कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
१२६ सटीके कामसूत्रे [ २ अधिकरणे,
सप्तमोऽध्यायः ।
एवं संविष्टाया यन्त्रयोगे प्राधान्येन प्रहणनमिति प्रहणनप्रयोगाः, प्रहणनोद्भवत्वाच्च सीत्कृतस्य तद्युक्ता एव सीत्कृतक्रमा इति प्रकरणद्वयमत्राध्याये, यथा प्रहणनस्य प्रयोग इति सूचनार्थं क्रमग्रहणम् ,
प्रहणनं द्वेषजननं कथं सुरतोपयोगीत्याह—
कलहरूपं सुरतमाचक्षते विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य ॥ १ ॥
कलहरूपमिति । कलहसदृशमित्यर्थः, कथमित्याह—विवादात्मकत्वादिति । स्त्रीपुंसयोः स्वार्थसिद्धये परस्पराभिभवेन संप्रयुज्यमानत्वाद्विवादात्मकं, वामशीलत्वाच्चेति । प्रतिकूलस्वभावत्वात्कामस्य, यत्सुकुमारक्रमलब्धजन्मनोऽपि मनोभवस्य सुरते निर्दयोपक्रमेणातिवाह्यमानत्वात्, तथा चोक्तं-किराताजुर्नीये ९।४९
'आदृता नखपदैः परिरम्भाश्चुम्बितानि नखदन्तनिपातैः ।
सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥,
अत्रापिशब्दो भिन्नक्रमः सौकुमार्यगुणसम्भृतकीर्तिरपि सुरतेषु वामएवेति, तेन हेतुफलभावेनावस्थानात्कामस्य स्वभावद्वयम्, एकः संप्रयोगेच्छालक्षणः, अन्यो विसृष्टिलक्षण इति ॥ १ ॥
तस्य रागवशात्प्रहणनमङ्गं स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि ॥ २ ॥
तस्य=सुरतस्य, प्रहणनमङ्गमुपकरणं, स्थानानीति । प्रहणनस्य ॥२॥
तच्चतुर्विधमपहस्तकं प्रसृतकं मुष्टिः समतलकमिति ॥ ३ ॥
तदिति । प्रहणनं घातश्चतुर्विधम्, अपहस्तकादिप्रहणनस्य चतुर्विधत्वात्, प्रहण्यते वा स्थानमनेनेति प्रहणनमपहस्तकादीनि, करणे ल्युट्, तत्रापहस्तको हस्तपृष्ठं प्रसृताङ्गुलि, प्रसृतकं वक्ष्यति, मुष्टिः प्रसिद्धः, समतलकं=सुस्थिरहस्ततलं, यस्य मुस्तकेति प्रसिद्धिः॥३॥
द्वितीयं प्रकरणं प्रहणनान्तर्गतमिति दर्शयन्नाह—
तदुद्भवं च सीत्कृतं तस्यातिरूपत्वात् तदनेकविधम् ॥ ४ ॥
तदुद्भवं चेति । तदुद्भवं प्रहणनादुद्भवतीति, कुत एतदित्याह-तस्यातिरूपत्वादिति । सीत्कृतं हि पीडया जन्यमानत्वात्तद्रूपमित्युक्तं, यथा कलहे प्रहणनात्पीडया सीत्कृतं क्रियते तथेहापि पीडाद्योतनार्थं यच्छब्दितं तत्सीत्कृतमिव सीत्कृतं पूर्वाचार्यैः संज्ञितं, न तु सीत्करणमेव सीत्कृतं, यदाह-तदिति । सीत्कृतमनेकविधं, हिंकारादिभेदात् ॥ ४ ॥
६ अध्याये ] चित्ररतप्रकरणम् । १२७
विरुतानि चाष्टौ ॥ ५ ॥
विरुतानीति । तानि मूलवर्गेण संगृहीतानि सीत्कृतप्रकरण एव ध्वनित्वस्वभावत्वादुक्तानि, तेषां च रतिजन्यत्वात्प्रहरणे च मनोज्ञत्वात्प्र-योगः, सीत्कृतस्य तु प्रहरण एवेति विशेषः ॥ ५ ॥
हिंकारस्तनितकूजितरुदितसूत्कृतदूत्कृतफूत्कृतानि ॥ ६ ॥
तत्र हिंकारो यः सानुनासिकेन हिशब्देन क्रियते कण्ठनासिका-भ्यामूर्ध्वं गच्छन्मधुरो ध्वनिन्निष्पाद्यते, स्तनितं मेघस्येव यद्गम्भीरं ध्व-नितं, तच्च कण्ठाद्धृंशब्देन निष्पाद्यते, रुदितं प्रतीत ताच्च मनोहारि स्यात्, सूत्कृतं सूत्करणं च श्वसितापरनाम, कूजितदूत्कृतफूत्कृतानां लक्षणं वक्ष्यति, सप्तैतान्यव्यक्ताक्षराणि, अम्बाऽर्थादयो गण एको-व्यक्ताक्षरः ॥ ६ ॥
अम्बाऽर्थाः शब्दाः, वारणार्था मोक्षणार्थाश्चालमर्थास्ते ते चा-र्थयोगात् ॥ ७ ॥
अम्बाऽर्था इति । अम्ब मातरित्यादयः, वारणार्था मा तिष्ठेत्या-दयः, अलमर्था भवतु पर्याप्तमित्येवमादयः, मोक्षणार्थास्त्यज मुञ्चेत्या-दयः, ते ते चार्थयोगादिति । अन्येऽपि पीडार्थयुक्ता मृताऽस्मि परित्रा-यस्वेत्येवमादयः ॥ ७ ॥
पारावतपरभृतहारीतशुकमधुकरदात्यूहहंसकारण्डवलावकवि-रुतानि सीत्कृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत ॥ ८ ॥
पारावतादीनामिव विरुतानि पारावतविरुतान्यष्टौ, दात्यूहो यस्य ‘डाउक’ इति प्रसिद्धिः, सीत्कृतभूयिष्ठानीति । सीत्कृतबहुलानि, प्रहण-नकालेऽपि सीत्कृतस्य प्राधान्यादन्तरा प्रयुञ्जीतेत्यर्थः, सीत्कृते हि स्व-रान्तर्संश्लिष्टं मनोहारि स्याद्, विभाषाश्लिष्टगीतवत्, तत्रापि विक-ल्पशो विकल्पं विकल्पमेकैक मित्यर्थः ॥ ८ ॥
प्रहरणसीत्कृतयोर्यत्र देशेऽवस्थायां च प्रयोगस्तदुभयमाह—
उत्सङ्गोपविष्ठायाः पृष्ठे मुष्टिना प्रहारः ॥ ९ ॥
उत्सङ्गोपविष्ठाया इति । नायकस्योत्सङ्गे, पृष्ठे मुष्टिना प्रहारः, ना-न्यैरनुरूपत्वात् ॥ ९ ॥
तत्र सासूयाया इव स्तनितरुदितकूजितानि प्रतीघातश्च स्यात्॥१०॥
तत्रेति । मुष्टिना प्रहारे, सासूयाया इव प्रहारमक्षममाणाया इव प्रयोक्तव्यास्र्तद्योतकानि स्तनितकूजितरुदितानि स्युस्तत्प्रहारानु-रूपत्वात्, प्रतीघातश्चेति । मुष्टिनैव तत्पृष्ठे प्रतीघातः स्यात् ॥ १० ॥
१२८ सटीके कामसूत्रे [ २ अधिकरणे,
युक्तयन्त्रायाः स्तनान्तरेऽपहस्तकेन प्रहरेत् ॥ ११ ॥
युक्तयन्त्रायाः=उत्तानायाः, स्तनान्तरे=स्तनयोर्मध्ये, अपहस्तकेन प्रहरेद् नान्यैरननुरूपत्वात् ॥ ११ ॥
मन्दोपक्रमं वर्धमानरागमापरिसमाप्तेः ॥ १२ ॥
मन्दोपक्रमं वर्धमानरागमिति क्रियाविशेषणम्, आरम्भे मन्दया वृत्त्या प्रहारः, ततो यथा रागो वर्धते तथाऽधिक एवेत्यर्थः, आपरिसमाप्तेस्तृप्तिं यावत्, स्तनान्तरे हि रागास्पदस्य हृदयस्यावस्थानाद्, योषितो हि त्रीणि रागस्थानानि-शिरो जघनं हृदयं चेति, तेषु दश्यमानेषु चिरचण्डवेगाऽपि रागं मुञ्चति ॥ १२ ॥
तत्र हिंकारादीनामनियमेनाभ्यासेन विकल्पेन च तत्कालमेव प्रयोगः ॥ १३ ॥
