गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
hyphen!
And before that: कर्त्तरि क्तान्तम् or कर्तृ क्तान्तम्?
Look at कर्तृ: क र् on तृ? No, it's कर्तृ (or कर्त्तरि).
Wait, क र् तृ क ा न् त म् -> कर्तृक्तान्तम्?
Wait, is there a ल? No.
Look at: कर्तृ - wait, does it say कर्तृ? Yes, क with र् on त and ृ under it: कर्तृ!
Wait, and then क्तान्तम्? It is क्तान्तम् without the loop? It looks like कान्तम् with a small ् or क्तान्तम्.
Wait, in line 26:
( १ ) अत्रोपसत्तिर्नाम पादोपसङ्ग्रहणम् । उपसन्न इति कर्तृक्तान्तम् । सीदतेर्गत्य-
Line 27:
र्थत्वात् "गत्यर्थाकर्मके" ( पा० ३।४।७२ ) त्यादिना क्तः ।
Footnote (२):
Line 28:
( २ ) वस्तुतस्त्वध्यापनं वेदस्य पुरःस्वयमधीत्य पश्चादन्तेवासिना सह पठने वदि-
Line 29:
ग्रह्णाय । सहानुवर्तनम् । तृतीयवारे माणवकेन सह पठन् । एतच्च शक्त्यपे- क्षयाभिधानम् । यदि माणवकोमन्दमेधस्त्वार्थ(१)थावदध्येतुन्न शक्नुयात्तदा यथाशक्त्यस्याध्यापयेत् । तथाचाश्वलायनगृह्यम् "सावित्री मन्वाह पच्छो- ऽर्द्धर्चशः सर्वशँयथाशक्ति वाचयीते"ति । अत्रेतिशब्दः क्रमप्रकार- ज्ञापनार्थः ॥ ३९ ॥ महाव्याहृतीश्च विहृता ॐकारान्ताः ॥ ४० ॥ [ मं० ब्रा० १।६।३० ] विहृताः । विकृष्य हृताः पृथक्कृताः । विहिता इतिपाठे प्रयुक्ता इत्यर्थः । विहृता इति पाठे पृथग्भूता न संहता इति यावत् । केचिद्विकृता इति पठन्ति । तत्रापि पृथग्भाव एवविकार इति तुल्योऽर्थः । ओंकारान्ताः । ओंकारः अन्ते यासान्ताः । तेन विहृतानामेवौकारान्तत्वम् । एवञ्च भूरों भुवरों स्वरों । इति प्रयोगः सिध्यति । इति नारायण-मुरारिमिश्रादयः । भवदेवभट्टस्तु ॐभूरित्ये- वम्प्रायुङ्क्त । तस्य मतेऽन्तशब्द आद्यर्थः । "पर्युक्षणान्तान्यतिहरन्" १।३।५ इत्यत्रय यथा । वीरेश्वरस्तु तदुभयमनुसरन् ॐभूरों, ॐभुवरों, ॐस्वरों, इत्येवं स्वपद्धतौ प्रायुङ्क्त । तत्र मन्त्रादौ प्रणवदानं सम्प्रदायसिद्धमन्ते च सूत्र(२)वि- हितमिति बोध्यम् ॥ ४० ॥ वार्क्षञ्चास्मै दण्डम्प्रयच्छन्वाचयति "सुश्रवः सुश्रवसम्मा कुर्वि"-ति ॥ ४१ ॥ ( मं० ब्रा० १।६।३१ ) वृक्षस्येदं वार्क्षम् । प्राप्तदण्डानुवादेन प्रदानमात्रविधानात्पार्णा(३)दिरूपमित्यर्थः । अत्र चन्द्रकान्तः । वार्क्षञ्चेतिशब्दादजिनमपीदानीमेवप्रयच्छतीतिव्याचष्टा-
( १ ) सकृन्मात्रोपदेशेन । ( २ ) यत्तु - "ब्रह्मणः प्रणवङ्कुर्यादादावन्ते च सर्वदा । क्षरत्यनोङ्कृतम्पूर्वम्परस्ताच्च विशोर्यते" इति मनुवचनन्तद्वेदपारायणविषयन्न तु महाव्याहृतेः सावित्र्या वा प्रदान- विषयम् । जपविषये तु गायत्र्या एव योगियाज्ञवल्क्येनाद्यन्तयोः प्रणवयोग उक्तः "ॐ कारः पूर्वमुच्चार्योभूर्भुवः स्वस्ततः परम् । गायत्री प्रणवश्चान्ते जप्येह्येवमु
णाद्दण्डधारणोत्तरमजिनधारणमभिप्रेति तदाचारविरुद्धम् । मनुनाऽपि “मेखला- मजिनन्दण्डम्” इति क्रमएवाभ्यधायि । एवमाश्वलायनेनापि मेखलामुपक्रम्य “यज्ञोपवीतमजिनं चे”त्युक्तमित्युक्तमनुपदम् । तमिमन्दण्डमस्मै ब्रह्मचारिणे । प्रयच्छन् — ददत् “सुश्रवः” इत्यादिमन्त्रं वाचयति ब्रह्मचारिणमेव । मन्त्रोयथा— “सुश्रवः सुश्रवसं मा कुरु । यथा त्वमग्ने सुश्रवःसुश्रवा देवे- ष्बेवमहं सुश्रवः सुश्रवा ब्राह्मणेषु भूयासम्” ॥ ३१ ॥ इति । अस्यार्थः—दण्डं गृह्णन्ब्रह्मचारी तमग्निञ्चप्रार्थयते—हे सुश्रवः ? शोभनं श्रवोयशःप्रशंसा(१)यस्य ससुश्रवात्तत्संबोधने । हे शोभनकीर्ते दण्ड ! यथात्वं वेदधारणार्थज्ञानादिना(२) लोके प्रख्यातयशाः । एवं 'मा'माम् अपि 'सुश्रवसं' सुयशसं 'कुरु' । एवन्दण्डं प्रार्थ्याग्निमपि प्रार्थयते-हे अग्ने ! 'सुश्रवः शोभन- कीर्ते !' 'यथात्वं' 'देवेषु' देवमध्ये 'सुश्रवाः' शोभनयशाः' [ सुयशाः ] असि । 'एवमहम्' अपि 'हेसुश्रवः(३) !' शोभनकीर्ते । 'ब्राह्मणेषु' मनुष्येषु(४)'सुश्रवाः' सुयशाः 'भूयासम्' भवेम । प्रशंसायामाशिषि लिङ् ॥ ३१ ॥ इति ॥ ४१ ॥ अथ भैक्षञ्चरति ॥ ४२ ॥ अथ शब्दोऽयं विशिष्टमानन्तर्यं द्योतयति—यद्दण्डमजिनञ्च प्रतिगृह्या- देशञ्च गुरोरङ्गीकृत्य भास्करमुपस्थायाग्निं प्रदक्षिणीकृत्य अथ-अनन्तरं भैक्षं भिक्षासमूहम् । “भिक्षादिभ्योऽण्” ( पा० ४।२।३८ ) इति सामूहि कोऽणादि- वृद्धिः । “भैक्षं भिक्षाकदम्बकम्” इत्यमरः । चरति-चरेत्-आहरेदित्यर्थः । तथाच मनुः— “प्रतिगृह्येप्सितन्दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निञ्चरेद्भैक्षं यथाविधि ॥” इति । उपस्थाय-अभिमुखमवस्थाय ॥ ४२ ॥ मातरमेवाग्रे, द्वे चान्ये सुहृदौ, यावत्योवा सन्निहिताः स्युः ॥४३॥ मातरम्—स्वजननीमेवाग्रे-प्रथमं, “प्रार्थयेदि”ति शेषः । सुहृदौ-स्निग्धहृ- दये । यावत्योवा योषितः । सन्निहिताः । सन्निधौ स्थिताः । स्यु-र्भवेयुः । नचैनं ( १ ) शृणोतेः कर्मण्यसुन् ( उ०४।८८) श्रूयेमहीति श्रवः । यशः प्रशंसा वा । “श्रवश्वाच्छा पशुमच्च यूथम्”। ( ऋ० सं० ३।७।११।६ ) इति । “प्रशंसाश्व यूथञ्च”ति ( ४।२४ ) निरुक्तम् । (२) दण्डस्यार्थज्ञानहेतुता व्रतसम्पादनद्वारा सौकर्यातिशयं द्योतयितुं श्रुत्याऽभिहिता। ( ३ ) पुनरामन्त्रणेन दण्डादग्नेः सुश्रवस्त्वातिशयःख्याप्यते । ( ४ ) अत्र विशेषाभिधायिनोऽपि सामान्यपरत्वं गुणविष्ण्वादिभिरुक्तम् । ३१ गो० गृ०सू०
२४२ उपनयनविधिः । [ २ प्रपाठके- विमानयेयुस्तावतीर्वा प्रार्थयेत् । तथाच मनुः- “मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं याचैनं न विमानयेत् ॥” इति । भविष्यपुराणे चोक्तमनुवचनान्ते-“सुवर्णं रजतं रत्नं सा पात्रेऽस्य विनिक्षिपेत्” इति पठ्यते । सा-भिक्षादात्री मात्रादिः । निजां-सोदर्याम् । प्रथम-मुपनयनकालिक (१) भिक्षायाम् ॥ सन्निहिता इत्युक्त्या तत्रस्था एव भिक्षेत न पुनः स्थानान्तरं गत्वेति बोद्धव्यम् । तत्प्रकारमाह-मनुः- “भवत्पूर्वञ्चरेद्भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥” इति । एवञ्च “भवति ! भिक्षान्देहि”-ति वाक्येन ब्राह्मणेन, “भिक्षां भवति ! देहि-”ति क्षत्रियेण । “भिक्षां देहि भवती”-ति वैश्येन भिक्षाचरण- ङ्कर्त्तव्यमित्यायाति । हारीतः- “सप्ताक्षराञ्चरेद्भिक्षां क्षाञ्च हिञ्च न वर्जयेद्”-ति । क्षाञ्च हिञ्चेत्यनेन भिक्षान्देहीति पदयोःप्रयोगोऽप्यावश्यक एवेति कल्प- तरुः । गौतमः-“आदिमध्यान्तेषु भवच्छब्दः प्रयोऽग्योवर्णाऽनुपूर्व्येण”-ति । यमः- “हस्तदत्ता च या भिक्षा सलितं व्यञ्जनानि च । भोक्ता त्वशुचितां याति दाता स्वर्गन्न गच्छति ॥” इति ॥ ४३ ॥ आचार्य्याय भैक्षं निवेदयति ॥ ४४ ॥ आचार्यायोपनेत्रे । भैक्षं-लब्धभिक्षानिचयम् । “भिक्षादिभ्योऽण्” (पा०४। २।३८) इति सामूहिकेऽणि आदिवृद्धिः । “भैक्षं भिक्षाकदम्बकम्”त्यमरः । ( १ ) शौनकः । “अप्रत्याख्यायिनमग्रेभिक्षेत् । अप्रत्यख्यायिनीं वा” इति । मनुः “गुरोःकुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वपूर्वविवर्जयेत् ॥” इति । पारस्करः “तिस्रोऽ
१० कण्डिका ] गोभिलगृह्यसूत्रे- २४३ निवेदयति । निवेदये-दर्पयेत् । निवेदनप्रकारश्च “भैक्षमभोः” इत्याचार्याय निवेद्य तद्दत्तं प्रतिगृह्णीयात् इति । आचार्येण तदानञ्च “भुङ्क्ष्वे”त्यनुज्ञान- रूपम् । अत्राचार्यः प्रथमां भिक्षां गृहीत्वा द्वितीयादिकां “भुङ्क्ष्वै”त्यभिधाय ब्रह्मचारिण एव दद्यात् । स च तामादाय धारयेत्(१) ।। ४४ ।। स्वयञ्च तद्दिने— तिष्ठत्यहः शेषं वाग्यतः ॥ ४५ ॥ अहश्शेषमासायम्मौनी तिष्ठेदित्यर्थः । वक्ष्यमाणकर्मार्थमेतत् । तेनान्य- दिने-मनुः— “समाहृत्य तु तद्भैक्षं यावदर्थममायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥” इति ॥ यावदिति । यावद्(२)र्थजातमुपात्तन्तदनपह्ववेन । एवञ्चाचार्या- याहृतार्थमिदन्निवेदन(३)मात्रन्न तु दानमेवेति द्रष्टव्यम् ॥ ४५ ॥ अस्तमिते समिधमादधाति “अग्नये समिधमाहार्षम्” इति ॥ ४६ ॥ ( मं० ब्रा० १।६।३२ ) अस्तमिते-अस्तङ्गते सवितरि । “अग्नये समिधम्”-ति मन्त्रेण समिध- मुक्तलक्षणम् ( १।१।७ ) आदधाति-आदध्यादग्नौ प्रक्षिपेत् । मन्त्रोयथा— “अग्नये समिधमाहार्षं बृहते जातवेदसे । यथात्वमग्ने ! समिधा समिध्य- स्येवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन धनेनान्नाद्येन समे- धिषीय स्वाहा” ॥ ३२ ॥ इति ॥ अस्यार्थः—ब्रह्मचारीब्रूते—अहम् ‘अग्नये’ ‘समिधम्’ उक्तलक्षणम् ।
( १ ) आचार्य्यश्च कर्मशेषं समापयेत् । अत्र चन्द्रकान्तभाष्ये हेतुरुक्तः । “परतोब्र- ह्मचारिण एव कर्मोपदेशाद्विदानीमाचार्यकर्मणोऽवसानावगते”रिति । अतः परञ्चाग्रिम- सूत्रमवतारयंस्तत्रैवाह-अवसितमुपनयनकर्म, प्रासङ्गिकमिदानीं ब्रह्मचारिणः कर्त्तव्य- मनुवर्त्तामहे-स खल्वयं ब्रह्मचारी-”त्यादि ॥ ( २ ) अर्थजात इति पूर्व्वव्याख्यातृभिरुक्तन्तु “जातिर्जातञ्च सामान्यमि”त्यभिधा- नविरुद्धं प्रतिभाति । अर्थशब्दोऽत्र वस्तुवचनः “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु” इत्यमरात् । “यावदवधारणे” ( पा० २।१।८ ) इत्यव्ययीभावः समास इति च पूर्व्वैर्व्या- ख्यातं, वस्तुतस्तु प्रयोजनवचनत्वेऽपि न क्षतिः । यावता गुरोः प्रयोजनन्तावत्तस्मै निवे- दनीयमकपटवृत्त्या । अवशिष्टञ्च “भुङ्क्ष्वे”-ति तेनाभ्यनुज्ञातं स्वयममक्षयेत्तथालब्धमिति तदर्थः । अत्र नान्ययीभावः किन्तु तृतीयासमासः । अत्र “यावदन्नममायये”ति पाठः कुल्लूकेन धृतः । व्याख्यातश्च तद्भैक्ष्यं बहुभ्य आहृत्य यावदन्नं तृप्तिमात्रोचितं गुरवे निवेद्य-निवेदनङ्कृत्वा अमायया न कदन्नेन सदन्नं प्रच्छाद्येवमेतद्गुरुर्ग्रहीष्यतीत्यादि- मायाव्यतिरेकेण तदनुज्ञात आचमनं कृत्वा शुचिः सम्भुञ्जीत प्राङ्मुख इति ॥ ( ३ ) निवेदनफलन्तु हितमितपथ्यालोचनं, येनास्य ब्रह्म
