जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
४६ सटीकजातकपारिजाते- सूर्यका तथा बृहस्पतिका बल ६३, शुक्रका ५३, बुधका ७, चन्द्रमाका ३, शनिका और भौमका ५ बल है। ये षड्बलके पूर्णाङ्क हैं ॥ ४० ॥ अथ ग्रहाणां तात्कालिक-मैत्रीविचारः । अन्योन्यतः सोदरलाभमानपातालवित्तव्ययराशिसंस्थाः ॥ तत्कालमित्राणि खगा भवन्ति तदन्ययाता यदि शत्रवस्ते ॥ ४१ ॥ इदानीं ग्रहाणां तत्काले मित्राणि शत्रवश्च निरूप्यन्ते । अन्योन्यतः=परस्परं यस्माद्ये ग्रहाः सोदरलाभमानपातालवित्तव्ययराशिसंस्थाः=तृतीयैकादश-दशम-चतुर्थ-द्वितीय-द्वादश- भावगता भवन्ति ते तत्काले तस्य मित्राणि भवन्ति । सोऽपि तेषां मित्रं भवति । यदि ते खगाः=ग्रहास्तदन्ययाताः=उक्तेभ्योऽन्यत्र ( प्रथम-पञ्चम-षष्ठ-सप्तमा-ष्टम-नवमभावे ) गताः स्युस्तदा तस्य शत्रवो भवन्ति । सोऽपि तेषां तथा भवति । यथा हि-प्रदर्शितचक्रे सूर्यस्य पूर्वोक्तक्रमेण चन्द्र-बुध-मङ्गल-शनि-गुरु-शुक्रा मित्राणि तेषां सूर्यो मित्रमपि तु सर्व एवान्योन्यं मित्राणि सन्ति । एवमेव ( चं'-मं'-बु'-बृ'-शु'-श' ) एते सूर्यस्य शत्रवस्तेषामपि सूर्यो रिपुरिति । तथोक्तं वराहेण- "अन्योन्यस्य धनव्ययायसहजब्यापारबन्धुस्थिता- स्तत्काले सुहृदः स्वतुङ्गभवनेऽप्येकेऽरयस्त्वन्यथा" ॥ इति ॥ ४१ ॥ ग्रह जिस स्थानमें हो उससे तृतीय, एकादश, दशम, चतुर्थ, द्वितीय, और द्वादश राशिस्थ ग्रह तात्कालिक मित्र होते हैं, और अन्यस्थान (१।५।६।७।८।९) के शत्रु होते हैं ॥ ४१ ॥ [चक्रम्: १ सू. श. | २ गु. | ३ चं. | ४ क्षा. | ५ चं. | ६ म. | ७ बुं. | ८ वृ. | ९ शु. | १० मं. | ११ ड. | १२ बु.] अथ सूर्यादीनां नैसर्गिकाः शत्रुमित्रोदासीनाः । मित्राणि भानोः कुजचन्द्रजीवाः शत्रू सितार्की शशिजः समानः । चन्द्रस्य मित्रे दिननायकज्ञौ समा गुरुक्ष्माजसितासिताः स्युः ॥ ४२ ॥ आरस्य मित्राणि रवीन्दुजीवाश्चान्द्री रिपुः शुक्रशनौ समानौ । सूर्यासुरेज्यौ सुहृदौ बुधस्य समाः शनीज्यावनिजास्त्वरीन्दुः ॥ ४३ ॥ सूर्यारचन्द्राः सुहृदस्तु सूरेः शत्रू सितज्ञौ रविजः समानः । मित्रे शनिज्ञौ भृगुनन्दनस्येन्दिनावरी जीवकुजौ समानौ ॥ ४४ ॥ मन्दस्य सूर्येन्दुकुजाश्च शत्रवः समः सुरेज्यः सुहृदौ सितेंदुजौ ॥ ३ ॥ अत्र नैसर्गिका मित्रसमशत्रवः पठिताः । स्पष्टार्थाश्चैते श्लोकाः ॥ ४२-४४३ ॥ सूर्यके-मंगल, चन्द्रमा और बृहस्पति मित्र हैं। शुक्र और शनि शत्रु हैं। बुध सम है। चन्द्रमाके-सूर्य और बुध मित्र हैं, बृहस्पति, मंगल, शुक्र और शनि सम हैं। मंगलके-सूर्य, चंद्रमा और बृहस्पति मित्र हैं, बुध शत्रु है, शुक्र और शनि सम हैं। बुधके-सूर्य और शुक्र मित्र हैं। शनि, बृहस्पति और मंगल सम हैं। चन्द्रमा शत्रु है। बृहस्पतिके-सूर्य, मङ्गल और चन्द्रमा मित्र हैं। शुक्र और बुध शत्रु हैं। शनि समान है।
ग्रहानामस्वरूपगुणभेदाध्यायः ॥२॥ ४७ शुक्रके-शनि और बुध मित्र हैं। चन्द्र और सूर्य्य शत्रु हैं। बृहस्पति और मङ्गल सम हैं। शनिके-सूर्य्य, चन्द्रमा और मङ्गल शत्रु हैं। बृहस्पति सम है। शुक्र और बुध मित्र हैं। इसको नैसर्गिक मैत्री कहते हैं ॥ ४२-४४ ॥ अथ ग्रहाणां नैसर्गिकमित्रसमशत्रुबोधकचक्रम् ।
| ग्रहाः | शत्रवः | मित्राणि | उदासीनाः |
|---|---|---|---|
| सूर्य्यस्य | शुक्रः, शनिः | मङ्गलः, चन्द्रः, गुरुः | बुधः |
| चन्द्रस्य | ० | रविः, बुधः | गुरुः, मङ्गलः, शुक्रः, शनिः |
| मङ्गलस्य | बुधः | रविः, चन्द्रः, गुरुः | शुक्रः, शनिः |
| बुधस्य | चन्द्रः | सूर्य्यः, शुक्रः | शनिः, गुरुः, मङ्गलः |
| गुरोः | शुक्रः, बुधः | सूर्य्यः, मङ्गलः, चन्द्रः | शनिः |
| शुक्रस्य | सूर्य्यः, चन्द्रः | शनिः, बुधः | गुरुः, मङ्गलः |
| शनेः | सूर्य्यः, चन्द्रः, मङ्गलः | शुक्रः, बुधः | गुरुः |
| अथ पञ्चधा-मैत्रीविचारः । | |||
| तत्कालनैसर्गिकतश्च पञ्चधा पुनः प्रकल्प्यास्त्वतिमित्रशत्रवः ॥ ४५ ॥ | |||
| द्वयोः सुहृत्वं त्वतिमित्रता भवेद् द्विधाऽरयस्ते तु सदाऽतिशत्रवः । | |||
| सुहृत्समत्वं सुहृदेव केवलं रिपुः समारिस्त्वरिमित्रता समः ॥ ४६ ॥ | |||
| इदानीं तात्कालिक नैसर्गिकयोः संमिश्रणात्पञ्चधा मैत्री वर्ण्यते । पुनस्तत्कालनैसर्गिकतश्च= | |||
| तत्काले "अन्योन्यतः सोदरे"त्यादिना या मैत्री कीर्त्तिता तथा नैसर्गिकी "मित्राणि | |||
| भानोरि"त्यादिना या मैत्री वर्णिता ताभ्यां पुनरतिमित्राण्यतिशत्रवश्च प्रकल्प्यास्तदा पञ्चधा | |||
| अतिमित्र-मित्र-सम-अतिशत्रु-शत्रव इति पञ्चप्रकारा मैत्री भवेत् । अथ तात्कालनैसर्गि- | |||
| कतः पञ्चधा मैत्री कथं जायते तदाह । द्वयोः = तात्कालनैसर्गिकयोः सुहृत्वं = मित्रत्वम- | |||
| तिमित्रता भवेत् । यो ग्रहो यस्य तत्कालमित्रं निसर्गमित्रं च स तस्याधिमित्रं भवति । | |||
| द्विधाऽरयः = ये तत्काले निसर्गौ च शत्रुत्वमुपगतास्ते सदाऽतिशत्रवो भवन्ति । सुहृत्सं- | |||
| मत्वं = एकत्र मित्रमन्यत्र समस्तदा केवलं सुहृदेव=मित्रमेव । समारिस्तु=एकत्र समोऽन्य- | |||
| त्रारिस्तदा तु रिपुः=शत्रुः । अरिमित्रता=एकत्रारिरन्यत्र मित्रं तदा समो भवतीति स्पष्टार्थं | |||
| चक्रं विलोक्यम् ॥ ४५-४६ ॥ |
४८ सटीकजातकपारिजाते- ॥ पञ्चधामैत्रीचक्रम् ॥
| नैसर्गिकाः | तात्कालिकाः | ||
|---|---|---|---|
| मित्राणि | समाः | शत्रवः | |
| मित्राणि | अतिमित्रम् | मित्रम् | समाः |
| समाः | मित्रम् | ० | शत्रुः |
| शत्रवः | समः | शत्रुः | अधिशत्रुः |
