जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
अरिष्टाध्यायः ॥ ४ ॥ ११३ शशधरश्चन्द्रः, स्वोच्चस्थः=वृषगशिगतः, स्वगृहे=कर्कटे वा गतोऽथवा सुहृदां = स्वमि- त्राणां वर्गे, वा सौम्यस्य=शुभग्रहस्य (बुधगुरुशुक्राणामन्यतमस्य) वर्ग स्थितो वा सम्पूर्णः= परिपूर्णविम्बः शुभग्रहावलोकितो वा स्वकीये वर्गे न भवेत्तथाभूतश्चेच्छत्रूणामवलोकनेन योगेन च रहितस्तथा पापग्रहाणां योगेन दृष्ट्या च रहितो भवेत्तदा सुदुस्तरमतीव कठिन- मरिष्टं हन्ति। अत्रोपमा—यथा दिनमणिः = सूर्यः सुदुस्तरमतिगहनं प्रालेयराशि = तुषार- जालं स्वकिरणैर्विनाशयति तथैवोक्तपरिस्थितिगतश्चन्द्रमा अरिष्टसङ्कुलमपि हन्तीति ॥ ७४ ॥ जैसे सूर्य अपने किरणोंके द्वारा अत्यन्त निविड़ कुहरों (पाला) को नाश करता है उसी तरह चन्द्रमा अपने उच्च (वृष) में, या अपने गृह (कर्क) में, वा अपने मित्रोंके वर्गमें, अथवा शुभवर्गमें, या पूर्णबिम्ब हो तथा शुभदृष्ट हो, वा अपने वर्गमें हो, ऐसा होनेपर अपने शत्रुओंकी दृष्टि और योगसे सहित न हो, तो अति कठिन अरिष्टोंको नाश करता है ॥ ७४ ॥ पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभदृष्टमूर्तिः ॥ तं चन्द्रमा रिपुविनाशगतोऽपि नूनमापत्सु रक्षति पितेव शिशुं प्रजातम् ॥ ७५ ॥ अथ शशिन्यरिविनाशग इत्यादि ३५ श्लोके यच्चन्द्रारिष्टमुक्तं तस्य परिहारोऽधुनो- च्यते । यदि सिते = शुक्ले पक्षे क्षपायां = रात्रौ जन्म भवति, तथा कृष्णपक्षे अहनि=दिने जन्म भवति, तथा क्रमेण शुभैरशुभैश्चावलोकितश्च चन्द्रो भवेत्तदा रिपुविनाशगतोऽपि=षष्ठा- ष्टमभावगतोऽपि (चन्द्रः) प्रजातं शिशुमापत्सु नूनं = निश्चितमेव रक्षति । यथा पिताऽऽ- त्मजमापत्सु यत्नेन रक्षति तथैवोक्तलक्षणलक्षितश्चन्द्रः षष्ठाष्टमगतोऽपि जायमानं शिशुमा पत्स्वरिष्टेषु रक्षति, न मारयतीति भावः । तथा च— बलक्षपक्षे यदि जन्म रात्रौ कृष्णे दिवाऽष्टारिगतोऽपि चन्द्रः । क्रमेण दृष्टः शुभपापखेटैः पितेव बालं परिपालयेत्सः ॥ इत्युक्तं जातकाभरणे ॥ ७५ ॥ शुक्लपक्षमें रात्रिमें जन्म हो और कृष्णपक्षमें दिनमें जन्म हो तो शुभाशुभदृष्ट मूर्ति चन्द्रमा षष्ठ वा अष्टम स्थानमें प्राप्त होनेपर भी निश्चय जातककी रक्षा जिस प्रकार पिता करता है उस प्रकार रक्षा करता है ॥ ७५ ॥ अथ गुरुकृतोऽरिष्टभङ्गः । केन्द्रोपगोऽतिबलवान् स्फुरदंशुमाली स्वर्लोकराजसचिवः शमयेदवश्यम् । एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त इव शूलधरे प्रणामः ॥७६॥ अतिबलवान् = वीर्योत्कटः, स्फुरदंशुमाली = देदीप्यमानकिरणवान्, स्वर्लोकराजसचिवः= इन्द्रस्य मन्त्री (बृहस्पतिः), केन्द्रोपगः = १।४।७।१० भावानामन्यतमगतो यदि भवेत्तदा एक एवासौ गुरुः सुदुस्तराण्यतिकठिनानि बहूनि = अनेकानि दुरितानि = पापानि (अरिष्टानि) अव- श्यमेव शमयेन्नाशयेत्किमुतान्येपि शुभग्रहाः केन्द्रगताश्चेद्भवेयुरिति । यथा किल शूलधरे= महादेवे भक्त्या प्रयुक्तः = विनम्रभावेन पुरस्कृत एकोऽपि प्रणामः सुदुस्तराणि बहूनि = विवि- धजन्मकर्मार्जितानि, दुरितानि = कल्मषाणि, नाशयति तथैवैकोऽपि केन्द्रगतः पूर्णबलो गुरु- र्जातकस्य विविधारिष्टानि नाशयतीति । उक्तमपि— 'लक्षान्दोषान् हन्ति देवेन्द्रमन्त्री केन्द्र प्राप्तः' इति ॥ ७६ ॥ पूर्ण-बलवान् और निर्मलबिम्बवाला वृहस्पति यदि केन्द्र (१।४।७।१०) में हो तो वह अकेला भी अनेकों कठिन अरिष्टोंको अवश्य ही नाश करता है। जैसे भक्तिपूर्वक भीशङ्कर जी के लिये एकबार भी किया हुआ प्रणाम कठिनसे कठिन पापोंको नाश करता है ॥७६॥
११४ सटीकजातकपारिजाते- अथ लग्नेशकृतोऽरिष्टभङ्गः । लग्नेशो बलयुक्तश्चेत् त्रिकोणे वा चतुष्टये ॥ अरिष्टयोगजातोऽपि बालो जीवति निश्चयः ॥ ७७ ॥ सरलार्थः ॥ ७७ ॥ यदि लग्नेश बलवान् होकर त्रिकोण वा केन्द्रमें हो तो अरिष्टयोगमें भी उत्पन्न बालक निश्चय जीवे ॥ ७७ ॥ अथ ग्रहकृतोऽरिष्टभङ्गः । यस्य जन्मनि तुङ्गस्थाः स्वक्षेत्रस्थानमाश्रिताः ॥ चिरायुषं शिशुं जातं कुर्वन्त्यत्र न संशयः ॥ ७८ ॥ तुङ्गस्थाः=स्वस्वोच्चराशिगताः, वा स्वक्षेत्रस्थानमाश्रिताः=आत्मीयराशिगता ग्रहाः ( बहु- वचनात् त्र्यादिकाः ) यस्य जन्मनि =जन्मकाले भवेयुस्तं जातं, शिशुं=बालकं, चिरायुषं = दीर्घजीविनं कुर्वन्त्यत्र न संशयः । त्र्यधिका उच्चस्थाः स्वराशिस्था वा अरिष्टनाशका भव- न्तीति भावः ॥ ७८ ॥ जिसके जन्मसमयमें उच्चस्थ वा स्वगृहमें बहुत ग्रह हों तो वे ग्रह बच्चेको चिरायु करते हैं इसमें संशय नहीं है ॥ ७८ ॥ अथ राहुकृतोऽरिष्टभङ्गः । राहुस्त्रिषष्ठलाभे लग्नात्सौम्यैर्निरीक्षितः सद्यः ॥ नाशयति सर्वदुरितं मारुत इव तूलसङ्घातम् ॥ ७९ ॥ अजवृषकर्किविलग्ने रक्षति राहुर्निरन्तरं बालम् ॥ पृथिवीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥ ८० ॥ लग्नात् त्रिषष्ठलाभे ( ३।६।११ ) गतो राहुः सौम्यैः = शुभग्रहैश्चेन्निरीक्षितो भवति तदा सद्यः सर्वदुरितं = निखिलमरिष्टं नाशयति । तूलसङ्घातं = तूलराशि मारुतः = वायुरिवे- त्युपमा । अथ राहुः, अज-वृष-कर्किविलग्ने = मेष-वृष-कर्कटानामन्यतमे लग्ने विद्यमान- श्चेत्तदा जातं बालं निरन्तरं सततं रक्षति । न तदाऽरिष्टदोषोऽभिभवति । तथोक्तं च— 'राहुस्तृतीये षष्ठे वा लाभे वा शुभसंयुतः । तद्दृष्टो वा तदाऽरिष्टं सर्वं शमयति ध्रुवम् ।