कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| २५० | कादम्बरी- | [ कथायाम्- |
|---|
मण्डलच्छविना, स्थूलमुक्ताकलापजालकावृतेन१, उपरिचिह्नीकृतं केसरिणमुद्वहता अतिमहता कार्तस्वरदण्डेन२ ध्रियमाणेनातपत्रेण निवारितातपः, उभयतः समुद्धूयमानचामरकलापपवननर्तितकर्णपल्लवः, पुरःप्रधावता तरुणवीरपुरुषप्रायेण, अनेकसहस्रसंख्येन पदातिपरिजनेन, 'जय जीवे'ति च मधुरवचसा मङ्गलप्रायम्३, अनवरतमुच्चैः पठता वन्दिजनेन स्तूयमानो नगराभिमुखः५ प्रतस्थे ।
क्रमेण च तं समासादितविग्रहमिवानङ्गमवतीर्णं नगरमार्गमनुप्राप्तमवलोक्य सर्व एव
प्रकृतत्वाच्चेत्याशयः । क्षीरोदस्य दुग्धसमुद्रस्य फेनैः सञ्चिच्छफैः धवलितं श्वेतीकृतं यद्वासुकेः शेषनागस्य फणामण्डलं तस्यच्छविरिव छविः शोभा यस्य तेन तादृशेन, शेषनागस्य श्वेतत्वं सुप्रसिद्धम्, अत एव श्वेतच्छत्रस्य वासुकि (शेष)-फणामण्डलेन सादृश्यम्, क्षीरोदफेनैस्तस्य ततोऽप्यतिशयितश्वेतत्वमित्यर्थः। स्थूलमुक्ताकलापानां स्थूलमुक्तासमूहानां जालेन जाल्या आवृतं प्रान्तभागे लम्वितं तेन तादृशेन । उपरि ऊर्ध्वभागे चिह्नीकृतं सूत्रादिनाङ्कीकृतं केसरिणं सिंहम् उद्वहता धारयता छत्रे सिंहाकृतिः राजचिह्नत्वेनाङ्कितेत्यर्थः । अतिमहता अत्यन्तविस्तृतेन, कार्तस्वरस्यायमिति कार्तस्वरः सुवर्णमयो दण्डो यस्य तेन तादृशेन, ध्रियमाणेन धार्यमाणेन मूर्न्युपरि केनचित् भृत्येनेति शेषः । आतपत्रेण छत्रेण निवारितो दूरीकृतः आतपः सूर्यकिरणो यस्य स तादृश इति चन्द्रापीड इत्यस्य विशेषणम् ।
इह 'सकलराजन्यकुलकुमुदे'त्यत्र लुप्तोपमा, 'चन्द्रमण्डलेनेव' इत्यत्र चोपमा, अनयोश्चाङ्गाङ्गिभावेन सङ्करः। 'तुरङ्गसेना' इत्यत्र निरङ्गकेवलंरूपकम्, 'पुलिनायमानेन' इत्यत्र क्यङ्लोपमा चानयोरङ्गाङ्गिभावेन सङ्करः । 'वासुकिफणामण्डलच्छविने' त्यत्र हि लुप्तोपमालङ्कारः।
उभयत इति । उभयतः उभयपार्श्वयोः समुद्धूयमानः भृत्यैरान्दोल्यमानो यश्चामरकलापो बालव्यजनसमूहः तस्य पवनेन वायुना नर्तितौ सञ्चालितौ कर्णपल्लवौ श्रोत्रकिसलयौ यस्य स तादृशः ।
पुर इति । पुरः प्रधावता अग्रतः शीघ्रं प्रचलन्ता, तरुणवीरपुरुषाः युवसुभटनराः प्राया अधिका यत्र तेन तादृशेन, अनेकेषां सहस्राणां संख्या यत्र स तेन तादृशेन । पदातिपरिजनेन पादचारिसेवकवर्गेण संयुत इति शेषः ।
'जयेति । चकारः क्रमव्यतिरेके, सम्बन्धश्चास्य स्तूयमान इत्यनेन । मधुरवचसा निष्टवाक्येन, अनवरतं निरन्तरं 'जय जीवे'ति मङ्गलप्रायं मङ्गलात्मकं वाक्यम् उच्चैः पठता उच्चस्वरेण उच्चारयता, वन्दिजनेन वैतालिकमण्डलेन स्तूयमानश्च सन् । नगराभिमुखः राजधानीं प्रति प्रतस्थे प्रस्थानं कृतवान् ।
क्रमेणेति । अपि चेति चार्थः । सर्व एव जनः समस्त एव लोकः, समासादितो गृहीतो विग्रहः शरीरं येन तादृशम् अनङ्गं कामदेवमिव अवतीर्णम् उपस्थितम् । क्रमेण परिपाट्या नगरमार्गं राजधानीरथ्याम् अनुप्राप्तम् उपस्थितम् अवलोक्य निरीक्ष्य, परित्यक्तसकलव्यापारः दूरीकृतसमस्तव्यावृत्तिः
श्वेतवर्ण अनन्तनागकी फणामण्डलके समान शोभा पा रहा था। इसके प्रान्त भागमें बड़े-बड़े मोतियोंका झालर लग रहा था, एवं ऊपर भागमें सूत्र द्वारा एक सिंहकी आकृति बनाई हुई थी। उसका दण्ड सुवर्णमय था। चन्द्रापीडके दोनों बगलमें सेवकगण चामरोंका सञ्चालन कर रहे थे। उसके वायुसे चन्द्रापीडके दोनों ओर झूलते कर्णपल्लव हिल रहे थे। आगे-आगे बहुसंख्यक परिजन पैदल जा रहे थे। उन लोगोंके मध्यमें अधिकतरपदक युवा और वीरपुरुष ही थे और मधुरभाषी स्तुतिपाठकगण (वन्दीजन)-'जय हो, चिरजीवी होइए' ऐसे मधुर मङ्गलमय वचनोंसे अनवरत उच्च स्वरसे उच्चारण करते हुए उसकी प्रशंसा करते जाते थे।
क्रमसे चन्द्रापीड नगर-मार्ग पर उपस्थित हुआ, उस समय सब लोग, शरीर-धारी कन्दपंके समान उसे उपस्थित देख कर अपने २ सब कार्योंको छोड़कर, चन्द्रोदयके समय खिलते कुमुद-वनके समान, हर्षसे प्रफुल्लित
१. मुक्ताफलकलाप···परिवृतेन ।
२. कार्तस्वरेण दण्डेन ।
३. वीरप्रायेण ।
४. मङ्गलप्रायमालयन् ।
५. नराभिमुखं ।
चन्द्रापीडप्रवेशे नगरलोकभावालाप० २६] चन्द्रकला-विद्योतिनीसहिता २५१
परित्यक्तसकलव्यापारो रजनिकरोदय-परिवुध्यमान-कुमुद्वनानुकारी¹ जनः समजति । 'सत्यस्मिन् सम्प्रति² मुख-कुमुद-कदम्बक-विकृताकृतिः³ कार्तिकेयो विडम्बयति कुमारशब्दम् । अहो ! वयमतिपुण्यभाजो यदि माममानुषीम्⁴, अस्याकृतिमन्तःसमाहृद-प्रीतिरस-निप्पन्दै⁵-विस्तारितेन कुतूहलोत्तानितैन लोचनयुगलेनानिवारिताः पश्यामः⁶। सफला नोऽद्य जाता जन्मवत्ता । सर्वथा नमोऽस्मै रूपान्तरधारिणे भगवते चन्द्रापीडच्छद्मने पुण्डरीकेक्षणाय' इति वदन्नारचितप्रणामाञ्जलिर्नगरलोकः प्रणनाम सर्वतश्च समपावृतं⁷-कपाट-पुट⁸-प्रकट-वातायन-
सन्, रजनिकरस्य चन्द्रस्य उदयेन उद्गमेन परिबुध्यमानं प्रकाश्यमानं कुमुदवनम् अनुकरोतीति स तादृशः समजति जातः, चन्द्रापीडावलोकनोत्पन्नप्रमोदेन विकसितवदनो वभूवेत्यर्थः । इह 'अनङ्गमिव' इत्यत्र द्रव्योत्प्रेक्षालङ्कारः, 'कुमुद्वनानुकारी' इत्यत्र चायौपमालङ्कारः, अनयोश्च परस्परमङ्गाङ्गिभावेन सङ्करः । सम्प्रति चन्द्रापीडं निरीक्ष्य पौरवाणामुक्तिविकल्पान् प्रतिपादयति-सत्यस्मिन्नित्यादिना । सम्प्रति अधुना अस्मिन् चन्द्रापीडे सति विद्यमाने, मुखानि पद्माननानि कुमुदानीव धवलत्वादित्याशयः, तेषां कदम्बकं समूहः तेन विकृता अस्वाभाविकत्वान् कुत्सितीकृता आकृतिः आकारो यस्य स तादृशः, कार्तिकेयो गुहः कुमारशब्दं विडम्बयति स्वाभिधायकत्वेन स्वीकुर्वान्नन्वर्थरहितं करोति । तथा च अप्राकृतिकमुखबाहुल्याद् विकृतस्वरूपे कार्तिकेये कुमारशब्दो विडम्बनायै, अस्मिंस्तु कुत्सितो मारः कन्दर्पो यस्मात् स कुमार इति व्युत्पत्त्या कंदर्पादप्यधिकरमणीये चन्द्रापीड एव नितरामुपयुज्यत इत्यभिप्रायः । इह विडम्बनामन्वन्वाऽभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्त्यलङ्कारः स च 'मुखानि कुमुदानीव' इति लुप्तोपमया सङ्कीर्यते । अत एव हि कार्तिकेयादधिकरमणीयश्चन्द्रापीड इति व्यतिरेकालङ्कारो ध्वन्यते इत्यलङ्कारेणालङ्कारध्वनिः ।
अहो इति । यत् यस्माद् कारणात् अनिवारिताः केनाऽप्यनिषिद्धा अतिपुण्यभाजो गरिष्ठसुकृतभाजो वयम्, अन्तः समास्टढेन चेतसि समुत्पन्नेन प्रीतिरसेन प्रमोदधारया निप्पन्दं निश्चलं प्रसारि-तञ्च तेन तादृशेन, कुतूहलेन कौतुकेन उत्तानितम् ऊर्ध्वमुखीकृनं तेन, लोचनयुगलेन नेत्रद्वयेन, इमाम् अमानुषीं देवसम्बन्धिनीम् अस्य चन्द्रापीडस्य, आकृति स्वरूपं पश्यामःऽवलोकयाम इति सम्बन्धः ।
सफलेति । नोऽस्माकम् अद्य जन्मवत्ता जन्मधारणं सफला फलवती जाता। सर्वया सर्वप्रकारेण अस्मै रूपान्तरधारिणे भिन्नस्वरूपग्राहिणे चन्द्रापीडच्छद्मने भगवते महाविभवशालिने पुण्डरीकेक्षणाय कमलनयनाय विष्णवे, नमः, अन्यथा नैवंविधो गुणगणः सम्भवतत्याशयः । इति एवं वदन् ब्रुवन् आरचितो विहितः प्रणामाय नमस्काराय अञ्जलिपाणिद्वयसंयोगो येन स तादृशो नगरलोकः पुरवासिजनः प्रणनाम प्रणामं चक्रे ।
सर्वत इति । किञ्चेति चार्थः । सर्वतः चतुर्दिक्षु, समपावृतैः समुद्घाटितैः कपाटपुटैः अररसंपुटैः प्रकटं प्रकाशितं वातायनसहस्रं गवाक्षजालवृन्दं यत्र तस्य भावस्तया कारणेन, चन्द्रापीडस्य यद्दर्शन-कुतूहलम् अवलोकन कौतुकं तस्मात्, नगरमपि पुरमपि न केवलं नगरलोकः किन्तु नगरमपीत्यपेरर्थः, समुन्मीलितः प्रकाशितः लोचननिवहः नेत्रसमूहो येन तत्तथोक्तमिव अभवत् । तथाविधवातायना-
हो गया। वे लोग आपसमें इस प्रकार बोलने लगे कि—'इस राजपुत्रके विद्यमान रहने पर खिलने कुमुद वनके समान मुख-समूहोंके कारण विकृत आकारवाले कात्तिकेय कुमार शब्दको अन्वर्थहीन करते हैं। अहो! इन लोगोंने कैसे पुण्य किये हैं ? क्योंकि, हृदयमें समुत्पन्न आनन्दरसवाहिते निस्पन्द और विस्तारित एवं कुतूहलसे ऊपर उठे हुए नेत्रोंसे अनिविद्ध रूपमें (बेरोकके) इसकी इस स्वर्गीय आकृतिको देखते हैं। एवं आज ही हम लोगोंका जन्म सफल हुआ। भगवान् नारायण चन्द्रापीडके बहाने रूपान्तर धारण करके आये हुए हैं, अत एव इन्हें सर्वथा नमस्कार करते हैं।' यों कहते-कहते नगर के सब लोग हाथ जोड़ कर उसको नमस्कार करने लगे। एवं सब तरह किवाड़ खोल देनेसे हजारों खिड़कियों द्वारा प्रकाश पाने लगा, इससे वह राजधानी भी
१. कुमुदकुमुद***। २. कुत्रचिद् 'सम्प्रति' इति पदन्नास्ति । ३. मुखकमलविडम्बनाः, मुखकमल । ४. यदममानुषीम्, यद इमां*** । ५. निस्पन्द*** । ६. पश्यामश्चेति । ७. समुन्मुक्त, समुद्घाटित***, ८. कुत्रचिद् 'पुट' इति पदयोर्नाभ्यते ।
२५२ -कादम्बरी- [ कथायाम्
सहस्रतया चन्द्रापीड-दर्शन-कुतूहलांन्नगरमपि समुन्मीलित-लोचन-निवहमिवाभवत् ।
अनन्तरञ्च 'समाप्तसकलविद्यो विद्यागृहान्निर्गतोऽयमागच्छति$^१$ चन्द्रापीडः' इति समाकर्ण्यालोकनकुतूहलिन्यः सर्वस्मिन्नेव नगरे$^२$ ससम्भ्रममुत्सृष्टार्द्धपरिसमाप्तप्रसाधनव्यापाराः, काश्चिद्वाम-करतल-गत-दर्पणाः स्फुरित-सकल-रजनिकर-मण्डला इव पौर्णमासीरजन्यः, काश्चिदाद्रीमलक्तक-रस-पाटल्लित-चरणपुटाः कमल-परिपोत-बालातपा इव नलिन्यः, काश्चित् ससम्भ्रमगति-विगलित-मेखला-कलापा-कुलित-चरण-किसलयाः शृङ्खला-सन्दान-मन्द-मन्द सञ्चारिण्य इव करिण्यः, काश्चिज्जलधर-समय-दिवसश्रिय इवेन्द्रायुध-राग-रुचिराम्बरधारिण्यः,
न्यायेव लोचनस्थानपातीनीत्याशयः । इह 'समुन्मीलितलोचननिवहम्' इत्यत्रोन्मीलनोत्प्रेक्षणात् क्रियोत्प्रेक्षालङ्कारः ।
अनन्तरमिति । अनन्तरं चन्द्रापीडावलोकनकौतुकेन गवाक्षकपाटोद्घाटनमनन्तरं समाप्ताः पारं प्राप्ताः सकलाः समस्ता विद्या यस्य स तादृशः, अयं चन्द्रापीडः विद्यागृहात् विद्यामन्दिरात् निर्गतो निःसृत इति समाकर्ण्य श्रुत्वा आलोकनकुतूहलिन्यः विलोकनकौतुकवत्यः, ससम्भ्रमं शीघ्रतरम् उत्सृष्टाः परित्यक्ताः अर्द्धपरिसमाप्ताः अर्द्धविहिताः प्रसाधनव्यापाराः अलङ्करणक्रिया याभिस्ताः तादृश्यः, ललनाः स्त्रियः हर्म्यतलानि प्रासादतलानि समारुरुहुः आरोहणं चक्रुरित्यग्रिमेण सम्बन्धः । तदारोहणप्रकारमेव प्रकटयन्नाह—काश्चिदिति । काश्चित् तासां मध्ये काश्चिल्ललना इत्यर्थः । इत्थमन्यत्रापि । वामकरतलेषु सव्यपाणितलेषु गताः स्थिता दर्पणा आदर्शा यासां ताः तादृश्यः, अत एव स्फुरितं प्रकाशितं सकलं समस्तरजनिकरमण्डलं चन्द्रविम्बं यासु ताः तादृश्यः पौर्णमासीरजन्यः राकात्रिपामा इव । दर्पणानां वर्तुलतया स्वच्छतया च रजनिकरमण्डलसदृशत्वात् तासां च चन्द्रिकावच्छुभ्रकान्तिमत्त्वादित्याशयः । इह 'पौर्णमासीरजन्य इव' इत्युपमालङ्कारः ।
