रं' आदि) ज्येष्ठसामन् बहिष्पवमान सामन् ('उपास्मै गायता नरः' इत्यादि), कूष्माण्ड (नाम के तीन अनुवाक), (सोमदेवता के) पावमान्य मन्त्र ('स्वादिष्ठया मदिष्ठया' आदि) और ('तत्सवितुर्वरेण्यम्' आदि) सावित्रीमन्त्र इत्यादि पवित्र करने वाले हैं ॥ १२ ॥
जपे प्रवृत्तस्याऽऽहारनियममाह—
पयोव्रतता शाकभक्षता फलभक्षता प्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमिति मेध्यानि ॥ १३ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २०३
पयोव्रतता क्षीराहारता । व्रतग्रहणादुपवासन्यायेन । शाकं वास्तुकादि । फलं कदल्यादेः । प्रसृतया कः प्रसृतपरिमितैर्यवैः पक्व ओदनः । तत्रौशनसो विशेषः—स्नातः शुचिर्भूत्वोदितेषु नक्षत्रेषु ताम्रभाजने प्रसृतयावकं श्रपयेद्यथा यथागूर्भवति । तस्य श्रपणकाले रक्षां कुर्यात् । ‘नमो रुद्राय भूताधिपतये पर्वतानां पतये त्वमिमं रक्षस्व’ इति । शृतेऽवरोप्य देवस्य त्वा सवितुरित्यादिनोत्पूय ततोऽभिमन्त्रयेत्—
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णेदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥
वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तनम् ।
अलक्ष्मीं कालकण्ठीं च सर्वं पुनत मे यवाः ॥
महापातकसंयुक्तं दारुणं राजकिल्बिषम् ।
बालवृत्तमधर्मं च सर्वं पुनत मे यवाः ॥
सुवर्णस्तैन्यमव्रत्यमयाज्यस्य च याजनम् ।
ब्राह्मणानां परोवादं सर्वं पुनत मे यवाः ॥
श्वसूकरावधूतं च काकाद्युच्छिष्टमेव च ।
मातापित्रोरशुश्रूषां सर्वं पुनत मे यवाः ॥
गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
चोरस्यान्नं तथाऽभक्ष्यं सर्वं पुनत मे यवाः । इत्येतैः षड्भिः ।
ततो ब्रह्मा देवानामिति प्राश्य ततः प्राणाय स्वाहेत्यादिभिर्यथोक्तं सर्वं प्राश्नीयात्षड्रात्रम् । ततो नियमातिक्रमजातप्रतिषिद्धसेवनजादभक्ष्यभक्षणजाच्च सर्वस्मात्पापात्प्रमुच्यते । सप्तरात्रं पीत्वा भ्रूणहत्यां गुरुतल्पं सुवर्णस्तैन्यं सुरापानं च पुनाति । एकादशरात्र पीत्वा सर्वकृतपापं नुदति । एकविंशतिरात्रं पीत्वा गणान्पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिं पश्यति । एवमहरहरनन्य्याहारो यवागूं प्राश्नीयादिति । सर्पिरादौ हिरण्यं निघृष्य प्राशनं हिरण्यप्राशनम् । घृतप्राशनं प्रसिद्धम् । सोमपानं क्रतावुक्तम् । बहिरप्यन्ये । इतिकरणाद्यच्चान्यदेवमुक्तं पञ्चगव्यशङ्खपुष्पादि तस्य प्राशनं मेध्यं विज्ञेयम् ॥ १३ ॥
केवल दूध पर रहना, केवल शाक का भोजन करना, केवल फलाहार करना, केवल जीवन धारण के लिए पर्याप्त अल्प (एक पसर या मुट्ठी) जौ के अन्न का भोजन, घी आदि में सोने को रगड़कर पीना, घृतपान, (यज्ञादि में) सोमपान, (पञ्चगव्य, शङ्खपुष्प आदि का पान करना) ये सभी पवित्र करने वाली विधियाँ हैं ॥ १३ ॥
| २०४ | गौतमधर्मसूत्राणि |
|---|
अथ जपादीनां स्थानमाह—
सर्वे शिलोञ्चयाः सर्वाः स्रवन्त्यः पुण्या हृदास्तीर्थान्यृषि-निवासा गोष्ठपरिस्कन्धा इति देशाः ॥ १४ ॥
शिलोञ्चयाः शैलाः। स्रवन्त्यो नद्यः। सर्वग्रहणात् पुण्यापुण्यविभागो नाऽऽदरणीयः। पुण्या हृदाः पुष्करिण्यादयः। प्रयागादीनि तीर्थानि। ऋषिनिवासा वासिष्ठादीनामाश्रमाः। गोष्ठं गवां स्थानम्। परिस्कन्धो देवालयः। इतिकरणान्नैमिषारण्यादीनि ॥ १४ ॥
सभी पर्वत, सभी नदियाँ, पवित्र कुण्ड, तीर्थस्थान, ऋषियों के आश्रम, गायों के रहने का स्थान और देवता का मन्दिर (ये सभी जप के स्थान हैं) ॥