, इति शौनकेन । एवम्—'सुतजन्मोद्भवान् दोषान् हन्ति ध्वान्तं यथा रविः । राहुस्त्रिषष्ठलाभस्थः शुभग्रहानिरीक्षितः ॥ वृषकर्कजगो वाऽपि सर्वारिष्टविनाशकृत् ।' इति कालप्रकाशिकायाम् ॥ अत्रोत्तरार्धेनोपमोदाह्रियते । प्रसन्नः=प्रफुल्लितान्तःकरणो हि पृथिवीपति राजा ( क्षमा- शीलो भूत्वा ) कृतापराधं = जातदोषं पुरुषं यथा रक्षति, तथैवोक्तलक्षणलक्षितो राहुररिष्टा- दिदोषव्याप्तं बालकमनुकूलो रक्षति । इति ॥ ७९-८० ॥ राहु लग्नसे तीसरे, छठे या ग्यारहवें हो उसको शुभग्रह देखते हों तो जिस प्रकार रूई की ढेरको वायु नाश करता है उसी प्रकार राहु सब कष्टों का संहार करता है ॥ ७९ ॥ मेष वृष कर्क लग्नमें राहु निरन्तर बालक की रक्षा उस प्रकार करता है जिस प्रकार प्रसन्न राजा अपराधी पुरुषकी रक्षा करता है ॥ ८० ॥ अथ पुनश्चन्द्रकृतोऽरिष्टभङ्गः । निशाकरः शोभनवर्गयुक्तः शुभेक्षितः पूरितदीप्तिजालः ॥ जातस्य निःशेषमरिष्टमाशु निहन्ति यद्वद् गरलं गरुत्मान् ॥ ८१ ॥
सरलार्थः, ७२ श्लोकोक्तविषय एव पुनरुक्त इवाभाति ॥ ८१ ॥ पूर्णचन्द्रमा शुभवर्गमें प्राप्त हो उसको शुभग्रह देखते हों तो जातकके निःशेष अरिष्टका उस प्रकार नाश करता है जैसे जहरीले सर्पका गरुड नाश करता है ॥ ८१ ॥ अथ राशीशकृतोऽरिष्टभङ्गः । चन्द्राधिष्ठितराशीशे लग्नस्थे शुभवीक्षिते ॥ भृगुणा वीक्षिते चन्द्रे स्वोच्चेऽरिष्टं हरेत्तदा ॥ ८२ ॥ चन्द्रो यस्मिन् राशावधिष्ठितो भवेत्तस्य राशेरीशे = स्वामिनि, लग्नस्थे = जन्मलग्नगते शुभग्रहेण वीक्षितेऽवलोकिते च, तथा चन्द्रे स्वोच्चे = वृषराशिगते तथाभूते भृगुणा = शुक्रेण वीक्षिते च जातस्यारिष्टं हरेन्नाशयेदिति ॥ ८२ ॥ चन्द्रराशीश लग्नमें हो उसको शुभग्रह देखते हों और उच्चस्थ चन्द्रमा शुक्रसे देखा जाता हो तो अरिष्टको हरता है ॥ ८२ ॥ अथ लग्नेशकृतोऽरिष्टभङ्गः ।
११६ सटीकजातकपारीजाते- ति । तत्र मध्यमायुषः प्रमाणमुच्यते-द्वात्रिंशद्वत्सरा-( ३२ ) दुपरि सप्तति-( ७० ) वर्षपर्यन्तं मध्यमायुरिति । अथात्र प्रसङ्गात् मध्यायुषः केचन भेदा ग्रन्थान्तरसङ्गृहीता विलिख्यन्ते । चतुरस्रगताः पापा लग्नात्कुर्वन्ति मध्यमायुष्यम् । चन्द्रात्तथैव दिवसैः सौम्यैरनवीक्षिता न शुभयुक्ताः ॥ सौम्यैः पापांशकार्कैस्त्यैः पापैः केन्द्रगतैस्तथा । मध्यमायुरयं योगः सौम्यैः केन्द्रविवर्जितैः ॥ सुतदशमे सौम्यैः स्यान्निधने रव्यान्विते व्यये चन्द्रे । गुरुशुक्रावेकगतौ जातस्तत्रैव मध्यायुः॥ पापग्रहे रन्ध्रपतौ सचन्द्रे केन्द्रस्थिते वा यदि वा त्रिकोणे । निरीक्षिते पापखगैर्नभस्यैर्जातस्त्वयस्त्रिंशदुपैति वर्षम् ॥ चन्द्रे कुजर्क्षे तनुगे प्रहृष्टे क्रूरग्रहः शोभनखेचरैन्द्रैः । केन्द्राद्वहिस्थ्यैर्निधनं प्रयाति वर्षेस्त्रयस्त्रिंशसमानकैस्तु ॥ लग्ने शनौ रात्रिकरेण युक्ते भौमे घटस्थे सुरसङ्घ ( ३३ ) वर्षैः ॥ गुरुशुक्रौ च केन्द्रस्थौ लग्नेशे पापसंयुते । आपोक्लिमस्थे सन्ध्यायां जातस्यायू रवित्रयम्(३६) पापमध्यगते सूर्ये लग्नस्थे शत्रु वेश्मनि । जातश्च रोगपीडार्त्तः परमायू रवित्रयम् ( ३६ ) क्रूरान्तरे लग्नगते तदीशे युग्मस्थिते देवगुरौ रिपुस्थे । जातस्तु मृत्युं मुनिवह्नि ३७ वर्षैः प्रयाति शास्त्रज्ञपरैः प्रदिष्टम् ॥ अष्टमपतौ विलग्ने स्थिरराशौ जायते नरो यस्तु । चत्वारिंशद्वर्षैः ( ४० ) मरणं रन्ध्रे न शुभयुक्ते ॥ लग्नेश्वरे रन्ध्रगते सपापे केन्द्राद्वहिस्थे यदि सौम्यखेटे । चत्वारिंशद्वत्सरे ४० मृत्युमेति जातः पुत्रौ नाऽयथा शास्त्रमेतत् ॥ सभूमिजे रन्ध्रपतौ विलग्ने राशौ स्थिरे वा यदि वा धराजै । रिःफेऽष्टमे मृत्युमुपैति जातस्त्वब्दैर्द्विचत्वारि ४२ समानकैर्वा ॥ केन्द्रे गुरौ कर्मणि सूर्यपुत्रे लग्ने चरे वेदयुगैः ४४ समानैः ॥ अष्टमाधिपतौ केन्द्रे भौमे लग्नं समाश्रिते । अर्कार्कजौ त्रिषष्ठस्थौ जीवेद्रुद्रचतुष्टयम् (४४) ॥ स्वोच्चे विलग्ने क्षितिनन्दने च जीवेऽस्तगे कर्मणि सूर्यपुत्रे । जातो धनाढ्यो बहुशास्त्रवेत्ता वेदाब्धि ( ४० ) वर्षेर्निधनं प्रयाति ॥ जन्माधिपे रन्ध्रगते सपापे पापान्विते लग्नपतौ रिपुस्थे । बलान्विते वा शुभदृग्विमुक्ते पञ्चाब्धि ( ४५ ) वर्षेर्निधनं प्रयाति ॥ मेषे शशाङ्के तनुगे सुपूर्णे सौम्येक्षिते भूपतिरत्र जातः । पापग्रहाणां च दशाविहीने नागाब्धि ( ४८ ) वर्षेर्निधनं प्रयाति ॥ वर्गोत्तमांशगे चन्द्रे लग्नस्थे पापवीक्षिते । सौम्यैर्बलविहीनैश्च द्वादशाब्दचतुष्टयम् (४८) ॥ लग्नेशे निधनांशस्थे लग्नांशे निधनेश्वरे । पापयुक्तो तदा जातः पञ्चाशद्वर्षजीवितः ॥ द्विशरीरोदयजाते मन्दे चन्द्रे व्ययेऽष्टमे चाऽपि । जातस्तत्र मनुष्यो जीवेद्वर्षाणि द्विपञ्चाशत् ( ५२ ) ॥ शनैश्चरो लग्नगतः सहायस्त्वन्येन चन्द्रो व्ययमेऽष्टमाः स्युः । वेदान्तविज्ञानसुशीलवृत्तो जातस्तु मृत्युं नयनेषु ५२ वर्षैः ॥ चापे गुरौ लग्नगतेऽष्टमस्थे भौमे सराहौ मुनिबाण ५७ वर्षे । रन्ध्रेश्वरे कामगते शशाङ्के पापान्विते षन्मृतिगेऽष्टबाणै(५८) ॥
