भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

महाश्वेतावर्णना ५२ ] चन्द्रकला-विद्योतिनीसहिता । ३६७

यौवनेनापि स्वकालोपसर्पिणा' निर्विकार-विनीतेने शिष्येणेवोपास्यमानाम्, लावण्येनापि कृतपुण्येनेव स्वच्छात्मना परिगृहीताम्, रूपेणापि रुचिरलोचनेन विगतचापलेन आयतनमृगेणेव निषेविताम्, उत्सङ्गगताञ्च स्वसुतामिव सूक्ष्म-शङ्ख-खण्डिकाङ्गुरीयक पूरिताङ्गु-लिना त्रिपुण्डूकावशिष्ट-भस्म-पाण्डुरेण प्रकोष्ठ-बद्ध-शङ्खखण्डकेन नख-मयूख-दन्तुरतया गृहीतदन्तकोणेनेव दन्तमयीं दक्षिणकरेण वीणामास्फालयन्तीम्, प्रत्यक्षीमिव गन्धर्वविद्याम्, मणिमण्डपिकास्तम्भलग्नाभिरात्मानुरूपाभिः सहचरीभिरिव सर्वाणाभिर्विलासवतीभिः प्रतिमाभिरुपेताम्, स्नपनार्द्र-लिङ्ग-संक्रान्त-प्रतिबिम्बतया अतिप्रबलभक्त्याराधितस्य हृदयमिव

यौवनेनेति । समुञ्चयार्थको ऽत्रापिः । स्वकाले उपयुक्तारवस्थायां स्वीयसेवावसरे च उपसर्पति आयातीति तेन, तथा निर्विकारं कामविकारशून्यं क्रोधादिविकारशून्यं च यथा स्यात्तथा विनीतेन शिष्टा-जनितविनयभावाद्वाहिना यौवनेन तारुण्येन, शिष्येणेव छात्रेणेव उपास्यमानाम् आश्रीयमाणां सेव्य-मानाञ्च । पूर्णोपमा ।

लावण्येनेति । कृतपुण्येन सुकृतिनेव विद्यमानेन स्वच्छात्मना निर्मलेन काममलरहितस्वरूपेण च लावण्येन परिगृहीताम् आश्रिताम् । इह 'कृतपुण्येनेव' इति पुण्यकरणोत्प्रेक्षणात् क्रियोत्प्रेक्षा ।

रूपेणेति । रुचिरे मनोहरे लोचने नयने यस्य यत्र च तेन, तथा विगतं दूरीभूतं चापलं प्राकृतिक-चाञ्चल्यं कामोद्रेगस्य यस्य यत्र च तेन, आयतनमृगेणेव तत्सिद्धायतनसारङ्गेणेव रूपेण सौन्दर्येण निषे-विताम् आश्रिताम् । पूर्णोपमा ।

उत्सङ्गेति । सूक्ष्माणाञ्च अल्पूलानां शङ्खखण्डिकानां कम्बुशकलानाम् अङ्गुलीयकैः अङ्गुलीभूषणैः पूरिता व्याप्ता अङ्गुलयः करशाखा यस्य तेन, त्रिपुण्डूकात् तन्नामकतिलकविधानात् अवशिष्टेन शेषेण भस्मना विभूतिना पाण्डुरेण श्वेतेन, तथा प्रकोष्ठे मणिबन्धदेशे बद्धो धृतः शङ्खखण्डं कम्बुकटको यस्य तेन, नखानां कररुहाणां मयूखैः किरणैः दन्तुरतया उन्नततया प्रसारितनखमयूखतयेत्यर्थः, कारणेन, गृहीतः आत्तः दन्तकोणः गजदन्तरचितवीणावादनसाधनं येन तथोक्तेनेव अवगम्यमानेन दक्षिणकरेण अपसव्यहस्तेन, उत्सङ्गगतां क्रोडस्थिताम्, दन्तमयीं गजदन्तालङ्कारबहुलां वीणां वल्लकीं स्वसुतां निजा-त्मजामिव आस्फालयन्तीं वादयन्तीं सप्रेम उत्थाप्योत्थाप्य लालयन्तीं च अत एव प्रत्यक्षाम् इन्द्रियगोचरां गन्धर्वविद्यां गानशास्त्रविद्यामिव स्थिताम् । 'कोणो वीणादिवादनम्' इत्यमरः ।

इह पूर्णोपमा-पदार्थहेतुककाव्यलिङ्गक्रियोत्प्रेक्षागुणोत्प्रेक्षाणां परस्परमङ्गाङ्गिभावसङ्करः । कम्बुम-याङ्गुरीयककटककाम्याञ्चैधव्यं प्रतीयत इति वस्तुना वस्तुध्वनिः ।

मनीति । मणिमण्डपिकारत्ननिर्मिता चतुकिका तस्याः स्तम्भेषु लग्नाभिः प्रतिबिम्बिताभिः, विला-सवतीभिर्विभ्रमशोभायुक्ताभिः सहचरीभिः सपर्याविधायिनीभिरिव विद्यमानाभिः सर्वाणाभिः सर्वङ्गीणीभिः प्रतिमाभिः आत्मप्रतिबिम्बैः उपेतां सहिताम् । श्रौतोपमा ।

स्नपनेति । स्नपनेन अभिषेकेण आर्दे क्लिन्ने लिङ्गे महेशप्रतिमायां सङ्क्रान्तं प्रविष्टं प्रतिबिम्बं प्रति-

रक्तवर्ण हो गया था। अपने समय पर उपस्थित और क्रोधादि-विकार-विहीन विनीत शिष्यके समान, उपयुक्त अवस्था में उपस्थित और कामविकार-विहीन वक्ष्य यौवनकाल आश्रय किया था। लावण्य भी, मानो पुण्योपार्जन करके ही इसका परिग्रह किया था। उस मन्दिर के हरिण के समान सुन्दर-नयन-सम्पन्न और चापल्यविहीन रूप भी, उसको सेवा करता था। और वह अपनी पुत्री के समान हस्तिदन्तभूषित एक वीणा उत्सङ्ग (गोद) में रखकर दक्षिणहस्तद्वारा बजा रही थी। उसके उस दक्षिणहस्त की अँगुलियों में सूक्ष्म शंख के टुकड़ों से बनी हुई अँगूठियाँ पहनी थीं, त्रिपुण्ड्र धारण करनेसे अवशिष्ट भस्म से वह दक्षिणहस्त शुभ्रवर्ण हो गया था। जिसके मणिबन्धप्रदेश (कलाई) पर शङ्खाभरण परिवेष्टित था, और जो नखकिरण फैलने से मानो हस्तिदन्त-निर्मित वीणा बजाने के साधन (मिजराब) से समन्वित दीखता था, जिससे वह प्रत्यक्ष गन्धर्व-विद्या के समान विद्यमान थी। मण्डप के मणिमय स्तम्भों में लीला-विलासमञ्जुल वीणा के साथ उसके शरीर के अनुरूप प्रतिबिम्ब पड़े हुए थे, वे उसके सहचरियों के समान देखने में आ रहे थे। स्नान करा देने के कारण आर्द्र शिवलिङ्ग में उसका प्रतिबिम्ब पड़ गया था, अत एव प्रतीत होता था कि मानो वह अति प्रबल-भक्तिसे आराधित शिव के हृदय में प्रविष्ट ही


१. यौवनेनादितेनोपसर्पिणा । २. निर्विकारेण विनीतेन, स्वकालोपसर्पिणिर्निर्विकारविनीतेन । ३. सेविताम् । ४. सूक्ष्मदण्डखण्डिकाङ्गुलीकपूरिताङ्गुलिना । ५. ०००पाण्डरेण । ६. सर्वाङ्गीणाभिः प्रतिमाभिः ।

३६८ | कादम्बरी- | [कथायाम्-

प्रविष्टां हरस्य, हारलतयेव^१ प्राप्तकण्ठयोगया ग्रहपङ्क्त्येव ध्रुवप्रतिबद्धया क्रुद्धयेव रक्तै^२-मुखव-र्णया मत्तयेव घूर्णित-मन्द^३-तारया उन्मत्तयेव अनेकै^४कृततालया मीमांसयेव अनेकभावनाव-विद्धया गीत्या देवं विरूपाक्षमुपवीणयन्तीम्^५, अतिमधुरगीतावकृष्टैर्ध्यानमिवाभ्यस्यद्भिर्निश्च-लकर्णपुटैर्मृग-वराह-वानर-वारण-शरभ-सिंहप्रभृतिभिर्वनचरैराबद्धमण्डलैराकर्ण्यमानगीतानु-विद्धविपञ्ची-घोषाम्, अमरापगामिव नभसोऽवतीर्णाम्, दीक्षितवाचमिवाप्राकृताम्,

हृदयं यस्यास्तस्या भावस्तया कारणेन, अतिप्रवलभक्त्या अत्युत्कृष्टाराधनेन आराधितस्य सेवितस्य हरस्य महेशस्य हृदयं चित्तं प्रविष्टां प्रवेशं कृतवतीमिव विद्यमानाम् । क्रियोत्प्रेक्षा ।

हरेति । हारलतयेव मुक्तामालयेव प्राप्तकण्ठयोगया लब्धगलसम्बन्धया, पक्षद्वयेऽपि तुल्यमिदम् । ग्रहाणां सूर्यादीनां पङ्क्त्या वीथ्येव, ध्रुवेण गानाङ्गविशेषेण प्रतिवद्धया नियमितया, पक्षे तु ध्रुवाभ्यां तत्संज्ञ-कतारकाभ्यां प्रतिवद्धया संयतया । गानाङ्गध्रुवस्वरूपमभिहितं सङ्गीतनारायणे—

'उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः।
कनिष्ठश्च चतुर्भिः स्याद् ध्रुवकोऽयं मयोदितः ॥'

ग्रहमण्डलस्य ध्रुवतद्द्वययोर्बन्धन-मभिहितं ज्योतिषे—

'भचक्रं ध्रुवयोध्बद्धमाक्षिप्तं प्रवहणानिलैः ।
पर्येट्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥'

क्रुद्धया कुपितया स्त्रिया योषित्तेव, रक्ताः श्रीरागादिसहिता मुखवर्णा वदनोच्चारितान्यक्षराणि यस्यां तया, पक्षे तु रक्तस्ताम्रो मुखवर्णो यस्यास्तया । मत्तया सुरादिपानाज्जातमदया स्त्रियेव, घूर्णितः मण्डपिकायां समन्तात्प्रसृतः मन्दो मृदुः तारो दीर्घश्च स्वरो यस्यास्तया, पक्षे तु घूर्णिते मदोद्रेकाच्चञ्चले मन्दे अलसे तारे कनीनिकायुगलं यस्यास्तया । उन्मत्तया उन्मादवायुग्रस्तया स्त्रियेव, अनेके बहवः कृताः विहिताः तालाः कालक्रियामानरूपाः करतलध्वनयश्च यस्यां यया च तया । मीमांसया जैमिनिकृत-पूर्वमीमांसा ( विचार ) शास्त्रेणेव, अनेकाभिः अनेकप्रकाराभिः भावनाभिर्मूच्छ्‌र्छनाभिः अनुविद्धया युष्टया, पक्षे-अनेकतया द्विपकारया भावनया भावयितुर्व्यापारेण तत्प्रतिपादनेनेत्यर्थः, अनुविद्धया स्यूतया । श्रीरागादिलक्षणमुक्तं संगीत रत्नाकारे । मीमांसाप्रसिद्धा भावना द्विविधा-शाब्दी आर्थी चात्र ज्ञेया । तथा च एवंभूतया गीत्या गानेन, विरूपाणि अग्निसूर्यचन्द्ररूपया वपुष्याणि अक्षीणि नयनानि यस्य तं तादृशं देवं महादेवम् उपवीणयन्तीं वल्लक्या उपगायन्तीम् । पूर्णा मालोपमा ।

अतिमधुरेति । अतिमधुरेण कर्णसुखदेन गीतेन गानेन अवकृष्टैराकृष्य प्रापितैः, निश्चलकर्णपुटैः स्तिमित-कर्णयुगलैः, अत एव ध्यानं चित्तवृत्तिनिरोधं अभ्यस्यद्भिः शिक्षमाणैरिव विद्यमानैः, आबद्धं रचितं मण्डलं वलयाकारेणावस्थानं यैस्तैः, मृगा हरिणाः वराहाः शूकराः वानरा गोलाङ्गूलाः कपर्यश्च वारणा हस्तिनः शरभाः सिंहघातिनोऽष्टपदा जन्तुविशेषाः, एते प्रभृतय आद्या येषां तैः, वनचरैः अरण्यचारिभिः आकर्ण्यमानः श्रूयमाणः गीतानुविद्धः गानसंयुक्तः विपञ्चीघोषः सप्ततन्त्रीयुक्तवीणा निनादो यस्यास्ताम् । क्रियोत्प्रेक्षा ।

अमरेति । नभसः आकाशात् अवतीर्णाम् आगताम् अमरापगां मन्दाकिनीमिव विद्यमानाम् । द्रव्योत्प्रेक्षा ।

दीक्षितेति । दीक्षितस्य यागादौ नियमिनः वाचं वाक्यमिव, अप्राकृताम् अमर्त्यां दिव्याम्, पक्षे तु-


गई थी । वीणाध्वनिके साथ-साथ वह शङ्करकी स्तुतिका गान करती थी, वह गान मुक्तामय हारके समान उसके कण्ठमें संलग्न था, ग्रहपंक्ति जिस प्रकार ध्रुव नक्षत्र (तारा) संयुक्त रहती है, वह गान भी उसी प्रकार गानाङ्गध्रुव-लक्षणसे युक्त था एवं कुपित सुन्दरीके मुखका रङ्ग जिसप्रकार रक्तवर्ण होता है, उस गानमें भी उसी प्रकार मुखसे नानाविध राग-रागिणीयुक्त अक्षर उच्चारित होते थे; मदसे उन्मत्त सुन्दरी की जिसप्रकार नयनकी तारा अलस होकर घूमती रहती है, उस गानके स्वर भी उसीप्रकार कभी मन्द कभी तार होकर मण्डपिका मध्यमें विचरण करते रहते थे; उन्मत्त सुन्दरी जिसप्रकार बहुत करतल-ध्वनि करती है, उस गानमें भी उसी प्रकार बहुत ताल किये जाते थे; एवं जैमिनीप्रणीत मीमांसादर्शन जिसप्रकार शाब्दी और आर्थी नामकी द्विविध भावनासे युक्त है, वह गान भी उसीप्रकार बहुत मूर्च्छना-युक्त था। अत्यन्त मधुर गानसे आकृष्ट होकर हरिण, शूकर, वानर, हाथी, शरभ, सिंह आदि वनचर पशुगण निश्चल कर्णपुटसे मण्डल बांधकर उसके गानके साथ-साथ वीणाकी ध्वनि सुनते थे, इससे प्रतीत होता था कि मानो वे भी ध्यानका अभ्यास कर रहे हैं। और वह कन्या आकाशमें उतरी मन्दाकिनीके समान देखनेमें आती थी; यज्ञमें दीक्षित व्यक्ति जिसप्रकार प्राकृतभाषा नहीं


१. हारलेखयेव । २. रागरक्तः.... । ३. ...'पूर्णितमन्द्र'... । ४. उन्मत्तयानेक... । ५. उपवर्जयन्तीम ।

महाश्वेतावर्णना ५२ ] चन्द्रकला-विद्योतिनीसहिता । ३६६

त्रिपुरारिशरशलाकामिव तेजोमयीम्, पीतामृतामिव विगततृष्णाम्, ईशानशिरःशशिकलामिवानुपजातरागाम्, अमथितोदधिसलैलसम्पदमिवान्तःप्रसन्नाम्, असमस्तपदवृत्तिमिवाद्दन्दाम्, बौद्धबुद्धिमिव निरालम्बनाम् , वैदेहीमिव प्राप्तज्योतिःप्रवेशाम् , द्यूतकलाकुशलामिव वशी-


प्राकृतादिभाषातिरिक्तां संस्कृतात्मिकामित्यर्थः । तथा चात्र 'नापभाषितवै न म्लेच्छितवै, म्लेच्छो ह्येष यदपशब्द' इत्यादिशास्त्रेण दीक्षितस्यापभ्रंशभाषाव्यवहारनिषेधादित्याशयः ।

त्रिपुरेति । त्रिपुरारेर्महादेवस्य शरशलाकां त्रिपुरासुरहननसमये नारायणरूपां बाणशलाकामिव तेजोमयीं तेजोबहुलाम् ।

पीतेति । पीतमास्वादितम् अमृतं पीयूषं यया तां स्त्रियमिव, विगता नष्टा तृष्णा विषयलोभः सलिलपानेच्छा च यस्यास्ताम् ।

ईशानेति । ईशानस्य महेश्वरस्य शिरसः उत्तमाङ्गस्य शशिकलां चन्द्रकलामिव, अनुपजातः अनुत्पन्नः रागः कामानुरागो लौहित्यं च यस्यास्ताम् । तच्चन्द्रकलायाः प्रतिदिनमुदयास्तमनयोरभावादेव रक्तिमा नोत्पद्यत इत्यवधेयम् ।