तत्रेति । अपहस्तप्रहणने, हिंकारादीनां सप्तानाम्, अनियमेनेति । मृदुना हृदयस्य हन्यमानत्वात्सर्वेषामेवार्तिसूचकानां संभवः, विकल्पेन मृदुमध्यातिमात्रभेदेनाभ्यासेन च पौनःपुन्येन, तत्कालमेवेति । युगपदपहस्तप्रहणनकालमेव तस्य समाप्त्यवधिकः कालः ॥ १३ ॥
शिरसि किंचिदाकुञ्चिताङ्गुलिना करेण विवदन्त्याः फूत्कृत्य प्रहणनं तत्प्रसृतकम् ॥ १४ ॥
किंचिदाकुञ्चिताङ्गुलिना करेण फणाकारेणेत्यर्थः, विवदन्त्या इति । अपहस्तेनासुखायमाना यदि प्रहारान्तराकाङ्क्षया प्रत्यवतिष्ठेत, तदाऽस्याः प्रथमे रागास्पदे शिरसि तदनुरूपेण प्रसृतकेन प्रहणमपरं मन्दोपक्रमं वर्धमानरागमापरिसमाप्तेर्विधेयम्, फूत्कृत्येति । रागदीपनार्थम् ॥ १४ ॥
तत्रान्तर्मुखेन कूजिते फूत्कृतम् ॥ १५ ॥
तत्रेति । प्रसृतकाघाते, कूजितं फूत्कृतं च नायिकायाः स्यात्, कथमित्याह—अन्तर्मुखेनेति । मुखस्यान्तः स्थानमन्तर्मुखं, तत्र कूजितं, तत्संवृतेन कूजितमित्यनेनाव्यक्तं शब्दितं, यदा विवृतेन जिह्वामूलेन च तत्फूत्कृतं, तस्यानुकार्यं वक्ष्यति-बदरस्येवेति ॥ १५ ॥
रतान्ते च श्वसितरुदिते वेणोरिव स्फुटतः शब्दानुकरणं दूत्कृतम् ॥ १६ ॥
रतान्ते च श्वसितरुदिते, तदानीं धातुक्षयाच्छ्रमोत्पत्तेः, श्वसितं रुदितं च मधुरं काङ्ग्या प्रयोक्तव्यं, वेणोरिव पुरुषव्यापारेण ग्रन्थिस्थाने स्फुटतस्तच्च दूत्कृतम् ॥ १६ ॥
७ अध्याये ] सीत्कृतप्रकरणम् । १२९
अप्सु बदरस्येव निपततः फूत्कृतम् ॥ १७ ॥
तालवाग्रादुपरिभागस्य जिह्वाऽग्रे संश्लेषादुत्पद्यते, बदरस्येवेति वृत्तगुटिकोपलक्षणार्थं, निपततः, शब्दानुकरणमिति वर्तते, यस्येदं लक्षणं—
‘सलिले शर्करापातकाले निःस्तिमितध्वनिः’ इति ॥ १७ ॥
सर्वत्र चुम्बनादिषूपक्रान्तायाः ससीत्कृतं तेनैव प्रत्युत्तरम् ॥१८॥
चुम्बनादिष्वपक्रान्ताया इति। चुम्बननखदशनच्छेद्येषु पुरुषेणाभियुक्तायाः, ससीत्कृतं तेनैव प्रत्युत्तरं येनैव चुम्बनादीनामन्यतमेनोपक्रान्ता, तेनैव हिंकारादिसहायेन प्रत्युत्तरयेदित्यर्थः, अनेन ‘कृते प्रतिकृतं कुर्याद्’ इति स्मारयति ॥ १८ ॥
रागवशात्प्रहणनाभ्यासे वारणमोक्षणालमर्थानां शब्दानामम्बार्थानां च सतान्तश्वसितरुदितस्तनितपिश्रीकृतः प्रयोगो विरुतानां च रागावसानकाले जघनपार्श्वयोस्ताडनमित्यतित्वरया चापरिसमाप्तेः ॥ १९ ॥
रागवशात्प्रहणनाभ्यास इति। यदा रागस्योद्रेकान्नायकः पौनःपुन्येन प्रहरेत्तदा वारणार्थानां प्रयोगो युक्तः, किंरूप इत्याह—सतान्तेति। सह खिन्नाभ्यां श्वसितरुदिताभ्यां वर्तते यत्र स्तनितं तेन योजित इत्यर्थः, पारावतादिविरुतानां च प्रयोग एवंविध एव, रागावसानकाल इति। लिङ्गादासन्नवर्तिनी रतिरिति ज्ञात्वा जघने तृतीयरागास्पदे पार्श्वयोः कक्षाधस्ताडनं समतलेनेति पारिशेष्याद्, अन्ये ‘समतलकेनेति पठन्त्येव, अतित्वरयेति। विश्रब्धिकया हि ताडने मार्गासन्ना रतिर्निवर्तते ॥ १९ ॥
तत्र लावकहंसविकूजितं त्वरयैवते स्तननप्रहणनयोगाः ॥ २० ॥
तत्रेति। समतलकरताडने लावकहंसयोरिव कूजितं शब्दितं स्याद्, मृदुमधुरत्वात्, तच्च त्वरयैव, प्रहणनस्य त्वरितत्वात्, स्तननप्रहणनयोगा- इति। सीत्कृतविरुतात्मनः शब्दितस्य प्रहणनस्य च प्रयोगा उक्ताः ॥२०॥
स्त्रीपुंसयोः प्रहणनसीत्कृतेषु कस्य किं सहजं तेज इत्याह—
भवतश्चात्र श्लोकौ—
पारुष्यं रभसत्वं च पौरुषं तेज उच्यते ।
अशक्तिरार्तिर्व्यावृत्तिरबलत्वं च योषितः ॥ २१ ॥
१७ का० सू०
१३० सटीके कामसूत्रे [ २ अधिकरणे,
रागात्प्रयोगसात्म्याच्च व्यत्ययोऽपि क चिद्भवेत् । न चिरं तस्य चैवान्ते प्रकृतेरेव योजनम् ॥ २२ ॥
पारुष्यमिति । चेतसः शरीरस्य च कठोरता, रभसत्वमिति । अविमृश्यकारिता धाष्टर्यं च, एतदुभयं पुरुषस्येदं तेजो धर्म इत्यर्थः, तद्योगात्पुरुषः प्रहरति, अशक्तिर्हन्तुमसामर्थ्यं, हस्तसौकुमार्यादार्तिः पीडा, प्रत्य व्यावृत्तिः, पुरुषेण हन्तुं नियुक्तायाः स्त्रिया अबलत्वं निष्प्राणता, स्वयमोषदाहरणाद्, एते स्त्रैणा धर्मास्तद्युक्तत्वाद्, न प्रहरणं, सीत्कृतमेव तदुद्भवम्, अतः सीत्कृतप्रहरणे विषयप्रतिनिधते, क चिदिति । न सर्वत्र रते व्यत्ययोऽपि स्यात्, कारणमाह—राग्रप्रयोगसात्म्यादिति । रागस्य प्रकर्षेण योगाद्देशसात्म्याच्च स्त्री स्वधर्मंस्यक्त्व्वा; पौरुषं तेजोबिभ्रती प्रहन्ति, तदा पुरुषः स्त्रीप्रोत्साहनार्थं स्वधर्मं त्यक्त्वा; तद्धर्मीनालभ्य; सीत्कृतविरुतानि कुर्यात्, तत्रापि न चिरं कियतीमपि कालकलां व्यत्ययः स्यात् , ततः किं स्यादित्याह—तस्य चैवेति । तस्यैव व्यत्ययस्यान्ते प्रकृतेरेव योजनं स्याद् , यथा स्वतेजसा स्त्रीपुंसयोर्वर्तनमित्यर्थः, तदिमौ व्यत्ययप्रकृतियोजनाभ्यां प्रवर्त्तेयानामासमाप्तेः, रागप्रयोगसात्म्याभावे तु प्राक्तन एव विधिः, तत्र व्यत्ययाभावात् ॥ २१ ॥२२॥
प्रहरणं चतुर्विधमुक्तं यथा तदष्टधा दर्शयन्नाह—
कीलामुरसि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश्चेति पूर्वैः सह प्रहरणमष्टविधमिति दाक्षिणात्यानां, तद्युवतीनामुरसि कीलानि च तत्कृतानि दृश्यन्ते, देशसात्म्यमेतत् ॥ २३ ॥
कीलामुरसीति । तत्र मुष्टिरेव तर्जनीमध्यमयोर्बहिःपृष्ठभागेन निष्क्रान्तयोरु पर्यंङ्गुष्ठयोजनात्कीला; तयाऽधोमुख्या ताडनं, कर्तरी द्विविधा - प्रसृतकुञ्चिताङ्गुलिभेदात् , तत्र प्रसृताङ्गुलिर्द्विविधा, हस्तेनैकेन मद्रकर्तरी, द्वाभ्यां संश्लिष्टाभ्यां यमलकर्तरी, या कुञ्चिताङ्गुल्यङ्गुष्ठाग्रोपरि न्यस्तकुञ्चिततर्जनीका सा शब्दकर्तरी प्रयुज्यमाना श्लथाङ्गुलित्वादमितशब्दवती भवति, कैश्चिदुत्पलपत्रिकेत्युच्यते, उभाभ्यामपि कनिष्ठिकाऽग्रभागेण शिरसि ताडनं, तर्जनीमध्यमयोर्मध्यमानामिकयोर्वा मध्येनाङ्गुष्ठं निष्कास्य बद्धा मुष्टिर्विद्धा तयाऽङ्गुष्ठकवदनया कपोलयोर्ग्रंथनमेव ताडनम् , मुष्टिरेव तर्जन्यङ्गुष्ठकाभ्यां तर्जनीमध्यमाभ्यां वा संदंशनात्संदंशिका, तया स्तनयोः पार्श्वयोश्च मलनपूर्वकं मांसस्याकर्षणमेव ताडनं, पूर्वैरित्यपहस्तादिभिः, अष्ट-
