गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
२०० निष्क्रमणविधिः । [ २ प्रपाठके
अनुपृष्ठं-पत्युः पृष्ठदेशेन । परिक्रम्य-गत्वा । उत्तरतः पत्युत्तरस्यान्दिशि अवतिष्ठते ऊर्ध्वा तिष्ठति । अत्र “समवप्रविभ्यःस्थः” (पा० १।३।२२) इत्या- त्मनेपदम् ॥ ३ ॥ अथ जपति-“यत्ते सुसीम” इति । “यथायन्न प्रमीयेते पुत्रोजनित्र्याअधी”-ति ॥ ४ ॥ ( मं० ब्रा० १।५।१०-१२ ) अथे-त्यानन्तर्यार्थम् । परिक्रम्योत्तरतः स्थितायान्तस्याम् । अनन्तरं पिता जपति-न तु परिक्रममाणायामेव । जप्यमाह-यत्त इति-एवमादि । यथायं अधीयेतेदन्तम् । तदिदन्त्यृचस्या(१)द्यन्तज्ञापनार्थमिति पदद्वयमुक्तमिति बोध्यम् । ऋचो यथा— “यत्ते सुसीमे हृदय ँहितमन्तःप्रजापतौ । वेदाहम्मन्ये तद्ब्रह्म माहं पौत्रमघं नि गाम् ॥ १० ॥ यत्पृथिव्यामन्नममृतं दिवि चन्द्रमसि श्रितम् । वेदामृतस्याहन्नाम माहं पौत्रमघ ँरिषम् ॥ ११ ॥ इन्द्राग्नी शर्म्ययच्छतं प्रजायै मे प्रजापतिः । यथायं न प्रमीयेत पुत्रोजनित्र्या अधि” ॥ १२ ॥ इति । आसामर्थः—हे चन्द्र ! “यत्” ‘ते’ तव ‘अन्तः’ मध्ये ‘सुसीमे’ सुषीमे सुशीमे वा(२) । अतिशीतले ‘प्रजापतौ’ प्रजानामानन्दजनकत्वेन पत्याविव (स्वामिनीव) ‘हृदयं’ मनः ‘हितम्’ निहितम् अर्पितम् । ‘अहं’ ‘वेद’ जानामि । किं ? ‘मन्ये तद् ब्रह्म’ तदेतद्ब्रह्मैवभवतोति ध्रुवमुत्प्रेक्षे(३)। तेन ‘पौत्रम्’ पुत्र- सम्बन्धि । ‘अघम्’(४)दुःखम् ‘अहं’ ‘मा निगाम्’ मानितरां प्राप्नुयाम् । अय- मर्थः । यस्मादहं ब्रह्मवित्तस्मान्ममानिष्टसम्बन्धोन सङ्गच्छते इति ॥ १० ॥ ‘यत्’ ‘पृथिव्याः’ सकासात् ‘अन्’(५) निर्गतम् । अमृतम्(६) । ‘दिवि’ द्युलोके ‘चन्द्रमसि’ चन्द्रे ‘श्रितम्’ आश्रितम् । तद् ‘अहम्’ ‘अमृतस्य’ ‘नाम’ प्राकाश्यं(७) सम्भाव्यं वा रहस्यम् ‘वेद’ जानामि । ब्रह्मवित्त्वात् । अतः ‘पौत्रं’
( १ ) ऋक्त्रयस्य । ( २ ) “सुषी(शी)मः शिशिरोजडः” इत्यमरः । ( ३ ) “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षां व्यज्यते शब्दैरिवश- ब्दोऽपि तादृशः” इति मद्दुकः । तादृशः क्रियापदसङ्गतः । उत्प्रेक्षाभिधायी । ( ४ ) “अंहोदुःखव्यसनेष्वघम्” इत्यमरः । ( ५ ) “अम्गत्यादिषु” ( भ्वा० प० ) तस्मात्क्तिनि मस्यनत्वे रूपम् । ( ६ ) छान्दसोदीर्घः । गुणविष्णुस्तु-अनामृतममृतमित्याह— ( ७ ) “नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने” इत्यमरः ।
Here is the complete line-by-line transcription of the text from the provided image:
८ कण्डिका ] गोभिलगृह्यसूत्रे- २०१ पुत्रसम्बन्धि 'अघं' दुःखम्प्राप्य(१) 'मा रिषम्' हिंसितो माभवेयमित्यर्थः ॥११॥ हे 'इन्द्राग्नी'! युवां 'मे' मम 'प्रजायै' सन्तानाय । 'शर्म्म' कल्याणम् । 'यच्छतम्' दत्तम् । किम्भूतो ? 'प्रजापती' लोकपालौ । तथाच शर्म्म यच्छतं 'यथायं पुत्रो' 'मम' 'जनित्र्याः' मातुः । 'अधि' उत्सङ्गे स्थितो 'न प्रमीयेत' न (२)हिंस्येत कदाचिदापुरुषायुषम् ॥ १२ ॥ इति । अत्र भविष्यपुराणम्- "द्वादशेऽहनि कर्तव्यं शिशोर्निष्क्रमणं गृहात् । चतुर्थे मासि कर्त्तव्यन्तथाऽन्येषाम्मतं विभो ! ॥" इति । द्वादशेऽहनीति शाखाभेदाद्विकल्पः । तथा- "चतुर्थे मासि कर्त्तव्यं शिशोश्चन्द्रस्य दर्शनम् । तृतीये मासि कर्त्तव्यं शिशोस्सूर्यस्य दर्शनम् ॥" इति । सूर्यचन्द्रदर्शनयोर्गृह्यानुसारेण व्यवस्था । अतुल्यार्थत्वात्समुच्चय इति कल्पतरुः । पारस्करः "चतुर्थे मासि निष्क्रमणिका-सूर्यमुदीक्षयति तच्च- क्षुरिती"ति । अत्र च संस्कारोनिष्क्रमणमेव । तत्परिगणने तस्यैव पाठात् । अनयोर्दर्शनयोराभ्युदयिकश्राद्धन्न कुर्वन्ति-"सूपन्दोः कर्मणी ये तु तयोः श्रा- द्धन्न विद्यते" इति कात्यायनवचनादितिकल्पतरुः ॥ ४ ॥ एवञ्जपित्वाऽथ कुमारम्- उदञ्चम्मात्रे प्रदाय यथार्थम् ॥ ५ ॥ ऋजुरञ्चरार्थः । यथार्थमिति कर्मणः परिसमाप्तिरुच्यते । इत्यसकृदवो- चाम । तेन वामदेव्यगानमिदानीङ्कर्त्तव्यम् । तथा च कर्मप्रदीपः- "अहोमस्र्केऽवपि भवेद्यथोक्तञ्चन्द्रदर्शने । वामदेव्यं गणेश्र्वन्ते बल्यन्ते वैश्वदेविके ॥" इति ॥ ५ ॥ अथयेऽत ऊर्ध्वं ज्योत्स्नाः पूर्वोदित (३) एव तेषु पितोपतिष्ठतेऽ- पामञ्जलिं पूरयित्वाऽभिमुखश्चन्द्रमसम् ॥ ६ ॥ ( १ ) केचित्तु- "मा ऋषम्" नावगच्छेयम् । "ऋषी गतौ" ( तु० प० ) माङि- लुङर्थेलडडभाव आर्षः । अत्रानुस्वारोवर्णव्यत्ययकृतोऽभावमापन्नः । इत्याहुः । ( २ ) "मीहिंसायाम्" ( दि० आ० ) आशंसायां लिङ् । ( ३ ) अत्र "प्रथमोद्दिष्टे" इति पाठश्चन्द्रकान्तेन धृतः । प्रथमं यः काल उद्दिष्टः क- थितस्तस्मिन्नेव काले तृतीयायामिति तदर्थमाह । प्रथमोदित इतिपाठेऽपि प्रथममुदितः कथितोयः कालस्तस्मिन्निति स एवार्थ इति च । एषोऽर्थः पद्धतिवृतोबीरेेश्वरस्याप्य- भिमतः । परं स "ततस्तथावस्थितमेव कुमारं मातरि समर्प्य तद्दिने तत्क्षण एव चन्द्रा- भिमुखः पिता गन्धदुग्धयवफलपुष्पचन्दनसहितमपामञ्जलिं पूरयित्वा चन्द्रोद्देशेन सकृ- न्मन्त्रेण द्वस्तूष्णीमुत्सृजेदि"त्याह । एतदन्त एव च पात्राल्रेन पुष्पेण चापूयं पूर्ववद्वा- २६ गो० गृ० स०
ाम्यामितरशौचापकषै- wait,शौचापकर्षे! Look at line 18: अस्यचौचमग्रोऽपि-> wait, look at the letter betweenचौandम: Is it चorल? It looks like लorच. Wait, let's look at वर्षट्यांवत्: Look at द्व: in line 7 द्विरञ्जलिद्वयम्hasद्विandद्व. In line 18: वर्षthenद्व या व त्? Yes! द्वwithया: द्व्याorद्वया? Wait, there is a वandत्: वर्षद्वयावत्? No, वर्षद्वयं यावत्? Look at the character between द्वandवत्: वर्षद्वयांवत्? No, look at: वर्ष द्व या त्? Wait, look at the letters: व र् षthenद्वthenयाthen anusvara onया? No, वर्षद्वयात्? Wait, after वर्षद्व: It's यwithा: या. Then what is above? A dot? Then व`
वाऽहनी" - no, look at the end of L28: "वाऽहनी" (no hyphen visible, just broken word).