काश्चिदिति । आर्द्रण क्लिन्नेन अलक्तकरसेन यावकद्रवेण पाटलितानि आलोहितीकृतानि चरणपुटानि याभिस्ताः, अत एव कमलैः पङ्कजैः करणैः परिपीतो गृहीतः बालातपः लोहितवर्णोऽभिनवदिनकरालोको याभिस्ताः नलिन्यः कमलिन्यः पद्गलता इव । इहाऽप्युपमा । अलक्तकरसस्य बालातपेन कमलैश्चरणानाम् ,कमलिनीभिः ललनानां साम्यमवगन्तव्यम् ।
काश्चिदिति । ससम्भ्रमेण ससत्वरेण या गतिर्गमनं तेन विगलितैः कटिप्रदेशात् स्त्रस्तैः मेखलाकलापैः रसनादामभिः आकुलितानि विह्वलीकृतानि प्रतिपदं प्रतिबध्यमानानि चरणकिसलयानि पादपल्लवा यासां ताः तादृश्यः, अत एव शृङ्खलया सन्दानेन पादयोर्बन्धनेन मन्दमन्दसञ्चारिण्यः मन्दमन्दगामिन्यः करिण्य इव हस्तिन्य इव । इहोपमावृत्त्यनुप्रासयोः संसृष्टिः ।
काश्चिदिति । जलधरसमयस्य वर्षाकालस्य यो दिवसो दिनं तस्य श्रियः शोभा इव इन्द्रायुधस्य शक्रधनुषः राग इव रागः अनेकविधरूपसम्बन्धः तेन रुचिराणि मनोहराणि अम्बराणि वस्त्राणि धारयन्तीति ताः तादृश्यः, पक्षे इन्द्रायुधस्य रागेण रञ्जनेन रुचिरं सुन्दरम् अम्बरं गगनं धारयन्तीति ताः तादृश्यः । पूर्णोपमा ।
मानो, चन्द्रापीड़के दर्शन करनेके कुतूहल ( चाव ) से सब नेत्रोंको खोल दी है, ऐसा प्रतीत हो रहा था ।
उसके बाद 'चन्द्रापीड़ समस्त विद्याओंकी शिक्षा समाप्त कर विद्यालयमें से निकल कर अभी यहाँ अने है' यह समाचार सुनकर समस्त नगर ( शहर भर ) की रहनेवाली सब स्त्रियां उनको देखनेके लिए उत्कण्ठित हुई अलङ्कार-धारण-कार्य करती-करती अर्धपरिसमाप्त परित्याग कर ( थोड़े-बहुत गहने पहन कर जैसे की तैसी ) उतावलीमें उठ, महलोंकी चोटियों पर और गेच तलेमें चढ़ गई । उन सबोंके मध्यमें कितनी ही स्त्रियाँ बाएँ हाथमें दर्पण धारण कर, प्रकाशमान पूर्णचन्द्र-मण्डल समन्वित पूर्णिमा-रात्रिके समान शोभा पाने लगीं । कितनी ही स्त्रियाँ अलक्तक रस ( महावर ) से चरण-युगल लाल-लाल रंग कर, पद्मके ऊपर नई धूप गिरने पर पद्गलताके समान शोभायमान थीं । कितनी ही स्त्रियाँ घबराहटमें चलनेसे मध्यभागसे उतरी हुई काञ्चीदाम ( टरकनी ) द्वारा चरण युगल रँध जानेसे, चरणमें शृङ्खलाबन्धनसे मन्द-मन्द चलनेवाली हथिनियोंके समान धीरे-धीरे उठने लगीं । वर्षाकालकी दिनलक्ष्मी जिस प्रकार इन्द्रधनुषके विविधवर्णसे मनोहर आकाशको धारण करती है, उसी प्रकार कितनी युवतियाँ इन्द्रधनुषके समान विविधवर्ण मनोहर वस्त्र धारण कर चढ़ने लगी ।
१. क्वचित् 'मागच्छति' इति पदं न विद्यते ।
२. सर्वस्मिन्नगरे ।
चन्द्रापीडप्रवेशे नगरलोकमाालापव०-२६ ] चन्द्रकला-विद्योतिनीसहिता । २५३
काश्चिदुल्लसित-धवल-नख-मयूख-पल्लवान् नूपुररवाकृष्ट-गृहकलहंसकानिव चरणपुटानुद्व-हन्त्यः, काश्चित् करतल-स्थित-स्थूलमुक्ताहारे-यष्टयो रतिमिव मदनविनाशशोक-गृहीत-स्फटि-काक्षवलयां विडम्बयन्त्यः, काश्चित् पयोधरान्तरालगलितमुक्तालतास्तदनुविमलस्रोतोजलान्त-रित-चक्रवाकमिथुना इव प्रदोषश्रियः, काश्चिन्नूपुरमणिसमुत्थितेन्द्रायुधतया परिचयानुगतं-गृहमयूरिका इव विरलयन्त्यः काश्चिदद्धपीताज्झित-मणिचषकाः स्फुरितरागैर्मधुरसमिव।-
काश्चिदिति। उल्लसितः उत्थितः धवलः श्वेतो नखानां पुनर्मूणां मयूखपल्लवः रश्मिजाले येम्यस्तान् तादृशान्, अत एव नूपुररवैः पादकटकध्वनिभिः आकृष्टा आकृष्य आनीता ये गृहकलहंसकाः भवनका-दम्बाः तानिव विद्यमानान् चरणपुटान् पादयुगलानि, उद्वहन्त्यो धारयन्त्यः। इह नोपमालङ्कारः किन्तु जात्युत्प्रेक्षैव नूपुररवाकृष्टपदप्रनिपादनाभिप्राय्यादिति मनीषिभिराकलनीयम्।
काश्चिदिति। करतलेषु स्थिताः शीघ्रतावशात् कण्ठेऽनर्पणेन हस्तेष्वेव विद्यमानाः स्थूलमुक्तानां स्थूलमौक्तिकानां हारयष्टयो हारलता यासां ताः तादृश्यः, अत एव मदनविनाशेन मन्मथप्राणवियोगेन यः शोकः तेन गृहीतं महेशप्रसन्नतार्थं धृतं स्फटिकाक्षवलयं स्फटिकमणिरचितजपमाला यया तां तादृशीं रति मदनस्त्रियं विडम्बयन्त्यः अनुकुर्वन्त्य इव । इह क्रियोत्प्रेक्षा।
काश्चिदिति। पयोधरयोः कुचयोः अन्तराले मध्येपु गलिता गमनजवान्निपत्यैकत्रीभूता मुक्तालता मौक्तिकहारा यासां ताः तादृश्यः, अन एव तदनु कृशस्य विमलस्य स्वच्छस्य स्रोतः प्रवाहस्य जलेन सलिलेन अन्तरितं व्यवधानं प्रापितं चक्रवाकयोः रथाङ्गाह्वयोः मिथुनं द्वन्द्वं यामु ताः प्रदोषश्रियो रजनी-मुखशोभा इव। प्रदोषारम्भसमये चक्रवाकदम्पत्योः परस्परं वियुज्य नया उभयतटावस्थितिविधायता। 'एवञ्च तथाविधचक्रवाकमिथुनैः कुचद्वयानाम्, तनुस्रोतोजलैः हारलतानाम्, प्रदोषश्रीभिश्च ललनानां साम्यमवगन्तव्यम्। अत एव चोपमालङ्कारः।
काश्चिदिति। नूपुरमणिभ्यः पादकटकत्नेभ्यः समुत्थितानि, इन्द्रायुधानि शक्रचापतुल्यानेकवर्ण-कान्तिमण्डलानि यासां तासां भावस्तया कारणेन, परिचयेनःचिरसाहचर्येण अनुगताः पश्चादागताः गृहमयूरिकाः भवनपालितमयूर्यो यासां ता इव। मयूरीणां यथा विविधवर्णमयपञ्च्चयुक्तत्वं तथा नूपुरम-णीनामपि विविधरागकान्तिरित्यभिप्रायः। इह गृहमयूरिकागमनुगमनोत्प्रेक्षणात् क्रियोत्प्रेक्षालङ्कारः।
काश्चिदिति। अर्द्धपीतानि अनन्तरम् उज्झितानि चन्द्रापीडावलोकनशीघ्रतावशात् परित्यक्तानि मणिचषकानि रत्नमयपानपात्राणि याभिस्ताः तादृश्यः, इह चषकाणां तत्स्थितमद्येषु लक्षणावगन्तव्या। 'चषकोऽस्त्री पानपात्रम्' इत्यमरः। अत एव स्फुरितो देदीप्यमानो रागो रक्तिमा येषां तैः तादृशैः अधर-पल्लवैः किसलयसदृशदन्तच्छदः करणैः मधुरसं मद्यद्रवं क्षरन्त्यः स्रवन्त्यः इव, अधराणां क्लिन्नत्वादित्यस्याशयः। इह क्रियोत्प्रेक्षा।
कितनी ही स्त्रियाँ, अपने नखोंसे उत्थित शुभ्रवर्ण किरणोंते समन्वित चरणयुगल वहन कर जा रही थीं। उससे प्रतीत होता था मानो, पायजेबोंको झनझनाहट सुन कर आकृष्ट हुए पालतू कलहंसों को चरण वहन कर ले जा रहीं हैं। कितनी ही स्त्रियाँ, बड़े-बड़े मोतियोंके बनाए हुए हार हाथमें धारण कर, कामदेवकी मृत्युसे शोकातुर हुई स्फटिकमय जपमालाधारिणी रतिको मानो अनुकरण करती करती जा रही थीं। कितनी ही युवती स्त्रियोंके स्तनोंके मध्यमें मोतियोंकी मालाएँ गिरकर एकत्रित होने लगीं। अत एव जिस समय चकवाक और चकवाकी नदीके दोनों किनारे रहते हैं एवं मध्य होकर अल्प स्रोत बहते रहते हैं, ऐसे प्रदोष समयके समान वे शोभा पाने लगीं। कितनी ही युवती स्त्रियां मनिमय नूपुरों (पायजेवों) में से ऊपर उठे हुए इन्द्रधनुः सदृश विविधवणोंके प्रभा-मण्डलसे शोना पा रही थीं, इससे प्रतीत हो रहा था मानो, पालतू मोरनियां उन स्त्रियोंके पीछे पीछे आ रही हों। कितनी ही स्त्रियोंने मणिमय पात्रों (प्यालों) से मद्यंको केवल आधा ही पान कर उसे फेंक कर रख दीं थीं, वे ऐसी प्रतीत होती थीं मानो, फड़कते हुए रंगीन पल्लव तुल्य ओष्ठ द्वारा मधुरसको बूँदें टपकाती हों। एवं अन्यान्य
१. स्थूल हार...। २. उक्ताविमल...। ३. परिचयानुगत...। ४. विरावयन्त्यः।
२५४ कादम्बरी- [ कथायाम्-
धरपल्लवैः क्षरन्त्यो हर्म्यतलानि ललनाः समारुरुहुः । अन्याश्च मरकत-वातायन-विवर-विनिर्गत-मुखमण्डला विकच-कमल-कोषपुटमम्बरतलं-सञ्चारिणीं कमलिनीमिव दर्शयन्त्यो ददृशुः ।
उदपादि च सहसा सरभस-सञ्चलन-जन्मा, मधुर-सारणास्फालित²-वीणारव-कोलाहल-बहलः³, रशना-रवाहूत-गृहसारसं⁴ रसितसम्मिश्रः, स्खलितचरणतल⁵-ताडित-मणि⁶-सोपान-जात-गम्भीरध्वनि-प्रहृष्टानांमवरोधशिखण्डिनां⁷ केकारवैरनुगम्यमानः, नवजलधर-रव-भय-चकित-कलहंसकुल⁸-कोलाहलकोमलः, मकरध्वज-विजय-घोषणानुकारी परस्पर-विघट्टनारणित-तारतर-हारमणीनां⁹ रमणीनां श्रोत्रहारी, हर्म्यकुक्षिषु प्रतिरव-निर्हादी भूषणनिनादः ।
अन्या इति । अन्याश्च ललनाः, मरकतस्याश्मगर्भस्य ये वातायना गवाक्षाः तेषां विवरेभ्यः रन्ध्रेभ्यः विनिर्गतानि विनिःसृतानि मुखमण्डलानि वदनसमूहा यासां ताः, तादृश्यः, अत एव विकचानि भेदं प्राप्तानि, कमलस्य पङ्कजस्य कोषपुटानि कोषपुटवदाकारदलानि यस्याः ताम्र, अम्बरतलसञ्चारिणीम् गगन-तलस्थायिनीं कमलिनीं पद्मिनीं दर्शयन्त्यः अवलोकयन्त्य इव विद्यमानाः कचाच्छादितप्रान्तानां मुख-मण्डलानां विकसितपङ्कजयुततत्पर्णसदृशत्वादित्याशयः । ददृशुः अद्राक्षुः कुमारमिति शेषः । इहापि क्रियोत्प्रेक्षालङ्कारः ।
उदपादीति । किञ्चेति चार्थः । सहसा सद्यः भूषणनिनादः अलङ्कारध्वनिः उदपादि उत्पन्नोऽभूदिति सम्बन्धः । सरभस सवेगं यत् सञ्चलनं गमनंतस्माज्जन्मउत्पत्तिर्यस्य स तादृशः । सारणया अङ्गुलीताडनेन-आस्फालिताः सञ्चालिता या वीणा वीणातन्त्र्यस्तासां रवः शब्दः स एव कोलाहलः कलकलः स बहलोऽ-धिको यत्र स तादृशः । रशनारवैः काञ्चीनिनादैः आहूताः तच्छ्रवणेनामन्त्रिता ये गृहसारसा भवनपालि-तसारसपक्षिणः तेषां रसितैः रवैः सम्मिश्रः सम्मिलितः । स्खलितैः शीघ्रतावशात् प्रमृष्टैः चरणतलैः पादतलैः ताडितेभ्यः आहतेभ्यः मणिसोपानेभ्यः रत्नादिकृतसौधाद्यारोहणमार्गेभ्यः जातैः उत्पन्नैः गम्भीरध्वनिभिः मन्द्रध्वनिभिः प्रहृष्टाः मेघशब्दभ्रान्त्या आनन्दिता ये अवरोधशिखण्डिनः अन्तःपुरमयूराः तेषां केकारवैः अनुगम्यमानः सम्मिश्र इत्यर्थः । नवो नूतनो यो जलधरो मेघः तस्य असामयिकमेघस्यत्यभिप्रायः । रवात् गर्जनात् भयेन त्रासेन चकितस्य भीतस्य कलहंसकुलस्य कादम्बगणस्य कोलाहलवत् कोमलो मृदुलः अकठिनः । मकरध्वजस्य कामदेवस्य विजयघोषणां त्रैलोक्यं मया जितमिति जयप्रचारम् अनुकरोतीति स तादृशः । परस्परम् अन्योन्यं यद्विघट्टनं सङ्घर्षणं तेन रणिताः शब्दिताः तारतरा अतिबाहुल्यादमूल्या अति-स्थूला हारमणयः मौक्तिकदामस्थितरत्नानि यासां तासां तथोक्तानां रमणीनां सुन्दरीणां योषितां श्रोत्रहारी कर्णमनोहारी । प्रतिरवेण प्रतिध्वनिना निर्हादी अधिकीभूतः । हर्म्यकुक्षिषु सौधमध्येपु । अन्वय-स्तूक एव । इह 'वीणारवकोलाहलः, इत्यत्र रूपकम्, 'कलहंसकुलकोलाहल' इत्यत्र लुप्तोपमा, मकरध्वज-विजयघोषणानुकारी' इत्यत्रार्थी उपमा, 'हारमणीनां रमणीनाम्' इत्येकक्रमेणावृत्तेर्यमकम् ।
