भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

॥ काशिका ॥ ४ ॥ २ ॥ ३१३ ॥ विरह । नासिका । संकाशादिः ॥ बलादिभ्यो यः प्रत्ययो भवति । बल्यः । कुल्यम् । बल । मुज । तुल । उल । डुल । कलस । वन । कुल । बलादिः ॥ पत्तादिभ्यः फक् प्रत्ययो भवति । पात्तायनः । तैषायनः । पत्त । तुष । शण्ड । काकलिक । चित्र । अश्मन् । अलिस्वन् । पथिन्यन्थ च । * पत्तादिः ॥ कणी- दिभ्यः फिञ्प्रत्ययो भवति । कार्णायनिः । वासिष्ठायनिः । कर्ण । वसिष्ठ । अलुश । अल । हुप्रद । आनडुह । पाञ्चजन्य । स्थिरा । कुलिश । कुम्भी । जीवन्ती । जित्व । आयडीधत † । कर्णादिः ॥ सुतङ्गमादिभ्य इञ्प्रत्ययो भवति । सौतङ्गमिः । मौनिचित्तिः । सुतङ्गम । मुनिचित्त । विप्रचित्त । महापुच्छ । श्वेत । गंडिक । शृङ्ग । शिय । बीजवापिन् । श्वन् । आर्जुन । अजिर । जीव । सुत- ङ्गमादिः ॥ प्रमदिग्वादिभ्यो ञ्यः प्रत्ययो भवति । प्रागम्व्यम् । प्रमदिन् । प्रम- दिन् । शरदिन् । कलिव । सडिव । गड्डिव । चूहार । मार्जार । कोविदार । प्रमद्वादिः ॥ वराहादिभ्यः कक् प्रत्ययो भवति । वाराहकम् । पालाशकम् । वराह । पलाश । शिरीष । पिन्नहु । स्थूण । विदग्ध । विजग्ध । विभग्न । बाहु । खदिर । शर्करा ‡ । वराहादिः ॥ कुमुदादिभ्यष्ठक् प्रत्ययो भवति । कौमुदिकम् । कुमुद । गोमय । रथकार । दशग्राम । अश्वत्थ । शाल्मली । कुण्डल । मुनिस्थूल । कूट । मुचुकर्ण § । कुमुदादिः ॥ शिरीषशब्दो ऽरीहणा- दिषु कुमुदादिषु वराहादिषु च पठ्यते, चौत्सर्गिकोपि तत इष्यते, तस्य च वर- हादिषु दर्शनाल्लुब्भवति । तथा चोक्तं शिरीषाणामदूरभवो ग्रामः शिरीषा, स्तस्य वनं, शिरीषवनमिति ॥ जनपदे लुप् ॥ ८१ ॥ देशे तन्नाम्नीति यश्चातुरर्थिकः प्रत्ययो भवति, तस्य देशविशेषे जनपदे ऽभिधेये लुब्भवति । ग्रामसमुदायो जनपदः । पञ्चालानां निवासो जनपदः, पञ्चालाः कुरवः । मत्स्याः । अङ्गाः । वङ्गाः । मगधाः । सुह्माः । पुण्ड्राः । इह कस्मान्न भवति । उदुम्बरा अस्मिन्सन्ति, औदुम्बरो जनपदः, वैदिशो ‖ जनपद, इति । तन्नाम्नीति वर्तते । न चात्र लुबन्तं तन्नामधेयं भवति ॥ वरणादिभ्यश्च ॥ ८२ ॥

  • कुम्भ । शौरज । सीरक । शरक । शलक । सरस । समल । रोमन् । लोमन् । शंखका । लोमक । सकृण्डक । अस्तिबल । यमल । हस्त । सिंहक । एते शब्दा अत्र गणे ऽधिकाः पुस्तकान्तरे ।
  • अर्क । लूप । स्फिक् । प्लाक्षत् । एते शब्दा अत्र गणे ऽधिकाः । ‡ विनष्ट । निखष्ट । विक्रष्ट । मूल । एते ऽत्र गणे ऽधिकाः पुस्तकान्तरे । § कुन्द । मधुकर्ण । सुचिकर्ण । शिरीष । इते ऽधिका अत्र पुस्तकान्तरे । ‖ वैदश इति पा० २ ।