Wait, look at L27: "नाम कुर्यात् ।” इति ।" - notice the space and closing quote: नाम कुर्यात् ।” इति ।
Line 31: "ङ्गवचनमतन्त्रम्” इत्यपि परिभाषन्तेस्म पाणिनीयाः ॥"
Everything looks very accurate and well-checked. Ready to output.८ कण्डिका ] गोभिलगृह्यसूत्रे- २०३ 'मा रुदम्' मा रुद्याम् । ब्रह्मवित्त्वादेव(१) ॥ १३॥ इति ॥ ७ ॥ ( अथ नामकरणम् ) जननाद्दशरात्रे व्युष्टे शतरात्रे संव्वत्सरे वा नामधेयकरणम् ॥ ८ ॥ जननात्-जन्मदिवसादारभ्य दशरात्रे व्युष्टे-अतिक्रान्ते । एवं शत- रात्रे संव्वत्सरे वा व्युष्टे । नामैव नामधेयम् । “भागरूपनामभ्योधेयः” (पा० ५।४।३६ वा० ) इतिधेयप्रत्ययः स्वार्थे । तस्य करणम् । इति कर्मणोनाम- धेयम्
[२०४ नामकरणविधिः । [ २ प्रपाठके-]
निगदव्याख्यातम् ॥ १० ॥ प्रदाय च माता— अनुपृष्ठम्परिक्रम्योत्तरत उपविशत्युदगग्रेषु दर्भेषु ॥११॥ एतदप्युक्तार्थम् ॥ ११ ॥ अथ जुहोति प्रजापतये तिथये नक्षत्राय देवताया इति ॥ १२ ॥ अथेत्यानन्तर्यार्थकम् । उपविष्टायान्तस्याङ्केकुमारं तस्यै प्रदाय जुहोति । (१)इतरथा गृहीतकुमारस्य हवनासम्भवान् । इत्येवमेके । गृहीतकुमार एव जुहोतीत्यपरे । पद्धतावप्येवमेव । कस्मै जुहोति? प्रजापतये । स चायं [ प्रजा- पतिहोमः ] “मनसा प्रजापतिन्ध्यायेत्तूष्णीं होमेषु सर्वत्रे”त्याश्वलायनवचना- त्तथा कर्त्तव्यः । अत्राविशेषोक्तेर्देवतापेदन (२)तिथिनक्षत्रोभयदेवतालाभः । अत एव च विसमासकरणम् । तदुभयञ्च कुमारजन्मकालिकमेव । तथाच बह्वचगृहे—“त्रीणि चेतानि सदैवतानि जुहुयाद्यस्मिन्जातः स्यादि”ति । तिथि- देवतास्तु— “ब्रह्मा त्वष्टा च विष्णुश्च यमः सोमः कुमारकः । मुनिर्वसुः पिशाचश्च धर्मोरुद्रोरविस्तथा ॥ मदनश्चैव यक्षश्च विश्वेदेवास्तथैव(३) च । अमायां पितरः प्रोक्ता यज्ञार्थास्तिथिदेवताः ॥” इति वचनोपात्ता इह ग्राह्याः । न तु पुराणान्तरोक्ताः । परिशिष्टसंवादात् । तथाचात्र होमप्रकारे कात्यायनः— “नामधेये मुनिवसुपिशाचां बहुवत्सदा । यक्षांश्च पितरोदेवा यष्टव्यास्तिथिदेवताः ॥” इति । पुराणान्तरे मुन्यादिदेवतानभिधानात् । बहुवदिति—बहुवचनान्तशब्देनेत्य- र्थः । एवमग्रेऽपि नक्षत्रदेवताहोममधिकृत्य तथा— “आग्नेयाद्येऽथ(४) सार्पाद्ये विशाखाद्ये तथैव च । अषाढाद्ये धनिष्ठाद्ये अश्विन्याद्ये तथैव च ॥ ( १ ) अनादेशादाज्यन्द्रव्यम् । “आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते” इति कात्यायनवचनात् ॥ ( २ ) तिथयः प्रतिपदाद्याः । तासान्देवता पूर्णिमान्तानां ब्रह्मादयोविश्वेदेवान्ताः । तत्र तिथिहोमे “ॐ प्रतिपदे स्वाहा” इत्येवमादिकः प्रयोगः । तिथिदेवताहोमे प्रकारः कर्मप्रदीपोक्तोऽग्रेव्यक्तः । ( ३ ) पूर्णिमायाम् ॥ ( ४ ) द्विवचनान्तात् सन्धिरत्रार्षः । प्रगृह्यसंज्ञायां [ ( पा० १।१।११) प्रकृतिभाव ( पा० ६।१।१२५ ) स्मरणात् ।
८ कण्डिका ] गोभिलगृह्यसूत्रे— २०५ द्वन्द्वान्येतानि बहुवत्तृक्षाणाञ्जुहुयात्सदा । देवतास्वपि हूयन्ते बहुवत्सर्पपितृपः ॥” इति आग्नेयाद्ये-कृत्तिकारोहिण्यौ । एवमग्रेऽपि । साप-मश्लेषा । शेषमव- शिष्टम् । द्वन्द्वद्वयं-पूर्वोत्तरफल्गुन्यौ । पूर्वोत्तरभाद्रौ च द्विवद्विवचनान्तम् । अवशिष्टानि-मृगशिरः प्रभृतीनि नक्षत्राणि । एकवदेकवचनान्तशब्दे(१)ने- त्यर्थः । देवाः विश्वेदेवाः । ज्यौतिषे— “अश्वोयमोऽनलोब्रह्मा शशी शर्वोऽदितिर्गुरुः । सर्पः पिता भगश्चैव अर्यमा च दिवाकरः ॥ त्वष्टा वातः कृशान्विन्द्रोमित्रश्चैव पुरन्दरः । निर्ऋतिः सलिलञ्चैव विश्वेदेवा हरिस्तथा ॥ वसवोवरुणश्चैव तथैव स्यादजैकपात् । अग्निर्बु(र्ब्र)ध्न्यस्तथा पूषा क्रमान्नक्षत्रदेवताः ॥” इति । अत्र अहिर्बुध्न इत्यपपाठः । 'उत्तानाहिर्बु(र्ब्र)ध्न्यः शृणोत्वज एकपा- त्पृथिवी समुद्र” इति श्रुतौपाठाविवादेन तथा निर्णयात् । सोऽयं होमस्य प्रका- रविशेष इतिशब्देन सूच्यत-इति द्रष्टव्यम् ॥ १२ ॥ तस्य मुख्यान्प्राणान्संस्पृशन् (२) “कोऽसि कतमोऽसी” त्येतमन्त्रं जपति ॥ १३ ॥ ( मं० ब्रा० १।५।१४-१५ ) तस्य-कुमारस्य । मुख्यान्-मुखप्रभवान् । “शरीरावयवाद्यत्” ( पा० ५। १।६ ) इति भवार्थे यत्प्रत्ययः । प्राणान्-प्राणनिर्गमोपायभूतान्सप्तच्छिद्रविशे- षान् । मुखमक्षिणी नासिके कर्णावित्येतरूपानिति यावत् । “कोऽसी”त्येवमा- दिमन्त्रं जपति । मन्त्रो यथा— “कोऽसि कतमोऽस्येषोऽस्यमृतोऽसि, आह्स्पत्यं मासं प्रविशासौ” ॥१४॥ स त्वाऽह्ने परिददात्वहस्त्वा रात्र्यै परिददातु रात्रिस्त्वाऽहोरात्राभ्याम्परि- ददात्वहोरात्रौ त्वाऽर्द्धमासेभ्यः परिदत्तामर्द्धमासस्त्वाम्मासेभ्यः परिददातु मा- सास्त्वामृतुभ्यः परिददत्वृतवस्त्वा सव्वँत्सराय परिददतु सव्वँत्सरस्त्वाऽऽयुषे जरायै परिददा