७ अध्याये ] सीत्कृतप्रकरणम् । १३१
विधमिति दाक्षिणात्यानाम्, आचार्याणां तु चतुर्विधमस्ति, एतत्प्रत्यक्षेण दर्शयन्नाह—कीलानि चेति । तद्युवतीनां दाक्षिणात्यतरुणीनाम्, उरसीत्युपलक्षणम्, उरसि कीलाकृतं शिरसि सीमन्तमुखे कर्तरीकृतं, कपोलयोर्विद्धाकृतं, देशसात्म्यमेतद्, यद्रागवशात्तत्कृतं-चिह्नं वैरूप्यकारणमपि श्लाघ्यते ॥ २३ ॥
तन्नान्यत्र प्रयोक्तव्यमित्याह —
कष्टमनार्यवृत्तमनादृत्यमिति वात्स्यायनः ॥ २४ ॥
कष्टमिति । दुःखावहं निर्दयकर्मत्वाद्, अनार्यवृत्तमसाधुचरितम्, अनादृत्यमित्यनादरणीयं, दोषावहत्वात् ॥ २४ ॥
तथाऽन्यदपि देशसात्म्यात्प्रयुक्तमत्र न प्रयुञ्जीत ॥ २५ ॥
तथाऽन्यदपि, प्रस्तराद्याहननं, देशसात्म्यत्प्रयुक्तं दाक्षिणात्यैः, अत्र नेति ॥ २५ ॥
आत्ययिकं तु तत्रापि परिहरेत् ॥ २६ ॥
आत्ययिकं विनाशाङ्गवैकल्यकरणं, तत्रापि परिहरेद्यत्रापि प्रयुक्तम् २६
तमेवात्ययं दर्शयन्नाह —
रतियोगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान ॥ २७॥
रतियोग इति । रत्यर्थे योगे यन्त्रसंप्रयोगे, चोलराजश्चोलविषये राजा, तेन हि चित्रसेना गणिका रतारम्भे दृढमालिङ्गिता सौकुमार्याच्छरीरपीडामभजत्, तथा प्रदर्शितावस्थामपि तां सुकुमारोपक्रमां रागान्ध्यादगणिततद्बलः कीलयोरसि प्रयुक्तया व्यापादितवान् ॥ २७ ॥
कर्तर्या कुन्तलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम्॥२८॥
कुन्तल इति । कुन्तलविषये जातत्वात्तत्समाख्यः, शातकर्णिः=शतकर्णस्यापत्यं, शातवाहन इति यस्य संज्ञा, स हि महादेवीं मलयवतीमचिरप्रतिविहितमान्द्यामजातबलामपि मदनोत्सवे गृहीतवेषां दृष्ट्वा, जातरागस्तामभिगच्छन्नरागाक्षिप्तचेताः शिरसि कर्तर्याऽतिबलप्रयुक्तया जघान ॥ २८ ॥
नरदेवः कुपाणिर्विद्धया दुष्प्रयुक्तया नटीं काणां चकार ॥ २९ ॥
नरदेवः=पाण्ड्यराजस्य सेनापतिः, कुपाणिः शस्त्रप्रहारात्किणहस्तः, स हि राजकुले नटीं चित्रलेखां नृत्यन्तीं दृष्ट्वा जातरागः सन् प्रयोगे रागान्धो विद्धया कुपाणित्वाद्, दुष्प्रयुक्तया कपोलतलमप्राप्याक्षिप्राप्तया काणां चकार, संदंशिका नोदाहृता, स्वभावतोऽनात्ययिकत्वात् ॥ २९ ॥
१३२ सटीककामसूत्रे [ २ अधिकरणे,
यद्वशादयुक्तं न परिहरन्ति तद् दर्शयन्नाह— भवन्ति चात्र श्लोकाः—
नास्त्यत्र गणना का चिन्न च शास्त्रपरिग्रहः । प्रवृत्ते रतिसंयोगे राग एवात्र कारणम् ॥ ३० ॥
नास्तीति । द्विविधो हि कामी शास्त्रतत्त्वज्ञस्तद्विपरीतश्च, तत्राशा- स्त्रतत्त्वज्ञस्यात्रास्मिन् प्रहणनविधौ न स्वभावतो गणनाऽस्ति का चिद्दु आत्ययिकमिदमपेक्षयेत्यर्थः, न च शास्त्रपरिग्रहः शास्त्रविहिताननुष्ठा- नात्, तस्मादस्य प्रवृत्ते रतिसंयोगे राग एवात्र प्रहणनविधौ प्रयोक्तव्ये कारणं, नापरज्ञानं, शास्त्रतत्त्वज्ञस्य तु सत्यपि रागे प्रवृत्तिकारणे ज्ञा- नमपरं कारणं, ततश्च विमृश्यकारिणो गणना शास्त्रपरिग्रहश्चोभयमेव भवति, तस्मादुभयोरपि प्रवृत्तौ रागः कारणं, तत्रैकस्य ज्ञानपरिष्कृ- तोऽन्यस्य तद्विकल इति विशेषः ॥ ३० ॥
यदा चानयोरतिप्रवृद्धो रागस्तदा तद्वशाददृष्टश्रुता अपि प्रयोगा- भवन्तीति दर्शयन्नाह —
स्वप्नेष्वपि न दृश्यन्ते ते भावास्ते च विभ्रमाः । सुरतव्यवहारेषु ये स्युस्तत्क्षणकल्पिताः ॥ ३१ ॥
स्वप्नेष्वपीति । असंभाव्यवस्तुप्रकाशनयोग्येष्वपि, भावाः=अभि- प्रायाः, विभ्रमाः = चेष्टितानि, सुरतव्यवहारेषु = परस्परचुम्बनाभिगमना- दिव्यापारेषु, तत्क्षणकल्पिताः = तत्कालनिर्मिताः, न शास्त्रत इत्यर्थः ॥३१॥
तत्रैकस्य ज्ञानपरिष्कृतत्वादतिजनन एवोच्यन्ते, अन्यस्य ज्ञानवै- कल्यादत्ययावहा अपीति, तस्मादयं ज्ञानविकलोऽतिप्रवृद्धाद्रागात्प्रव- र्तमानोऽत्ययं न पश्यतीति दृष्टान्तेन दर्शयन्नाह—
यथा हि पञ्चमीं धारामास्थाय तुरगः पथि । स्थाणुं श्वभ्रं दरीं वाऽपि वेगान्धो न समीक्षते ॥ ३२ ॥ एवं सुरतसंमर्दे रागान्धौ कामिनावपि । चण्डवेगौ प्रवर्तेते समीक्षेते न चात्ययम् ॥ ३३ ॥
यथा हीति । यथाऽश्वस्य विक्रमो वलितमुपकण्ठमुपजवो जवश्चेति, पञ्चधारागतयस्तुरगशिक्षायामुक्ताः, तत्र पञ्चमीं जवाख्यां प्रकृष्ट्रामास्थाय स्थित्वेत्यर्थः, तत्रस्थो हि वायुगतिर्भवत्यश्वः, श्वभ्रं=पौरुषं गर्तं, दरीं= देवर्निमिताम्, एवमिति । दार्ष्टान्तिकयोजनं, सुरतसङ्कुले, कामि- नौ स्त्रीपुंसौ, 'पुमान्स्त्रिया' इत्येकशेषः ॥ ३२ ॥ ३३ ॥
प्रहणनप्रयोगाः पञ्चदशं प्रकरणम् ।
८ अध्याये ] पुरूषायितप्रकरणम् १३३
यस्माज्ज्ञानवैकल्याद्युक्तं दृश्यते, तस्माज्ज्ञानप्रधानेन भवितव्यमि- ति दर्शयन्नाह—
तस्मान्मृदुत्वं चण्डत्वं युक्त्या बलमेव च । आत्मनश्च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित् ॥ ३४ ॥
तस्मादिति । मृदुत्वं चण्डत्वमिति । मन्दवेगतां चण्डवेगतां चे- त्यर्थः, बलं=प्राणः, आत्मनश्च मृदुत्वचण्डत्वे इति योज्यं, तथेति । मृद्वादिप्रकारेण, प्रयुञ्जीत प्रयोगान् शास्त्रवित्, अन्यथा शास्त्रज्ञेतरयोः को भेदः स्याद्, वक्ष्यति च— ‘अस्य शास्त्रस्य तत्त्वज्ञो न स रागात्प्रवर्तते’ इति ॥ ३४ ॥