३१४ ॥ काशिका ॥ ४ ॥ २ ॥ वरण इत्येवमादिभ्य उत्पद्यस्य चातुरर्थिकस्य प्रत्ययस्य लुब्भवति । अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं । वरणाः । शृङ्गी । शाल्म- लयः । चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति । कटुक*बदर्या अदूरभवो ग्रामः, कटुकबदरी । शिरीषाः । काञ्ची । वरणाः, पूर्वी गौदौ †। शालिङ्गायन । पर्णी । शृङ्गी । शाल्मलयः । सदावृक्षी । वणिकि । वणिक् । जालपद् । मधुरा । उज्जायिनी । गया । तक्षशिला । उरशा । आकृतिः ॥ शर्कराया वा ॥ ८३ ॥ शर्कराशब्दादुत्पद्यस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब्भवति । वायग्रहणं किम् । यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते । तत्र पाठसाम- र्थ्यात्प्रत्ययस्य पक्षे श्रवणं भविष्यति । एवं तर्ह्येतज् ज्ञापयति । शर्कराशब्दादौ- त्सर्गिको भवति, तस्यायं विकल्पितो लुबिति । शर्करा । शार्करम् । गणपाठाच्च श्रवणामुत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ तदेवं षड्रूपाणि भवन्ति । शर्करा । शार्करम् । शर्करिकम् । शार्करकम् । शार्करिकम् । शर्केरीयमिति ॥ ठञ्छौ च ॥ ८४ ॥ शर्कराशब्दाट्ठञ् छ इत्येतौ प्रत्ययौ भवतश्चातुरर्थिकौ । यथासंभवम- र्थसंबन्धः । शार्करिकम् । शर्केरीयम् ॥ नद्यां मतुप् ॥ ८५ ॥ नद्यामभिधेयायां मतुप्प्रत्ययो भवति चातुरर्थिकः । तन्नाम्नो देशस्य विशेषणं नदी । उदुम्बरा यस्यां सन्ति, उदुम्बरावती । मशकावती । वीरण- वती । पुष्करावती । इत्तुमती । द्रुमती । इह कस्मान्न भवति । भागीरथी भैमरथी । मतुबन्तस्यातन्नामधेयत्वात् ॥ मध्वादिभ्यश्च ॥ ८६ ॥ मधु इत्येवमादिभ्यः शब्देभ्यो मतुप्प्रत्ययो भवति चातुरर्थिकः । अन- द्यर्थ आरम्भः । मधुमान् । बिसवान् । मधु । बिस । स्थाणु । मुष्टि ‡ । रहु । वेणु । रम्य । चत्त । कर्कन्धु । शमी । किरीर । डिम । किंशरा । शर्यणा महत् । महथ । दार्वाघाट । शर । इष्टका । तक्षशिला । शक्ति । आसन्दी आसुति । शलाका । सामिधी । खडा । बेटा । मध्वादिः ॥ कुमुदनडवेतसेभ्यो ड्मतुप् ॥ ८७ ॥ कुमुद नड वेतस इत्येतेभ्यः शब्देभ्यो ड्मतुप् प्रत्ययो भवति चातुर्-


* कन्दुक । इति पा० २ । † पूर्व्या गोदी । अपरेण गोदो इति । पा० २ । ‡ सृष्टि । इति पा० २ ।

॥ काशिका ॥ ४ ॥ २ ॥ ३१५ र्थिकः । कुमुद्वान् । नड्वान् । वेतस्वान् ॥ महिषाच्चेति वक्तव्यम् ॥ * ॥ महि- षाणाम देशः ॥ नडशादाड् ड्वलच् ॥ ८८ ॥ नडशादशब्दाभ्यां ड्वलच् प्रत्ययो भवति चातुरर्थिकः । यथासंभवमर्थसं- बन्धः । नड्वलम् । शाद्वलम् ॥ शिखाया वलच् ॥ ८९ ॥ शिखाशब्दाद्वलच् प्रत्ययो भवति चातुरर्थिकः । यथासंभवमर्थसंबन्धः । शिखावलं नामनगरम् । मतुप्प्रकरणेपि शिखाया वलञ् वक्ष्यति । तददेशार्थं वचनम् ॥ उत्करादिभ्यश्छः ॥ ९० ॥ उत्कर इत्येवमादिभ्यश्छः प्रत्ययो भवति चातुरर्थिकः । यथासंभवमर्थ- संबन्धः । उत्करीयम् । शफरीयम् । उत्कर । संफल * । शफर । पिप्पल । पिप्प- लीमूल । अश्मन् । अर्क । पर्ण । सुपर्ण । खलाजिन । रहा । अग्नि । तिक । कितव । आतप । अनेक । पलाश । सुशव । पिचुन्द । अश्वत्थ । शकात्तुङ्गु । भस्त्रा । विशाला । अवरोहित । गर्त्त । शाल । अन्य । अन्या । अजिन । मञ्च । चर्मन् । उत्क्रोश । शान्त । खदिर । शूर्पणाय । श्यावनाय । नैव । बक । नितान्त । वृत्त । इन्द्रवृत्त । आर्द्रवृत्त । अर्जुनवृत्त । उत्करादिः ॥ नडादीनां कुक् च ॥ ९१ ॥ नड इत्येवमादीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः । यथा- संभवमर्थसंबन्धः । नडकीयम् । प्लक्षकीयम् । नड । प्लक्ष । बिल्व । वेणु । वेत्र । वेतस । तृण । इक्षु । काष्ठ । कपोत ॥ क्रुञ्चाया ह्रस्वत्वं च ॥ तत्तचलोपश्च ॥ शेषे ॥ ९२ ॥ शेषइत्यधिकारोयम् । यानिह ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषेर्थे ते वेदि- तव्याः । उपयुक्तादन्यः शेषः । अपत्यादिभ्यश्चतुर्थपर्यन्तेभ्योऽन्योऽर्थः शेषः, तस्मिं- र्ढविशेषा ह्यपत्यसमूहादयस्तेषु घादयो मा भूवन्निति शेषाधिकारः क्रियते। किं च सर्वेषु जातादिषु घादयो यथा स्युरनन्तरेणैवार्थादेशेन संबन्धित्वेन कृतार्थता मा ज्ञायीति साकल्यार्थं शेषवचनम् । वक्ष्यति । राष्ट्रावारपाराद् घखौ । राष्ट्रियः । अवारपारीणः । शेषइति लक्षणं चाधिकारश्च । चक्षुषा गृह्यते, चाक्षुषं रूपम् । श्रावणः शब्दः † । दृषदि पिष्टाः, दार्षदा सक्तवः । उलूखले सुतः, औलूखलो