२०६ नामकरणविधिः। [ २ प्रपाठके- इति। अस्यार्थः-असौ-इत्यामन्त्रणे। हे देवदत्त(१)! त्वं ‘कोऽसि?’ इति स्वरूपप्रश्नः। ‘कतमोऽसि?’ इति जातिप्रश्न. (किञ्जातीयोऽसीति) ‘एषोऽसि’-ति प्रत्यञ्जनिर्देशः। ‘अमृतोऽसि’ अमरणधर्म्माऽसि। (अविना- श्यसि) यतोऽतस्त्वां ‘आहस्पत्यम्’ अहस्पतेः-सूर्य्यस्य सम्बन्धिनं (सौरं) ‘मासं’ सङ्क्रान्तिचिह्नितम्। ‘प्रविश’ तत्रात्मानमनुप्रवेशय। प्रथमं मासजीवी भव। ततः क्रमेणामृतत्वमेष्यसीति भावः ॥ १४ ॥ ‘असौ’ हे देवदत्त! इतिपुनरामन्त्रणमादरार्थम्। ‘स’ अहस्पतिः सूर्य्यः। ‘त्वा’ त्वाम् ‘अह्ने’ दिवसाय ‘परिददातु’ अर्पयतु। संवर्द्धनाय। यावच्छता- युष्त्वम्। अत्र मासस्य विशेषणभूतोऽपि अहस्पतिः प्राधान्यात्स इत्यनेन परा- मृश्यते। इति गुणविष्णुभाष्यम् ॥ १५ ॥ इति। त्र्यवसानोऽयमन्त्रः ॥ १३ ॥ तत्र च मन्त्रे— “आहस्पत्यम्मासं प्रविशासावि”-त्यन्ते च मन्त्रस्य घोषवदा- द्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतन्नाम दध्यात् ॥१४॥ इति-एतस्मिन् मन्त्रान्तस्थे चासाविति स्थानद्वयस्थसर्वनाम्नि प्रकृतत्वा- त्कुमारस्य नाम दध्यात् गृह्णीयात्। इत्यर्थः। कीदृशं नामेत्यपेक्षायामाह—घो- षवदादीति। वर्गाणाम्प्रथमद्वितीयाः शषसाश्चाघोषप्रयत्नवन्तस्तद्भिन्नाश्च घोष- वन्तः(२)। तेषाम्मध्ये एकतमोवर्ण आदौ यस्य तद् घोषवदादि। अन्तरन्तः- स्थम्। अन्तःस्था यरलवाः(३)। तेषाम्मध्ये चैकतमोऽपि वर्णोऽन्तर्मध्ये यस्य तत्तथा। दीर्घाभिनिष्ठानान्तम्। दीर्घोद्विमात्रोवर्णः। अभिनिष्ठानोविसर्जनीयम- क्षरम्। “अभिनिष्ठानेऽप्यक्षरमात्रेऽपि स्याद्विसर्जनीयेऽपी”ति मेदिनी। तौ ( तदन्यतरौ ) अन्तौ यस्य तत्तथा। क्वचित्तु—दीर्घाभिनिष्ठानमिति पाठः। दीर्घेणाभिनिष्ठन्यते समाप्यते यन्नाम तदिति तत्रैव व्याख्या चेति। कृतं- ( १ ) एतच्च यथाशास्त्रं कुलक्रमागतनामोपलक्षणम् ॥ ( २ ) तथाच बाह्यप्रयत्नानेकादशोपक्रम्य-शिक्षार्थमवलम्ब्य भट्टोजिदीक्षिताः प्राहुः- “खयांयमाः खय)(क)(पौ विसर्गः शरएवच। एते श्वासानुप्रदानाअघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः”। इत्यादि। तथा च पाणिनीयशिक्षाऽपि- “घोषा वा संवृताः सर्व” इति ॥ ( ३ ) स्पर्शोष्मणोरन्तर्म्मध्ये स्थिता इत्यन्तःस्था इत्युच्यन्ते, एष चाबन्तेऽपि पठ्यते। तथा चपा०शिक्षायाम् “अन्तस्तामिश्र संयुक्तम्”इति। तइमे यरलवाः। तथाच वचना- न्तरमपि-“अदौ” घोषवदक्षरान्तरस्थवान्मध्यं पुनः स्थापयेदन्ते दीर्घविसर्जनीयसहितं नाम प्रयत्नात्कृतम् ॥ इति ॥
४ कण्डिका ] गोभिलगृह्यसूत्रे- २०७ कृदन्तम् । अथच कृतं-पूर्वेषान्तेन पितामहादीनान्नामस्वेवैकमिति(१) दाक्षि- णात्याः ॥ १४ ॥ एतदतद्धितम् ॥ १५ ॥ एतदिति- नाम्नःपरामर्शः । अतद्धितम् न विद्यते तद्धितस्तन्नामा प्रत्यय- विशेषोयत्र तत् तद्धितान्तभिन्नम् । ननु कृतन्नाम दध्यादित्यनेनैवैतत्सिद्धमिति चेत्सत्यम् । सर्वथा तद्धितस(२)म्बन्धनिरासार्थमेतदिति पृथगभिहितम् । तथाच महाभाष्यं “नाम कृतङ्कुर्यान्न तद्धितम्-”ति । तथाच पुंसोनाम-बलि- ध्वंसी(३)-विश्वम्भरः । इत्येवम् ॥ १५ ॥ अयुग्दान्तᳪस्त्रीणाम् ॥ १६ ॥ स्त्रीणां पुनरयुक्-अयुग्माक्षरम् । दान्तं-दाकारान्तन्नाम दध्यादित्यनुवर्त्तते। अयमेव विशेषः । सर्वमन्यत्पूर्ववत् । तथाच महाभाष्यं “द्व्यक्षरं चतुरक्षरं वा नामे”-ति । तदेतत्स्त्रीपुंसयोर्यथायोगमभिसम्बन्धनीयमयुग्मयुग्मोपलक्षणार्थम्। तथाच स्त्रीनाम “यशोदा” इत्येवमादि । अत्रान्येऽपि विशेषाः “स्त्रीणां सुखो- द्यमक्रूरम्’-त्यादि मन्वादिषु द्रष्टव्याः ॥ १६ ॥ मात्रे चैव प्रथमन्नामधेयमभिधाय यथार्थम् ॥ १७ ॥
(१) तथाच महाभाष्यम् “घोषवदाद्यन्तरन्तस्थं त्रिपुरुषानूकमनरि प्रतिष्ठितं तद्धि- प्रतिष्ठितमम्भवति । द्व्यक्षरं चतुरक्षरं वा नाम कृतङ्कुर्यान्न तद्धितम्” इति । त्रिपुरु- षानूकमिति । त्रिपुरुषानुगतं कायति उच्चारयति यत्तदित्यर्थः । “कैगै शब्दे” (भ्वा० प०) कप्रत्यये कृताकारलोपमेतत् ॥ “अनुकः कामुकोऽमिकः” इत्यभिधानात्त्रिपुरुषाननुकामयते- ऽभिधातुमभिलषतीत्यर्थे निपातितः पाणिनिना “अनुकाभिकाभीकः कमिते ( ५।२।७४ ) ति । दीर्घमध्यता चार्षवचनात् ॥ (२) अत्र चन्द्रकान्तभाष्ये-दीर्घाभिनिष्टानान्तत्वसूत्रणादेव तद्धितान्तत्वे सिद्धे पुनरुपादानन्नियमार्थम् । एतदेवनामातद्धितान्तं नपुनरन्यदिति । तेन “यत्तद्गुह्यमेव भव- ति” इति । “अभिवादनीयं नामधेयङ्कल्पयित्वा” इति चैवमादिनाम्नां तद्धितान्तःत्वमपि स्यादिति ॥ (३) केचित्त्वत्राचक्षते-दीर्घाभिनिष्ठानान्तमित्यत्रान्तशब्दो “दशान्तः पट” इति वदवयवार्थः । तथाच दीर्घान्तं नाम “गोविन्दशर्म्मा” इत्यादिरूपम् । विसर्गाञ्च “गोविन्दः” इत्यादिरूपम् । यद्वा “हरिशर्म्मा”-“हरिदेवः” इत्येवम् । अतएव कर्म्म- प्रदीपे “गिरिशर्म्मैवमुक्तवान्” इति । तथाच मनुः “माङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ शर्म्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥” इति । अत्र माङ्गल्य- मित्यनेनामङ्गलसम्बन्धव्युदासोऽभिमतः । एवं पुष्टिर्धनस्य ॥ शङ्खः “शर्म्मान्तं ब्राह्मण- स्योक्तं वर्म्मान्तं क्षत्रियस्य च । धनान्तञ्चैव वैश्यस्य दासान्तञ्चान्त्यजन्मनः” ॥ इत्येवमादि ।
१०८ नामकरणविधिः । [ २ प्रपाठके- तच्च नामधेयं प्रथमं-पूर्वं मात्रे कुमारस्य । आख्याय-कथयित्वा यथार्थम्। तत्कर्मसमाप्तङ्कुर्यादित्यर्थः । चशब्दात्पुरुषनाम्नः स्त्रीनाम्नश्च प्रथमम्मात्रे कथनम् । एवकारोमात्रे प्रथमनिवेदनार्थः ॥ १७ ॥ गौर्दक्षिणा ॥ १८ ॥ नामधेयकर्मणः ॥ १८ ॥ ( अथ जन्मदिनादिकृत्यम् ) कुमारस्य मासि मासि संवत्सरे सावँत्सरिकेषु वा पर्वस्वग्नीन्द्रौ द्यावापृथिवी विश्वान्देवाꣳश्च यजेत ॥ १६ ॥ जननादित्युपक्रमात् कुमारस्य जन्मतिथौ वक्ष्यमाणा देवता यजेत् । तत्र समयविशेषमाह-मासि मासीति । प्रतिमासमित्यर्थः । तेन संवत्सरपर्यन्तं यागः । ऊर्ध्वं संवत्सराज्जननमास एवैकस्मिन्वर्षान्ते जन्मतिथौ संवत्सरे “वा पूर्णे” इति वाक्यशेषः । अत्रापि जन्ममासे जन्मतिथौ यजेतेति द्रष्टव्यम् । वा-अथवा सावँत्सरिकेषु पर्वसु । यजेत । संवत्सरस्येमानि सावँत्सरिकानि तेषु “कालाट्ठञ्” (पा०४।३।