अरिष्टाध्यायः ॥ ४ ॥ ११७ शन्यंशे लग्नेशे निधनेशसमन्विते निशानाथे । षष्ठेऽष्टमे व्यये वा जीवे जातोऽष्टपञ्चाशत् (५८) ॥ षष्ठाष्टमव्ययगतैर्महैः समस्तैर्नृपालयोगे च । अस्मिन् योगे जातः परमायुश्चाष्टपञ्चाशत् ॥५८॥ यस्य केन्द्रे पापयुक्ते लग्ने क्रूरविवर्जिते । षष्टिशतं परं नास्ति पापैः पञ्चमसंस्थितैः ॥ लग्नेशे व्ययसंस्थे च क्षीणे पापयुतेऽपि वा । षष्टिवर्षात्परं नास्ति न लग्ने च बृहस्पतिः ॥ लग्नाधीशामृत्युषष्ठव्ययस्थाः पापाः सन्तो नैधनं वर्ज्यसंख्याः । अस्मिन् योगे जायते यो मनुष्यस्तस्यायुः स्यात् षष्टिवर्षं ६० प्रदिष्टम् ॥ सौरे विलग्ने, हिबुके शशाङ्के, कुजे कलत्रे, गगने दिनेशे । कवौज्यसौम्येष्विह तैर्युतेषु नरेश्वरो जीवति वर्षषष्ठ्या ॥ लग्नाधिमाने विबुधारिपूज्ये बुधैज्यचन्द्रैः परिपश्यमाने । जातं नरं भूमिपतिं धनाढ्यं करोति षष्ठ्या सुतमेन्द्रपूज्ये ॥ सिते विलग्ने बुधभास्करात्मजौ चतुष्टयस्थाः परमोच्चखेचराः । तृतीयलाभर्क्षगतास्तु योगे महीपतिः स्यान्निधनं च षष्ठ्या ॥ सरन्ध्रगे देवगुरौ विलग्ने कुम्भे सपापे यदि केन्द्रराशौ । सर्वज्ञानां पुण्यवान् शास्त्रवेत्ता जातस्तु षष्ठ्या ६० निधनं प्रयाति ॥ केन्द्रे सपापे तनुपे व्ययस्थे लग्नेश्वरे रन्ध्रगते हि वह्नौ । लोकान्तरं प्रापयति प्रजातं कुशीलवृत्तं कुलपांसनं तम् ॥ होराजन्माधिपती केन्द्रगतौ मृत्युनाथसंयुक्तौ । लग्नचतुष्टयहीने देवगुरौ पञ्चषष्टि ६५ वर्षान्तम् ॥ चन्द्रे विलग्ने स्वगृहे प्रयाते नीचे शनौ भास्करे सप्तमे च । अस्मिन् योगे मानुषो ज्ञातिमुख्यो जीवेत् षष्टिः पञ्चभिः सम्प्रयुक्ता (६५) ॥ होराजन्माधिनाथौ निधनमुपगतौ मृत्युनाथे च केन्द्रे योगे जातो नरोऽस्मिन् जनयति न परं कीर्तिवित्तान्वितं च । षष्ठ्यां षड्भिर्युतायां (६६) निधनमभिहितं नन्दकोके तदिघ्नम् वर्षे त्रिशोऽथवा स्यात्त्वखिलमिति खगैर्जयते पार्थिवेन्द्रः ॥ जीवे विलग्ने बुधसूर्ययुक्ते मीने शनौ द्वादशे शीतरश्मौ । जातो योगे चार्यवान् मृत्युभाक् च जीवेत् षष्ठ्या षट्सहायो (६६) मनुष्यः ॥ नक्षत्रनाथसहितः सविता नभस्थः सौरिर्विलग्नसहितो हिबुके सुरेज्यः । अस्मिन् योगे जायमानो मनुष्यः क्षोणीपतिनैधनमष्टषष्ठ्या (६८) ॥ अर्ककुजमन्दयुक्ते बलवर्जिते देवराट्पूज्ये । चन्द्रो व्यये सुते वा सप्ततिवर्षाणि (७०) जीवति प्रायः ॥ नीचे मन्दे केन्द्रगे वा त्रिकोणे सौम्ये केन्द्रे भास्करे वा ससौम्ये । योगे जातः पण्डितो धर्मशीलो ज्ञानी प्राज्ञः सप्ततेर्वत्सराणाम् ॥ प्रबले केन्द्रगे सौम्ये निधने सौम्यवर्जिते । लग्नाधिपेन दृष्टश्चेत्यापैर्जीवति सप्ततिम् (७०) ॥ पञ्चमस्थे धरासूनौ नीचे मन्देऽस्तगे रवौ । अस्मिन् जातो मनुष्यस्तु सप्तत्यां ७० निधनं व्रजेत् । इति ॥ ८४ ॥ लग्नेश बलरहित हो और बृहस्पति केन्द्र ( १।४।७।१० ) त्रिकोण ( ५।९ ) में हो, और छठें आठवें बारहवें पापग्रह हों तो मध्यमायु होती है ॥ ८४ ॥
११८ सटीकजातकपारिजाते- बत्तीस वर्षके बाद ७० वर्ष पर्यन्त मध्यमायुका योग होता है। अथ पूर्णायुःप्रदा योगाः। चतुष्टये शुभैर्युक्ते लग्नेशे शुभसंयुते ॥ गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत् ॥ ८५ ॥ केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते ॥ ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ ८६ ॥ उच्चान्वितैस्त्रिभिः खेटैर्लग्न रन्ध्रे शसंयुतैः ॥ रन्ध्रे पापविहीने च दीर्घमायुर्विनिर्दिशेत् ॥ ८७ ॥ रन्ध्रेस्थितैस्त्रिभिः खेटैः स्वोच्चमित्रस्ववर्गगैः ॥ लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ॥ ८८ ॥ स्वोच्चस्थितेन केनापि खेचरेण समन्वितः ॥ शनिर्वा रन्ध्रनाथो वा दीर्घमायुर्विनिर्दिशेत् ॥ ८६ ॥ त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ॥ लग्नेशो बलसंयुक्तः पूर्णमायुर्विनिर्दिशेत् ॥ ६० ॥ षट्सप्तरन्ध्रभावेषु शुभेषु सहितेषु च ॥ त्रिषडायेपु पापेषु दीर्घमायुर्विनिर्दिशेत् ॥ ६१ ॥ रिःफशत्रुगताः पापा लग्नेशो यदि केन्द्रगः ॥ रन्ध्रस्थानगता पापाः कर्मेशः स्वोच्चराशिगः ॥ योगद्वयेऽपि दीर्घायुरुपैति बहुसम्मतम् ॥ ६२ ॥ रन्ध्रे शस्तगृहधीशो यस्मिन् राशौ व्यवस्थितः ॥ तदीशोलग्ननाथश्च केन्द्रगो यदि तादृशम् ॥ ६३ ॥ द्विस्वभावं गते लग्ने तदीशे केन्द्रगेऽपि वा ॥ स्वोच्चमूलत्रिकोणो वा चिरं जीवति भाग्यवान् ॥ ६४ ॥ द्विस्वभावं गते लग्ने लग्नेशात् केन्द्रगौ यदि ॥ द्वौ पापौ यस्य जनने तस्यायुर्दीर्घमादिशेत् ॥ ६५ ॥ चरांशकस्था रविमन्दभौमाः स्थिरांशकस्थौ गुरुदानवेज्यौ ॥ शेषाश्च युग्मांशगता यदि स्युस्तदा समुद्भूतनरः शतायुः ॥ ६६ ॥ अथाधुना येषु योगेषु समुद्भूवा मनुजाः पूर्णमायुष्यं भजन्ति ते योगाः समुच्यन्ते । तत्र सरलार्था अपि श्लोका बालबोधार्थं व्याख्यायन्ते । चतुष्टये=केन्द्रे ( १।४।७।१० ) शुभैः = शुभग्रहैर्युक्तेऽर्थाच्छुभग्रहाः केन्द्रवर्तिनो भवेयुः, लग्नेशे शुभग्रहाणामन्यतमेन संयुक्ते, गुरुणा दृष्टिसंयोगे = बृहस्पतिनावलोकिते लग्नेशे जातस्य पूर्णमायुः ( सप्तत्यूर्ध्वं शतान्तं ) विनिर्दिशेत्(१) ॥ ८५ ॥ विलग्नेशे = जन्मलग्नपतौ केन्द्रान्विते ( १।४।७।१० भावानामन्यतमगते ) गुरुणा शुक्रेण च समन्विते वा ताभ्यां = गुरुशुक्राभ्यां केन्द्रगते लग्नेशे निरीक्षितेऽपि जातस्य पूर्ण- मायुः विनिर्दिशेदिति(२) ॥ ८६ ॥ त्रिभिः शुभैः पापैर्वा खेटैः = ग्रहैः उच्चान्वितैः = स्वस्वोच्चराशिगतैस्तथाभूतैर्लग्नेशेन, रन्ध्रेशेनाष्टमभावपतिना च संयुतैस्तथा रन्ध्रेऽष्टमे भावे पापविहीने = पापग्रहरहितेऽस्मिन् योगे जातस्य दीर्घमायुः विनिर्दिशेदिति(३) ॥ ८७ ॥