अमथितेति । अमथितस्य अवलोडितस्य उदधेः सागरस्य जलसम्पदमिव सलिलसम्पत्तिमिव, अन्तःप्रसन्नां हृदये शुद्धां कामादिविकारशून्यहृदयामित्यर्थः, अन्यत्र तु अभ्यन्तराकलुषिताम् , मन्थने सति तस्मिञ्छाविलता सम्पद्यत इत्याशयः ।

असमस्तेति । असमस्तानि समासवर्जीतानि यानि पदानि सुबन्तरूपाणि तेषां वृत्तिमवस्थितिमिव, अद्वन्द्वां शीतोष्णसुख-दुःखादिद्वन्द्वानुभववर्जितामित्यर्थः, अन्यत्र तु द्वन्द्वसंज्ञकसमासवजितां युगल-संयुक्तवर्जितां वा ।

बौद्धेति । बौद्धानां माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकासाम्प्रदायिकानामित्यर्थः, बुद्धिं ज्ञानमिव, निरालम्बनां सर्वत्रैवासक्तिवर्जिताम् , अन्यत्र तु निराश्रयाम् । माध्यमिकादयश्चत्वारो बौद्धाः तेषु योगाचारः विज्ञानातिरिक्तं पदार्थं न मन्यते, प्रतिपादयति च तत्तज्ज्ञानमेव घटादिरूपेण भासते, भेदस्तु भ्रान्तिवशादेवेति । तथा चोक्तं तैः-

'सहोपलम्भनियमादभेदो नीलतद्धियोः ।
अन्यच्चेत् संविदो नीलं न तद्भासेत संविदि ॥
भासेत चेत् कुतः सर्वं न भासेतैकसंविदि ।
नियामकं न संबन्धं पश्यामो नीलतद्धियोः ॥' इत्यादि

वैदेहीति । वैदेहीं मैथिलीमिव, प्राप्त आसादितो ज्योतिषि परमात्मनि प्रवेशो ध्यानगोचरता यथा ताम् अन्यत्र तु प्राप्तो ज्योतिषि सतीत्वनिर्णयार्थं प्रदीप्ताग्नौ प्रवेशो यया ताम् ।

द्यूतेति । द्यूतकलायां दुरोदरक्रीडायां कुशलां दक्षां स्त्रियमिव, वशीकृतानि स्वायत्तीकृतानि अक्षाणि इन्द्रियाणि हृदयं मनश्च यया ताम् , अन्यत्र तु वशीकृतम् अक्षहृदयं दुरोदरविद्यामर्म यया ताम् ।


बोलने हैं, वह कन्या भी उसीप्रकार प्राकृत मनुष्य (अदिव्य) नहीं थी, त्रिपुरासुरवधके समयमें शङ्कर के बाणशलाकाके समान वह भी तेजोमयी थी; अमृत-पान करनेवालीको जिसप्रकार पिपासा नहीं रहती है, उसको भी उसीप्रकार विषय-लालसा नहीं थी; शङ्करके मस्तकस्थित चन्द्रकलामें जिसप्रकार राग (रक्तिमा) उत्पन्न नहीं होती है, उनमें भी उसीप्रकार राग (काम आदिका अनुराग) उत्पन्न नहीं हुआ था; अमथित समुद्रजलके अन्दर निर्मलता रहती है, उसके अन्तःकरणमें भी उसीप्रकार मन्मथ-विकार न होनेसे निर्मलता (प्रसन्नता) विद्यमान थी; समासविहीन पदसमूहका जिसप्रकार परस्पर मिलन नहीं रहता है, उसमें भी उसीप्रकार शीतोष्णादिद्वन्द्व दुःख नहीं थे; बौद्धों (माध्यमिक-योगाचारादि साम्प्रदायिकों) के मनमें ज्ञानका जिसप्रकार विषय नहीं है (अर्थात् विज्ञानसे अतिरिक्त पदार्थ वे नहीं मानते हैं उनका कहना है कि ज्ञान ही व्यष्टिरूपसे भासित होता है भेद-प्रतीति भ्रान्ति है) उसीप्रकार उसमें भी आसक्ति नहीं थी; जानकीजीने जिसप्रकार अग्निमें प्रवेश किया था, उसने भी उसीप्रकार परब्रह्ममें प्रवेश किया था; द्यूतक्रीडामें निपुण स्त्रियां जिसप्रकार पाशकविद्या-रहस्यको स्वाधीन


१. तपोमयीम् । २. ॰॰॰दधितन्वदम् ।

४८० | कादम्बरी- | [ कथायाम्-

कृताक्षहृदयाम्, महीमिव जलभृतदेहाम्, हिमसमयदिवस¹-मुखलक्ष्मीमिव परिगृहीत²-भास्क- रातपाम्, आर्यामिव समुपात्त³-यतिगणोचितमात्राम्, आलिखितामिवाचलावस्थानाम्, अंशुमयीमिव तच्छायोपलिप्तभूतलाम्, निर्ममाम्⁴, निरहङ्काराम्, निर्मत्सराम्, अमा- नुषाकृतिम्, दिव्यत्वादपरिज्ञायमान-वयःपरिमाणाम्⁵ अप्यष्टादशवर्षदेशीया मिवोपलक्ष्यमा- णाम्, प्रतिपन्नपाशुपतव्रतां⁶ कन्यकां ददर्श । ततोऽवतीर्य तरुशाखायां बद्ध्वा तुरङ्गम्⁷ उपसृत्य भगवते भक्त्या⁸ प्रणम्य त्रिलोच-


महीमिति । महीं भूमिमिव, जलेन केवलसलिलपानेन भृतः देहः शरीरं यया ताम्, पक्षे तु जलेन भृतो वेष्टितो देहो यस्यास्ताम् ।

हिमेति । हिमसमयो माघफाल्गुनामऋतुहिनपतनकालः तस्य दिवसमुखलक्ष्मीमिव प्रभातश्रिय-मिव, परिगृहीतः पञ्चाग्निसाधनात् देहेऽङ्गीकृतः भास्करातपः सूर्यालोको यया ताम्, पक्षे—परिगृहीतः हिमैर्निबद्धः भास्करातपो यया ताम् ।

आर्यामिति । आर्या स्वनाम्ना प्रख्यातं छन्दोविशेष इव, समुपात्ता स्वीकृता यतिगणस्य वश्येन्द्रिय-पुरुषवर्गस्य तपस्विगणस्येत्यर्थः, उचिता योग्या मात्रा दण्डकमण्डल्वादिसामग्री यया ताम्, पक्षे—समु-पात्ता स्वीकृता यतिर्जिह्वाविश्रामस्थानम्, गण-मगणनगणभगणप्रभृतयः, उचिता योग्या तत्तत्स्वरूप-प्रतिपादिता मात्रा उच्चारणसमयश्च यया ताम् । आर्यालक्षणन्तु श्रुतबोधे—

'यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥'

आलीति । आलिखितां चित्रितामिव, अचले शैले अवस्थानं स्थितिः यस्यास्ताम्, पक्षे—अचलं निश्चलम् अवस्थानं यस्यास्ताम् ।

अंश्विति । अंशुमयीं तेजोमयीं देवीमिव, तनुच्छायया शरीरस्य प्रतिविम्बेन दीप्त्या च अनुलिप्तम् आच्छादितं भूतलं पृथिवीतलं यया ताम् ।

इह 'दीक्षितवाचमिव' इत्यारभ्य 'अंशुमयीमिव' इत्यन्तं सर्वत्र पूर्णोपमालङ्कारः ।

निर्ममामिति । ममावार्थे 'मम' पदमिदमव्ययः, निर्मलां ममत्ववर्जिताम्, निरहङ्कारां निरभिमानाम्, निर्मत्सराम् अन्यशुभद्वेषरहिताम्, अमानुषाकृतिं दिव्यस्वरूपाम्, दिव्यत्वाद् गन्धर्वपुत्रीत्वेन निर्जरा-मित्यर्थः, अपरिज्ञायमानं मनुष्यत्वास्वरूपावलोकनमात्रेणानिश्चीयमानं वयसः अवस्थायाः परिमाणं मानं यस्यास्तामपि, अष्टादशवर्षदेशीयामिव अष्टादशवयस ईषन्न्यूनवयोधामिव, 'ईषदसमाप्तौ कल्पब्देश्य-देशीयरः' इति पा० सूत्रेण 'अष्टादशवर्ष' शब्दाद्देशीयरप्रत्ययः । प्रतिपन्नं गृहीतं पशुपतिः महेशो देवता अस्येति पाशुपतं व्रतं महेशार्चनारूपो नियमो यया ताम् ।

तत इति । ततः कन्यादर्शनानन्तरम् अवतीर्य अश्वःदवनरणं विधाय तरुशाखायां वृक्षशाखायां तुरङ्गमम् इन्द्रायुधमश्वं बद्ध्वा बन्धनं कृत्वा उपसृत्य समीपमेत्य भक्त्या श्रद्धया भगवते ऐश्वर्यशालिने


करके रहती है, उसने भी उसीप्रकार इन्द्रियसामूह और चित्तको वशमें कर रखा था. पृथिवी जिसप्रकार जलसे परिवेष्टित शरीरवाली है, वह भी उसीप्रकार केवल जल-पानेने शरीर-धारण की थी; शीतकालके प्रभातकालकी शोभा जिसप्रकार हिमद्वारा सूर्यके आलोकको आच्छादित करता है ( जाड़ेके दिनोंमें प्रातःकाल हिमावृत होनेसे धूप नहीं दीखती है ) उसने भी उसीप्रकार पञ्चाग्नितपन्तसे शरीरमें सूर्यालोकको धारण किया था; आर्याच्छन्दमें जिसप्रकार यति ( विश्राम ) और गण उपयुक्त मात्राके अनुसार होते हैं, उसके भी उसी प्रकार मुनिगण के उपयुक्त दण्ड और कमण्डलु-प्रभृति उपकरण थे; चित्रित प्रतिमूर्त्ति जिसप्रकार निश्चल-भावसे स्थित रहती है, वह भी उसीप्रकार पर्वतपर स्थित रहती थी; तेजोमयी देवी जिसप्रकार शरीरकी कान्तिद्वारा भूतलको लिप्त ( रंग ) करती है, वह भी उसीप्रकार शरीरके प्रतिविम्बद्वारा भूतलको लिप्त करती थी, वह ममत्व, अहङ्कार और मत्सर ( अन्यशुभद्वेष ) रहित थी; उसका आकार अलौकिक था और दिव्य स्वरूपके कारण उसके वयका अनुमान यथार्थरूपमें नहीं हो सकता था तो भी वह मानो अठारह वर्षसे कुछ न्यूनवयस्कावत् प्रतीत होती थी ।

तदनन्तर चन्द्रापीडने घोड़ेसे उतरकर किसी वृक्षकी शाखा ( डाली ) में घोड़े को बांध, भगवान् महादेवके_


१. ॰॰॰दिन॰॰॰ । २. परिपीत॰॰॰ । ३. उपात्त॰॰॰ । ४. निर्मन्ताम् । ५. ॰॰॰ प्रमाणाम् । ६. व्रतां च । ७. तुरगम् । ८. महाभक्त्या ।

चन्द्रापीडमनोभाववर्णना ५३ ] चन्द्रकला-विद्योतिनोसहिता ४०१

नायं१, तामेव दिव्ययोषितमनिमिषे२-पक्ष्मणा निश्चल-निबद्धलक्ष्येण चक्षुषा पुनर्निंरूपयामास। उदपादि चास्य तस्या रूपसम्पदा कान्त्या प्रशान्त्या चाविर्भूत विस्मयस्य मनसि३- 'अहो ! जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्तान्तराणि । तथाहि, मया मृगयायां यदृच्छया निरर्थकमनुबध्नता तुरङ्गममुख४-मिथुनम् , अयमतिमनोहरो मानवानाम्गम्यो दिव्यजनसञ्चरणोचितः प्रदेशो वीक्षितः५ । अत्र च सलिलमन्वेषमाणेण हृदयहारि सिद्धजनोपस्पृष्टजलं६ सरॊ दृष्टम् । तत्तीरलेखाविश्रान्तेन चामानुषं गीतमाकर्णितम् । तच्चानुसरता मानुषदुर्लभदर्शना दिव्यकन्यकेयमालोकिता । नहि मे संशीतिरस्या दिव्यतां प्रति, आकृतिरेवानुमापयत्यमानुषताम् , कुतश्च मर्त्यलोके सम्भूतिरेवंविधानां गन्धर्व्व-ध्वनिविशेषाणाम्७ । 'तद् यदि मे सहसा दर्शन-

त्रिलोचनाय महेशाय प्रणम्य नमस्कृत्य, तामेव पूर्व्वव्यावर्णितस्वरुपामेव दिव्ययोषितं स्वर्गीयस्त्रियम, अनिमिषपक्ष्मणा निस्पन्दनेत्रलोम्ना निश्चलं स्थिरं यथा स्यात्तथा नियद्धं विहितं लक्ष्यं दृष्टियेंन तेन चक्षुषा लोचनेन पुनर्मण्डपिकाप्रवेशानन्तरं निरुपयामास साक्ष्येण ददर्शत्यर्थः ।

उदपादीति । किञ्चेति चार्थः । रूपसम्पदा सौन्दर्याधिक्येन, कान्त्या शरीरदीप्त्या, प्रशान्त्या प्रशमेन च करणेन, आविर्भूतः प्रकटीभूतः विस्मय आश्चर्यं यस्य तस्य, अस्य चन्द्रापीडस्य मनसि चित्ते उदपादि इयं वृत्तिः सञ्जाता ।

ननु सा वृत्तिः केत्यत आह—'अहो' इति । जगति संसारे जन्तूनां जीवानाम्, वृत्तान्तान्तराणि व्यापारविशेषाः असमर्थितोपनतानि अतर्कितप्राप्तानि सन्ति आपतन्ति चित्ते आयान्ति अनुभवविषयीभवन्तीत्यर्थः ।

प्रतिपादितविषयं समर्थयति—तथाहीत्यादिना । मया चन्द्रापीडेन मृगयायाम् आखेटकवृत्तौ यदृच्छया स्वेच्छया अनुबध्नता अनुगच्छता तुरङ्गममुखमिथुनं किन्नरयुग्मम्, अतिमनोहरः अतिसुन्दरः मानवानां मनुष्याणाम् अगम्यः अगोचरः दिव्यजनानां विद्याधरादीनां सञ्चरणं विचरणं तत्रोचितो योग्यः अयं पुरोऽवलोक्यमानः प्रदेशो भूभागो वीक्षितः अवलोकितः ।

अत्रेति । अत्र अस्मिन् प्रदेशे सलिलं जलम् अन्वेषमाणेन मृगयता मया हृदयहारि मनोहरम्, सिद्धजनैः देवयोनिविशेषैः तपस्पृष्टं सेवितं जलं यस्य तत्, सरः अच्छोदसरोवरः दृष्टम् अवलोकितम् । तस्य सरसः तीरलेखायां तटपङ्क्तौ विश्रान्तेन कृतविश्रामेण मयेश्यन्वयः, अमानुषं दिव्यं गीतं गानम् आकर्णितं श्रुतम् । तद् गीतम् अनुसरता अनुव्रजता मानुषाणां मानवानां दुर्लभदर्शना दुष्प्रापावलोकना इयं दृश्यमाना दिव्यकन्यका स्वर्गीयपुत्री आलोकिता वीक्षिता ।

ननु दिव्यकन्यकेयमिति कथं निर्णीयत इत्यत आह—नहीति । अस्या अवलोक्यमानायाः कन्यकाया दिव्यतां प्रति स्वर्गीयताविषये मे मम नहि संशीतिः नास्ति सन्देहः, आकृतिः आकार एव अमानुषतां देवरूपताम् अनुमापयति अनुमिति जनयति, न खलु मानुषीणामेवमाकारो भवतीत्याशयः । कारणान्तरमाह—कुत इति । एवंविधानाम् एतादृशानां गन्धर्वाणां देवगायकानां ध्वनेर्नादस्य विशेषाणां


निकट जाकर भक्तिपूर्वक प्रणाम किया और उस दिव्य तरुणीको टकटकी बांधकर निश्चल दृष्टिसे वह पुनः देखने लगा । उसका शारीरिक अलौकिक सौन्दर्य, कान्ति और शान्तिसे चन्द्रापीडको विस्मय उत्पन्न हुआ एवं मनसे वह विचारने लगा—अहो ! संसारमें प्राणियोंके समक्ष विशेष घटना अतर्कित रूपसे ( बिना विचारे ) ही उपस्थित हो जाती हैं, क्योंकि - मैने अपनी इच्छाके अनुसार मृगया (शिकार) में आया, निरर्थक किन्नर-मिथुनका अनुसरण किया और यह अत्यन्त मनोहर, मनुष्योंके पहुँचनेसे बाहर, दिव्य-पुरुषोंके भ्रमण करने योग्य प्रदेश देखा। फिर वहां जलका अन्वेषण करते-करते सिद्धगण जिसके जलका उपयोग करते हैं ऐसा मनोहर सरोवर देखा। उसके तीर पर विश्राम करते-करते दिव्य गान सुना और उसका अनुसरण करनेसे मनुष्योंको दुर्लभ दर्शनवाली इस दिव्य कन्याको देखा । इसकी दिव्यताके विषयमें मुझे थोड़ा भी किसीप्रकारका संशय नहीं है, क्योंकि—इसकी आकृति ही दिव्यता प्रकट करती है । विशेषतः मर्त्यलोकमें इस प्रकार गन्धर्व्वगीत-ध्वनिका सम्भव कैसे हो सकता है ? अत एव यदि यह सहसा ही मेरे दृष्टिथसे अन्तर्धान न हो जाय,