११) इति ठञ्प्रत्येक आदिवृद्धिः । पर्वसु-त्रयाणा- मृतूनां शरच्छिशिरग्रीष्माणा(१)मवसानतिथिषु कार्त्तिकी फाल्गुनी आषाढीषु । अथवा द्वावत्र कालविकल्पौ । संवत्सरपर्यन्तं मासि मासि कुमारस्य जन्म- तिथौ यजेत । सावँत्सरिकेषु वा पर्वसूक्तरूपेषु यजेत। कतमाः पुनस्ता देवता- उच्यन्ते-अग्नीन्द्रौ। द्यावापृथिवी द्यावापृथिव्यौ(२) एते द्वन्द्वदेवते । विश्वा- न्देवांश्चेति । विश्वेभ्योदेवेभ्य इत्येवम् ॥ १९ ॥ दैवतामिष्ट्वा तिथिन्नक्षत्रञ्च यजेत ॥ २० ॥ जन्मतिथेर्देवतम् इष्ट्वा जन्मतिथिं, जन्मनक्षत्रस्य दैवतामिष्ट्वा जन्मन्क्षत्र- ञ्च यजेत ॥ २० ॥ ( अथ प्रोषितागतकर्म ) विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्याम्पाणिभ्याम्मूर्द्धानम्परिगृह्य जपेत् यदा वा पिता म इति विद्यात्, उपेतस्य वा “अङ्गादङ्गात्सम्भवसी”ति ॥ २१ ॥ ( मं० ब्रा० १।५।१६-१८ ) विप्रोष्य प्रवासादागत्य गृहम् । पिता पुत्रस्येति सम्बन्धपदोपादानात् । ( १ ) एतच्च “त्र्यूतुः सव्ँवँत्सर” इति मतेन, बोध्यम् । यत्र च मार्गादिमासचतुष्टय- स्यैक ऋतुरेवमग्रेऽपि बोध्यम् ॥ ( २ ) द्यावापृथिवीचेत्यर्थे द्वन्द्वे “दिवोद्यावे-” ( पा० ६।३।२९ ) ति द्यावादेशः ।
८ कण्डिका ] गोभिलगृह्यसूत्रे- ३०९
मूर्द्धानमुत्तानाभ्यां पाणिभ्याम्परिगृह्य “अङ्गादङ्गादि-”ति ऋचं जपेत् । यदा वा कुमारः । “अयम्मे पिता” इति विजानीया(ञ्ज्ञातुंशक्नुया-)त्तदा जपेत् । शक्त्यर्थेऽत्र लिङ् । ( पा० ३।३।७२) वा-अथवा उपेतस्य उपनीतस्य (कृतो- पनयनस्य) कुमारस्य मूर्द्धानमुक्तदिशा परिगृह्य जपेत् । त इमे अत्र त्रयः काल- विकल्पाः ।। ऋचो यथा— “अङ्गादङ्गात्संस्रवसि हृदयादधिजायसे । प्राणन्ते प्राणेन सन्दधामि जीव मे यावदायुषम्” ।। १६ ।। “अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । वेदोवै पुत्रनामासि स जीव शरदः शतम्” ।। १७ ।। “अश्मा भव परशुर्भव हिरण्यमस्तृतम्भव । आत्मासि पुत्र मा मृथा स जीव शरदःशतम्” ।। १८ ।। इति । आसामर्थाः । ‘हेपुत्र ! यस्त्वं मम ‘अङ्गादङ्गात्’ सर्वेभ्योऽङ्गेभ्यः । “नित्यवीप्सयोः” ( पा० ८।१।४ ) इति द्वित्वं ‘संस्रवसि’ संस्रुतोऽसि । वर्त्त- मानसमीपे भूते लट् । ( पा० ३।३।१३१ ) एवमग्रेऽपि । तथा ‘हृदयात्’ सर्व- गात्रेभ्यः प्रधानभूतात् ‘अधिजायसे’ उत्पन्नोऽसि । तस्येत्थम्भूतस्य ‘ते’ तव ‘प्राणं’ प्राणवायुं ‘प्राणेन’ एव ‘सन्दधामि’ सततमविच्छिन्नं करोमि । तत्सन्धानात् ‘मे’ मम सुतस्त्वं ‘यावदायुषम्’ पुरुषायुषम् । शरदादित्वाष्टच् (पा० ५।४।१०७) समासान्तः । ( शतवर्ष ) व्याप्य ( शतवर्षपर्यन्तं ) ‘जीव’ ।। १६ ।। अत्र वेदशब्दोवेदाध्येतरि वर्त्तते । यथा कठशब्दः कठाध्येतरीति गुणवि- ष्णुः । मन्त्रार्थः पूर्ववत् ।। ‘शतं शरदः’ शतवर्षाणि । “संवत्सरोवत्सरोऽब्दो- हायनोऽस्त्री शरत्समाः” इत्यमरः । शतमित्येकत्वं “विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोर्”-त्यमरात् । अत्र सर्वा इति संख्यापरं प्रकरणात् । सञ्जीवेति पाठे सुखेनजीवेत्यर्थः । समिति सुखेऽर्थेऽव्ययम् ।। १७ ।। हेपुत्र ! ‘त्वम्’ ‘अश्मा’ पाषाणइवदृढोनिर्व्याधिश्च ‘भव’ । ‘परशुः’ कुठार इव च्छेदकः परेषाम्भव । न तु च्छेद्यः । तथा ‘हिरण्यं’ सुवर्णमिव हितारमणञ्च ‘भव’ । यत् ‘अस्तृतम्’ अन्यैस्ताम्रादिभिरल्प(१)द्रव्यैराच्छादितं न भवति तत् “स्तृञ्आच्छादने” ( क्र्या० उ० ) क्तः । ततोनञ्समासः ‘आत्माऽसि’ अह- मिव त्वमतो ‘मा मृथाः’ मा म्रियस्व । किन्तु स इत्थम्भूतस्त्वम् ‘शतं शरदः’ शतवर्षाणि ‘जीव’ प्राणिहि । सञ्जीवेतिपाठे सुखेन प्राणिहीत्या(२)शास्यते ।। १८ ।। इति ।। २१ ।।
( १ ) अल्पत्वमिह ततो हीनता । अत एवापद्रव्यैरिति गुणविष्णुभाष्यम् । अप शब्दोऽत्र हीनार्थेः । ( २ ) सर्वोऽपि ह्यात्मभूतञ्चिरजीविनमाशास्ते किं पुनरात्मानम् । २७ गो० गृ०सू०
२१० प्रोषितागतकर्मविधिः । [ २ प्रपाठके- “पशूनान्त्वा हिङ्कारेणाभिजिघ्रामि”-इत्यभिजिघ्रद्यथार्थम् ॥२२॥ (सं० ब्रा० २।५।१९ ) पशूनां त्वेति। अत्राऽन्तेऽसाविति मन्त्रब्राह्मणे पठ्यते । अनेनाभिजिघ्रद्य आभिमुख्येनाघ्राय । मूर्द्धानमिति प्रकृतेनाभिसम्बन्धनीयम् । यथार्थमिति च कर्मणः परिसमाप्तिरुच्यते । तेन वामदेव्यगानमिदानीङ्कर्त्तव्यम् । अत्रापि मन्त्रे-अन्तेऽसाविति सर्वनाम्नि सम्बोधनविभक्त्या पुत्रनाम प्रयोक्तव्यम् ॥ तदि- दम्प्रोषितागतकर्मेत्युच्यते । मन्त्रार्थस्तु—हेपुत्र ! अहं पिता ‘त्वा’ त्वां ‘पशू- नां’ गवां ‘हिङ्कारेण’ हिङ्कृतेन गोजात्युचितशब्देन । (तत्पूर्वकम्) प्रकृत्यादित्वात् ( पा० २।३।१८ वा० ) तृतीया ‘अभिजिघ्रामि’ चुम्बामि । यथा गावोवनादा- गताः स्वपुत्रकानभिजिघ्रन्ति-तथाऽहमपि त्वामिति ॥ १९ ॥ २२ ॥ एवमेवापरेषाम् ॥ २३ ॥ अपरेषाम्-कनिष्ठानामप्येवमेव मूर्द्धालम्भनन्तदभिघ्राणञ्च कर्त्तव्यम् ॥२३॥ यथाज्येष्ठं यथोपलम्भं वा ॥ २४ ॥ यथाज्येष्ठम्-ज्येष्ठमनतिक्रम्य । योयोवयसा ज्येष्ठस्तस्य तस्य प्रथमं कर्त्त- व्यम् । तदेतत्सर्वेषां युगपदुपस्थितौ । अन्यथा तु यथोपलम्भम् । उपलब्धि- क्रमेण योयः पूर्वं सन्निधानमागच्छति तस्य तस्य वेति व्यवस्थितोविकल्पोवा- शब्दार्थः ॥ २४ ॥ स्त्रियास्तूष्णीं मूर्द्धन्यभिजिघ्रणम्मूर्द्धन्यभिजिघ्रणम् ॥ २५ ॥ इतिश्रीमद्गोभिलीये गृह्यसूत्रे द्वितीयप्रपाठकेऽष्टमी कण्डिका ॥ २ ॥ ८ ॥ ॐ ॥ ऋजुरुत्त(१)रार्थः । अन्ते द्विर्वचनं प्रकरणसमाप्त्यर्थम् ॥ २५ ॥ इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्याया “मृदुला” ऽऽख्यायाम्मुकुन्दशर्म्मसङ्कलि- तायां द्वितीयप्रपाठकस्याष्टमी कण्डिका ॥ २ ॥ ८ ॥ * ॥ ( १) ननु तूष्णीमभिजिघ्रणमित्युक्त्वा मूर्द्धालम्भः समन्त्रक इति कुतो न ज्ञायेतेति चेन्न । पुत्रेति मन्त्रलिङ्गविरोधात् । तत एवाभिजिघ्रणमात्रं समन्त्रकं प्राप्तमिति तूष्णी- मित्युकम् । एतेन न केवलं प्रोषितागतकर्मण्येव स्त्रिया। अपि तु जातकर्मादिकमपि। तेन संस्कारपरिपाटी स्त्रीणामपि कार्या । परममन्त्रिकेति तदर्थः । तथा च मनुः-संस्कारान- भिधाय “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः” इति । इत्थमावृज्जातकर्मादिः । याज्ञव- ल्क्योऽपि- “अमन्त्रिकाः क्रियास्तासां विवाहस्तु समन्त्रकः” इति । अत्र चन्द्र- कान्तः। तस्मान्मन्त्रलिङ्गविरोधादेव मूर्द्धाऽऽलम्भोऽमन्त्रकः सिद्धः । अतोऽभिजि- घ्राणमात्रस्य तूष्णींस्त्वंसुत्रितमातएवामन्त्रकं तूष्णीमित्यनयोरर्थभेदं द्रष्टव्य आसीत् ॥
९ कण्डिका ] गोभिलगृह्यसूत्रे- २१५ ( अथ नवमी कण्डिका- ) अथातस्तृतीये वर्षे चूड़ाकरणम् ॥ १ ॥ अथेति(१) पूर्वप्रकृतार्थम् । अथ=पूर्वप्रकृताज्जन्मनस्तृतीये वर्षे प्रवर्त्तमाने उदगयनादीनां(२) समुच्चयोपलब्धौ चूड़ायाः शिखायाः करणं स्थापनं(३) “संस्कारविधिना कर्त्तव्यमि”ति सूत्रशेषः । “शिखाचूड़ा केशपाशी” इत्यमरः । कपुष्णिका कपुच्छलाख्याः केशाश्चूड़ा इति कथ्यन्त इतिभाष्यकृतः । अतः शब्दोहेत्वर्थः । यस्मात् “सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखोव्युपवीतश्च यत्करोति न तत्कृतम् ॥” ( १ ) अत्रनामकरणान्तेऽन्नप्राशनं संस्कारविधिना पद्धतिषु बीरेश्वरादिभिर्लिखि- तम् । समयोऽपि-षष्ठे मासि अष्टमे वा यथाकुलाचारमित्येवंनिर्दिष्टः । यथाच नामकर- णान्ते ब्रह्मपुराणम्-“ततोऽन्नप्राशनं कार्यं मासि षष्ठे यथाविधि । अष्टमे वापि कर्त्तव्यं यद्देष्टं मङ्गलंफुले ॥” इति । तदत्राचार्येणालिखनन्तस्य काम्यत्वं व्यनक्ति । काम्यकर्मा- णि चानेन पृथक्सूत्रितानि यथोपयोगन्तथाच वक्ष्यति “अथातःकाम्यमि” ( ४।५।१ )- ति । किन्त्वेतन्मुरारिमिश्रादिभिः प्रत्युक्तम् । तथाचोक्तब्राह्मणवचनान्ते “षष्ठे मासेऽन्न- प्राशनम्” इति पारस्करीयम् । “षष्ठेमासेऽन्नप्राशनं जातेषु दन्तेषु वे”-ति गौड़ाक्षीयञ्च- वचनमुपन्यस्य शङ्कितम् । ननु गोभिलाचार्येणाकथनादस्मिन्कल्पेऽन्नप्राशनं कर्त्तव्यमेव नेति चेन्न-उक्तयुक्तैरेव । ( २।७।२१ सू० ) । नचेतिकर्त्तव्यताबोधकाभावादेवाकरण- मिति वाच्यम् । बोरेश्वरादिभिस्तस्याः प्रतिपादनात् । नच तल्लिखितान्नप्राशने “अन्नं वा एकच्छन्दस्यमि”-त्यादिमन्त्रैर्होमे प्रमाणाभावः । मन्त्रलिङ्गस्यैव प्रमाणत्वात् । नच तन्मन्त्राणां सूत्रकारेणान्यत्र विनियुक्तत्वान्निराकाङ्क्षत्वेन मन्त्रलिङ्गमात्रमकिञ्चि- त्करमिति वाच्यम् । एकमन्त्रस्यापि बहुत्र विनियोगदर्शनात् । सकलशिष्टाचाराच्चेति- दिक् । कश्चित्तु-अस्मिन्कालेऽन्नप्राशनं न संस्कारकं नामकरणेन सह पूर्वापरक्रमानियमाद्बर्षे नामकरणे तत्पूर्वमेवतत्करणात् । अत एव हिरण्यगर्भमहादाने सामवेदेऽन्नप्राशनं नास्ती- त्युक्तं निबन्धिभिः । अपितु “भारद्वाजीमांसेन वाक्प्रसरण्कामस्ये”-त्याद्युक्तफलेन का- म्यमिति । तन्न । एवं निष्क्रमणमपि संस्कारकन्नभवेत् । हिरण्यगर्भे तु षोड़शक्रियान्त- गतञ्चेत्युक्तम् । अन्यथा यजुर्वेदिनां नामकरणस्य न संस्कारता स्यादिति । भाष्यकृतस्तु-सूत्रानुक्तमन्नप्राशनं परशाखोक्तक्रमेण कर्त्तव्यम् । “यन्नाम्नातं स्वशा- खायामि-”ति कात्यायनवचनात् । “तथाप्यश्ववृयुभिर्गृह्णीयादि”-ति श्रुतेश्च । सति स- म्भवे
२१२ चूड़ाकरणविधिः । [ २ प्रपाठके- तथा— "गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः । बैजिकं गार्भिकञ्चैनो द्विजानामपमृज्यते ॥" इति मनुराह । भाष्यकृतस्तु-अत्रातः शब्दः स्मृत्यन्तरोक्तकाललाभायेत्या- हुः(१) । तथाच मनुः— "चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमाब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥" इति । एतेन— "ततः संवत्सरे पूर्णे चूडाकर्म विधीयते । द्वितीये वा तृतीये वा कर्त्तव्यं स्मृतिदर्शनात् ॥" इति यमवचने-द्वितीये वेत्यत्र पूर्णे इत्यनुषङ्गस्तेन तृतीयाब्दलाभः । नचैवं तृतीये वेति व्यर्थम् । तस्य तृतीयाब्दचरमावयवादिप्रशस्तपरत्वात् । अन्यथा पक्षत्रयानुपपत्तिः । तथा च लौगाक्षिः-"तृतीये भूयिष्ठे गते चूडा कार्या"इति ॥ याज्ञवल्क्यः "चूडाकार्या यथाकुलम्"इत्याह । एवञ्चोक्तकालानां विकल्पः शा- खाभेदाऽपेक्षया व्यवस्थित इति कल्पतरुः ॥ अस्योपनीत्या सहचरणे तु— "आद्येऽब्दे कुर्वते केचित्पञ्चमेऽब्दे तृतीयके । उपनीत्या सहैवेति विकल्पाः कुलधर्मतः" । इति प्रयोगपारिजातोक्तं वचनमेव मानम् ॥ १ ॥ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ २ ॥ निगद्व्याख्यातमेतत् ॥ २ ॥ तत्रैतान्युपक्लृप्तानि भवन्ति ॥ ३ ॥ तत्र-तस्मिन्नुपलिप्ते भूमिभागे । एतान्यनुपदवक्ष्यमाणानि । उपसमीपे- ऽग्नेःक्लृप्तानि आसादितानि भवन्ति । कर्तुरनियमः ॥ ३ ॥ कानि पुनस्तानि ? कस्यां वा दिश्यग्नेरासादयितव्यानीत्युच्यते— एकविꣳशतिर्दर्भपिञ्जल्य उष्णोदककꣳस औदुम्बरः क्षुरः आदर्शो- वा क्षुरपाणिर्नापित इति दक्षिणतः ॥ ४ ॥ दर्भपिञ्जल्यः । पवित्रलक्षणलक्षिताः पूर्वमुक्ताः ( १।७।६ ) ताः सप्त सप्त कृत्वा स्थानत्रय आसादयितव्याः । उष्णमुदकं यस्मिन्सः कंसः कांस्यपात्रम् । उदुम्बरस्ताम्रम् । "उदुम्बरस्तु देहल्यां वृक्षभेदेचषण्डके । ( १ ) अत्रारुचिबीजन्तु वक्ष्यमाणकल्पतरुकारव्याख्यानमेव । कातीयकल्पेहि 'यथा- मङ्गलं सर्वेषाम्' इत्युक्तम् ॥ तेन सामगानान्तृतीय एव वर्षे चूडाकरणं गोभिलीयानाम- विस्थितम् ॥