  • संकर । इति पा० २ । † श्रावणो रसः । स्पार्शनः स्पर्शः । इत्येकस्मिन्पुस्तके ऽधिकम् ।

३१६ ॥ काशिका ॥ ४ । २ ॥ याश्वर्कः । आश्वैरुह्यते, आश्वो रथः । चतुर्भिर्वाह्यते, चातुरं शकटम् । चतुर्दश्यां दृश्यते, चातुर्दशं रक्ष इति ॥ राष्ट्रावारपाराद् घखौ ॥ ९३ ॥ राष्ट्र अवारपार इत्येताभ्यां यथासंख्यं घखावित्येतौ प्रत्ययौ भवतः । राष्ट्रियः । अवारपारीणः ॥ विगृहीतादपीष्यते ॥ अवारीणः । पारीणः ॥ विप- रीताच्च ॥ पारावारीणः । प्रकृतिविशेषोपादानमात्रेण तावत्प्रत्यया विधीयन्ते । तेषां तु जातादयोऽर्थाः समर्थविभक्तयश्च पुरस्ताद्वक्ष्यन्ते ॥ ग्रामाद्यखञौ ॥ ९४ ॥ ग्रामशब्दाद्य खञ् इत्येतौ प्रत्ययौ भवतः । ग्राम्यः । ग्रामीणः ॥ कत्र्यादिभ्यो ढकञ् ॥ ९५ ॥ कत्रि इत्येवमादिभ्यो ढकञ् प्रत्ययो भवति । कात्रियेकः । श्रौम्भेयकः । कत्रि । उम्भि । पुष्कर । पुष्कल । मोदन । कुम्भी । कुण्डिन । नगर । वञ्जी । भक्ति । माहिष्मती । चर्मण्वती * । ग्राम । उख्या ॥ कुल्याया यलोपश्च कत्र्यादिः ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ॥ ९६ ॥ कुलकुक्षिग्रीवाशब्देभ्यो यथासंख्यं श्वन् असि अलंकार इत्येतेषु जाता- दिष्वर्थेषु ढकञ् प्रत्ययो भवति । कौलेयको भवति श्वा चेत् । कौलेयः । कौक्षेयको भवत्यसिश् चेत् । कौक्षेयः । ग्रैवेयको भवत्यलंकारश्चेत् । ग्रैवेयः नद्यादिभ्यो ढक् ॥ ९७ ॥ नदी इत्येवमादिभ्यो ढक् प्रत्ययो भवति । नादेयम् । माहेयम् । नगरीशब्दोऽत्र पठ्यते । पौर्वनगरेयम् । के चित् पूर्वनगिरीति पठन्ति, विशेषात् च प्रत्ययं कुर्वन्ति । पौरेयम् । वानेयम् । गैरियमिति । तदुभयमपि दर्श- नप्रमाणम् । नदी । मही । वाराणसो । श्रावस्ती । कौशाम्बी । नवकौशाम्बी काशफरी । खादिरी । पूर्वनगरी । पावा । मावा । साल्वा । दावी । दात्वी । वासेनकी ॥ वडवाया वृषे ॥ दक्षिणापश्चात्पुरसस्त्यक् ॥ ९८ ॥ दक्षिणा पश्चात् पुरस् इत्येतेभ्यस्त्यक् प्रत्ययो भवति शैषिकः । दाक्षि- णात्यः । पाश्चात्यः । पौरस्त्यः । कापिश्याः ण्फक् ॥ ९९ ॥

  • चर्मती । इति पा० २ ।

॥ काशिका ॥ ४ ॥ २ ॥ ३१२ कापिशीशब्दात् फक् प्रत्ययो भवति शैषिकः। षकारो ङीबर्थः। कापि- शायनं मधु। कापिशायनी द्राक्षा॥ बाहूत्थार्दिभ्यश्चेति वक्तव्यम् ॥ * ॥ बाह्वायनी। चौड्ढायनी। क्षाद्रायनी ॥ रङ्कोरमनुष्ये ऽण् च ॥ १०० ॥ रङ्गुशब्दादण् प्रत्ययो भवति, चकारात्फक् शैषिको ऽमनुष्येभिधेये। राङ्कवो गौः। राङ्कवायणो गौः। अमनुष्य इति किम्। राङ्कवको मनुष्यः। ननु च रङ्कुशब्दः कच्छादिषु पठ्यते, तत्र च मनुष्यतत्स्थयोरवुञिति मनुष्ये परत्वाद्वु- ञैव भवितव्यं, कच्छादिपाठादमनुष्ये ऽपि सिद्धः, किमिह मनुष्यप्रतिषेधेना- ण्यहणेन च। तदुच्यते। नैवायं मनुष्यप्रतिषेधः किं तर्हि नञिवयुक्तन्यायेन मनुष्यसदृशे प्राणिनि प्रतिप