मृद्वादिभेदेन प्रयोगयोजने सर्वे सर्वदा सर्वासु स्त्रीषु स्युरिति चेदाह—
न सर्वदा न सर्वासु प्रयोगाः सांप्रयोगिकाः । स्थाने देशे च काले च योग एषां विधीयते ॥ ३५ ॥
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रहणनप्रयोगास्तद्युक्ताश्च सीत्कृतक्रमाः सप्तमोऽध्यायः । आदितो द्वादशः ।
न सर्वदेति । तत्र स्थाने प्रयोगो यथा—अपहस्तस्य स्तनान्तरे, प्रसृ- तस्य शिरसीत्यादि, देश इति । प्रयोगविषय इत्यर्थः, यथा-मालव्यां प्रहणनस्याभीर्यामौपरिष्टकस्येत्यादि, युक्तयन्त्रायामपहस्तस्योत्सङ्गोप- विष्टायां मुष्टिरित्यादि कालप्रयोग इति ॥ ३५ ॥
प्रहणनप्रयोगाः पञ्चदशं प्रकरणम् । तद्युक्ताश्च तदन्तर्गताः सीत्कृतक्रमाः षोडशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे प्रहणनयोगाः सीत्कृतक्रमाश्च सप्तमोऽध्यायः ।
अष्टमोऽध्यायः ।
एवं प्रहणनादिव्यापारेण परिश्रान्ते नायके नायिका पुरुषवदाचरे- दिति पुरुषायितं, तदुपयोगित्वाच्च तदन्तर्गतानि पुरुषोपसृप्तानीति प्रक- रणद्वयमत्राध्याये ।
तत्र कारणान्याह—
नायकस्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपश- मम्, अनुमता तेन तमधोऽवपात्य पुरुषायितेन साहाय्यं दद्यात्
१३४ । सटीक कामसूत्रे । [ २ अधिकरणे,
स्वाभिप्रायाद्वा विकल्पयोजनार्थिनी नायककुतूहलाद्वा ॥ १ ॥
नायकस्येति । संतताभ्यासादिति । रतस्य पौनःपुन्येनानुष्ठानात्, परिश्रमं सर्वाङ्गिकं समं, रागस्य चानुपशममशान्तिमुपलभ्य; तत्राप्यनुमता, तेनेति । नायकेन, अनुज्ञाता हि योषिद्विसदृशमाचरन्ती नित्रपैव स्यात्, तमधोऽवपात्य=नायकमधस्तात्कृत्वा, एवं हि पुरुषवदाचरितं, तेन साहाय्यं सहायकर्म प्रतिपद्येत कार्यस्यानिवृत्तत्वात्, स्वाभिप्रायाद्वेति । अननुमताऽपि तेन जातविश्रम्भा विकल्पं पुरुषायितभेदं योजयितुमर्थिनी तच्छीलत्वाद्, नायककुतूहलाद्वेति । नायकस्यात्र कौतुकमस्तीति ज्ञात्वा वा तेनाननुमताऽपरिश्रान्तस्यापि दद्यादित्येव ॥ १ ॥
तत्र युक्तयन्त्रेणैवेतरेणोत्थाप्यमाना तमवपातयेदेवं च रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्यादित्येकोऽयं मार्गः, पुनरारम्भेणादित एवोपक्रमेदिति द्वितीयः ॥ २ ॥
तत्रेति । पुरुषायिते द्विविधः क्रमः, तत्रायं प्रथमो यद् युक्तयन्त्रेणैवापत्यिकशल्यसंयोगेनैवेतरेण नायकेन त्र्यस्त्रस्थितेनासीनेन चोत्थाप्यमाना बाहुपाशसंदानिता सत्युपरि क्रियमाणा, तं नायकमवपातयेदिति । एवं सति रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्याद्, यन्त्रं हि विश्लेष्य पुनः संधाने रतमपूर्वमेव स्याद्, न पूर्वप्रकारप्रवृत्तं यथा प्रवृत्तञ्चात्र रागो विच्छिद्येत, तस्य चाकस्माद्विच्छेदे न सौमनस्यमित्यत्र कामिनः प्रमाणम्, अयं मार्गः श्रमवृद्धौ रागस्यानुपशमे द्रष्टव्यः, स्वाभिप्रायादिषु, पुनरारम्भेणेति । यदा रतस्य पुनरारम्भस्तदा तेनारम्भेण पुरुषवदादावेवोपक्रमेत प्रवर्त्तेत द्वितीयो मार्गः, नापरस्तृतीयो यदन्तरा यन्त्रं विश्लेष्य प्रयोक्तव्यम् ॥ २ ॥
पुरुषायितं द्विविधम्, बाह्यमाभ्यन्तरं च, तत्र प्रथममधिकृत्याह—
सा प्रकीर्यमाणकेशकुसुमा श्वासविच्छिन्नहासिनी वक्त्रसंसर्गार्थं स्तनाभ्यामुरः पीडयन्ती पुनः पुनः शिरो नमयन्ती यांश्चेष्टाः पूर्वमसौ दर्शितवांस्ता एव प्रतिकुर्वीत पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात् पुनश्च व्रीडां दर्शयेच्छ्रपंविरामाभीप्सां च, पुरुषोपसृप्तैरेवोपसर्पेत् ॥ ३ ॥
सेति । स्वशिरसः प्रकीर्यमाणानि केशकुसुमानि चेष्टमानया ययेति विग्रहः, श्वासेन विच्छिन्नो यो हासः सोऽस्ति यस्याः, असदृशव्यापारेण जातश्रमत्वाद्, वक्रसंसर्गार्थं लज्जया न तु चुम्बनदशनच्छेद्या-
८ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १३५
८ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १३५
र्थं, स्तनाभ्यामुरो नायकस्य, पीडयन्तीति। स्तनोपगूहनमेतत्, पुनः-पुनः शिरो नमयन्ती लज्जया, सर्वमेतत्तैक्ष्ण्येन तेजसा चेष्टितमुक्तम्, पौंस्नेनाह-या इति। चेष्टायाश्चुम्बनादिव्यापारात् पूर्वमसौ दर्शितवान् पारुष्यरभसत्वाभ्यां ता एव प्रतीपं कुर्वीत, तदेव स्फुटयन्नाह—पातितेति। यथाऽहं त्वया निर्दयरतेन क्लेशिता तथाऽहं त्वामपि प्रतीपं पातयामीति ब्रूयादिति संबन्धः, तत्रापि परिहारेऽन्यत्रापि प्रयुक्त हसन्ती, राभसिकतया तर्जयन्ती तर्जन्या, प्रतिघ्नती चात्यर्थमपहस्तादिना, तदुभयं पारुष्यं दर्शयति, ततश्चासौ स्त्रैणतेजः प्रख्यापनार्थमव्रीडिताऽपि व्रीडाम्, अश्रान्ताऽपि श्रमं, रन्तुमिच्छन्त्यपि विरामाभोप्सामुपेल्य दर्शयेत्, पुरुषवदाचरितं हि योषितः पुरुषायितं, ततश्च पुरुषस्य योषिति यदुपसर्पणमुपसृप्तं तद्वद्याचरन्त्या पुरुषायितं, प्रायश्च पुरुषोपसृप्तान्नान्यत्पुरुषायितमिति नियमयन्नाह-पुरुषोपसृप्तेरेवोपसर्पेदिति ॥ ३ ॥
इतः प्रभृति पुरुषोपसृप्ताख्यं प्रकरणमिति दर्शयति –
तानि च वक्ष्यामः ॥ ४ ॥
तानि द्विविधानि, बाह्यान्याभ्यन्तराणि च ॥ ४ ॥
तत्र बाह्यान्त्याह–
पुरुषः शयनस्थाया योषितस्तद्वचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत्, तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत्, स्थिरलिङ्गश्च तत्र तत्रैनां परिस्पृशेत्, प्रथमसंगता चेत्संहतोर्वोरन्तरे घट्टनं, कन्यायाश्च तथा स्तनयोः संहतयोर्हस्तयोः-कक्षयोरंसयोर्ग्रीवायामिति च, स्वैरिण्यां यथासात्म्यं यथायोगं-च, अलके चुम्बनार्थमेनां निर्दयमवलम्बेत हनुदेशे चाङ्गुलि-संपुटेन, तन्नेतरस्या व्रीडा निमीलनं च प्रथमसमागमे कन्यायाश्च ॥ ५ ॥