तात्कालिक मैत्री और नैसर्गिक ( स्वाभाविक ) मैत्रीसे अतिमित्र और अतिशत्रु बढ़ कर पांच प्रकारकी मैत्री होती है। तात्कालिक और नैसर्गिक दोनों जगह मित्र होनेसे वे अतिमित्र होते हैं। दोनों जगह शत्रुता होनेसे अतिशत्रु ग्रह होते हैं। एकमें मित्र दूसरे में सम होनेसे सिर्फ मित्र होते हैं। एकमें सम, और दूसरेमें शत्रु होनेसे केवल शत्रु । एवं एकमें शत्रु और दूसरेमें मित्र होनेसे सम होते हैं। जैसे-इस चक्रमें सूर्यसे तीसरे और चौथेमें, गुरु और मङ्गल सूर्यके तात्कालिक मित्र हैं, तथा नैसर्गिकमें भी मित्र हैं, इस- लिये ये दोनों अतिमित्र हुवे । शुक्र १२ वें होनेसे तत्कालमें मित्र है, तथा निसर्गमें शत्रु है, इसलिये सूर्यका शुक्र सम हुआ । शनि ७ वें होनेसे तत्कालमें शत्रु तथा निसर्गमें भी शत्रु है, इसलिये सूर्यका शनि अतिशत्रु हुआ। बुध २ रे होनेसे तत्कालमें मित्र, एवं नैसर्गिक सम है, इसलिये यह मित्र हुआ । इसी प्रकार अन्यत्र भी जानना चाहिये । ( सु० शा० कार ) ॥ ४५-४६ ॥ अथ ग्रहाणां स्थिरत्वादिनिरूपणम् । रविः स्थिरः शीतकरश्चरः स्यादुग्रः कुजश्चन्द्रसुतस्तु मिश्रः । मृदुः सुरेज्यो भृगुजौ लघुश्च शनिः सुतीक्ष्णः कथितो मुनीन्द्रैः ॥ ४७ ॥ क्रमाच्चरागद्विशरीरभानामुपान्त्यधर्मस्मरगास्तदीशाः । खरेशमान्दिस्थितराशिनाथा ह्यतीव बाधाकरखेचराः स्युः ॥ ४८ ॥ इदानीं ग्रहाणां स्वभावा वर्ण्यन्ते । रविः स्थिरः = स्थिरमतिः । शीतकरश्चन्द्रश्चरश्च- लधीः । कुज उग्रः = क्रूरस्वभावः स्यादिति । चन्द्रसुतः = बुधः मिश्रः = विविधस्वभावः । सुरेज्यः = गुरुर्मृदुः = शीतलमतिः । भृगुजः = शुक्रो लघुर्मन्दप्रकृतिः । शनिः सुतीक्ष्णः = सूक्ष्मस्वभावो मुनीन्द्रैः कथितः । अथ भावानां बाधकग्रहा उच्यन्ते । चरागद्विशरीरभानां = चरस्थिरद्विस्वभावराशीनां ( पूर्वोक्तानां ) क्रमात् उपान्त्यधर्मस्मरगाः = एकादश-नवम-सप्तमस्थानगता ग्रहा वा तेषु ग्रहाभावे तदीशाः = एकादश-नवम-सप्तमस्थानानामधिपाः यदि खरेशमान्दिस्थितराशिनाथाः स्युस्तदा ते तत्तद्भावस्यातीव बाधाकरखेचराः स्युः । अत्रेदं विचिन्त्यम् । यस्य भावस्य विचारः क्रियते स यदि चरराशिस्तदा तस्मादेकादशगतो वा तदीशो ग्रहो यदि खरेशमा- न्दिस्थितराशिनाथः स्यात्तदा तद्भावस्य स ग्रहो बाधको भवति । यदि विचारणीयो राशिः स्थिरस्तदा तस्मान्नवमगतो वा नवमेशः, एवं यदि विचारणीयभावो द्विस्वभावस्तदा तस्मा- त्सप्तमगतः सप्तमेशो वा ग्रहो यदि खरेशमान्दिस्थितराशिनाथः स्यात्तदा असौ ग्रहो विचा-
ग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥ ४९ रणीयभावस्यातीव बाधको भवतीति । अत्र खरो वक्ष्यमाणः 'विलग्नजन्मद्रेष्काणाद्यस्तु द्वाविंशतिः खरः' तदीशः, मान्दिः = गुलिको वा यत्र तिष्ठति तद्राशिपतिरिति खरेशमान्दि- स्थितराशिनाथ इत्यनेनावगन्तव्यः । बाधकग्रहदशायां तत्तद्भावस्य हानिरिति वाच्यम् । अत्रान्येऽपि बाधकग्रहा उक्ताः-सर्वार्थचिन्तामणौ- “तत्तद्भावाद्रन्ध्रपो वा खरेशो द्रेष्काणानां चापि नायोऽर्कपुत्रः । मान्दीशो वा तन्नवांशाधिपो वा तेषां मध्ये यो ग्रहः क्रूरभावः ॥ तत्तद्भावेशस्याधिशत्रुग्रहो वा यो वा खेटो बिन्दुशून्यर्क्षयुक्तः । तत्तत्पाके मूर्त्तिभावादिकानां नाशं ब्रूयाद् दैववित्प्राभिकश्च" इति ॥ ४७-४८ ॥ सूर्य स्थिरबुद्धि, चन्द्रमा चञ्चल, मङ्गल क्रूरमति, बुध मिश्रस्वभाव, गुरु कोमलमति, शुक्र लघुबुद्धि और शनि तीक्ष्ण प्रकृति है, ऐसा पण्डितोंने कहा है। चर, स्थिर और द्विस्वभाव राशिसे क्रमसे ११, ९, ७ इन स्थानोंमें रहने वाले ग्रह या उनके स्वामी यदि खरेश या गुलिकस्थित राशिका स्वामी हों तो वे उन भावोंके बाधक होते हैं। (सु० ज्ञा० कार) ॥ ४७-४८ ॥ अथ सूर्यादिभ्यः फलविशेषचिन्ता । सूर्यादात्मपितृप्रभाव्निरुजाशक्तिश्रियश्चिन्तयेत् चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः ॥ सत्त्वं रोगगुणानुजावनिसुतज्ञातीन्धरासूनुना विद्याबन्धुविवेकमातुलसुहृत्त्वक्कर्मकृद्बोधनः ॥ ४९ ॥ प्रज्ञानित्यशरीरपुष्टितनयज्ञानानि वागीश्वरात् पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः ॥ आयुर्जीवनमृत्युकारणविपत्सम्पत्प्रदाता शनिः सर्पेणैव पितामहं तु शिखिना मातामहं चिन्तयेत् ॥ ५० ॥ इदानीं कस्माद्ग्रहात्किं विचारणीयमित्युच्यते । आत्मनः = स्वशरीरस्य, पितुर्जनकस्य, प्रभावः = पराक्रमस्तस्य, नैरूज्यं = आरोग्यं तस्य, आशक्तिर्वस्त्वविच्छेदस्तस्य, श्रियः = सम्पदस्तासां सूर्याद्विचारः कर्त्तव्यः । चेतः = मनः, बुद्धिः = क्षमता ( व्यावहारिकं ज्ञानमिति ) नृपाणां प्रसादः = प्रसन्नता, जननी = माता, सम्पदैश्वर्यमित्येतेषां करः = कर्त्ता चन्द्रमाः । एषां विचारश्चन्द्रतः कर्त्तव्यः । सत्त्वं = शौर्य्यम्, रोगः, गुणाः, अनुजाः=भ्रातरो भगिन्यश्च, अवनिः = भूः, सुताः = पुत्राः, पुंस्त्वञ्च, ज्ञातयो दायादा एतान्धरासूनुना = मङ्गलेन चिन्तयेत् । विद्यायाः, बन्धूनां, विवेकस्य, मातुलः = जननीसहोदरस्तस्य, सुहृदो मित्राणि तेषाम्, त्वचः, कर्म्म = कर्त्तव्यं तस्य चैतेषां कृत्कर्त्ता बोधनः = बुधो भवति । एषां विचारो बुधात् कर्त्तव्यः । प्रज्ञा = बुद्धिः, नित्यशरीरपुष्टिः = स्वास्थ्यम्, तनयाः = आत्मजाः, ज्ञाना- न्यध्यात्मकानि तानि वागीशात् = बृहस्पतेश्चिन्तयेत् । पत्नी = स्त्री, वाहनानि=गजाश्वादयः, भूषणान्यलङ्करणानि, मदनः = कामः, व्यापारः=वाणिज्यं, सौख्यञ्चैतानि भृगोः=शुक्राच्चिन्त- नीयानि । आयुः, जीवनम् ( जीविका ), मृत्युकारणम्, विपत् ( दुःखम् ), सम्पत् ( सुखम् ) एतेषां प्रदाता शनिः । शनेरेषां विचारः कर्तव्यः । पितामहः=पितुः पिता तं सर्पेण = राहुणा चिन्तयेदर्थात्पितामहस्य विचारो राहुणा सहावेद्यते । मातामहं=मातुर्जनकं शिखिना=केतुना चिन्तयेत् । केतोः सकाशान्मातामहस्य विचारो विधेय इति । निर्द्दिष्टानां भावानामुपग्रहाः कारकत्वेन गृह्यन्तेऽतस्तेषां शुभाशुभबलाद्भावानामपि शुभाशुभं वाच्यमिति फलितम् ॥ ४९-५० ॥ ५ जा०
" or "वचनपद्धतवस्तुरअमसौलभ्यं"? Yes, "भ्यं"!