१. पार्व्वतीयतये ।
२. अनिमेष॰ ।
३. विस्मयमनसि, मनसि वितर्कः ।
४. तुरगमुख॰ ।
५. वीक्षितः क्षितः ।
६. ॰उपस्पृष्टजलं ।
७. विधानां गान्धर्व्वध्वनिविशेषाणां च ।

४०२कादम्बरी-[ उत्तरभाग-

पथान्नापसर्पति, नारोहति वा कैलासशिखरम्, नोत्पतति वा गगनतलम्, ततः 'का त्वम्, किमभिधाना वा, किमर्थं वा प्रथमे वयसि प्रतिपन्ना व्रतम्' इति सर्वमेवैतत्^२ एनामुपसृत्य पृच्छामि, अतिमहानयमवकाश आश्चर्याणाम्' इत्यवधार्य तस्यामेव स्फटिकमण्डपिकायामन्यतमं स्तम्भमाश्रित्य समुपविष्टो गीतसमाप्त्यवसरं प्रतीक्षमाणस्तस्थौ ।

अथ गीतावसाने तूष्णीम्भूतायां प्रशान्तमधुरकरुते कुमुदिनी सा कन्यका समुत्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा परिवृत्य स्वभावाधवलया तपःप्रभावप्रगल्भया दृष्ट्या समाश्वासयन्तीव, पुण्यैरिव स्पृशन्ती, तीर्थजलैरिव प्रक्षालयन्ती, तपोभिरिव पावयन्ती, शुद्धिमिव कुर्वाणा, वरदानम् इवोपपादयन्ती, पवित्रतामिव नयन्ती, चन्द्रापीडमाबभाषे-'स्वागतमतिथये,


मन्दनपवारणां नार्यलेखे समुपन्मूर्ती कृतः कस्मात् सम्मुनितरसि, कुत एवास्था स्थित्वां प्रति नहि संशीतिरित्याशयः। सम् पूर्वकात् स्वप्नार्थक 'शीङ्' धातोः क्तिनं किति सति संशीतिरिति ।

इतीति । तत्तस्मात्कारणात् यदि यावत् मे मम महसा कस्माद् दर्शनपथाद् विलोकनमार्गाद् नापर्यात नापसरति, वा अथवा कैलासशिखरं रक्ताद्रिशृङ्गं नारोहति नारोहणं विधत्ते, गगनतलम् आकाशतलं वा नोत्पतति नोद्ब्रजति नतस्तादह, 'का त्वम्? किमभिधाना किमनाम्नी किमर्थं किम्प्रयोजनं प्रथमे वयसि बाल्यदशार्या पाशुपतं महेशसम्बन्धिनं व्रतं नियमं प्रतिपन्ना सम्प्रपञ्चनी' इत्येतत्सर्वमेव एनां कन्यकाम् उपसृत्य समीपमेत्य पृच्छामि प्रश्नं करोमि, आश्चर्याणां साश्चर्येन विस्मयाहूनवानाम्,, अतिमहान् अतिवृद्धो अयम् अवकाशः सनदः । इति पूर्वोक्तम् अवधार्य निश्चित्य तस्यां पूर्वोक्तायामेव स्फटिकमण्डपिकायाम् अन्यतमम् एकतमं स्तम्भं स्थूणाम् आश्रित्य अवलम्ब्य समुपविष्टः सुनासीनः गीतसमाप्त्यवसरं गानसमाप्तिसमयं प्रतीक्षमाणा प्रतीक्षां कुर्वाणः तस्थौ स्थितवान् ।

अथेति । गीतावसाने गानसमाप्तौ तूष्णींभूता निश्शब्दा जाता वीणाप्रवृत्तौ सत्यां सा, अत एव प्रशान्तं शान्तिमुपगतं मधुररुतं भ्रमररुन्दो यस्यां सा, कुमुदिनी कैरविणीव स्थिता सा कन्यका, समुत्थाय स्थानं विधाय प्रदक्षिणीकृत्य प्रदक्षिणं विधाय शिवलिङ्गमिति शेषः। कृतः विहितः हराय महेशाय प्रणामः नमस्कारः यया सा, परिवृत्य परावर्तनं विधाय स्वभावधवलया प्राकृतिकशुक्लतया, तपःप्रभावेण तपोमाहात्म्येन प्रगल्भा दृष्टा शाम्पनिर्णयदपेक्ष्यर्थः, तया दृष्टया लोचनेन समाश्वासयन्तीव सान्त्वनां विदधतीव अभयं प्रददतीवेत्यर्थः, पुण्यैः सुकृतैः स्पृशन्तीव स्पर्शं कुर्वन्तीव, तीर्थजलैः प्रयागादितीर्थसलिलैः प्रक्षालयन्तीव धौतं विदधतीव, तपोभिः तपस्याभिः पावयन्ती पूवतां कुर्वन्तीव, शुद्धिं पावनर्यं कुर्वाणेव विदधतीव, वरदानं मनोरथदानम् उपपादयन्तीव सम्पादयन्तीव, पवित्रतां पूवतां नयन्तीव प्रापयन्तीव, चन्द्रापीडम् आबभाषे सम्भाषितवती ।

इह 'कुमुदिनीव' इत्यत्रोपमालङ्कारः । 'समाश्वासयन्तीव' इत्यारम्य 'नयन्तीव' इत्येतेषु सहसु क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण विधानात्तया संसृष्टिः।

स्वागतमिति । अतिथये अभ्यागताय स्वागतं शुभागमनम्, महान् आगो आप्पं यस्य सः। यद्वा-


किन्तु कैलासपर्वतके शिखर पर चढ़ न जाय, अथवा आकाशमें उड़ न जाय, तो मैं-'तुम कौन हो? तुम्हारा नाम क्या है? और क्यों तुमने इस नवीन अवस्था (युवावस्था) में तपस्या आरम्भ की है? इस प्रकारके ये सब विषय इसके समीपमें जाकर इससे पूछ लूँगा, क्योंकि यहां आश्चर्यके लिए अत्यन्त उपयुक्त अवसर है'। चन्द्रापीड इस प्रकार मन ही मन निश्चय कर उसी स्फटिकमण्डपके खम्भोंमेंसे किसी एक स्तम्भके सहारेसे बैठकर गानसमाप्तिका अवसर प्रतीक्षा करने लगा।

इसके बाद गान समाप्त होने पर वीणाका शब्द बन्द हो गया, उस समय बन्द हुए मधुपोंके मधुर गुंजारवाली कुमुदिनीके समान वह शोभायमान हुई। बाद उस कन्याने उठकर, प्रदक्षिणा कर महादेवको प्रणाम किया। पश्चात् पुनः स्वभावसे ही श्वेतवर्ण एवं तपस्याके प्रभावसे पूर्णदृष्टि दर्शनदेकर सान्त्वना देती हुई चन्द्रापीडको मानो आश्वस्त करती हो, पुण्योंद्वारा ही मानो स्पर्श करती हो, तीर्थजलोंसे ही मानो स्नान कराती हो, तपस्यासे ही


१. पाशुपतव्रतम् । २. सर्वमेवैतत् । ३. परिणमति । ४. वरप्रदानम् वरप्रदत्वेनेव ।
५. संविद्विवान् ।

महाश्वेताया आतिथ्याङ्गीकार० ५४ ] चन्द्रकला-विद्योतिनीसहिता । ४०३

कथमिमां भूमिमनुप्राप्तो महाभाग॑:, तदुत्तिष्ठ, आगम्यताम्, अनुभूयतामतिथिसत्कारः' इति। एवमुक्तस्तु तया सम्भाषण॑-मात्रेणैवानुगृहीतमात्मानं मन्यमान उत्थाय भक्त्या कृत-प्रणामो 'भगवति ! यथाज्ञापयसि' इत्यभिधाय दर्शितविनयः शिष्य इव तां व्रजन्तीमनु-वव्राज।

व्रजंश्च समर्थयामास-‘हन्त ! तावन्नेयं मां दृष्ट्वा तिरोभूता॑। कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम्, यथा चेयमस्यास्तपस्विजनदुर्लभदिव्यरूपाया अपि दाक्षिण्यातिशयो॑ प्रतिपत्तिरभिजाता विभाव्यते, तथा सम्भावयामि नियतमियमखिलमात्मोदन्तम् अभ्यर्थ्य-माना कथयिष्यतीति। एवञ्च कृतमतिः पदशतमात्रमिव गत्वा, निरन्तरैरिवापि रजनी-


'जन्मप्रभृति चारभ्य कलङ्को यस्य नो भवेत्। स्याच्चैवानुपमा कीर्त्तिर्महाभागः स उच्यते ॥

इत्युक्तलक्षणयुक्तो भवान्, इमाम् एतत्पर्य्यन्तां भूमिं स्थानं कथं केन प्रकारेण अनुप्राप्तः तत्तस्मा-द्धेतोः उत्तिष्ठ उत्थानं विधेहि, आगम्यतां मत्समीपे इति शेषः, अतिथिसत्कारः आतिथ्यम् अनुभूयतां प्रत्यक्षक्रियताम्। इति समासौ। 'इति हेतुप्रकरणप्रकाशादिसमाप्तिषु' इत्यमरः।

एवमिति। एवं पूर्वप्रतिपादितक्रमेण तया कन्यकया उक्तोऽभिहितस्तु चन्द्रापीड इत्यन्वयः, सम्भाषणमात्रेणैव केवलसंलापेनैव अनुगृहीतं प्रमादपात्रीकृतम् आत्मानं स्वं मन्यमानः अवबुध्यमानः उत्थाय तस्मात्प्रदेशादुत्थानं विधाय भक्त्या श्रद्धया कृतप्रणामः विहितनमस्कारः 'भगवति तपस्विनि! यथाऽऽज्ञापयसि येन प्रकारेणादेशं करोषि तत्तथा' इत्यभिधाय इत्युक्त्वा शिष्यश्छात्र इव दर्शितविनयः प्रकाशितनम्रतः सन् व्रजन्तीं गच्छन्तीं तां कन्यकाम् अनुवव्राज पश्चाज्जगाम। पूर्णोपमा।

व्रजन्निति। किञ्चेति चार्थः। व्रजन् तां कन्यकां पश्चाद्गच्छन् चन्द्रापीडः समर्थयामास हृदये निर्धा-रयामास। किं समर्थयामासेति जिज्ञासायामाह-हन्तेति। हन्त हर्षे 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भ-विषादयोः' इत्यमरः। तावत् इयं कन्या मां दृष्ट्वा निरीक्ष्य न तिरोभूता नादृश्यतां गता। हि तस्मादेव मे मम हृदि चित्ते कुतूहलेन कौतुकेन प्रश्नाशया पूर्वप्रतिपादितरूपपृच्छाभिलाषया पदं स्थानं कृतं विहितम्। 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः।

तपस्विजनानां मुनिजनानां दुर्लभं दुष्प्रापं दिव्यं मनोहरं रूपं सौन्दर्यं यस्याः तस्याः अपि, अस्याः प्रत्यक्षगतायाः कन्यकायाः यथा येन प्रकारेण इयम्, दाक्षिण्यस्य औदार्यस्य अतिशय आधिक्यं यस्यां सा तथोक्ता, प्रतिपत्तिः 'स्वागतमतिथये' इत्याद्याचारः, अभिजाता उत्पन्ना विभाव्यते लक्ष्यते। तथा तेन प्रकारेण अभ्यर्थ्यमाना मयाऽभिधातुमनुरुध्यमाना सती, नियतं नूनम् अखिलं समग्रम् आत्मोदन्तं स्वीयसमाचारं कथयिष्यति प्रतिपादयिष्यति इति, एवं सम्भावयामि तर्कयामि।

एवमिति। किञ्चेति चार्थः। एवम् उक्तप्रकारेण कृतमतिः कृतनिश्चयश्चन्द्रापीडः, पदशतमात्रमिव


मानो पवित्र करता हो, पापनाश करती हो, वरदान देती हो और पवित्रता उत्पन्न करती हो, इस प्रकार चन्द्रापीडसे कहने लगी—‘अभ्यागत! मैं आपका स्वागत करती हूँ, महाभाग्यशाली! आप इस भूमिमें कैसे आये!, अतएव उठिये, आइये, मेरा आतिथ्य स्वीकार कीजिये इस प्रकार उसके वचन सुनकर केवल संभाषणसे ही अपनेको अनुगृहीत मानकर चन्द्रापीड उठा और भक्ति-पूर्वक उसे प्रणाम कर 'देवि ! आप जिस प्रकार आदेश देती हैं वैसा ही करूँगा' इस प्रकार उत्तर देकर उसके आगे चलने पर शिष्यके समान वह भी विनय-प्रदर्शन-पूर्वक उसके पीछे पीछे चला।

चन्द्रापीडने जाते-जाते मनमें इस प्रकार निश्चय किया—‘हर्षका विषय है कि यह मुझे देखकर अन्तर्हित नहीं हुई, अतएव इस समय मेरे चित्तमें कुतूहल सहित प्रश्न करनेकी आशा ने प्रतिष्ठा प्राप्त की (स्थिर हुई)। इसका यह दिव्य रूप, तपस्वियोंको दुर्लभ है, तथापि मेरे प्रति इसका जब इस प्रकार अत्यन्त-औदार्य-सम्पन्न व्यवहार उत्पन्न हुआ है, तब मेरा ऐसा विचार है कि—मैं इसे कहनेके लिए प्रार्थना करूँगा तो निश्चय ही यह अपना सब वृत्तान्त कह देगी'। इस प्रकार विचारते-विचारते लगभग सौ कदम चलने पर ही उसने एक गुफा


१. महाभाग ! । २. अनुगम्यताम् । ३. क्वचित् 'इति' इति पदं न विद्यते । ४. सम्भाषित०...। ५. समुत्थाय । ६. अदृष्टाङ्गस्तिरोभूता । ७. अतिशय । ८. श्यमात्मोदन्तम्' ।

४०४कादम्बरी-[ कथायाम्-

समयमिवै दर्शयद्भिस्तमालतरुभिरन्धकारितपुरोभागम्, उत्फुल्लकुसुमेषु लतानिकुञ्जेषु कूजतां मन्दं मन्दं मदमत्त-मधुलिहां विरुतिभिर्मुखरीकृतपर्यन्ताम्, अतिदूरपातिनीनाञ्चे धवल-शिलातल-प्रतिघातोत्पतनफेनिलानामपां प्रस्रवणैरुत्कोटि-ग्राव-विटङ्क-विपाट्यमानैरूच्चरद्ध्वनिभिरवशीर्यमाण तुषार-शिशिर-शीकरासारैराबध्यमाननीहाराम्, हिम-हार हर-हास-धवलैश्चो-भयतः क्षरद्भिर्निर्झरैर्द्वारोवलम्बित-चलचामरकलापामिवोपलक्ष्यमाणाम्, अन्त'स्थापित-मणि-कमण्डलु-मण्डलाम्, एकान्तावलम्बित-योग-पट्टिकाम्, विशाखिका-शिखर-निबद्धे-

किञ्चिदध्वानमतिक्रम्येव गत्वा व्रजित्वा 'गुहामद्राक्षीत्' इत्यग्रिमक्रियया सम्बन्धः। इह स्त्रीलिङ्गे द्वितीये-कवचनान्तानि पदानि 'गुहाम्' इत्यग्रेतनस्य विशेषणानि। निरन्तरैः सान्द्रैः अत एव दिवाऽपि दिनेऽपि रजनीसमयं रात्रिकालं दर्शयद्भिरवलोकयद्भिरिव विद्यमानैः, तमालतरुभिः तापिच्छवृक्षैः करणैः, अन्धका-रितः समुत्पादितान्धकारः पुरोभागः संमुखदेशो यस्यास्ताम्। इह 'दर्शयद्भिरिव' इति क्रियोत्प्रेक्षा।

उत्फुल्लेति। उत्फुल्लानि प्रस्फुटितानि कुसुमानि पुष्पाणि येषु तेषु, लतानिकुञ्जेषु वल्लीकुञ्जेषु मन्दं मन्दं शनैः शनैः कूजता शब्दं कुर्वतां मदमत्तमधुलिहां मधुमत्तभ्रमराणां विरुतिभिः झङ्कारैः मुखरीकृतः वाचालीकृतः पर्यन्तः प्रान्तदेशो यस्यास्ताम्।

अतिदूरेति। किञ्चेति चार्थः। अतिदूरात् दविष्ठात् पतितुं शीलं यासां तासाम्, धवलेषु विशदेषु शिलातलेषु पाषाणतलेषु प्रतिघातेन प्रतिस्खलनेन यत् उत्पतनमूर्ध्वगमनं तेन फेनिलानां फेनवत्तीनाम् अपां जलानाम्, उत्कोटयः उन्नताग्रा ये ग्रावाणः प्रस्तराः तेषां विटङ्कः ऊर्ध्वप्रदेशैः विपाट्यमानानि विदार्य-माणानि तैः, उच्चरन्तः स्खलनप्रतिस्खलनैर्जायमाना ध्वनयः शब्दा येषु तैः, तथा अवशीर्यमाणाः प्रस्तरेषु पतनात् जर्जरीभवन्तः तुषारवत् तुहिनवत् शिशिराः शीतलाः शीकरासाराः सलिलकणधारा येषां तैः प्रस्रवणैः गिरिनिर्झरैः, आवध्यमानाः सञ्जायमाना नीहाराः सलिलकणा यस्यां ताम्।