यदा पुरुषः प्रयोक्ता तदा पुरुषोपसृप्तकं, स्त्री चेत्पुरुषायितमिति दर्शनार्थं पुरुषग्रहणम्, एवं च पुरुषायितेन सहास्यं वचनं, शयनस्थाया इति। शयनात्प्रागतारम्भं प्रकरणं वक्ष्यति, तद्वचनव्याक्षिप्तचित्ताया इवेति। नायकोक्तिभिरन्यचित्ताया नायिकायाः, लज्जाख्यापनार्थं-दर्शनीयेति वाऽर्थः, नीवी=निवसनबन्धनं, तत्रेति। विश्लेषणे विवद्मानां कर्तुमददतीं कपोलचुम्बनेन समन्तादाकुलं यद् यथा नीवी सुखेन
१३६ सटीक कामसूत्रे [ २ अधिकरणे,
शंसते, स्थिरलिङ्गश्चेति । जातरागत्वात्स्तब्धलिङ्गः, तस्यां च जात-रागायां सिद्धं कार्यं, न चेद्वाह—तत्र तत्रेति । कक्षोरुस्तनादिष्वेनां नायिकां रागजननार्थं हस्तेन, परिस्पृशेदिति । एतदसकृन्नायकेन संगता-यामतिविश्रब्धायामुक्तं, यदि प्रथमसंगता तदाऽस्या नीवीशंसनस्प-र्शनं नास्त्येव, लज्जया संहतयोश्चोर्वोरन्तरे च संधौ हस्तेन घट्टनं चल-नं, यथा विवृतौ स्यातां, कन्यायाश्चेति । कन्याविश्रम्भणेन विश्र-ब्धाया अप्यस्या लज्जया संहतयोरन्तरे घट्टनं नीवीशंसनं स्पर्शनं च, अस्या अधिकमाह—स्तनयोः संहतयोर्भुजमय्या सूच्या हस्तयोः पर-स्पराश्लिष्टयोः प्रत्येकं वा बद्धमुष्टयोः, कक्षयोः प्रत्येकं कृतसंकोचयोः, अंसयोर्हस्तयोजनाद् ग्रीवाबाहुशिखरयोजनाद्वा संहतयोः, ग्रीवायां ह-स्तपाशसंश्लेषात्संहतायां, घट्टनमित्येव, स्वैरिण्यामिति । या नायिका रूढविश्रम्भत्वात्सुरते निस्त्रपं यथेष्टचारिणी सा स्वैरिणी=अभियोक्त्रीत्य-र्थः, तस्याः, यथासात्म्यं यथायोगं चेति । यद्येन सात्म्यं यच्च यत्र युज्य-ते तत्तस्य स्पर्शनमित्यर्थः, चुम्बनार्थमेनामिति । कृतक्षान्तिं पूर्वोक्तां स्वै-रिणीं वाऽङ्के निर्दयमवलम्बेत, हस्तेन दृढं गृह्णीयाद्, यथा तद्वदनमाकृष्य चुम्बेत, हनुदेशे वाऽङ्गुलिसम्पुटेन तर्जन्यङ्गुष्ठकल्पितेन चुम्बनार्थन्निर्द-यमवलम्बेतेत्येव, तत्रेत्यवलम्बने, इतरस्या इति । नायिकायाः, विधिमा-ह—या प्रथमसंगता कन्या च तस्या व्रीडा लज्जा निमीलनं चाक्ष्णोः स्याद्, न तदतिविश्रब्धायाः स्वैरिण्याश्चेत्येवं नीवीविस्रंसनस्पर्शनघट्टनावलम्बनैश्चतुर्भिर्बाह्यैरुपसृप्तैः शयनस्थां विश्वास्य सांप्रयोगिकांश्चुम्बनादीन्प्रयुञ्जीत ॥ ५ ॥
आभ्यन्तराण्यभिधातुमाह—
रतिसंयोगे चैषा कथमनुरज्यत इति प्रवृत्त्या परीक्षेत ॥ ६ ॥
रतिसंयोगे चेति । रत्यर्थे यन्त्रसंयोगे सत्येनामिति, बाह्यैरुपसृप्तां प्रवृत्त्या चेष्टया परीक्ष्य यथा कथं चिदाभ्यन्तरैरुपसर्पेदित्यर्थः ॥ ६ ॥
तत्र प्रवृत्तिमाह—
युक्तयन्त्रेणोपसृप्यमाणा यतो दृष्टिमावर्तयेत्तत एवैनां पीडयेदेतद्रहस्यं युवतीनामिति सुवर्णनाभः ॥ ७ ॥
युक्तयन्त्रेनेति । यत इति । यत्र संबाधस्यान्तरं भागं लक्षीकृत्य साधनेनोपसृप्यमाणा तत्स्पर्शसुखाद्, दृष्टिमावर्तयेद्=दृष्टिमण्डल भ्रमयेत, तत एवेति । तामाश्रित्य पीडयेत्, तस्मिन्नेव साधनेनात्यर्थमुपसर्पेत्,
८ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १३७
तत्र हि पीडनाद् द्रुतं रतिमधिगच्छति, एतद्रहस्यं स्त्रीभिरप्रकाश्या- त्वात्, तथा हि रतिप्राप्त्यर्थमन्यैः प्रकारान्तरमुक्तं शास्त्रकृतः सुवर्णना- भमतमभिमतमप्रतिषिद्धत्वाद्, अत्र च रतिवर्धनमेको बहव इति केषां- चित्प्रदेशविवादः, तत्रोपसृप्यमाणा यस्मिन्नेकस्मिन्म्रियते वा देशे स्पृष्टा दृष्टिमावर्तयेत्तस्मिन्नेव पीडयेदित्येकः प्रकारः, बहुषु वा यस्मिन् य- स्मिन्नुपसृप्यमाणा दृष्टिमावर्तयेत्तस्मिंस्तस्मिन्नेव पीडयेदिति द्वितीयः, तत्रापि यस्मिन्नत्यर्थं दृष्टिमावर्तयेत्तस्मिन्नत्यर्थमेव पीडयेदिति बोद्ध- व्यम्, एतेन नाडीप्रदेशा अप्यन्यतन्त्रोक्ता व्याख्याताः, तेषामनेनैव प्र- कारेण जायमानत्वात् ॥ ७ ॥
उपसृप्यमाणाया भावस्य तिस्रोऽवस्थाः—प्राप्तः, प्रत्यासन्नः, संधु- क्ष्यमाणश्चेति त्रयाणां लक्षणमाह—
गात्राणां संसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रति-
योजनेति स्त्रीणां भावल्लक्षणम् ॥ ८ ॥
तत्र गात्रावसादो नेत्रनिमीलनं च प्राप्तस्य लिङ्गं, व्रीडानाशो ल- ज्जानिवृत्तिः, रतियोजनेति। रत्यर्थे योजना यन्त्रयोजनेत्यर्थः, सा स्वजघन- स्य नायकजघनेनात्यन्तलग्नात्, समधिकेति, प्रत्यासन्नभावलक्षणमिति, प्राप्तप्रत्यासन्नस्येत्यर्थः ॥ ८ ॥
संधुक्ष्यमाणस्याह—
हस्तौ विधुनोति स्विद्यति दशत्युत्थातुं न ददाति पादेनाह-
न्ति रतावसाने च पुरुषातिवर्तिनी ॥ ९ ॥
हस्ताविति । विधुनोति कम्पयति, उत्थातुं न ददाति यन्त्रयोगात्, पुरुषातिवर्तिनीति । पुरुषस्य रतिप्राप्तौ तमतिक्रम्य; स्वजघनव्यापारेण वर्तत इत्यर्थः ॥ ९ ॥
तस्याः प्राग्यन्त्रयोगात्करेण संबाधं गज इव क्षोभयेदामृदुभा-
वात् ततो यन्त्रयोजनम् ॥ १० ॥
तस्याश्चेष्टितमीदृशं बुद्ध्वा यन्त्रयोगात्प्राग् न तु स्वयं रतमधि- गम्य; पश्चात्तदानीमस्या रतं विच्छिन्नरसं स्यात्, सम्बाधो भागतश्चतु- र्विधः, यथोक्तम्—
‘अन्तः पद्मदलस्पर्शं गुटिकावच्च योषितः ।
वलिभं च वराङ्गं स्याद्गोजिह्वाकर्कशं तथा’ इति ॥
तत्राद्यं त्यक्त्वा शेषं कण्डूतिबहुलत्वात्करेण क्षोभयेद्, आमृदु- भावादिति। यावन्मृदुतां गतं, ततो यन्त्रयोजनम्, मृदुभूते हि तस्मि-
१८ का० सू०
१३८ सटीके कामसूत्रे [ २ अधिकरणे,