२४४ उपनयनावधिः। [ २ प्रपाठके- ‘आहार्षम्’ आहृतवान्। किम्भूताय? ‘बृहते’ महते ( निघं० ३।३।४ ) ‘जात- वेदसे’ जातप्रज्ञानाय—जातधनाय(१) वा। इति परोक्षमुक्त्वा प्रत्यक्षमाह—हे ‘अग्ने!’ ‘यथा त्वम्’ अनया मदाहृतया ‘समिधा’ ‘समिध्यसि’(२) दीप्यसे। ‘ए- वमहम्’ ‘आयुषा’ जीवितकालेन(३)। ‘मेधया’ धारणावत्या बुद्ध्या ‘वर्चसा’ तेजसा(४) ‘प्रजया’ पुत्रपौत्रादिरूपया सन्तत्या(५)। ‘पशुभिः’ गवादिभिः ‘ब्रह्मवर्चसेन’ ब्राह्मणतेजसा(६) ‘धनेन’ व्रीहियवादिना ‘समेधिषीय’ वृद्धि- माप्नुयाम् इति॥ ३२॥ अत्र मनुः-- “अग्न्याधानं भैक्षचर्यामधः शय्यां गुरोर्हितम्। आसमावर्त्तनात्कुर्यात्कृतोपनयन
१० कण्डिका ] गोभिलगृह्यसूत्रे- २४५ चोपरिष्टाच्चेन्धनार्थं समिद्भवतीति कात्यायनःस्मरति-- “समिदादिषु होमेषु मन्त्रदैवतवर्जिता । पुरस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत् ॥” इति । क्षिप्रहोमोऽयमिति न न्यञ्चकरणादाति भाष्यकृतोनारायणभट्टाः प्राहुः ॥ इदञ्च समिदाधानं सन्ध्ययोः सन्ध्योपासनानन्तरमेव । तथाच का- त्यायनः- “ततः परं प्रवक्ष्यामि सन्ध्योपासनिकं विधम् । अनर्हः कर्मणां विप्रः सन्ध्याहीनोयतः स्मृतः ॥” इति । विप्र इति कर्तृमात्रोपलक्षणम् ॥ दक्षः- “सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥ इति । तदनन्तरं सन्ध्ययोरग्निमभिवाद्य गुरुमप्यभिवादयेत् । तथा च गृह्यान्तरम्-“उभयत्राग्निं समिध्य गोत्रनामनी प्रोच्याभिवाद्याचार्यमभिवाद- येद्”ति ॥ ४६ ॥ अथेदानीं ब्रह्मचारिणो भोजनकालः । “कृताग्निकार्यो भुञ्जीत वाग्यतोगुरुर्व्नुज्ञया ॥” इति स्मरणात् । स खल्वयं ब्रह्मचारी--उपनयनकर्म्मण ऊर्ध्वम्-- त्रिरात्रमक्षारलवणाशी भवति ॥ ४७ ॥ उपनीतश्चाहोरात्रत्रयमक्षारलवणं भुञ्जीतेत्यर्थः । अक्षारलवणं यथाप- रिभाषितमुक्तमधस्तात् ( २।३।१५ ) ॥ ४७ ॥ तस्यान्ते सावित्रश्चरुः ॥४८॥ तस्य--व्रतस्य । न पुनरुपनयनकर्म्मणः न वा सन्निधानात् त्रिरात्रस्य । “अ- व्यक्तं प्रधानगामी”ति न्यायात् । अन्यथा-अस्यान्त इति ब्रूयात् । तथा च गृह्यान्तरम्-- “व्रतान्ते सावित्रश्चरुर्गोदानादीन्यनुप्रवचनीयानि व्रतान्यैन्द्रस्थालीपाका- न्तानि भवन्ती”-ति । सविता देवताऽस्येति सावित्रः । (२)तेन “सवित्रे त्वा जुष्टं निर्वपामि” इति निर्धापः । “सवित्रे स्वाहे”ति प्रधानहोमः ॥ ४८ ॥ ( १ ) अत्र वीरपद्धतौ आचार्याय भैक्षसमर्पणानन्तरम्-“अथ समिदाधानं यदि तस्मिन्नेव क्षणे क्रियते तदा तत्रैवाभावाचारात्कर्तव्यम् । अथ सन्ध्यामुपास्यास्तङ्गते सवितरि यदा क्रियते तदा कुशण्डिकामनुसन्धाय व्याहृतिहोमङ्कृत्वा प्रयोग इति । तत्र प्रथमं समन्त्रां समिधमाधाय अपराँ समिधममन्त्रां क्षिपेत्ततोवामदेव्यगानन्तं तन्त्रं समापयेदिति चोक्तम् ॥ ( २ ) एतत्प्रकारश्चोक्तोऽधस्तात् । “अथोखलमुशले” इत्यादि ( १।७।१ ) तन्ना-
२४६ उपनयनविधिः। [ २ प्रपाठके- अवसिता प्रासङ्गिकी कथा प्रकृतमिदानीमुच्यते-- यथार्थम् ॥ ४९ ॥ उपनयनकर्म्मणः परिसमाप्तिरनेनोच्यते ॥ ४९ ॥ गौर्दक्षिणा ॥ ५० ॥ इति श्रीमद्गोभिलीये गृह्यसूत्रे द्वि·प्र·स्य दशमी कण्डिका ॥ २ ॥१०॥ ❀ ॥ उपनयनकर्म्मण एव। नोपनयनतन्त्रस्य। उपनयनकर्म्मणोऽनन्तरमा-“चा- र्याय वरोदक्षिणा” इति गृह्यान्तरसूत्रात्(१) “गौर्वरोब्राह्मणस्य”-( ) ति च वक्ष्यति। (२)मुरारिमिश्रास्तु-यथार्थङ्गौर्दक्षिणेत्येकमेव सूत्रं लिखन्ति- स्म। व्याचक्षत च-इयञ्चोपनयनकर्म्मदक्षिणा, न तु व्रतान्तदक्षिणा। यथा- र्थशब्दस्यानन्तरोक्तकर्म्मशेषसमापनार्थत्वात्। “कर्म्मशेषसमाप्तौ गौराचार्याय- देया ब्रह्मणे पूर्णपात्रादीनी”-ति गृह्यान्तरवचनाच्च। नारायण-शूलपाणि-प्रभृ- तयोऽप्येवम्। इति। अत्रान्ते यथार्थमित्यादेरभ्यासः प्रपाठकसमाप्तिद्योतकः पठ्यतेऽन्यत्र(३) ॥ ५० ॥ इति श्री मद्गोभिलीयगृह्यसूत्रव्याख्यामृदुलाख्यायां मुकुन्दशर्म्मकृतसङ्कलितायां द्वि·प्र·स्य दशमी कण्डिका। प्रपाठकश्चायं समाप्तः ॥ २ ॥ १० ॥ ( इत्युपनयनम् ) श्रेयोवेतिस्थाने ऊह इहाभिहितः। एवमुक्तसूत्रादष्टसूत्री। ततः पुनः “यद्युवा ( १।