कितनी ही स्त्रियां मरकतमणिद्वारा बनाई हुई खिड़कियोंमेंसे मुखमण्डल बाहर निकाल-निकाल कर चन्द्रापीड़को देखने लगीं, अत एव प्रतीत हो रहा था मानो खिले हुए कमल-युक्त आकाशवर्त्तिनी कमलिनियां दर्शन कर रही हैं ।
जल्दी-जल्दी चलनेके कारण सहसा (एकाएक) ही सभी महलोंके मध्यमें आभूषणों (गहनों) के शब्द होने लगे । मधुर उँगलियोंसे बजती वीणाके शब्दसे वे आभूषणोंके शब्द वर्धित हो रहे थे । मेखलाओंके शब्दको सुनकर आकर्षित हुए पालतू सारसपक्षियोंके शब्द उस शब्दके साथ मिल गए थे । भ्रष्ट (फिसले) चरणों द्वारा ताड़ित होने पर मणिमय सोपान (सीढ़ियों) से गम्भीर शब्द उत्पन्न हो रहा था, उसे सुन कर आनन्दित हुए अन्तः-पुरस्थ (रनिवासके) मयूरोंके केकारव उसके साथ मिलता था । इस प्रकार वह शब्द, असामयिक मेघकी गर्जनाके भयसे चौंक उठते कलहंसोंके कोलाहलके समान कोमल (मधुर) सुननेमें आता था, एवं कामदेवके विजयघोपका अनुकरण करता था और उस समय आपसमें टकरानेसे झनझनाती बड़ी बड़ी मणि-संयुक्त-हार धारण करनेवाली रमणियोंके कानोंको आकर्षण करता था, एवं महलोंके भीतर प्रतिध्वनिसे वृद्धि पाने लगा था ।
१. पुटाम्बरतल*** । २. साधारणास्फालित । ३. क्वचित् 'बहल' इति पदं नास्ति, ४. रवाहूत-सारस । ५. क्वचित् 'तल' पद न विद्यते । ६. क्वचित् 'मणि' पदन्नोपलभ्यते । ७. प्रहृष्टताम् । ८. क्वचित् 'कुलं' इति पदं नास्ति । ९. कश्चित् 'तारहार' इत्येव पाठो दृश्यते ।
चन्द्रापीडावलोकने न०-२७] चन्द्रकला-विद्योतिनोसहिता । २५५
मुहूर्त्तादिव युवतिजन-निरन्तरतया नारीमया इव प्रासादाः, सालक्तक-पद-कमल-विन्यासैः पल्लवमयमिव क्षितितलम्, अङ्गनानाम्, अङ्गप्रभां-प्रवाहेण लावण्यमयमिव नगरम्, आननमण्डलनिवहेन चन्द्रविम्वनयमिव गगनतलम्, आतपनिवारणायोत्तानि-कर-तल-जालकेन कमलवनमयमिव दिक्कचक्रवालम्. आभरणांशु-कलापेन इन्द्रायुधमय इवातपः, लोचनं-मयूल-लेखा-सन्तानेन नीलोत्पलदलमय इव दिवसो बभूव । कौतुकप्रसारित-निश्चललोचनानाञ्च पश्यन्तीनां तासामादर्शमयानीय सलिलमयानीव स्फटिकमयानीव हृदयानि विवेश चन्द्रापीडाकृतिः।
मुहूर्त्तादिति । मुहूर्त्तानन्तरं युवतिजनैः तरुणीजनैः निरन्तरतया निरवकाशतया व्याप्ततया कारणेन प्रासादाः सौधाः, नारीमयाः योषित्निर्मितप्रा इव बभूवुः। सालक्तकानि यावकरसरञ्जितानि यानि पदकमलानि सुन्दरीणां पादारविन्दानि तेषां विन्यासैः स्थापनैः क्षितितलं पृथ्वीतलं पल्लवभयमिव किसलयमयमिव बभूव पदकमलानां पल्लवसदृशत्वादित्याशयः। अङ्गनानां योषिताम् अङ्गस्य शरीरावयवस्य प्रभाप्रवाहेण कान्तिनिर्झरेण नगरं सा राजधानी लावण्यमयमिव सौन्दर्यमयमिव बभूव। लावण्यलक्षणमाहोज्ज्वलनीलमणिः—
'मुक्ताफलेषु छायायां तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते॥' इति।
आननमण्डलानां वदनमण्डलानां निवहेन वृन्देन गगनतलं व्योमतलं चन्द्रविम्बमयमिव बभूव, तेषां चन्द्रविम्बसदृशत्वादित्याशयः। आतपस्य घर्मेः निवारणाय दूरीकरणाय उत्तानितानि शिरस उपरि उत्तानीकृत्य स्थापितानि यानि करतलानि हस्ततलानि तेषां जालकेन समूहेन दिशां ककुभानां चक्रवालं मण्डलम्, कमलवनमयमिव पद्मारण्यमिव बभूव, तस्करतलानां कमलसदृशत्वादित्याशयः। आभरणानां भूषणानां येऽशवः किरणाः तेषां कलापेन समूहेन आतपः सूर्यालोकः इन्द्रायुधमय इव शक्रधनुर्मय इव बभूव तदंशुजालस्य विविधरूपत्वादित्याशयः । 'इन्द्रायुधं शक्रधनुः' इत्यमरः। लोचनानां नयनानां या मयूखलेखा रश्मिराजयः तासां सन्तानेन प्रवाहेण, दिवसः नीलोत्पलदलमय इव नीलनलिनदलैर्निष्पन्न इव बभूव, लोचनमयूखसन्तानानां नीलोत्पलदलतुल्यत्वादित्याशयः। इह विकारार्थे मयट्प्रत्ययविधानेन विकारस्य हि अन्यथारूपत्वेन गुप्तत्वात् सर्वत्र गुणोत्प्रेक्षालङ्कारः।
कौतुकेति । अपि च चन्द्रापीडस्य आकृतिः स्वरूपम्, कौतुकेन अवलोकनकौतूहलेन प्रसारितानि प्रथितानि अनन्तरं निश्चलानि स्थिराणि लोचनानि नयनानि यासां तासां तादृशीनाम्, तासां पौरललनानाम्, आदर्शमयानीव दर्पणरचितानीव, स्फटिकमयानीव स्फटिकरचितानीव, एवमग्रेऽपि । हृदयानि चित्तानि विवेश प्रविष्टा प्रतिबिम्बं यथा दर्पणादौ प्रविशति तथैवेत्याशयः । इह 'आदर्शमयानीव' इत्यादिभित्रिष्वपि गुणोत्प्रेक्षाणां परस्परनैरपेक्ष्येण विद्यमानत्वात्संसृष्टिरलङ्कारः।
एक क्षणमें ही युवतियोंसे व्याप्त होनेके कारण अट्टालिकाएँ (महलें) मानो नारीमय हो गईं, अलक्तक (महावर) रञ्जित-चरण-कमलोंके विन्याससे सब भूतल मानो पल्लवमय हो गया; रमणियोंकी शरीर-कान्तिके प्रवाहसे सब नगर मानो लावण्य-मय हो गया; मुखमण्डलके समूहसे आकाश मानो चन्द्रविम्ब-मय हो गया; रौद्र (धूप) निवारण करनेके लिए मस्तकके ऊपर-ऊँचे उठा कर चित्त किए हुए करतलों (हाथों) से सब दिशाएँ मानो कमल-वन-मय हो गई; आभूषणों के नानावर्णकी किरणोंसे सूर्यका प्रकाश मानो इन्द्रधनुष-मय हो गया और आँखोंसे निकलती किरणोंके प्रवाहसे वह दिन मानो नील कमल-दल-मय हो गया। जिस समयमें नगरवासिनी रमणियाँ, कुतूहल (चाव) से नेत्र फैला कर एकाग्र दृष्टिसे चन्द्रापीड़को देखती थीं, उस समय उन लोगोंका हृदय, मानो दर्पण-मय था, सलिल-मय था एवं स्फटिक-मय था जिसमें चन्द्रापीड़की आकृति प्रवेश कर गई थी।
१. क्वचित् 'अङ्गनाङ्गप्रभा' इति पाठः समुपलभ्यते। २. उत्तानितेन । ३. सान्द्रमृदाशोचन... ।
| २५६ | कादम्बरी- | [ कथामुखम्- |
|---|
आविर्भूत-मदनरसानाञ्चान्योन्यतः सपरिहासाः, सविलम्भाः, ससम्भ्रमाः, सेर्ष्याः, सोत्प्रासाः, साभ्यसूयाः, सविलासाः, सनन्मथाः, सस्पृहाश्च तत्क्षणमतिरमणीयाः प्रसस्रुरालापाः। तथा हि-'त्वरितगमन ! मामपि प्रतिपालय। दर्शनोन्मत्ते ! गृहाणोत्तरीयम्। चपले ! उल्लासय अलकलतामाननाववलम्बिनीम्। मूढे ! चन्द्रलेखामुपाहरै। उपहारै-कुसुम-स्खलित-चरणा पतसि मदनान्धे ! संयमय मदनिश्चेतने ! केशपाशम् । उत्क्षिप चन्द्रापीडदर्शन-
आविर्भूतेति। अपि च, आविर्भूतः प्रकटीभूतो मदनरसः कामानुरागो यासां तासां तादृशीनां तरुणीनाम् अन्योन्यं परस्परं परिहासो नर्मवचनं तेन सह वर्तमानाः सपरिहासाः, सविलम्भाः सविश्वासाः, अन्यथा तथाविधालापैः कोपव्यप्यः अपि भवेयुरित्याशयः । ससम्भ्रमाः सशीघ्राः, अन्यथा तथाविधालापैः बहुकालमन्यमनस्कतया उत्कटनिरीक्षणं न भवेदित्याशयः । ईर्ष्या परासहनलक्षणया सह वर्तमानाः सेर्ष्याः, स्थानाधिक्येनान्यस्याः अधिकतरनिरोधगावसरादित्याशयः । सोत्प्रासाः मन्दहासेन सहिताः 'उत्प्रासः समन्तात् स्मितम्' इत्यमरः । अन्यदीयगुणेषु दोषाविष्कारम् अभ्यसूया तया सह वर्तमानाः साभ्यसूयाः । अन्यस्याः सौन्दर्यावलोकनेन तत्समयेऽपि मात्सर्याविर्भावादित्याशयः । विलासेन हस्तलोचनादिनाऽङ्ग-विशेषेण सह वर्तमानाः सविलासाः, सनन्मथाः सकामाः सस्पृहाः साभिलाषाः । तत्क्षणं तस्मिन् समये अतिरमणीयाः अतिमनोहराः आलापाः संलापाः प्रसस्रुः विस्तारेण बभूवुः ।
तानेवालापान् प्रकटयितुमाह-उदाहीति । त्वरितं शीघ्रं गमनं यस्याः सा तत्सम्बुद्धौ हे त्वरित-गमने ! मां सहचरीमपि प्रतिपालय प्रतीक्षस्व । स्वमतिक्रम्य शीघ्रं व्रजन्तीं सखीं प्रति कस्याश्चिदीर्ष्या-पूर्वकवचनमिदम् ।
दर्शनेति । दर्शनोन्मत्ते चन्द्रापीडावलोकनेन उन्मादाभिभूते ! उत्तरीयम् शाट्या उपरि आच्छादनवस्त्रं गृहाण, पततोऽपि स्वपरिच्छेद्याज्ञानवतीं प्रति कस्याश्चिन्नर्मवचनमिदम् ।
चपल इति । हे चपले चञ्चले ! आननाववलम्बिनीं चपलतयैव वदनोपरिसञ्चारिणीम् अलकलतां कुन्तलवल्ल्यमानां पटलकपङ्क्तिम् उल्लासय दूरीकुरु । एवं विधां प्रति कस्याश्चित्सविश्वासकथनमिदम् ।
मूढ इति । हे मूढे चन्द्रापीडावलोकनेन गतचेतने ! स्खलितायामपि चन्द्रलेखायां तदज्ञानादि-त्याशयः । चन्द्रलेखां चन्द्रलेखासदृशं भालभूषणविशेषम् उपाहर उत्थापय, गृहाणेत्यर्थः । काञ्चित्स्खलित-चन्द्रलेखां प्रति सविश्वासं कस्याश्चित्कथनमिदम् ।
उपेति । हे मदनान्धे मन्मथोत्तेजने अन्यत्र निरीक्षणसामर्थ्यरहिते ! अनवलोकनवशात् पुष्पेषु पतितचरणतया स्खलितप्रायत्वादित्याशयः । उपहारकुसुमेषु रमणीयावलोकनाय विक्षिप्तेषु पुष्पेषु, स्खलितौ पतितौ चरणौ पादौ यस्याः सा तथोक्ता सती पतसि । तथाविधो प्रति कस्याश्चिन्नर्मवचनमिदम् ।
संयमनेति । हे मदनिश्चेतने कामोन्मत्ततया चेतनारहिते ! विक्षिप्तेष्वपि कचेषु तदज्ञानादित्याशयः । केशपाशं कचसमूहं संयमय ग्रथितं विधेहि । परितो विक्षिप्तकेशीं प्रति कस्याश्चिदिदमपि नर्मवचनम् ।
उत्क्षिपेति । चन्द्रापीडदर्शने चन्द्रापीडावलोकने व्यसतिनि नितान्तासक्तिमति । अन्यविषयेऽपज्ञा-नादित्याशयः । काञ्चीदामकं रसनागुणम् उत्क्षिप उच्चैनय, दृष्टिभागात्पादयोः स्खलितेन काञ्चीदाम्नाव्ररुद्धगमनां प्रति कस्याश्चिदुत्कण्ठापूर्वकवचनमिदम् ।
इसके बाद उन लोगोंको मदनानुराग उत्पन्न हुआ; उस समय उन लोगोंका आपसमें परिहास, विश्वास, त्वरा, ईर्ष्या, ईषद्-हास्य, असूया, विलास (भाव भङ्गी), कामोद्रेक और अनुरागके साथ अतिमनोहर आलाप होने लगे।
जैसे-'अरी शीघ्र चलनेवाली, मेरी भी थोड़ी प्रतीक्षा करो (अर्थात् मुझे भी संग लेनी जा)। अरी, चन्द्रापीड को देखनेके लिये पगली अपनी दुपट्टा संभाल लो। अरी, चञ्चलस्वभाववाली मुखके ऊपर लटें पड़ी हैं उन्हें सुधार लो। अरी, मूढ़ तू अपनी चन्द्रलेखा (चन्द्रलेखाकार ललाटाभरण, चाँद) को उठाकर ले लो। अरी, कामते अन्धी देख, क्षिप्त पूजाके फूलों पर पाँवसे ठोकर खाकर गिर रही हो। अरी, मदनमत्त होनेसे चेतना-रहितवाली अपनी चोटी तो बाँध। अरी चन्द्रापीडको देखनेके लिए तड़पने वाली, अपनी काञ्चीदाम (तगड़ी) ऊँची
१. अन्योऽन्य । २. रमणीयाः, अतिरमणीयाः । ३. चपले ! इति पदं क्वचित् विद्यते । ४. चन्द्रलेखे मुहुरुपाहर । ५. समुत्पाहर । ६. ०-०चरणे ।
चन्द्रापीडावलोकने भाषालापव० २८ ] चन्द्रकला-विद्योतिनीसहिता । २५७
व्यसनेति ! काञ्चीदामकम् । उत्सर्पय पापे ! कपोलदोलायितं कर्णपल्लवम् । अहृदये ! गृहाण निपतितं दन्तपत्रम् । यौवनोन्मत्ते ! विलोक्यसे जनेन, स्थगय पयोधरभारम्¹ । अपगतलज्जे ! शिथिलीभूतमाकलय दुकूलम् । अलीकमुग्धे ! द्रुततरमागभ्यताम् । कुतूहलिनि ! देहि दर्शनान्तरम् । असन्तुष्टे ! कियद्यालोकयसे । तरलहृदये ! परिजनमपेक्षस्व । पिशाचिं !