न्युपसृप्यमाणा द्रुतं रतिमधिगच्छति, गज इवेति। करौपम्यार्थं, गजाकारेणेत्यर्थः, तथा चोक्तम्—
'अनामिकाप्रदेशिन्यौ श्लिष्टाग्रे ज्येष्ठया सह।
गजहस्ताग्रसादृश्यात्तत्संज्ञं कृत्रिमं स्मृतम्' इति ॥
एवं च करग्रहणं कृत्रिमसाधनोपलक्षणार्थं, तेन कृत्रिमेणाभ्यन्तरान्युपसृप्तानि द्रष्टव्यानि ॥ १० ॥
तान्याह—
उपसृप्तकं मन्थनं हुलोऽवमर्दनं पीडितकं निर्घातो वराहघातो-वृषाघातश्चटकविलसितं संपुट इति पुरुषोपसृप्तानि ॥ ११ ॥
लिङ्गेन सम्बाधस्य मिश्रणात्सर्वमेवोपसृप्तकम् ॥ ११ ॥
न्याय्यमृजु संमिश्रणमुपसृप्तकम् ॥ १२ ॥
तत्र यदृजु प्रगुणं न्याय्यमागौपालाङ्गनाप्रसिद्धं मिश्रणं तद्, उपसृप्तकमिति। तत्र कन्प्रत्ययेन विशेषसंज्ञां दर्शयति ॥ १२ ॥
हस्तेन लिङ्गं सर्वतो भ्रमयेदिति मन्थनम् ॥ १३ ॥
हस्तेन लिङ्गं गृहीत्वा सम्बाधाभ्यन्तरे सर्वतो मथन्निव भ्रमयेत् ॥ १३ ॥
नीचीकृत्य जघनमुपरिष्टाद्घट्टयेदिति हुलः ॥ १४ ॥
नीचीकृत्य जघनामिति। स्वकटिमधः कृत्वा, उपरिष्टादिति। अभ्यन्तरस्योर्ध्वभागे भगं बहुलेनैव लिङ्गेनावघट्टयेत् ॥ १४ ॥
तदेव विपरीतं सरभसमवमर्दनम् ॥ १५ ॥
तदेवेति। घट्टनं, विपरीतमुच्चीकृत्य जघनमधस्तादिति, विशेषश्चापरो यः, सरभसमिति। रभसेन मृद्नीयादित्यर्थः, अधोभागस्य कण्डूतिबहुलत्वात् ॥ १५ ॥
लिङ्गेन समाहत्य पीडयंश्चिरमवतिष्ठेतेति पीडितकम् ॥ १६ ॥
लिङ्गेनेति। वेगादामूलं प्रवेश्यमानेन समाहत्य पीडयन्भगमवतिष्ठेत, चिरमिति। यावन्तं कालं लिङ्गोन्नमनावनमनानि कर्तुं समर्थः ॥ १६ ॥
सुदूरमुत्कृष्य वेगेन स्वजघनमवपातयेदिति निर्घातः ॥ १७ ॥
सुदूरमिति। प्रवेशितं लिङ्गमाबन्धमाकृष्य वेगेन जघन एव निर्घातवत्क्षिपेत् ॥ १७ ॥
एकत एव भूयिष्ठमवलिखेदिति वराहघातः ॥ १८ ॥
८ अध्याये ] पुरुषायितप्रकरणम्। १३५
एकत एवेति । एकस्मिन्नेव पार्श्वे भूयिष्ठं बहून्वारान् वराहवद्दंष्ट्रयाऽवलिखेत् ॥ १८ ॥
स एवोभयतः पर्यायेण वृषाघातः ॥ १९ ॥
स एवेति । वराहस्य घातः, उभयत इति । उभयपार्श्वयोः परिपाट्या वृषभवच्छृङ्गाभ्यामवलिखेत् ॥ १९ ॥
सकृन्मिश्रितमनिष्क्रमय्य द्वित्रिश्चतुरिति घट्टयेदिति चटकविलसितं रागावसानिकम् ॥ २० ॥
सकृन्मिश्रितमिति । एकवारं प्रवेशितं लिङ्गमनिष्क्रमय्यानिष्कास्य बहिरभ्यन्तरमेव किं चिदाकृष्याकृष्य चटकवत्तत्र लिङ्गं संघट्टयेद्, द्वित्रिर्वा प्रघर्षणं, चतुरिति । रागावसानिकमेतद्, विसृष्ट्यवस्थायामेवंस्वभावत्वात् ॥ २० ॥
व्याख्यातं करणं संपुटमिति ॥ २१ ॥
व्याख्यातमिति । करणं संपुटं, तच्च व्याख्यातम्—‘ऋजुप्रसारितावुभयोश्चरणौ’ इति तत्र लिङ्गमनिष्क्रमय्य जघनेन जघनमवगृह्य यत्संमिश्रणं तदपि संपुटमित्युक्तम् ॥ २१ ॥
तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः ॥ २२ ॥
तेषामिति । उपसृप्तकादीनां, स्त्रीसात्म्यादिति । येन यस्याः सात्म्यं तेन तस्यां प्रयोगः, विकल्पेन मृदुमध्यातिमात्रभेदेन, तत्र पुरुषोपसृप्तेषु यद्बाह्यं नीवीविश्लेषणादिकं तद् द्वितीये मार्गे नायककक्षाबन्धविश्लेषणादिबाह्यं पुरुषायितं, यच्चाभ्यन्तरमुपसृप्तं तन्मार्गद्वयेऽप्याभ्यन्तरं पुरुषायितं द्रष्टव्यम् ॥ २२ ॥
पुरुषोपसृप्तं प्रकरणमुक्त्वा विशेषाभिधित्सया पुनः पुरुषायितमाह—
पुरुषायिते तु संदंशो भ्रमरकः प्रेङ्खोलितमित्यधिकानि ॥२३॥
पुरुषायिते त्विति । आभ्यन्तरे पुरुषायिते प्रवर्तमानायास्त्रीण्यधिकानि ॥ २३ ॥
वाडवेन लिङ्गमवगृह्य निष्कर्षन्त्या पीडयन्त्या वा चिराय स्थानं संदंशः ॥ २४ ॥
बाडवेनेति । वशद्यौष्ठसंदंशेन लिङ्गमवगृह्य, निष्कर्षन्त्या अन्तः समाकर्षन्त्याः स्थानमवस्थितिः ॥ २४ ॥
युक्तयन्त्रा चक्रवद् भ्रमेदिति भ्रमरक आभ्यासिकः ॥ २५ ॥
१४० सटीके कामसूत्रे [ २ अधिकरणे,
युक्तयन्त्रेति । भगप्रवेशितलिङ्गा कुलालचक्रवत्कुञ्चितचरणा नायकाङ्गे हस्ताभ्यां शरीरावष्टम्भं कृत्वा भ्रमेद्, अयमभ्यासाद्भवति ॥ २५ ॥
तत्रैतरः स्वजघनमुत्क्षिपेत् ॥ २६ ॥
तत्रेति । भ्रमरके, इतरो नायको यन्त्राविश्लेषार्थं भ्रमरसौकर्यार्थं च स्वजघनमूर्ध्वं क्षिपेत् ॥ २६ ॥
जघनमेव दोलायमानं सर्वतो भ्रमयेदिति प्रेङ्खोलितम् ॥ २७ ॥
दोलायमानमिति। पृष्ठतो नीत्वाऽग्रतो नयेद्, एकं पार्श्वं नीत्वा द्वितीयमित्येवं, तत्प्रेङ्खोलितकम्, मण्डलेन तु भ्रमितं मन्थनान्तर्भूतं, तेषां पुरुषसाम्याद्विकल्पेन च प्रयोग इत्यत्रापि योज्यम् ॥ २७ ॥
युक्तयन्त्रैव ललाटे ललाटं निधाय विश्राम्येत् ॥ २८ ॥
युक्तयन्त्रैव विश्राम्येद् न विश्लिष्टयन्त्रा रागस्यानुपशान्तत्वाद्, ललाटे ललाटं निधायेति । श्रमापनयनकारणम् ॥ २८ ॥
विश्रान्तायां च पुरुषस्य पुनरावर्तनमिति पुरुषायितानि ॥ २९ ॥
पुनरावर्तनं=पुनरुपरि गमनमित्यर्थः, रत्यधिगमात्तु परिश्रान्तायां पुनरावर्तनमित्यर्थोक्तं, यथा रतपरिश्रान्तेन साहायकार्थं पुरुषायितेऽनुमन्यते, तथा तत्स्वभावप्रतिपत्त्यर्थमिति ॥ २९ ॥
तत्र नियोज्येति दर्शयन्नाह—
भवन्ति चात्र श्लोकाः—
प्रच्छादितस्वभावाऽपि गूढाकाराऽपि कामिनी ।
विवृणोत्येव भावं स्वं रागादुपरिवर्तिनी ॥ ३० ॥
प्रच्छादितस्वभावाऽपीति । लज्जया प्रच्छादितोऽभिप्रायो यया, कथमित्याह—गूढाकारेति । अभिप्रायसूचकस्याकारस्य गोपितत्वात्, साऽप्युपरिवर्तिनी कामिनी कामयमाना स्वभावमात्मीयमभिप्रायं रागात्प्रकाशयति न गूहितं शक्नोत्यतो नियोज्या ॥ ३० ॥
तदेव स्फुटयन्नाह—
यथाशीला भवेन्नारी यथा च रतिलालसा ।
तस्या एव विचेष्टाभिस्तत्सर्वमुपलक्षयेत् ॥ ३१ ॥