इह स्वभावोक्तिः, तुषारशिशिरपदयोः तुल्यार्थकतया श्रवणमात्रेण पौनरुक्त्यप्रतीतेरनन्तरञ्च तुपा-रवत् शिशिरा इति भेदप्रतीत्या पुनरुक्तवदाभासश्च, अनयोर्द्वयोर्मिंथोऽङ्गाङ्गिभावसङ्करः। अपुष्टार्थत्वदोष-निराकरणाय धवलपदपरित्याग एव समुचित इत्यवधेयम्।

हिमेति। किञ्चेति चार्थः हिमं तुहिनं हारो मुक्तामाला हरहासो महेशहास्यं तद्वत् धवलाः श्वेताः तैः, उभयतो द्वारपार्श्वयुगले क्षरद्भिः स्रवद्भिः निर्झरैः प्रस्रवणैः हेतुभिः, द्वारे प्रतीहारे अवलम्बितः सन् चलन् प्राच्छलन् चामराणां वालव्यजनानां कलापः समूहो यस्यास्तामिव उपलक्ष्यमाणां वीक्ष्यमाणाम्। 'स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः। इह चलच्चामरसमूहोत्प्रेक्षणाज्जात्युत्प्रेक्षा।

अन्तरिति। अन्तरभ्यन्तरे स्थापितं न्यस्तं मणिमयकण्डलूनां मणिनिर्मितकुण्डिकानां मण्डलं समूहो यस्यास्ताम्।

एकान्तेति। एकान्ते एकभागे अवलम्बिता स्थापिता योगपट्टिका योगसाधनसमयपरिधानाय क्षुद्रक्षौमवसनं यस्यास्ताम्।

विशासिकेति। विशाखिकायाः शिक्यायाः शिखरे ऊर्ध्वभागे निवद्धं संयतं नारिकेलीफलस्य लाङ्गली-


देखी। उसके सम्मुख भागमें लगातार लगे हुए होनेके कारण दिनमें भी मानो रात्रि प्रकट करते तमाल वृक्षोंने अन्धकार कर रक्खा था; लताकुञ्जों (बेलोंकी कुञ्जों) मे नानाविध फूल खिले हुए थे, उनमें मन्द-मन्द गुञ्जार करते हुए मदमत्त मधुकरोंके झङ्कारसे उस गुहाका प्रान्तभाग मुखरित हो रहा था; श्वेतवर्ण शिलाखण्ड (चट्टान) से टक्कर खाकर उछलनेसे फेनमय हुए, अत्यधिक दूरसे गिरते जलके प्रस्रवणों (झरनों) से एवं ऊँची उठी कोरवाले प्रस्तरोंकी नोकोंसे जर्जरित बहुतर शब्द करते टुकड़े-टुकड़े हुए हिमके समान शीतल कणोंकी वर्षासे नीहार (ओस) भर रही थी। उस गुहाद्वारके उभय पार्श्व (दोनों बगल) में झरे हुए हिम, मुक्ताकी माला और शङ्करके हास्यके समान धवलवर्ण झरनोंसे उसके द्वार पर मानो चञ्चल चमर लटकाये हों ऐसा प्रतीत होता था। इसके अभ्यन्तरमें कितने मणिमय कमण्डलु रक्खे थे। योगसाधन करनेके समयमें पहिननेके उपयुक्त छोटे एक पट्टवस्त्र एक स्थानमें


१. रजनीमयम् । २. गुञ्जता मन्दं, मधुमत्त ०। ३. पातिनीं । ४. धारा। ५.० चारुचलचामर ०। ६. विशासिकानिबद्ध ०।

महाश्वेताया आतिथ्याङ्गीकार० ५४] चन्द्रकला-विद्योतिनीसहिता । ४०५

नारिकेली¹-फल-वल्कलमय-धौतोपानद्युगलोपेताम्², अवशीर्णाङ्ग-भस्म-धूसर-वल्कलशय-नीयमनाथैकदेशाम्, इन्दुमण्डलेनेव टङ्कोत्कीर्णेन शङ्खमयेन भिक्षाकपालेनाधिष्ठिताम् , सन्निहितभस्मनालावुकां गुहामद्राक्षीत् ।

तस्याश्च द्वारि शिलातले समुपविष्टो वल्कल-शयन-शिरोभाग-विन्यस्तवीणां ततः पर्णपुटेन निर्झरादागृहीतमर्घ्यसलिलम्³ आदाय तां कन्यकां समुपस्थिताम् 'अलमलमतियन्त्रणया⁴, कृतमतिप्रसादेन, भगवति! प्रसीद, विमुच्यतामयमत्यादरः, त्वदीयमालोकनर्माप⁵ सर्वपापप्रशमनमघमर्पणमिव पवित्रीकरणायोलम् , आस्यताम्' इत्यब्रवीत् । अनुरुध्यमानश्च⁶ तया तां सर्वामतिथिसपर्यामतिदूरावनतेन शिरसा सप्रश्रयं प्रतिजग्राह ।

फलस्य वल्कलमयं त्वङ्निर्मितं धौतं क्षालितम् उपानद्युगलं पादुकाद्वयं तेन उपेतां युक्ताम् । 'नारिकेलस्तु लाङ्गली' इत्यमरः ।

अवशीर्णेति । अवशीर्णं पार्श्वपरिवर्त्तनादौ च्युतं यत् अङ्गभस्म देहविभूतिः तेन धूसरं वल्कलैश्छवि यत् वल्कलशयनीयं तरुत्वङ्निर्मितशय्या तेन सनाथः संयुक्तः एकदेश एकभागो यस्यास्ताम् । 'धूसरस्तु सितः पीतलेशाबान् बकुलच्छविः' इति शब्दार्णवः ।

इन्द्विति । इन्दुमण्डलेनेव शशिविम्बेनेव विद्यमानेन, टङ्केन प्रस्तरविदारणास्त्रेण उत्कीर्णं सन्तक्ष्य रचितं तेन, शङ्खमयेन कम्बुदलनिर्मितेन भिक्षाकपालेन भिक्षायाः पात्रेण अधिष्ठिताम् आश्रिताम् । उपमा।

सन्निहितेति । सन्निहिता समीपे स्थापिता भस्मनः विभूतेरक्षणार्था अलाबुः शून्यमध्या तुम्बी यस्यां ताम् , गुहां कन्दराम् अद्राक्षीत् दृष्टवान् ।

तस्या इति । किञ्चेति चार्थः । तस्या गुहायाः द्वारि प्रतीहारदेशे शिलातले पाषाणतले समुपविष्टः समासीनश्चन्द्रापीडः तां कन्यकाम् अब्रवीदित्यन्वयः । वल्कलशयनस्य तरुत्वङ्निर्मितशय्यायाः शिरोभागे उत्तमाङ्गप्रदेशे विन्यस्ता स्थापिता वीणा वल्लकी यया ताम् , ततो वीणास्थापनानन्तरं पर्णपुटेन निर्झरात् प्रस्रवणात् आगृहीतम् आत्तम् अर्घ्यसलिलम् अर्घ्यजलम् आदाय गृहीत्वा समुपस्थितां समागतां तां कन्यकां प्रति-इतियन्त्रणा मत्कृते अत्यन्तं क्लेशानुमवेन अलं कृतम्, अतिप्रसादेन अत्यन्तानुग्रहेण कृतम् अलम् , भगवति देवि ! प्रसीद प्रसन्ना भव, अयमत्यादरः अत्याग्रहः विमुच्यतां परित्यज्यताम् , त्वदीयालोकनर्माप त्वद्दर्शनमपि सर्वपापप्रशमनं सर्वेनांसां प्रशान्तिकृत् , अघमर्पणमिव पापविनाशकम् 'ऋतञ्च सत्यञ्चाभीद्धा' दित्यादिसूक्तमिव पवित्रीकरणाय पादनीकरणाय अलं समर्थम् , अतः आस्यताम् उपविश्यताम् । भवत्या दर्शनेनैव मम जन्मसाफल्यं ततः किमातिथ्येनेत्याशयः ।

अन्विति । अपि च, तया कन्यकया अनुरुध्यमानः कृतानुरोधः प्रार्थ्यमानश्चन्द्रापीडः, अनिदूरावनतेन दविष्ठानमितेन, शिरसा उत्तमाङ्गेन अतिथिसपर्याम् अभ्यागतपूजां सप्रश्रयं सविनयं प्रतिजग्राह गृहीतवान्।


लटका था। नारिकेलफलके वल्कल (छिलके) द्वारा बने हुए दो परिष्कृत पादुकाएँ (जूते) एक शिकेके ऊपर रक्खे थे । एक ओर शरीरपरसे गिरकर लगी हुई भस्मसे धूसरवर्ण हुई वल्कल की शय्या बिछी थी । पाषाण-भेदक अस्त्रसे खोदे गए चन्द्रमण्डलके समान एक शङ्खमयं भिक्षापात्र रक्खा था और भस्म रखनेके लिए एक अलाबुपात्र (तूंबी) उनके समीपमें ही रक्खा था ।

चन्द्रापीड उस गुफाके द्वारदेशके समीप एक शिलातलके ऊपर बैठा । इधर वह कन्या वल्कलमय शय्याके सिरहानेमें वीणा रखकर पत्तोंके दोनेमें उस झरनेमेंसे अर्घ्य जल लेकर उपस्थित हुई । उसे उपस्थित देख चन्द्रापीड कहने लगा—रहने दीजिए, रहने दीजिए, मेरे लिए अधिक कष्ट मत कीजिए, अत्यन्त अनुग्रह करनेका कोई प्रयोजन नहीं, देवि ! आप प्रसन्न हो जाइए, इस अधिक आदरको छोड़ दीजिए, समस्त पाप विनष्ट करनेवाला आपका दर्शन ही, 'अघमर्पण' सूक्तके समान पवित्र करनेके लिए पर्याप्त है, अतएव आप बैठिये । इसके बाद उसके बहुत आग्रह करने पर चन्द्रापीडने अत्यन्त अवनत मस्तकसे समस्त अतिथि-सत्कारको प्रश्रय (विनय) के साथ स्वीकार किया ।


१. '...नारिकेरी'। २. '...युगोपेताम् । ३. अर्घ्यजलम् , आगृहीतार्घ्यसलिलम् । ४. अलमतिबन्धनया । ५. त्वदीयालोकनमध्यत्र खलु । ६. अनुबध्यमानश्च ।

४०६ कादम्बरी- [ कथायाम्-

कृतातिथ्यया च तया द्वितीयशिलातलोपविष्टया क्षणमिव तूष्णीं स्थित्वा क्रमेण परिपृष्टो दिग्विजयमादारभ्य किन्नरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः सर्वमाचचक्षे। विदितसकलवृत्तान्ता चोत्थाय सा कन्यका भिक्षाकपालमादाय तेषामायतनतरूणां तलेषु विचचार। अचिरेण च^१ तस्याः स्वयं पतितैः फलैरपूर्यत भिक्षाभाजनम्। आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रापीडम्।

आसीच्च तस्य चेतसि-'नास्ति खल्वसाध्यं नाम तपसाम्। किमतः परमाश्चर्यम्, यदत्र^२ व्यपगतचेतना^३ अपि सचेतना इवास्यै भगवत्यै समतिसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति वनस्पतयः। चित्रमिदमालोकितमस्माभिरदृष्टपूर्वम्' इत्यधिकतरोपजातविस्मयश्चोत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीतपर्य्याणं^४ नाविदूरे संयम्य निर्झरजलनिर्वर्त्तितै-^५


कृतेति। अपि च कृतं विहितम् आतिथ्यम् अतिथिसत्कारो यया तया, द्वितीयशिलातलोपविष्टया अपरपाषाणतलासीनाया तया, कन्यकया क्षणमिव क्षणकालमिव तूष्णीं मौनं स्थित्वा अवस्थाय क्रमेण परिपाट्या परिपृष्टः कृतप्रश्नश्चन्द्रापीडः दिग्विजयमादारभ्य किन्नरमिथुनानुसरणप्रसङ्गेन किन्नरयुग्मानुगमनवशेन आत्मनः स्वस्य सर्वं निखिलम् आगमनम् आचचक्षे आख्यातवान्।

विदितेति। अपि चेति चार्थः। विदितो ज्ञातः सकलवृत्तान्तः समग्रोदन्तो यया सा तादृशी, सा कन्यका उत्थाय तत्स्थानादुत्थानं विधाय भिक्षाकपालं भिक्षापात्रम् आदाय गृहीत्वा तेषाम् आयतनतरूणां गुहासमीपवर्त्तिसिद्धालयायतनवृक्षाणां तलेषु अधःप्रदेशेषु विचचार पर्यटितवती। आगत्य तत एत्य तेषां फलानाम् उपभोगाय भक्षणाय चन्द्रापीडं नियुक्तवती प्रेरितवती।

आसीदिति। तस्य चन्द्रापीडस्य चेतसि मनसि आसीत् अभूत्। तपसां तपश्चर्याणां खलु निश्चयेन असाध्यम् अशक्यं नाम नास्ति न विद्यते। तथा च वचनम्—

'निश्चितं समवाप्नोति तपोभिः स्वमनोरथम्। तपस्यतो हि नासाध्यं किञ्चिज्जगति विद्यते॥
वृथा दौर्भाग्यमाप्नोति लोको हि सति साधने॥' इति।

नामेति कोमलामन्त्रणे। तथाप्यतः परम् एतदन्यत् किमाश्चर्यं किं चित्रम्, यद्यस्मात् कारणात् अत्र अस्मिन् प्रदेशे व्यपगता दूरीभूता चेतना चैतन्यं येषां तादृशा अपि सचेतना इव सचैतन्या इव अस्यै भगवत्यै देव्यै फलानि समतिसृजन्तः समर्पयन्तः वनस्पतयो वृक्षाः आत्मानुग्रहं निजसाफल्यम् उपपादयन्ति निष्पादयन्ति। एतत्खलु तपस एव फलमित्याशयः। अत एवेहार्थान्तरन्यासोऽलङ्कारः स च विशेषेण सामान्यसमर्थनरूपो बोध्यः।

चित्रमिति। अदृष्टपूर्वम् अवीक्षितपूर्वमिदं चित्रमाश्चर्यम् आलोकितं वीक्षितम् इति अधिकतरोऽतिभूयान् उपजातः समुत्पन्नो विस्मय आश्चर्यं यस्य स चन्द्रापीडः उत्थाय उत्थानं विधाय तमेव प्रदेशं पूर्वोक्तमेव स्थानम् इन्द्रायुधमश्वम् आनीय व्यपनीतपर्याणम् अपसारितपल्ययनं नातिदूरे निकटे संयम्य बद्ध्वा निर्झरजलेन प्रस्रवणसलिलेन निर्वर्त्तितो निष्पादितः स्नानविधिः आप्लवनविधिर्येन स तादृश


उस समय अतिथि-सत्कार सम्पन्न करके, एक द्वितीय शिलातल पर बैठ, थोड़ी देर चुप रह कर उस देवकन्याने जब राजकुमारसे उसका सब वृत्तान्त क्रमसे पूछा तब उसने दिग्विजयसे आरम्भ कर, किन्नर-मिथुनके अनुसरण-प्रसङ्गसे यहाँ तक अपने आनेका समस्त वृत्तान्त उससे कहा। बाद समस्त वृत्तान्तसे अवगत होकर वह कन्या उठी और अपना भिक्षापात्र लेकर, आश्रमके वृक्षोंके नीचे विचरण करने लगी। वहाँ थोड़े समयमें ही अपने आप गिरे फलोंसे उसका पात्र परिपूर्ण हो गया। उसके बाद लौटकर उसने राजकुमारसे उन फलोंका भक्षण करनेके लिए अनुरोध किया।

उस समय राजपुत्र विचारने लगा कि—'इस संसारमें वास्तवमें तपस्यासे कोई भी कार्य असाध्य नहीं है। जब चैतन्यरहित वृक्षसमूह भी आज सचेतनके समान इस देवी को फल समर्पण कर अपना अनुग्रह प्रकट करते हैं, तब इससे अधिक आश्चर्य क्या हो सकता है? आज यह तो मैंने अदृष्टपूर्व आश्चर्य वृत्तान्त देखा। इस प्रकार अत्यन्त विस्मित होकर वह उठा और बाहर जाकर इन्द्रायुधको वहीं ले आया। उसका पल्ययन (जीन)


१. क्वचित् 'च' कारो नास्ति।
२. यत्र च।
३. विगतचेतना अपि।
-४. 'पर्याणे च।
५. ॰॰॰निर्वर्त्तित॰॰॰।