९ कण्डिका ] गोभिलगृह्यसूत्रे- २१३ कुष्ठभेदेऽपि च पुमांस्तान्ने तु स्यान्नपुंसकम्" इति मेदिनी । तस्यायमौ- दुम्बरः । “प्रोद्घृत्य प्रच्छिन्दन्” इत्यग्रिम[१६] सूत्रे छेदनस्याशङ्क्यमानत्वात् । नहि काष्ठेन तत्सम्भवति । तदभावे-आदर्शो वा । आसमन्ताद्दृश्यते मुखमत्रे- त्यधिकरणे घञ्, आदर्शो दर्पणः “आदर्शोदर्पणः प्रोक्त” इत्यमरमाला “दर्पणे मुकुरादर्शौ” इत्यमरश्च । क्षुरेति । क्षुरं पाणौ करे यस्य स तथाविधोनापितः । इति-एतानि । दक्षिणतः । अर्थात्कग्नेः ॥ ४ ॥ आनडुहगोमयः । कृसरः स्थालीपाको वृथापक इत्युत्तरतः ॥ ५ ॥ आनडुहः । अच्छिन्नमुष्कवृष(१)सम्बन्धी गोमयः । कृसरश्चासम्यक्पक्वौ तिलतण्डुलौ । “कृसरस्तु(२)तिलौदनः” इत्यमरः ॥ स्थालीपाकश्चरुः । स ख- ल्वयं वृथापकः । अवघातादिसर्वसंस्काररहितः । कर्मण्यव्याप्रियमाणश्चेति वृथात्वम्पाकस्य । इति एतद्द्वयम् । उत्तरतोऽग्नेरासादयितव्यम् ॥ ५ ॥ व्रीहियवैस्तिलमाषैरिति पृथक्पात्राणि पूरयित्वा पुरस्ता- दुप(नि)दध्युः ॥ ६ ॥ व्रीहियवैरिति द्वन्द्वनिर्देशेनाभिधानान्मिलिताभ्यां व्रीहियवाभ्यामेवं तिल- माषाभ्याम्पात्रद्वयं पूरणीयम् । पृथक् पात्राणीति बहुवचननिर्देशाच्चतुर्भिः पृथ- ग्भूतैः पात्रचतुष्टयमित्येवं षट्पात्राणामासादनं सिध्यति । एवमेव वीरपद्ध- तिस्वरसोऽपि । पुरस्तात्पूर्वस्यान्दिश्यग्नेः । उप(नि)दध्युः-स्थापयेयुः ॥ ६ ॥ कृसरोनापिताय सर्वबीजानि चेति ॥ ७ ॥ “दातव्यानी”ति शेषः । इतिनाऽऽ(३)द्यर्थकेनान्यदपि पारितोषिकन्देयमि- त्युपदिशति । एतानि च प्रसङ्गादत्राऽभिहितानि प्रदानन्तु प्रतिपत्तिरूपतयाऽ- स्य कर्मान्त एव, वेतनदानस्य तदैवोचितत्वादिति भाष्यकारादयः ॥ ७ ॥ अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्मुखोपविशति ॥ ८ ॥ अथेत्यानन्तर्यार्थम् । आज्यसंस्कारानन्तरमित्यर्थः । माता-मातृस्थानीया-
( १ ) अनड्डान् शब्दोऽभिधाने “उक्षाभद्रोबलोवर्द” इत्येवं पर्याये वृषभनाम्नि पठि- तः । अनः शकटं वहतीति तदर्थः । “अनः क्लीबे जले शोके मातृस्यन्दनयोरपी”ति रभ- सः । तथाभूतश्चाच्छिन्नमुष्क एव भवतीति ॥ ( २ ) वीरपद्धतौ तु-ततः सत्यनामन्यग्नौ तिलतण्डुलमुद्गसाधितं स्थालीपाकं पचे- दित्युक्तम् ॥ ( ३ ) “ज्वलितिकसन्तेभ्योनः” ( ३।१।१४० ) । इति पाणिनीये तथादर्शनात् ॥ अमरकोशेऽपि “इति हेतुप्रकरणप्रकाशादिसमाप्तिषु” इति ॥
२१४ चूड़ाकरणविधिः। [ २ प्रपाठके- ऽन्यापि(१)। प्राची-प्राङ्मुखी ॥ ८ ॥ अथ यस्तत्करिष्यन्भवति पश्चात्प्राङवतिष्ठते ॥ ९ ॥ अथेति-किञ्चित्पूर्वप्रकृतं स्मारयति । किन्तत् ? व्याहृतिभिर्होमं, तथाच पूर्वसूत्रम् “व्याहृतिभिर्होमोयथापाणिग्रहणे तथा चूड़ाकरणे०” इत्यादि । ( १।२।२७।२८ ) तेनात्र पुरस्ताच्चोपरिष्टाच्च चतस्र आहुतयो भवन्ति ॥ यः कश्चित्पित्रादिस्तत्कर्म करिष्यन्भवति स महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतस्र आहुतीर्हुत्वाऽथानन्तरं गृहीतकुमाराया मातुः पश्चात्प्राङ्-प्राङ्मुखः । अव- तिष्ठते-ऊर्ध्वजानुस्तिष्ठेत् ॥ ९ ॥ अथ जपत्या-“यमगात्सविता क्षुरेणे”ति सवितारं मनसा ध्यायन्नापितम्प्रेक्षमाणः ॥ १० ॥ ( मं० ब्रा० १।६।१ ) अथ-तथाविधावस्थानन्तरमेव । सवितारं-सूर्य्यम् । मनसा-श्रद्धादि- गुणयुक्तेन । अन्यथा ध्यानस्य मानसिकत्वप्रसिद्धेर्म्मनसेत्यनर्थकं स्यात् । तथा च न्यायः “सिद्धस्योपन्यासोविशेषावगतिकरः” इति । ध्यायन्-चिन्त- यन् । नापितं क्षुरपाणि प्रेक्षमाणोऽवलोकयन् “आयमगादि”-त्येतन्मन्त्रं ज- पति-जपेत् । मन्त्रार्थस्तु-हे कुमार ! ‘अयं’ नापितः । साक्षात् ‘सविता’ सर्व- भूतानाम्प्रसविता देवः सूर्यः । ‘क्षुरेण’ उपलक्षितः । उपलक्षणेऽत्र ( पा० २।३। २१ ) तृतीया । ‘आगात्’ आगतः । त्वच्चूड़ाकरणाय । आङोव्यवहितप्रयोगः ( पा० १।४।८२ ) छान्दसः ॥ १ ॥ इति ॥ १० ॥ “उष्णेन वाय उदकेनैधी-”ति वायुं मनसा ध्यायन्तु- ष्णोदककंसं प्रेक्षमाणः ॥ ११ ॥ ( मं० ब्रा० १।६।२ ) जपतीत्यनुवर्त्तते । वायुं श्रद्धापूतेन मनसा चिन्तयन्नुष्णोदककंसम् । उ- ष्णोदकयुक्तं कांस्यपात्रं प्रेक्षमाणोऽवलोकयन् “उष्णेन वायो०” इति-इमम्म- न्त्रञ्जपेदित्यर्थः । मन्त्रार्थस्तु-हे ‘वायो’ ! ‘उष्णेनोदकेन’ गृहीतेन कुमारस्य शिरः । प्लावयितुम् ‘एधि’ आगच्छ “अडितश्च” ( पा० ६।४।१०३ ) इति हेर्धिः ॥ २ ॥ इति ॥ ११ ॥ दक्षिणेन पाणिनाऽप आदाय दक्षिणाङ्कपुष्णिकामुन्दति “आप उन्दन्तु जीवसे” इति ॥ १२ ॥ ( मं० ब्रा० १।६।३ ) ( १ ) उत्तरसूत्रे यः कश्चिदित्युक्तेरत्रापि तथाऽभ्युपगमस्याजानिकाचारपरिगृहीत- त्वात् ॥