यथाशीलेति । यादृशः स्वभावो यस्याः, यथा च रतिलालसा, येन प्रकारेण रतौ जाततृष्णा, तस्या उपरिवर्तिन्या विचेष्टाभिस्तत्प्रकाराभिः, तत्सर्वमिति । शीलं रतिप्रकारं च सर्वमुपलक्षयेद्, येनोत्तरकाले तथैव सुरते समुपक्रमेत ॥ ३१ ॥
पुरुषायितं सप्तदशं प्रकरणम् ।
९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १४१
तत्रापवादमाह—
न त्वेवर्त्तौ न प्रसूतां न मृगीं न च गर्भिणीम् ।
न चातिव्यायतां नारीं योजयेत्पुरुषायिते ॥ ३२ ॥
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
पुरुषोपसृप्तानि पुरुषायितं चाष्टमोऽध्यायः ॥
आदितस्त्रयोदशः ।
न त्वेवेति । ऋतौ न योजयेद्, गर्भाग्रहणभयात्, पुनरावर्तने च गर्भग्रहणाद्दारकदारिके व्यस्तशीले स्यातां, न प्रसूतामचिरप्रसूताम् प्रदरकटिनिर्गमभयाद्, न मृगीं वृषाश्वयोरवपाटिकाभयाद्, न गर्भिणीं गर्भस्रावभयाद्, नातिव्यायतामतिस्थूलां व्यापारयितुमशक्यत्वात् ॥ ३२ ॥
पुरुषायितं सप्तदशं प्रकरणम् ।
तदन्तर्गतानि पुरुषोपसृप्तान्यष्टादशं प्रकरणम् ॥
इति श्रीवात्स्यानीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे पुरुषायितं पुरुषोपसृप्तानि चाष्टमोऽध्यायः ।
नवमोऽध्यायः ॥
आलिङ्गनादिपुरुषायितान्तं चतसृषु नायिकासूक्तं, 'तृतीयाप्रकृतिः पञ्चमीत्येके' इत्युक्तं, तद्विषयमौपरिष्टकमुच्यते द्विविधेत्यादिना—
द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च ॥ १ ॥
तृतीयाप्रकृतिः = नपुंसकं, स्त्रीरूपिणी = स्त्रीसंस्थाना स्तनादियोगात्, पुरुषसंस्थाना श्मश्रुलोमादियोगाद्, यद्वृत्तिमाश्रित्यौपरिष्टकमनयोस्तदुच्यते ॥ १ ॥
तत्र पूर्वमधिकृत्याह—
तत्र स्त्रीरूपिणी स्त्रिया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धतामसहिष्णुतां व्रीडां चानुकुर्वीत ॥ २ ॥
तत्रेति । तयोः सम्यक्स्त्रीत्वख्यापनार्थं तावत्स्त्रीधर्मानुकरणं, तत्र वेषः केशपरिधानादिविन्यासेन, आलापं = काकल्यनुगतं, लीलां = मन्थरादिगमनम्, भावं = हासादिकम्, मृदुत्वम् = अकार्कश्यम्, भीरुत्वं = भयशीलताम्, मुग्धताम् = ऋजुताम्, असहिष्णुतां = प्रहणनवातातपाद्यक्षमताम्, व्रीडां = लज्जाम्, अनुकुर्वीत ॥ २ ॥
१४२ सटीक कामसूत्रे [ २ अधिकरणे,
तस्या वदने जघनकर्म तदौपरिष्टकमाचक्षते ॥ ३ ॥
तस्या इति । स्त्रीधर्माननुकुर्वन्त्याः, वदने=मुखे, जघनकर्मेति । स्वरू- पारूढानं, भगे लिङ्गेन यत्कर्म तन्मुखे क्रियमाणमौपरिष्टकम्, आचक्ष- त इति । पूर्वाचार्यकृतेयं संज्ञा, उपरिष्टान्मुखे भवतीत्यण्- 'अव्ययानां- भमात्रे टिलोपः' पश्चात् 'संज्ञायां कन्', 'अमेहकतसिन्नेभ्य एव' इति परिगणनाद्यत्र भवति ॥ ३ ॥
फलमाह—
सा ततो रतिमाभिमानिकीं वृत्तिं च लिप्सैद् वेश्यावच्चरितं- प्रकाशयेदिति स्त्रीरूपिणी ॥ ४ ॥
सा तत इति । औपरिष्टकाद्रतिं प्रीतिमाभिमानिकीं प्रागुक्तलक्ष- णाम्, वृत्तिं=जीविकाम् भाटीलाभाद्, चरितमिति । वेश्याया वृत्तं वै- शिके वक्ष्यति, तद्वेश्येव प्रकाशयन्ती गम्यैरभिगम्यमाना रतिं वृत्तिं च प्राप्नोति ॥ ४ ॥
द्वितीयामधिकृत्याह—
पुरुषरूपिणी तु प्रच्छन्नकामा पुरुषं लिप्समाना संवाहकभा- वमुपजीवेत् ॥ ५ ॥
तुशब्दो विशेषणार्थः, रतिरौपरिष्टकं च तुल्यं; वृत्तं तु पृथगिति यदाह-प्रच्छन्नकामेति । आभिमानिकी प्रीतिः कामः, स प्रच्छन्नो यस्याः सा पुरुषरूपिणीत्वात्पुरुषेण सहसा न सम्प्रयुज्यत इति लब्धुमिच्छन्ती, संवाहकभावमुपजीवेदिति । लोकेऽङ्गमर्दनकर्मणा जीवेदित्यर्थः ॥ ५ ॥
एवमपि विश्वासाभावात्कथं रतिरिति विश्वासनाथर्माह—
संवाहने परिष्वजमानेव गात्रैरूरू नायकस्य मृद्नीयात्, प्र- सृतपरिचया चोरूमूलं सजघनमभिसंस्पृशेत् ॥ ६ ॥
संवाहने संविष्टस्य नायकस्योरू स्वगात्रैरुपवृत्तपरिचयत्वादुपगूह- मानेव मृद्नीयाद्, एवं मृदन्ती प्रसृतपरिचया चेदूरूमूलमपि संस्पृशेत्, सजघनमिवि । लिङ्गस्थानं त्यक्त्वा सह जघनस्य स्तोकेन भागेनो- रूमूलमित्यर्थः ॥ ६ ॥
तत्र स्थिरलिङ्गतामुपलभ्य चास्य पाणिमन्थेन परिघट्टयेत् चापलमन्य कुत्सयन्तीव हसेत् ॥ ७ ॥
स्थिरलिङ्गतामिति । सजघनभागोरूमूलसंस्पर्शात्स्तब्धलिङ्गताम्, पाणिमन्थेनेति । आगोपालादिप्रतीतेन लिङ्गं घट्टयेद्, न यथा कथञ्चित्,
९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १४३
९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १४३
चापलं कुत्सयन्तीवेति । ईदृशस्त्वं चपलो यदूरुस्पर्शमात्रेण स्तब्धलिङ्गोऽसीति निन्दयन्ती स्वाभिप्रायख्यापनार्थं हसेन्न तु रुष्यात् ॥ ७ ॥
कृतलक्षणेनाप्युपलब्धवैकृतेनापि न चोद्यत इति चेत् ? स्वयमुपक्रमेत पुरुषेण च चोद्यमाना विवदेत कृच्छ्रेण चाभ्युपगच्छेत् ॥८॥
कृतलक्षणेनापीति । स्तब्धलिङ्गत्वं रागस्य लक्षणं तत्कृतं यस्य नायकस्य, उपलब्धवैकृतेनेति । ज्ञातमुखचापलेन यदि न चोद्यते कुरु मुखचापलमिति, तदा तस्मिन्स्वयमेव विना चोदनयोपक्रमेत, पुरुषेण तूपलब्धवैकृतेनानुपलब्धवैकृतेन वा चोद्यमाना नाहमेवंविधकर्मेति सहसाऽङ्गीकारप्रतिषेधार्थं विवदेत, तदेव स्फुटयति—कृच्छ्रेण चेति । स्त्रीरूपिणी तु प्रकटकामत्वाच्चोदिताऽप्यादित एवोपक्रमेत ॥ ८ ॥
तस्य क्रियाभेदाद् भेदमाह—
तत्र कर्माष्टविधं समुच्चयप्रयोज्यं निमितं पार्श्वतो दष्टं बहिःसन्दंशोऽन्तःसन्दंशश्चुम्बितकं परिमृष्टकमाम्म्रचूषितकं सङ्गर इति ॥९॥
तत्रेति । औपरिष्टके, समुच्चयप्रयोज्यमिति । क्रमेण सर्वं समुच्चयेन योज्यमित्यर्थः ॥ ९ ॥
तत्रापि नात्माभिप्रायेणेत्याह—