उत्सर्पयेति । हे पापे पापशीले ! परपुरुषावलोकनोन्याद्वत्याशियः । कपोलयोः गण्डयोः दोलायितं शीघ्रगत्यान्दोलितं कर्णपल्लवं श्रोत्रकिसलयम् उत्सर्पय श्रोत्रसमीपमुन्नय, अन्यथा नेत्रोपरि पतितेनावलोकनावरोधो भवेदित्याशयः । तथाविधां प्रति कस्याश्चिद्व्यसूयापूर्वकं कथनमिदम् ।
अहृदय इति । हे अहृदये चित्तशून्ये ! चन्द्रापीडं प्रति चेतोगमनेन दन्तपत्रस्खलनाज्ञानादित्याशयः । निपतितं स्रस्तं दन्तपत्रं गजदन्तरचितं पत्रसद्दशकर्णभूषणविशेषं गृहाण स्वीकुरु । स्खलितदन्तपत्रां प्रति कस्याश्चिन्मर्मवचनमिदम् ।
यौवनेति । हे यौवनोन्मत्ते तारुण्यमदेनोन्मादशीले ! कुचयोराच्छादनाभावेऽपि तदनवबोधादित्याशयः । जनेन पौरलोकेन त्वं विलोक्यसे दृग्विषयीक्रियसे अतः पयोधरभारम् आच्छादनरहितं विस्तृतकुचद्वयम् , स्थगय वस्त्रेणाच्छादय । अनाच्छादितकुचां प्रति कस्याश्चिन्मर्मवचनमिदम् ।
अपगतेति । हे अपगतलज्जे दूरीभूतत्रपे ? नितम्बाऽवलोकनेऽपि वस्त्रानुत्सर्पणादित्याशयः । शिथिलीभूतं नितम्बदेशात् पतितं दुकूलं वस्त्रम् आकलय स्वस्थाने नियोजय । तथाविधां प्रति उत्कण्ठापूर्वकवचनमिदम् ।
अलीकेति । हे अलीकमुग्धे मिथ्याप्रदर्शितमुग्धभावे ? परमार्थतस्त्वं प्रगल्भैव चन्द्रापीडावलोकनोत्कण्ठया सामान्यावलोकोचितस्थानागमनेन निर्लज्जत्वादित्याशयः । द्रुततरं शीघ्रतरम् आगम्यताम् , अन्यथावलोकनमार्गमवतिक्ररामेच्चन्द्रापीड इत्यभिप्रायः । कपटेन प्रदर्शितमुग्धभावां प्रति कस्याश्चिन्मर्मवचनमिदम् । मुग्धालक्षणं साहित्यदर्पणे यथा—
‘प्रथमावतीर्णयौवनमदनविकारा रतौ वामा । कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥’
कुतूहलिनीति । हे कुतूहलिनि ! अवलोकनात्यन्त कौतुकयुक्ते ! मम सख्या अप्यनपेक्षणादित्याशयः । दर्शनान्तरं ममापि अवलोकनाय स्थानं देहि । अलब्धस्थानायाः कस्याश्चित् स्थानावरोधिनीं प्रति ईर्ष्यापूर्वकं कथनमिदम् ।
असन्तुष्ट इति । हे असन्तुष्टे बहुकालाऽवलोकनेनापि सन्तोषरहिते ! अनपसरणादित्याशयः । कियत् कियन्मात्रम् आलोकयसे वीक्षसे सम्प्रत्यपसरेत्याशयः । बहुकालमवलोकयन्तीं प्रति कस्याश्चिदीर्ष्यापूर्वकं वचनमिदम् ।
तरलेति । हे तरलहृदये चपलचित्ते ! अवलोकनोत्कण्ठया शीघ्राग्रगमनादित्याशयः, परिजनं सख्यादिकम् अपेक्षस्व प्रतीक्षां विदेहि । तदपेक्षया मन्दं मन्दं व्रजेति भावः । परिजनवर्गं परित्यज्य धावमानां प्रति कस्याश्चिन्मर्मवचनमिदम् ।
पिशाचीति । हे पिशाचि राक्षसि तत्सदृशे निस्त्रपत्वादित्याशयः । गलितोत्तरीया स्वस्थानात्त्रस्तसंख्याना अत एव जनेन आगन्तुकलोकेन पश्यता लोकेन च विहस्यते । अतः स्वस्थान उत्तरीय स्थापयेत्याशयः । तथाविधां प्रति विश्वासपूर्वककथनमिदम् ।
तो बद्धो । अरी, पापिन कपोल पर हिलते उस कर्णपल्लवको तो एक तरफ कर । अरी हृदयशून्यवाली, तेरी हाथी दाँत की खंची गिर पड़ी है उसे तो उठा कर ले लो । अरी, यौवनमदसे मतवाली, लोग तुझे देखते हैं, अत एव विशाल अपने स्तनमण्डल को ढक तो ले । अरी, लज्जा रहितवाली तेरे पहननेका कपड़ा ढीला हो गया है उसे अपने स्थानमें कर तो ले । अरी, मिथ्याप्रकटित मुग्धभाव वाली अतिशीघ्र आओ । अरी, देखनेकी बड़ी शौकीन मुझे भो एकबार देखनेका स्थान दो । अरी, अधिक देखने पर भी तृप्ति रहितवाली तू कब तक देखती रहेगी । अरी, चञ्चल हृदयवाली जरा अपने नौकर-चाकरों की तो अपेक्षा करो । अरी, लज्जारहित होनेके कारण पिशाची समान लगनेवाली, तेरा दुपट्टा ढिलक जानेसे उसे देखकर लोग हँस रहे हैं । अरी अनु-
१. ००० भागम् । २. नृपदर्शनान्तरम् । ३. पिशाचिके ।
| २४८ | कादम्बरी- | [ कथायाम्- |
|---|
गलितोत्तरीया विहस्यसे^१ जनेन। रागावृतनयने ! पश्यसि न सखीजनम्। अनेक-भङ्गिविकारपूर्णे ! दुःखमकारणायासितहृदया^३ जीवसि। मिथ्याविनीते ! किं व्यपदेशवीक्षितैः, विस्रब्धमालोकय^४। यौवनशालिनि ! किं पीडयसि पयोधरभारेण। अतिकोपने ! पुरतो भव। मत्सरिणि ! किमेकाकिनी रुणत्सि वातायनम्। अनङ्गपरवशे ! मदीयमुत्तरीयांशुकमुत्तरीयतां नयसि ? रागासवमत्ते^५ ! निवारयात्मानम्। उज्झितधैर्ये ! किं धावसि गुरुजनसमक्षम्।
रागावृतेति। रागेण चन्द्रापीडप्रीत्यतिशयेन आवृते आच्छादिते अन्यावलोकनावश्यकत्वे कृते इत्यर्थः। नयने लोचने यस्याः तत्सम्बुद्धौ रूपम्। अतएव सहचरीवर्गमपि नावलोकयसीति काकुः, सहसैवेदं तवानुचितमित्याशयः। एकाग्रलोचनां प्रति नर्मवचनमिदम्।
अनेकेति। अनेका बह्व्यो या भङ्गयः हस्तनेत्रादिसङ्केता एतद्विकाराः तैः पूर्णे भृते !, अकारणं चन्द्रापीडप्राप्यसम्भवान्निष्फलम् आयासितहृदया सोत्प्रासं खिन्नमानसा दुःखं क्लेशं यथा स्यात्तथा जीवसि प्राणान् धारयसे। एवञ्च प्रदर्श्य अनेकभङ्गीविकारान् तथापि चन्द्रापीडप्राप्तिस्ते कदापि न भवेत् तथा-सति सम्प्रति' हृदयस्यायासः दुःखमयं च जीवनं निष्प्रयोजनमेवेत्याशयः। इदमपि तथाविधां प्रति नर्मवचनम्।
मिथ्येति। हे मिथ्याविनीते असत्यविनयप्रकटिनि ! व्यपदेशवीक्षितैः व्याजनिरीक्षणैः किम्? अस्माभिस्तदवलोक्यमानत्वेन विपर्यासत्वनिश्चयान्न किञ्चिदपि प्रयोजनमित्याशयः, अत एव विस्रब्धं निःसन्देहम् आलोकय पश्य। एवं सति तवाप्यवलोकन सौविध्यं स्यात् अस्माकमपि व्याजनिश्चयेन त्वयि विरागो न भवेदित्याशयः। अन्यापदेशेनावलोकयन्तीं प्रति कस्याश्चिन्नर्मवचनमिदम्।
यौवनेति। हे यौवनशालिनि उत्कृष्टतारुण्यसंयुक्ते ! तदुक्तमभिधायककठिनपीनकुचवत्त्वादित्याशयः। पयोधरभारेण तथाविधकुचयोर्गुरुत्वेन भारवत्कुचद्वयेनेत्यर्थः, पीडयसि पृष्ठतः सङ्घर्षणेन पीडां जनयसि। अग्रगमनत्वरात् कठिनस्तनद्वयेन पृष्ठत आघातविधायिनीं प्रति कस्याश्चित् सोत्कण्ठनर्मवचनमिदम्। इह पीडनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।
अतिकोपन इति। हे अतिकोपने अत्यन्तक्रुद्धप्रकृतिके! अपसर्तुं कथयत्येव भ्रुकुटीविधायित्वादित्याशयः। पुरतः अग्रगामिनी भव। यतो हि तवाघातवशादग्रे वर्तितुं न समर्थोऽस्मीति भावः। अत्यन्तावलोकेनोत्कण्ठया आघातेनाग्रे जिगमिषन्तीं प्रति कस्याश्चित्पुरःस्थायिन्या ईर्ष्यापूर्वककथनमिदम्।
मत्तेति। हे मत्सरिणि अन्यशुभद्वेषिणि ! 'मत्सरोऽन्यशुभद्वेष' इत्यमरः। अवलोकनविघ्नविधानादित्याशयः। एकाकिनी असहाया वातायनं गवाक्षं किं रुणत्सि रोधनं कुरुषे ? मह्यमपि स्थानं देहीत्यभिप्रायः। वातायनद्वारावरूद्धां प्रति साभिनिवेशं द्रष्टुमिच्छन्त्याः तत्स्थानमप्राप्तवत्याः कस्याश्चित् ईर्ष्यापूर्वकं वचनमिदम्।
अनङ्गेति। हे अनङ्गपरवशे मदनायत्ते ? कामाभिभूतेन लब्धमोहे इत्यर्थः, आत्मीयानात्मीयविचाराभावादित्याशयः। अत एवोक्तं मदीयमिति। उत्तरोयांशुकम् उत्तरीयवस्त्रम् उत्तरीयताम् उपनिवसतां नयसि प्रापयसि। आत्मीयभ्रान्त्यान्यदीयमुत्तरीयं गृहतीं प्रति कस्याश्चिन्नर्मवचनमिदम्।
रागेति। रागः चन्द्रापीडं प्रति स्नेह एव आसवो मद्यं तेन मत्ता उन्मादयुक्ता तत्सम्बुद्धौ हे रागासवमत्ते ! अनेकविधकरनयनादिसङ्केतविधानादित्याशयः। आत्मानं चन्द्रापीडं प्रति सस्नेहं चित्तं निवारय वारणं विधेहि, अन्यथा एतदाप्त्यभावेन बहुकालं पश्चात्तापमनुभविष्यसीत्यभिप्रायः। नानाविधभङ्गिविधायिनीं प्रति नर्मवचनमिदम्।
उज्झितेति। हे उज्झितधैर्ये चन्द्रापीडावलोकनोत्सुक्येन त्यक्तधैर्ये ! गुरुजनसमक्षं वेगेन गमनादि-
रागाच्छन्न नेत्रवाली, क्या तू अपनी सखियोंको भी नहीं देखती है। अरी नानाविधभङ्गीविकारपूर्णवाली, तू निष्प्रयोजन खिन्नचित्त होकर दुःखसे जीवन-धारण करती है। अरी झूठा विनय दिखानेवाली, छलपूर्वक देखनेसे क्या फल ? निःशङ्कभावसे (बेखटके) देख न। अरी उत्कृष्ट-यौवनवाली, तू अपने विशाल स्तनोंके आघातसे मुझे क्यों पीड़ा देती है। अरी अत्यन्तक्रुद्धस्वभाववाली (गुस्सैल), तू ही आगे हो जा। अरी अन्य-शुभद्वेषवाले, तू अकेली सब खिड़कीके द्वारको क्यों घेर लेती है। अरी कामके पराधीन होने वाली, तू मेरे दुपट्टेको अपना दुपट्टा
१. वल्गित । २. इष्यते । ३. दुःखकारणायासितहृदया । ४. विलोकय, ५. रागमत्ते ।
चन्द्रापीडावलोकने भावालाप०-२८ ] चन्द्रकला-विद्योतिनीसहिता। २५६
उल्लसत्स्वभावे ! किमेवमाकुलीभवसि ? मुग्धे ! निगूहस्व मदनज्वर-जनित-पुलकजालकम् । असाध्वाचरणे !^१ किमेवमुत्ताम्यसि ? बहुविकारे ! विविधाञ्चलनायासित-मध्यभागा वृथा खिद्यसे । शून्यहृदये ! स्वभवनान्निर्गतमपि नात्मानमवगच्छसि । कौतुकाविष्टे ! विस्मृतासि निश्वसितुम्^३ । अन्तःसङ्कल्प-रचित-सुरत-समागम-सुख-रस-निमीलित-लोचने ! समुन्मीलय लोचनयुगलम्, अतिक्रामत्ययम् । अनङ्ग-शर-प्रहार-मूर्च्छिते ! रविकरनिवारणाय
व्यामयः। गुरुजनानां श्वशुरादिपूज्यलोकानां समक्षं प्रत्यक्षं किं धावसि अतिवेगाच्चलसि । तयाविधां प्रति ईर्ष्यापूर्वकवचनमिदम् ।
उल्लसदिति । उल्लसन् आविर्भवन् स्वभावो मनोविकारो यस्याः तत्सम्बुद्धौ हे उल्लसत्स्वभावे ! व्यग्रत्वादित्याशयः । एवम् अमुना प्रकारेण किं किमर्थम् आकुलीभवसि व्याकुलतां भजसे । चन्द्रापीडसं-योगस्तेनैव स्यादतोऽयमाकुलीभावो निरर्थक एवेत्याशयः । तयाविधां प्रति कस्याश्चित् सोत्कण्ठपरिहास-वचनमिदम् ।
मुग्ध इति । हे मुग्धे मृदुले ! प्रकटीभवतोऽपि रोमाञ्चसमूहस्यानवबोधादित्याशयः । मदनज्वरेण कामसन्तापेन जनितम् उत्पन्नं पुलकजालकं रोमाञ्चसमूहं निगूहस्व वस्त्राच्छादनेन संवृतं कुरु । अन्यथा जनोपहासिष्यस इत्यभिप्रायः । पूर्ववदेव तयाविधां प्रति वचनमिदम् ।
असाध्विति । हे असाध्वाचरणे असच्चरिते परपुरुषार्थं व्याकुलत्वादित्याशयः । एवम् अनेन प्रकारेण सातिशयमित्यर्थः । किं किमर्थम् उत्ताम्यसि व्यग्रा भवसि । पातिव्रत्यविरुद्धमेतदिति भावः । करनयनादि-सङ्केतविशेषावलोकनेनानुमितव्यग्रभावां प्रति ईर्ष्यापूर्वकवचनमिदम् ।
बह्विति । बहवोऽनेके विकाराः शृङ्गारभावा यस्याः सा तत्सम्बोधने हे बहुविकारे ! गात्रविक्षेपादि-मत्त्वादित्याशयः । विविधेन अनेकेन अञ्चलनेन मध्यभागसञ्चालनकटाक्षपातादिना आयासितः खेदितः मध्यभागः कटिदेशो यया सा तथोक्ता सती वृथा व्यर्थं खिद्यसे परितप्यसि, चन्द्रापीडाप्राप्त्यसम्भवा-दित्याशयः कटीदेशस्यैवात्यन्ततनुत्वात्केवलं तद्दुःखिः सङ्गच्छते । तयाविधां प्रति नर्मवचनमिदम् ।
शून्येति । शून्यं विषयान्तरज्ञानरहितं हृदयं चित्तं यस्याः तत्सम्बुद्धौ हे शून्यहृदये ! चन्द्रापीडं प्रत्येव दत्तचित्तत्वादित्याशयः । स्वभवनात् निजगृहात् निर्गतं बहिर्निःसृतमपि आत्मानं स्वशरीरं नावगच्छसि न जानासि स्वभवनाद्वहिर्भवन्तीं प्रति सोत्कण्ठनर्मवचनमिदम् ।
कौतुकेति । कौतुकेन चन्द्रापीडरूपावलोकनकुतूहलेन आविष्टम् आकृष्टं चित्तं यस्याः तत्सम्बुद्धौ हे कौतुकाविष्टे ! विषयान्तरानवगमादित्याशयः । अत एवोक्तम् निःश्वसितुमपि निःश्वासं ग्रहीतुमपि विस्मृतासि इति । निर्निमेषत्वेन तर्कितैकाग्रतां प्रति सोत्कण्ठनर्मवचनमिदम् ।
अन्तरिति । अन्तः सङ्कल्पेन मनोव्यिसायेन रचितं कल्पितं यद्-सुरतसमागमसुखं चन्द्रापीडेन सह सम्भोगप्राप्त्यानन्दः तस्य रसेन आस्वादानुभवेन निमीलिते सङ्कुचिते लोचने नयने यया तत्सम्बुद्धौ रूपम् । तयाविधरसानुभवं विना सम्प्रति लोचनमुद्रणमसङ्गत्वादित्याशयः । लोचनयुगलं नेत्रद्वयं समुन्मीलय विकासय, अन्यथाऽयं चन्द्रापीडो लोचनपयगोचरो न भवेत् तदन्तैय गमनात् तथा सति विलक्षणावलोकनजन्यानन्दो न स्यादित्याशयः । निमीलितलोचनां प्रति कस्याश्चिन्नर्मवचनमिदम् ।