३१८ ॥ काशिका ॥ ४ ॥ २ ॥ अमेभ्यो निष्ठाश्चण्डालादिः ॥ आविसश्छन्दसि ॥ * ॥ आविसशब्दाच्च छन्दसि त्यप् प्रत्ययो भवति। आविष्ट्यो वर्तते ॥ आरण्यायणो वक्तव्यः ॥ * ॥ आरण्याः सुमनसः ॥ दूरादेत्यः ॥ * ॥ दूरेत्यः पथिकः ॥ उत्तरादाहञ् ॥ * ॥ औत्तराहः ॥ ऐषमोह्यःश्वसो ऽन्यतरस्याम् ॥ १०५ ॥ ऐषमस् ह्यस् श्वस् इत्येतेभ्यो ऽन्यतरस्यां त्यप् प्रत्ययो भवति शैषिकः। ऐषमस्त्यम्। ऐषमस्तनम्। ह्यस्त्यम्। ह्यस्तनम्। श्वस्त्यम्। श्वस्तनम्। श्वसस्तुट् चेति ठजपि तृतीयो भवति। शौवस्तिकम् ॥ तीररूप्योत्तरपदादञ्ञौ ॥ १०६ ॥ तीरोत्तरपदाद् रूप्योत्तरपदाच्च प्रातिपदिकाद्यथासंख्यमञ् ञ इत्येतौ प्रत्ययौ भवतः शैषिकौ। अणोऽपवादौ। काकतीरम्।

Here is the complete, line-by-line transcription of the page into pure, clean Devanagari Markdown:

भवति शैषिकः । उदीच्यग्रामलक्षणस्याञोऽपवादः । माद्रीप्रस्थः । माहकीप्रस्थः । पलद्यादिभ्यः । पालदः । पारिषदः । ककारोपधात् । नैलीनकः । चैयातकः * । पलद्यादिषु यो वाहीकग्रामस्ततश्छण्ठञोरपवादः । यथा । गोष्ठी, नैतकी- ति † । गोमतीशब्दः पठ्यते, ततो रोपधेतोः प्राचामिति वुञोपवादः । वाही- कशब्दः कोपधोऽपि पुनः पठ्यते परं छं बाधितुम् । अण्ग्रहणम् बाधकबा- धनार्थम् । पलदी । परिषत् । यकृल्लोमन् । रोमक । कालकूट । पटच्चर । वाहीक । फलकीट । मलकीट । कमलकीट । कमलभिदा । कमलकीर । बाहुकीट । नैतकी । परिखा । शूरसेन ॥ गोमती । उदयान ‡ । पलद्यादिः ॥ कण्वादिभ्यो गोत्रे ॥ १११ ॥ गोत्रमिह न प्रत्य

३२० ॥ काशिका ॥ ४ ॥ २ ॥ गोत्रइति नानुवर्त्तते । सामान्येन विधानम् । वृद्धात्प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । गार्गीयः । वात्सीयः । शालीयः । मालीयः । अव्ययतीररूपयोत्तरपदोदीच्यामकोपधाद्विधौस्तु परत्वादूबाध्यते ॥ भवतष्ठक्छसौ ॥ ११५ ॥ वृद्धादित्येव । भवच्छब्दाद् वृद्धात् ठक्छसौ प्रत्ययौ भवतः शैषिकौ । छस्यापवादौ । सकारः पदसंज्ञार्थः । भवतस्त्यदादित्वाद् वृद्धसंज्ञा । भावत्कः । भवदीयः । अवृद्धात्तु भवतः शतुरणैव भवति । भावतः ॥ काश्यादिभ्यष्ठञ्जिठौ ॥ ११६ ॥ काशि इत्येवमादिभ्यष्ठञ् ञिठ इत्येतौ प्रत्ययौ भवतः शैषिकौ । इकार उच्चारणार्थः । ञकार एवोभयत्र विपर्यस्तदेशोऽनुबन्धः । स्त्रीप्रत्यये विशेषः । काशिकी । काशिका । वैदिकी । वैदिका । वृद्धादित्यनुवर्त्तते, ये त्ववृद्धाः पठ्यन्ते वचनप्रामाण्यात्तेभ्यः प्रत्ययविधिः । देवदत्तशब्दः पठ्यते तस्य एङ् प्राचां देशइति वृद्धसंज्ञा । दैवदत्तिकः । वाहीकग्रामस्य तु नास्ति वृद्धसंज्ञा । दैवदत्तः । कथं भाष्यउदाहृतं वा नामधेयस्य वृद्धसंज्ञा वेदितव्या देवदत्तीया दैवदत्ता इति, यावता वृद्धसंज्ञापत्ते काश्यादित्वात् ठञ्जिठाभ्यां भवितव्यम् । तत्रैवं वर्णयन्ति वा नामधेयस्येति व्यवस्थितविभाषेयं, सा छे कर्त्तव्ये भवति ठञ्जिठयोर्न भवतीति । काशि । चेदि * । संज्ञा । संवाह । अच्युत । मोह- मान । शकुलाद । हस्तिकर्षू । कुदामन् † । हिरण्य । करण । गोधाशन मौरिकि । मौलिहि । अरिन्दम । सर्वमित्र । देवदत्त । साधुमित्र । दासमित्र । दासग्राम । सौधावतान । युवराज । उपराज । सिन्धुमित्र । देवराज ॥ आपत्- कादिपूर्वपदात्कालान्तात् ॥ आपत्कालिकी । आपत्कालिका । और्ध्वकालिकी । और्ध्वकालिका । तात्कालिकी । तात्कालिका ॥ वाहीकग्रामेभ्यश्च ॥ ११७ ॥ वृद्धादित्येव । वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्जिठौ प्रत्ययौ भवतः शैषिकौ । छस्यापवादौ । शाकलिकी । शाकलिका । मान्त्विकी । मान्त्विका ॥ विभाषोशीनरेषु ॥ ११८ ॥ वृद्धादिति वर्तते, वाहीकग्रामेभ्य इति च । उशीनरेषु ये वाहीकग्रामास्त- द्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यो विभाषा ठञ्जिठौ प्रत्ययौ भवतः । आहुजासि- की। आहुजालिका। आहुजालीया। सौदर्शनिकी। सौदर्शनिका। सौदर्शनीया ॥