अरिष्टाध्यायः ॥ ४ ॥ ११६ त्रिभिः खेटैः (पापैः शुभैर्वा) रन्ध्रस्थितैरष्टमभावगतैः, वा स्वोच्चराशिगतैर्वा स्वमित्राणां वर्गगतैर्वा स्ववर्गंगतैश्च तथा लग्नेशे = जन्मलग्नाधिपतौ बलसंयुक्ते (स्ववर्गादि- गते) जातस्य दीर्घमायुर्विनिर्दिशेदिति (४) ॥ ८८ ॥ यस्य जन्मकाले यत्र तत्र गतः शनिवा रन्ध्रनाथोऽष्टमेशः स्वोच्चस्थितेनात्मोच्चराशि- गतेन केनापि खेचरेण = ग्रहेण समन्वितो भवति तस्य जातस्य दीर्घमायुर्विनिर्दिशेदिति (५) ॥ यस्य जन्मकाले पापाः (रविभौमशनिसपापबुधक्षीणोन्दुराहुकेतवः) त्रिषडाय- (३।६।११) गताः, शुभाः (बुधगुरुशुक्रशुक्लचन्द्राः) केन्द्रत्रिकोण- (१।४।७।१०।५।९) गताः स्युस्तथा लग्नेशो बलसंयुक्तो भवेत्तस्य जातस्य पूर्णमायुर्विनिर्दिशेद
१२० सटीकजातकपारिजाते- युग्मांशगताः = द्विस्वभाव=( ३।६।९।१२ ) राशीनां नवांशगतः स्युस्तदाऽस्मिन् योगे समुद्भूतः = जातो नरः शतायुः = वर्षशतं जीवेदिति (१३) ॥ ६६ ॥ अथ पूर्वोक्तेषु ( १३ भेदेषु ) दीर्घायुर्योगेषु दीर्घायुषः प्रमाणमुच्यते सप्तत्युपरिश- तान्तं पूर्णमायुः = सप्ततिवर्षा-(७०) दूर्ध्वं शतान्तं ( १०० वर्ष ) यावत् पूर्णायुः ( दीर्घायुः ) भवतीति । चतुष्टय ( १।४।७।१० ) भाव शुभग्रहसे युक्त हो लग्नेश शुभग्रहसे युक्त हो और गुरुसे देखा जाता हो तो पूर्ण आयुको देता है ॥ ८५ ॥ केन्द्रस्थ लग्नेश गुरु और शुक्रसे युक्त हो वा गुरु और शुक्र उसे देखते हों तो पूर्णायु को देता है ॥ ८६ ॥ तीन ग्रह उच्चराशिके हों लग्नेश और अष्टमेशसे युक्त हों, तथा अष्टम स्थान पापग्रहसे रहित हो तो पूर्णायुको देता है ॥ ८७ ॥ अष्टमभावमें तीनग्रह हों या अपनी उच्चराशिके मित्रस्थानके वा अपने वर्ग के हों और लग्नेश बलवान् हो तो दीर्घायुको देता है ॥ ८८ ॥ उच्चराशिमें स्थित कोई भी ग्रह हो उससे शनि वा अष्टमेश युक्त हो तो दीर्घ आयुको देता है ॥ ८९ ॥ पापग्रह तृतीय, एकादश, षष्ठ स्थानमें हों शुभग्रह केन्द्र-त्रिकोणमें हों और लग्नेश बली हो तो पूर्णायुको देते हैं ॥ ९० ॥ शुभग्रहसे युक्त षष्ठ, सप्तम और अष्टम भाव हों और तीसरे, ग्यारहवें, छठे पापग्रह हों तो दीर्घायु को करते हैं ॥ ९१ ॥ पापग्रह १२ वें ६ ठें हों और यदि लग्नेश केन्द्रमें बैठा हो, वा अष्टमस्थानमें पापग्रह हों और वृषमेश अपनी उच्चराशिमें हो तो बहुत पंडितों का संमत है कि इन दोनों योगोंसे दीर्घायु होती है ॥ ९२ ॥ अष्टमेश जिस भावमें हो उसका स्वामी जिस राशिमें स्थित हो उस राशिका स्वामी और लग्नेश केन्द्रमें हों तो दीर्घायु होती है ॥ ९३ ॥ जिसका द्विस्वभाव लग्नमें जन्म हो, लग्नेश केन्द्रस्थ हो वा अपनी उच्च राशिका वा मूलत्रिकोणका हो तो वह चिरकाल तक जीये और भाग्यशाली होवे ॥ ९४ ॥ जिसके जन्मसमयमें द्विस्वभाव लग्न हो और लग्नेशसे केन्द्रमें दो पापग्रह हों तो उसकी दीर्घायु होती है ॥ ९५ ॥ सूर्य, शनि और मंगल चरराशिके नवांशमें हों, बृहस्पति और शुक्र स्थिर राशिके नवांशमें हो, और शेष ( चं० बु० रा० के० ) ग्रह द्विस्वभाव राशिमें स्थित हों तो इस योगका उत्पन्न मनुष्य सौ वर्ष तक जीवित रहता है ॥ ९६ ॥ अथ पूर्णायुषः प्रमाणम् । सप्तत्युपरिशतान्तं पूर्णमायुः । सत्तर वर्षके बाद सौ वर्ष पर्यन्त पूर्णायु होती है । अथ योगविशेषात् युगान्तमायुः । मन्दांशकस्था रविजीवभौमा धर्मस्थितास्तन्नवभागसंस्थाः । बलान्विता लग्नगतो हिमांशुर्युगान्तमायुः श्रियमादधाति ॥ ६७ ॥ रविजीवभौमाः=सूर्यवृहस्पतिमङ्गलाः, मन्दस्य=शनैश्वरस्य (१०।११राश्योः) अंशके= नवांशे यत्र तत्र स्थिताः स्युः, वा त एव धर्मस्थिताः = नवमभावगतास्तन्नवभागसंस्थाः = तस्यैव नवमभावराशेर्नवांशे स्थिता एवं बलान्विताश्च भवेयुस्तथा बलान्वितो हिमांशु- श्चन्द्रो लग्नगतो भवेत्तदा जातस्य युगान्तं जातयुगसमानमायुः, श्रियं=सम्पत्तिमादधाति । तथोक्तं होराप्रकाशे—
अरिष्टाध्यायः ॥ ४ ॥ १२१ मन्दांशकस्थौ रविभौमजीवा धर्माश्रिताः कर्मयुताः बलोत्थाः । राश्यावसाने हिमगौ विलगने युगान्तमायुः श्रियमादधाति ॥ इति ॥ सूर्य, गुरु, और भौम शनि के नवांशमें स्थित हों, या नवमभावमें वा उसके नवांशमें बलवान् हों और लग्नमें चन्द्रमा हो तो लक्ष्मीयुत युगान्त आयु होती है ॥ ९७ ॥ अथ मुनित्वप्रदो ग्रहयोगः । एकांशभागौ गुरुसूर्यपुत्रौ धर्मस्थितौ वा यदि कर्मसंस्थौ । अर्कोदये सौम्यनिरीक्ष्यमाणौ मुनिर्भवेदत्र भवश्चिरायुः ॥ ९८ ॥
[कुण्डली १]
- १ (लग्न) : सू.
- २ : शु.
- १२ : बु.
- १० : बृ. ३ शं ३. १०
धर्मस्थितौ=नवमगतौ यदि वा कर्मसंस्थौ= दशमगतौ गुरुशनी एकांशभागौ=तुल्यनवां- शगतौ, सौम्यैः=शुभग्रहैर्निरीक्ष्यमाणौ=दृष्टौ च भवेतां तथा अर्कोदये = सूर्यस्योदयेऽर्का- ङ्गगनस्थः सूर्यो भवेत् तदाऽत्रास्मिन् योगे भवः=जातश्चिरायुर्दीर्घजीवी मुनिः = तपस्वी भवेदिति ॥ ९८ ॥ बृहस्पति और शनि एक ही अंशके होकर धर्म में (९) वा कर्म (१०) में स्थित हों सूर्योदयमें शुभग्रहसे देखे जाते हों तो इस योगमें उत्पन्न होनेवाला चिरायुमुनि (तपस्वी) होता है ॥ ९८ ॥ अथ अमितायुः । गुरुशशिसहिते कुलीरलग्ने शशितनये भृगुजे च केन्द्रयाते । भवरिपुसहजोपगैश्च शेषैरमितमिहायुरनुक्रमाद्दिना स्यात् ॥ ६६ ॥
[कुण्डली २]
- ४ (कर्क - लग्न) : चं. गु.
- ५ : ५
- ६ : र. ६
- ७ : ७ बु. शु.
- ८ : ८
- ९ : ९ रा. मं.
- १० : श.
- ११ : के.