अनङ्गेति । अनङ्गस्य कामदेवस्य यः शरप्रहारो बाणाघातस्तेन मूर्च्छिता मूर्च्छापन्ना निश्चेतनेत्यर्थः ।
क्यों बना लेती है। अरी प्रेमके मत्तवाली, जरा तो अपने मनको रोक। अरी अधीर स्वभाववाली, गुरुजनों (बड़े बूढ़ों) के सामने क्यों दौड़ी जाती है। अरी आविर्भूतमनोविकारवाली, इतना व्याकुल क्यों होती है ? अरी सरल स्वभाववाली, कामज्वरसे उत्पन्न हुए रोमाञ्चसमूहको वस्त्रसे ढक तो ले। अरी, दुराचारिणी इतनी उतावली क्यों होती है ? अरी, बहुत विकारवाली, तू अनेक प्रकारसे अङ्गसञ्चालन द्वारा मध्यभागको (अपनी कमरको) कष्ट उत्पन्न कर व्यर्थ परिश्रम करती है। अरी शून्यहृदयवाली तू अपने घरसे बाहर होकर आ गई है, इसे भी नहीं समझती है। अरी, चन्द्रापीडरूपदर्शनकौतूहलचित्तवाली तू सांस लेना भी भूल गई है। अरी, अन्तःसङ्कल्परचित सुरतसमागमके सुखसे आँखें मीचनेवाली तू आँखें खोल, देख, ये जो दृष्टिभय अतिक्रमण कर जा रहे हैं। अरी कामवाणके प्रहारसे मूर्च्छावाली, धूप रोकनेके लिए मस्तकके ऊपर उत्तरीयकञ्चुक (दुपट्टा) का पल्ला डाल। अरी
१. संह्लादरणे ! २. विविधाङ्गमञ्चलन० विविधाङ्गमङ्गलचलन । ३. निःश्वसितुम् । ४. ०रत०रति ।
| २६० | कादम्बरी- | [कथायाम्- |
|---|
कुरु शिरस्युत्तरीयांशुकपल्लवम्। अयि सतीव्रत-ग्रहगृहीते ! द्रष्टव्यमपश्यन्ती वञ्चयसि लोचनयुगलम्। अघन्ये !¹ हतासि परपुरुष-दर्शन-परिहार-व्रतेन²। प्रसीद, उत्तिष्ठ सखि ! पश्य रतिविरहितं साक्षादिव भगवन्तमगृहीत-मकरध्वजं मकरध्वजम्। अयमस्य सितातपत्रान्तरेण अलिकुलनीले शिरसि तिमिरशङ्कानिपतित इव शशिकरकलापो मालतीकुसुमशेखरोऽभिलक्ष्यते। एतदस्य कर्णाभरण-मरकत-प्रभा-श्यामायितम् उपचित-विकच-शिरीष-कुसुम-कर्ण-पूर-
या सा तत्सम्बोधने हे अनङ्गशरप्रहारमूर्च्छिते ! विद्यमानक्लेशानवगमादित्याशयः । रविकिरणनिवारणाय सूर्यतापानोदनाय उत्तरीयांशुकपल्लवम् उत्तरीयवसनविस्तारम् शिरसि मस्तके कुरु विधेहि । घर्मक्लिष्टां प्रति नर्मवचनमिदम् ।
अयीति । अयीति कोमलामन्त्रणे । सत्याः पतिव्रतायाः यद्व्रतं स्वान्यतिरिक्तस्यानवलोकनरूपो नियमः स ग्रहो भूतविशेषः तेन गृहीता अभिभूता या तत्सम्बुद्धौ हे सतीव्रतगृहीते ! भूतावेशमन्तरा एवंविधरूपावलोकनवैमुख्यं न भवेदित्याशयः । अतएव द्रष्टव्यम् अवलोकनीयमद्भुतरूपिणं चन्द्रापीडमित्यर्थः, अपश्यन्ती अनवलोकयन्ती लोचनयुगलं नेत्रद्वयं वञ्चयसि प्रतारयसि अन्यथैतादृशावलोकनासम्भवादित्याशयः । कस्याश्चिन्नायिकाभिः सह समेत्य परपुरुषावलोकनात्, सतीत्वव्यपगमभयेनानवलोकयन्तीं प्रति विश्वासपूर्वकं वचनमिदम् ।
अधन्य इति । हे अघन्ये अभाग्ये ! सति भाग्येऽवलोकनावश्यंभावादित्याशयः । परपुरुषदर्शनस्य स्वपतिभिन्नपुरुषावलोकनस्य परिहारः परित्यागः व्रतं नियमः तेन तादृशेन हता बहुकालं प्रतारितेति अवलोकनीयानवलोकनादित्याशयः । पूर्ववदेव कथनमिदम् ।
प्रसीदेति । प्रसीद प्रसन्ना भव, हे सखि ! उत्तिष्ठ उत्थिता भव, रत्या स्वस्त्रिया विरहितं वियुक्तम् चन्द्रापीडस्यापि स्वपत्नीरहितत्वाद्विशेषणमिदम् । न गृहीतो नात्तः मकरध्वजो मकरसंज्ञकजलजीवाङ्कितो ध्वजो येन तं तादृशम् । चन्द्रापीडस्यापि तथाविधध्वजाभावाद्विशेषणमिदम् । साक्षात् मकरध्वजं कामदेवमिव चन्द्रापीडं पश्य अवलोकय । सौन्दर्यमोहेनोपविशन्तीं प्रति कस्याश्चित् सख्या वचनमिदम् ।
अयमिति । अलयो भ्रमराः तेषां कुलं समूहः तद्वत् नीले तथाविधकचाच्छादितत्वादत्यन्तश्यामलवर्ण्णे अस्य चन्द्रापीडस्य शिरसि मस्तके, तिमिरमन्धकारः तच्छङ्कया तद्भ्रमेण तिमिरभ्रमजनितत्वन्निराकरणार्थवेत्यर्थः । निपतितः शशिकरकलाप इव चन्द्ररश्मिनिकर इव अयं पुरो दृश्यमानो मालतीकुसुमान् मालतीपुष्पाणां शेखरः लग्नशिरोऽलङ्कारः सितातपत्रान्तरेण शुभ्रच्छत्राभ्यन्तरेण अभिलक्ष्यते समवलोक्यते । अभिलाषपूर्वकवचनमिदम् ।
'अलिकुलनील' इत्यत्र लुप्तोपमा, तिमिरशङ्केत्यादौ भ्रान्तिमान्, जात्युत्प्रेक्षा चेति परस्परमेतेषां अङ्गाङ्गिभावेन सङ्करः ।
एतदिति । कर्णाभरणं कर्णभूषणं तन्मरकतं हरितमणिः तस्य या प्रभा कान्तिः तया श्यामायितं श्यामवदाचरितम् एतत् पुरोऽवलोक्यमानम् अस्य चन्द्रापीडस्य कपोलतलं गण्डयुगलोर्ध्वदेशः, उपचितो निर्मितः विकचस्य विकसितस्य शिरीषकुसुमस्य कर्णपूरः कर्णभूषणं यत्र तत्तथोक्तमिव आभाति शोभते । शिरीषपुष्पस्य श्यामत्वात् कपोलतलप्रभापतनसम्भवाच्चेत्याशयः । साभिलाषेयमुक्तिः ।
'श्यामायितम्' इत्यत्र क्यङ्ङ्गतोपमालङ्कारः, उपचितेत्यादौ क्रियोत्प्रेक्षा चेति द्वयोः परस्परमङ्गाङ्गिभावः सङ्करः ।
सतीव्रतरूपी ग्रहसे पीडावाली, देखने योग्य वस्तु न देखकर तू अपने नेत्रोंको वञ्चित करती (ठगती) है । अरी अभागिनी, परपुरुषका मुँह न देखनेकी प्रतिज्ञा करके तू ठगी गई है । सखि ! प्रसन्न हो, उठ और इस रतिविहीन मकरध्वज-रहित साक्षात् कामदेवके समान कुमारको देख । भ्रमरसमूहके समान अत्यन्त कृष्णवर्ण मस्तकके ऊपर अन्धकार-भ्रमसे झुके हुए चन्द्रमाकी किरणोंके कलापके समान इनके यह चमेलीके फूलोंका मौर, श्वेतवर्ण छत्रके भीतर देखनेमें आ रहा है । इनके ये गण्डयुगल, कर्णभूषणके मरकतमणिकी प्रभासे श्यामवर्ण होकर दीप्ति पा रहे हैं, अत एव प्रतीत हो रहा है, मानो खिले हुए शिरीषके फूलका कर्णाभरण (कनफूल) बनाकर कानपर दिया हुआ है।
१. नयने । २. ...'दर्शनव्रतेन, परिहारव्रतेन ।
चन्द्रापीडावलोकने भावालाप०-२८ ] चन्द्रकला-विद्योतिनीसहिता । २६१
मिव कपोलतलमाभाति। अयमस्य हारान्तर्निविष्टारुण-मणि-किरण-कलापच्छलेन हृदयं विवि- क्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एतदनेन चामरकलापान्तरैरित इव वीक्षितम्¹ एतत् किमपि वैशम्पायनेन सह समामन्त्र्य² दशन-मयूख-लेखा-धवलीकृते³-दिक्चक्रवालं हसितम् । एषोऽस्य शुक-पक्षति-हरित-रागेणोत्तरीयांशुकप्रान्तेन वलाहकस्तुरग-खुर-चलन- जन्मानं लग्नम्⁴ अग्रेकेशेषु रेणुमपहरति । अयमनेन लक्ष्मीकर-कमल-कोमल-तलः समु- त्क्षिप्य तिर्य्यक् तुरङ्गमस्कन्धे निक्षिप्तश्चरणपल्लवः । सलीलमयमेन च ताम्बूल-याचनार्थ- मुत्तानिततलैः कोमलैर्दीर्घाङ्गुलिः आताम्र-पुष्कर-शोभी गजेनेव शैवाल-कवल-लालसः⁷
अयमस्येति । अयं पुरोऽवलोक्यमानः, अभिनवयौवनस्य नूतनतारुण्यस्य रागः तत्समयसम्भवोऽनु-राग एव रागो रक्तिमा, हारस्य मुक्ताकलापस्य अन्तर्निविष्टाः मध्यप्रविष्टा ये अरुणमणयः पद्मरागाः तेषां किरणकलापच्छलेन रश्मिसमूहव्याजेन विद्यमान इत्यर्थः, हृदयं चित्तं विवक्षुः प्रवेष्टुमिच्छुरिव सन् बहिः परिस्फुरति सम्प्रत्यपि अन्तर्गमनाभावाद् हृदयोपरि प्रसर्पति । वक्षःस्थले रक्तकान्तिः समीक्ष्यते, नासाय-रुगमणिकान्तिः, किन्तु तारुण्यसम्भवानुरागो हृदयं प्रवेष्टुमिच्छुः सम्प्रत्यपि वहिस्तिष्ठतीति स्पष्टार्थः । इदमप्यभिलाषापूर्वकं वचनम् । इह सापह्नवोन्मेक्षा, अभेदाध्यवसायादतिशयोक्तिश्च, अनयोर्मिथोऽङ्गाङ्गि-भावेन सङ्करः।
एतदिति । अनेन चन्द्रापीडेन चामरकलापस्य सञ्चाल्यमानचामरसमूहस्य अन्तरैः मध्यप्रदेशैः इत एव मां प्रत्येव एतद् वीक्षितम् एतदिति दर्शनक्रियायाः परामर्शः । इदं च सविलासमन्मथं कस्याश्चिद्वचनम् ।
एतदिति । वैशम्पायनेन सह किमपि समामन्त्र्य सम्भाषणं विधाय, दशनानां दन्तानां या मयूखलेखा रश्मिपङ्क्तिः तया धवलीकृतं शुभ्रीकृतं दिक्कचक्रवालं दिङ्मण्डलं यत्र क्रियायां तद्यथा स्यात्तथा एतद् हसितम् अयमनेन हासः कृतः समन्मयेयमुक्तिः । इह दिक्कचक्रवालस्य धवलीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।
एष इति । एष बलाहकः तत्संज्ञकः सेनानायकः, शुकपक्षतेः कीरपतत्रिपक्षमूलस्येव हरितो नीलो रागो वर्णो यस्य तेन तादृशेन उत्तरीयांशुकप्रान्तेन, संव्यानवस्त्रप्रान्तेन तुरगाणाम् अश्वानां ये खुराः शफाः तेषां चलनाद् गमनाद् जन्म उत्पत्तिर्यस्य तं तादृशम्, अस्य राजकुमारस्य चन्द्रापीडस्य अग्रेकेशेषु कचाग्रेषु लग्नं संसक्तं रेणुं धूलिम् अपहरति दूरीकरोति । साभिलापमिदं वचनम् । इह 'शुकपक्षतिहरितरागेण' इत्यत्र लुप्तोपमालङ्कारः ।
अयमिरिति । अनेन चन्द्रापीडेन, लक्ष्म्याः पद्मा या यत् करकमलं पाणिसरोरुहं तद्वत् कोमलं मृदुतलं यस्य स तादृशः अयं चरणपल्लवः पादकिसलयः, तिर्यक् समुत्क्षिप्य तिर्यग्भावेनोत्थाप्य तुरङ्गमस्कन्धे सलीलं यथा स्यात्तथा निक्षिप्तः स्थापितः । प्राग्वदेव कथनमिदम् । इहापि 'लक्ष्मीकरकमलकोमलतल' इत्यत्र लुप्तोपमालङ्कारः ।
सलीलमिति । गजेन हस्तिना आताम्रेण ईषद्रक्तवर्णेन पुष्करेण शुण्डाग्रेण शोभते इति स तादृशः तथा शैवालकवले शैवालग्रासोपादने लालसो लोलुभः गजस्य लोलुभत्वात् तच्छुण्डाया अपि लोलुभत्वं गौणम्
इसकी नई जवानी का अनुराग (रंग) मानो हृदयमें प्रवेश करनेकी इच्छा कर, मुक्तामाला (हार) के अन्तर्गत पद्मरागमणियोंकी किरणोंके बहाने अब भी बाहर ही प्रकाश पा रहा है। यह उसने इन चामरोंके भीतर देकर इस तरफ ही मानो दृष्टिपात क्या : वैशम्पायनके साथ किसी विषयकी बातचीत कर दन्त-किरणोंसे दिशाओंको सफेद कर यह हँसा । यह बलाहक (सेनापति), शुक (तोते) के पंखके समान हरे अपने उत्तरीयवस्त्र (दुपट्टा) के प्रान्त-द्वारा (कोरसे) घोड़ेके खुरोंमेंसे उड़-उड़ कर इसके आगेके बालोंपर पड़ी हुई धूलको पोंछता है। यह उसने, लक्ष्मीदेवीके करकमलके समान कोमल-तल-सम्पन्न अपने चरण-पल्लवको तिर्यग्भावसे (तिरछा कर) ऊँचा उठाकर घोड़ेके कन्धे पर आड़ा डाला। हाथी जिस प्रकार शैवालका ग्रास ग्रहण करने के समय इच्छासे अपना मूँड फैलाता है, उसी प्रकार इसने ताम्बूल लेनेके लिए अपने कोमल और लम्बी उँगलीवाले, एवं कुछ-कुछ लाल कमल-कोशके
१. एतदलकचामरकलापान्तरेरितविरलवीक्षितम्, अनेकचामरकलापान्तरितमस्य वीक्षितम् । २. समा-मन्त्रयतः । ३. ॰॰॰धवलित॰॰॰ । ४. आलमन्, आलम्बकेशेषु । ५. ॰॰॰तल, करतल । ६. क्वचिद् 'कोमल' इति पदं नास्ति । ७. ॰॰॰कमलग्रासलालसः, कमलग्रासवाञ्छया ।
| २६२ | कादम्बरी- | [ कथायाम्- |
|---|
प्रसारितः करः। धन्या सा, या लक्ष्मीरिव निर्जितकमलं करतलमस्य वसुन्धरा-सपत्नी ग्रहीष्यति। धन्या च देवी विलासवती, सकलमहीमण्डल-भार^१-धारणक्षमः ककुभा दिग्गज इव गर्भेण ययाऽयव्यूढः।^२
इत्येवंविधानि चान्यानि च वदन्तीनां तासामापीयमान इव लोचनपुटैः, आहूयमान इव भूषणरवैः, अनुगम्यमान इव हृदयैः, निवध्यमान इव^३ आभरण-रत्न-रश्मिरज्जुभिः, उपह्रियमाण इव नवयौवनवलिभिः, शिथिल^४-भुजलता-विगलित-धवल-वलय-
वृत्त्याऽवगन्तव्यम् । लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि सः' इति रभसः। करः शुण्डादण्ड इव, अनेन चन्द्रापीडेन, उत्तानितम् ऊर्ध्वीकृतं तलं यस्य स तादृशः, कोमला मृदुला दीर्घाश्च अङ्गुलयो हस्तावयवा यस्य स तादृशः, तथा आताम्रम् ईषद्रक्तवर्णं यत् पुष्करं तद्वत् शोभत इति सः तादृशः, करो हस्तः, ताम्बूलयाचनार्थं नागवल्लीदलयाचनार्थं सलीलं सविलासं यथा स्यात्तथा प्रसारितो विस्तारितः। इदमपि पूर्ववदेव कथनम् । इह पूर्णोपमा, यद्वा श्लेषसङ्कीर्णोपमा ।
धन्येति । या ललना वसुन्धराया मेदिन्याः सपत्नी सती, अस्याश्चिरसम्पत्स्यमानवसुन्धराधिपतित्वादित्याशयः । लक्ष्मीरिव राज्यश्रीरिव निर्जितकमलं पद्मादपि अतिरमणीयमित्यर्थः । अस्य चन्द्रापीडस्य करतलं पाणिं ग्रहीष्यति विवाहसमय इति शेषः, सा धन्या सैव पुण्यशीला परम सौभाग्यशालिनीत्याशयः । सकाममिदं वचनम् । इहोपमा ।