Now let's check line 35-36: (६) सङ्गीतसाहित्यकलाकलापप्रह्लादकान्तारतिगीतवाद्यम् । कलत्रसौन्दर्यविनोदविद्याबलानि वीर्याणि कवेः सकाशात् ॥ ६ ॥ Wait, let's check line 35: सङ्गीतसाहित्यकलाकलापप्रह्लादकान्तारतिगीतवाद्यम् । Wait, is it "प्रह्लाद" or "प्रह्राद"? Look at L35: प्र - ह् - ल - ा - द = "प्रह्लाद" (ह् with ल subjoined: ह्ला). कान्ता (wife) - रति (pleasure) - गीत - वाद्यम् । कलत्र - सौन्दर्य - विनोद - विद्या - बलानि वीर्याणि कवेः सकाशात् ॥ ६ ॥
Now let's check line 37-38: (७) लोभमोहविषयानिलपीडा दुर्गतित्वपरवञ्चनशक्तिः । मन्दतो निधनयोगविचारो जीवनं च खलु जीवनवृत्तिः ॥ ७ ॥
Let's double-check all lines carefully from the top:
Line : (१)
ग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥ ५१ अथ ग्रहाणां स्थानविशेषे शुभाशुभप्रवृत्ता । कामावनीनन्दनराशियाताः सितेन्दुपुत्रामरवन्द्यमानाः । अरिष्टदास्तेऽखिलजातकेषु सदाऽष्टमस्थः शनिरिष्टदः स्यात् ॥ ५२ ॥ इदानीं स्थानपरत्वेन केचिदरिष्टदा ग्रहा उच्यन्ते । सितेन्दुपुत्रामरवन्द्यमानाः = शुक्र- बुध-बृहस्पतयः कामावनीनन्दनराशियाताः = सप्तम-चतुर्थ-पञ्चमभावेषु स्थिता भवन्ति चेत्तदा ते अखिलजातकेषु = सकलेषु जातकेषु अरिष्टदाः कथिताः । अत्र शुक्रः सप्तमस्थो बुधश्चतुर्थस्थो बृहस्पतिः पञ्चमस्थोऽरिष्टदो भवतीति बोद्धव्यम् । शनिरष्टमस्थः सदेष्टदः स्यात् । अष्टमभावस्थितः शनिः शुभकरो भवति । एतद्विषये मन्त्रेश्वरः फलदीपिकायां स्वमतमुपन्यस्तवांस्तद्यथा— धर्मे सूर्यः शीतगुर्बन्धुभावे शौर्ये भौमः पञ्चमे देवमन्त्री । कामे शुक्रश्चाष्टमे भानुपुत्रः कुर्यात्तस्य क्लेशमित्याहुरन्ये ॥ इति ॥ Notes—कामावनीनन्दनराशिगतानां शुक्रबुधगुरूणां भावजं फलं शुभंतथाष्टमस्थस्य शनेर्भावफलमशुभमेव भवतीत्यपि चिन्त्यम् ॥ ५२ ॥ शुक्र, बुध और बृहस्पति क्रमसे सातवें, चौथे और पाँचवें भावमें प्राप्त हों तो प्रत्येक जातक में अरिष्टकारक होते हैं। शनि अष्टम भावमें होने पर सर्वदा मनोरथ पूरा करता है ॥ अथ सूर्यादीनां स्वरूपाणि । प्रतापशाली चतुरस्रदेहः श्यामारुणाङ्गो मधुपिङ्गलाक्षः । पित्तात्मकः स्वल्पकचाभिरामो दिवाकरः सत्त्वगुणप्रधानः ॥ ५३ ॥ सञ्चारशीलो मृदुवाग्विवेकी शुभेक्षणश्चारुतरस्थिराङ्गः ॥ सदैव धीमांस्तनुवृत्तकायः कफानिलात्मा च सुधाकरः स्यात् ॥ ५४ ॥ क्रूरेक्षणस्तरुणमूर्त्तिरुदारशीलः पित्तात्मकः सुचपलः कृशमध्यदेशः । संरक्तगौररुचिरावयवः प्रतापी कामी तमोगुणरतस्तु धराकुमारः ॥ ५५ ॥ दूर्वादलद्युतितनुः स्फुटवाक् कृशाङ्गः स्वामी रजोगुणवतामतिहास्यलोलः । हानिप्रियो विपुलपित्तकफानिलात्मा सद्यः प्रतापविभवः शशजश्च विद्वान् ॥५६॥ बृहदुदरशरीरः पीतवर्णः कफात्मा सकलगुणसमेतः सर्वशास्त्राधिकारी । कपिलरुचिकचाक्षः सात्त्विकोऽतीव धीमान्, अलघुनृपतिचिह्नः श्रीधरो देवमन्त्री॥ असितकुटिलकेशः श्याम सौन्दर्यशाली समततरुचिराङ्गः सौम्यदृक् कामशीलः । अतिपवनकफात्मा राजसः श्रीनिधानः सुखबलसुगुणानामाकरश्चासुरेज्यः ॥ ५८ ॥ काठिन्यरोमावयवः कृशात्मा दूर्वासिताङ्गः कफमारुतात्मा । पीनद्विजश्चारुपिङ्गदृष्टिः सौरिस्तमो बुद्धिरतोऽलसः स्यात् ॥ ५६ ॥ इदानीं ग्रहाणां स्वरूपाण्युच्यन्ते । सूर्यः—चतुरस्रदेहः = चतुष्कोणशरीरो यावद्दीर्घस्ताव- द्वेव विस्तर इति । अन्यत्स्पष्टम् । चन्द्रः—सञ्चारशीलः = चञ्चलः, तनुवृत्तकायः = लघुगोलाकारशरीरः । अन्यत्स्पष्टम् । कुजः—क्रूरेक्षणः = पापहक्, तरुणमूर्त्तिर्युवाशरीरः । अन्यत्स्पष्टम् । बुधः—दूर्वादलद्युतितनुः = दूर्वादलसदृशहरितवर्णशरीरः । हानिप्रियः = हानिरेव प्रिया यस्य सः = नष्टप्रियः । अन्यत्स्पष्टम् । गुरुः—बृहदुदरशरीरः = बृहद्दीर्घमुदरं शरीरं च यस्य तथा । कपिलरुचिकचाक्षः = कपिला रुचिः, कपिलाः कचाः = केशाः, कपिले अक्षिणी = नेत्रे च यस्य तथा । ईषत्पिङ्गलका- न्तिवेशचक्षुष्मान् । अलघुनृपतिचिह्नः = महाराज लक्षणयुक्तः । अन्यत्स्पष्टम् ।
५२ सटीकजातकपारिजाते- शुक्रः—समततरुचिराङ्गः = समततं = तुल्यदैर्घ्यविस्तारं, रुचिरं=मनोज्ञशङ्गं यस्येति । अन्यत्स्पष्टम् । शनिः—काठिन्यरोमावयवः = कठिनलोमवान् कठिनावयववांश्च । पीनद्विजः = स्थूल- दन्तः । अन्यत्सुगमम् । तमः=राहुः—बुद्धिरतः = बुद्धिशीलोऽलसः = दीर्घसूत्री चेति । प्रयोजनञ्च—जन्मनि बलीयान् ग्रह आत्मानुरूपं जातकं करोति ॥ ५३-५९ ॥ सूर्य—प्रतापशाली, चतुरस्र, श्यामयुक्तलाल अङ्गवाला, मधुके सदृश पीले नेत्रवाला, पित्तप्रकृति, थोड़े बालसे सुन्दर और सत्त्वगुण-प्रधान है ॥ ५३ ॥ चन्द्रमा—संचारशील, मृदुवाणीवाला, विवेकी, शुभदृष्टिवाला, रमणीय स्थिर अङ्गवाला, सदा बुद्धिमान्, गोलशरीरवाला, कफ और वात प्रकृतिवाला है ॥ ५४ ॥ मङ्गल-पापदृष्टि, युवाशरीर, उदारशील, पित्त प्रकृतिवाला, चञ्चल, पतली कमर, लालसे युक्त गौर रुचिर अङ्ग, प्रतापी, कामी और तमो गुणी है ॥ ५५ ॥ बुध—दूर्वाके सदृश हरितवर्ण शरीरवाला, स्पष्ट वक्ता, पतला शरीर, रजो गुणवाले का स्वामी, हास्यमें अत्यन्त प्रिय, हानिके प्रिय, सुन्दर शरीर, पित्त-कफ और वातप्रकृतिवाला, सद्यः प्रताप विभवशाली और विद्वान् है ॥ ५६ ॥ बृहस्पति—लम्बा पेट और शरीरवाला, पीतवर्ण, कफप्रकृतिवाला, समस्त गुणोंसे युक्त, सब शास्त्रके अधिकारी, कपिल रङ्गके बाल तथा नेत्रवाला, सात्त्विक, अत्यन्त बुद्धिमान्, बड़े राजचिह्नोंसे सम्पन्न, और लक्ष्मीको धारण करनेवाला है ॥ ५७ ॥ शुक्र—काले और टेढ़े बालवाला, श्यामवर्ण, सुन्दरतायुक्त, समरुचिर अङ्गवाला, शुभ- दृष्टि, कामी, विशेष वात-कफ प्रकृतिवाला, राजसस्वभाव, लक्ष्मीका स्थान, सुख, बड़ों और गुणों का समूह है ॥ ५८ ॥ कठिन रोमावलीवाला, कृशाङ्ग, दूर्वाके सदृश श्यामवर्ण, कफ और वात प्रकृतिवाला, मोटे दांत, सुन्दर पीले आँखवाला, तामस बुद्धि और आलसी है ॥ ५९ ॥ इतरयोगे ग्रहाणां वृद्धिमत्ता । अर्केण मन्दः, शनिना महीसुतः, कुजेन जीवो गुरुणा निशाकरः ॥ सोमेन शुक्रोऽसुरमन्त्रिणा बुधो बुधेन चन्द्रः खलु वर्द्धते सदा ॥ ६० ॥ इदानीं ग्रहाणां द्वयर्योगे वृद्धिमत्तोच्यन्ते । अर्केण = सूर्येण सह मन्दः = शनिः सदा वर्द्धते । सूर्यशन्योर्योगे शनेरस्तदोषो न भवति किन्तु तदानीं शनिर्बलीयान् भवति ! एवं शनिना सह महीसुतः = मङ्गलो वर्द्धते । शेषं स्पष्टमिति ॥ ६० ॥ सूर्यसे शनि, शनिसे मंगल, मङ्गलसे बृहस्पति, बृहस्पतिसे, चन्द्रमा, चन्द्रमासे शुक्र, शुक्रसे बुध, बुधसे चन्द्रमा सदा बढ़ते हैं । अर्थात् सूर्यके साथ शनिका बल बढ़ता है । शनि के साथ मङ्गलका बल बढ़ता है। एवं मङ्गलके साथ गुरुका, गुरुके द्वारा चन्द्रमाका, चन्द्रमा के द्वारा शुक्रका शुक्रके द्वारा बुधका और बुधके द्वारा चन्द्रमाका बल बढ़ता है ॥ ६० ॥ अथ ग्रहाणां स्थानबलविशेषः । स्त्रोच्चस्वकीयभवनस्वदृगाणहोरावांशांकोद्गयनेषु दिनस्य मध्ये । राशिप्रवेशसमये सुहृदंशकादौ मेपूरणे दिनमणिर्बलवान्जलम् ॥ ६१ ॥ चन्द्रः कर्कणि गोपतौ निजदिनद्रेक्काणहोरांशके राश्यन्ते शुभवीक्षणे निशि सुखे याम्यायने वीर्यवान् ॥ इन्दुः सर्वकलाधरो यदि बली सर्वत्र सन्धि विना सर्वव्योमचरैरचित्तस्तु कुरुते भूपालयोगं नृणाम् ॥ ६२ ॥
: it goes down-right and curves in, exactly like क्र. But wait, does it have a loop like न? No, the loop in न in this font is square-ish. This is definitely क्र! Wait, why did I think क्न? Because the diagonal stroke across क touches the bottom loop. It's 'क्र': "शुक्रोऽरुणस्य".
Line 10: मन्दस्तुलामकरकुम्भगृहे कलत्रे याम्यायने निजदृगाणदिने दशायाम् ।
Line 11: अन्ते गृहस्य समरे यदि कृष्णपक्षे वक्रः समस्तभवनेषु बलाधिकः स्यात् ॥ ६७ ॥
Line 12: मेपालिकुम्भतरुणीवृषकर्कटेपु मेषूरणे च बलवानुरगाधिपः स्यात् ॥ Wait, look at 'मेपालि...' vs 'मेषालि...'. Look at the letter: Is it 'षा' or 'पा'? It is clearly 'पा' with no cross-bar, and 'कर्कटेपु' has 'पु' with no cross-bar. Wait, let's look really closely at 'कर्कटेपु': Is there really no crossbar? In 'कर्कटेपु', it is identical to 'पु'. And in 'मेपालि', it is identical to 'पा'. Let's print what is there: "मेपालिकुम्भतरुणीवृषकर्कटेपु" or "मेषालिक
५४ सटीकजातकापारिजाते- शुक्रः—स्वोच्चे ( मीने ), स्ववर्गे, स्ववारे ( शुकदिने ), राशिमध्ये, लग्नात् ६।१२। ३।४ भावेषु, अपराह्णे = दिनस्य तृतीयत्र्यंशे, तथा ग्रहयुद्धे, चन्द्रसंयुक्ते, वक्रगतौ च सूर्य- स्याग्रतो विद्यमानो यदि भवेत्तदा शोभनः स्यात् । मन्दः = शनिः—तुला-(स्वोच्च-) मकर-कुम्भ (स्वगृह-) राशिषु, लग्नात् सप्तमे भावे ( स्वदिशि ), याम्यायने ( कर्कादिशट्के ), स्वद्रेष्काणे, स्वदिने (शनिवारे ) स्वदशायाम्, समरे = ग्रहयुद्धे राश्यन्ते, तथा यदि कृष्णपक्षे वक्रो भवेत्तदा समस्तभवने- षु = सकलराशिषु बलाधिकः स्यात् । उरगाधिपः = राहुः-मेष-वृश्चिक-कुम्भ-कन्या-वृष-कर्कराशिषु, लग्नाद्दशमे भावे च बलवान् भवति । शिखी = केतुः—कन्या-मीन वृष-धनुराशीषु, रात्रौ, उत्पातकेतुजनने च बली स्यात् । उत्पातकेत्वोर्लक्षणमुक्तं वराहेण— “यः प्रकृतिविपर्यासः प्रायः संक्षेपतः स उत्पातः क्षिति गगनदिव्यजातो यथोत्तरं गुरुतरो भवति” । उत्पातः । “पौर्णिमास्यां तु यदृक्षं तस्मात्पञ्चदशो रविः । रवेर्द्वादशगः केतुः” इति केतुः । अथोक्तेषु ग्रहाणां बलेषु वैशिष्ट्यमाह-ये ग्रहाः प्रोक्तप्रकारबलान्विताः = कथितप्रका- रबलयुक्तास्ते यदि मूलं गताः = भावानामादिगताः स्युस्तदा ते ग्रहा विबलाः = बलहीना भवन्ति । भावादौ स्थिता ग्रहा विबला भवन्ति, तत्र तत्तद्भावस्य निरंशत्वादित्यर्थः । अतस्तेषां ग्रहाणां भावेषु योगेषु दशाफलेषु चोक्तानि फलानि सम्यक् न सन्तीति वाच्यम् ॥ सूर्य-अपने उच्च-राशि, द्रेष्काण, होरा, रविवार, नवांशमें, उत्तरायणमें, दोपहर दिनमें, राशिके आदिमें, मित्रके नवांशादिमें और लग्नसे १० वें भावमें हमेशा बलवान् होता है ॥६१॥ चन्द्रमा—कर्क राशिमें, वृष राशिमें, अपने दिन-द्रेष्काण-होरा-नवांशमें, राशिके अन्तमें शुभ ग्रहोंसे देखे जानेपर, रात्रिमें, चौथे भावमें, दक्षिणायनमें, बली होता है। ऋक्षसन्धिका छोड़ कर हर जगह पूर्ण-बिम्ब और बली चन्द्रमा यदि प्रत्येक ग्रहोंसे देखा जाता हो तो वह चन्द्रमा मनुष्यों का राजयोग करता है । अर्थात् इस योग में जन्म लेने वाला राजा होता है ॥ ६२ ॥ मङ्गल-अपने वारमें, नवमांसमें द्रेष्काण-वर्गमें, मीन-वृश्चिक-कुम्भ-मकर और मेष राशिकी रात्रिमें, वक्रतापर, दक्षिण दिशामें राशिके आदिमें बली है और दशम भावमें कर्क में रहने पर भी सुख देता है ॥ ६३ ॥ बुध-कन्या और मिथुन राशियोंमें, अपने दिनमें, अपने वर्गमें, धनु राशिमें, रविवारके अतिरिक्त दिनरात (सर्वदा) और उत्तरायणमें, बली होता है । यदि राशिके मध्यका होकर लग्नमें प्राप्त हो तो सदा यश और बलकी वृद्धि करता है ॥ ६४ ॥ बृहस्पति-मीन-वृश्चिक-धन और कर्क राशिमें प्राप्त होने पर, अपने वर्ग और वारमें, मध्य दिनमें, उत्तरायणमें, राशिके मध्यमें, कुम्भमें, बली होता है । नीचमें भी यदि लग्न, चतुर्थ और दशम भावमें प्राप्त हो तो बहुत धन देता है ॥ ६५ ॥ शुक्र-उच्चराशि (मीन), अपने वर्ग तथा वारमें, राशिके मध्यमें, षष्ठ-द्वादश-तृतीय और चतुर्थ स्थानमें अपराह्नमें, युद्धके समय, चन्द्रमाके साथ रहने पर और वक्री होनेपर यदि सूर्यके आगे रहे तो शुभ (बली) है ॥ ६६ ॥ शनि-तुला-मकर-और कुम्भ गृहमें, सप्तम भावमें, दक्षिणायनमें, अपने द्रेष्काण तथा अपने दिन (शनिवार) में, दशामें, राशिके अन्त्यमें संग्राममें, बली है और यदि कृष्णपक्ष में वक्री हो तो समस्त राशिमें बलवान् होता है ॥ ६७ ॥ राहु - मेष, वृश्चिक, कुम्भ, कन्या, वृष और कर्क राशि में, दशम स्थानमें बलवान् है । केतु-मीन-वृष तथा धनुमें, रात्रिमें, उत्पातमें, केतु-उदयमें बली है ॥ ६८ ॥
ग्रहनामस्वरूपगुणभेदाध्यायः ॥२॥ ५५ कहे हुए प्रकार से प्रबल ग्रह हैं वे भावके ऊर्ध्वमें प्राप्त होनेपर विफल होते हैं। अतएव भावमें योगलें दशाफलमें उनके सब फल प्राप्त नहीं होते ॥ ६९ ॥ अथ ग्रहाणामधोमुखत्वादि । अधोमुखा दिनेशस्य पूर्वषट्कस्थिता ग्रहाः । ऽपरार्द्धस्थिताः भानोरूर्ध्वास्याः सुखवित्तदाः ॥ ७० ॥ भानामवस्थानगताः क्रमेण मन्दार्यभौमार्कसितज्ञचन्द्राः ॥ तेषामधःस्थानगतो बलीयान् राहुर्महीमण्डलमुर्ध्नि संस्थः ॥ ७१ ॥ इदानीं ग्रहाणामूर्ध्वाधोमुखत्वनिरूपणपूर्वकस्थितिक्रमो निरूप्यते । दिनेशस्य = सूर्यस्य पूर्वषट्क् स्थिताः = प्रथमचक्रार्द्धे वर्त्तमाना ग्रहा अधोमुखा एवं भानोरपरार्द्धस्थिताः = सूर्यस्य द्वितीये चक्रार्द्धे वर्त्तमाना ग्रहा ऊर्ध्वास्याः = ऊर्ध्वमुखा भवन्तीति । अत्रैदमवधेयम्—सूर्यो यत्र भव
५६ सटीकजातकपारिजाते- अथ दोषापहरणम् । राहुदोषम्बुधो हन्यादुभयोस्तु शनैश्चरः । त्रयाणां भूमिजो हन्ति चतुर्णां दानवार्चितः ॥ ७३ ॥ पञ्चानां देवमन्त्री च षण्णां दोषं तु चन्द्रमाः । सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे ॥ ७४ ॥ इदानीं दोषापहर्त्तार उच्यन्ते । राहुदोषं = राहोर्दुःस्थानादिजनितदोषं बुधो हन्यान्ना- शयतीति । कस्यचिज्जन्मकाले राहुश्चेद्दशुभस्तत्र यदि बुधो वलीयान् भवति तदाऽसौ राहुकृतं दोषं प्रशमयेदित्यर्थः । एवमेव सर्वत्रोह्यम् । उभयोस्तु = बुधराहोर्दोषं तु शनै- श्चरो हन्यात् । त्रयाणां = राहु-बुध-शनीनां दोषं भूमिजः=मङ्गलो हन्यात् । चतुर्णां= मङ्गल-बुध-शनि-राहूणां दोषं दानवार्चितः=शु
धरासुतः = मङ्गलः - पीनबीज-कफ-शस्त्र-पावक-ग्रन्थिरुक्-व्रण-दारिद्र्योद्भूतै रो- गैस्तथा वीराः = शूराः, शैवगणाः = कपालिनः, भैरवाः = भूतादयस्तैः आशु = शीघ्रमेव भीतिं = भयं कुरुते ॥ ७७ ॥ शशिजः = बुधः-गुह्यरोगेण, उदररोगेण, अदृश्य-( रहस्यदेश-) रोगेण, वायुरो- गेण, कुष्ठरोगेण, मन्दाग्निना, शूलरोगेण, संग्रहणीरोगेण च तथा बुधादयः = मनीषिणः, वि- ष्णुप्रियदासाः = वैष्णवास्तपस्विनः, भूताः = प्रेतास्तैरतीव दुःखं कारयति ॥ ७८ ॥ इन्द्रगुरुर्बृहस्पतिः - आचार्यः = गुरुः, देवः, गुरुः = श्रेष्ठजनः, भूसुराः = ब्राह्मणा- स्तेषां शापदोषैः = दुर्वाक्यदोषैः शोकं, तथा गुल्मरोगं च करोति । आसुरेज्यः = शुक्रः - स्त्रीविकृतिजनितप्रमेहरोगे
गोगभयशो- Wait, "सर्वे नरा गोगभयशो-" or "सर्वे नराः"? In L11: "सर्वे नरा" (no visarga, or faint? Looks like "सर्वे नरा"). L12: कविमुक्तचित्ताः = रोगाणां भयजनितो यः शोकस्तस्माद्विमुक्तं चित्तमन्तःकरणं येषां ते तथा L13: सन्तः सुखयशोबलशालिनः स्युः । अरिष्टग्रहं विधिना सम्पूज्य विमुक्तरोगः शीघ्रमेव L14: सुखमेधन्त इत्यर्थः ॥८३॥ L15: जिस धातुके कोपसे रोग होते हैं, उसकी शान्तिके निमित्त उसके स्वामीके प्रसन्नार्थ L16: शीघ्र जप-तर्पण-होम-दानोंसे अच्छी तरह पूजाकर सब मनुष्य रोग, शोक, भय और L17: चिन्तासे रहित होकर सुख, यश और बलसे युक्त होते हैं । (सु० शा० कार ) ॥ ८३ ॥ L18: अथ ग्रहाणां बाल्याद्यवस्थानिरूपणम् । L19: बालः कुमारोऽथ युवा च वृद्धो मृतश्च राशावयुजि क्रमेण । L20: त्रिंशांशकैर्व्यत्ययतः समे स्युरेकैकशोंऽ
ग्रहनामस्वरूपगुणभेदाध्यायः ॥२॥ ५९ बालाद्यवस्थाचक्रम् । | १।३।५।७।९।११ राशिषु | १-६ | ६-१२ | १२-१८ | १८-२४ | २४-३० | अंशाः | | अवस्थानामानि | बालः | कुमारः | युवा | वृद्धः | मरणम् | अवस्थाः | | २।४।६।८।१०।१२ राशिषु | २४-३० | १८-२४ | १२-१८ | ६-१२ | १-६ | अंशाः | अथ जाग्रदाद्यवस्थाः । उच्चांशे स्वनवांशे च जागरुकं वदन्ति हि । सुहृन्नवांशकं स्वप्नं सुप्तं नाचारिशांशकम् ॥ ८५ ॥ इदानीं ग्रहाणां जाग्रदाद्यवस्था उच्यन्ते । उच्चांशं स्वनवांशं च जागरुकं वदन्ति । ग्रहो यद्युच्चांशे स्वकीय नवांशे च भवेत्तदा तस्य 'जाग्रत्' अवस्था भवति । सुहृन्नवांशकं = मित्रनवांशकं स्वप्नं = स्वप्नावस्थां कथयति । नीचारिशांशकं = नीचांशं शत्रुनवांशं च सुप्तं वदन्ति । नीचे शत्रुनवांशे च ग्रहो यदि स्यात्तदा सुप्तो भवतीति ॥ ८५ ॥ उच्चांशमें तथा अपने नवांशमें ग्रह जागृक् होते हैं ऐसा विद्वान लोग कहते हैं। मित्रके नवांशमें रहनेवाले ग्रह स्वप्न अवस्थाके होते हैं। नीच और शत्रुके नवांशमें ग्रह सुप्त कह- लाते हैं ॥ ८५ ॥ अथ ग्रहाणां फलदानकालः । शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् । पृष्ठोदयस्थः पाकान्ते सदा चोभयराशिगः ॥ ८६ ॥ इदानीं ग्रहाणां राशिपरत्वेन फलदानकाल उच्यते । शीर्षोदयराशिषु (अ.