महाश्वेतां प्रति चन्द्रापीडस्य प्रश्न० ५५] चन्द्रकला-विद्योतिनीसहिता । ४०७

स्नानविधिरुत्तान्यमृतस्वादूनि उपयुज्य फलानि, पीत्वा च तुषारशिशिरं प्रस्रवणजलमुपस्पृश्य चैकान्ते^३ तावदवतस्थे^४, यावत्तयापि कन्यकया कृतो जल-फल-मूलमयेष्वाहारेषु प्रणयः।

इति परिसमापिताहारां निर्वर्तितसन्ध्योचिताचारां शिलातले विश्रब्धमुपविष्टां निभृतमुपसृत्य नातिदूरे समुपविश्य मुहूर्त्तमिव स्थित्वा चन्द्रापीडः सविनयमवादीत् — 'भगवति ! त्वत्प्रसाद-प्राप्ति-प्रोत्साहितेन कुतूहलेनाकुलीक्रियमाणो मानुषतासुलभो लघिमा वलादनिच्छन्तमपि मां प्रश्नकर्मणि नियोजयति । जनयति^६ हिँ^७ प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः। स्वल्पाप्येकदेशावस्थाने कालकला परिचयमुत्पादयति। अणुरप्युपचारपरिग्रहः प्रणय-

श्रन्द्रापीडः, अमृतवत् पीयूषवत् स्वादूनि सुरसानि, तानि फलानि उपयुज्य भुक्त्वा, तुषारः तुहिनं तद्वत् शिशिरं शीतलं प्रस्रवणजलं निर्झरपानीयं पीत्वा च पुनः उपस्पृश्य आचम्य एकान्ते रहसि तावत् तावत्कालम् अवतस्थे आसेदिवान् यावत् यावत्कालं तयापि कन्यकया (महाश्वेतया) जलफल मूलमयेषु आहारेषु भोजनेषु प्रणय आदरः कृतो विहितः।

इनीति। इति पूर्वोक्तप्रकारेण परिसमापितः पर्याप्तिं नीतः आहारो भोजनं यया ताम्। निर्वर्तितः निष्पादितः सन्ध्योचिताचारः सायंसमययोग्यो विधिः सन्ध्यावन्दनादिर्यया ताम्। शिलातले पाषाणतले विश्रब्धं सविश्वासं निश्चिन्तं यथा स्यात्तथा उपविष्टाम् आसीनाम्। निभृतं निःशब्दं यथा स्यात्तथा उपसृत्य समीपमेत्य नातिदूरे निकटे समुपविश्य आस्थाय मुहूर्त्तमिव क्षणमात्रमिव स्थित्वा विलम्ब्य चन्द्रापीडः सविनयं विनयसहितं यथा स्यात्तथा अवादीत् अगदत्—

भगवतीति। 'हे भगवति देवि ! त्वत्प्रसादप्राप्त्या तवानुग्रहलाभेन प्रोत्साहित प्रगुणीकृतं तेन, कुतूहलेन कौतुकेन आकुलीक्रियमाणः अधीरीक्रियमाणः, मानुषतासुलभः मद्धिधेषु मनुष्येषु नितान्तसम्भवः पर इत्यर्थः, लघिमा लघुत्वं चपलस्वभाव इत्यभिप्रायः। अनिच्छन्तमपि अनभिलषन्तमपि मां चन्द्रापीडं बलात् हठात् प्रश्कर्मणि पृच्छाक्रियायां नियोजयति व्यापारयति।

नन्वज्ञानस्य सहसा प्रश्ने धृष्टताप्रतीतिरिति चेत्तत्राह - जनयतीति। हि तथाहि प्रभुप्रसादलवोऽपि स्वामिप्रसन्नतालेशोऽपि अधीरप्रकृतेश्चञ्चलस्वभावस्य जनस्य प्रागल्भ्यं धार्ष्ट्यम् उपजनयति उत्पादयति एवञ्च तपस्वितया स्वामिरूपाया भवत्याः अतिथिसत्कारादेव प्रसादप्राप्तिर्ममैतद् धाष्टर्यं जनयतीत्यङ्गीक्रियंत पूर्वत्यभिप्रायः। अत एवेहाप्रकृतात् सामान्यात् प्रकृतस्य विशेषस्यावगमादप्रस्तुतप्रशंसा।

नन्वेवमप्यज्ञातस्य प्रश्नो नोपपद्यत इत्यत आह—स्वल्पापीति। एकदेशावस्थाने एकदेशावस्थितौ स्वल्पाऽपि स्तोकाऽपि कालकला समयांशः परिचयं संस्तवम् उत्पादयति जनयति। एवञ्चैतावत्समयेकत्रावस्थानान्मवं मे परिचितैव जातासीत्याशयः।

अथैवमपि सौहार्दाभावेन हिताहितसम्बन्धाभावात् जिज्ञासैव कथमित्यत आह—अणुरिति। अणुः स्वल्पोऽपि उपचारपरिग्रहः सदाचाराङ्गीकारः प्रणयं सौहार्दम् आरोपयति टपस्थापयति। एवञ्च भवत्या अभ्यागतसम्मानाङ्गीकार एव प्रणयोपस्थापनमित्यभिप्रायः। अत एवेह पूर्ववदप्रस्तुतप्रशंसा।


उतार, जरा दूर बांध कर उसने झरनेके जलमें स्नानकार्य-सम्पादन किया और अमृतसके समान सुस्वादु उन फलोंका भक्षण कर, हिमके समान शीतल उस झरनेका जल पीकर, एवं आचमन कर वह एकान्तमें तबतक बैठा रहा जबतक उस कन्याने भी फल, मूल और जलका आहार किया।

इस प्रकार आहार कर जब वह कन्या सन्ध्याकालके उपयुक्त सब क्रिया सम्पादन कर चुकी और एक शिलातलपर निश्चिन्तरूपसे बैठी तब निःशब्द हो (धीरे-धीरे) उसके समीप उपस्थित होकर, थोड़ी दूरपर बैठकर, थोड़ी देरके बाद चन्द्रापीड उससे विनय-पूर्वक कहने लगा—'देवि ! आपके अनुग्रह प्राप्त करनेसे ही मुझे कौतुक उत्पन्न हो गया है, उस कुतूहलने ही मनुष्योचित चञ्चल स्वभावको आकुल कर, मेरी इच्छा न होनेपर भी मुझे बलात्कारसे प्रश्न करनेकी प्रेरणा करता है, क्योंकि—स्वामीकी कृपाका लेश भी चञ्चल-प्रकृतिके पुरुषोंको धृष्ट बना देता है। एवं एक स्थानमें थोड़ासा सहवास होनेसे भी परस्पर परिचय उत्पन्न हो जाता है, विशेषतः परस्परका व्यवहार (सत्कार) थोड़ा होनेपर भी वह सौहार्द (प्रेम) उत्पन्न कर देता है। इसलिए यदि आपको


१. अमृतस्वादूनि।
२. उपयुज्य।
३. उपस्पृश्यैकान्ते।
४. उपतस्थे।
५. कन्यया।
६. उपजनयति।
७. हि न।
८. एकावस्थाने कालकला, एकदेशावस्थानकालकला।

१०८ कादम्बरी- [ कथामुखम्

नारोपयति। यद्यपि नातिखेदाकरमिव ततः कथनेनात्मानमनुग्राह्यम्$^१$ इच्छामि। अवि- सह्यत्वलु भवद्दर्शनात् प्रभृति मे कौतुकमस्मिन्विषये। कतरत्सुरासुरीणां गन्धर्वाणां गुह्य- कानाम्प्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना? किमर्थं वास्मिन् कुसुमसुकुमारे नवे वयसि व्रतग्रहणम्? क्केदं वयः, क्केदं तपः, क्केयमाकृतिः, क चायं लावण्यातिशयः केयमि- न्द्रियाणामुपशान्तिः। तदद्भुतमिव मे प्रतिभाति। किं निमित्तं वाऽनेकसद्ध$^२$साध्य$^३$संबा- धानि सुरलोकसुलभानि लङ्घाय दिव्याश्रमपदानि एकाकिनी वनमिदमनुप्राप्तमनिवससि?। कश्चायं प्रकारः, यत्तैरेव पञ्चभिर्महाभूतैरारब्धनीदृशीं धवलतां धत्ते शरीरम्? नैवमस्मा-


तदिति। तत्तस्मात् कारणात् यदि नातिखेदाकरमिव न विशेषक्लेशजनकं चेत्, ततस्ततः कथनेन मद्विज्ञात्यविपत्तिहरणेन आत्मानं स्वम् अनुग्राह्यम् अनुग्रहविषयिभवनम् इच्छामि अभिलषामि।

अपीति। भवत्या दर्शने सञ्जातं 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति वार्त्तिकेनेह पुंवद्भावः। वत्साप्रभृति तदावलोकनादारभ्य मे मम अस्मिन् विषये प्रश्नविषये खलु निश्चयेन महिनाह कौतुकं वत्याश्चर्यं।

अथ तव प्रश्नविषयः क इत्यत आह—कतरदिति। सेत्सां देवानाम, ऋषीणां मुनीनाम्, गन्धर्वाणां देवगायकानाम्, गुह्यकानां यक्षाणाम, अप्सरसां त्रिलोचनाप्रभृतीनां मध्ये, कतरत्कुलमुत्या भगवत्या स्वामिन्या कतरत् कतमत् कुलमन्ववायः अनुगृहीतं प्रसादीकृतम्। महतामित्यादौ निर्धारणे षष्ठी। बहुनामप्येकेषु दुर्गादुक्त्या डतरप्रत्ययेन कतरदिति रूपं भवतीति कुशला ब्रुवते।

किमर्थमिति। वा अथवा कुसुमसुकुमारे पुष्पद्कोमले नवे नूतने अस्मिन् वयसि अवस्थायां नवयौवन इत्यर्थः, किमर्थं किं प्रयोजनं व्रतग्रहणं नियमस्वीकारः।

क्केति। क्केदं वयः नवयौवनमित्यर्थः च, इदं तपः कष्टसाध्यं नियमस्वीकारः च, वृद्धावस्थायामेव तदाचरणयोग्यत्वादित्याशयः। द्वौ छौ महदन्तरं सूचयतः। इयम् प्रत्यक्षेोपलक्ष्यमाना आकृतिः स्वरूपाविशेषः क्क, अयञ्च लावण्यातिशयः असाधारणसौन्दर्याधिक्यं क्क, तथा इदम् इन्द्रियाणां करणानाम् उपशान्तिः स्पन्दनोपरतिवृत्तिः क्क। असावलोकनात्सर्वथैवोपपन्नस्तददर्शनतस्त्वेतेषामेकान्तनिवृत्तिसम्भवाद्भवदीयावतारश्रयणावलोकनेमेव मे जिज्ञासाहेतुरित्यभिप्रायः। इहोभयत्राप्योरेरि विरुद्धयोः संयोजनम् दूषिनः।

तदिति। मे मम तत्सर्वं पूर्वप्रतिपादितम् अद्भूतमेव आश्चर्यमिव प्रतिभाति प्रतीयतेविपद्यीभवति। अनेके बहवो ये सिद्धाः साध्याश्च देवयोनिविशेषास्तैः संबाधानि सङ्कुलानि स्थानानि, सुरलोकः अमरादिदेववृन्द्वानि तैः तेषां परित्राणनैर्हत्यर्थः। सुलमानि मनोहराणि दिव्याश्रमपदानि स्वर्गीयाश्रयस्थानानि अपहाय परित्यज्य एकाकिनी सहाया अमानुषं मनुष्यरहितम्, इदं वनं काननं किं निमित्तं कथं वा त्वम् अधिवससि निवासं करोषि। वनमित्यत्र 'उशाम्वैधादवसः' इत्यनेन वसतेराधारस्य कर्मसंज्ञा बोध्या।

कश्चेति। कश्च अनिर्दिष्टस्वरूपः अयं प्रकारे विशेषः, यत्तैरेव यैरेव समस्तप्राणिनां शरीरोत्पादरचनानि तैरेवेत्यर्थः, पञ्चभिर्महाभूतैः पृथिव्यप्तेजोवाय्वाकाशलक्षणैः आरब्धम् उत्पादिते शरीरं तवैदं वपुः, ईदृशीम् एवंविधां धवलतां श्वेतां धत्ते धरयति। इदं वैलक्ष्यण्यम् अस्माभिराधुनिकैः अन्यत्र अन्यस्मिन् स्थले न दृष्टश्रुतपूर्व नाऽवलोकितकश्रुतपूर्व वा, अत एव महद्विचित्रमित्याशयः।


विशेषक्लेशजनक न हो तो अपना वृत्तान्त कहिये, जिसे सुन कर मैं अपने आत्माको अनुगृहीत करने की इच्छा करता हूँ, आपके दर्शनसे लेकर इस विषयमें मुझे अत्यन्त कौतुक उत्पन्न हो गया है—देवि! जन्म द्वारा ग्रहण कर, देवता, ऋषि, गन्धर्व, गुह्यक और अप्सराओंमेंसे किसके कुलको अनुगृहीत किया है? किस कारणसे कुसुमके समान कोमल इस नवीन अवस्था में आपने व्रतका आरम्भ की है। कहाँ यह वय! कहाँ यह आकृति! कहाँ यह असाधारण लावण्य! और कहाँ यह इन्द्रियोंकी नोपशान्ति! वस्तुतः यह सब मेरे समीप अद्भुत सा प्रतीत हो रहा है। किसलिए आप बहुतर सिद्धसाध्योंसे परिपूर्ण एवं देवगणके विहरण करनेसे मनोहर दिव्य आश्रमोंको छोड़कर एकाकिनी (अकेली) इस मनुष्यविहीन वनमें रहती हो? और यह क्या बात है कि प्रसिद्ध पृथिव्यादि पञ्चमहाभूतोंका बना आपका शरीर इस प्रकार धवलता धारण करता (गोरा) है! ऐसा तो मैंने


१. अनुगृह्णानम्।
२. क्वचित् 'क्केदं वयः' इति पाठो न दृश्यते।
३. विना।
४. ***ईशम्‌नि।
५. ***सुलभानि।
६. कश्चायं प्रकारो यत्तैरेव नरास्तैः रचितानि तैरेव०।

महाश्वेतां प्रति चन्द्रापीडस्य वितर्कः० ५६ ] चन्द्रकला-विद्योतिनीसहिता । ४०६

भिर्नान्यत्र दृष्टश्रुतपूर्वं वो । अपनयतु नः कौतुकम् , आवेदयेतुं भवती सर्वमिदम् । इत्येवम- भिहिता सा किमप्यन्तर्ध्यायन्ती तूष्णीं मुहूर्त्तमिव स्थित्वा निःश्वस्य स्थूलस्थूलैरन्तर्गतां हृद- यशुद्धिमिवादाय निर्गच्छद्भिः, इन्द्रियप्रसादमिव वर्षद्भिः, तपोरसनिस्यन्दमिव स्रवद्भिः लो- चनविषयं धवलिमानमिव द्रवीकृत्य पातयद्भिः, अच्छाच्छैः, अमलकपोलस्थलस्खलितैः, अवशीर्ण हार-मुक्त मुक्ताफल-तरलपातैः, अनुबद्धविन्दुभिः, वल्कलावृत-कुच-शिखर-जर्जरित- शीकरैः, अश्रुभिरामीलितलोचना निःशब्दं रोदितुमारेभे ।

ताञ्च प्ररुदितां दृष्ट्वा चन्द्रापीडस्तत्क्षणमचिन्तयत्-‘अहो ! दुर्निवारता व्यसनोपनिपा- तानाम् , यदिदृशीमप्याकृतिमभिभवनीयामात्मीयां कुर्वन्ति । सर्वथा न न कञ्चन स्पृशन्ति-


अपनयत्विति । नोऽस्माकं कौतुकं कुतूहलं महदाश्चर्यम् अपनयतु दूरीकरोतु, भवती स्वामिनी इदं सर्वं पूर्वोक्तम् आवेदयेतु कथयतु ।

इतीति । इति एवं प्रकारेण अभिहिता उक्ता सा कन्यका किमपि अनिर्वचनीयम् अन्तश्चित्ते ध्यायन्ती चिन्तयन्ती तूष्णीं मौनं मुहूर्त्तमिव क्षणमिव स्थित्वा आस्थाय निःश्वस्य श्वासं विमुच्य च, स्थूलस्थूलैः पृथुलपृथुलैः 'अनुबद्धविन्दुभिः अश्रुभिः' इत्यस्य विशेषणम् । अन्तर्गतां मध्यप्राप्तां हृदयशुद्धिं मनःपवित्रताम् आदाय गृहीत्वेव निर्गच्छद्भिर्निःसरद्भिः सर्वत्र नयनजलानां निर्मलत्वादित्याशयः । इन्द्रियाणां नयनादीनां करणानां प्रसादं स्वच्छतां सकामष्टंधादिदोषवर्जितां वर्षद्भिर्वृष्टिं कुर्वद्भिरिव, तपांस्येव रसा द्रवाः तेषां निस्यन्दं धारां स्रवद्भिःक्षरद्भिरिव, लोचनविषयम् अवलोक्यमानं धवलिमानं श्वेतत्वं द्रवीकृत्य रसीकृत्य पातयद्भिः स्स्रावयद्भिरिव, अच्छाच्छैः अत्यन्तस्वच्छैः अमलकपोलस्खलितैः निर्मलगण्डस्थलमुक्तैः, अवशीर्णात्- त्रुटितात् हारात् मुक्ताप्रागल्भाव मुक्तानां स्खलितानां मुक्ताफलानां रसोद्भवानामिव तरलपातः चञ्चलभावेन पतनं येषां तैः, अनुबद्धा धाराप्रवाहेणोत्पादिता विन्दवो विप्रुषो यैस्तैः, वल्कलावृतयोः तहवगाच्छादितयोः कुचयोः स्तनयोः शिखराभ्याम् उच्चताग्राभ्यां जर्जरिताश्चूर्णीकृताः शीकराः कणाः येषां तैः, एतेन कुचयोरथीयस्त्वं काठिन्यञ्च ध्वन्यते । अश्रुभिः नेत्रेजलैरुपलक्षिताः, आमीलिते सङ्कुचिते लोचने नयने यस्याः तादृशी सती, निःशब्दं ध्वनिवर्जितं यथा स्यात्तथा रोदितुम् आक्रन्दितुम् आरेभे आरब्धवती ।