ननु तच्छब्दानिर्दिष्टवाक्यस्य विधेयत्वेन पूर्वं निर्देशो नोचितः तथा सति 'न्यक्कारो ह्ययमेव ने यदरयः' इतिवत् वाक्यगतविधेयाविमर्शदोषप्रसक्तिरिति चेन्मैवम्, 'धन्या सा' इत्यस्य 'ग्रहीष्यति' इत्यस्याग्रे पाठविधानेन हतिविरहात् ।
धन्येति । यथा विलासवत्या, ककुभा लाशया दिग्गजः दिद्दन्ती इव, सकलमहीमण्डलस्य समस्तभूमण्डलस्य यद्धारधारणं शासनव्यापारसञ्चालनं गुरुत्वधारणञ्च, तत्र क्षमः समर्थः, अयं चन्द्रापीडः गर्भेण उदरेण अन्तर्गतैन च ऊढः धारितः । अभिलाषपूर्वकं कथनमिदम् । पूर्णोपमा । इह हि पूर्ववन्न विधेयाविमर्शदोषः उत्तरवाक्यगतयच्छब्दस्य तच्छब्दापेक्षाभावात् ।
इत्येवमिति । इति समाप्तौ 'इति हेतुप्रकरणप्रकाशादिसमाप्तिषु' इत्यमरः । एवंविधानि पूर्वोक्तस्वरूपाणि एभ्यो भिन्नान्यनुक्तानि च वचनानि च वदन्तीनाम् अभिदधतीनां तासां पौराङ्गनानां लोचनपुटैः नेत्रयुगलैः आपीयमान इव इत्येवं सर्वत्रान्वयः । अपि च आभरणरत्नानां भूषणमणीनां रश्मयः किरणा एव रज्जवः ताभिः निबध्यमान इव । तथा नवयौवनान्येव नूतनतारुण्यान्येव वलय उपादानद्रव्याणि तैः उपह्रियमाण इव उपहारपात्रीक्रियमाण इव आदरेण दानस्पृहत्वादित्याशयः । तथा शिथिलाभ्यः मदनाविर्भावात् त्रस्ताभ्यः भुजलताभ्यः बाहुवल्लीभ्यः विगलितः च्युतः, धवलानां रजतभयत्वान्मणिमयत्वाद्वा श्वेतानां वलयानां कटकानां निकरः तद्रश्मिजालमित्यर्थः, येषु तैः तादृशैः कुसुममिश्रैः
समान शोभित करकमल को उत्तानित (चित्त) कर लीला के साथ फैलाया। वह रमणी ही धन्य है, जो कि- पृथिवी की सपत्नी होकर राजलक्ष्मी के समान इसका पद्मजयी (कमल से भी अधिक कोमल) हाथ का ग्रहण करेगी। दिशा जिस प्रकार दिग्गज को गर्भ में धारण करती है, उसी प्रकार जिसने, समस्त पृथिवी-मण्डल का भार वहन करने योग्य इस चन्द्रापीड को अपने गर्भ में रक्खा था, वह देवी विलासवती भी धन्य है।'
पुरवासिनी युवतियां इस प्रकार तथा इसी तरह के अन्यान्य वचन बोलने लगीं, उस समय उनकी आंखें मानों, चन्द्रापीड का पान करती थीं; नूपुरों के शब्द मानो उसे बुलाने लगे, मन मानो उसके पीछे-पीछे जाने लगा, अलङ्कार-स्थित-रत्नों की किरण-रूपी रस्सियों मानो उसे बाँध रही थीं, और वे नवयौवनरूप बलिदान द्वारा चन्द्रापीड को मानो पूजने लगीं। एवं विवाह की अग्नि में जिस प्रकार लाजा (धान की लावा) का निक्षेप होता है, उसी प्रकार लज्जातिपूर्ण
१. क्वचित् 'भार' इति पाठो नोपलभ्यते ।
२. ...दिग्गज इव यया च व्यूढः, गर्भेण दया व्यूढः, गर्भेण दयाऽयं व्यूढः ।
३. अनुबध्यमान इव ।
४. शिथिलित....।
राजवाटीवर्णन-२९ ] चन्द्रकला-विद्योतिनीसहिता । २६३
निकरैः¹ पदे² पदे इव विवाहानल इव कुसुममिश्रै³र्लाजाञ्जलिभिरवकीर्यमाणश्चन्द्रापीडो राजकुलसमीपमाससाद ।
क्रमेण च यामावस्थिताभिः अनवरत-करटस्थल-विगलित-मद-मसीपङ्क-करीभिः⁴ अञ्जनगिरिमालामिलिनाभिः कुञ्जर-घटाभिरन्धकारितदिङ्मुखतया जलधरदिवसायमानम्, उद्दण्ड-धवलानपत्रसहस्रसङ्कटम्, अनेकद्वीपान्तरागतदूतशत-समाकुलं⁵ राजद्वारमासाद्य-तुरङ्गमादवततार ।
अवतीर्य च करतलेन करे वैशम्पायनमवलम्ब्य पुरः सविनयं प्रस्थितेन वलाहकेनो-
पुष्पसंयुक्तैः लाजाञ्जलिभिः अञ्जलिपूर्णधानाभिः विवाहानल इव उपयमनसामयिकवह्रिरिव, पदे पदे प्रतिपदक्षेपम् अवकीर्यमाणः ताभिः पौराङ्गनाभिरभिवृष्यमाणः, चन्द्रापीडः राजकुलसमीपं राजवाव्यान्तिकम् आससाद प्राप। शास्त्रोद्देशानुसारेण विवाहकाले तदग्नेरुपरि लाजाक्षेपः, देशाचारानुसारेण राजागमनेऽपि लाजाक्षेपः इति द्वयोः सादृश्यम् । तथा च कालिदासोऽपि—
'अवाकिरन् बाललताप्रसूनैराचारलाजैरिव पौरकन्याः।' इहोपमालङ्कारः ।
क्रमेणेति । क्रिश्चेति चार्थः। यामेषु अवस्थिताभिः प्रतिप्रहरं भिन्नभिन्नरूपेण वर्तमानाभिः । अनवरतं निरन्तरं करटस्थलेभ्यः कपोलभागेभ्यः विगलिताः च्युताः मदा दानवारीण्येव मसीपङ्काः गाढमस्यः श्यामतासादृश्यात्, अथवा तथाविधमदाः मसीपङ्का इव तान् कुर्वन्ति विदधत इति ताभिः तादृशीभिः, अञ्जनस्य कज्जलस्य गिरिः पर्वतः तस्य माला पङ्किः तद्वत् मलिनाभिः कृष्णवर्णाभिः कुञ्जरघटाभिः राजनिकरैः करणेः, अन्धकारितानि समुत्पन्नान्धकाराणि दिङ्मुखानि दिग्वदनानि यस्य तस्य भावः तया कारणेन, जलधरदिवसायमानं दुर्द्दिनवदाचरत् । उद्दण्डानाम् उत्थापितदण्डानां धवलातपत्राणां श्वेतच्छत्राणां सहस्रेण निकरेण सङ्कटं व्याप्तम्, तथा अनेके विविधा ये द्वीपान्तरा देशान्तराः तेभ्य आगतानां निजनिजाधिपत्यफलोपपत्तये उपस्थितानां दूतानां सन्देशहारकाणां शतेन वृन्देन, समाकुलं व्याप्तं प्रवेशादेशापेक्षया तेषां तत्र वर्तमानत्वादित्याशयः । राजद्वारम् आसाद्य प्राप्य तुरङ्गमात् अश्वात् अवततार अवतीर्णः ।
इह 'अनवरते' त्यादौ ज्ञापकनिवारकयुक्त्यनुपलम्भात् उपमारूपकयोः, सन्देहसङ्करः । 'अञ्जनगिरिमाले' त्यादौ व्यङ्गतोपमालङ्कारः ।
अवतीर्येति । अपि चेति चार्थः । चन्द्रापीडः अवतीर्य तुरङ्गमादुत्तीर्य, करतलेन हस्ततलेन करे वैशम्पायनम अवलम्ब्य मन्त्रिसुतस्य करं धृत्वेत्यर्थः, सविनयं विनयसहितं यथा स्यात्तथा पुरः प्रस्थितेन अग्रे गन्तुं प्रवृत्तेन बलाहकेन तत्संज्ञकेन सेनानायकेन उपदिश्यमानमार्गः प्रदर्श्यमानप्रवेशपथः सन्, पुञ्जीभूतम् अत्यन्तविस्तृतत्वात् सर्वविश्ववस्त्वारायत्वान्न एकत्र समवेतं त्रिभुवनमिव त्रिजगदिव विद्यमानं राजकुलं विवेशेति सुदूरस्थाचिन्त्या क्रियया सम्बन्धः । इह 'त्रिजगदिव' इति जात्युत्प्रेक्षालङ्कारः ।
कर फूलोंसे मिली हुई लाजाओंको पद-पद पर चन्द्रापीडके शरीरके ऊपर निक्षेप करती (बिखेरती) थीं, उस समय उनके शिथिल भुजलताओँसे गिरे सफेद कङ्कणकी किरणें उस लाजाके साथ मिलनी थीं; इस रूपसे .चन्द्रापीड राजभवनके पास आ पहुँचा ।
चन्द्रापीड क्रमसे राजद्वार पर पहुँच कर घोड़े परसे उतरा । वहाँ प्रत्येक प्रहरमें परिवर्तित होकर (बदल कर ) बहुत हाथी रहते थे; उनके गण्डस्थलमैँसे बराबर गाढ़ मसीपङ्कके समान मदजल विगलित होते थे, एवं वे कज्जलमय पर्वतके समान काले (मलिन ) थे, जिसके द्वारा समीपवर्ती दिशाओंके मुख पर अँधेरा हो जानेसे वह राजद्वार मेघाच्छन्न दिनके समान दिखाई देता था, एवं ऊँचे उठे दण्डवाले बहुतस्र श्वेत छत्रोंसे परिपूर्ण था और अन्यान्य अनेक द्वीपोंसे आए सैकड़ों खड़े राजदूतोंसे व्याप्त था ।
चन्द्रापीड, घोड़े परसे उतर कर अपने हाथसे वैशम्पायनका हाथ पकड़कर राजभवनमें प्रवेश किया, उस समय बलाहक (सेनापति), विनयके साथ आगे-आगे जाकर मार्ग बतलाना जाता था । वह राज-भवन एकत्रित
१. ॰निकरैः । २. मिश्र । ३. क्वचित् 'वि' इत्यधिकः पाठो न विद्यते । ४. नभीरुचिभिः, नसीमट्ट-धारिभिः । ५. क्वचित् 'समाकुलम्' इत्यस्य स्थाने 'सङ्कुलम्' इति पाठो दृश्यते ।
२६४ | कादम्बरी- | [ कथायाम्-
पदिश्यमान-मार्गः त्रिभुवनमिव पुञ्जीभूतम् , आगृहीत-कनक-वेत्रलतैः सित-वारबाणैः^१ सिता- ङ्गरागैः^२ सितकुसुमशेखरैः सितोष्णीषैः सितवेषपरिग्रहतया श्वेतद्वीपसम्भवैरिव कृतयुगपुरु- षैरिव महाप्रमाणैर्दिवानिशमालिखितैरिव उत्कीर्णैरिव तोरणस्तम्भनिषण्णैर्द्वारपालैरनुज्झितद्वा- रदेशम्, अनेक-सञ्जवन^३-चन्द्रशाला^४-विटङ्क-वेदिका-सङ्कट-शिखरैरभ्रङ्कषैरुपहसित-कैलास- शैल-शोभैः^५ अमलसुधावदातैः सप्रालेयशलैरिमिव^६ महाप्रासादैः, अनेक-वातायन-विवर-विनि- र्गत-युवति-भूषण-किरण^७-सहस्रतया कनकश्शृङ्खलाजालकेनेवोपरिविस्तीर्णेन^८ विराजमानम् ,
आगृहीतेति । इत आरभ्य यानि तृतीयान्तानि पदानि तानि अग्रेतनस्य 'द्वारपालैः' इत्यस्य विशे- षणानि बोध्यानि । आगृहीता आत्ताः कनकवेत्रलताः सुवर्णवेष्टितवेतसयष्टयो यैस्तैस्तादृशैः । सिताः श्वेताः वारबाणाः कञ्चुका येषां तैस्तादृशैः । सिताङ्गरागैः शुभ्रानुलेपनैः सितकुसुमशेखरैः शुभ्रपुष्पमुकुटैः सितोष्णीषैः श्वेतमूर्धवेष्टनैः । सितवेषपरिग्रहतया श्वेतनेपथ्याङ्गीकारतया श्वेतद्वीपसम्भवैरिव श्वेतद्वीपो- त्पन्नैरिव तेषां सर्वशुक्लत्वादित्याशयः । कृतयुगपुरुषैः सत्ययुगीयलोकैरिव महाप्रमाणैः अत्युच्चस्वरूपिभिः, आलिखितैरिव चित्रितैरिव निरन्तरसावधानतया निष्क्रियत्वादित्याशयः । उत्कीर्णैरिव बहिरुद्वारस्तम्भेषु क्षोदितैरिव गाढसंलग्नत्वादित्याशयः । तोरणस्य बहिर्द्वारस्य स्तम्भेषु निषण्णैः तदाधारत्वेनावस्थितैः द्वार- पालैः दौवारिकैः दिवानिशं रात्रिन्दिवम् अनुज्झितः अपरित्युक्तः द्वारदेशो यस्य तत्तादृशम् ।
अनेकेति । अनेका अधिकतराः, संजवनानि चतुःशालानि, चन्द्रशाला ऊर्ध्ववर्त्तिभवनानि, विटङ्कानि कपोतपालिकाः, वेदिका उपवेशनाद्यर्थं बद्धभूमयश्च ताभिः सङ्कटानि व्याप्तानि शिखराणि ऊर्ध्वप्रदेशा येषां तैस्तादृशैः । 'सञ्जवनन्द्विदम् । चतुःशालम् ।' इति, 'कपोतपालिकायां तु विटङ्कं पुंस्रपुंसकम्' इति चामरः । 'शुद्धान्ते वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि' इति रभसः । अभ्रं गगनं कषतीति तैः व्योम- व्यापिभिः, उपहसिता आपेक्षिकाधिकधवलत्वान्न्युब्जताम्पादादृता कैलासशैलस्य हिमालयपर्वतस्य शोभा- यैस्तैः तादृशैः । अमलाभिः निर्मलाभिः सुधानिः चूर्णलेपैः अवदाताः शुभ्राः तैस्तादृशैः । महाप्रासादैः विशा- लाट्टालिकाभिः करणैः प्रालेयशैलैर्हिमालयपर्वतैः सहेति सप्रालेयशैलं तद्विव विद्यमानम् इति राजकुलस्य विशेषणम् । तथा विधाट्टालिकानां कैलासाचलसदृशत्वादित्याशयः । इह **'सप्रालेयशैलमिवे'**त्युत्प्रेक्षा ।
अनेकेति । अनेकेभ्यो बहुतेरेभ्यः वातायनविवरेभ्यः गवाक्षच्छिद्रेभ्यो विनिर्गतं विनिःसृतं युव- तिभूषणकिरणानां तरुण्यलङ्काररश्मीनां सहस्रं समूहो यत्र तस्य भावस्तया कारणेन, उपरिविस्तीर्णेन प्रसारितेन कनकानां सुवर्णानां याः शृङ्खला निगडाः तासां जालकेन समूहेनेव विराजमानं शोभमानम्, तद्रश्मीनां कनकश्शृङ्खलावदवगम्यमानत्वादित्याशयः ।
त्रिभुवनके समान बहुत बड़ा देखनेमें आता था । उसके स्तम्भके पास द्वारपालगण सर्वदा रहते थे, उन लोगोंके हाथमें सुवर्णखचित वेत्रयष्टि ( बेंतकी छड़ी ), शरीरमें श्वेतवर्ण कवच, और श्वेतवर्ण अङ्गराग एवं मस्तक पर श्वेतवर्ण फूलोंकी माला और श्वेतवर्ण उष्णीष ( पगड़ी ) थे । अतएव श्वेतवर्ग सब परिच्छेदों ( पोशाकों ) को धारण करनेसे मानों श्वेतद्वीपमें उत्पन्न हुए हैं ऐसा प्रतीत होता था । सत्ययुगके मनुष्योंके समान उन लोंगोंकी अत्यन्त दीर्घ आकृति थी । निश्चलभावसे रहनेके कारण वे लोग चित्रितके समान एवं दिन-रात तोरणस्तम्भोंमें गाढ़ संलग्न होनेसे क्षोदितके समान प्रतीत होते थे । उस राजभवनमें कलासकी शोभाको भी तिरस्कार करनेवाला एवं ऊचाईमें आकाश तक पहुँचनेवालो तथा निर्मल चूनेसे सफेदी की हुई बड़ी-बड़ी अट्टालिकाएं (महलें) थीं । उसकी चोटियों पर अधिकतर चतुःशालार्ण (चौकोन कमरे), चन्द्रशालाएँ, कबूतरोंकी दड़वें बनी थी और बैठनेके लिए ऊँचे चबूतरे बने थे । अतएव प्रतीत होता था मानो वह राजभवन हिमालय से संयुक्त हो कर विद्यमान है । अधिकतर खिड़कियोंके छिद्रसे युवतियोंके आभूषणोंकी हजारों किरणोंके फैलनेसे ऐसा प्रतीत होता था मानो ऊपर के मार्गोंमें सोनेकी श्रृङ्खलाओंका जाल बिछा दिया गया है । उससे राजभवन शोभित हो रहा था । उसके