व्याख्यातः सहपरिकरेण जपः। तपः स्वरूपमाह—
ब्रह्मचर्यं सत्यवचनं सवनेषूदकोपस्पर्शनमार्द्रवस्त्रताऽधःशा-यिताऽनाशक इति तपांसि ॥ १५ ॥
ब्रह्मचर्यं मैथुनत्यागः। सत्यवचनं दृष्टार्थवादित्वम्। सवनेषु प्रातर्मध्यन्दिने सायं चोदकस्पर्शनं स्नानम्। आर्द्रवस्त्रतां स्नानसमये परिहितस्य वाससतथैवापीडितस्य धारणम्। अधःशायिता स्थण्डिलशायिता। अशनमाशः। स एवाऽऽशकस्तस्याभावोऽनाशकोऽनशनम्। अत्रापीतिकरणात्प्राणायामादीनां ग्रहणम्। अत्र मनुः—
सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ इति।
होमाः कूष्माण्डगणहोमादयः प्रसिद्धत्त्वादिहानुक्ताः। तत्र श्रुतिः 'कूष्माण्डैर्जुहुयाद्योऽपूत इव मन्येत' इत्यादि। गणहोमस्तु बौधायनोक्तः—
क्षापवित्रं सहस्राक्षो मृगारांऽहोमुचौ गणौ।
पावमान्यश्च कूष्माण्ड्यो वैश्वानर्य ऋचश्च याः ॥
घृतौदनेन ता जुह्वत्सप्ताहं सवनत्रयम्।
मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥
मुच्यते सर्वपापेभ्यो महतः पातकादपि ॥ इति।
याज्ञवल्क्यः—
यत्र यत्र च संकीर्णमात्मानं मन्यते जनः।
तत्र तत्र तिलैर्होमः सावित्र्याः प्रत्यहं जपः ॥ इति।
मनुः—
न सावित्रीसमं जप्यं नाऽज्याहुतिसमं हुतम्।
नान्नतोयसमं दानं न चाहंसापरं तपः ॥ इति।
सानुवाद-मिताक्षरावृत्तिसहितानि २०५
उपवासो भक्तत्यागः । स एव तपःस्वपि पुनः पुनः पठ्यत आदर- ख्यापनार्थम् । अपर आह—निष्क्रयणेषु पठित उपवास इन्द्रियनिग्रहः । व्यावृत्तस्यैव दोषेभ्यो यस्तु वासो गुणैः सह । उपवासं तमाहुस्तु न शरीरस्य शोषणम् ॥ इति पुराणे दर्शनादिति ॥ १५ ॥
ब्रह्मचर्य अर्थात् मैथुनत्याग, सत्यभाषण, सबनों में (अर्थात् प्रातः, मध्य न्दिन एवं सायं) स्नान, गीले (स्नान के बाद निचोड़े गये) वस्त्र पहनना, नंगी भूमि पर सोना, भोजन का त्याग इत्यादि (प्राणायाम आदि)—ये तप हैं ॥ १५ ॥
अथ देयान्याह— हिरण्यं गौर्वासोऽश्वो भूमिस्तिला घृतमन्नमिति देया- नीति ॥ १६ ॥ निगदव्याख्यातमैतत् ॥ १६ ॥ सोना, गाय, वस्त्र, अश्व, भूमि, तिल, घी और अन्न इत्यादि दान में दिये जाते हैं ॥ १६ ॥
अथ कियान्कालो जपादीनामित्यत आह— संवत्सरः षण्मासाश्चत्वारस्त्रयो वा द्वौ चैकश्चतुर्विंशत्यहो द्वादशाहः षडहस्त्र्यहोऽहोरात्र इति कालाः ॥ १७ ॥ एतेषु यावता शुद्धो मन्यते तावान्कालः ॥ १७ ॥ एक वर्ष, छः मास, चार (मास), तीन (मास), दो (मास), एक (मास) चौबीस दिन, बारह दिन, छः दिन, तीन दिन, तथा एक दिन और रात—इन प्रायश्चित्तों के समय हैं ॥ १७ ॥
एतान्येवानादेशे विकल्पेन क्रियेरन् ॥ १८ ॥ एतान्येव जपादीनि निष्क्रयणान्यनादेशे यत्राऽहृत्य प्रायश्चित्तमनि- र्दिष्टं तत्र विषये विकल्पेन कर्तव्यानि । एवकारः पौनर्वचनिकः । तद्यथा—देवदत्तो ग्रामं गच्छतु स एवारण्यमिति । किं सिद्धं भवति । येषु नियते (भिन्ने) ष्वाहृत्य प्रायश्चित्तमुक्तं तेष्वप्यभ्यासानुबन्धादौ प्रतिपूर- णापेक्षायां जपादीनामनुप्रवेशः सिद्धो भवति ॥ १८ ॥ जहाँ जप आदि किसी विशिष्ट प्रायश्चित्त का विधान न किया गया हो वहाँ इच्छानुसार उनमें से कोई किया जा सकता है ॥ १८ ॥
२०६ गौतमधर्मसूत्राणि
किं तुल्यवद्विकल्पो नेत्याह-- एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ १६ ॥
अभिसंधिकृतमेनो गुरु तद्विपरीतं लघु । एवमभ्यासानुबन्धादावपि द्रष्टव्यम् । यथाऽऽहाऽऽपस्तम्बः--यः प्रमत्तो हन्ति प्राप्तं दोषफलं सह संकल्पेन भूय एवमन्येष्वपि दोषवत्सु कर्मसु तथा पुण्यफलेषु यथा कर्माभ्यास इति ॥ १९ ॥ .