इह 'निर्गच्छद्भिरिव' इत्यारभ्य 'पातयद्भिरिव' इत्यन्तं क्रियोत्प्रेक्षालङ्कारः । '•••मुक्ताफलतरलपातः' इत्यत्र च लुप्तोपमालङ्कारः ।

तामिति । अपि चेति चार्थः । प्ररुदिताम् अत्यन्तरुदतीम्, तां कन्यकां दृष्ट्वा निरीक्ष्य, चन्द्रापीडः तत्क्षणम् अचिन्तयत् चिन्तितवान्—अहो इत्याश्चर्ये । व्यसनोपनिपातानां दुःखोपस्थितीनाम्, दुर्निवारता अभिभवितुमशक्यता । अर्थात् दैवोपस्थापितानि दुःखानि न केनचिन्निवारयितुं शक्यानीत्याशयः । यद् यस्माद्धेतोः अनभिभवनीयां तपस्वितया अभिभवितुमशक्याम्, ईदृशीमेवंचिधाम् आकृतिमपि आकारमपि आत्मीयां स्वाधीनां कुर्वन्ति विदधते, ते व्यसनोपनिपाता इति शेषः। कयाऽप्यापत्त्या उत्पादितात् क्लेशादियं रोदितीत्याशयः ।

ननु सर्वथा विषयाभिलापं परित्यजन्तमेवंविधं तपस्विजनं कथं नाम व्यसनमभिभवितुं शक्नोतीत्यत आह—सर्वथेति । उपतापाः सांसारिकक्लेशाः, कञ्चन कञ्चिदपि, शरीरधर्माणंदंहिनं सर्वथा सर्वप्रकारेण


न कहीं देखा, न सुना।' इसलिए कृपाकर समस्त वृत्तान्त विदित कर मेरा कुतूहल निवृत्त कीजिए। इस प्रकारके चन्द्रापीडके वचन सुनकर वह कन्या, मन ही मन किसी विषयकी चिन्ता करती हुई, थोड़ी देर चुप रह कर लंबा साँस लेकर अन्तर्गंत चित्त-शुद्धिको लेकर मानो बाहर निकलते, इन्द्रियोंकी निर्मलताको मानो वर्षण करते, तपस्या रूपी रसकी धारा-सृष्टि करते एवं दृष्टिगोचर धवलताको मानो पिघलाकर गिराते, अत्यन्त निर्मल कपोलस्थलपर टपकते, टूटे हारसे विगलित मोतियोंके समान चञ्चलभावसे गिरते, अविच्छिन्नरूपसे विन्दुके रूपमें निकलते, वल्कलसे ढँके हुए स्तन-शिखरपर जर्जरित होनेसे कणोंमें परिणत होते, बड़े-बड़े अश्रुविन्दुसमूह टपका कर, आँख मींच चुपचाप रोने लगी ।

उसके रोते देख चन्द्रापीड उस समय चिन्ता करने लगा—अहो ! विपत्तियोंका आक्रमण भी दुर्निवारणीय होता है, क्योंकि—ऐसे दुर्धर्ष (दुःखके अयोग्य) आकृतिको भी ये अधीनमें कर लेते हैं। शरीरधारीको


१. क्वचिद् वाशब्दो नास्ति ।
२. आवेदयेतु सर्वम् ।
३. •••धारमुक्ता••• ।
२६ का०

४१० कादम्बरी- [कथायाम्-

'शरीरधर्म्माणमुपतापाः। बलवती हि द्वन्द्वानां प्रवृत्तिः। इदमपरमधिकतरमुपजनितम्$^१$। अतिमहन्मनसि मे कौतुकमस्या बाष्पसलिलपातेन। न ह्यल्पीयसा शोककारणेन क्षेत्रीक्रियन्त एवंविधा मूर्त्तयः। नहि क्षुद्रनिर्घातपाताभिहता चलति वसुधे'ति। संवर्द्धितकुतूहलश्च शोकस्मरणहेतुतामुपगतमपराधिनमिवात्मानमवगच्छन्नुत्थाय प्रस्रवणादञ्जलिना मुखप्रक्षालनोदकमुपनिन्ये। सा तु तदनुरोधादविच्छिन्न$^४$बाष्पजलधारासन्तानापि किञ्चित्कषायितोदरे प्रक्षाल्य लोचने वल्कलोपान्तेन वदनमपमृज्य दीर्घमुष्णञ्च निःश्वस्य शनैः शनैः$^५$प्रत्यवादीत्-

'राजपुत्र! किमनेनातिनिर्घृण$^६$-हृदयायाः मम मन्दभाग्यायाः पापाया जन्मनः$^७$ प्रभृति


न स्पृशन्ति नापद्यन्ते इति न, किन्तु सर्वमेव शरीरिणमुपतापाः स्पृशन्तीत्यर्थः। अत एव तपस्विजनस्यापि सांसारिकक्लेशसम्भव इत्यभिप्रायः।

ननु तपस्वी स्वत्तपःप्रभावेण दुःखं कथं नाम न निवारयतीत्यत आह-बलेति। हि यस्मात्, द्वन्द्वानां सुखदुःखशीतोष्णादीनां प्रवृत्तिः देहिषूपस्थितिः बलवती बलिष्ठा। तपस्विन्वेऽपि देहिधर्मत्वादेव तत्र द्वन्द्वानां बलिष्ठा प्रवृत्तिः निवारयितुमशक्येत्याशयः।

इदमिति। मे मम मनसि चित्ते इदम् अपरमन्यत् अधिकतरं पूर्वस्मात्कुतूहलादतिरिक्तम् अतिमहत् कौतुकं कुतूहलमाश्चर्यमित्यर्थः। अस्याः कन्यकाया बाष्पसलिलपातेन अश्रुजलपतनेन उपजनितमुत्पादितम्। इहोत्पत्युत्पत्त्या नार्थगतपौनरुक्त्यम्।

ननु स्वल्पेनापि शुष्कशोकेन योषितामश्रुजलसम्भवात् कथं तवातिमहदाश्चर्यमित्यत आह-नहीति। हि यतः अल्पीयसा स्तोकेन शोककारणेन दुःखनिमित्तेन एवंविधा अनिर्वचनीयस्वरूपा मूर्त्तयः शरीराणि न क्षेत्रीक्रियन्ते आश्रयीक्रियन्ते अवलम्बितुं शक्यन्त इत्यर्थः। हि तथाहि, क्षुद्रण स्वल्पेन निर्घातपातेन निर्घातपवनस्पर्शेन अभिहता ताडिता वसुधा पृथिवी न चलति न कम्पते इति। इह साधर्म्येण दृष्टान्तः।

संवर्धितेति। संवर्धितं वृद्धिमपगतं कुतूहलम् आश्चर्यं यस्य तादृशश्चन्द्रापीडः, शोकस्मरणस्य दुःखस्मृतेः हेतुतां निमित्तत्वम् उपगतं प्राप्तम्, अत एव अपराधिनं सापरासमिव आत्मानं स्वम् अवगच्छन् जानन् उत्थाय प्रस्रवणात् निर्झरात् मुखप्रक्षालनाय वदनशुद्ध्यर्थम् उदकं जलम् अञ्जलिना पाणिपुटेन उपनिन्ये उपस्थापितवान्।

सेति। सा कन्याका (महाश्वेता) तु तदनुरोधात् चन्द्रापीडाग्रहात् अविच्छिन्नः विच्छेदमलभमानः बाष्पजलधाराया अश्रुजलासारस्य सन्तानः समूहो यस्याः सापि किञ्चित् कषायिते अश्रुपातेनेपद्विलीकृते रक्ते वा उदरे अभ्यन्तरयुगलं तयोस्ते लोचने नयने प्रक्षाल्य वल्कलोपान्तेन परिहिततरुत्वगग्रेण वदनं मुखम् अपमृज्य मार्जनं विधाय दीर्घम् आयतम् उष्णं तप्तं निःश्वस्य निःश्वासं विधाय च शनैः शनैः मन्दं मन्दं प्रत्यवादीत् प्रत्यवोचत्-

राजेति। हे राजपुत्र! अतिनिर्घृणं नितान्तनिर्दयं हृदयं चेतो यस्यास्तस्या मन्दभाग्यायाः क्षीणभागधेयायाः पापायाः पापिष्ठाया मम जन्मनः प्रभृति उत्पत्तेरारभ्य अश्रवणीयेन नितान्तनिष्ठुरतया श्रवणा-


सन्तापकारी दुःख अवश्य होते हैं—क्योंकि सुखदुःखादि द्वन्द्वोंकी प्रवृत्ति (उपस्थिति) अत्यन्त प्रवल है। इसके अश्रुवर्षण (रोने) से मेरे चित्तमें पहलेसे भी अधिक गुरुतर कौतुक उत्पन्न हो गया है; क्योंकि-अल्पमात्र शोकके कारणोंसे ऐसी मूर्ति अधीन नहीं हो सकती, अल्पमात्र निर्घात वायुके (वज्र) आघातसे आहत होकर पृथिवी कम्पित नहीं होती। इस क्रमसे चन्द्रापीडका कुतूहल बढ़ गया और अपनेको ही उस कन्याके शोक-स्मरणका कारण होनेते अपराधी समझ, अतएव उठकर, उसके मुख-प्रक्षालनके लिए झरनेमेंसे अञ्जलि भरकर जल ले आया। उस कन्याके अपने अश्रुजलके धारासमूह अविच्छिन्न भावसे बह रहे थे तो भी राजकुमारके अनुरोधसे, वह अन्दरते थोड़े लाल हुए अपने नयनोंको प्रक्षालन (धो) कर, वल्कल प्रान्तद्वारा अपना मुँह पोंछकर, लंबे और गरम साँस ले धीरे बोली-

राजपुत्र! मेरे समान अत्यन्त क्रूर-हृदया मन्दभागिनी पापिनी नारीके जन्मते वैराग्य ग्रहण करनेके


१. जनितम्। २. महन्मम मनसि कौतुकम्। ३. कुतूहलश्चात्या। ४. ॰॰॰अविच्छिन्न। ५. क्वचिद 'शनैः' इत्येकमेवास्ति पदम्। ६. अतिनिष्ठुर ॰॰। ७. जन्मतः।

महाश्वेताजन्मोदन्तवर्णना ५७ ] चन्द्रकला-विद्योतिनीसहिता। ४११

वैराग्यवृत्तान्तेनाश्रवणीयेन श्रुतेन । तथापि यदि महत् कुतूहलम्, तत् कथयामि, श्रूयताम्।

एतत् प्रायेण कल्याणभिनिवेशिनः श्रुतिविषयमापतितमेव, यथा विबुधसद्मानि अप्सरसो नाम कन्यकाः सन्तीति! तासां चतुर्दश कुलानि, एकं भगवतः कमलयोनेर्मनसः समुत्पन्नम्, अन्यद्वेदेभ्यः सम्भूतम्, अन्यदग्नेरुद्भूतम्, अन्यत्पवनात् प्रसूतम्, अन्यदमृतान्मथ्यमानादुत्थितम्, अन्यज्जलाज्जातम्, अन्यदर्ककिरणेभ्यो निर्गतम्, अन्यत्सोमरश्मिभ्यो निष्पतितम्, अन्यद्भूमेरुद्भूतम्, अन्यत् सौदामिनीभ्यः प्रवृत्तम्, अन्यन्मृत्युना निर्मितम्, अपरं मकरकेतुना समुत्पादितम्, अन्यत्तु दक्षस्य प्रजापतेरतिप्रभूतानां सुतानां मध्ये द्वे सुते मुनिररिष्टा च बभूवतुस्ताभ्यां गन्धर्वैः सह कुलद्वयं जातम्। एवमेतान्येकत्र चतुर्दश कुलानि। गन्धर्वाणान्तु दक्षात्मजाद्वितयसम्भवं तदेव कुलद्वयं जातम्, तँ मुनेस्तनयश्चित्रसेनादीनां

योग्थेन, वैराग्यवृत्तान्तेन विरक्तोदन्तेन, अनेन श्रुतेन आकर्णितेन किं फलमिति शेषः।

तथापीति। तथापि एवं सत्यपि फलाभावे विद्यमानेऽपि यदि महत्कुतूहलं महदाश्चर्यं चेत्, तव तदा कथयामि प्रतिपादयामि। इह तदेत्यर्थे तदित्यवाचकमित्यवाचकत्वं दोष आपतति स हि तदेत्यनेनैव समाधेयः इति शिष्टाः। श्रूयताम् आकर्ण्यताम्।

एतदिति। कल्याणे मङ्गले अभिनिवेश आग्रहोऽस्यास्तीति तस्य भवतः, एतत् प्रायेण बाहुल्येन श्रुतिविषयं कर्णगोचरताम् आपतितमेव गतमेव, नातोऽधिकं किमपि यदा वाच्यमित्याशयः। विशेषेण बुध्यन्ते अवगच्छन्तीति विबुधा देवास्तेषां सद्मनि भवने स्वर्गे अप्सरसो नाम कन्यकाः अपरिणीताः स्त्रियः सन्ति विद्यन्ते इति। नामेति कोमलामन्त्रणे। तासां कन्यकानां चतुर्दश दशाधिकचतुःसंख्याकानि कुलानि अन्ववायाः। तत्रैकं भगवतः कमलयोनेः ब्रह्मणः मनसः स्वान्तात् समुत्पन्नं सञ्जातम्। अन्यद् द्वितीयं वेदेभ्यः श्रुतिभ्यः सम्भूतं समुत्पन्नम्। अन्यत्तृतीयम् अग्नेर्वह्नेः उद्भूतं प्रकटितम्। अन्यच्चतुर्थ पवनाद्वायोः प्रसूतम् उत्पन्नम्। अन्यत्पञ्चमं मध्यमानात् अमृतात मथ्यमानावस्थायां पीयूषात् उत्थितं जातम्। अन्यत् सप्तमम् अर्ककिरणेभ्यः। सूर्यरश्मिभ्यो निर्गतं निःसृतम्। अन्यत् अष्टमं सोमरश्मिभ्यः चन्द्रकिरणेभ्यो निष्पतितं निर्गतम् अन्यन्नवमं भूमेः पृथिव्याः उद्भूतं प्रकटितम्। अन्यद्दशमं सौदामिनीभ्यो विद्युद्भ्यः प्रवृत्तम् उत्पन्नम्। अन्यदेकादशं मृत्युना यमेन निर्मितं रचितम्। अपरम् अन्यद् द्वादशं मकरकेतुना कामेन समुत्पादितं सञ्जनितम्। अन्यदपरं तु दक्षस्य प्रजापतेः अतिप्रभूतानाम् अत्यधिकानां कन्यकानां आत्मजानां मध्ये द्वे सुते मुनिररिष्टा च बभूवतुर्जज्ञाने। गन्धर्वैर्देवगायकैः सह सङ्गमात् ताभ्यां मुन्यरिटाभ्यां सकाशात् कुलद्वयं वंशयुगलं जातमुत्पन्नम् मुनेरेकम् अरिष्टायाश्चैकं जातमित्यर्थः। एवं पूर्वोक्तप्रकारेण एकत्र प्रकरणे सङ्कलनेन एतानि चतुर्दश कुलानि मञ्जातानीति शेषः।

गन्धर्वाणां स्थिति। गन्धर्वाणां देवगायकानां तु दक्षात्मजाद्वितयात् मुन्यरिष्टानामकदुहितृकन्थाद्वयात् सम्भवं समुत्पन्नं तदेव कुलद्वयं जातं, सन्ततेः मातापितृद्वयकारणकत्वादित्याशयः। अत्र कुलद्वयमध्ये मुनेर्दुहितात्मजायाः चित्रसेनादीनां पञ्चदशानां भ्रातृणां सोदराणां मध्ये गुणैः शौर्यादिभिः अधिको

अनाकर्णनीय समाचारके सुननेसे आपको क्या फल होगा? तथापि यदि आपको गुरुतर कुतूहल उत्पन्न हुआ है तो कहती हूँ, सुनिये।