  • चेदीति पा० २ । † कुनामन्निति पा० २ ।

॥ काशिका ॥ ४ ॥ २ ॥ ३२१ ओर्देशे ठञ् ॥ ११९ ॥ वृद्धादिति नानुवर्त्तते । उत्तरसूत्रे पुनर्वृद्धग्रहणात् । उवर्णान्ताद् देश- वाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः । नैवादर्कुकः । शाबर- जम्बुकः * । देश इति किम् । पटोश्छात्राः, पाटवाः । ठञिठञोः प्रकरणे ठञः केवलस्यानुवृत्तिर्न लभ्यत इति ठञ्ग्रहणं कृतम् ॥ वृद्धात्प्राचाम् ॥ १२० ॥ ओर्देशे इत्येव । उवर्णान्ताद् वृद्धात्प्राग्देशवाचिनः प्रातिपदिकाट्ठञ् प्रत्ययो भवति शैषिकः । आढकजम्बुकः । शाकजम्बुकः † । नापितवासुकः । पूर्वेणैव ठञि सिद्धे नियमार्थं वचनं वृद्धादेव प्राचामवृद्धाच्च भवतीति । मल्ल- वास्तु । माल्लवास्त्वः ॥ धन्वयोपधाद्बुञ् ॥ १२१ ॥ वृद्धादिति वर्तते, देशइति च । धन्ववाचिनो यकारोपधाच्च देशाभि- धायिनो वृद्धात्प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः । धन्वशब्दो मरुदेश- वचनः । पारेधन्वकः । ऐरावतकः । योपधात् । सांकाश्यकः । काम्पिल्यकः ॥ प्रस्थपुरवहान्ताच्च ॥ १२२ ॥ वृद्धादित्येव, देशइति च । अन्तशब्दः प्रत्येकमभिसंबद्ध्यते । प्रस्थ पुर वह इत्येवमन्ताद्देशवाचिनः प्रातिपदिकाद्वृद्धाद्वुञ् प्रत्ययो भवति शैषिकः । ञस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । कान्तीपुरकः । पैलुवहकः । फाल्गुनीवहकः । पुरान्तो रोपधस्तत उत्तरसूत्रेणैव सिद्धमप्रागर्थमिह ग्रहणम् ॥ रोपधेतोः प्राचाम् ॥ १२३ ॥ वृद्धादित्येव, देशइति च । तद्विशेषणं प्राग्ग्रहणम् । रोपधादीकारा- न्ताच्च प्राग्देशवाचिनो वृद्धाद्बुञ् प्रत्ययो भवति शैषिकः । ञस्यापवादः । पाट- लिपुत्रकः । एकचक्रकः । ईतः खल्वपि । काकन्दी । काकन्दकः । माकन्दी । माकन्दकः । प्राचामिति किम् । दात्तामित्रीयः । तपरकरणं विस्पष्टार्थम् ॥ जनपदतदवध्योश्च ॥ १२४ ॥ वृद्धादित्येव, देशइति च । तद्विशेषणं जनपदतदवधी । वृद्धाज्जनपद- वाचिनस्तदवधिवाचिनश्च प्रातिपदिकाद्बुञ् प्रत्ययो भवति शैषिकः । ञस्याप- वादः । आभिसारकः । आर्देशकः । जनपदावधेः खल्वपि । चौपुष्टकः । श्यामा-