बड़े पापों के लिए बड़ा प्रायश्चित्त करना चाहिए और छोटे पापों के लिए छोटा प्रायश्चित्त समझना चाहिए ॥ १९ ॥
कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तं [ सर्वप्रायश्चित्तम् ] ॥ २० ॥
कृच्छ्रातिकृच्छ्रौ चान्द्रायणं चोपरिष्टाद्वक्ष्यन्ते । सर्वग्रहणान्न केवलमनादेशे । एतानि च गुरू ( रु ) ष्येनां ( न ) सि समस्तानि समुदितानि प्रायश्चित्तं लघू ( घु ) न्येकमेकं लघुतरेऽतिकृच्छ्रो लघुत्तमे कृच्छ्रः । मनुरप्याह--
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ इति ।
इतिकरणाच्चान्यदेवमुक्तम् । तन्न मनुः--
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ।
पराको नाम कृच्छ्रोऽयं सर्वपापप्रणाशनः ॥ इति ।
[ अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ २० ॥
कृच्छ्र और अतिकृच्छ्र तथा चान्द्रायण ये सभी प्रायश्चित्त हैं ( बड़े पापों में ये सभी करने होते हैं, छोटे पाप में एक-एक करने होते हैं, और छोटे पाप में अतिकृच्छ्र और लघुतम पाप के लिए कृच्छ्र प्रायश्चित्त होता है ॥ २० ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
तृतीयप्रश्ने प्रथमोऽध्यायः ॥ १ ॥
अथ तृतीयप्रश्ने द्वितीयोऽध्यायः
अथ यो याप्यं कृत्वाऽपि प्रायश्चित्तं न प्रतिपद्यते स किं कर्तव्यः । त्याज्य इत्याह —
त्यजेत्पितरं राजघातकं शूद्रयाजकं शूद्रार्थयाजकं वेद-
विप्लावकं भ्रूणहनं यश्चान्त्यावसायिभिः सह संवसेदन्त्याव-
सायिन्यां वा ॥ १ ॥
राजाऽत्राभिषिक्तो न जातिमात्रोपजीवी । तं हतवान्राजघातकः । शूद्रं यो याजयत्येतया निषादस्थपतिं याजयेदित्यादौ विषये स शूद्रयाजकः । यः शूद्रार्थमधिगम्य यजते स शूद्रार्थयाजकः । अनध्यायानध्याप्याध्ययनादिना यो वेदं विप्लावयति व्याकुलीकरोति स वेदविप्लावकः । भ्रूणहा ब्रह्महा । एतन्महापातकिनामप्युपलक्षणम् ।
चण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस्तथा ।
मागधायोगवौ चैव सप्तैतेऽन्त्यावसायिनः ॥ इत्यङ्गिराः ।
तैः सहैकस्मिन्स्थाने यो वसति स तथोक्तः । अन्त्यावसायिन्याम् । यः सह वसतोत्यपेक्षते । तस्यां संवासो मैथुनाचरणम् । एतेषु निमित्तेषु पितरमपि त्यजेत् । पितृग्रहणात्किमुत पुत्रादिकमिति ॥ १ ॥
राजा की हत्या करने वाले, शूद्र के लिए यज्ञ करने वाले, शूद्र से धन लेकर यज्ञ करने वाले, ( अनध्याय और अनध्यापन द्वारा ) वेद की हानि करने वाले, विद्वान् ब्राह्मण की हत्या करने वाले, चण्डाल आदि अन्त्यावसायियों के साथ रहने वाले और उन अन्त्यावसायियों की स्त्रियों के साथ सम्बन्ध रखने वाले पिता का भी त्याग कर दे ॥ १ ॥
अथ त्यागप्रकारः--
तस्य विद्यागुरून्योनिसंबन्धांश्च संनिपात्य सर्वाण्युदका-
दीनि प्रेतकार्याणि कुर्युः ॥ २ ॥
तस्य त्याज्यस्य ये विद्यागुरवः आचार्य्यगुरुपाध्याया योनिसंबन्धा मातुलादयस्तान्सर्वान्संनिपात्यैकत्र समवेतान्कृत्वोदकादीनि श्राद्धान्तानि सर्वाणि प्रेतकर्माणि कुर्युः । के । पुत्रादयो ज्ञातयः । पितरमित्युपक्रमाद् बहुवचननिर्देशाच्च ॥ २ ॥
| २०८ | गौतमधर्मसूत्राणि |
|---|
ऐसे त्याज्य व्यक्ति के आचार्य, गुरु और उपाध्याय को तथा मामा आदि सभी सम्बन्धियों को बुलाकर ( उस त्याज्य व्यक्ति के लिए ) श्राद्ध के सभी उदकदान आदि कर्म करे ॥ २ ॥
पात्रं चास्य विपर्यस्येयुः ॥ ३ ॥
अस्य त्याज्यस्य पात्रं किंचित्कल्पयित्वा त एव विपर्यस्येयुः । विपर्यासोऽधोमुखीकरणम् । यथा तदनुदकं भवति ॥ ३ ॥
उसके बाद उस ( त्याज्य व्यक्ति ) के नाम पर जल से पूर्ण घड़ा ( इस प्रकार ) उलट दे ॥ ३ ॥
तत्र प्रकारमाह—
दासः कर्मकरो वाऽवकरादमेध्यपात्रमानीय दासीघटात्पूरयित्वा दक्षिणामुखो यदा विपर्यस्येदमुकमनुदकं करोमीति नामग्राहम् ॥ ४ ॥
दासः प्रसिद्धः । कर्मकरो भृतकः । तयोरन्यतरोऽवकरादवस्करात् । वर्चस्केऽवस्करः । अमेध्यात्स्थानादशुचि पात्रं किंचिदुपादाय येन दास्यूदकमाहरति तस्माद् घटाद् गृहीतेनोदकेन पूरयित्वा दक्षिणामुखो भूत्वा यदाऽपसव्येन विपर्यस्येदपसव्यमधोमुखं विक्षिपेत् । तत्र मन्त्रः—अमुकमनुदकं करोमीति । नामग्राहम् । अमुकमिति स्थाने त्याज्यस्य नाम द्वितीयान्तं गृहीत्वा । नाम्न्या दिशिमहोरिति णमुल् । ग्राह इति पाठे रूपसिद्धिश्चिन्त्या ॥ ४ ॥