८।३ ) इत्यारभ्य “महाव्याहृतिभिराज्येनाभिजुहुयात्” ( १।८।१९ ) इत्यन्तम्। पुनः “हुत्वैतत्” ( १।८।१९ ) इत्यादिसूत्रद्वयं सावित्रग्रहहोमसूत्रतया मुरारिमिश्रैर्योजितम्। एतदन्ते च ततस्तन्त्रसमापनम्। व्रतान्तविहितस्याप्यस्य व्रताशक्तस्योपनयनदिन एव समावर्त्तनपक्षे तत्पूर्व्वक्षुरणं, समावर्त्तनपूर्व्वकालविहितत्वादिति द्रष्टव्यम्। पद्धतिरप्येवमित्युक्तम् ॥ ( १) अत्र चन्द्रकान्तभाष्ये-तस्माच्च गृह्यान्तराद्दक्षिणेयमाचार्याय दातव्या। त- स्माद्ब्रह्मचारिणे भैक्षदानान्तरमेवाचार्यः कर्मशेषं समापयेदिति भट्टनारायणाद्यनुमतं समीचीनमवोचाम। समिदाधानस्य प्रधानकर्म्मान्तरतयोपनयनकर्म्मानङ्गत्वत्। अहः शेषस्थितेस्तादर्थ्याच्चेत्युक्तम् ॥ ( २ ) तथाचोक्तम् “गौर्विशिष्टतमा विप्रेर्वेदेष्वपि निगद्यते। न ततोऽन्यद्वरं यस्मा- त्तस्माद्गौर्वरमुच्यते” इति। ( ३ ) चन्द्रकान्तभाष्यादौ। तत्र द्वितीयस्यार्थान्तरयोजना च क्रियते। अन्ते च- प्सन्तु सावित्रचरोः कर्म्मक्रमस्यासूत्रणाद्यथार्थमित्यस्य कर्मापवर्गपरत्वावगतेश्च पूर्वेव योजना समीचीनेति प्रतिपद्यामहे। अतिक्रान्तसम्बन्धश्चाचार्यानुमत इति चेति ततउपर- तमस्माभिः।
४. कण्डिका ] गोभिलगृह्यसूत्रे- २४७ ( अथ समावर्त्तनम् ) तृतीयप्रपाठकस्य चतुर्थीकण्डिका- ब्रह्मचारी वेदमधीत्य ॥ १ ॥ वेदमित्यावश्यकत्वाभिप्रायेण । तथा च मनुः- “वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्य्यो गृहस्थाश्रममाविशेत् ॥” इति । वेदशब्दोऽयं साङ्गस्य वेदस्याभिधायकोऽङ्गानामेव वेति स्वभाष्ये चन्द्रकान्त आहान्यमतोपन्यासेन ॥ १ ॥ उपन्याहृत्य गुरवे ॥ २ ॥ उप--गुरुसमीपे । निभृतं विनीतं (१)यथास्यात्तथा । गुरवे-गुर्वर्थम् । तादर्थ्ये चतुर्थी(२) । ( पा० १।४।४४ ) आहृत्य-आनीय । “दक्षिणाम्”-ति शेषः । अस्योत्तरेण ( दारान्कुर्वीतेत्यनेन ) सम्बन्धः ॥ अत्र मनुः- न पूर्वङ्गुरवे किञ्चिदुपकु
२४८ समावर्त्तनविधिः । [ २ प्रपाठके- इति । दारानिति(१) । स्नानात्प्रागेव कन्यां प्रार्थयेदित्यर्थः । तेन नाश्रम- क्रम(२)विरोधस्सम्भवति । तथाच कात्यायनः— “यदि दत्ता भवेत्कन्या वाचा सत्येन केन चित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥” इति । अन्यथा—कन्यामप्राप्य । समावर्त्तने कृते तदुत्तरं कन्यालाभविल- म्बेऽनाश्रमित्वं स्यात्तच्चानिष्टम् । तथाच मनुः— “अनाश्रमी न तिष्ठेत दिनमात्रमपि द्विजः । आश्रमेण विना तिष्ठन्प्रायश्चित्तीयते हि सः ॥” इति । तस्माद्व्रतस्थ एव कुतश्चित्कन्यां प्राप्य पुण्यदिने स्नात्वा तदुत्तरदिने विवाहं कुर्यादिति वर्त्तुलार्थः । कात्यायनः- “अनूढे^व तु सा कन्या पञ्चत्वं यदि गच्छति । न तदा व्रतलोपः स्यात्तेनैवान्यां समुद्वहेत् ॥” अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् । तमग्निमात्मसात्कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥” इति । तेनैव-कृतान्तिमसमिदाग्निनैव ॥ ३ ॥ कीदृशान्दारान्कुर्वीत ? इत्युच्यते— असगोत्रान् ॥ ४ ॥ गोत्रं-प्रसिद्धम् । (३)समानं गोत्रं येषान्ते सगोत्रास्तद्भिन्नान् असगोत्रान् । दारान्कुर्वीतेति गतेन सम्बन्धः । एवमग्रेऽपि ॥ ४४ ॥ मातुरसपिण्डान् ॥ ५ ॥ मातुः सपिण्डा ये न भवन्ति तान् । सापिण्ड्यमुक्तपूर्वमनुसन्धेयम् ॥ ५ ॥ नाग्निकातु श्रेष्ठा ॥ ६ ॥ नाग्निकेत्यनागतार्त्तवोच्यते । “नाग्निकाऽनागतार्त्तवे”त्यमरात् । सा तु श्रेष्ठेति तादृशान्दारानुद्वहेदिति केचिद्व्याचक्षते । नैतत्सुन्दरम् । दारानित्युपात्त- ( १ ) उक्तमपि ( २।३।१ सू० ) दारकरणमिहाज्ञातत्वाद्विरूपगुणविधानार्थम्पुनरु- च्यते । दारार्थं वा । अथवा दारान् कुर्वीत । कर्तुं प्रयतेतेत्यर्थः । तदनेन दारकरणाय प्रयत्नोविधीयते न तु दारकरणम् । तस्य दानोत्तरभावित्वात् । इत्युक्तमनुवचनादव- सीयते ॥ ( २ ) ब्रह्मचारी-गृही भूत्वा वनी भवेद्वनीभूत्वा प्रव्रजेत् इति श्रुतेः । “आश्रमा- दाश्रमं गच्छेद्”ति स्मृतेश्च ॥ ( ३ ) समानता वरगोत्रेण । “समभिव्याहृतपदेनोत्थिताकाङ्क्षा प्रधानक्रियाकर्त्रा शाम्यती”ति नियमात् । तेन “समावरं पितरं नमस्करोती”-त्यत्र नमस्कर्तृनिरूपितमेव मातृत्वमिति सिद्धम् ॥
४ कण्डिका ] गोभिलगृह्यसूत्रे- २४६