  • केष इति कृत्य इत्याधिकमेकस्मिन्पुस्तके । † शाकलजम्बुक इति पा० २ । २१

३२२ ॥ काशिका ॥ ४ ॥ २ ॥ यनकः । तदवधिरपि जनपद एव गृह्यते न ग्रामः । किमर्थं तर्हि ग्रहणं, बाध- कबाधनार्थं गर्त्तोत्तरपदाच्छं बाधित्वा वुञेव जनपदावधेर्भवति । नैर्गर्त्तकः ॥ अवृद्धादपि बहुवचनविषयात् ॥ १२५ ॥ जनपदतदवध्योरित्येव । अवृद्धाद्वृद्धाच्च जनपदात्तद्वधिवाचिनश्च बहु- वचनविषयात्प्रातिपदिकाद्वुञ् प्रत्ययो भवति शैषिकः । अण्कञ्योरपवादः । अवृद्धाज्जनपदात्तावत् । अङ्गाः । वङ्गाः । कलिङ्गाः । आङ्गकः । वाङ्गकः । कालिङ्गकः । अवृद्धाज्जनपदावधेः । अजमीढाः । अजक्रन्दाः । आजमीठकः । आजक्रन्दकः । वृद्धाज्जनपदात् । दार्वीः । जाम्ब्वः । दार्वकः । जाम्ब्वकः । वृद्धाज्जनपदावधेः । कालञ्जराः । वैकुलिशाः । कालञ्जरकः । वैकुलिशकः । विषयग्रहणमन्यत्र भावार्थम् । जनपदैकशेषबहुत्वे मा भूत् । वर्तन्यः । वार्त्तनः * । अपिग्रहणं किम् । यावता वृद्धात्पूर्वेणैव सिद्धं तक्रकौण्डिन्यन्या- येन बाधा मा विज्ञायीति समुच्चीयते ॥ कच्छाग्निवक्त्रगर्त्तोत्तरपदात् ॥ १२६ ॥ देशइत्येव । उत्तरपदशब्दः प्रत्येकमभिसंबध्यते । कच्छाद्युत्तरपदाद्देश- वाचिनः प्रातिपदिकाद्वृद्धादवृद्धाच्च वुञ् प्रत्ययो भवति शैषिकः । काद्यो-

॥ काशिका ॥ ४ ॥ २ ॥ ३२५ यातः । तीर्थे ॥ कूलात्सौवीरेषु ॥ समुद्रादणाव मनुष्ये च ॥ कुक्षि । अन्तरीप । द्वीप । अह्व। । उज्जयिनी । दक्षिणापथ । साकेत * ॥ नगरात्कुत्सनप्रावीण्‍ययोः ॥ १२८ ॥ नगरशब्दाद्वुञ् प्रत्ययो भवति शैषिकः कुत्सने प्रावी्‍ण्‍ये च गम्यमाने । प्रत्ययार्थविशेषणं चैतत् । कुत्सने प्रावीण्‍ये च जातादौ प्रत्ययार्थेऽति कुत्सनं निन्दनम् । प्रावीण्‍यं नैपुण्यम् ॥ केनायं मुषितः पन्था गात्रे भस्मालिधूसरः । इह नगरे मनुष्येण संभाव्यतएतन्नागरकेण । चौरा हि नागरका भवन्ति । केनेदं लिखितं चित्रं मनोनेत्रविकासि यत् । इह नगरे मनुष्येण संभाव्यतएतन्नागरकेण । प्रवीणा हि नागरका भवन्ति । कुत्सनप्रावीण्‍ययोरिति किम् । नागरा ब्राह्मणाः । कत्र्यादिषु तु संज्ञाशब्देन साहचर्यात्संज्ञानगरं पठ्यते, तस्मिन्नागरेयकमिति प्रत्युदाहार्यम् ॥ अरण्यान्मनुष्ये ॥ १२९ ॥ अरण्यशब्दाद्वुञ् प्रत्ययो भवति शैषिको मनुष्ये ऽभिधेये । औपसंख्या- निकस्य णास्यापवादः । आरण्यको मनुष्यः ॥ पथ्यध्यायन्‍यायविहारमनुष्यहस्ति- ष्विति वक्तव्यम् ॥ * ॥ आरण्यकः पन्थाः । आरण्यको ऽध्यायः । आरण्यको न्यायः । आरण्यको विहारः । आरण्यको मनुष्यः । आरण्यकोहस्ती ॥ वा गोम- येषु ॥ * ॥ आरण्या आरण्यका गोमयाः । एतेष्विति किम् । आरण्याः । पशवः ॥ विभाषा कुरुयुगन्धराभ्याम् ॥ १३० ॥ कुरु युगन्धर इत्येताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः। कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः । जनपदशब्दावेतो ताभ्यामवृद्धादपीति नित्ये वुञि प्राप्ते विकल्प उच्यते । कुरुशब्दः कच्छादिष्वपि पठ्यते तत्र वचनादणपि भविष्यति । परिशेष्याद्युगन्धरार्था विभाषा † । मनुष्यतस्थ्योस्तु कुरुशब्दाभि- त्येववुञ् प्रत्ययो भवति । कौरवको मनुष्यः, कौरवकमस्य हसितमिति ॥ मद्रवृज्योः कन् ॥ १३१ ॥ मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः । जनपदवुञोऽपवादः । मद्रेषु जातः, मद्रकः । वृजिकः ॥ कोपधादण् ॥ १३२ ॥