कोई दास या नौकर किसी ( घूरा आदि ) अशुद्ध स्थान से एक अपवित्र घड़ा लाकर उसे किसी दासी के घड़े के जल से भरे और अपना मुँह दक्षिण की ओर करके उस व्यक्ति का नाम लेकर अमुक को उदक से वञ्चित करता हूँ ऐसा कहते हुए पैर से घड़े को उलट दे ॥ ४ ॥
तं सर्वेऽन्वालभेरन्प्राचीनावीतिनो मुक्तशिखाः ॥ ५ ॥
तं विपर्यस्यन्तं सर्वे ज्ञातयः प्राचीनावीतिनो मुक्तशिखाः सन्तोऽन्वालभेरन्स्पृशेयुः ॥ ५ ॥
सभी बन्धु-बान्धव अपने यज्ञोपवीत को दाहिने कंधे के ऊपर और बाएँ हाथ के नीचे करके अपनी अपनी शिखा को खोलकर उस दास का स्पर्श करें ॥ ५ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २०९
विद्यागुरवो योनिसंबन्धाश्च वीक्षेरन् ॥ ६ ॥
न तु संस्पृशेयुः ॥ ६ ॥
विद्यागुरु आचार्य, उपाध्याय और सम्बन्धी देखते रहें उसका स्पर्श न करें ॥ ६ ॥
अप उपस्पृश्य ग्रामं प्रविशन्ति ॥ ७ ॥
एवमिदं कर्म कृत्वाऽप उपस्पृश्य स्नात्वा ग्रामं संविशन्ति प्रविशेयुः । अत एव ज्ञायते ग्रामाद् बहिरिदं कर्मेति ॥ ७ ॥
वे सभी स्नान करके गाँव में प्रवेश करें ॥ ७ ॥
अत उत्तरं तेन संभाष्य तिष्ठेदेकरात्रं जपन्सावित्रीमज्ञानपूर्वम् ॥८॥
अतस्त्यागादूर्ध्वं तेन सह संभाषणमज्ञानात्कृत्वैकमहोरात्रं तिष्ठेन्न भुञ्जीत न शयीत नाऽऽसीतेति । अज्ञानपूर्वमितिवचनादेकवचननिर्देशाच्च ज्ञातिव्यतिरिक्तस्यापीदं भवति ॥ ८ ॥
जो बाद में उस परित्यक्त पापी से अनजान में बोले वह रात भर सावित्री मन्त्र का जप करते हुए खड़ा रहे ॥ ८ ॥
ज्ञानपूर्वं च त्रिरात्रम् ॥ ९ ॥
यस्तु तेन ज्ञानपूर्वं संभाषते स त्रिरात्रमुक्तक्रमेण तिष्ठेत् । कार्याकार्यनिरूपणादाविदम् । परिप्रश्नादौ तु पराशरोक्तम्—
क्षुते निष्ठीवने चैव दन्तस्पृष्टे तथैव च ।
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥ इति ॥ ९ ॥
जो व्यक्ति उसके साथ जानबूझ कर बोलता है वह उपर्युक्त विधि से तीन रात्रि बितावे ॥ ९ ॥
यस्तु प्रायश्चित्तेन शुध्येत्तस्मिञ्छुद्धे शातकुम्भमयं पात्रं पुण्यतमाद्ध्रदात्पूरयित्वा स्रवन्तीभ्यो वा तत एनमप उपस्पर्शयेयुः ॥ १० ॥
प्रायश्चित्तेनेति वचनाद्राजदण्डेन शुद्धस्य वक्ष्यमाणस्वीकरणविधिर्न भवति तस्य केवलं परत्रैव शुद्धिः ।
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ इति ॥
तस्मिँल्लोकसमक्षं शुद्धे शातकुम्भमयं सौवर्णं पात्रं पुण्यतमाद्ध्रदान्न-
१४ गौ०
२१० गौतमधर्मसूत्राणि
दोभ्यो वाऽऽहृतेन जलेन पूरयित्वा ततस्तस्मादावर्जिता अप एनं चरित- प्रायश्चित्तमुपस्पर्शयेयुस्ताभिरद्भिः स्नापयेयुर्ज्ञातयः ॥ १० ॥
किन्तु यदि परित्यक्त पापी प्रायश्चित्त द्वारा शुद्ध हो जाय तो उसके शुद्ध होने पर उसके बन्धुगण एक अत्यन्त पवित्र सरोवर या नदी से जल लाकर उसके लिए सोने का घड़ा भरें उस घड़े के जल से उसे नहलावें ॥ १० ॥
अथास्मै तत्पात्रं दद्युस्तत्संप्रतिगृह्य जपेच्छान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्तमिमं गृह्णामीति ॥ ११ ॥
अथ स्नापनानन्तरमस्मै स्नाताय तत्सौवर्णं पात्रं दद्युर्ज्ञातयः । स च तत्पात्रं प्रतिगृह्य जपेच्छान्ता द्यौरित्यादि गृह्णामीत्यन्तम् ॥ ११ ॥
तब वे उसे वह घड़ा दें और वह उसके बाद इस मन्त्र का जप करे 'शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्तमम् इमं गृह्णामि' "आकाश शान्त है, पृथिवी पवित्र है, अन्तरिक्ष निर्मल और शुभ है, मैं तेजपूर्ण इसे ग्रहण करता हूँ" ॥ ११ ॥
एतैैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिः कूष्माण्डैश्चाऽऽज्यं जुहुयाद्धिरण्यं ब्राह्मणाय दद्यात् ॥ १२ ॥
होमान्ते दानम् ॥ १२ ॥
तब वह पवमान, तरत्समन्दी तथा कूष्माण्ड यजुस् मन्त्रों के साथ आज्य की आहुति करे और ब्राह्मण को सोने का दान दे ॥ १२ ॥
गां वा ॥ १३ ॥
इच्छातो विकल्पः ॥ १३ ॥
अथवा गौ का दान दे ॥ १३ ॥
आचार्याय च ॥ १४ ॥
य आत्मन आचार्यस्तस्मा अपि हिरण्यं दद्याद् गां वा ॥ १४ ॥
( अपने ) आचार्य को भी स्वर्ण या गौ का दान दे ॥ १४ ॥
यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येत् ॥ १५ ॥
उत्तरविवक्षयेदमुच्यते । प्रायश्चित्तस्य शुद्धयर्थत्वादेव सिद्धा शुद्धिः ॥ १५ ॥
किन्तु जिस पापी का प्रायश्चित्त जीवनपर्यन्त चलता रहे वह मृत्यु के बाद ही शुद्ध माना जाता है ॥ १५ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २११
सर्वाण्येव तस्मिन्नुदकादीनि प्रेतकर्माणि कुर्युः ॥ १६ ॥
यद्यपि तस्य नास्मिँल्लोके प्रत्यापत्तिस्तथाऽपि मरणादेव शुद्ध इति सर्वाण्येव प्रेतकर्माणि कर्तव्यानि । सर्वग्रहणादाशौचमपि । योऽपि द्वादश-वार्षिकादौ प्रायश्चित्ते प्रवृत्तो मध्ये म्रियते तद्विषये व्यास आह—
यजमानः सदा धर्म्ये म्रियते यदि मध्यतः ।
प्राप्नोत्येव तु तत्सर्वमत्र मे नास्ति संशयः इति ॥ १६ ॥
उसके बन्धु उसके लिए उदक दान आदि सभी श्राद्धकर्म करें ॥ १६ ॥
एतदेव शान्त्युदकं सर्वेषूपपातकेषु [ सर्वेषूपपातकेषु ॥ १७ ॥ ]
एतदेवानन्तरोक्तं शान्ता द्यौरित्यादिभिरभिमन्त्रितं सर्वेषूपपातकेषु कर्तव्यं प्रायश्चित्तस्यान्ते । आदावित्यन्ये । द्विरुक्तिः पूर्ववत् ॥ १७ ॥
यही (शान्ता द्यौ आदि मन्त्रों से अभिमन्त्रित कर्म सभी उपपातकों की शुद्धि के लिए करना चाहिए ॥ १७ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
तृतीयप्रश्ने द्वितीयोऽध्यायः ॥ २ ॥
अथ तृतीयोऽध्यायः
पतितानां त्यागविधिरुक्तः के पुनस्ते तानाह—
ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धागस्तेननास्तिकनि- न्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः ॥ १ ॥
ब्राह्मणस्य हन्ता ब्रह्महा। गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा। यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः॥ इति मनुः। तत्र या यस्य सुरा प्रतिषिद्धा स तस्याः पाता सुरापः। गुरुः पिताऽऽ- चार्यश्च। तल्पशब्देन भार्या लक्ष्यते। गमनं मैथुनम्। मातृसंबन्धा मातृपक्षे प्राक्पञ्चमाद्गवाः। पितृसंबन्धाः पितृपक्षेऽर्वाक्सप्तमाद्गवाः। योनिसंबन्धा भगिन्यादयः। य एता भार्यात्वेनाधिगच्छति स मातृपितृ- योनिसंबन्धागः। स्तेनो ब्राह्मणसुवर्णापहारी। नास्तिकः प्रेत्यभावाप- वादी। निन्दितं प्रतिषिद्धम्। तस्य कर्मणो बुद्धिपूर्वं सातत्येनानुष्ठाता निन्दितकर्माभ्यासी। पतितानेव सतः पुत्रादीन्स्नेहादिना यो न त्यजति स पतितात्यागी। यस्त्वपतितानेव द्वेषादिना त्यजति सोऽपतितत्यागी। एते ब्रह्महादयः पतिताः ॥ १ ॥
ब्राह्मण की हत्या करने वाले, निषिद्ध सुरा का पान करने वाले, गुरु (पिता, आचार्य) की स्त्री से संभोग करने वाले, मातृपक्ष में पाँचवीं पीढ़ी के भीतर की और पितृपक्ष में सात पीढ़ी के भीतर की भगिनी आदि स्त्रियों के साथ यौन संबन्ध रखने वाले, ब्राह्मण के स्वर्ण की चोरी करने वाले, नास्तिक, निरन्तर निन्दित कर्म करने वाले, पतित व्यक्ति का त्याग न करने वाले और निर्दोष व्यक्ति का त्याग करने वाले—ये सभी पतित होते हैं ॥ १ ॥
पातकसंयोजकश्च ॥ २ ॥
पातकैः कर्मभिर्ये परान्संयोजयन्ति तत्र प्रवर्तयन्ति द्रव्यप्रदानादिना मच्छत्रुमित्थं व्यापादय त्वच्छत्रोर्व्यापादनेऽयमभ्युपाय इति। तथा केनचिद्जिघांसितं पलायमानं यो निवारयति निवारितश्च हन्यते सोऽपि प्रयोजकः। यस्यानुमति मन्तरेणार्थो न निव(र्व)र्तते स मन्ता। स इह पृथङ्नोपादीयते प्रयोजककोटिरेवायमिति। आपस्तम्बस्तु कियताऽप्यवान्तरभेदेन तमेव पृथगुदितवान्—प्रयोजिता मन्ता कर्ता चेति
सानुवाद-मिताक्षरावृत्तिसहितानि २१३
स्वर्गनर्कफलेषु कर्मसु भागिनो यो भूय आरभते तस्मिन्फलविशेषइति ॥ २ ॥
दूसरे व्यक्ति को ( द्रव्य आदि देकर ) इन पातक कर्मों में प्रेरित करने वाले भी पतित होते हैं ॥ २ ॥
तैश्चाब्दं समाचरन् ॥ ३ ॥
तैः पतितैः सह योऽब्दं समाचरति यानासनशयनादीनि सोऽपि पतितः । अत्र कण्वः—संवत्सरेण पतति पतितेन समाचरन् ।
यानासनाशनैर्नित्यमित्याहुर्ब्रह्मवादिनः ॥ इति ।
याजनादौ तु याज्ञवल्क्य आह—
याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतत्येव पतितेन समाचरन् ॥ इति ।
सहभोजनमेकस्मिन्पात्रे ।
संवत्सरेण पतति पतितेन समाचरन् ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ इति ।