विभक्तिवचनातिक्रमात् । तस्माद्दारकरणेन सहास्य न सम्बन्धोऽपि तु- “एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । गौरीं वाप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ।” इति वचनाद्दारान्करिष्यता तावद्गौरी प्राप्तावेव यतनीयं, दातुस्तु नग्निका श्रेष्ठेति(१) सूत्रार्थः । तथाचवसिष्ठः-“तस्मान्नग्निका दातव्ये-”ति ॥ ६ ॥ अथाप्लवनम् ॥ ७ ॥ अथेत्या(२)नन्तर्यार्थम् । व्रतान्तबोधितैन्द्रस्थालीपाकादिकर्म्मानन्तरम् । ब्रह्मचारी आप्लवनम्-स्नानम् । “आप्लाव आप्लवः स्नानम्” इत्यमरात् । “कुर्यादि”-ति शेषः ॥ ७ ॥ तद्विधिविवक्षयेदमाह- उत्तरतः पुरस्ताद्वाऽऽचार्यकुलस्य परिवृतम्भवति ॥ ८ ॥
( १ ) अत्र चन्द्रकान्तः । न
२५० समावर्त्तनविधिः । [ ३ प्रपाठके- आचार्यकुलस्य-गुरुगृहस्य "कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीवम्” इति मेदिनी । उत्तरतः । उत्तरस्यां दिशि । सार्ववि- भक्तिकस्तसिः । ( पा० ५।४।४४ वा० ) पुरस्तात्-पूर्वस्यां वा । परि-सर्वतो- भावेन [ मण्डपादिरूपेण ] वृत-मा(१)वृतमाच्छादितम्भवति । किञ्चित्स्था- नम् ॥ ८ ॥ तत्र प्रागग्रेषु दर्भेषूङ्ङाचार्य उपविशति ॥ ६ ॥ तत्र-तस्मिन्परिवृते स्थाने । उदङ्-उत्तराभिमुखः ॥ ९ ॥ तस्मिन्नेव परिवृते स्थाने-आचार्यसन्निधौ- प्राग् ब्रह्मचार्य्युदगग्रेषु दर्भेषु ॥ १० ॥ उपविशतीत्यनुवर्त्तते । प्राक्-प्राङ्मुखः ॥ १० ॥ सर्व्वौषधिविफाण्टिताभिरद्भिर्गन्धवतीभिः शीतोष्णाभिराचार्यो- ऽभिषिञ्चति ॥ ११ ॥ व्रीह्यादिसर्व्वौषधीभिः(२) सह या आपोविफाण्टिता(३) विपक्काः । उष्णी- कृता इति यावत् । ताभिर्गन्धवतीभिः । सुगन्धिद्रव्यसुवासिताभिः । शीतोष्णा- भिः । शीतोदकमिश्राभिरुष्णाभिः । यद्वा शीताश्च ता उष्णाश्चेति शीतोष्णास्ता- भिः । नातिशीताभिर्नाप्यत्युष्णाभिः । अद्भिर्ज लैः । "ब्रह्मचारिणम्” इतिशेषः । सोऽयं परमतोपन्यासः ॥ ११ ॥ स्वमतमभिधीयते— स्वयमिव तु ॥ १२ ॥ तु-शब्दात्पक्षोविपरिवर्त्तते । इवशब्द एवार्थः । स्वयमेव ब्रह्मचार्य्यात्मा- नमभिषिञ्चेन्न पुनराचार्यः । अत एव वक्ष्यति-“आत्मानमभिषिञ्चति” (३।४। १६) इति । तस्मादाचार्योऽभिषिञ्चेदित्येतत्परमतमिति तत्त्वकारादयः । मुरारिमिश्रास्तु-इवशब्देऽत्रैवार्थे । तु शब्दोवार्थे । तथाच स्वयमेववा ब्रह्मचा- र्य्यात्मानमभिषिञ्चेत् ॥ १२॥ अत्रहेतुमाह— मन्त्रवर्णोभवति ॥ १३ ॥ ( १ ) उपसर्गस्थ धातुनान्तर्भावादुपसर्गा अर्थविशेषद्योतका एवेति राद्धान्तो- व्याकृतिविदाम् ॥ उपेत्य धातून्सृजन्त्यनेकार्थान्द्योतयन्त इत्युपसर्गा उच्यन्ते । ( २ ) कात्यायनः "व्रीहयः शालयोमुद्गागोधूमाः सर्षपास्तिलाः । यवाश्चौषधयः सप्तविपदेहान्त धारिताः ॥” इति ॥ ( ३ ) ईषत्पक्कः क्वाथविशेष फाण्टम् । फणन्तेः क्तः ( पा० ३।२।१०२ ) निपातितः । तत इतचि ( पा० ५।२।३६ ) फाण्टिताईषत्कथिता आपः । अत्रौषधियोगविशेष इति ता अत्र विफाण्टिता उक्ताः ।
मन्त्रवर्णोऽभिषेकमन्त्रलिङ्गम् । तत्स्वरसादित्यर्थः । तद्यथा-“तेनाहम्माम- भिषिञ्चामि” इति । “तेनमामभिषिञ्चतम्” इति च । एवञ्च द्वितीयपक्षे हेतू- पदर्शनात् सूत्रकारसम्मति रपि तत्रैव । अतएव वीरेश्वरोपाध्यायाः स्वपद्धतौ तथैव लिखितवन्तः । वस्तुतस्तु-आचार्योऽत्रब्रह्मचारिणमभिषिञ्चति । ब्रह्मचारी वा स्वयमेवात्मानमभिषिञ्चति । इति । तथाच पठन्ति- “ब्रह्मचारी अनुज्ञातो गुरुणा गुरुरेव वा । सर्वौषधिविमिश्राभिः शीतोष्णाभिः सुगन्धिभिः” ॥ इत्येवमादि ॥ १३ ॥ अभिषेकप्रकार इदानीमभिधीयते- “येऽश्वन्तरग्नयः प्रविष्टाः” इत्यपाञ्जलिमवसिञ्चति ॥१४॥ ( मं० ब्रा० १।७।१ ) अपां प्रकृतानामेव । अञ्जलिम् । अञ्जल्यवच्छिन्ना आपः । अवसिञ्च
विकृतिङ्गमयतीति तनुदुषिः(१) : 'इन्द्रियहाः' इन्द्रियाणि हन्तीति इन्द्रियहाः ॥ १ ॥ इति ॥ १४ ॥ “यदपां घोरं यदपां क्रूरं यदपामशान्तम्”ति च ॥१५॥ ( सं० ब्रा० १।७।२ ) अस्य “अति तत्सृजामी"-ति शेषः । 'अपां' सम्बन्धि 'यद्' 'घोरं' भया- नकम् । 'यन्' च 'अपां' सम्बन्धि । 'क्रूरम्' निष्ठुरम् । 'यन्' च 'अपां' सम्ब- न्धि 'अशान्तम्' रुजाकरम् 'तत्' अतिसृजामि । उत्सृजामीत्यर्थः ॥ २ ॥ इति । अनेनाप्यपामञ्जलिमवसिञ्चति । तस्मादत्रापि भूमावेवाञ्जलिपरित्याग इति कर्मेन्द्रियापद्घोरनुषङ्गार्थश्चकारः ॥ १५ ॥ “योरोचनस्तमिह गृह्णामि” इत्यात्मानमभिषिञ्चति ॥१६॥ ( मं० ब्रा० १।७।३ ) “योरोचन” इति मन्त्रेण ब्रह्मचारी आत्मानमभिषिञ्चति । अभिषिञ्चेत् । अभीति सर्वतोभावे । अयमभिषेकः “अङ्गानां शिरः प्रधानम्”ति शिरसि कर्त्तव्यः । “अव्यक्तं प्रधाना(२)मौ”ति न्यायादप्या(३)प्लावनमित्यधिका- राच्च । अस्य “तेनाहममामभिषिञ्चामि” इतिशेषः ॥ अस्यार्थः । घोरादिषु त्यक्तेषु । 'यो' ऽन्यो 'रोचनः' तदाख्यो ऽभिप्रीतिकरः(४) । 'तं' अहम् 'इह' स्थितम् । गृह्णामि । तथाच 'तेन' जलान्तर्वर्त्तिना रोचनेन 'अहं' 'माम्' आत्मानम् 'अभिषिञ्चामि' इति ॥ ३ ॥ किमर्थमित्युत्तरेणान्वितम् ॥ १६ ॥ “यशसे तेजस” इति च ॥ १७ ॥ ( सं० ब्रा० १।७।४ ) “यशसे” इत्यादिना मन्त्रेण च पूर्ववदात्मानमभिषिञ्चति । ब्रह्मचारी । प्रकृतानामपामञ्जलिना ॥ मन्त्रोयथा— “यशसे तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय वीर्यायान्नाद्याय रायस्पोषाय त्विष्ट्यै अपचित्यै” ॥ ४ ॥