यह तो मङ्गलाभिलाषीने प्रायः श्रवण किया ही होगा कि देवलोकमें अप्सरानामकी कन्यकाएँ रहती हैं। उनके चौदह कुल हैं। उनमें एक भगवान् ब्रह्माके मनसे उत्पन्न हुआ है, दूसरा वेदोंसे, तीसरा अग्निसे, चौथा पवनसे, पाँचवां मथ्यमान अमृतसे, छठा जलसे, सातवां सूर्यरश्मियोंसे, आठवां चन्द्ररश्मियोंसे, नवां पृथिवीसे, दशवां विद्युत्से, ग्यारहवां मृत्युसे, बारहवां कामदेवसे, अवशिष्ट दो दक्षप्रजापतिकी बहुतार कन्याओंमेंसे मुनि और अरिष्टा नामकी कन्याओंके गन्धोंके साथ समागमसे उत्पन्न हुए हैं। इस क्रमसे एकत्र करनेपर ये चौदह कुल हुए। मुनि और अरिष्टा नामक दक्षकन्याओंस गन्धर्वोंके भी वे ही दो कुल उत्पन्न हुए हैं। मुनिका, चित्र-


१. उत्तरसेना। २. क्वचिद् इतीत्यब्दो नास्ति। ३. ० वह्नेः०। ४. निपतितम्। ५. कन्यकानां। ६. द्वे दुही। ७. अत्र। ८. सेनादीनां।

४१२कादम्बरी-[ कथायाम्-

पञ्चदशानां भ्रातृणामधिको गुणैः षोडशश्चित्ररथो नाम समुत्पन्नः। स किल त्रिभुवन-प्रख्या-तपराक्रमो भगवता समस्तसुर-मौलि-माला-लालित-चरण-नलिनेनाखण्डलेन सुहृच्छब्देनोप-बृंहितप्रभावः सर्वेषां गन्धर्वाणामधिपत्यमसिलता-मरीचि-निचय-मेचकितेन बाहुना समुपा-र्जितं शैशव एवाप्तवान्। इतश्च नातिदूरे तस्यास्माद्भारतवर्षादुत्तरेणानन्तरे किम्पुरुषानाम्नि वर्षे वर्षपर्वतो हेमकूटो नाम निवासः। तत्र च तद्भुजयुगलै-परिपालितान्येकानि गन्धर्व-शतसहस्राणि प्रतिवसन्ति। तेनैव चेदं चैत्ररथं नामातिमनोहरं काननं निर्मितं, इदञ्चाच्छो-दाभिधानमतिमहत् सरः खानितम्, अयञ्च भवानीपतिरुपरचितो भगवान्। अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणां षण्णां ज्येष्ठो हंसो नाम जगद्विदितो गन्धर्वः तस्मिन्

गरीयान् षोडशः चित्ररथो नाम तनयः सुतः समुत्पन्नः सञ्जातः।

स इति। किलेति पुराणवार्त्तायाम्। शैशव एव बाल्य एव, त्रिभुवनप्रख्यातपराक्रमः त्रिविष्टप-प्रसिद्धशौर्यवृत्तिः, समस्तानां समग्राणां सुराणां देवानां मौलिमालया मुकुटपङ्क्त्या लालिते प्रणामसमये सादरं स्पृष्टं चरणनलिनं पादकमलं यस्य तेन तादृशेन, भगवता महात्म्यवता आखण्डलेन इन्द्रेण, सुहृ-च्छब्देन मित्रशब्दप्रयोगेण उपबृंहितः परिवर्धितः प्रभावः प्रतापो यस्य सः, स चित्ररथः, असिलतायाः खड्गलतायाः मरीचिनिचयेन रश्मिसमूहेन मेचकितः श्यामीकृतः तेन तादृशेन बाहुना भुजेन समु-पार्जितम्, सर्वेषां निखिलानां गन्धर्वाणां देवगायकानाम् आधिपत्यं प्रभुत्वम् आप्तवान् लब्धवान्।

इत इति। किञ्चेति चार्थः। इतो नातिदूरे अस्मात् स्थानान्नातिदविष्ठे अस्माद् भारतवर्षात् भरतक्षेत्रात् उत्तरेणानन्तरे अव्यवहितोत्तरे किम्पुरुषानाम्नि किम्पुरुषाभिधाने वर्षे क्षेत्रे हेमकूटो नाम हेमकूटाभिधानः वर्षपर्वतः क्षेत्रसीमाकुब्धः, तस्य राज्ञश्चित्ररथस्य निवसत्यस्मिन्निति निवासः आश्रयस्थानं विद्यत इति शेषः।

तत्रेति। अपि चेति चार्थः। तत्र हेमकूटे तस्य चित्ररथस्य भुजयुगलेन बाहुद्वयेन परिपालितानि परिरक्षितानि अनेकानि बहूनि गन्धर्वशतसहस्राणि देवगायकसमूहाः प्रतिवसन्ति निवासं कुर्वन्ति। तेनैव राज्ञा चित्ररथेन, चित्ररथस्येदं चैत्ररथं नाम अतिमनोहरम् अतिरमणीयम् इदं पुरोऽवलोक्यमानं काननं वनं निर्मितं रचितम्। इदञ्च अच्छोदाभिधानं अच्छोदसंज्ञकम् अतिमहत् सरः अतिवृहत् कासारः खानितं निर्मापितं भृत्यैरिति शेषः। अयं पुरो दृश्यमानो भगवान्।

'उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति॥'

इति लक्षणेन उत्पत्तिप्रलयादिज्ञानवान् भवानीपतिः गौरीपतिः शिवमूर्तिरित्यर्थः। उपरचितो निर्माय प्रतिष्ठापितः। इह भवस्य स्त्री इति विग्रहे 'इन्द्रवरुण' इति सूत्रेण ङीपि आनुगागमे भवानीति। तत्र भवान्याः पतिरित्युक्तौ पर्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृतो दोषः, स हि गौरीपतिरिति पाठकरणेन प्रतिविधेयः।

शेषमरिष्टाया अन्ववायमवबोधयति—अरिष्टाया इति। पुनरर्थकस्त्विति। अरिष्टायाः अप्सराया दक्ष-सुतायाः तुम्बुरुप्रभृतीनां तुम्बुरुवादीनां समाने एके उदरे जठरे शयिता इति सोदर्याः सहोदरास्तेषां षण्णां मध्ये जगद्विदितः संसारप्रसिद्धो हंसो नाम हंसाभिधेयो गन्धर्वः ज्येष्ठः सर्वप्रथमः तस्मिन् द्वितीये गन्धर्वकुले

चित्रसेन प्रभृति पन्द्रह भाइयोंके मध्यमें गुणोंसे श्रेष्ठ, चित्ररथ नामक सोलहवां पुत्र उत्पन्न हुआ। भुवनत्रयके प्रसिद्ध पराक्रमवाले, समस्त देवताओंके किरीट-समूहद्वारा जिनके चरण-कमल सादर पूजित होते हैं ऐसे इन्द्रने उनको अपना मित्र बना लिया, जिससे उनका (चित्ररथका) प्रभाव अधिक बढ गया और बाल्यकालमें ही उन्होंने खड्गकी किरणोंसे श्याम-वर्ण हुए स्वकीय बाहुद्वारा उपार्जित करके समस्त गन्धर्वोंका आधिपत्य प्राप्त किया। यहांसे थोड़ी दूर भारतवर्षके अव्यवहित उत्तरदिग्वर्त्ती किंपुरुष देशमें हेमकूट नामक एक वर्षपर्वत है, वही चित्ररथका वासस्थान है। उनके बाहुयुगलद्वारा परिरक्षित होकर लाखों गन्धर्व भी वहां निवास करते हैं। उन्होंने ही यह चैत्ररथ-नामका मनोहर उद्यान निर्माण किया है एवं अच्छोद-नामका यह अतिविशाल सरोवर भी खुदवाया है और यह भगवान् महादेवकी प्रतिमूर्त्ति भी निर्माण कराकर स्थापित किया है। इधर, उस द्वितीय गन्धर्व-कुलमें अरिष्टाके पुत्र तुम्बुरु-प्रभृति छः सहोदरोंके मध्यमें ज्येष्ठ-हंसनामके जगद्विख्यात गन्धर्व हुए। उन्हें


१. सकलत्रिभुवन । २ अरविन्देन । ३. । तद्भुजयुग ०। ४. सरः, निखानितम् । ५. अरिष्टायान्तु पुनस्तस्मिन् द्वितीये ०।

महाश्वेताजन्मोदन्तवर्णना ५७ ] चन्द्रकला-विद्योतिनीसहिता । [ ४१३

द्वितीये^१ गन्धर्वकुले गन्धर्वराजेन चित्ररथेनैवाभिषिक्तो बाल एव राज्यपदमासादितवान् । अपरिमितगन्धर्वबलपरिवारस्ये^२ तस्यापि स एव गिरिरधिवासः । यत्तु तत् सोममयूखसम्भवमप्सरसां कुलम्, तस्मात् किरणजालानुसार्रे-गलितेन सकलेनेव रजनिकर-कला-कलाप-लावण्येन निर्मिता त्रिभुवननयनाभिरामा भगवती द्वितीयेव गौरी, गौरीति नाम्ना^४ हिमकर-किरणावदातवर्णा कन्यका प्रसूता । ताञ्च द्वितीयगन्धर्वकुलाधिपतिः^६ हंसो मन्दाकिनीमिव क्षीरसागरः प्रणयनीमकरोत् । सा तु भगवता मकरकेतनेनेवँ^७ रतिः, शरत्समयेनेव कमलिनी, हंसेन संयोजिता सदृशसमागमोपजनितामतिमहतीं मुदमुपगतवती निखिलान्तःपुरस्वामिनी च तस्याभवत् । तयोश्च तादृशयार्महात्मनोरहमहीदृशी^८ विगतलक्षणा शोकाय केवलमनेकदुःख-

देवगायकान्ववाये गन्धर्वराजेन देवगायकाधिपतिना चित्ररथेनैव अभिषिक्तः अभिषेकविषयीकृतः, अत एव बाल एव शिशुरेव राज्यपदं राजत्वम् आसादितवान् प्राप्तवान् ।

अपरीति । अपरिमितम् अगणितं गन्धर्वबलं गन्धर्वसेना परिवारः परिजनो यस्य तस्य, तस्यापि हंसस्यापि स एव पूर्वोक्त एव गिरिः हेमकूटाभिधानः पर्वतः, अधिवसन्त्यस्मिन्नित्यधिवासो निवासस्थलम् ।

यदिरित । तत् पूर्वप्रतिपादितम्, सोममयूखसम्भवं चन्द्रकिरणेभ्यः समुत्पन्नम् अप्सरसां गणिकानां कुलं वंशः । तस्मात् कुलात् किरणजालस्य रश्मिसमूहस्य अनुसारेण अनुसरणक्रमेण गलितं क्षरितं तेन, सकलेन समग्रेण, रजनिकरस्य चन्द्रस्य यः कलानां भागानां कलापः समूहः तस्य लावण्येन अन्तर्गतसारेण निर्मिता रचिता, अतीवनिर्मलधवलत्वादित्याशयः । त्रिभुवनस्य त्रिविष्टपनिवासिनो लोकस्य नयनाभिरामा लोचनाह्लादकरी, द्वितीया अपरा भगवती सर्वैश्वर्यवती गौरी पार्वतीव । हिमकरश्चन्द्रः तस्य किरणवत् रश्मिवत् अवदातो गौरो वर्णो यस्याः सा गौरीति नाम्ना कन्यका सुता प्रसूता जाता ।

इह ‘...लावण्येन निर्मितेव' इत्यत्र क्रियोत्प्रेक्षा । 'द्वितीया गौरिव' इत्यत्र द्रव्योत्प्रेक्षा । 'हिमकर किरणावदातवर्णा' इत्यत्र च लुप्तोपमा बोध्या ।

तामिति । किञ्चेति चार्थः । द्वितीयगन्धर्वकुलाधिपतिः अपरगन्धर्वकुलराजो हंसः क्षीरसागरो दुग्धसमुद्रो मन्दाकिनीमिव वियद्गङ्गामिव तां गौरीं प्रणयिनीं पत्नीम् अकरोत् कृतवान् । श्रौत्युपमा ।

सेति । भगवता मकरकेतनेन शक्तिशालिना कन्दर्पेण रतिरिव, शरत्समयेन घनात्ययकालेन कमलिनी पद्मिनीव, हंसेन सह संयोजिता सृष्टिकर्त्रा सङ्गमिता तु सा गौरी, सदृशेनानु रूपेण समागमेन संमेलनेन उपजनिताम् उत्पादिताम् अतिमहतीं गरीयसीं मुदम् आनन्दम् उपगतवती प्राप्तवती, तस्य हंसस्य निखिलीनां समस्तानाम् अन्तःपुराणां तस्थसुन्दरीणामित्यर्थः । स्वामिनी मुख्या च अभवत् जाता । इह श्रौतोपमयोः परस्पर निरपेक्षयेन विद्यमानतया संसृष्टिः ।

तयोरिति । अपि चेति चार्थः । तादृशयोस्तथाविधयोः महात्मनोर्विशालहृदययोः तयोर्हंसगौर्योः अहम्, ईदृशी एवम्भूता विगतलक्षणा करतलादिगतमसीध्वजवज्रतिलकाद्यभादिविह्वरहिता, एकैवात्मजा


गन्धर्वराज चित्ररथने अभिषिक्त करके बाल्यावस्थामें ही राजा बनाया । उनका भी अगणित गन्धर्वसैन्यके साथ उसी हेमकूट-पर्वत पर वासस्थान है । इधर, चन्द्र-रश्मियों से जो अप्सराओंका कुल उत्पन्न हुआ था, उसमें द्वितीय भगवती पार्वतीके समान एक कन्या उत्पन्न हुई, रश्मियोंके साथ ही गले हुए चन्द्रकलासमूहके समस्त लावण्यद्वारा ही मानो विधाताने उस कन्याकी सृष्टि की थी, एवं वह कन्या भुवनत्रयस्थ लोगोंके नेत्रोंको आनंद देती थी और वह चन्द्रकिरणके समान ही श्वेत-वर्ण थी। क्षीरसागर ने जिसप्रकार गङ्गाको प्रणयिनी बनाया है द्वितीय गन्धर्वकुलाधिपति महाराज हंसने भी उसीप्रकार उस गोराको प्रणयिनी बनाया था । भगवान् कामदेवके साथ रतिके समान एवं शरत्कालके साथ पद्मिनीके समान, महाराज हंसके साथ सम्मलित होकर वह गौरी, अनुरूपसम्मेलनजनित अत्यन्त आनन्दको अनुभव करने लगी एवं महाराज हंसकी अन्तःपुरवासिनी रमणियोंकी स्वामिनी हो गई। तदनन्तर उन दोनों (हंस और हंसीदेवी)-महात्माओंको केवल शोकातुर करनेके लिए ही,


१. तस्मिन् कुले द्वितीयेऽस्मिन् । २. ०परिवारकस्याप्यापि । ३. सोमपीयूषसम्भूतानामप्सरसां कुलम्, तस्मात् किरणजालानुसार...। ४. गौरीपतिनाम्ना । ५. हिमकिरण, रजनिकर...। ६. द्वितीयकुलाधिपतिः । ७. मकरकेतुना । ८. महात्मनोर्महता क्लेशेन नाभिलापेन कालेन च केवलम् ।

'४१४कादम्बरी-[ कथायाम्-

सहस्रभाजनमेकैवात्मजो समुत्पन्ना। तातस्त्वनपत्यतया सुतजन्मातिरिक्तेन महोत्सवेन मम जन्माभिनन्दितवान्। अवाप्ते च दशमेऽहनि कृतयथोचितसमाचारो महाश्वेतेति यथा- र्थमेव नाम कृतवान्। साहं पितृभवने बालतया कलमधुरप्रलापिनी वीणेव गन्धर्वाणा- मङ्कादङ्कं सञ्चरन्ती अविदित-स्नेह-शोकायासमनाेहरं^२ शैशवमतीतवती^३। क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम्।

अथ विजृम्भमाणं-नव-नलिन-वनेषु, अकठोरै-चूतकलिक-कलापकृत-कामुकोत्कलिकेषु^६


एकमात्रपुत्री अहम् अनेकं बहुविधं यद् दुःखसहस्रं क्लेशसमूहः तस्य भाजनं पात्रं केवलं शोकाय शोक-हेतवे समुत्पन्ना सञ्जाता।

तात इति। अनपत्यतया मदतिरिक्तसन्तानरहिततया सुतजन्मातिरिक्तेन पुत्रोत्पत्त्यतिरिक्तेन महोत्सवेन मम जन्म अभिनन्दितवान् प्रशंसितवान्। अवाप्ते प्राप्ते च दशमेऽहनि दिने कृतो विहितो यथोचितो यथायोग्यः समाचारः आभ्युदयिकश्राद्धादिर्व्यवहारो येन सः तात इत्यन्वयः, यथार्थमेव सत्य-मेव 'महाश्वेता' इति नाम संज्ञां कृतवान् विहितवान् मत्स्वरूपस्य नितान्तशुभ्ररूपत्वादित्याशयः।

सेति। साहं महाश्वेता पितृभवने तातगृहे बालतया शिशुत्वेन, वीणेव वहल्कीव कलमव्यक्तं मधुरं च प्रलपितुं भाषितुं शीलं यस्याः सा, गन्धर्वाणां देवगायकानाम् अङ्कादङ्कं क्रोडात्क्रोडं सञ्चरन्ती गच्छन्ती, अविदितैः विशेषज्ञानानुदयादनवगतैः स्नेहशोकायामैः प्रतिशोकपरिश्रमैः कारणैः मनोहरं तत्तत्कृतव्य-ग्रताभावात् रमणीयं शैशवं बाल्यम् अतीतवती अतिक्रान्तवती।