मानवमप्येवं व्याख्येयम्—यानादिभिः संवत्सरेण पतति न तु याजनादिभिः किंतु तैः सद्य एवेति ॥ ३ ॥
और पतित के साथ पूरे एक वर्ष तक उठने-बैठने वाला भी पतित हो जाता है ॥ ३ ॥
किं पुनरेषां पतितत्वम्—
द्विजातिकर्मभ्यो हानिः पतनम् ॥ ४ ॥
द्विजातीनां यानि कार्या ( कर्मा ) ण्यध्ययनादीनि श्रौतानि गार्ह्याणि स्मार्तानि च तेभ्यो हानिस्तेष्वनधिकारः ॥ ४ ॥
पतित होने के अर्थ है द्विजाति कर्म के अधिकार से वञ्चित हो जाना ॥४॥
तथा परत्र चासिद्धिः ॥ ५ ॥
यान्यनेन प्रागर्जितानि कुशलानि कर्माणि तान्यप्यस्य परत्र न सिध्यन्ति फलदानि न भवन्ति । तदेतदेताभ्यां पतितशब्दस्य निर्वचनं कृतं कर्तव्येभ्यः कर्मभ्यः पूर्वार्जितानां सुकर्मणां फलेभ्यश्च पातः प्रच्यवनं पतितत्वमिति ॥ ५ ॥
और मृत्यु के बाद अपने पुण्य कर्मों के फल से वञ्चित हो जाना भी पतन है ॥ ५ ॥
| २१४ | गौतमधर्मसूत्राणि |
|---|
तमेके नरकम् ॥ ६ ॥
येयं कर्मभ्यो हानिर्या च परत्रासिद्धिस्तामेवैके नरकं मन्यन्ते। नरकसामानाधिकरण्यात्पुंलिङ्गमेकवचनं च। कर्मभ्यो हीनस्य बन्धुभिस्त्यक्तस्य दुःखमुत्पद्यते परत्रासिद्धेः सुखलवो न भवत्यतो नरक एवायमिति। स्वमतं तु विशिष्टे देशे दुःखैकतानस्य वासो नरक इति ॥ ६ ॥
कुछ लोग इसी दशा को (कर्म की हानि और पुण्यकर्म के फल के नाश को) नरक कहते हैं ॥ ६ ॥
त्रीणि प्रथमान्यनिर्देश्यान्यनु ॥ ७ ॥
अनुक्रान्तानां पातकानां मध्ये प्रथमानि त्रीणि ब्रह्महत्यासुरापानगुरुतल्पगमनान्यनिर्देश्यान्यनिर्देश्यप्रायश्चित्तानि तेषां प्रायश्चित्तमनिर्देश्यमिति। ब्रह्मवधे। मनुराह—
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते। इति।
सुरापाने—
मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः। इति। गुरुतल्पे मृग्यम् ॥ ७ ॥
मनु का मत है कि उपर्युक्त पातकों में प्रथम तीन—ब्रह्महत्या, सुरापान और गुरुपत्नी संभोग—के लिए कोई प्रायश्चित्त नहीं है ॥ ७ ॥
न स्त्रीष्वगुरुतल्पं पततीत्येके ॥ ८ ॥
एके मन्यन्ते स्त्रीषु प्रवृत्तो गुरुतल्प एव पतितो नान्यत्रेति। स्वयं त्वन्यत्रापि पततीति। आह मनुरपि—
चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ इति ॥ ८ ॥
कुछ आचार्यों का मत है कि गुरुपत्नी के अतिरिक्त अन्य स्त्री से संभोग करने वाला पतित नहीं होता ॥ ८ ॥
अथ स्त्रियाः पतनहेतुमाह—
भ्रूणहनि हीनवर्णसेवायां च स्त्री पतति ॥ ९ ॥
भ्रूणहेति भावपरम्। भ्रूणो गर्भः। आत्मापेक्षायां गर्भहत्यायां स्त्री पतति। यो हीनवर्णो ब्राह्मण्याः क्षत्रियादिः क्षत्रियाया वैश्यादिर्वैश्यायाः शूद्रस्तत्सेवायां च स्त्री पतति। चकाराद् ब्रह्महत्यादिषु च। अपर आह—
सानुवाद-मिताक्षरावृत्तिसहितानि २१५
भ्रूणहनं हीनवर्णं च या सेवते न तस्य भार्या भवति सा पतति। चका- राद् ब्रह्महत्यादिषु चेति। भ्रूणग्रहणं पतितोपलक्षणम् ॥ ९ ॥
स्त्री गर्भपात कराने पर, निम्नवर्ण के पुरुष के साथ सम्बन्ध करने ( और ब्रह्महत्यादि कर्मों ) से पतित होती है ॥ ९ ॥
कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातक- समानि ॥ १० ॥
कूटसाक्षिणो भावः कौटसाक्ष्यं साक्षिणोऽनृतवचनम् । सतोऽसतो वा परदोषस्य ख्यापनं पैशुनम् । राजनीतौ वक्तव्ये राजगामीति वचनं यत्रोक्तं पारम्पर्येणापि राजानं गच्छति तदपि वर्ज्यमित्येवमर्थम् । गुरोः पितुराचार्यस्य वाऽनृतेनासत्येन दोषेणाभिशंसनं दुष्टताख्यापनं गुरोरनृ- ताभिशंसनम् । एतानि [ महा ] पातकसमानि । साम्यातिदेशे प्रायश्चित्त- मर्धमिति स्मार्तो व्यवहारः ॥ १० ॥
झूठी गवाही देना, राजा के कानों तक पहुँचने वाली चुगली करना, गुरु ( पिता, आचार्य ) के विषय में असत्य दोषारोपण करना—ये महापातक के समान हैं ॥ १० ॥
अपङ्क्त्यानां प्राग्दुर्बलाद् गोहन्तृब्रह्मघ्नतन्मन्त्रकृदवकीर्णि- पतितसावित्रीकेषूपपातकम् ॥ ११ ॥
स्तेनादयो गीतशीलान्ता एकपञ्चाशन्न भोजयितव्या इत्युक्ताः श्राद्ध- प्रकरणेऽपङ्क्त्याः । तेषामपङ्क्त्यानां मध्ये दुर्बलात्प्राग्यावन्तस्त्यक्तात्म- पर्यन्ता एकत्रिशत्तेषु पतितः कूटसाक्षो चान्तर्भूतः । तत्र पतितस्य पति- तत्वं कूटसाक्षिणस्तत्साम्यमुक्तम् । व्यतिरिक्तेषूपपातकं पापम् । नास्ति- कोऽपि तेषु पठितः । स च त्रिविधः । यथाऽऽहुः पौराणिकाः—
नास्तिकास्त्रिविधा ज्ञेया धर्मज्ञैस्तत्त्वदर्शिभिः ।
क्रियादुष्टो मनोदुष्टो वाग्दुष्टश्चेति ते त्रयः ॥ इति ।
अत्र वाग्दुष्ट उपपातकोऽभिप्रेतः । इतरयोः पातक एव । गोहन्ता हननं दण्डकाष्ठादिना ताडनम् । ब्रह्म वेदस्तमधीतं यः प्रमादादभिहृतवा- न्विस्मृतवान्स ब्रह्मघ्नः । बुद्धिपूर्वे मानवम्—
ब्रह्मघ्नत्वं वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ इति ।
तन्मन्त्रकृद्गोहन्तृब्रह्मघ्नयोर्योजनादिकृत् । यो ब्रह्मचारी स्त्रियमुपेया- त्सोऽवकीर्णी । अस्यापङ्क्त्येषु पठितस्य पुनर्वचनं कृतेऽप्यवकीर्णिप्राय-
२१६ गौतमधर्मसूत्राणि
श्चित्ते पृथगुपपातकप्रायश्चित्तमपि कर्तव्यमित्येवमर्थम् । एतच्चापत्योत्पाद- नपर्यन्तगमने द्रष्टव्यम् । पतितसावित्रिको यथाकालमनुपनीतो व्रात्यः । एतेषूपपातकं पापमिति ॥ ११ ॥
लघु पाप (उपपातक) का दोष उन व्यक्तियों को लगता है जो श्राद्ध भोजन कराने के लिये अयोग्य बताये गये व्यक्तियों में दुर्बल (गंजे सिर वाले) से पहले गिनाये गये हैं। गाय की हत्या करने वाले, वेद भूल जाने वाले, इनके लिए यज्ञ कराने वाले, मैथुन द्वारा ब्रह्मचर्य भंग करने वाले, और उपनयन की अवधि बीतने के कारण सावित्री मन्त्र से पतित व्यक्ति ॥ ११ ॥
अज्ञानादनध्यापनादृग्विगाचार्यौ पतनीयसेवायां च हेयौ ॥ १२ ॥
अज्ञानादनध्यापनादिति । यदि (यः) कर्मणि प्रवृत्त ऋत्विड्मन्त्रा- न्कर्मपद्धतिं वा न जानाति स च, य आलस्यादिना नाध्यापयत्याचार्यस्ता- वुभौ हेयौ त्याज्यौ । इदं पतितेन सह शयनासनादेः सेवायां प्रागप्यब्दा- त्परित्यागार्थम् । तर्हि संवत्सरेण पततीति वचनमनर्थकम् । न तादृशस्त्या- गोऽत्र विवक्षितः । किं तर्ह्यृत्विगाचार्यान्तरमुपादेयम् । अनुपादाने दोष इति ॥ १२ ॥
(यज्ञ के नियमों के विषय में) अज्ञान ऋत्विज् और (आलस्य आदि के कारण) अध्यापन से प्रमाद करने वाले आचार्य को और पतित व्यक्ति की सेवा करने पर इन दोनों का त्याग कर देना चाहिए ॥ १२ ॥
अन्यत्र हानात्पतति ॥ १३ ॥
अन्यत्राज्ञानादनध्यापनादन्यत्र तयोस्त्यागो न कर्तव्यः । कुर्वन्प- तति ॥ १३ ॥
इस के अतिरिक्त अन्य किसी स्थिति में इनका त्याग करने वाला पतित हो जाता है ॥ १३ ॥
तस्य च प्रतिग्रहीतेत्येके ॥ १४ ॥
तस्यर्त्विजमाचार्यमीदृशं त्यजतः प्रतिग्रहीता तं यः प्रतिगृह्णाति याज्य- त्वेन शिष्यत्वेनर्त्विगाचार्यौ वा सोऽपि पततीत्येके मन्यन्ते । एके ग्रहणा- ज्ज्ञात्वा प्रतिग्रहे पातित्यं नान्यत्रेति ॥ १४ ॥
कुछ लोगों का मत है कि अनुचित ढंग से अपने ऋत्विज् या आचार्य का परित्याग करने वाले व्यक्ति को शिष्य या यजमान बनाने वाला भी पतित हो जाता है ॥ १४ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २१७
न कर्हिचिन्मातापितृयोरवृत्तिः ॥ १५ ॥
न कस्यांचिदप्यवस्थायां मातापित्रोरवृत्तिरशुश्रूषा कर्तव्या किन्तु पतितयोरपि तयोर्नमस्कारादिका शुश्रूषा कर्तव्या। तथा चाऽऽपस्तम्बः- माता पुत्रस्य भूयांसि कर्माण्यरभते तस्यां शुश्रूषा नित्या पतितायामपीति ॥ १५ ॥
किसी भी स्थिति में (पतित होने पर) माता और पिता के साथ अनुचित व्यवहार नहीं करना चाहिए ॥ १५ ॥
दायं तु न भजेरन् ॥ १६ ॥
तदीयं तु धनं तदभावे न भजेरन्पुत्रादयः। राजगामि तद्भवति ॥१६॥
(माता पिता के पतित होने पर) पुत्र उनकी सम्पत्ति न ग्रहण करे (उनका धन राजा को प्राप्त होता है) ॥ १६ ॥
ब्राह्मणाभिशंसने दोषस्तावान् ॥ १७ ॥
यो ब्राह्मणमभिशंसति तस्य सन्तं दोषं प्रथमं ख्यापयति तस्य दोषस्तावान्भवति यावान्कर्तुरिति। यथाऽऽहापस्तम्बः—
दोषं दृष्ट्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्यादूर्जयेश्चैनं धर्मेषु। इति ॥ १७ ॥
किसी ब्राह्मण पर कोई दोष मढ़ने पर दोष मढ़ने वाला ही उस दोष के पाप का भागी होता है ॥ १७ ॥
द्विरनेनसि ॥ १८ ॥
अनेनसि विषये दोषाभिशंसने द्विर्दोषोऽस्य भवति। द्विर्द्विगुणः। अत्राभिशंसनमात्रे दोष उक्तः। मानवे तु—
पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः।
वचनात्तुल्यदोषः स्यान्मिथ्या द्विद्दोषभाग्भवेत् ॥ इति।
पातित्यचौर्यविषयमभिशंसनमुक्तम्। वसिष्ठस्तु—ब्राह्मणमनृतेनाभिशस्य पतनीयेनोपपतनीयेन वा मासम्मभक्षः शुद्धवतीरावर्तयेत्पूतो भवतीति विज्ञायते ॥ १८ ॥
यदि वह व्यक्ति निर्दोष हो जिस पर दोष मढ़ा गया हो तो दोष मढ़ने वाले को उस कुकर्म का दूना पाप लगता है ॥ १८ ॥
दुर्बलहिंसायां च विमोचने शक्तश्चेत् ॥ १९ ॥
दुर्बले प्रबलेन हिंस्यमाने यः शक्तः सन्न मोचयति तस्यापि तावान्दोषो यावान्हिंसितुः ॥ १९ ॥
| २१८ | गौतमधर्मसूत्राणि |
|---|
समर्थ होते हुए भी किसी मारे जाते हुए दुर्बल व्यक्ति की रक्षा न करने पर उतना ही दोष लगता है जितना उस दुर्बल व्यक्ति को मारने वाले को ॥१९॥
अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यम् ॥ २० ॥
योऽभिक्रुद्धः सन्ब्राह्मणं प्रहर्तुं हस्तमायुधं वाऽवगुरत उद्यम्य कम्पयति तस्य तदवगोरणं वर्षाणां शतमस्वर्ग्यं भवांत स्वर्गप्राप्तिं निरुणद्धि । तन्निमित्तानि सुकृतानि हन्तीत्यर्थः । अस्वर्ग्यमिति नरकपातो वा लक्ष्यते । सजातीयविषयमिदम् । विजातीयविषये तु—
द्विगुणं त्रिगुणं चैव चतुर्गुणमथापि च ।
क्षत्रविट्शूद्रजातीनां ब्राह्मणस्य वधे स्मृतम् ॥ इति ।
अनेनैव न्यायेन ब्राह्मणेनावगोरणे कृते त्रिपाद्यं द्विपाद्यं पादश्चेति क्षत्रियादिषु द्रष्टव्यम् । एवमन्यत्रापि प्रतिलोमानुलोमभेदेनाधरोत्तरभावे तारतम्यं कल्प्यम् ॥ २० ॥
जो क्रुद्ध होकर किसी ब्राह्मण के ऊपर हाथ या हथियार उठाता है वह सौ वर्ष तक स्वर्ग से बहिष्कृत होता है ॥ २० ॥
निघाते सहस्रम् ॥ २१ ॥
यः पूर्वेण हन्ति तस्य वर्षसहस्रमस्वर्ग्यम् । उपसमस्तं वर्षपदमपेक्षते ॥ २१ ॥
यदि वह मार देता है तो वह सहस्र वर्षों तक स्वर्ग नहीं प्राप्त करता ॥२१॥
लोहितदर्शने यावतस्तत्प्रस्कन्द्य पांसून्संगृह्णीयात् [ संगृह्णीयात् ] ॥ २२ ॥
यदि तेन निभातेन लोहितमुत्पादयेत्ततस्तल्लोहितं प्रस्कन्द्य निःसृत्य यावतः पांसून्संगृह्णीयात्पिण्डान्कुर्यात्तावन्ति वर्षाणि तदस्वर्ग्यं भवति । तस्माद् ब्राह्मणाय नावगुरेत्त न निहन्यान्न लोहितं कुर्यादिति गम्यमानत्वादमुक्तम् । [ अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ २२ ॥
यदि वह मार कर खून निकाल देता है तो उस खून से जितने रजकण एक साथ मिलते हैं उतने वर्षों तक उसे स्वर्ग नहीं मिलता ॥ २२ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः
एवं प्रायश्चित्तनिमित्तान्युक्तानि। अथ प्रायश्चित्तान्युच्यन्ते—
प्रायश्चित्तम् ॥ १ ॥
अधिकारोऽयम् । निश्चित्य तपसोऽनुष्ठानं प्रायश्चित्तम् ।
तथा चाङ्गिराः—
प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयोगात्प्रायश्चित्तमिति स्मृतम् ॥ इति ॥ १॥
अब प्रायश्चित्तों का वर्णन किया जाता है ॥ १ ॥
अग्नौ सक्तिर्ब्रह्मघ्नस्त्रिरवच्छातस्य ॥ २ ॥
सक्तिः सङ्गः पतनम् । अवच्छातोऽवशीर्णो भक्तत्यागेन कृशोभूतः । ब्रह्महा भक्तत्यागेन कृशो भूत्वाऽग्नौ त्रिः पतेदुत्थायोत्थाय । इदमस्य प्रायश्चित्तम् , अत्र मानवो विशेषः—
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः । इति ।
काठकश्रुतिः— "अनशनकर्शितोऽग्निमारोहेत्" इति ।
नेदं मरणान्तिकं त्रिरिति नियमात् । त्रिः पतने जीवन्नपि शुध्यतीति ॥ २ ॥
जानबूझ कर का ब्राह्मण की हत्या करने वाला भोजन त्याग कर दुर्बल शरीर होकर तीन बार अग्नि में कूदे तो उसका प्रायश्चित होता है ॥ २ ॥
लक्ष्यं वा स्याज्जन्ये शस्त्रभृताम् ॥ ३ ॥
जन्यं युद्धम् । शस्त्रभृत इष्वासाः । लक्ष्यमिति वचनाद्युद्ध इष्वासानामिषूनस्यतां मध्ये लक्ष्यं वेध्यं भूत्वा तिष्ठेत् । तैर्विद्धो जीवन्मृतो वा शुध्यति । याज्ञवल्क्यः—
संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् ।
मृतकल्पः प्रहारार्तो जीवन्नपि विशुध्यति ॥ इति ॥ ३ ॥
अथवा वह युद्ध में रत योद्धाओं का लक्ष्य बनकर प्रायश्चित करे ॥ ३ ॥
खट्वाङ्गकपालपाणिर्वा द्वादश संवत्सरान्ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत्कर्माऽऽचक्षाणः ॥ ४ ॥