कर्कटो राशिलंग्नं भवेत्तस्मिन् गुरुचन्द्रौ भवेतां, बुधः शुक्रश्च केन्द्रगतौ भवेतां, शेषाः (सूर्य-भौम-शनि-राहु-केतवः) पापाः भव- रिपुसहजेषु (११।६।३) उपगताश्चेद्वेध्रवेयुस्त- देहास्मिन् योगे जातस्यानुक्रमाद्दिना=गणि- तागतं विनैवामितमप्रमाणमायुः स्यादर्थाद- स्मिन् योगे जातस्यायुर्गणना न कार्या, तस्या- सम्भवत्वादिति । उक्तं च सारावल्याम्— “कर्किलग्ने गुरुः सेन्दुः केन्द्रगौ बुधभार्गवौ । शेषैस्त्रिषष्ठलाभस्थैरमितायुर्भवेन्नरः ॥ इति ॥ ९९ ॥ कर्क लग्न हो उसमें बृहस्पति और चन्द्रमा हों, बुध और शुक्र केन्द्रमें बैठे हों, शेष ग्रह (सू० मं० श० रा० के०) ग्यारहवें छठे तीसरे स्थानमें हों तो अमित आयु होती है ॥ ९९ ॥ अथ देवसादृश्यप्रदा ग्रहस्थितिः । त्रिकोणे पापनिर्मुक्ते केन्द्रे सौम्यविवर्जिते । रन्ध्रे पापविहीने च जातस्त्वमरसन्निभः ॥ १०० ॥ शन्यादिभौमपर्यन्तं लग्नादौ खेचराः स्थिताः । वैशेषिकांशसंयुक्ता जातस्त्वमरसन्निभः ॥ १०१ ॥ पापग्रहाः त्रिकोणे ( ५।९ ) न भवेयुः, शुभग्रहाः केन्द्रे ( १।४।७।१० ) न भवेयुः, अष्टमेऽपि भावे पापग्रहरहिते जातोऽमरसन्निभः = देवतुल्यो भवति ॥ १०० ॥
१२२ सटीकजातकपारिजाते- शन्यादिभौमपर्यन्तं = शनिमारभ्य कुजावधिकाः खेचराः = ग्रहा लग्नादौ = लग्नादिभावे स्थितास्तथा सन्तो वैशेषिकांशसंयुक्ताः = दशवर्गे तत्कालविचारेण द्वित्र्यादिस्ववर्गे वर्तमानाः (अ० १ श्लो० ४४-४७) चेद् भवेयुस्तदा जातोऽमरसन्निभः = देवतुल्यो भवेत् ॥ १०१॥ त्रिकोणमें पापग्रह न हों और केन्द्रमें शुभग्रह न हों अष्टमभाव पापग्रहसे रहित हो ऐसे योगमें उत्पन्न जातक देवताके सदृश होता है ॥ १०० ॥ लग्नादि भावोंमें शनिसे लेकर मंगल पर्यन्त ग्रह स्थित होकर अपने २ वैशेषिकांशके हों तो जातक देवता के तुल्य होवे ॥ १०१ ॥ अथ असङ्ख्यायुःप्राप्तिः । मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोगृहमध्यमांशे । सिंहासनांशे यदि वा धराजे जातस्त्वसङ्ख्यातमुपैति मन्त्रैः ॥ १०२ ॥ इदानीमसङ्ख्यायुर्योग उच्यते । मेषान्त्यलग्ने = मेषराशेरन्तिमो भागो लग्नं भवेत्तस्मिन् सगुरौ वा भृगौ = बृहस्पतिर्वा शुक्नो गतो भवति, निशाकरे = चन्द्रे, गोगृहमध्यमांशो = वृषरा- शेर्मध्यमे (५) नवांशे विद्यमाने, तथा धराजे = भौमे सिंहासनांशे = स्वकीयपञ्चवर्गे स्थिते जातस्तु मन्त्रैः = मन्त्रादीनामनुष्ठानैरसङ्ख्यातं = सङ्ख्यारहितमायुरुपैति । उक्तयोगे जातो नरो मान्त्रिको भवति तथा मन्त्रादीनां जपादिवलेनातिदीर्घजीवित्वमाप्नोतीति भावः ॥ १०२ ॥ मेषका अन्त्यलग्न गुरु या शुक्रसे युत हो और चन्द्रमा वृषके मध्य नवांशमें हो मंगल अपने सिंहासनांशमें हो तो जातक मन्त्रबलसे असंख्यायु होवे ॥ १०२ ॥ अथ मुनिसमत्वम् । देवलोकांशके मन्दे भौमे पारावतांशके । सिंहासने गुरौ लग्ने जातो मुनिसमो भवेत् ॥ १०३ ॥ इदानीं मुनित्वप्राप्तियोग उच्यते । यस्य जन्मकाले मन्दो देवलोकांशके = स्वसप्तवर्गे, भौमः पारावतांशके = स्वकीयषड्वर्गे, गुरुः सिंहासने = स्वकीयपञ्चवर्गे लग्ने च भवेत्स जातो मुनिसमो भवेत् ॥ १०३ ॥ शनि देवलोकांशमें हो मंगल पारावतांशमें हो और गुरु सिंहासनांशका लग्नमें हो तो जातक मुनिके सदृश होवे ॥ १०३ ॥ अथ युगान्तमायुः । गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके । त्रिकोणे कर्कटे लग्ने युगान्तं स तु जीवति ॥ १०४ ॥ गुरौ केन्द्रे वर्त्तमाने गोपुरांशे = स्वकीयचतुर्वर्गे च प्राप्ते, शुक्रे त्रिकोणे ( ९।५ ) गते पारावतांशके स्वषड्वर्गे प्राप्ते, कर्कराशौ लग्ने च जातो नरो यः स तु युगान्तं यावज्जीवति ॥ १०४ ॥ गुरु गोपुरांशका होकर केन्द्रमें हो, शुक्र पारावतांशमें त्रिकोणमें हो, कर्क लग्न हो तो वह युगान्त पर्यन्त जीवित रहता है ॥ १०४ ॥ अथ ब्रह्मपदप्राप्तिः । चापांशे कर्कटे लग्ने तस्मिन् देवेन्द्रपूजिते । त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं व्रजेत् ॥ १०५ ॥ लग्ने सेज्ये भृगौ कामे कन्यायामुडुनायके । चापे मेषांशके लग्ने जातो याति परं पदम् ॥ १०६ ॥ यस्य जन्मकाले कर्कराशिलग्नं स्यात्तस्मिन्धनुराशेर्नवांशो भवेत्तथा तत्र बृहस्पतिः स्थितो भवेत् त्रयो वा चत्वारो ग्रहाः केन्द्रे भवेयुः तदा स जातो ब्रह्मपदं = ब्रह्मसायुज्यं
अरिष्टाध्यायः ॥ ४ ॥ १२३ व्रजेत् । अस्मिन् योगे जातो नरो ज्ञानी भवति, तथा ज्ञानाग्निदग्धाखिलपुण्यपापः सन् मोक्षभागभवति ॥ १०५ ॥ तथा च लग्ने गुरुर्भवेत्, सप्तमे भृगुः (शुकः) भवेत्, कन्यायां चन्द्रो भवेत्, धनुराशौ मेषनवांशके लग्नं भवेत्तदाऽस्मिन् योगे जातोऽपि परं पदं=ब्रह्मसायुज्यं याति ॥ १०६ ॥ कर्कलग्न धनुके अंश ( १६ अं० ४० क० के बाद २० अं० तक ) का हो उसपर गुरु हो, तीन या चार ग्रह केन्द्रमें हों तो जातक ब्रह्मपदको प्राप्त करे ॥ १०५ ॥ जिसके जन्म समयमें धनु राशिमें मेषका नवांश याने ८।१६।२०॑ लग्न हो उसमें बृहस्पति हो, ७ वें भावमें शुक्र हो और कन्या राशिमें चन्द्रमा हो वह जातक परमपद याने मोक्ष प्राप्त करता है । (सु. शा. कार) ॥ १०६ ॥ ( २ ) ┌──────┬──────────────┬──────┐ ┌──────┬──────────────┬──────┐ │ ५ │ ल. २०॑ बृ. │ ३ │ │ │ १० │ ८ │ │ ६ │ ४ │ २ │ │ ११ │ ९ वृ. ल. ३ │ │ ├──────┼──────────────┼──────┤ │ │ │ ७ │ │७ शु.र│ मोक्षयोगः १ │ १ चं.│ │ १२ │ │ ६ चं.│ ├──────┼──────────────┼──────┤ │ │ │ │ │ ८ │ │ ११ │ │ १ │ ३ शु. │ ५ │ │ ९ │ १० मं. श. │ १२ │ │ │ २ ४ │ │ └──────┴──────────────┴──────┘ └──────┴──────────────┴──────┘ अथ आयुषः सप्तविधता । बालारिष्टं योगसञ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः । दिव्यं योगाभ्यासमन्त्रक्रियाद्यैरायुः सप्तैतानि सङ्कीर्तितानि ॥ १०७ ॥ इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते बालारिष्टाध्यायः चतुर्थः ॥ ४ ॥ 𑁍𑁍𑁍 अथेदानीमायुषः सप्त भेदा निरूप्यन्ते । प्रथमं बालारिष्टं वर्षाष्टकं यावत् । द्वितीयं योगसञ्जातं विंशतिवर्षं यावत् । तृतीयमल्पमल्पायुरिति द्वात्रिंशद्यावत् । तेषां त्रयाणां भङ्गादतिक्रमणाच्चतुर्थं मध्यममायुः सप्ततिपर्यन्तम् । ततो दीर्घमायुः शतान्तं तत्पञ्चमम् । ततो दिव्यं देवतुल्यमायुस्तत्षष्ठम् । ततोऽप्यूर्ध्वं योगाभ्यासमन्त्रक्रियाद्यैर्जातमसङ्ख्यमा- युस्तत्सप्तममिति सप्त भेदा भवन्त्यायुषः । तेषां पूर्वपूर्वस्य भङ्गाययोत्तरं वर्द्धते । अथा- युषां प्रमाणभेदा ये प्रदर्शितास्ते सत्यपि ग्रहयोगे न भवन्ति सर्वेषामनाचारादिदुष्टक्रिया- निरतानाम् । तथोक्तं चायुःप्रकरणे केशवेन— "स्याद्दिष्टं सुशीलपथ्यसुभुजां न स्यादिदं पापिनाम्" इति ॥ १०७ ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । चतुर्थेऽरिष्टसञ्ज्ञेऽस्मिन्नध्याये पूर्णतां गता ॥४॥ ( १ ) बालारिष्ट ८ वर्ष तक, (२) योगारिष्ट २० वर्ष तक, (३) अल्पायु ३२ वर्ष तक, इनके भङ्गसे (४) मध्यायु ७० वर्ष तक, (५) दीर्घायु १०० वर्ष तक, उसके बाद (६) देवायु उसके अनन्तर ( ७ ) योगाभ्यास, मन्त्रादिके अनुष्ठानादि द्वारा असङ्ख्यायु ये सात प्रकारके आयुके भेद कहे गये हैं। (सु. शा. कार) ॥ १०७ ॥ इति जातकपारिजाते चतुर्थोऽध्याये 'विमला' हिन्दीटीका समाप्ता ॥ 𑁍𑁍𑁍
अथ आयुर्दायाध्यायः ॥ ५ ॥ अथाधुनाऽऽयुर्दायाध्यायो व्याख्यायते । तत्र पूर्वोक्तारिष्टयोगरहितानामेव जनिमता- मायुर्र्दायविचारः कर्त्तव्यः । समुपस्थिते चायुर्विचारे प्राक्तनैः पराशराद्यैर्निर्दिष्टान्यायूष्यत्रोच्यन्ते- निसर्गपिँड्यांशकरश्मिचक्रनक्षत्रदायाष्टकवर्गजानि । पराशराद्यैः कथितानि यानि संगृह्य तानि क्रमशः प्रवच्मि ॥ १ ॥ निसर्गेति । पराशराद्यैर्मुनिभिः कथितानि यानि निसर्ग-पिण्डां-शक-रश्मि-चक्र- नक्षत्र-दायाष्टकवर्गजानि अष्टावायूंषि तानि सङ्गृह्य क्रमशोऽहं प्रवच्मि ॥ १ ॥ पराशर आदि ने जिन निसर्गायु, पिण्डायु, लग्नायु, अंशकायु, रश्मिजायु, चक्रायु, नक्षत्राद्यु, अष्टवर्गजायु को कहा है उन आयुर्दायोंको संग्रह करके क्रमशः कहता हूँ ॥ १ ॥ अथ निसर्गायुषो वर्षसङ्ख्या । नखाः शशी द्वौ नवकं धृतिश्च कृतिः खवाणा रविपूर्वकानाम् । इमा निरुक्ताः क्रमशो ग्रहाणां नैसर्गिके ह्यायुषि वर्षसंख्याः ॥ २ ॥ अथ नैसर्गिके सूर्यादीनां नखाद्या वर्षसङ्ख्या बोद्धव्याः । सूर्यस्य = २० वर्षाणि । चन्द्रस्य = १ व० । मं०=२ व । बु० = ९ । गु० = १८ । शु० = २० । श० = ५० । उक्तञ्च सारावल्याम्— "विंशतिरेकं द्वितयं नव धृतिरिह विंशतिश्च पञ्चाशत् । वर्षाणामपि सङ्ख्याः सूर्यादीनां निसर्गभवाः” ॥ इति । अत्रोक्तानि निसर्गायुर्वर्षाणि ग्रहेषूच्चगतेष्विति । तत्काले च स्थितिवशेन कानिचित् क्षीयन्ते, तेषां स्पष्टीकरणमग्रतो द्रष्टव्यमिति ॥ २ ॥ ग्रहोंकी निसर्ग आयु इस प्रकार है-२० वर्ष सूर्यकी, १ वर्ष चन्द्रमाकी, २ वर्ष मंगलकी, ९ वर्ष बुधकी, १८ वर्ष बृहस्पतिकी, २० वर्ष शुक्रकी और ५० वर्ष शनिकी आयु है ॥ २ ॥ अथ पिण्डायुषो वर्षसंख्या । नवेन्दवो बाणयमाः शरदमा दिवाकराः पञ्चसुवः कुपक्षाः । नखाश्च भास्वत्प्रमुखग्रहाणां पिण्डायुषोऽब्दा निजतुङ्गगानाम् ॥ ३ ॥ इदानीं ग्रहाणां पिण्डायुर्वर्षाण्युच्यन्ते । निजतुङ्गगानां स्वकीयोच्चगतानां भास्वत्प्रमु- खग्रहाणां=सूर्यादीनां नवेन्दादयः पिण्डायुषोऽब्दाः पठितास्ते चानेन द्योत्यन्ते । सूर्यस्य= १९ वर्षाणि । चं ० = २५ व ० । मं ० = १५ व ० । बु ० = १२ व ० । बृ ० = १५ व ० । शु ० २१ व ० । श ० = २० व ० । तथैव सारावल्याम्— एकोनविंशतिर्भानोः शशिनः पञ्चविंशतिः । तिथयः क्षितिपुत्रस्य द्वादशैव बुधस्य तु ॥ गुरोः पञ्चदशाब्दानि शुक्रस्याप्येकविंशतिः । विंशती रविपुत्रस्य पिण्डायुः स्वोच्चसंस्थिते ॥ बृहज्जातकेऽपि— "मययवनमणित्थशक्तिपूर्वैर्दिवसकरादिषु वत्सराः प्रदिष्टाः । नवतिथिविषयाश्विभूतरुद्रैर्दशसहिता दशभिः स्वतुङ्गभेषु” ॥ इति । अत्रोक्तानि वर्षाणि ग्रहाणां स्वस्वपरमायुःप्रमाणानि । एतानि किल वर्षाणि तुङ्गस्थानां ग्रहाणां वर्त्तन्ते । तत्कालस्थितौ स्पष्टीकरणमग्नेद्रष्टव्यम् ॥ ३ ॥ उच्च राशि स्थित सूर्यादि ग्रहोंकी पिण्डायु इस प्रकार है—सूर्यकी १९ वर्ष, चन्द्रमाकी
आयुर्दायाध्यायः ॥५॥ १२५ २५ वर्ष, मंगलकी १५ वर्ष, बुधकी १२ वर्ष, बृहस्पतिकी १९ वर्ष, शुक्रकी २१ वर्ष और शनिकी २० वर्ष आयु है ॥ ३ ॥ अथ पिण्डायुषः स्पष्टीकरणविधिः । निजोच्चशुद्धः खचरो विशोध्यो भमण्डलात् षड्भवनोनकश्चेत् । यथास्थितः षड्भवनाधिकश्चेल्लिप्तीकृतः सङ्गुणितो निजाब्दैः ॥ ४ ॥ तत्र खाभ्ररसचन्द्रलोचनैरुद्धृते सति यदाप्यते फलम् । वर्षमासदिननाडिकादिकं तद्धि पिण्डभवमायुरुच्यते ॥ ५ ॥ स्वोच्चोनस्फुटखेचरं यदि रसाल्पं भचक्रोद्धृतम् लिप्तीकृत्य निजायुरब्दगुणितं तच्चक्रलिप्ताहृतम् । लब्धं वासरनायकादिखचरैर्नीत्तायुरब्दादिकम् नीचादर्द्धक्रमशो वदन्ति मुनयः पैण्ड्ये च नैसर्गिके ॥ ६ ॥ अथायुना आयुषः स्पष्टीकरणमु
२१।४९! Wait, why did the author get 7s 29° 21' 49"? Because 1s was added? Or 11s 14° - 3s 15°? No, maybe the author did 11 - 5 = 6, and forgot to borrow, or something, getting 7? No matter why, the text clearly says: ७।२९।२१।४९। यह अन्तर ६ राशिसे अधिक है ( यदि ६ राशिसे कम होता तो उसे १२ में घटाता ) इसलिये उस अन्तरकी कला बनाई १४३६१ । ४९ । इसे बुधकी पिण्डायु १२ से गुणा किया तो १७२३४१ । ४८ हुआ ।Let's check: 14361' 49" × 12: 14361 × 12 = 172332. 49" × 12 = 588" = 9' 48". 172332 + 9 = 172341' 48"! Look at line :१७२३४१ । ४८ हुआ ।`! PERFECT! That matches down to the exact second!