  • मानवस्ती । वस्तो । सुराज्ञी । इते ऽत्र गणे ऽधिकाः कुत्र चित् † शेषा युगन्धरार्था विभाषा । पा० २ ।

३२४ काशिका ॥ ४ । २ ॥ देशइत्येव । ककारोपधात्प्रातिपदिकादण् प्रत्ययो भवति शैषिकः । जनपदवुञोऽपवादः । अन्यत्र जनपदं मुक्त्वा पूर्वेणैव कोपधादणि सिद्धम् । ऋषिकेषु जातः, आर्षिकः । माहिषिकः । अण्ग्रहणमुवर्णान्तादपि स्यात् । इक्ष्वाकुषु जातः, ऐक्ष्वाकः ॥ कच्छादिभ्यश्च ॥ १३३ ॥ देशइत्येव । कच्छ इत्येवमादिभ्यो देशवाचिभ्यो ऽण् प्रत्ययो भवति शैषिकः । वुञादेरपवादः । काच्छः । सैन्धवः । वार्णवः । कच्छशब्दो न बहुवचनविषयस्तस्य मनुष्यतत्स्थयोर्वुञर्थः पाठः । विजापकशब्दः पठ्यते । तस्य कोपधत्वादेवाणि सिद्धे ग्रहणमुत्तरार्थम् । कच्छ । सिन्धु । वर्णु । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व । कुरु । रङ्कु । अण्ड * । खण्ड । द्वीप । अनूप । अजवाह । विजापक । कुलून । कच्छादिः ॥ मनुष्यतत्स्थयोर्वुञ् ॥ १३४ ॥ कच्छादिभ्य इत्येव । मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छा- दिभ्यो वुञ् प्रत्ययो भवति । अणोऽपवादः । काच्छको मनुष्यः । काच्छकमस्य हसितं जल्पितम् । काच्छिका चूडा । सैन्धवको मनुष्यः । सैन्धवकमस्य हसितं जल्पितम् । सैन्धविका चूडा । मनुष्यतत्स्थयोरिति किम् । काच्छो गौः । सैन्धवो वार्णवः ॥ अपदात्तौ साल्वात् ॥ १३५ ॥ साल्वशब्दः कच्छादिषु पठ्यते ततः पूर्वेणैव मनुष्यतत्स्थयोर्वुञि सिद्धे नियमार्थं वचनम् । अपदातावेव मनुष्ये मनुष्यस्थे साल्वशब्दाद्वुञ् प्रत्ययो भवति । साल्वको मनुष्यः । साल्वकमस्य हसितं जल्पितम् । अपदाताविति किम् । साल्वः पदातिर्व्रजति ॥ गोयवाग्वोश्च ॥ १३६ ॥ गवि यवाग्वां च जातादौ प्रत्ययार्थे साल्वशब्दाद्वुञ् प्रत्ययो भवति शैषिकः । कच्छाद्यणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् ॥ गर्त्तोत्तरपदाच्छः ॥ १३७ ॥ देशइत्येव । गर्त्तोत्तरपदाद्देशवाचिनः प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । वाहीकग्रामलक्षणं तु प्रत्ययं परत्वाद्व्याधते । वृकग- र्त्तीयम् । शृगालगर्त्तीयम् । श्वाविद्गर्त्तीयम् । उत्तरपदग्रहणं । बहुपूर्वन्निरासा- र्थम् । बाहुगर्त्तम् ॥