१, श्लो० १४) गतः खेटः पाकादौ = स्वदशाया आरम्भे फलदो भवेत् । पृष्ठोदयराशिस्थो ग्रहः पाकान्ते= स्वदशाया अन्ते फलदः । तथा चोभयराशिगः = मीनगतो ग्रहः सदा = सर्वस्मिन्काले फलदो भवति । तथोक्तं बृहज्जातके- “पृष्ठोभयकोदयर्क्षगस्त्वन्तेऽन्तः प्रथमेषु पाकदाः” इति । अत्रास्मिन्वचने उभयोदयगे भेदो दृश्यते । तयैवाह गार्गिरपि- “आद्यन्तमध्यफलदः शिरःपृष्ठोभयोदये । दशाप्रवेशसमये तिष्ठन् वाच्यो दशापतिः” इति ॥ शीर्षोदय राशिमें प्राप्त ग्रह दशाके आदिमें फल देते हैं । पृष्ठोदय राशिमें प्राप्त ग्रह दशा के अन्तमें फल देते हैं । उभयराशिवाले सदा फल देते हैं ॥ ८६ ॥ समस्तहोराफलसारसान्द्रविराजिते जातकपारिजाते । ग्रहक्रियारूपगुणप्रभेदः सङ्कीर्तितः खेटकृपाकटाक्षात् ॥ ८७ ॥ इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते ग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥ ❦❧ अनेनाध्यायमुपसंहरति । स्पष्टार्थः श्लोकः ॥ ८७ ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । द्वितीये ग्रहशीलेऽस्मिन्नध्याये पूर्णतां गता ॥ २ ॥ सम्पूर्ण होराफलके सार-तत्त्वसे विराजित जातकपारिजातमें ग्रहोंकी कृपादृष्टिसे ग्रह क्रिया-रूप-गुणके भेदोंसे युत ग्रहनामस्वरूपगुण अध्यायका मैं वर्णन किया ॥ ८७ ॥ इति द्वितीयाध्याये 'विमला' हिन्दीटीका समाप्ता ॥
अथ वियोनिजन्माऽध्यायः ॥ ३ ॥ अथेदानों तृतीयाध्यायो व्याख्यायते । अस्मिन्नध्याये प्रथमं वियोनिजन्म ततो निषेको जन्मविधिश्चेति विषयाः सन्ति । तत्र किं नाम तावद्वियोनिजन्मेत्युच्यते । अखिलानां वियो- नीनां मनुष्येतराणां पशुपक्षिरुचराचराणामुत्पत्तिरेव वियोनिजन्मवाक्येन व्यवह्रियते । तदस्यि ऽध्याये प्रथमं वियोनीनां जन्मविधिर्निरूप्यते, वराहमिहिराचार्यहोरायाम्— क्रूरग्रहैः सुबलिभिर्विबलैश्च सौम्यैः क्लीबे चतुष्टयगतेत द्वेक्षणाद्वा । चन्द्रोपगद्विरसभागसमानरूपं सत्त्वं वदेद्यदि भवेत्स वियोनिसंज्ञः ॥ १ ॥ क्रूरग्रहैरिति । जन्मकाले प्रश्नकाले वा क्रूरग्रहैः = सूर्य-कुज-सपापबुध-शनि-क्षीण- चन्द्रैः सुबलिभिर्बलयुक्तैः, सौम्यैः = शुभग्रहैः पापग्रहावशिष्टैर्विबलैर्निर्बलैः, क्लीबे = नपुंसकग्रहे (शनिबुधयोरन्यतरे ) चतुष्टयगते = केन्द्रवर्त्तिनि । वा तदवेक्षणात् = पापैः सबलैः शुभैर्बलैः क्लीवेनेक्षणात् लग्ने क्लीवग्रहवलोकिते इति द्वितीयो योगः, तदा चन्द्रोपगद्विरस- भागसमानरूपं = चन्द्र उपगतो यस्मिन् द्विरसभागे (द्वादशांशे ) तत्समानरूपं सत्त्वं वियोनिं वदेत् । स द्विरसभागो यदि वियोनिसंज्ञो नरातिरिक्तो भवेत्तदैवं वदेदन्यथाऽन्यथैवेति । यदि चन्द्रो मेषस्य द्वादशांशे भवेत्तदा मेषादेर्नृपे वृषभमहिषादेः सिंहे सिंहव्याघ्रादेर्जन्म वाच्यमेवं सर्वत्र ज्ञेयम् । तयोक्तं सारावल्याम्— "क्रूरैः सुबलसमेतैः सौम्यैर्विबलैर्वियोनिभागगते । चन्द्रे, शशनी केन्द्रे तदीक्षिते वोदये वियोनिः स्यात् ॥ आधाने जन्मनि वा प्रश्ने वा द्वादशांशके चन्द्रः । यस्मिन्व्यवस्थितः स्यात् लग्ने वा तत्समं सत्त्वम्" ॥ इति ॥ Notes—क्षुद्र जन्तूनां सङ्ख्या लग्नगतद्वादशांशवशाज्ज्ञेयाः इति ॥ १ ॥ इस तीसरे अध्यायमें पहले वियोनिजन्मका निरूपण करते हैं । 'वियोनि' इस शब्दसे मनुष्यसे इतर पशु, पक्षी, कीट, जलचर और पेड़ पौधे इत्यादि समझना चाहिये । प्रश्न अथवा जन्मके समय चन्द्रमा जिसके द्वादशांशमें वर्त्तमान हो उसी जातिके वियो- निका जन्म कहना चाहिये । जैसे चन्द्रमा चतुष्पदराशिके द्वादशांशमें हो तो चतु- ष्पदका, जलचरमें हो तो जलचरका । एवं सर्वत्र समझे । उसमें भी विशेष कर राशियोंके अनुरूप अर्थात् मेषके द्वादशांशमें भेंड़, बकरे इत्यादि । वृषमें बैल, भैंसे इत्यादि । इसी तरह सर्वत्र जाने । यह विचार चन्द्रगत द्वादशांश यदि वियोनिका हो तभी करना चाहिये, अन्यथा मनुष्यका जन्म कहे । उक्त हालतमें पापग्रह बली, शुभग्रह निर्बल और नपुंसक ग्रह केन्द्र में रहें तो पहला योग, एवं पापग्रह बली शुभग्रह निर्बल हों और नपुंसक ग्रह लग्न को देखता हो तो वियोनिजन्मका दूसरा योग होता है । (सु० शा० कार ) ॥ १ ॥ पापा बलिनः स्वभागगाः पारक्ये विबलाश्च शोभनाः । लग्नं च वियोनिसंज्ञकं दृष्ट्वाऽत्रापि वियोनिमादिशेत् ॥ २ ॥ इदानीं वियोनिज्ञाने प्रकारान्तरमाह । बलिनः = सबलाः, पापाः = पूर्वोक्ताः पापग्रहा, स्वभागगाः = स्वनवांशे स्थिताः, शोभनाः=शुभग्रहाः, पारक्ये=परनवांशे वर्त्तमाना विबलाः= निर्बलाश्च भवेयुस्तदा वियोनिसंज्ञकं लग्नं चेत्तत्कालिकं दृष्ट्वाऽत्रापि योगे चन्द्रस्थितद्वादशां- शसमानरूपां वियोनिमादिशेत् ॥ २ ॥ बलवान् पापग्रह अपने नवांशमें हो, शुभग्रह निर्वलहों तथा दूसरेके नवांशमें स्थित हो और लग्न वियोनि संज्ञक (मे० वृ० क० वृ० इत्यादि) हो तो चन्द्रमाके द्वादशांशके सदृश वियोनि कहे ॥ २ ॥
वियोनिजन्माध्यायः ॥३॥ ६१ क्रियः शिरो वक्त्रगलो वृषोऽन्ये पादांसकं पृष्ठमुरोऽथ पार्श्वे । कुक्षिस्तपानौऽथथ मेढ्रमुष्कौ स्फिकपुच्छमित्याह चतुष्पदाङ्गे ॥ ३ ॥ इदानीं वियोन्यङ्गे राशिस्थापनमुच्यते । तत्र वियोनिषु पशुजातीनां प्राधान्यात्तदङ्ग एव राशिन्यासः । क्रियो मेषः शिरः । वृषो वक्त्रगलः-वक्त्रं=मुखं, गलः=ग्रीवा च । अन्ये मिथु- नादयः क्रमेण पादांसकादयो भवन्ति । स्पष्टार्थं चतुष्पदाकारो राश्यङ्कितो द्रष्टव्यः । प्रयोजनञ्च-शुभोपलक्षितेऽङ्गे पुष्टिः अशुभोपलक्षितेऽङ्गे च व्रणोपघातादिरिति ॥ ३ ॥ वियोनिमें चतुष्पदकी प्रधानताके कारण- पशुके शरीरमें राशिविभाग इस प्रकार है कि-मेष शिर, वृष मुख और कण्ठ, मिथुन आगेके पैर और कन्धा, कर्क पीठ, सिंह छाती, कन्या दोनों पार्श्व, तुला पेट, वृश्चिक गु