( १ ) “इक्कॄष्यादिभ्यः” (पा० ३।३।१०८ वा०) इतीकप्रत्यये गुणाभावः । दलोपः पृषोदरादित्वात् ( पा० ६।३।१०९ ) ॥ ( २ ) सन्देहे हि प्रधानानुसरणं कर्त्तव्यमिति हि न्यायाशयः । ( ३ ) यद्यपि “स्नानञ्चतुर्भिः कलशैस्त्रिभिराप्लवनं स्मृतम्” इति कात्यायनेन परिभाषितन्तथापि स्नानमात्रं जहदजहल्लक्षणया भाष्यकृद्भिरत्राप्लवनं व्याख्यातम् । तथाच मन्त्रेण बोध्यमभिषेकस्तदेवाप्लवनापरपर्यायं स्नानं प्रधानकर्मेतिप्रतिपाद- यिष्यते ॥ ( ४ ) “रुचदीप्तावभिप्रीतौच” ( भ्वा० आ० ) नन्द्यादित्वाल्ल्युः (पा० ३।१।१३४) योरनः । ( पा० ७।१।१ ) ॥
४ कण्डिका ] गोभिलगृह्यसूत्रे— २५३ इति । अस्यार्थः । अत्र सर्वत्र तादर्थ्ये चतुर्थी ( पा० १।४।४४ वा० ) 'ब्रह्मवर्चसाय'(१) याजनाध्यापनोत्कर्षजतेजसे । 'रायस्पोषाय'(२) धन- समृद्धयै । 'त्विष्यै'(३) दीप्तये । 'अपचित्ये'(४) पूजायै । अन्यत्सुगमम् ॥१७ “येन श्रियमकृणुतमि”—ति च ॥ १८ ॥ [ सं० ब्रा० १।७।५ ] “येन श्रियमि”—तिमन्त्रेण चात्मानमभिविञ्चति । मन्त्रो यथा— “येन श्रियमकृणुतं येनापामृशतं सुराम् । येनाक्षावभ्यषिञ्चतं ये चेमाम्पृथिवीम्महीम् । यद्वान्तदश्विना यशस्तेन मामभ्यषिञ्चतम्” ॥५॥ इति । अस्यार्थः—अनेन देववैद्यावश्विनौ कर्म्मणामधिष्ठातारौ संस्तूयप्रा- र्त्थ्येते हे 'अश्विना !' अश्विनौ !(५)'येन' कर्म्मणा युवां 'श्रियं' विपुलाख्याम् 'अकृणुतम्' (६)हिंसितवन्तौ । 'येन' च 'सुराम्' मदिराम्(७) 'अपामृशतं' खण्डितवन्तौ ( नेयंपातव्येति ) 'येन' वा 'अक्षान्' (८)पाशकानपि अपामृ- शतमित्येव । 'ये' येन 'च' 'इमां' 'महीं' महतीं(९) 'पृथिवीम्' भूमिम् 'अभ्य- षिञ्चतम्' अभिषिक्तवन्तौ ( शस्यप्ररोहणादिद्वारा संवर्द्धितवन्तौ ) एवं भूतं 'यद्' 'वां' युवयोः 'यशः' शोभनकर्म्म 'तेन' यशसापुरस्कृतौ युवां 'माम्'अपि 'अभ्यषिञ्चतम्' अभिषिक्तं ( संवर्द्धितं ) कुरुतम् । यथायुवाभ्यामभिषिक्तः कृतकृत्योभवानीति ॥ ५ ॥ १८ ॥ एवं मन्त्रेण त्रिः— तूष्णीञ्चतुर्थम् ॥ १६ ॥ तूष्णीम्-अमन्त्रञ्चतुर्थम्मार्जनम् कुर्यादित्यर्थः ॥ १९ ॥ ( १ ) ब्रह्मणोवर्चोब्रह्मवर्चसन्तस्मै । “ब्रह्महस्तिभ्यां वर्चसः” (पा० ५।४।७८) इति समासान्तः । ( २ ) रैतिधननाम “अर्थंरैविभवाअपि”त्यमरात् । “षष्ठ्याः पतिपुत्रपयस्पोषेषु” ( पा० ८।३।५३ ) इतिसत्वम् । ( ३ ) त्विषिर्दीप्त्यर्थः । “इक् कृष्यादिभ्यः” ( पा० ३।३।१०८ वा० ) इतीक्प्रत्य- योभावे । कित्त्वादगुणाभावः । गुणविष्णुमते त्विष्या इति पाठः। तत्र त्विषेः क्तिन् (पा० ३।३।९४ ) भावे स्त्रियां बोध्यः ॥ ( ४ ) “पूजानमस्याऽपचितिरि-”त्यमरः । ( ५ ) “सुपां सुलुक्०” ( पा० ७।१।३९ ) इत्यादिनाऔङआत् । ( ६ ) “कृविहिंसाकरणयोश्च” (स्वा० प०) लङ् । “धिन्विकृण्व्योरच्च” (पा० ३।१।८०) इत्युप्रत्ययः । ( ७ ) “सुराहलिप्रिहालापरिस्रुद्वरुणात्मजे” तिमद्यपर्यायेऽमरः । ( ८ ) “अक्षास्तुदेवनाः पाशकाश्चते” इत्यमरः ॥ ( ९ ) “पृषोदरादित्वात्” ( पा० ६।३।१०९ ) अप्शब्दकुलोपः ॥
२५४ समावर्त्तनविधिः। [ ३ प्रपाठके- उपोत्थायाऽऽदित्यमुपतिष्ठेतो-“द्यन्भ्राजभृष्टिभिर्”-त्येतत्प्र- भृतिना मन्त्रेण ॥ ३० ॥ ( मं० ब्रा० १।७।६-९ ) उप-आचार्यसमीपात्। मन्त्रेण-उद्यन्नित्यादि-मा मा हिंसीरित्यन्तेन ४ मन्त्रकदम्बेन। वक्ष्यमाण (३२) सूत्रस्वरसात्। उपतिष्ठेत-तदभिमुखः सन्नारा- धयेत्। अत्र देवपूजायामुपान्तिष्ठते- ( पा० १।३।२५ वा० ) इत्यात्मनेपदं बोध्यम् मन्त्रां ( मन्त्रकदम्बो ) यथा- “उद्यन्भ्राजभृष्टिभिरिन्द्रोमरुद्भिरस्थात्प्रातर्यावभिरस्थात्। दशसनिरसि नशसनिम्माकुर्वात्वाविशाम्यामाविश ॥ ६ ॥ उद्यन्भ्राजभृष्टिभिरिन्द्रोमरुद्भिरस्थात्सान्तपनेभिरह्यात् ! शतसन