तेष्वेकैकमभ्युपगम्य विरामाभीप्सां दर्शयेत् ॥ १० ॥
तेष्विति । निमितादिषु, एकैकं प्रथमात्प्रभृत्यभ्युपगम्य कृत्वा; परित्यागेच्छां दर्शयेत्, कौतुकजननार्थमभ्यर्थनयाऽपरं प्रयोक्ष्यामीति ॥ १०॥
नायकेऽस्मिन्नभ्युपगते किं प्रतिपद्यत इत्याह—
इतरश्च पूर्वस्मिन्नभ्युपगते तदुत्तरमेवापरं निर्दिशेत् तस्मिन्नपि सिद्धे तदुत्तरमिति ॥ ११ ॥
इतरश्चेति । नायकः, पूर्वस्मिन्निति । निमिते, तदुत्तरमिति । तस्मान्निमितादन्तरं पार्श्वतो दष्टं, निर्दिशेदिदं च कुर्विति, तस्मिन्नपि पार्श्वतो दष्टे क्रियया सिद्धे तदुत्तरं बहिःसन्दंशमिति, अनेन क्रमेण सर्वं समुच्चयेन निर्दिशेत्, स्वरागपरिसमाप्त्यर्थं, तस्माच्चाभिमानिकसुखजननार्थं नायिकाऽपि तथैव प्रयुञ्जीतेत्ययं चोदनायां विधिः, स्वयमुपक्रमे तु स्वाभिप्रायेणैव समुच्चयप्रयोज्यम् ॥ ११ ॥
तत्कर्म द्विविधम्—बाह्यमाभ्यन्तरं च, तत्र बाह्यमाह—
करावलम्बितमोष्ठयोरुपरि विन्यस्तमपविध्य मुखं विधुनुयात् तन्निमितम् ॥ १२ ॥
१५४ सटीके कामसूत्रे [२ अधिकरणे,
करावम्बितमिति। अवनमनवारणार्थं करेण गृहीतम्, ओष्ठयोरुपरि विन्यस्तमग्रभागेनापविध्योष्ठेन वर्तुलकृतेनावष्टभ्य; मुखं स्वं विधुनुयात्कम्पयेद्, ओष्ठयोरुपरि विन्यस्तत्वाच्चिम्मितम् ॥ १२ ॥
हस्तेनाग्रमवच्छाद्य पार्श्वतो निर्दशनमोष्ठाभ्यामवपीड्य भवत्वेतावदिति सान्त्वयेत् तत्पार्श्वतो दष्टम् ॥ १३ ॥
हस्तेनावच्छाद्य मुष्टिग्रहणेन, ततः पार्श्वतो लिङ्गमॊष्ठाभ्यामवपीड्य, निर्दशनमिति। क्रियाविशेषं, दन्तवर्जमित्यर्थः, दन्तैस्तु ग्रहणमस्ति, यदाह—भवत्वेतावदिति । एतावदेवास्तु यद् ग्रहणं, नापरं खण्डनमिति सान्त्वयेत् ॥ १३ ॥
भूयश्चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव मुञ्चेदिति बहिःसन्दंशः ॥ १४ ॥
भूयश्चोदितेति। पार्श्वतो दष्टे सञ्चोदिता पुनरन्यत्र चोदिता, स्वयमुपक्रमे त्वचोदितैव संमीलितौष्ठी लिङ्गस्याग्रमन्तः प्रवेश्य; मीलितावोष्ठौ यया सा, ताभ्यामेव निष्पीड्य कर्षयन्तीव मुञ्चेदिति । ओष्ठाभ्यामेवास्य कर्षणं कुर्वाणेव त्यजेदित्यर्थः, बहिःसन्दंशश्चभ्र्मणो बहिःसन्दंशनात् ॥ १४ ॥
आभ्यन्तरमाह—
तस्मिन्नेवाभ्यर्थनया किञ्चिदधिकं प्रवेशयेत् साऽपि चाग्रमोष्ठाभ्यां निष्पीड्य निष्ठीवेदित्यन्तःसन्दंशः ॥ १५ ॥
तस्मिन्निति। बहिःसन्दंशे क्रियमाणे, अभ्यर्थनया याचनया, किञ्चिदधिकमिति । निष्कास्य ग्रन्थि यावन्नायकः प्रवेशयेदित्ययं चोदनापक्षः, स्वयमुपक्रमे तु किञ्चिदधिकं प्रवेश्याग्रं मणिबन्धमोष्ठाभ्यां निष्पीड्य; निष्ठीवेद्=निरस्येद्, अन्तःसन्दंशो निष्कोशितस्य संदंशनात्॥१५॥
करालम्बितस्यौष्ठवद्ग्रहणं चुम्बितकम् ॥ १६ ॥
ओष्ठवदिति । यथाऽधरोष्ठस्यौष्ठाभ्यां ग्रहणं, तथा निष्कोशितस्येति चुम्बितकं, समग्रग्रहणांख्यम् ॥ १६ ॥
तत्कृत्वा जिह्वाऽग्रेण सर्वतो घट्टनमग्रे च व्यधनमिति परिमृष्टकम् ॥ १७ ॥
तदिति । चुम्बितकं कृत्वा, अन्यथा ह्ययोगाद् जिह्वाऽग्रेणान्तः परिभ्रमता सर्वतो घट्टयेत्स्पृशेद् , अग्रे च व्यधनं स्रोतःस्थाने ताडनं जिह्वाऽग्रेणैव, परिमृष्टकं समन्तात् स्पर्शनात् ॥ १७ ॥
९ अध्याये ] औपरिष्टकप्रकरणम् । १४५
तथाभूतमेव रागवशादर्धप्रविष्टं निर्दयमवपीड्यावपीड्य मुखे- दिश्याग्रचूषितकम् ॥ १८ ॥
तथाभूतमेवेति । निष्कोशितमेव, रागवशादिति । नायकस्य रागा- धिक्यात्, तदर्धप्रविष्टं ग्रन्थमतीत्य प्रविष्टं, निर्दयमत्यन्तम्, अवपीड्या- वपीड्येति । जिह्वौष्ठपुटेन द्वित्रिरवपीड्यावपीड्य मुखेऽभ्यन्तर एव, तदाम्रस्येव चूषितकम् ॥ १८ ॥
पुरुषाभिप्रायादेव गिरेत्पीडयेच्चापरिसमाप्तेरिति संगरः ॥ १९ ॥
पुरुषाभिप्रायादेवेति । पुरुषाभिप्रायमेव बुद्ध्वा; प्रत्यासन्नाऽस्य रतिरिति, गिरेत् पीडयेच्चेति । जिह्नाव्यापारेण पीडयित्वा गिरेद्, ओष्ठव्यापारेण पीडयेद्, आसमाप्तेरिति । शुक्रविसृष्टिं यावत्, सङ्गरः- समन्ताद् गिरणात् ॥ १९ ॥
यथार्थं चात्र स्तननप्रहणनयोः प्रयोग इत्यौपरिष्टकम् ॥२०॥
यथार्थमिति । यथा रागो निमितादिषु मृदुमध्याधिमात्रादिभेदेन स्थितस्तथा स्तननप्रहणनयोः प्रयोगः, आलिङ्गनादीनामत्रासम्भवाद्, इत्यौपरिष्टकमिति। एवं विषयस्वरूपफलवृत्तिप्रकारैरोपरिष्टकमुक्तम्॥२०॥
देशसात्म्यवशाद्विषयेऽप्यस्य वृत्तिरिति दर्शयन्नाह—
कुलटाः स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति॥२१॥
कुलटा इति । यः स्वकुलादन्यद्देशसदृशमटन्त्यो भ्रष्टशीलास्ताः- कुलटाः, याः सदृशमसदृशं वा कुलमविचार्य, स्वच्छन्दचारिण्यस्ताः- स्वैरिण्यः, या अन्यपूर्वा वा मुक्तप्रग्रहा नायकमुपचरन्ति ताः परिचा- रिकाः, याः संवाहनकर्मणा जीवन्ति ताः संवाहिकाः, एतत्प्रयोजय- न्तीत्यौपरिष्टकं कारयन्ति, न केवलं तृतीया प्रकृतिरित्यपिशब्दार्थः ॥२१॥
तदेतत्तु न कार्यं समयविरोधादसभ्यत्वाच्च पुनरपि ह्यासां वदनसंसर्गे स्वयमेवार्तिं प्रपद्येतेत्याचार्याः ॥ २२ ॥
तदेतत्तु न कार्यमिति । प्रयोज्यमानमपि, समयविरोधादिति । धर्म- शास्त्रे प्रतिषिद्धमेतद्, 'न मुखे मेहेत' इति, असभ्यत्वाच्चेति । सद्भि- र्विगर्हितत्वादसभ्यत्वं, तस्मादसभ्यत्वात्, प्रयोक्तुरप्यसभ्यत्वं दृष्ट एव दोषः, अयं चापर इत्याह—पुनरपि हीति । यदि हि कुलटाऽऽदीनां मुखे जघनकर्म कुर्यात्तदा पुनरपि जघनकर्मकाले रागवशाद्वदनस्य संसर्गे संस्पर्शे सत्यर्तिं प्रतिपद्येत दुःखमधिगच्छेद्, विचलितोऽस्मीति, स्वयमेवेति । न तत्र नायिकाऽपि ॥ २२ ॥
१९ का० सू०