६२ सटीकजातकपारिजाते- जो ग्रह लग्नमें हो उसका वर्ण २ रे अध्यायके १९ वें श्लोकके अनुसार वियोनिका वा नष्टादि वस्तुका कहे । यदि लग्नमें कोई ग्रह न हो तो जो ग्रह लग्नको देखता हो उसका वर्ण कहे । यदि लग्न किसी ग्रहसे युक्त दृष्ट न हो तो लग्नके नवांशका वर्ण कहे । यदि लग्नमें अनेक ग्रह हों तो अनेक रंग कहे, उनमें बलवान् ग्रहका रंग अधिक कहे । स्वामियुक्त राशि का यदि लग्नमें नवांश हो तो उसीका रङ्ग कहे (पहलेका सब छोड़ दे) । सप्तम स्थानमें स्थित ग्रहके अनुसार वियोनिकी पीठपर रेखा कहे ॥ ४ ॥ देहाम्बुगौ सुखालग्नेशौ चतुष्पाज्जननं भवेत् ॥ देहेशे सुखपे वाऽहिकेतुयुक्ते पशोर्जनिः ॥ ५ ॥ इदानीं चतुष्पदानां जन्मोच्यते । सुखालग्नेशौ=चतुर्थेशलग्नेशौ, देहाम्बुगौ=प्रथमचतुर्थ- भावगौ ( सुखेशो लग्ने लग्नेशश्चतुर्थे इत्यर्थः ) तदा चतुष्पादाज्जननं = पशुजन्म भवेत् । एको योगः । देहेशे=लग्नेशे, वा सुखपे=चतुर्थेशे, अहिकेतुयुक्ते=राहुकेतुभ्यां क्रमेण युक्ते पशोर्जनिर्वाच्येति द्वितीयो योगः ॥ ५ ॥ यदि सुखेश और लग्नेश लग्नमें और ४.थे भावमें स्थित हों तो चतुष्पदका जन्म हो । लग्नेश वा सुखेश राहु, केतुसे युक्त हों तो पशुका जन्म जाने ॥ ५ ॥ अथ ग्रहविशेषेक्षणादिना पशुविशेषजनिः । शुक्रेक्षिते गोजननं महिष्यार्कियुतेक्षिते ॥ राहुकेतुयुते मेषः पापाढ्येऽन्यपशोर्जनिः ॥ ६ ॥ तत्काललग्ने शुक्रेक्षिते गोजननं वाच्यमन्यत्स्पष्टमिति ॥ ६ ॥ लग्नको शुक्र देखता हो तो गौ का जन्म, शनिसे युत दृष्ट हो तो महिषीका, राहु केतुसे युत हो तो मेष-(भेँड़ बकरी) का, पापग्रह-(सूर्य, मङ्गल, क्षीणचन्द्र, पापयुत बुध) से युत हो तो अन्य पशुका जन्म जाने ॥ ६ ॥ अथ स्थलाम्बुजनियोगकरी ग्रहस्थितिः । खगे दृकाणे बलसंयुतेन वा ग्रहेण युक्ते चरभांशकोदये ॥ बुधांशके वा विहगाः स्थलाम्बुजाः शनैश्चरेन्द्वीक्षणयोगसंभवाः ॥ ७ ॥ होरेन्दुसूरिरविभिर्विबलैस्तरूणां तोयस्थले तरुभवोंऽशकृतः प्रभेदः ॥ लग्नाद्ग्रहः स्थलजलर्क्षपतिस्तु यावांस्तावन्त एव तरवः स्थलतोयजाताः ॥८॥ इदानीं पक्षिजन्मज्ञानमाह — खग इति । लग्ने खगे दृकाणे = पक्षिद्रेक्काणे = मिथुन- द्वितीय-सिंहप्रथम-तुलाद्वितीय-कुम्भप्रथमद्रेक्काणानामन्यतमे ( बृहज्जातके द्रेक्काणाध्यायो द्रष्टव्यः) सति, वा चरभांशकोदये = लग्ने चरनवांश उदयति बलसंयुतेन ग्रहेण युक्ते = तत्र बलवद्ग्रहसहिते, वा बुधांशके = कन्यामिथुनयोरन्यतरनवांशके लग्ने वर्त्तमाने तत्रापि बलीग्रहसंयुक्तेऽस्मिन् योगत्रये शनैश्चरेन्द्वीक्षणयोगसम्भवाः = शनिचन्द्रयोर्दृष्टियोगवशात्स्थ- लाम्बुजाः = स्थलजा जलजाश्च, विहगाः = पक्षिणो वाच्याः । योगत्रयेऽपि शनिना दृष्टे युक्ते वा स्थलजानां, शशिना दृष्टे युक्ते वा जलजानां पक्षिणां जन्म वाच्यमिति । तथोक्तं च सारावल्याम् — “विहगोदितद्रेक्काणे ग्रहेण बलिना युतेऽथ चरभांशे । बौधेंऽशे वा विहगाः स्थलाम्बुजाः शनिशशीक्षणाद्योगात्” ॥ इति ॥ ७ ॥ अथ तरुजन्मज्ञानमुच्यते । होरेन्दुसूरिरविभिः = लग्नचन्द्रगुरुसूर्यैर्विबलैस्तरूणां जन्म वाच्यम् । तत्र जलजानां स्थलजानां वा जन्मेति निर्णयमाह । तोयस्थले तरुभवोंऽश- कृतः प्रभेदः । अंशकृतः=नवांशकविहितः प्रभेदस्तोयस्थले=जले स्थले च, तरुभवः=वृक्षोत्प- त्तिरिनि । अर्थात्लग्ने जलचरराशिनवांशोदये जलजास्तरवो वाच्याः । इतरथा स्थलजा इति ।
[Header] वियोनिजन्माध्यायः ॥२॥ ६३
अथ तरुसंख्यामाह—स्थलजलर्क्षपतिर्ग्रहः = स्थलराशीशो जलराशीशो वा ग्रहो लग्नाद्यावानर्थाल्लग्नाद्यावत्संख्यके राशौ भवेत्तावन्तस्तत्संख्याप्रमिताः स्थलतोयजाताः = स्थलजा-जलजा वा तरवो वाच्या इति ॥ ८ ॥ लग्नमें पक्षी द्रेष्काण (मिथुन का २ रा, सिं० का १ म, तु० का २ रा, अथवा कुं० का १ म द्रेष्काण) हो तो पक्षीका जन्म कहना (१)। लग्नमें चर (१।४।७।१०) राशिका नवांश हो उसमें बली ग्रहयुक्त हो तो पक्षीका जन्म कहना (२)। बुधका (मिथुन वा कन्या) नवांश लग्नमें हो उसमें बली ग्रह हो तो पक्षीका जन्म कहना (३)। इन तीनों योगों में शनिकी दृष्टि वा योगसे स्थलचर तथा चन्द्रमा की दृष्टि वा योग से जलचर पक्षीका जन्म कहना चाहिये ॥ ७ ॥ वृक्ष-जन्म जानने का प्रकार यह है कि तत्कालमें लग्न, चन्द्रमा, बृहस्पति और सूर्य निर्बल हों तो
६४ सटीकजातकपारिजाते- Notes- ( ७-१०) श्लोका बृहज्जातकस्य । सूर्य-लग्ननवांशका स्वामी हो तो भीतरकी पुष्ट लकड़ी ( शीशम आदि ) कहे । शनि- हो तो देखनेमें अप्रिय ( तेन्दुवा आदि ) कहे । चन्द्रमा-हो तो दूधवाले वा रसवाले ( ऊँख गन्ना ) आदि वृक्ष कहे । मङ्गल-हो तो कांटेवाले (बेल बबूलरादि) बृहस्पति-हो तो फलवाले ( आम आदिके ) वृक्ष, बुध-हो तो बिना फलवाले वृक्ष कहे । शुक्र-हो तो पुष्प वाले ( चमेली चम्पा आदि ) वृक्ष कहे । फिर चन्द्रमा-चिकने देवदारु आदि और पुनः मङ्गल- कटु वृक्षको उत्पन्न करता है ॥ ९ ॥ पूर्वोक्त स्थल या जलराशिके स्वामी शुभग्रह यदि पापग्रहकी राशिमें हो तो रुचिर ( अच्छा ) वृक्ष दुष्ट भूमिमें पैदा हो । यदि पापग्रह शुभराशिमें स्थित हो तो अशोभन ( दुष्ट ) वृक्ष सुन्दर भूमिमें हो । शुभग्रह शुभराशिमें हों तो शुभ वृक्ष रुचिर भूमिमें हो और अशुभसे अशुभ वृक्ष अशुभ भूमिमें जाने । वह ग्रह अपने नवांशसे जितने नवांशपर प्राप्त हो उतने ही वृक्ष उसी २ प्रकारके कहे ॥ १० ॥ इति वियोनिजन्मप्रकरणम् । अथ निषेकविधिः । कुजेन्दुहेतु प्रतिमासमार्त्तवं गते तु पीडर्क्षमणुष्णदीधितौ ॥ अतोऽन्यथास्थे शुभपुङ्ग्रहेक्षिते नरेण संयोगमुपैति कामिनी ॥ ११ ॥ इदानीं निषेकविधिरुच्यते । ऋतोस्तत्र प्रधानत्वात्प्रथमं ऋतुलिरूपणं ततो दम्पत्योर्बो- गलक्षणमाह । स्त्रीणां प्रतिमासं=मासं मासं प्रति यदार्त्तवं = ऋतौ जातं रजस्तत् कुजेन्दु- हेतु = कुजो मङ्गलः, इन्दुश्चन्द्रस्तौ हेतुर्निमित्तं यस्य तदिति । स्त्रीणां रहस्यदेशात् प्रतिमासं यद्रजो निस्सरति तस्य कुजेन्दू कारणम् । यतश्चन्द्रो जलतत्त्वः, भौमोऽग्नितत्त्वः, तत्र जल- मेव रक्तं तथाऽग्निरेव पित्तं, पित्तेनालोडितमङ्गं रजोरूपेण परिणमति । तयोक्तं कल्याणवर्मणा- "इन्दुर्जलं कुजोऽग्निर्जलमङ्गं त्वग्निरेव पित्तं स्यात् । एवं रक्ते क्षुभिते पित्तेन रजः प्रवर्त्तते स्त्रीषु" ॥ इति ॥ अथ गर्भधारणयोग्यमार्त्तवं निरूप्यते । अणुष्णदीधितौ=चन्द्रे, पीडक्षं गते = स्त्रिया जन्मराशेरनुपचयर्क्ष = नवधनजलधीकामरन्ध्रान्त्यहोराणामन्यतमं प्राप्ते कुजेन दृष्टे गर्भग्रहणयोग्यमार्त्तवं भवति, परं बालवृद्धातुरवन्ध्याभ्योऽन्यत्र । तथोक्तम्--- "स्त्रीणां गतोऽनुपचयर्क्षमणुष्णरश्मिः सन्द्दृश्यते यदि धरातनयेन तासाम् । गर्भग्रहार्त्तवमुशन्ति तदा, न बन्ध्यावृद्धातुराल्पवयसामपि वैतदिष्टम्" ॥ इति ॥ अथ पुरुषसंयोगसम्भवमाह । अतोऽन्यथास्थे=चन्द्रे पुरुषजन्मार्क्षादुपचयर्क्षस्थे, शुभपुङ्ग्रहेक्षिते=शुभग्रहेषु यः पुमान् ग्रहस्तेन ( गुरुणा ) ईक्षिते = दृष्टे, कामिनी=ऋतुमती स्त्री नरेण=पुरुषेण सह संयोगमुपैति । ईदृग्योग एव दम्पत्योर्योगो गर्भाधानयोग्यं मैथुनं च भवतीति । तथोक्तं च- "पुरुषोपचयगृहस्थो गुरुणा यदि दृश्यते हिममयूखः । स्त्रीपुरुषसंयोगं तदा वदेदन्यथा नैव" इति । पुरुषसंयोगविचारोऽयमृतुशुद्धौ ( चतुर्थदिने ) कार्यः । "ऋतुविरमे स्नातायां यद्युपचयसंस्थितः शशी भवति । बलिना गुरुणा दृष्टो भर्त्रा सह सङ्गमश्च तदा" इति दर्शनात् । वक्ष्यतिच स्वयं पुरतः- "नाद्याश्चतस्रोऽत्र निषेकयोग्या पराश्च युग्माः सुतदाः प्रशस्ताः" इति ॥ ११ ॥
वियोनिजन्माध्यायः ॥३॥ ६५ स्त्रियोंकी योनिसे प्रत्येक मासमें तीन दिन तक रुधिर बहता है उसको रजोदर्शन कहते हैं। रजोदर्शनका हेतु (कारण) मङ्गल और चन्द्रमा है, क्योंकि मङ्गल अग्नितत्त्व और चन्द्रमा जलमय है। स्त्रीके जन्मराशिसे जिस रजोदर्शनमें उपचयस्थानमें चन्द्रमा न हो किन्तु १-२-४-५-७-८-९-१२ इन स्थानोंमें हो और गोचरमें मङ्गल पूर्ण दृष्टिसे देखता हो तो ऐसा रज गर्भको धारण करने योग्य होता है। चन्द्रमा उपचय राशिमें रहे किन्तु उसे मङ्गल न देखता हो तो ऐसे समयका रज निष्फल होता है। पुरुषके उपचय राशिमें चन्द्रमा हो उसको पूर्णदृष्टिसे बृहस्पति देखता हो उस समय स्त्री और पुरुषका यदि संयोग हो तो गर्भ अवश्य रहेगा। परन्तु यह विचार वन्ध्या स्त्री तथा बाल, वृद्ध और नपुंसकके लिये नहीं है ॥ ११ ॥ यथाऽस्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुनप्रयोगः । असद्ग्रहालोकितसंयुतेऽस्ते सरोष इष्टैः सविलासहासः ॥ १२ ॥ इदानीं गर्भाधानकालं विज्ञाय मैथुनज्ञानप्रकारमाह । अस्तराशिः = आधानलग्नात् प्रश्न- लग्नाद्वा सप्तमो राशियथा मिथुनं समेति = सप्तमराशियोनौ यथा मिथुनं सम्पद्यते तथैव मिथुनप्रयोगो वाच्यः । तादृगेव मैथुनमस्मिन् गर्भाधाने कृतं ब्रूयात् । सप्तमो राशिर्यदि चतुष्पात्तदा चतुष्पदां मैथुनमिव । यदि जलचरस्तदा तद्वदेवं सर्वत्र योनितुल्यं मिथुनं वाच्यमिति । तत्रापि कलहेन प्रेम्णा वा मिथुनमित्याह । अस्ते = निषेकलग्नात्सप्तमे राशौ असद्ग्रहैः = पापग्रहैरालोकिते दृष्टे, संयुक्ते वा सरोषो रोषेण सहितः (कलहेन), इष्टैः = शुभग्रहैर्दृष्टे वा युक्तेऽस्ते सविलासहासो विलासेन हासेन च सहितः (प्रेम्णा) मिथुनप्रयोगो वाच्यः । अतोऽन्यथा साधारण्येनेति । तथोक्तं सारावल्याम्— "द्विपदादयो बिलग्नात् सुरतं कुर्वन्ति सप्तमे यद्वत् । तद्वत्पुरुषाणामपि गर्भाधानं समादिश्यम् ॥ अस्तेऽशुभयुतदृष्टे सरोषकलहं भवेद्ग्राम्यम् । सौम्यं सौम्यैः सुरतं वात्स्यायनसम्प्रयोगिकाख्यातम्" ॥ इति ॥ १२ ॥ प्रश्नसे अथवा आधानलग्नसे जो सप्तम राशि हो उसी राशिके समान मैथुन होना कहे। यदि सप्तममें मेष हो तो बकराके सदृश। वृष हो तो बैलके तुल्य मैथुन कहे। इसी प्रकार आगेकी राशिके भी सप्तम प्राप्त होनेपर मैथुन कहे। सप्तममें पापग्रह हों वा उस भावको पापग्रह देखते हों तो सरोष (कलहसे युक्त) मैथुन कहे, और सप्तममें शुभग्रह हों वा सप्तमभावको शुभग्रह देखते हों तो प्रेम और विलास पूर्वक मैथुन कहे ॥ १२ ॥ रवीन्दुशुक्रावनिजैः स्वभागैः गुरौ त्रिकोणोदयसंस्थितेऽपि वा । भवत्यपत्यं हि विबीजिनाम्निमे करा हिमांशोर्विदशामिवाफलाः ॥ १३ ॥ इदानीं गर्भसम्भवयोगमाह । रवीन्दुशुक्रावनिजैः = सूर्य-चन्द्र-शुक्र-मङ्गलैः स्वभागैः = स्वस्वनवांशस्थैः । यत्र कुत्रापि राशौ सूर्येन्दुशुक्रमौमाः स्वनवांशगताः स्युस्तदा हि=निश्च- येनापत्यं=गर्भे सन्ततिर्भवति । अयमेको योगः । वा योगान्तरमाह-गुरौ त्रिकोणोदयसंस्थि- तेऽपि=बृहस्पतिर्यदि लग्ने, पञ्चमे, नवमे वा भवेत्तदाऽपि भवत्यपत्यमिति । अत्र प्रथमे पूर्णयोगाभावे सूर्यशुक्रयोर्नरोपचयक्षंगयोरेवं चन्द्रारयोर्योषिदुपचयक्षंगयोः स्वनवांशे स्थिति- रपेक्षिताऽपत्यसम्भवे । तथोक्तं स्वल्पजातके वराहेण— "बल्युक्तौ स्वगृहांशोर्ध्वर्कसितावुषचयक्षंगौ पुंसाम् । जीणो वा कुजचन्द्रौ यदा तदा गर्भसम्भवो भवति" ॥ इति ॥