१. सितवारवाणधारिभिः । २. 'सिताङ्गराग' इति पाठ एव क्वचिन्नोपलभ्यते । ३. '...संयमन, सयवन...' । ४. शालिका । ५. अपहसितकैलासशोभैः, अत्रैव क्वचित् 'शैल' इति पदं नोपलभ्यते । ६. शैलेयमिव । ७. क्वचित् 'भूषण' इति पदं नास्ति । ८. वितानेन, विततेन ।
राजकु०वर्णना०-२९ ] चन्द्रकला-विद्योतिनीसहिता । २६५ -
अन्तर्गतायुधनिवाहाभिराशीविष-कुल-सङ्कुलाभिः पातालगुहाभिरिवातिगम्भीराभिरायुधशाला- भिरुपेतम्, अबलाचरणालक्तक-रस-रक्तै मणि-शकलैः शिखर-निलीनशिखि-कुलकृतकेकारव- कलकलैः क्रीडापर्वतकैरुपशोभितम्, उज्ज्वलवर्णकम्बलावगुण्ठितकनकपर्याणाभिः प्रलम्ब- चामर-कलाप चुम्बित चलकर्णपल्लवाभिःकुलयुवतिभिरिवोपारूढ-शिक्षाविनय-निभृताभिः याम्यँ- करेणुकाभिरशून्यकक्षान्तरम्, आलान-स्तम्भनिषण्णेन च नवजलधरघोष-गम्भीरम्, अनुगतँ- वीणा-वेणु-रव-रम्यम्, आस्फालित-घर्घरिका-घर्घरम्, अनवरत-मृदुमृदङ्गध्वनिम्, आमीलित-
अन्तरिति । अन्तर्गता मध्यगता आयुधनिवाहाः शस्त्रसमूहा यासां ताभिः तादृशीभिः, अत एव आशीविषकुलेन सर्पनिवहेन सङ्कुलाभिः व्याप्ताभिः, पातालगुहाभिः बलिवेश्मकन्दराभिरिव विद्यमानाभिः, अतिगम्भीराभिः अलभ्यमध्याभिः आयुधशालाभिः शस्त्रभवनैः उपेतं महितम् । इह 'पातालगुहाभिरिवे'त्युपमा ।
अवलोति । अबलानाम् उपरिभ्रमणविधायिनीनां सुन्दरीणां ये चरणालक्तकरसाः पाद्यालक्तकद्रवाः तैः रक्तानि रक्तवर्णानि मणिशकलानि रत्नखण्डानि येषां तैः तादृशैः, तथा शिखरेषु तेषामेव सानुषु निलीनानां शिखिनां मयूराणां कुलेन वृन्देन कृता विहिता केकारवा निजवाण्य एव कलकलाः कोलाहला येषु तैः तादृशैः, क्रीडापर्वतकैः विहारार्थरचितक्षुद्राचलैः उपशोभितं विराजमानम्, राजकुलम् ।
उज्ज्वेलेति । उज्ज्वलवर्णैः कम्बलैः अवगुण्ठितानि आवृतानि कनकपर्याणानि सुवर्णरचितपल्ययनानि यासां ताभिः तादृशीभिः, प्रलम्बैः आयतैः चामरकलापैः बालव्यजनसमूहैः चुम्बितौ स्पृष्टौ चलौ चञ्चलौ कर्णपल्लवौ यासां ताभिः, तादृशीभिः, शिक्षासङ्केतवोधः गार्हस्थ्यपरिचालनचातुर्यलाभश्च, विनय औद्धत्यराहित्यं नम्रता च, एवञ्च उपारूढाभ्यां सञ्जाताभ्यां शिक्षाविनयाभ्यां निभृता अनुग्राः अदृष्टाश्च ताभिः कुलयुवतिभिरिव विद्यमानाभिः यामकरेणुकाभिः प्रतिप्रहरं भिन्नभिन्नत्वेन वन्धनीयाभिः गजस्त्रीभिः अशून्यानि पूर्णानीत्यर्थः, कक्षान्तराणि प्रकोष्ठमध्यप्रदेशा यस्य तत्तादृशं राजकुलम् । उपमा ।
आलानेति । किञ्चेति चार्थः । इत आरभ्य तृतीयान्तानि यानि पदानि तानि अग्रेतनस्य गन्धहस्तिनेत्यस्य विशेषणानि । आलानस्तम्भे गजवन्धनस्तम्भे निषण्णो विद्यमानः तदवलम्बनेन विद्यमान इत्यर्थः, तेन तादृशेन, नवो नूतनो यो जलधरो मेघस्तस्य घोषवत् गर्जनवत् गम्भीरं मन्दध्वनिम्, अनुगतैः अनुसृतैः वीणायास्तन्त्र्या वेणोर्वंशैः वेणुशब्दैः रम्यं सुन्दरम्, आस्फालिताः वादिता या घर्घरिकाः क्षुद्रघण्टिकाः तासां घर्घरो ध्वनिनादो यत्र तं तादृशं तन्निनादसम्मिलितमित्यर्थः, अनवरतो निरन्तरं मृदुः मसृणो यो मृदङ्गस्य मुरजस्य ध्वनिः शब्दः तं तादृशम् 'आकर्णयता' इत्येतस्यैतत्कर्मपदम् । आकर्णनविधिं दर्शयति-आमीलितेत्यादिना । आमीलितः किञ्चिन्मुद्रितो लोचनयोर्नेत्रयोः त्रिभागस्तृतीयोंऽशः येन तेन तादृशेन, वामस्य सव्येतरस्य दशनस्य दन्तस्य कोटौ अग्रे निषण्णो विद्यमानो हस्तः शुण्डा यस्य तेन तादृशेन, तथा कर्णौ श्रोत्रे ताले तालदले इव इति कर्णताले तथा च निश्चले स्थिरे कर्णताले तालदलवद्विस्तृतकणौ यस्य तेन तयोक्तेन च विद्यमानेन आकर्णयता तादृशमुरजध्वनिं शृण्वता । एवंविधा एव गजानां गीतादिश्रवणप्रकृतयः । 'नवजलधरगम्भीरम्' इत्यत्र लुप्तोपमा, अन्ते च स्वभावोक्तिरलङ्कारः ।
अन्दर, सर्पकुलसे भरी हुई पातालकी गुफाके समान अत्यन्त भयङ्कर, एवं विविध अस्त्रों से परिपूर्ण अधिकतर आयुधशालाएं बनी हुई थीं। वहाँ बहुत से कृत्रिम क्रीडापर्वत शोभायमान थे, उनमें अबलाओंके चरणों पर लगी हुई महावरके समान रक्तवर्ण पद्मराग-मणिके टुकड़े चमकते थे, और शिखरों पर भरे हुए मयूरगण केकारवसे कलकल किया करते थे। शिक्षा और विनयसे युक्त कुलीन स्त्रियोंके समान शान्त-स्वभाववाले एवं प्रतिप्रहर में परिवर्तन होनेवाली कितनी ही हथिनियाँ दरवाजे के पास सज्जत हो खड़ी थीं, उज्ज्वलवर्णके कम्बल द्वारा जिनके सोनेके जीन आच्छादित थे, एवं लटकते हुए चामरसमूह जिनके चञ्चल एवं विस्तृत कर्ण-पल्लवको चूमते थे। एक भागमें गन्धमादन नामका एक गन्धगज बन्धनस्तम्भ (खूँटे) में बँधा था; उस समय नवीन बादल की गर्जनाके समान गम्भीर, साथ-साथ वीणा और वेणुके स्वरसे रमणीय एवं घूँघुरियोंके शब्दसे घर्घर करती, महीन और मृदङ्गकी कोमल ध्वनि बराबर होनी थी। गन्धमादन आँखोंके तीसरे हिस्सेको छोटा-नीच कर और
१. प्रचल, लम्ब । २. कलापचल । ३. उपारूढ, उपगूढ । ४. विनयेन निभृताभिः । ५. यामक । ६. कलध्वनिगजितदोष । ७. सतनु । ८. अनवरतसङ्गीतमृदङ्गध्वनिम् । अनवरत•••आमीलित, अनवरतमन्दोन्नमृदुमृदङ्गध्वनिमतिमनोहरं किञ्चिदामीलित ।
१७ का०
२६६ कादम्बरी- [ कथायाम्-
लोचन-त्रिभागेन वाम-दशन-कोटि-निषण्ण-हस्तेन निश्चलकर्णतालेनाकर्णयता, सलीलमुभय-पार्श्वावलम्बि-वर्णकम्बलतया विन्ध्यगिरिणेवाविष्कृतधातु-विचित्र-पक्षसम्पुटेन, आधोरण-गीतान्द-कृत-मन्द्र-कण्ठ-गर्जितेन, मदजल-शवल-शङ्ख-शोभित-श्रवणपुटेन, रजनिकर-बिम्ब-चुम्बि-संवर्त्तकाम्बुद-वृन्द-विडम्बकेन, कर्णान्तलम्बिना काञ्चनमयेन कृतकर्णपूरमिवाङ्कुशेन मुखमुद्वहता, मदजलमलिनेन द्वितीयेनेव कर्णचामरेण कपोलतलदोलायमानेन मधुकरकुले-नालङ्क्रियमाणेन, अत्युद्ग्रतया पूर्वकायस्य अतिवामनतया च जघनभागस्य पातालादिव
सलोलमिति । सलीलं सखेलं यथा स्यात्तथा उभयपार्श्वं अवलम्बते पततीति तत्तथोक्तं वर्णकम्बुलं विचित्रपृष्ठास्तरणं यस्य तस्य भावस्तया कारणेन, 'प्रवेण्यास्तरणं वर्णः' इत्यमरः । आविष्कृतं प्रकाशितं धातुभिः 'सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाञ्जनकासीस-सीसलोहाः सहिङ्गुलाः ॥ गन्धकोऽभ्रकमित्याद्या धातवो गिरिसम्भवाः ।
इति रामाश्रमीघृतसुवर्णादिभिः । विचित्रं नानाविधं पक्षयोः सम्पुटं द्वयं येन तेन तयोक्तेन विन्ध्य-गिरिणेव जलवालकेनेव विद्यमानेन । इह द्रव्योत्प्रेक्षा ।
आधोरणेति । आधोरणस्य हस्तिपकस्य गीतेन गानाकर्णनेन य आनन्दस्तेन कृतं मन्द्रं गम्भीरं कंठ-गर्जितं येन तेन तादृशेन । 'आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।' इत्यमरः ।
मदेति । मदजलेन दानवारिणा विचित्रो नानाविधो यः शङ्खः ललाटास्थि तेन शोभितं राजितं श्रवणपुटं श्रोत्रद्वयं यस्य तेन तादृशेन, 'शङ्खः कम्बौ न योषिन्ना भालास्थिन निधिभिद्नखे ।' इति मेदिनी ।
अत एव रजनिकरविम्बं चन्द्रमण्डलं चुम्बति स्पृशतीति तत्तथोक्तं यत् संवर्त्तकाम्बुदवृन्दं लोक-विनाशकालिकमेवसमूहः तद्विडम्बयति अनुकरोति यः स तादृशः तेन 'शेषाद्विभाषा' इति कन्प्रत्ययः । शृङ्गाङ्कितरजनिकरविम्बेन सह तथाविधशङ्कस्य तत्संवर्त्तकाम्बुदवृन्देन च सह हस्तिनः साम्यमवगन्तव्यम् । इह पदार्थहेतुककाव्यलिङ्गालङ्कारेण आर्थोपमायाः सङ्करः ।
कर्णेति । कर्णान्तलम्बिना श्रोत्रपर्यन्तलम्बिना काञ्चनमयेन सुवर्णनिष्पन्नेन अङ्कुशेन सृणिना कृतकर्ण-पूरमिव सम्पादितकर्णाभरणमिव मुखम् आननम् उद्वहता धारयता । 'कृतकर्णपूरमिव' इतिक्रियोत्प्रेक्षा ।
मदजलेति । मदजलेन दानवारिणा तत्संस्रुतयेत्यर्थः । मलिनं गाढश्यामं तेन तथोक्तेन, तथा द्विती-येन, अन्येन कर्णचामरेणेव विद्यमानेन, कपोलतले गण्डद्वयोपरि दोलायमानेन इतस्ततो भ्रमता मधु-करकुलेन भ्रमरवृन्देन, अलङ्क्रियमाणो मण्ड्यमानस्तेन तादृशेन । इह 'कर्णचामरेणेवे'ति द्रव्योत्प्रेक्षा ।
अत्युदग्रेति । पूर्वकायस्य देहपूर्वार्द्धस्य अत्युदग्रतया अत्यन्तोन्नतया, तथा जघनभागस्य देहपश्चा-
सूँडको बाँए दाँतकी नोक पर रखकर एवं विस्तृत कर्णयुगल को निश्चल रख, लीला-सहित उस सङ्गीत और मृदङ्गके शब्दको सुनता था। गन्धमादनके पृष्ठके ऊपर एक विचित्र (अनेक रंगोंका) कम्बल बिछा हुआ था, वह दोनों तरफ लटक कर झूल रहा था; अत एव धातुओंसे रँगे हुए पक्षों (पंखों) को फैलाकर रहनेवाले विन्ध्य पर्वतके समान वह देखनेमें आ रहा था । महावतके गीतसे आनन्दित होकर वह गम्भीर कण्ठसे गर्जन करता था । मदजलसे उसका ललाटास्थि रँगा हुआ था, उससे कर्णयुगल शोभित हो रहे थे, अत एव वह चन्द्रबिम्बसे चुम्बन किए गए प्रलय-कालीन मेघका अनुकरण करता था । सुवर्णमय एक अङ्कुश उसके कान पर लटक रहा था। उससे प्रतीत होता था मानो उसके कान पर आभूषण (कर्णफूल) पहनाया हुआ हो, इस प्रकारके मुखभागको वह धारण किया था । मदजलसे मलिन होकर गण्डस्थलके आस-पास घूमता हुआ भौरों का समूह द्वितीय कर्ण चामरके समान उसको शोभित कर रहा था । उसके शरीर का पहला-भाग बहुत ऊँचा था और जघन-भाग अत्यधिक छोटा था, जिससे मानो वह पातालमेंसे निकलता हो ऐसा प्रतीत होता था । रात्रिमें जिस प्रकार अर्धचन्द्र के
१. प्रलम्बित... । २. ...विचित्रित... । ३. चुम्बितावर्त्तक चुम्बिनावर्त्तक चुम्बितसंवर्त्तकं । ४. क्वचित् 'वृन्द' इति पदन्नास्ति । ५. कर्णावलम्बिना । ६. वानतया । ७. पातालतलादिव ।
राजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता । [ २६७
उत्तिष्ठता, निशासमयेनेव परिस्फुरत्सार्द्धचन्द्रनक्षत्रमालेन, शरदारम्भेणेव प्रकटितारुण-चारु-पुष्करेण, वामनरूपेणेव कृतत्रिपदीविलासेन, स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेन, प्रसाधितेनेव¹ आलोलं²-कर्णपल्लवाहृतमुखेन, गन्धमादननाम्ना गन्धहस्तिना सनाथीकृतैकदेशम् ;
दंशस्य च अतिवामनतया अतिह्रस्वतया कारणेन, 'खर्वो ह्रस्वश्च वामनः' इत्यमरः । पातालाद् रसातलाद् उत्तिष्ठतेव ऊर्ध्वं प्रादुर्भवतेव, अन्यस्यापि नीचादुन्नतप्रदेशोत्थानसमये एवंविधावस्थावलोकनादित्याशयः । इह **'उत्तिष्ठतेवे'**ति क्रियोत्प्रेक्षा ।
निशेति । निशासमयेन विभावरीकालेनेव, परिस्फुरन्ती समन्ताद्दीप्यमाना सार्द्धचन्द्रा अर्द्धचन्द्रसदृशभालभूषणसहिता नक्षत्रमाला सप्तविंशतिसंख्यकमुक्ताग्रथितदाम यस्य तेन तादृशेन । 'सैंव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः' इत्यमरः । अन्यत्र परिस्फुरन्ती सार्द्धचन्द्रा अष्टमीचन्द्रसहिता नक्षत्रमाला तारकापङ्क्तिर्यत्र तेन तादृशेन ।
शरदिति । शरदारम्भेणेव घनात्ययप्रारम्भेणेव, प्रकटितं प्रकाशितम् अरुणं लोहितवर्णं चारु मनोहरञ्च पुष्करं शुण्डाग्रं यस्य तेन, अन्यत्र प्रकटितानि विकसितानि अरुणानि चारूणि च पुष्कराणि कमलानि यत्र तेन तादृशेन ।
'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ।
व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः ॥ इत्यमरः ।'
वामनेति । वामनरूपेण विष्णोर्वामनावतारेणेव, कृतो विहितः त्रिपद्या पादबन्धनशृङ्खलया विलासः खेला येन तेन तादृशेन, 'त्रिपदी पादबन्धनम्' इति यादवः । अन्यत्र त्रयाणां पदानां समाहारः इति त्रिपदी 'तद्धितार्थोत्तरपदसमाहारे च' इति समासः । कृतो विहितः त्रिपद्या त्रिभुवनेषु पादत्रयस्थापनेन विलासो लीला येन तेन तादृशेन ।
स्फटिकेति । स्फटिकगिरिः स्फटिकमयपर्वतः तस्य तटेनेव भित्त्येव, लग्ना दशनोपरि संसक्ता सिंहमुखा सिंहाननसदृशाग्रभागा प्रतिमा दन्तबन्धनशृङ्खला यस्य तेन तादृशेन । 'प्रतिमा प्रतिरूपके । गजस्य दन्तबन्धे च' इत्यनेकार्थः । अन्यत्र लग्ना सांमुख्येन केशरिणः स्थितत्वात् पतिता सिंहमुखस्य प्रतिमा प्रतिविम्बं यत्र तेन तादृशेन ।