Now let's divide 172341' 48" by 21600:
172341.8 /
आयुर्दायाध्यायः ॥ ५ ॥ १२७ “भूम्याः पुत्रं वर्जयित्वाऽरिभस्या हन्युः स्वात्स्वादायूषस्ते त्रिभागम्” इति बादरा- यणेन । तथा शुक्रार्कपुत्रौ प्रोज्झ्य = शुक्रशनी वर्जयित्वा, सूर्योच्छिन्नद्युतिषु = सूर्येणोच्छिन्ना कर्त्तिता द्युतिर्येषां तेष्वर्यादस्तमितेषु ग्रहेषु दलमायुषोऽर्द्धं हीयते । अस्तङ्गतावपि शुक्रशनी स्वायुर्नापहरतोऽन्येषामस्तंगतानां तु सिद्धस्य स्वायुषोऽर्द्धं क्षीयते ॥ ७ ॥ अष्टमश्लोकेऽपि पूर्व (७) श्लोकार्थसादृश्यमवलोक्य पुनरुक्ततया न व्याख्यातमिति ॥८॥ उच्च राशिमें ग्रहोंकी जो पूर्णायु कही गई है उसकी आधी नीचमें प्राप्त होने पर नाश होती है याने जो ग्रह नीचमें रहते हैं उनकी आयु आधी होती है। जैसे सूर्यकी आयु रा/९, १०° में २० वर्ष, तथा रा/६, १०° में १० वर्ष । एवं सर्वत्र जानना चाहिये । उच्च और नीच के बीचमें ग्रह हो तो अनुपातसे समझना । जैसे ६ राशिमें, याने १०८०० कलामें आधी आयु घटती है तो इस ग्रह और उच्चके अन्तरमें क्या ? यहां दोनों ओर ग्रह तथा उच्चकी दूरी जानकर अनुपात करे । उससे जो फल मिले उसे पूर्णायुमें घटावे वह उस ग्रहकी स्पष्ट पिण्डायु या निसर्गायु होती है । मङ्गलको छोड़कर शत्रुगृहमें प्राप्त ग्रह अपने आयुका त्रिभाग १/३ नाश करता है । मङ्गल शत्रुगृहमें रहनेपर भी पूर्णायु पाता है । शुक्र और शनि के बिना सभी ग्रह अस्त होनेपर अपनी आयुका आधा नाश करते हैं । शुक्र और शनि अस्त होनेपर भी पूर्णायु पाते हैं । (सु. शा. कार) ॥ ७-८ ॥ अथ व्ययादिहरणम् । सर्वाद्धंत्रिचरणपञ्चषष्ठभागाः क्षीयन्ते व्ययभवनादसत्सु वामम् । सत्स्वर्द्धं हसति तथैकराशिगानामेकोऽशं हरति बली तथाऽऽह सत्यः ॥९॥ एकर्क्षोपगतानां यो भवति बलाधिको विशेषेण । क्षपयति यथोक्तमंशं स एव नान्योऽपि तत्रस्थः ॥ १० ॥ असत्सु = पापग्रहेषु, व्ययभवनात् = द्वादशभावात् , वामं = विपरीतं, व्यवस्थितेषु (व्य- यभावमारभ्य सप्तमपर्यन्तमवस्थिताः पापग्रहाः स्युस्तदा ) स्वायुषः सर्वाद्धंत्रिचरणपञ्चषष्ठ- भागाः क्षीयन्ते । यथा व्यये पापः सर्वमायुरपहरति । एकादशस्थोऽर्द्धमपहरति । दशमस्थ- स्त्रिभागम् । नवमे चतुर्थांशम् । अष्टमे पञ्चमांशम् । सप्तमे षष्ठभागमपहरति ॥ सत्स्वर्द्ध- मिति । तेष्वेव शुभग्रहा विद्यमानास्तदर्द्धमर्थात्पापेषु यन्मितमुक्तं तदर्द्धमपहरन्तीति । तथथा व्यये शुभोऽर्द्धमपहरति । एकादशे चतुर्थांशम् । दशमे षष्ठांशम् । नवमेऽष्टमांशम् । अष्टमे दशमभागम् । सप्तमे द्वादशांशमपहरति । तथैवैकराशिगानामुक्तस्थानेषु यदा द्वयादयो ग्रहा एकस्थानगता भवन्ति तदा तेषां मध्ये बली ग्रह एक एव स्वीयं यथापठितमंशं हरति नान्यो न्यूनबलः कश्चिदिति सत्याचार्य आह । तथा च— “एकक्षोपगतानां यो भवति बलाधिको विशेषेण । क्षपयति यथोक्तमंशं स एव नान्योऽपि तत्रस्थः” ॥ इति । अत्र दशमश्लोकः सत्याचार्यभाषितः पूर्वश्लोकार्थपोषक इति ॥ ९-१० ॥ यदि पापग्रह बारहवें हो तो पुरी आयु घटती है । ग्यारहवें में आधा भाग १० वें में तीसरा भाग, नववेंमें चौथाई, आठवेंमें पंचमांश, सप्तममें छठ्ठा भाग घटता है । और शुभ ग्रह का आधा घटेगा । यथा बारहवेंमें आधा, ग्यारहवें में चौथाई, दशवेंमें छठ्ठा, नववेमें आठवां, आठवेंमें दशवां, और सातवेंमें बारहवां भाग घटता है । यदि एक ही स्थान में दो तीन वा बहुत ग्रह हों तो सब ग्रहोंका भाग नहीं घटता है उनमें जो सबसे अधिक बलवान् हो उसीका एक भाग घटता है याने जिस भावमें पाप वा शुभमें जितना घटता है 10 उतना बलवान् एकही ग्रहका घटेगा । यद्यपि क्षीण चन्द्रमा और पापग्रहसे युक्त बुध क्रूर है
१२८ सटीकजातकपारिजाते- परन्तु स्मरण रखिये कि यहां उनका पापवाला कार्य नहीं है अर्थात् आधा भाग घटेगा पूरा भाग नहीं घटेगा, ऐसा सत्याचार्यने कहा है ॥ ९-१० ॥ अथ क्रूरोदयहरणम् । सार्द्धोदितोदितनवांशहतात्समस्ताद् भागोऽष्टयुक्तशतसंख्य उपैति नाशम् । क्रूरे विलग्नसहिते विधिना त्वनेन सौम्येक्षिते दलमतः प्रलयं प्रयाति ॥ ११ ॥ लिप्तीभूतैर्लग्नभागैर्निहन्यादायूर्दायं खेचराणां पृथक्स्थम् । व्योमाकाशग्विन्दुपक्षैर्भजेत्तत् स्वायुर्दायाच्छोध्यमब्दादि लब्धम् ॥ १२ ॥ एतत् क्रूरे लग्नके सौम्यदृष्टे तस्मिन्पापे तत्फलाद्धं विशोध्यम् । एतद्दायनांशसञ्ज्ञे विधेयं पिण्डायुर्वत् कर्म नैसर्गिके च ॥ १३ ॥ इदानीं लग्नस्थे पापग्रहे हरणमाह । क्रूरे = पापग्रहे विलग्नसहिते = लग्ने विद्यमाने [L
अतः—लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा। भाज्या मण्डललिप्ताभिरिति कल्याणवर्मोक्तमप्युपपद्यते ॥ ११-१३ ॥ अब और संस्कार इसका इस प्रकार है कि—लग्नके जितने नवांश भुक्त हुए हों वे उदित नवांशके नामसे कहे जाते हैं। जिस नवांशमें जन्म है वह जितना भुक्त हुआ हो उसपरसे त्रैराशिक द्वारा जो फल मिले उसको उदित नवांशमें जोड़नेसे सार्द्धोदित उदित नवांश होता है इसकी कला करके लग्नमें यदि पापग्रह हैं तो इष्ट ग्रहकी दशापिंडसे गुणन कर उसमें १०८ का भाग देनेसे जो लब्धि मिले वह उस ग्रहके वर्षादिमें हीन करे यदि उस लग्नस्थित पापग्रहपर शुभग्रह की पूर्ण दृष्टि हो तो उस लब्ध फलका आधा ही घटावे। इस संस्कारमें ऐसा भी अर्थ कोई २ आचार्य करते हैं कि लग्नमें पापग्रह हों तो सार्द्धो- दित उदित नवांशसे सब ग्रहोंके आयुयोगको गुणे फिर उसमें १०८ का भाग देनेसे जो मिले उसे सम्पूर्ण पिंडमें घटावे यदि लग्नमें शुभग्रह हो तो उस लब्धि फलका आधा घटाने से जो बचे वह समस्त ग्रहोंकी दशा होती है। बाद दशाकी गणना से सब ग्रहोंकी दशा वर्षादि लेवे ॥ ११ ॥ लग्नके भुक्त अंशोंकी कला बनाकर उससे ग्रहोंकी अपनी २ आयुको अलग २ गुण दे और २१६०० से भाग दे, जो लब्धि मिले उसे ग्रहोंकी गणितागत आयुमें घटावे, शेष ग्रह की स्पष्टायु होती है। परन्तु यह क्रिया यदि पापग्रह लग्नमें हो तभी करनी चाहिये। यदि उस लग्नस्थित पापग्रहके ऊपर शुभग्रहकी दृष्टि हो तो ऊपर की क्रियासे जो वर्षादि लब्धि मिले उसका आधा ही ग्रहोंकी आयुमें घटाना चाहिये। परन्तु यह प्रकार अंशायुमें नहीं होता। पिण्डायुकी तरह निसर्गायुकी भी प्रक्रिया करनी चाहिये ॥ १२-१३ ॥ अथ लग्नायुःसाधनम्। आयुस्तथैतेषु बलाढ्यलग्ने विहाय राशीन् कृतलिप्तिकेऽत्र । भक्ते द्विशत्या फलमब्दपूर्व यत्स्याद्विलग्नायुषि तच्च योज्यम् ॥ १४ ॥ लग्नराशिसमाश्वाब्दास्तन्मासाद्यनुपाततः । लग्नायुर्द्वायमिच्छन्ति होराशास्त्रविशारदाः ॥ १५ ॥ अथाधुना लग्नायुः साध्यते । आयुस्तथैतेषु = यथा किल ग्रहाणामायुः साध्यते तथा एतेषु पिण्डादिषु लग्नस्याप्यायुः साध्यमिति भावः । तत्र बलाढ्यलग्ने स्वषड्बलेन सहिते लग्ने लग्नस्य राशीन् विहाय भुक्तभागानां कृतलिप्तिके = कलीकृतेऽत्र द्विशत्या भक्त अब्द- पूर्वं वर्षार्थं फलं यत्स्यात् तच्च लग्नायुषि लग्नायुर्दाये योज्यं वाच्यमित्यर्थः । लग्नस्य पिण्डायुर्मानं यथा ग्रहाणामुक्तं तथा नोक्तम् "होरात्वंशप्रतिममपरे राशितुल्यं वदन्तीति" श्रवणात् । अत्र लग्नस्य भुक्तभागाः कलीकृताः शतद्वयेन विभक्ता नवांशा लभ्यन्तेऽतो लग्ने नवांशतुल्यमेवायुर्वर्षार्यामिति होरात्वंशप्रतिमं सङ्गच्छते । अथापरे राशितुल्यं वद- न्तीति द्योत्यते । लग्नेन यावन्तो राशयो मेषादयो भुक्तास्तावन्ति वर्षाणि, तथाऽनुपातत- स्तनमासादिः लग्नायुर्दायो भवति । तत्र मासाद्यर्थमनुपातो यथा यद्यष्टादशशतकलाभिर्द्वा- दशमासास्तदा लग्नस्य भुक्तकलाभिः क इति लब्धं मासादि राशितुल्यवर्षे संयोज्य लग्ना- युर्ज्ञेयम् । अथात्र केशवेन । "स्याल्लिप्ताः खनखोद्धृता विभतनोर्वर्षादि पैण्ड्यत्रिके लग्नायुर्निखिलाँस्तदंशकसमं कैश्चिद्भतुल्यं स्मृतम् । यस्येशोऽधिवलस्तदेन हि परैस्तेनान्त्यमन्येऽदं शायुर्वत् त्वय चांशतुल्यमखिलोकं ग्राह्यमेवादिरुम्" ॥ इत्युक्तत्वाद्ब्रह्मांशतुल्यमेव लग्नस्यायुर्ग्राह्यमिति ममापि मतम् ॥ १४-१५ ॥
' has the top left circle, and the matra is 'ु' (curving left). In line 26, the letter looks like 'म' with a 'ू': "ग्रहमूक्त"! The typesetter definitely made an error: they used 'म' with 'ू' instead of 'भ' with 'ु'! Wait, let me look closer at line 26: could it be 'भ'? No, look at the top horizontal bar: it completely covers the letter from left to right without any break! A 'भ' ALWAYS has a break in the top bar in Devanagari fonts (like in "बहुसाम्यं" right next to it, where 'ब' is followed by 'हु', and in "भदन्तभाषिते" line 30 where both 'भ' have an open top). Here, the bar is completely unbroken! And the letter has a straight left side with a bottom loop, exactly like 'म'. So the typesetter misprinted it as "ग्रहमूक्त"! Wait, could it be "ग्रहभुक्त" with a font where 'भ' sometimes has a full bar? No, all other 'भ' have broken bars. So it's a typo in the print: "ग्रहमूक्तनवांशराशितुल्यं".