९ कण्डिका ] गोभिलगृह्यसूत्रे- २१५ अपः प्रकृतादुष्णोदककांस्यपात्रात् । आदाय गृहीत्वा कपुष्णिकाम् । मूर्ध्नो- भयतः केशान् । “कपुष्णिकाऽभितः केशा(१)मूर्द्धिन, पश्चात्कपुच्छलम्” इति- च्छन्दोगपरिशिष्टात् । उन्दति-उन्दयति-क्लेदयति “उन्दी क्लेदने” (रु० प०) अन्तर्भावितण्यर्थः । क्वचित्तथैव पाठः । अत्र करणमन्त्रमाह-आप इति । अस्यार्थः । वायुनाऽऽनीताः ‘आपः’ एनं कुमारम् ‘जीवसे’ जीवितुम् ( जीवना- यास्य ) “तुमर्थे सेऽसेनि”-( पा० ३।४।९ ) त्यादिनाऽसे प्रत्यया । “अव्य- यकृत्तोभावे” इति महाभाष्यानुशासनात् ॥ १२ ॥ “विष्णोर्दंष्ट्रोऽसी”त्यौदुम्बरं क्षुरं प्रेक्षतेऽादर्शं वा ॥ १३ ॥ ( मं० ब्रा० १।६।४ ) औदुम्बरं-ताम्रमयम् । “औदुम्बरम्भवेत्ताम्रं फलाद्यौ यज्ञशाखिनः” इत्य- जयः । प्रेक्षते-अवलोकयति ।। अवलोकयेदितिविधिरत्र (पा०३।४।७) लेडर्थः । एवमग्रेऽपि । मन्त्रार्थस्तु-हेक्षुर ! त्वं ‘विष्णोः’ ‘दंष्ट्रः’ दंष्ट्रा बृहद्दन्तः ‘असि’ भ- वसि ।। पुंस्त्वमार्षम् ॥ १३ ॥ “ओषधे त्रायस्वैनमि”-ति सप्त दर्भपिञ्जलीर्दक्षिणायां कपुष्णि- कायामभिशिरोग्रां निदधाति ॥ १४ ॥ ( मं० ब्रा० १।६।५ ) आसादितानामेकविंशतिदर्भपिञ्जलीनां ( सप्तशः पृथक् स्थापितानाम् । ) मध्यात् सप्त दर्भपिञ्जलीर्गृहीत्वा कुमारस्य दक्षिणायाम्(२) कपुष्णिकायाम् जू- टिकायाम् “ओषधे त्रायस्वैनम्” इति मन्त्रेण निदधाति-स्थापयेत् । क- थम् ? अभिशिरोग्राः । शिरसोऽभीत्यभिशिरः । अव्ययीभावः ( पा०२।१।१४ ) समासः । अग्राणि यासान्तान्तथाविधाः “कृत्वेति” शेषः । मन्त्रार्थस्तु-हे ‘ओष- धे !’ कुशतृण ! ( ओषध्यधिष्ठातृदेवते ! ) ‘एनं’ कुमारं ‘त्रायस्व’ रक्ष । “त्रैङ्पालने” ( भ्वा० आ० ) प्रार्थनायां लोट् इति ॥ ५ ॥ १४ ॥ ता वामेन पाणिना निगृह्य दक्षिणेन पाणिनाौदुम्बरं क्षुरं गृहीत्वाऽऽदर्शं वाऽभिनिदधाति “स्वधिते मैनँहिंसीरि”तिः॥१५॥ ( मं० ब्रा० १।६।६ ) ता दर्भपिञ्जलीर्दक्षिणकपुष्णिकाञ्च निगृह्य-सर्वतोभावेन गृहीत्वा अभि- निदधाति-संलग्नां धारयति । “स्वधिते मैनं हिं सीरि-”ति मन्त्रेण ।
( १ ) कं शिरः पुष्णाति । शीतातपादिभ्योरक्षणेनेति शेषः ॥ ( २ ) अत्र दक्षिणशब्दोभागं विशिनष्टीति न सर्वनामताऽस्य । एवमग्रे ( १९ सू०) उत्तरशब्दोऽपि न द्विवचन इति वक्ष्यते । तथाचामरः “वामे शरीरं सव्यं स्यादपसव्य- न्तु दक्षिणम्” इति ॥
२१६ | चूडाकरणविधिः । | [ २ प्रपाठके- मन्त्रार्थस्तु-'स्वधिते !' हे(१)ताम्रक्षुर ! त्वम् 'एनं' कुमारं 'मा हिंसीः' न हिंसि- ष्यसि । भविष्यति माङि लुङ् ( पा० ३।३।१७५ ) "न माङ्योगे" ( पा०६।४। ७४ ) इत्यडभावः ॥ १५ ॥ निधाय च— “येन पूषा बृहस्पते”रिति त्रिः प्राञ्चम्प्रोहत्यप्र(वि)च्छिन्दन्त्स- कृद्यजुषा द्विस्तूष्णीम् ॥ १६ ॥ ( मं० ब्रा० १।६।७ ) त्रिः-वारत्रयम् । प्रोहति-प्रेरयति क्षुरम् । अप्रच्छिन्दन्-केशच्छेदमकू- र्वन् । क्वचिदविच्छिन्दन् इतिपाठः । अर्थतस्तौल्यमेव । तत्र प्रकारमाह-सकृदि- ति । यजुषा-“येने”त्युक्तेनैव । द्वि-र्द्विवारं, तूष्णीम्-अमन्त्रकमेव । यजुर्यथा- “येन पूषा बृहस्पतेर्वायोरिन्द्रस्य चावपत् । तेन ते वपामि ब्रह्मणा जीवात्वे जीवनाय दीर्घायुष्याय बलाय वर्चसे”॥७॥ इति । अस्यार्थः । हे कुमार ! 'येन' स्वधितिना 'पूषा' देवः 'बृहस्पतेर्वायो- रिन्द्रस्य च' कपुष्णिकाम् 'अवपत्' भद्रङ्कृतवान्(२) । 'तेन' स्वधितिना 'ते' तव कपुष्णिकाम । 'वपामि' भद्रङ्करोमि । किमर्थम् ? 'जीवातवे' एतदेव- विवृणोति 'जीवनाय' अस्यैवार्थः 'दीर्घायुष्याय बलाये'ति । 'वर्चसे' तेजोवृद्ध्य- र्थम् (३) । इति ॥ १६ ॥ अथायसेन प्रच्छिद्यानुडुहे गोमये निदधाति ॥ १७ ॥ अथेति-पूर्वप्रकृतार्थम् । यः पूर्वप्रकृतक्षुरपाणिर्नापितस्तदीयेनायसेन लौहमयेन क्षुरेण प्रच्छिद्य-प्रकर्षेण पिञ्जलीभिः सहैव दक्षिणां कपुष्णिकां ( जूटिकां ) छित्वा । आनडुहे-गोमये । पूर्वमग्नेरुत्तरतः समासादिते । निद- धाति-स्थापयेत् । मन्त्रानुपदेशादमन्त्रकमेव ॥ १७ ॥ एतयैवाऽऽवृता कपुच्छलम् ॥ १८ ॥ अतिदिशति-एतयैवेति । अनन्तरोक्तयैवाऽऽवृता-परिपाट्या (प्रक्रियया) कपुच्छलम् । “संस्कुर्यादि”ति शेषः । कपुच्छलन्तु शिरः पश्चाद्भागस्थाः केशा उक्त-( २।९।१२ ) वचनात् ॥ ( १ ) यद्यपि स्वधितिशब्दो वज्रपर्याये ( निघं० २।२०।१६ ) पठ्यते । लोके तु "द्वयोः कुठारः स्वधिति"रिति कुठारपर्यायेऽभिधाने ( अमरे ) न तु क्षुरे । तथापि ताम्र- क्षुरस्यैव स्वधिति सञ्ज्ञा शब्दार्णवे "औदुम्बरःक्षुरः प्रोक्तः स्वधितिरि" ॥ ( २ ) केशानच्छिन्दन् "क्षौरन्तु भद्राकरणम्मुण्डनं वपनं त्रिषु" इत्यमरः ॥ ( ३ ) तादर्थ्ये चतुर्थी ( पा० २।३।१३ वा० ) ।
के-शिरशि ( पश्चाद्भागे ) पुच्छवल्लम्बितो यः केशपाशः स कपुच्छल इत्याख्यायते ॥ १८ ॥ पुनरतिदिशति— एतयैवोत्तरां कपुष्णिकाम् ॥ १९ ॥ उत्तरशब्दोवामवचनः । वामामपि कपुष्णिकामेतयैव प्रक्रियया संस्कुर्या- दित्यर्थः ॥ १९ ॥ अत्रापि विशेषमाह— उन्दनप्रभृत्येवाऽभिनिर्वर्त्तयेत् ॥ २० ॥ प्राक्तनं सूत्रद्वयमनेन विशिष्यते । उन्दनप्रभृति-क्लेदनप्रभृत्येवावृतम् । अभि सर्वतोभावेन निर्वर्त्तयेत् । आवर्त्तयेत् । न पुनः सर्वाण्यावृदावर्त्तनीया । तस्मा—“दक्षिणेन पाणिनाऽप आदाय” इत्येवमादिकामावृतमावर्त्तयेन्न ततः पूर्वमपीत्यर्थः । तु शब्दोविशेषणार्थः । कथन्नाम? कपुच्छले संस्क्रियमाणे कुमारमुदङ्मुखं धारयेद्यथा प्राञ्चं प्रोहणादिकं कर्तुं शक्येतेति ॥ २० ॥ उभाभ्यां पाणिभ्यां मूर्द्धानं परिगृह्य जपेत् “त्र्यायुषमद्मग्नेरि-”ति २१ ( मं० ब्रा० १।६।८ ) मूर्द्धानं-मस्तकं, कुमारस्य । “मूर्द्धा ना मस्तकोऽस्त्रियाम्”-त्यमरः ॥ ऋड्वन्त्यत् । मन्त्रस्तु— “त्र्यायुषञ्जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् । यद्देवानान्त्र्यायुषन्तत्ते अस्तु त्र्यायुषम्” ॥ ८ ॥ इति । अस्यार्थः-‘जमदग्ने’र्महर्षेर्ऋचीकपुत्रस्य कश्यपस्य ‘अगस्त्यस्य’ ‘देवानाम्’ इन्द्रादीनाञ्च ‘यत्त्र्यायुष्यम्’ त्रीण्यायूंषि समाहृतानीति समाहारद्वन्द्वे “अचतुरे” ( पा० ५।४।७७ ) त्यादिनाऽच्समासान्तः । बाल्ययुवावस्थाविरत्वानि । यद्वा “शतं वै पुरुषस्यायुरि-”ति श्रुतेः शतत्रयवर्षात्मकमायुः । ‘तत्’ त्र्यायुषम् । हेभद्रक ! ( कृतचूड ! ) ‘ते’ तव ‘अस्तु’ भवतु । इत्याशास्यते ॥ ८ ॥ इति ॥ २१ ॥ एतयैवाऽऽवृता स्त्रियास्तूष्णीम् ॥ २२ ॥ एतया-प्रकृतया । आवृता-प्रक्रिययास्त्रियाः कन्यकाया अपिसर्वे- ऽधस्तनोक्ताः संस्कारा भवन्ति । न पुनरानन्तर्याच्चूडाकरणाभिप्रायमेव । एव- कारेण व्याप्त्यवगमात् । “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः” इति मनु- वचनाच्च । किन्त्वेतावान्विशेषोयदस्यास्तूष्णी(ममन्त्रक)मिति ॥ २२ ॥ अत्र प्रतिप्रसवमाह— मन्त्रेण तु होमः ॥ २३ ॥ तुशब्दः समुच्चये भिन्नक्रमश्च । तेन वृद्धिश्राद्धमपि समन्त्रकमेव भव- ३८ गो० गृ० सू