प्रसाधितेनेति । प्रसाधितेनेव अनेकविभूषणैर्भूषितेन लोकेनेव, आलोलाभ्यां नितान्तचपलाभ्यां कर्णपल्लवाभ्यां विस्तृतश्रोत्राभ्याम् आहृतं भ्रमरापनयनाय ताडितं मुखं वदनं येन तेन तादृशेन । अन्यत्र आलोलाभ्यां कर्णपल्लवाभ्यां श्रोत्रकिसलयाभ्याम् आहृतं मुखं यस्य तेन तादृशेन ।
'निशासमयेनेव' इत्यारभ्य 'प्रसाधितेनेव' इत्यन्तं पूर्णोपमालङ्कारः ।
गन्धमादनेति । गन्धमादननाम्ना गन्धमादनसंज्ञकेन गन्धहस्तिना प्राक्प्रदर्शितस्वरूपेण गन्धगजेन सनाथीकृतः स्वसंयुक्तिकृतः अवस्थित इत्यर्थः, एकदेश एकभागो यस्य तत्तादृशम् , 'राजकुलम्'-इत्यस्य विशेषणम् ।
साथ ताराओंकी पङ्क्ति दीप्ति पाती रहती है, उसकी भी उसी प्रकार अर्धचन्द्राकृति ललाटाभरणके साथ मोतियोंकी माला दीप्ति पा रही थी। शरत्कालके आरम्भमें जिस प्रकार लाल और सुन्दर कमल प्रकट होते हैं उसका भी उसी प्रकार सुन्दर और लाल शुण्डाग्र प्रकाश पा रहा था। वामनावतार नारायणने जिस प्रकार बलिके यज्ञमें तीनों भुवनों (स्वर्ग-मर्त्य-पाताल) को अपने तीन पदों से लीला खेल किया (नापा) था, वह भी उसी प्रकार पाँवोंमें बँधी हुई जञ्जीरोंसे क्रीड़ा करता था। स्फटिकमय पर्वतभित्तिमें जिस प्रकार सिंहका प्रतिबिम्ब उसके फिरते रहने से पड़ता है, उसका भी उसी प्रकार दन्तके ऊपरमें एक सिंहमुखके समान अग्रदेशयुक्त दन्तबन्धन शृङ्खला (जञ्जीर) लगी हुई थी। विविध आभूषणोंसे भूषित व्यक्तिका मुख जिस प्रकार चञ्चल कर्णपल्लव द्वारा आहत होता रहता है, उसका मुख भी उसी प्रकार विस्तृत कानोंसे आहत होता था। इस प्रकार गन्धमादन नामक गन्धगज द्वारा राजभवनका एक देश संयुक्त था। एव वह राजभवन अश्वशाला में रहनेवाले अधिकतर घोड़ोंसे
१. प्रसाधितेन ।
२. लोल... ।
२६८ - कादम्बरी- [ कथायाम्-
उज्ज्वल-पट्टकम्बल-पटु॑-प्रावारितै-पृष्ठैश्च रसित-मधुर-घण्टिका-रव-मुखर-कण्ठैः, मञ्जिष्ठालो- हित-स्कन्ध-केसर-बालैः, ^२निहत-वन॑-गज-रुधिर-पाटल-सटैरिव केसरिभिः, पुरो-निहित-यवस- राशि-शिखरोपविष्ट-मन्दुरापालैः, आसन्न-मङ्गल-गीत-ध्वनि-दत्तकर्णैः, अन्तःकपोल-धृत-मधुर- सरसै॑-लुलित-लाज॑-कवलैः, भूपालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम् , अधिक-रण-मण्डपग- तैरार्य्यवेशैरत्युच्चवेत्रासनोपविष्टैर्द्धर्म्ममयैरिव धर्म्माधिकारिभिर्महापुरुषैरधिष्ठितम् , अधिगत- सकल-ग्राम-नगरै॑-नामभिरेकभवनमिव जगदखिलमालोकयद्भिरालिखित-सकल-भुवन-व्यापा-
उज्ज्वलेति । इत आरभ्य तृतीयान्तानि यानि पदानि तानि 'तुरङ्गमैः' इत्यग्रेतनस्य विशेषणानि योध्यानि । उज्ज्वला दीप्तिमन्तो ये पट्टकम्बलाः कृमिकोशोद्भवसूत्ररचितकम्बलाः तैः पटु साधु प्रावारितानि आच्छादितानि पृष्ठानि येषां तैः तादृशैः । रसिताः गलसञ्चालनेन शब्दायमानाः मधुराः सुन्दरा या घण्टिकाः क्षुद्रघण्टाः तासां रवैः निनादैः मुखराः वाचालाः कण्ठा ग्रीवा येषां तैः तादृशैः । मञ्जिष्ठा रञ्जन- द्रव्यविशेषः तद्वद् लोहिताः रक्तवर्णाः स्कन्धेषु केसरसञ्ज्ञकरोमाणि येषां तैः तथोक्तैः, अत एव निहतानां मारितानां वनगजानाम् अरण्यहस्तिनां रुधिरैः शोणितैः पाटलाः श्वेतरक्ताः सटा जटा येषां तैस्तादृशैः केसरिभिः मृगेन्द्रैरिव विद्यमानैः, 'व्रतिनस्तु सटा जटा' इत्यमरः । पुरोऽग्रतो निहिताः स्थापिता ये यवसस्य शयः घासपुञ्जाः तेषां शिखरेषु ऊर्ध्वदेशेषु उपविष्टा मन्दुरापाला वाजिशालापालका येषां तैस्तादृशैः । 'वाजिशाला तु मन्दुरा' इत्यमरः । आसन्नां निकटवर्तिनो ये मङ्गलगीतध्वनयः माङ्गलिकगानशब्दाः तेषु दत्तौ न्यस्तौ कर्णौ श्रोत्रे यैस्तैस्तादृशैः, तेषामपि गीताकर्णनौत्कण्ठ्यस्य विद्यमानत्वादित्याशयः । अन्तः कपोलेषु कपोलाभ्यन्तरेषु धृताः स्थापिता मधुराः सुस्वादाः सरसा गुडेन आर्दीकृताः अत एव लुलिता उभयतो गलगुदुगाः लाजकवला धानाग्रासाः यैस्तैस्तादृशैः, गुडमिश्रिता लाजप्रासाः चापल्यवशान्मा निपातयन्विति मृत्यैर्मुखे ध्रियन्त इत्यन्नप्रकृतिः । भूपालवल्लभैः राजप्रियैः मन्दुरागतैः वाजिशालाप्राप्तैः तुरङ्गमैः अश्वैः उद्भासितं राजितम् अग्रेतनस्य राजकुलमित्यस्य विशेषणमेतत् ।
अधिकेति । अधिक्रियन्ते लोका अस्मिन्नित्यधिकरणं विचारालयः तन्मण्डपगतैः आर्य्यवेशैः शिष्टज- नयोग्यवेशैः सुपरिष्कृतवस्त्राच्छादनैरित्यर्थः, अत्युच्चानि अत्युन्नतानि यानि वेत्रासनानि वेतसविष्टराणि तेषु उपविष्टैः कृतोपवेशनैः धर्म्ममयैः धर्म्मानिष्पन्नैरिव, धर्म्माधिकारिभिः आचारदर्शिभिः प्राड्विवाकैः महापुरुषैः शिष्टान्याय तत्परतादिसद्गुणसहितेलोकैःअधिष्ठितम् आश्रितं राजकुलम् । इह 'धर्म्ममयैरिव' इति गुणोत्प्रेक्षा ।
अधिगतेति । अधिगतानि ज्ञातानि सकलप्रामनगराणां समस्तग्रामनगराणां नामानि अभिधेयानि यैस्तैस्तादृशैः । ग्रामलक्षणमुक्तं श्रीरघुनाथेन-
'तथा शूद्रजनप्राया सुसमृद्धकृषीवला । क्षेत्रोपयोगिभूमध्ये वसतिर्ग्रामसंज्ञिका ॥'
मार्कण्डेयपुराणे च नगरलक्षणञ्चोक्तम्-
'देवतायतनैश्चित्रैः प्रासादापणवेश्मभिः । नगरं दर्शयेद्विद्वान् राजमार्गेण शोभनैः ॥'
शोभा पा रहा था, उनका सम्पूर्ण पृष्ठ भाग उज्ज्वल रेशमी कम्बलोंसे ढँका हुआ था, मधुर घण्टियोंके बजनेसे उनके कण्ठदेश मुखर हो रहे थे, उनके कन्धोंके ऊपर मजीठ से रँगे हुए के समान लाल लाल सटाएँ थीं, अतएव निहत जंगली हाथीके रक्तसे रक्तवर्ण जटा-युक्त सिंहके समान वे घोड़े देखनेमें आ रहे थे । उनके आगे रखे हुए घासोंकी गठरियोंके ऊपर अश्वशालाके रक्षणगण (जमादार) बैठे थे । वे घोड़े समीपसे आती हुई मङ्गल गीतकी ध्वनिको कान लगाकर सुनते थे । गालके अन्दर गुड़ (मधुररस) में साने गये सुस्वाद दानेके ग्रास लिए हुए थे, अत एव गालके दोनों तरफसे उसका रस बाहर निकल रहा था, इस प्रकारके वे अश्व राजाके प्रिय थे । न्यायालय (कचहरी) में साक्षात् धर्मके ही समान बडे गुणवान् न्यायाधीशगण (जज आदि) सभ्यजनोचित वेशभूषाओंसे सुसज्जित होकर अत्यन्त ऊँची वेंतकी कुर्सियों पर बैठकर विद्यमान थे । न्यायालयके लेखकगण (पेशकार-नाजिर आदि) न्यायाधीशोंके आदेशों (परवाने) को लिखने थे, उससे समस्त ग्राम एवं नगरादिकोंका नाम जानते थे, एवं सर्वदा आलोचना करनेसे सब जगतको मानो एक ही घरके समान देखते थे और समस्त भुवनोंका व्यापार लिखनेसे
१. पटु... । २. प्रावृत, प्रावरित... । ३. वालपल्लवैः । ४. क्वचित् 'वन' इति पदं नास्ति । ५. मधु रसलव लुलित । ६. जन्बाल... । ७. ग्रामकण्टेन्गर, ग्रामह्वेंटनाम, सकलनगरह्वेटसर्वंट... ।
राजकुलवर्णना-२९] चन्द्रकला-विद्योतिनीसहिता । २६६
रतया धर्म्मराजनगर-व्यतिकरमिव दर्शयद्भिरधिकरणलेखकैरालिख्यमान-शासन-सहस्रम्, अभ्यन्तरावस्थित-नरपति-निर्गम-प्रतीक्षण-परेण च स्थान-स्थानेषु बद्धमण्डलेन, कनकमयार्द्ध-चन्द्र-तारागणशबलैः चर्मफलकैर्निशासमयमिव दर्शयता, स्फुरित-निशित-करवालकर-प्ररोह-करालितातपेन, एकश्रवणपुटघटित-धवलदन्तपत्रेण ऊर्ध्व-बद्ध-मौलि-कलापेन, धवल-चन्दन-स्थासक-खचित-भुजोरुदण्डेन, बद्धासिधेनुकेन, अन्ध्र-द्रविड-सिंहलप्रायेण सेवकजनेन, आस्थानमण्डपगतेन च यथोचितासनोपविष्टेन प्रसारयता दुरोदरक्रीडाम्, अभ्यस्यताऽष्टापद-
एकभवनमिव एकगृहमिव अखिलं समस्तं जगत् संसारम् आलोकयद्भिः बहुकालं समालोचनावशात् एकभवनस्येव समस्तसंसारस्य स्थानजनोदन्तं जानद्भिरित्यर्थः । आलिखिताः शासनसौविध्याय पत्रेषु अङ्किताः सकलभुवनस्य समस्तसंसारस्य व्यापाराः व्यवहारा राजकार्यप्रयोजनीयस्थानजन्मादिघटनावली इत्यर्थः । यैः तैस्तेषां भावस्तया कारणेन, धर्मराजनगरस्य यमस्य संयमिनीतिख्यातपुरस्य व्यतिकरं सम्बन्धं दर्शयद्भिः प्रकटयद्भिरिव विद्यमानैः, संयमिनीपुरेऽपि चित्रगुप्तादिभिः समस्तसंसारव्यवहारलिखनादित्याशयः । अधिकरणस्य व्यवहारदर्शनसभायाः लेखकैः पूरुषैः, आलिख्यमानं पत्रेषु लिपीक्रियमाणं शासनसहस्रं नृपतेः धर्माधिकारिणाञ्च आज्ञानिकरो यत्र तत् तादृशं राजकुलम् । इह 'एकभवनमिव' इत्युपमा, 'दर्शयद्भिरिवे'ति क्रियोत्प्रेक्षा ।
अभ्यन्तरेति । इत आरभ्य तृतीयान्तानि यानि पदानि तानि अग्रेतनस्य 'सेवकजनेन' इत्यस्य विशेषणानि । अभ्यन्तरे अवस्थिता महाराजतारापीडनिकटे निजनिजकार्यहेतवे विद्यमानाः ये नरपतयः निजा निजा राजानः तेषां निर्गमो बहिरागमनं तस्य प्रतीक्षणं प्रतीक्षा तत्परेण तत्परायणेन, आयातेषु तेषु तैः सह गमनाशयादित्याशयः । बद्धं विहितं मण्डलं वर्तुलाकारेणावस्थानं येन तेन तादृशेन । कनकमया काञ्चनरचिता ये अर्द्धचन्द्राः अर्धचन्द्रसदृशलक्षणानि तारागणा तारकागणसदृशलक्षणसमूहाश्च तैः शबलानि कर्बुराणि तैस्तादृशैः, चर्मफलकैः करणैः निशासमयं विभावरीसमयं दर्शयतेव प्रकटयतेव सता, निशीथेऽप्यर्द्धचन्द्रनक्षत्रगणोदयादित्याशयः । स्फुरिता देदीप्यमानाः निशिताः तीक्ष्णा ये करवालाः खड्गाः तेषां करप्ररोहैः किरणाङ्कुरैः करालितो भयङ्करीकृत आतपा दिनकरालोको येन तेन तादृशेन । एकश्रवणपुटे एककर्णपुटे घटितं योजितं दन्तपत्रं गजदशनरचितपत्रसदृशभूषणं येन तेन तादृशेन । देशव्यवहारात्तेषामेकश्रवणे दन्तपत्रधारणमित्यवधेयम् । ऊर्ध्वम् उपरि बद्धो नद्धः मौलिकलापः केशसमूहो येन तेन तादृशेन । धवलैः शुभ्रैः चन्दनस्थासकैः चन्दनलिप्तहस्तप्रतिच्छन्दैः खचितौ अङ्कितौ भुजौ बाहू ऊरुदण्डौ च यस्य तेन तादृशेन । ऊरौ चन्दनस्थासकैश्चापि देशव्यवहारात् । बद्धा कटीभागेषु संयताः असिधेनुका- क्षुरिकाः येन तेन तादृशेन । 'छुरिका चासिधेनुका' इत्यमरः । अन्ध्रश्चिल्लिङ्गः, द्रविडो द्राविडदेशः, सिंहलः सिंहलद्वीपम्, एतद्देशीयाः प्राया अधिका यत्र तेन तादृशेन । सेवकजनेन नानादेशीय नृपमण्डलशरीररक्षकजनेन अधिष्ठितम् आश्रितमिति अग्रेतनक्रियापदस्य कर्तृपदमेतत् । इह 'दर्शयतेव' इत्यत्र क्रियोत्प्रेक्षा ।
आस्थानेति । इत आरभ्य तृतीयान्तानि यानि पदानि तानि 'सामन्तलोकेन' इत्यग्रेतनस्य विशेषणानि । आस्थानमण्डपः सभागृहं तत्र गतेन स्थितेन यथोचितानि यथायोग्यानि यानि शासनानि विष्टराः तेषु उपविष्टेन आसीदुपा, दुरोदरं द्यूतं तस्य क्रीडां खेलाकोष्ठं प्रसारयता विस्तारयता । अष्टापदव्यापारं
उस राजभवनके साथ धर्मराज नगर (यमपुरी) का कोई सम्बन्ध है, इस प्रकार मानो दिखा रहे थे । भवन के अन्दर महाराज तारापीडके पासमें बैठे अपने-अपने राजाके बाहर आनेकी प्रतीक्षाके लिए भिन्न-भिन्न देशीय राजाओंके शरीररक्षक सैन्यगण वहाँ स्थान-स्थान पर झुण्ड बाँधे खड़े थे । वे सोनेके अर्धचन्द्राकार और नक्षत्राकार चिह्नसमूहसे विचित्र दीखती हुई चमड़ेकी ढालोंको धारणकर उस समय को मानो रात्रि कहकर दिखा रहे थे । चमकती हुई तीक्ष्ण तलवारोंमेंसे निकलती किरणोंको धूपमें मिलाकर उसे भयङ्कर करते थे । एक कानमें उन्होंने हाथीके दाँतसे बनाये हुए पत्राकार आभूषणोंको पहन लिया था । मस्तकके ऊपर चूल बाँध रखा था । भुजाओं एवं जङ्घोंको सफेद चन्दनके लेपसे चिह्नित कर दिया था, और कमरमें छुरेको बाँध रखा था, तथा उन लोगोंके बीचमें अधिक संख्यक ही आन्ध्र, द्रविड़ एवं सिंहलदेशीय व्यक्ति थे । सभामण्डपमें अनेकसङ्ख्य संत्यक्त राज्याभिषिक्त अधोनदेशस्यराजगण समुचित आसनों पर बैठे थे । उनलोगोंके बीचमें कोई कोई जुआ खेल रहे थे,
१. अधिकार ...। २. ...निर्गमन...। ३. स्थाने स्थाने। ४. ...'शवलवलैः । ५. घटितानेकदन्तपत्रेण ।