Let's check line 27: "सत्योक्ते ग्रहमिष्टं लिप्तीकृत्या शतद्वयेनाप्तम् ।" Wait, is it "लिप्तीकृत्या"
आयुर्दायाध्यायः ॥ ५ ॥ १३१ मध्येऽनुपातः स्यादानयनं शेषमत्र यत्किञ्चित् । पिण्डायुष इव कार्यं तत्सर्वं गणिततत्त्वज्ञैः ॥ इति ॥ अतोऽनेन जीवशर्मणा आयुः स्पष्टीकरणादि सर्वं कर्म तुल्यमेवाकारि केवलं वर्षपाठे विशेषः । परमस्मिन्नायुषि न कस्याप्यभिमतम् । इति । अथ सत्याचार्यमतमुच्यते । ग्रह- भुक्तनवांशराशितुल्यं यत्र तत्र राशौ ग्रहो यस्मिन्नवांशे भवेत्तन्नवांशराशिसङ्ख्यातुल्यानि वर्षाणि तस्य ग्रहस्यायुर्भवति । यथा कुत्रापि राशौ ग्रहो सिंहनवांशे तदा ५ वर्षाणि, मक- रनवांशे १० वर्षाण्येवं सर्वत्र ज्ञेयम् । एतत् सत्याचार्यस्य वाक्यं बहुसाम्यं = बहूनामाचा- र्याणां वाक्येन सादृश्यमुपैति । यथा वचनम्— “आयूंषि राश्यंशकचारयोगात्” इति यवनेश्वरस्य । सत्यवाक्यं बहुसाम्यमुपैतीत्यनेन वराहस्यापि सत्यमत
१३२ सटीकजातकपारिजाते- युता' इति लक्षणलक्षिता भवेत् तदा राशिसमं = लग्नेन यावन्तो राशयो मेषादयो भुक्तास्ता- वन्ति वर्षाण्यायुर्दायं ददाति । तत्रापि मासाद्यं भुक्तांशवशाज्ज्ञेयम् । तथोक्तं बादरायणेन- होरादयोऽप्येवं बलयुक्तान्यानि राशितुल्यानि । वर्षाणि संप्रयच्छन्त्यनुपाताच्चांशकादि फलम् ॥ इति । अत्र = सत्यमतांशायुर्दाये क्रूरोदये सार्द्धोदितोदितेत्यादिना यः अपचयः पूर्वाचार्यमतेन क्रियते स न कार्यः । तथा प्रथमोपदिष्टैः 'नवेन्दवो बाणयमा' इत्यादि पूर्वोत्तरैरेवं 'ग्रहदायं परमायुषः स्वरांशमिति' च तैरायुषः स्पष्टीकरणं न कर्त्तव्यमिति ॥ अथात्रायुर्विषये सत्यमताङ्गीकरणमाह-सत्येति । अत्रास्मन्नायुःसाधनेऽन्या- चार्यापेक्षया सत्योपदेशो वरं = समीचीन इति । किन्तु वरमपि सत्यमतं बहुवर्गणाभिः = स्वतुङ्गवक्रोपगतैस्त्रिसङ्गुणमित्यादिभिरनेकगुणनाभिरयोग्यङ्कुर्वन्ति=विनाशयन्ति । यथा कश्चि- द्व्रहः स्वीय एव षड्वर्गादौ भवेत्तदा तस्य स्वगृहगतत्वादायुर्द्विगुणं कुर्वन्ति । तस्यैव स्वद्रे- ष्काणे गतत्वात्पुनर्द्विगुणमेवं तस्यैव स्वोच्चगतत्वात् त्रिगुणमेवं पुनः पुनर्गुणनाभिरनवस्था भवति । तथा हि- वर्गोत्तमे स्वरांशौ द्रेष्काणे स्वे नवांशके द्विगुणम् । वक्रोच्चगते त्रिगुणं द्विगुणं कार्यं यथासङ्ख्यम् ॥ इत्येवं बहुवर्गणाभिः सत्यमतमयोग्यं कुर्वन्ति । अत एव बहुघ्नतायां = पुनः पुनर्गुणनायां यदेकं भूरि = बहुतरं तदेव कार्यम् । पुनः पुनः द्विगुणे सकृदेव द्विगुणम् । यत्र द्विगुणत्वं त्रिगुणत्वं च प्राप्तं तत्र सकृत्त्रिगुणम् । पुनः पुनस्त्रैगुण्ये सकृदेव त्रिगुणमिति । एतदाचार्यक- माचार्याभिमतमिति । तथाऽऽहाचार्यः स्वल्पजातके वराहः- वर्गोत्तमे दृकाणे स्वनवांशके सकृद् द्विगुणम् । वक्रोच्चयोर्द्विगुणितं द्वित्रिगुणत्वे सकृत् त्रिगुणम् ॥ इति ॥ अत्र यथा बहुघ्नतायामेकैव महती गुणना क्रियते तथैव बहुवारं हानिष्वपि प्राप्तास्वेकवा- रमेवापहानिः प्रकर्त्तव्या । तथा च भगवान् गार्गिः- .........'ततोऽन्यासु बहुष्वपि । प्राप्तास्वेकैव कर्त्तव्या या स्यात्तासु महत्तरा । ततोऽपि गुणना कार्याऽप्येकैव महती सकृत् ॥ इत्याह ॥ १७-२१ ॥ इस अध्यायके तीसरे श्लोकमें सूर्यकी १९ वर्ष, चन्द्रमा की २५ वर्ष इत्यादि क्रमसे ग्रहायु कही है । परन्तु जीवशर्माजीका मत है कि मनुष्योंके परमायु का प्रमाण १२० वर्ष ५ दिन हैं, और सूर्यादि सात ग्रह हैं इन सबकी बराबर आयु उच्चमें १७ वर्ष, १ मास, २२ दिन, ८ घटी, ३४ पल, १७ विपल हैं और नीचमें इसका आधा वर्षादि ८।६।२६।४।१७।८।३० है, बीचमें अनुपातसे कहा है । और कर्म चक्र पातादि पहले ही के प्रकार कहा है । इस बात को केवल जीव शर्माने अपनी युक्तिसे कहा है । इसमें किसी की सम्मति नहीं है । यवनेश्वर सत्याचार्यादिके मतानुसार वराहमिहिरने जो प्रमाण कहा है वही ठीक है । किसी भी राशिमें ग्रह जिस राशिके नवांशमें हों उसके बराबर वर्ष ग्रहायु जाने । जैसे जहाँ तहाँ मेषके नवांशमें होने से १ वर्ष, वृष नवांशमें २ वर्ष, यों वृद्धि क्रमसे मीनके नवांशमें १२ वर्ष ग्रहायु होती है