तीत्यर्थः ॥ २३ ॥ उदगग्नेरुत्सृप्य कुशलीकारयन्ति यथागोत्र-कुल-कल्पम् ॥ २४ ॥ अग्नेः । उदङ्-उत्तरतः । उत्सृप्य-गत्वा । कुशलीकारयन्ति-नापितेन मुण्डयन्ति । "कुमारमिति" शेषः । कर्त्तुरनियमः । कुशलभद्रशब्दयोः पर्या- येपाठात् कुशलीकरणं भद्राकरणमित्यनर्थान्तरम् । तथाचामरः "शौरन्तु भद्रा- करणं मुण्डनं वपनन्त्रिषु" इति । कथमित्यपेक्षायामाह-यथेति । गोत्रे यथा- "वासिष्ठाः पञ्चचूडाः स्युस्त्रिचूडाः कुण्डपायिनः" इत्यादि । कुले यथा-"भद्रा(१)- दित्यानां सूर्यायतनसन्निधौ" इति । कल्पे यथा-"सशिखं कौथुमादीनां वपनं समुदाहृतम्" इत्यादि । एवञ्च कौथुमवारायणादीनां समावर्त्तनात्प्राङ्मुण्डनं सशिखमेवेति । तथाच समावर्त्तनान्ते-"केशश्मश्रुलोमनखान्वापयतिशिखा वर्ज्जम्" ( ३।४।२४ ) इति सूत्रम् ॥ परिशिष्टमपि- "सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणाम् । आशरीरविमोक्षाय ब्रह्मचर्य्यञ्च चेद्भवेत् ॥" इति भाष्यकृतः । आशरीरेति । नैष्ठिकब्रह्मचारिणां स्नानात्प्रागपि शिखाधर्त्तव्येत्यर्थः ॥ २४ ॥ आनडुहे गोमये केशान्कृत्वाऽरण्यं हृत्वा(२)निखनन्ति ॥२५॥ पूर्वमासादिते आनडुहे गोमये समस्तान्केशान्कृत्वा-निधाय । अरण्यं हृत्वा-नीत्वा तत्रैव निखनन्ति । बहुवचनादनियतः कर्त्ता ॥ २५ ॥ स्तम्बे हैके निदधति ॥ २६ ॥ हेत्यैतिह्यार्थोनिपातः । एके किलाचार्याः । व्रीह्यादिस्तम्बे(३) तान् केशान्निखनन्ति ॥ २६ ॥ यथार्थम् ॥ २७ ॥ तन्त्रसमापनङ्कर्त्तव्यमित्यर्थः । अपरे तु मन्यन्ते-यथार्थमिति-यस्य येनार्थः प्रयोजनं स तं कुर्यात् । इति । कथन्नाम ? त्र्यायुषमित्यादिना मूर्द्ध- परिग्रहे कृते उत्तरतोऽग्नेः कुशलीकारयन्ति । असावपि कर्मशेषं समापयेदिति चन्द्रकान्तः ॥ २६ ॥ गौर्दक्षिणा ॥ २८ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि०प्र०स्य नवमी कण्डिका ॥३॥९॥ॐ॥ ( १ ) भद्रादित्या-मगादयः । भगाः शाकद्वीपिनः । एवमन्येऽपि ॥ ( २ ) अरण्यं ( ण्य ) गत्वा इति पाठान्तरम् ॥ ( ३ ) "अप्रकाण्डे स्तम्बगुल्माविति" ह्यमरः । प्रकाण्डस्त्वरोर्मूलस्कन्धयोरन्तरम् । तथाचामरः "अस्त्री प्रकाण्डं स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः" इति । "स्तम्वागु- च्छस्तृणादिनः" इति च ॥
९ कण्डिका ] गोभिलगृह्यसूत्रे- २१६ चूडाकरणकर्मणः ॥ २८ ॥ अत्र सूत्रकाराऽनुक्तोऽपि कर्णवेधः (पूर्वमकृत(१)श्चेत्) आवश्यक एवेति गार्हस्थ्यधर्मे कुण्डलधारणस्य मन्वाद्युक्तस्यान्यथाऽनुपपत्त्या कल्प्यते । तथाच मनुः- “वैणवीन्धारयेद्यष्टिं सोदकञ्च कमण्डलुम् । यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले ॥” इति । वेदम्-कुशमुष्टिम् । तदेतद्दीक्षाकाले। श्रुतिश्च-“दीक्षायां कुण्डली भवती-”ति । परन्तु-न संस्कारान्तर्गतः । तन्मध्येऽस्य(२)पाठाभावात् । क्रमस्तत्र पारस्करोक्त एव । “यन्नाम्नातं स्वशाखायाम्पारक्यमविरोधि चे”ति कातीयपरिभाषणात् ॥ अत्र यथोचितकालाकृता नामकरणादिसंस्कारा व्याहृतिहोमानन्तरंक्रमा- विरोधेनोपनयनात् पूर्वमनुष्ठेयाः । इति द्रष्टव्यम् । तथाच महाव्याहृतिहोमानां सर्वप्रायश्चित्तत्वमुक्त्वा-कात्यायनः- “संस्कारा अतिपद्येरन्स्वकालाच्चेत्कथञ्चन । हुत्वैतदेव कर्त्तव्या ये तूपनयनादधः ॥” इति । अत्रोपनयनादध इत्युक्तचोपनयनकालातिक्रमे नेदम्प्रायश्चित्तमपि तु व्रात्य- स्तोमादीत्यनुपदं व्यक्तीभविष्यति ॥ २८ ॥ इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां“मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां द्वितीय-पाठकस्य नवमी कण्डिका ॥ २ ॥ ९ ॥* ॥ ( १ ) मुण्डनाख्योऽपि कर्मविशेषश्चूड़ाकर्मेण एवानुरूपः ( शिखाधारणाय ) कुमाराणाम्कुमारीणां वाधुनातनैः कुलीनैराजानिकाचारसिद्धतया क्रियते । तत्र कर्णवे- धोऽपि यथाविहितकालमनुष्ठ्येति । सचेदकृतइत्यर्थः ॥ ( २ ) तत्र ( संस्कारेषु ) गौतमेनचत्वारिशदभिहितास्तत्रमुख्या ( एका ) दश । “गर्भाधानं-पुंसुवने-सीमन्तोन्नयनं-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो- पनयनं (चत्वारिवेदव्रतानि स्नानं) सहधर्मचारिणीसंयोगः” । इति । सहधर्म्मचारिणी- संयोगोविवाहः । सुमन्तुना च “ब्राह्मणक्षत्रियांविशां वृत्तिः-“गर्भाधान-पुंसवन-सीम- न्तोन्नयन-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो-पनयन-व्रतचर्या-ऽध्ययन-स- मावर्त्तन-विवाह-सोष्यन्ती-यज्ञदानानी-”ति षोडशोक्ताः। वृत्तिः-संस्क्रिया । सोष्य- न्ती-सुखप्रसवार्थङ्कर्म । कैश्चित्त्वन्यथैव स्मर्यते । यथा- “गर्भाधानमतश्च पुंसवनकं सीमन्तजाताभिधे नामाख्यं सह निष्क्रमेण च तथान्नप्रा- शनंकर्म्म च । चूड़ाख्यं व्रतबन्धकोऽप्यथ चतुर्वेद्वतानां पुरः केशान्तः सविसर्गकःपरिणयः स्यात्षोडशी कर्मेणाम् ॥” इति । अङ्गिरसा च पञ्चविंशतिरुक्ताः। तदत्र गौतमोक्तेषु- चत्वारिवेदव्रतानि स्नानञ्चेत्यंशः पूर्वेरेवाऽशक्यतया परिहृतः । शेषा दश पूर्वैरेव परिसं.