क्रमेणेति। किञ्चेति चार्थः। क्रमेण परिपाट्या वसन्ते पुष्पकाले इव मधुमासेन चैत्रमासेन, मधुमासे इव नवपल्लवेन नूतनकिसलयेन, नवपल्लवे इव कुसुमेन पुष्पेण, कुसुम इव मधुकरेण भ्रमरेण, मधुकरे तात्कालिकभ्रमरे इव मदेन, मे मम वपुषि शरीरे नवयौवनेन प्रथमतारुण्येन पदं स्थानं कृतं विहितम्। इह सरस्वतीकण्ठाभरणमते उत्तरोत्तरमुपमेयानामुपमानत्वकल्पनात् रशनोपमा, दर्पणकारमते तु मालो-पमा बोध्या।

अथेति। अथ अनन्तरम् अहं मधुमासदिवसेषु एकदा समये अम्बया सह इदम् अच्छोदं सरः स्नातुम् अभ्यागममिति सुदूरवर्त्तिन्या क्रियया सम्बन्धः। इह सप्तमीबहुवचनान्तानि पदानि मधुमास-दिवसेष्वित्यस्यैतानस्य विशेषणानि। विजृम्भमाणानि विकसन्ति नवानि नूतनानि नलिनानां कमलानां वनानि अरण्यानि येषु तेषु।

अकठोरैरिति। अकठोरैः नूतनोद्गतत्वात् कोमलैः चूतकलिकानम् आम्रकुड्मलानां कलापैः समूहैः कृता विहिता कामुकानां कामिजनानाम् उत्कलिका उत्कण्ठा येषु तेषु। उद्दीपकत्वादित्याशयः।


शुभलक्षणहीन और नानाविध दुःखसमूहकी पात्र मैं केवल एकमात्र पुत्री उत्पन्न हुई। अन्य सन्तान नहीं होनेके कारण पिताने पुत्रजन्मसे भी अधिक महोत्सवका अनुष्ठान कर मेरे जन्मको अभिनन्दित किया। एवं दशम दिन उपस्थित होने पर यथोचित आचार-सम्पादन-पूर्वक उन्होंने मेरा नाम 'महाश्वेता' यह यथार्थ नाम-करण किया। वह मैं शिशुत्व-निबन्धन वीणाके समान अस्पष्ट और मधुरभाषिणी होकर, गन्धर्वोंके मध्यमें एक की गोदमेंसे दूसरेकी गोदमें विचरण करती थी, एवं स्नेह, शोक और दुःखका ज्ञान न होनेसे मनोहर अपनी शैशवावस्थाको मैंने पिताके भवनमें ही विताया। उसके बाद वसन्त कालमें जिसप्रकार चैत्रमास, चैत्रमासमें जिसप्रकार नवपल्लव, नवपल्लवमें जिसप्रकार पुष्प, पुष्पमें जिसप्रकार भ्रमर एवं भ्रमरमें जिसप्रकार मद आकर आविर्भूत होता है, उसी प्रकार नवयौवन आकर मेरे शरीरमें आविर्भूत हुआ।

तदनन्तर, एक समय मैं अपनी माताके साथ वसन्तके कारण अत्यन्त शोभायमान, विकसित नूतन कमल कुमुद, कुवलय और कह्लारयुक्त इस अच्छोदसरोवरमें स्नान करनेके लिए आई। उस समय समस्त जीवलोकके


१. विप्रलंम्भा केवलम्···।
२. ···स्नेहशोकायासं।
३. अतिनीतवती।
४. ऽजृम्भमाण।
५. अनेके।
६. काम्युत्कलिकेषु।

महाश्वेतावृत्तान्तप्रमोदनम् ० ५८] चन्द्रकला-विद्योतिनीसहिता। ४१५

कोमल-मलय-मारुतावतार-तरङ्गितानङ्ग-ध्वजांशुकेषु, मद-कलित-कामिनी-गण्डूष-सीधु-सेक-पुलकित-बकुलेषु, मधुकर-कुल-कलङ्क-कालीकृत-कालेयक-कुसुम-कुड्मलेषु, अशोकलता-ताडना-रणित-रमणी-मणि-नूपुर-झङ्कार-सहस्र-मुखरेषु, विकसन्मुकुल-परिमल-पुञ्जिनालिजाल-मञ्जु-शिञ्जित-सुभग-सहकारेषु, अविरल-कुसुम-धूलि-वालुका-पुलिन-धवलित-धरातलेषु, मधुर्मद-विह्वलित-मधुकरी-कदम्बक-संवाह्यमान-लता-दोलेषु, उत्फुल्ल-पल्लव-लवली-लीयमान-मत्त-

कोमलेति। कोमलो मन्दमन्दसञ्चारी यो मलयमारुतो मलयानलः तस्य अवतारेण उपस्थित्या तरङ्गितानि तरङ्गवत्प्रस्फुरितानि अनङ्गध्वजांशुकानि मदनध्वजस्यपताका येषु तेषु। वसन्तसमये महोत्सवाय प्राङ्गेनानङ्गपताकोत्थापनादित्याशयः।

मदेति। मदकलिताः मद्यपानजनितमत्तताव्याप्ता याः कामिन्यः स्त्रियः तासां गण्डूषोधूनां वदनपूरितमद्यानां सेकेन सेचनेन पुलकिताः रोमाञ्चवत् समुद्गतकोरका बकुला वृक्षा येषु तेषु। तथा च कविसमयख्यातिः—

'पादाघातादशोकं विकसितबकुलं योषितामास्यमद्यैः' इति।

मधुक्रेति। मधुकरकुलं भ्रमरसमूह एव कलङ्को लाञ्छनं मधुकरकुलं कलङ्क इव वा, तेन कालीकृतानि श्यामवर्णीकृतानि कालेयकानां दारुहरिद्रावृक्षाणां कालीयचन्दनानां वा कुसुमानि पुष्पाणि कुड्मलानि कोरकानि च येषु तेषु। इह 'मधुकरकुलकलङ्क' इत्यत्र किं रूपकं वा उपमेति सन्देहसङ्करः, वृत्यनुप्रासश्चेत्युभयोर्मिथः संसृष्टिः।

अशोकेति। अशोकतरुषु कङ्केल्लिवृक्षेषु ताडनाभिः कुसुमप्रस्फुटनाय चरणप्रहारैः रणिताः शब्दिता ये रमणीनां सुन्दरीणां मणिनूपुरा मणियुक्तकटकाः तेषां झङ्कारसहस्रेण 'झं झं' इति शब्दसमूहेन मुखराः शब्दायमानाः तेषु।

विकसन्निति। विकसन्तः प्रस्फुटन्तो ये मुकुलाः कोरकाः तेषां परिमलेन आमोदेन पुञ्जितस्य एकत्रीकृतस्य अलिजालस्य भ्रमरगणस्य मञ्जुशिञ्जितैः मनोहरशब्दैः सुभगा रमणीयाः सहकाराः आम्रतरवो येषु तेषु 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः। वृत्यनुप्रासः।

अविरलेति। अविरला निविडाः कुसुमानां पुष्पाणां धूलयः परागा एव वालुकापुलिनानि सैकतानि अविरलकुसुमधूलो वालुकापुलिनानीव वा, तैः धवलितं श्वेतीकृतं धरातलं पृथ्वीतलं येषु तेषु।

इह 'अविरलकुसुमधूलिवालुकापुलिने' त्यत्र रूपकमुपमा वेति सन्देहसङ्करः।

मध्विति। मधुमदेन कुसुमरसपानजनितमत्ततया विह्वलितं विह्वलीकृतं यत् मधुकरीकदम्बकं भ्रमरीसमूहः तेन संवाह्यमाना इतस्ततः सञ्चाल्यमानाः लता वल्ल्य एव दोला प्रेङ्खा येषु तेषु। इह 'लता एव' इत्यत्र निरङ्गकेवलरूपकम्, तदनुप्राणिता ममासोक्तिश्चेति मद्यपानमत्तयुवतीदोलासञ्चालनकार्यप्रतीतेः।

उत्फुल्लेति। उत्फुल्लानि स्फुटानि पल्लवानि किसलया यासां तासु, लवलीषु लताविशेषेषु लीयमाना गुप्तमवतिष्ठमाना ये मत्तकोकिला मदोन्मत्तपिकाः तैः उल्लासितम् आलोड्य बहिरानांतं यन्मधु


हृदयको आनन्द-दायक चैत्रमासके दिनोंमें नये कुन्दवन प्रस्फुटित हो रहे थे, जिनकी कोमल कलियोंका कटाक्ष कामुकोंको उत्कण्ठित कर रहा था; मृदुमन्द मलय-समीरनके आगमनसे कामदेवकी पताका तरङ्गित हो (फहरा) रही थी, मदसे मत्ती हुई कामिनियोंके मुखमद्यसेचनसे बकुल पुलकित हो रहे थे; कलङ्कके समान भ्रमरोंके बैठ जानेसे दारुहरिद्राद्रुम (चमेली) की कलियाँ काली हो गई थीं; अशोकवृक्षोंको चरणप्रहार करनेमें शब्दायमान रमणियोंके मणिमय नूपुर (पायजेब) के झङ्कार (झन्-झनाहट) से दिशायें मुखरित हो रही थीं; विकसित कलियोंके सौरभसे सम्मेल (एकत्रित हुए) भ्रमरोंके मनोहर गुञ्जारसे आम्रके वृक्ष मनोहर लग रहे थे; बालूकामय पुलिन (रेती) के समान अविरल पुष्प-रेणुसे भूतल धवलवर्ण दिखलाई देता था; पुष्पके मधुमदसे मत्त हुई मधुकरीगण लतारूपी भूलोंपर झूल रही थीं; मत्त कोकिल गण पल्लवोंसे छाई हुई लवली-लताओंमें गुप्त रूपसे


१. ०कलेयककुड्मलेषु ।
२. ००ताडनार्ति-०रणित०… ।
३. ०सहस्रेषु… ?
४. '०मधुकर ।
५. वहीं… ।

४१६कादम्बरी-[कथायाम्-

कोकिलोल्लासित-मधु-शीकरोद्दामै-दुर्द्दिनेषु, प्रोषित-जनजाया-जीवोपहार-हृष्ट-मन्मथास्फालित-चाप-रव-भय-स्फुटित-पथिक-हृदय-रुधिराद्रीकृतमार्गेषु, अचिरत-पतत्कुसुमशर-पत्रत्रि-रव-सूंत्कारबधिरीकृत-दिङ्मुखेषु दिवापि प्रवृत्तानङ्गदर्शन-रागान्धाभिसारिका-सार्थ-सङ्केतेषु, उद्वेल-रति-रस-सागर-पूर-प्लावितेषु, सकल जीवलोक-हृदयानन्ददायकेषु, मधुनासदिवितेषु एकदाह-मम्बया सह मधुमासे-विस्तारित-शोभं प्रोत्फुल्ल-नव-नलिन-कुमुद कुवलय-कह्लारमिदमच्छोदं सरः स्नातुमभ्यागतम् । अत्र च स्नानायैनागत्य भगवत्या पार्वत्या तटशिलातलेषु विलिखितानि सद्भृङ्गिरिटीनि पांशु-निसर्गन-कृश-पद्मण्डलीनुमित-मुनिजन-प्रणाम-प्रदक्षिणानि त्र्यम्बक

पुष्परसः तस्य शीकरैः बिन्दुभिः उद्दामं नितान्तं दुर्द्दिनं दृष्टिर्यैषु तेषु ।

प्रोषितेति । प्रोषिता विदेशस्था ये जना लोकाः तेषां या जाया वियोगशिथिलाः स्त्रियः तासां जीवस्य जीवनस्य उपहारैण समर्पणेया मरणाय तदीयप्राणरूपोपायनप्राप्त्येत्यर्थः, हृष्टः सन्तुष्टो यो मन्मथः कामः तेन आस्फालितस्य कामिलक्ष्येषु बाणप्रक्षेपगाय भूयो भूय आकृष्टितस्य, चापस्य धनुषो रवात् शब्दात् भयेन त्रासेन स्फुटितानां विभिन्नानां पथिकहृदयानां वियोगिजनोरसां रुधिरैः शोणितैः सार्द्रीकृताः क्लिन्नीकृता मार्गा अध्वानो येषु तेषु । इह तथाविधशोणितैर्मार्गाणामाद्रीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः ।

अचिरतेति । अचिरतं विरन्तरं पतन्तः कामिलक्ष्यं प्रति धावन्तो ये कुसुमशरपत्रत्रिणः कामदेवबाणाः तेषां यानि पत्राणि पक्षाः (पुंखाः) तेषां सत्कारेण वेगागमनस्थानधिक 'सूंन्' इत्यव्यक्तध्वनिना बधिरीकृतानि दिङ्मुखानि तत्तद्दिक्स्यपायिजनश्रोत्राणि येषु तेषु । इहापि बधिरीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनात्पूर्वालङ्कारः ।

दिवेति । दिवाऽपि दिवसेऽपि, प्रवृत्तः समुत्पन्नः सन्तञ्चिते यो मदनरागः कामासक्तिः तेन सञ्चानां व्यग्रानाम् अमिसारिकाणां सुरताय सङ्केतस्थानं व्रजन्तीनां कामिनीनां सुन्दरीणां सार्थेन समूहेन सङ्केतेषु व्याजेषु ।

उद्वेलेति । उद्वेलो वेलामुल्लङ्घय गच्छन् (उन्मर्यादः) रतिरसः सुरतानुराग एव सागरः अगाधत्वात् समुद्रः तस्य पूरेण प्लवेन प्लावितेषु आच्छादितेषु । इह निरङ्गं केवलरूपकम् ।

सकलेति । सकलाः समग्रा ये जीवलोकाः तेषां हृदयाचन्दं चित्तप्रमोदं ददतीति तेषु, मधुनातादिवसेषु वसन्तवासरेषु ।

एकदेति । एकदा एकस्मिन् समये अम्बया जनन्या सह, मधुमासेन चैत्रेण विस्तारिता अतिरूपमुत्पादिता शोभा द्युतिः यस्य तत्, तथा प्रोत्फुल्लानि विकसितानि नवानि नूतनानि कुमुदानि श्वेतोत्पलानि, कुवलयानि नीलोत्पलानि कह्लारानि रक्तोत्पलानि च यत्र तत्, इदं पुरोऽवलोक्यमानम् अच्छोदं सरः अच्छोदाभिधानं कासारः स्नातुं स्नानाय अभ्यागन्तम् ।

अत्रेति । अत्र अस्मिन् स्थले स्नानायम् आप्लवनायम् आगतया गत्या भगवत्या ऐश्वर्यादिशक्तिमत्या पार्वत्या गौर्या तटशिलातलेषु तीरस्थप्रस्तरशेष्वप्रदेशेषु विलिखितानि रेखया रचितानि, सद्भृङ्गिरिटिना तत्संज्ञकशिवद्वातपालकरचा सह विद्यमानानीति सद्भृङ्गिरिटीनि 'भृङ्गिरिटिः' (पुं०) शिवद्वारपाल्यः

रहकर उसके फूलोंके मधुकी बूँदें गिर-गिरकर रूपी दुर्दिन (अत्यन्त वृष्टि) कर रहे थे; प्रोषितभर्तृकाओंके जीवन उपहार पाकर सन्तुष्ट चित्ते कामदेव अपने धनुषका बारंबार आस्फालन (टङ्कार) करता था, जिसके शब्दसे त्रस्त होकर विदीर्ण प्रवासियोंके हृदयोंसे बहते रुधिरसे समस्त मार्ग आर्द्र (तर) हो रहे थे; अनवरत (लगातार) गिरने कामदेवके बाणोंके पंखोंकी सूत्कारध्वनि (सनसनाहट) से समस्त दिशायें बधिर हो रही थीं; हृदयमें उत्पन्न कामवेगसे विह्वल होकर कामिनियों दिनमें भी सङ्केतस्थानमें जा रही थीं; रतानुरागरूप उच्छृङ्खल (उमड़ते) समुद्रके प्रवाहमें सब प्लावित हो (डूब) रहे थे। इस अच्छोदसरोवरमें स्नान करनेके लिए आई हुई भगवती पार्वतीके तीरवर्ती बहुत प्रस्तर खण्डके ऊपर गढ़ी हुई मूर्ति और रिटी सहित भृङ्गीकी मूर्त्तियेंके जिनके बालू-रेत (रेती) में बने हुए चरणोंके चिह्नोंको देखकर ऐसा अनुमान होता था कि यहाँ


१. ०'उद्दामै ।
२. ०'हृदन्नलेषु, सङ्केतसलितै ०...।
३. ०'रुधिरार्द्रीकृतेषु विमुखस्तनगोरेषु, रुधिरार्द्राणीष्विव विक्रुष्टस्तनार्तमार्गेषु ।
४. ०'पत्ररविरोहत०', पत्रकुङ्कमविरोहद०...।
५. ० हृष्ट-मदन ०...।
६. बानन्दकेषु ।
७. अम्बूपागन्तू, अभ्युपागन्त् ।
८. तन्मुण्डीरीने ।