१ कण्डिका ] गोभिलगृह्यसूत्रे- २५५ सनिः' दशानां गवादिधनानां सनि(१)र्दाता 'असि' भवसि । अतः 'मा' माम् अपि 'दशसनि' दशानां दातारं 'कुरु' । अहं 'त्वा' त्वाम् 'आविशामि' अ- र्थित्वेनोपगच्छामि । अतस्त्वमपि 'मा' माम् । 'आविश' अभिमतफलदानेना- भिमुखोभव ॥ ६ ॥ 'सान्तपनेभिः' (२)देवविशेषैः ॥ ७ ॥ एवं "सायं यावानो देवविशेषा" इति गुणविष्णुः ॥ ८ ॥ हेसूर्य्य ! त्वं 'मे' मम 'पाप्मानम्' (३) पापमनिष्टम् । 'अपजहि' (४)अ- पनय । यस्त्वं त्रिलोक्याः 'चक्षुः' दर्शकः(५) 'असि' भवसि । तं 'त्वा' त्वाम् 'सोमः' देवानाम्तर्भूत इति कृत्वा 'अवतु' आप्याययतु । योह्यस्माकं ब्राह्मणा- नामोषधीनाञ्च 'राजा' भवति । तथा च श्रुतिः "सोमोऽस्माकं ब्राह्मणां७रा- जे"ति । अभिधानमप्याग्नेयमस्मिन् विषये "ओषधीशोनिशापतिरि"-ति । एवम्भूताय 'ते' तुभ्यं 'नमः' नमस्कारः 'अस्तु' भवतु । त्वं 'मा' मां 'माहिं- सीः' मा जहि । किन्तुसर्वतोरक्षेत्यर्थः । चक्षुष्टमित्यत्र "युष्मत्तदि" ( पा० ८।३।१०३) स्यादिना षत्वम् । तत्र युष्मदिति-युष्मदादेशास्त्वं त्वा ते तवोच्य- न्ते ॥ ९ ॥ तदेतदविहारपक्षेबोध्यम् ॥ १८ ॥ अथ विहारपक्षमाह- यथालिङ्गं वा विहरन् ॥ २१ ॥ वा-अथवा । तस्मिन्नेव दिने यथालिङ्गम् (६)यथालिङ्गेन मन्त्रेण । प्रात- र्लिङ्गेन मन्त्रेण प्रातः । सान्तपनलिङ्गेन मध्याह्ने । सायंल्लिङ्गेन सायाह्ने । उपतिष्ठेतेत्यर्थः । विहरन्निति । एतत्कालत्रये मन्त्रान्विभजन् । (७)विहारो-वि- कर्षणं-पृथक्करणमित्यनर्थान्तरम् ॥ २१ ॥ “चक्षुरसी”त्यनुबध्नीयात् ॥ २२ ॥ ( मं० ब्रा० १।७।९ )
( १ ) “षणुदाने” ( त० उ० ) “छन्दसिवनसन्तरक्षिमथ्याम्” ( पा० ३।२।२७ ) इतीन्प्रत्ययः ॥ ( २ ) “बहुलं छन्दसि” ( पा० ७।१।१० ) इति भिसऐसभावे एत्वम् ( पा० ७।३। १०३ ) केषाञ्चिन्मते सान्तपनानाममाध्यन्दिनसवनं देवाः । इति व्याख्येयम् ॥ ( ३ ) “अस्त्रीपङ्कं पुमान्पाप्मा पापं किल्विषकल्मषम् ॥ इत्यमरः ॥ ( ४ ) उपसर्गस्य पृथक्कृतिश्छान्दसी ।( पा० १।४।८२ ) । ( ५ ) अथ चास्य सर्वस्यालोकस्य चक्षुर्दशनेन्द्रियम् । (चिच्छक्तिः ) ॥ ( ६ ) “तृतीयासप्तम्योर्बहुळम्” ( पा०२।४।८४ ) इत्यव्ययीभावात्परं तृतीयाविभ- क्तेर्वाऽम्भावः । इत्येवं व्याख्यातम् ॥ ( ७ ) अस्योत्तरसूत्रेणाभिसम्बन्धः । सत्रन्तमेतत् । मुरारिमिश्रमते एकमेवैतत्सूत्र- द्वयम् ॥
२५६ समावर्त्तनविधिः । [ ३ प्रपाठके- त्रिक्षपे (१) "चक्षुरसी" ति मन्त्रमनु (२) बध्नीयादित्यर्थः ॥ २२ ॥ मेखलामवमुञ्चते "उदुत्तमं वरुणपाशमि"-ति ॥२३॥ (सं० ब्रा० १।७।१०) अवमुञ्चते-अवाचीनं मुञ्चति । "उदुत्तमम्" इति मन्त्रेण । मुञ्चत इति च्छेदैनप्रतिषेधार्थम्। अव इत्यधस्तान्मोचनार्थम् । अस्मिन्नेवावसरेऽजि- नपरित्यागोऽपि । स्नानोत्तरं तद्धारणानौचित्यात् । "स्नानादूर्ध्वं गृही भवेद्"-ति वचनात् । पद्धतिरप्येवम् ॥ मन्त्रोयथा- "उदुत्तमम्वरुणपाशमस्मदवाधमं विमध्यमꣳश्रथाय । अथादित्यव्रते वयन्तवानागसोअदितयेस्याम ॥" १० ॥ इति । अस्यार्थः । हे 'वरुण' देव ! 'उत्तमम्' उत्तमाङ्गे (शिरसि ) स्था- पितं त्वदीयं पाशम् । 'अस्मत्' अस्मत्तः सकाशात् । 'उत्-श्रथाय (३)। उत्कृ- ष्योन्मुच्य विनाशय । एवम् 'अधमम्' अधमाङ्गे ( पादप्रदेशे ) स्थापितन्त्व- दीयं पाशम् 'अव' (४) अवाचीनं कृत्वा ( ऽस्मत्तोऽपकृष्य ) विनाशय । 'मध्य- मं' मध्यमप्रदेशे स्थितं पाशं 'वि' विश्रथाय । विमोक्ष्य (विच्छेदय ) 'अथा' अथ (५) पाशत्रयविमोचनानन्तरम् । हे 'आदित्य' अदितिपुत्र वरुण ! 'अना- गसः' अनपराधाः । ( निष्पापाः ) वयं 'तव' 'व्रते' कर्मणि(६) । ( निघं० १।७) वर्त्तमानाः सन्तः 'अदितये' अदीनतायै । (७) 'स्याम' भवेम । (अखण्डित(८) ( १ ) विहारपक्षेऽतावत्त्रयाणाम्मन्त्राणामेकैकस्य मन्त्रस्य खल्वेवमेकैकस्मिन् उप- स्थाने विनियोगः सम्पन्नः । चतुर्थस्य तु मन्त्रस्य लब्धयात्रयेऽपि अत्र विनियोगोऽनेन सूत्रेण क्रियते ॥ ( २ अनु-प्रातरादिमन्त्राणां पश्चात् । बध्नीयाद्-ग्रथयेदित्यर्थः । तथा च यथा लिङ्गं मन्त्रमुच्चार्य चक्षुरसीति च पश्चादुक्त्वा सर्वत्रोपनिष्ठेत ॥ ( ३ ) "श्रथमोक्षणे" (चु०उ०) णिचिम्स्वत्वाद्घ्रस्वः । लोटि मध्यमपुरुषैकवचने रूपम् । श्रथायेतिदीर्घश्छान्दसः । ( पा० ६।३।१३७ ) यद्वाश्रन्थविमोचनप्रतिहर्षयोः" ( क्या० प० ) लोटि मध्यमस्यैकवचने "छन्दसि शायजपी" ( पा० ३।४।८४)-ति नः शाय- आदेशे तस्य डित्वान्न लोपे श्रथाये तिरूपम् ॥ ( ४ ) उपसर्गस्यपृथग्भावश्छान्दसः । ( पा० १।४।८२ ) उपसर्गबलाद्योग्यक्रिया- व्याहारे प्रसक्ते प्रकान्त एवाध्याहृतः । एवमग्रेऽपि ॥ ( ५ ) "निपातस्य चे"-( पा० ६।३।१३६ )-ति दीर्घः ॥ ( ६ ) तथा च निरुक्तम् "व्रतमिति कर्मनाम वृणोतीतिसतः" ( २।१३ ) इति ॥ ( ७ ) तथा च निरुक्तम् "अदितिरदीना देवमाता चे"ति ( ४।४।२२ ) अत्र च "द्व्येकयोर्" ( पा० १।४।२२ ) ति वद्भावप्रधानोनिर्देशो दीनतेति ॥ ( ८ ) "दो अवखण्डने" (दि०प०) क्तिन्भावे "द्यतिस्यतिमास्थामितिकिति" ( पा० ७।४।४ ) इतीत्वेदितिरूत्वतो नञ्समासः । भावप्रधानश्च निर्देश इतीत्थं व्याख्यातम् ॥
त्वाय योग्या भवेम् ) ॥ १० ॥ इति ॥ २३ ॥ ब्राह्मणान्भोजयित्वा स्वयञ्च भुक्त्वा केशश्मश्रुलोमनखानि वापयति शिखावर्जम् ॥ २४ ॥ ब्राह्मणान् भोजयित्वेति । अभ्युदयिकश्राद्धङ्कृत्वेत्यर्थ इति भट्टनारा- यणः । यत्तु कर्म्मसमाप्तिनिमित्तकमेवेदं ब्राह्मणभोजनमितिस्रानात्प्रागे(१)वैत- च्छाद्धम् । इदानीं ब्राह्मणभोजनमात्रमिति च मतं तन्न इदानीङ्कर्म्मसमाप्त्यभा- वादुपदिष्टादपि कर्म्मान्तरोपदेशात् । वस्तुतो ब्राह्मणभोजना(२)न्तरमेवेदम् । स्वयञ्चेति । "दधितिलान्वे"तिशेषः । तथाच पारस्करः "दधितिलान्वाप्रा- श्ये"-ति । पद्धतिरप्येवम् । कश्चित्तु परकीयग्रहणे आकाङ्क्षाविरहान् ब्राह्म- णभोजनसाहचर्याच्च यथेष्टमेवभोक्तव्यमित्याह । अत्र शिखावर्जमित्यभिधानात्प्राक्सशिखं वपनं कर्त्तव्यमितिदार्शितम् । ( २।९।२५ ) उपनिषच्च "भ्रूपक्ष्माशिखावर्जं सर्वगात्राणि वापयेत्" इति॥२४॥ स्नात्वालङ्कृत्याहते वाससी परिधाय स्रजमाबन्धीत "श्रीरसि मयिरमस्वे"ति ॥ २५ ॥ ( मं० ब्रा० १।७।११ ) अलङ्कृत्य-कुण्डलादिभिरात्मानम् । अहते-"ईषद्धौतन्नवमि"त्याद्युक्तल- क्षणे । वाससी वस्त्रयुगम् । ( अन्तरोय-मुत्तरीग्रञ्च ) परिधाय । स्रजम्-पुष्प- मालाम् आ-उपरि-शिरसि । बध्नीत । तत्रमन्त्रमाह "श्रीरसी"ति(३) । अ- स्यार्थः । हे माले ! त्वं 'श्रीः' लक्ष्मीः । 'असि' भवसि । सात्वं 'मयि' विषये । 'रमस्व' अवस्थानं कुरु । इति । यज्ञोपवीतद्वितयपरिधानमपीदानीमेवाचारादि- तिमुरारिमिश्राः प्राहुः ॥ २५ ॥ "नेत्र्यौ स्थोनयतं मामि"-त्युपानहौ ॥ २६ ॥ ( मं० ब्रा० १।७।१२ ) ( १ ) अभिषेकात्मकं स्नानं प्रधानकर्मेतिप्रतिपन्नम् । अग्रिमसूत्रे(२५)स्नात्वा इति तुवपनोत्थाप्रायत्यापनोदनार्थंम्लानमुच्यते । नत्वेतत्प्रधानङ्कर्म । न हि भुक्ताप्र- धानङ्कर्म्मक्रियते । न वा प्रधानं स्नानममन्त्रकं तदङ्गत्वेनभिषेकोमन्त्रवानितिसाम्प्रतं तस्मात्प्रधानकर्मणः पश्चादाभ्युदयिकं श्राद्धमितिवर्णनं भाष्यकृतोऽनुपपन्नमेव । तत्त- ल्पुपुरस्तादेवकर्मणो यथाप्राक्कलृप्तंसुचितम् । "यच्छ्राद्धं कर्मणामादौ अन्वाहार्यन्तदु- च्यत" इति वृद्धिश्रमधिकृत्यकर्म्मप्रदीपवचनात् । अतएकस्मिन्दिनेऽनेककर्म्मानुष्ठिता- वेकदैवतदनुष्ठानं व्यवस्थापितमधस्तात् । ( २ ) "सम्भोज्यविप्रान्भुञ्जीते"-ति प्रतिविशिष्टभोजनस्मःमेवात्रमूलम् । ( ३ ) अत्रापि "सर्वेषु गात्रेषु शिरःप्रधानम्" इति न्यायोऽनुसृतः । ३३ गो० गृ० सू
३५८ समावर्त्तनविधिः । [ ३ प्रपाठके “नेत्र्यौस्थ” इति मन्त्रेण । उपानहौ आवध्नीतेत्यनुषज्यते । अत्राऽङ्गोद्देश्ये योग्यतावशात्तेनपाद्योः । “नानार्थाह्यव्ययाः परे” इत्याग्नेयमभिधानम् । मन्त्रार्थस्तु— हे उपानहौ ! यतो युवां ‘नेत्र्यौ’ नयन-(गमन-) शक्तिप्रदे ‘स्थः’ भवथः । अतो ‘माम्’ इष्टं देशान्तरम् ‘नयतम्’ प्रापयतम् । प्रार्थनायां लोट् ॥ २६ ॥ “गन्धर्वोऽसी”-ति वैणवदण्डं गृह्णाति ॥ २७ ॥ ( मं० ब्रा० १।७।१३ ) वैणवम् । वेणुर्वंशस्तन्मयम् । दण्डादिधारणे स्मृत्यन्तरोक्तकर्म्मानन्तर- माहुर्मुरारिमिश्राः— “वैणवीन्धारयेद्यष्टिमन्तर्वासस्तथोत्तरम् । यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम् ॥ छत्रञ्चोष्णीषममलं पादयोश्चाप्युपानहौ । रौक्मे च कुण्डले चैवं कृत्तकेशनखोद्विजः ॥” इति ॥ २७ ॥ आचार्य्यꣳसपरिषदकमभ्येत्याचार्य्यपरिषदमीक्षते— “यक्षमिव चक्षुषः प्रियोवोभूयासमि”ति ॥ २८ ॥ ( मं० ब्रा० १।७।१४ ) सपरिषदकम् । परिषदा सभया सहितम् । “समज्यापरिषदगोष्ठीसभासमिति संसदः” इत्यमरः । सा च शिष्यादेः । अभ्येत्य-आभिमुख्येन गत्वा पुनराचार्य्य- वचनमाचार्यसहितायाः परिषद ईक्षणार्थम् । मन्त्रार्थस्तु-हे सपरिषदकाचा- र्य्याः ! गुरुत्वादत्र बहुवचनम्(१) । ‘चक्षुष’ इति जात्येकवचनम् । ‘यक्ष इव’ यक्षो यथा दर्शनीयतया प्रियो भवति तथाहं ‘वः’ युष्माकं ‘प्रियः’ ‘भूयासम्’ भवेयमिति ॥ १४ ॥ २८ ॥ उपोपविश्य मुख्यान्प्राणान्संमृशन् “ओष्ठापिधाना नकुली-”ति॥२९॥ ( मं० ब्रा० १ । ७ । १५ ) उप-आचार्य्यसमीपे । मुख्यान्-मुखेभवान् । प्राणान्-वायून् । तेषाम- मूर्त्तत्वात् तदायतनानि संमृशन्-स्पृशन् । “ओष्ठापिधाना” इत्येतदादिकं मन्त्रं “जपेद्”-ति शेषः सर्वत्र । मन्त्रो यथा— “ओष्ठापिधाना नकुली दन्तपरिमितः पविः । जिह्वे मा विह्वलो वाचं चारु माद्येह वादय ॥ १५ ॥” इति । अस्यार्थः-स्नातकेन जिह्वा स्वा प्रार्थ्यते-हे ‘जिह्वे’ ‘इह’ प्रस्तुते कर्म्मणि । ( १ ) तथाच स्मर्य्यते-“एकत्वं न प्रयुञ्जीतगुरावात्मनि चेश्वरे” इति । एकत्व- मेकवचनम् ।