  • अयण्ड इति पा० २ ।

॥ काशिका ॥ ४ । २ ॥ ३२५ गहादिभ्यश्च ॥ १३८ ॥ गह इत्येवमादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति शैषिकः। अञो- रपवादः * । गहीयः । अन्तःस्थीयः । देशाधिकारेऽपि संभवापेक्षं विशेषणं न सर्वे- षाम् । मध्यमध्यमं चाण् चरणइति पठ्यते, तस्यायमर्थः । मध्यशब्दः प्रत्ययसन्नि- योगेन मध्यममापद्यते । मध्यमीयाः । चरणे तु प्रत्ययार्थे ऽण् भवति, माध्यमो दिति । तदेतद्विशेषएव स्मर्यते पृथिवीमध्यस्य मध्यमभावः । चरणसंबन्धेन निवा- सलक्षणो ऽणिति च ॥ मुखपार्श्वतसोर्लोपश्च ॥ मुखतीयम् । पार्श्वतीयम् ॥ कुग्ज- नस्य परस्य च ॥ * ॥ जनकीयम् । परकीयम् ॥ देवस्य चेति वक्तव्यम् ॥ * ॥ देव- कीयम् ॥ वेणुकादिभ्यश्छण्वक्तव्यः ॥ आकृतिगणोयम् । वेणुकीयम् । वैणुकी- यम् । औत्तरपदकीयम् । प्रास्थकीयम् †। माध्यमकीयम् । गह अन्तःस्थ । सम । विषम ॥ मध्यमध्यमं चाण्चरणे ॥ उत्तम । अङ्गु । वङ्गु । मगध । पूर्वपक्ष । अपर- पक्ष । अधमशाख । उत्तमशाख । समानशाख । एकयाम । एकवृत्त । एकपलाश । इष्वग्र । इष्वनी ‡ । शवस्यन्दी § । कामप्रस्थ । खाडायनि ॥ । कावेरणि ¶ । जैह्विरि । शौङ्गि । आसुरि । आर्हंसि । आमिचि । व्याडि । वैदजि । भौजि । बाहुश्र्वि । आनृशंसि । सौवि । पारकि । अग्निशर्मन् । देवशर्मन् । श्रौति । आरटकि । वाल्मीकि । चेमवृद्धित् । उत्तर । अन्तर ॥ मुखपार्श्वतसोर्लोपः ॥ जनपरयोः । कुक् च ॥ देवस्य च ॥ वेणुकादिभ्यश्छण् ॥ गहादिः ॥ प्राचां कटादेः ॥ १३६ ॥ देशइत्येव । तद्विशेषणं प्राग्ग्रहणम् । प्राग्देशवाचिनः कटादेः प्रातिप- दिकाच् छः प्रत्ययो भवति शैषिकः । अञोपवादः । कटनगरीयम् । कटघो- षीयम् । कटपल्लवीयम् ॥ राज्ञः क च ॥ १४० ॥ असंभावाद्देशाधिकारो न विशेषणम् । राज्ञः ककारश्चान्तादेशो भवति छश्च प्रत्ययः । राजकीयम् । आदेशमात्रमिह विधेयं प्रत्ययस्तु वृद्धाच्छ इत्येव सिद्धः ॥ वृद्धादकेकान्तखोपधात् ॥ १४१ ॥

  • अञादेरण्बाधः । पा० २ । † प्रास्थीयम् । पा० २ । ‡ इष्वनीक । पा० २ । § शवस्कन्द । पा० २ । ॥ खाण्डायनी । पा० २ । ¶ कामवेरणि । पा० २ ।

३२६ ॥ काशिका ॥ ४ ॥ २ ॥ देशइत्येव । वृद्धाद्देशवाचिनो ऽक इक इत्येवमन्तात् खकारोपधाच्च प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः । कोपधलक्षणस्याणोपवादः । वाही- कग्रामलक्षणस्य च प्रत्ययस्य रोषधेतोः प्राचामिति च । अकान्तात्तावत् । आरोहणकीयम् । द्रौघणकीयम् । इकान्तात् । आश्वपथिकीयम् । शाल्मलि- कीयम् । खोपधात् । कौटिशिखीयम् । त्रायोमुखीयम् ॥ अकेकान्तग्रहणे कोपध- ग्रहणं सौसुकाद्यर्थम् ॥ * ॥ सौसुकीयम् । मौसुकीयम् । ऐन्द्रवेणुकीयम् ॥ कन्यापलदनगरग्रामह्रदोत्तरपदात् ॥ १४२ ॥ देशइत्येव, वृद्धादिति च । कन्याद्युत्तरपदाद्देशवाचिनो वृद्धात्प्रातिप- दिकात् छः प्रत्ययो भवति शैषिकः । वाहीकग्रामादिलक्षणस्य प्रत्ययस्यापवादः । दात्तिकन्तीयम् । माह

॥ काशिका ॥ ४ ॥ ३ ॥ ३२७. देशाधिकारो निवृत्तः । युष्मदस्मदोः खञ् प्रत्ययो भवति शैषिकः । चकाराच्छश्च । अन्यतरस्यां ग्रहणाद्यथाप्राप्तम् । तदेते त्रयः प्रत्यया भवन्ति तत्र वैषम्याद्यथासंख्यं न भवति । त्यदादित्वाद्वृद्धसंज्ञकयोर्युष्मदस्मदोश्छे प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते । यौष्माकीणः । आस्माकीनः । युष्मदीयः । अस्मदीयः । यौष्माकः । आस्माकः ॥ तस्मिन्नणि च युष्माकास्माकौ ॥ २ ॥ तस्मिन्निति साक्षाद्विहितः खञ् निर्दिश्यते न चकारानुकृष्टश्छः । तस्मिन्खञि अणि च युष्मदस्मदोर्यथासंख्यं युष्माक आस्माक इत्येतावादेशौ भवतः । निमित्तयोरादेशौ प्रति यथासंख्यं कस्मान्न भवति । योगविभागः करिष्यते, तस्मिन् । खञि युष्मदस्मदोर्युष्माकास्माकौ भवतः । ततो ऽणि चेति । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः । तस्मिन्नणि चेति किम् । युष्मदीयः । अस्मदीयः ॥ तवक ममकावेकवचने ॥ ३ ॥ एकवचनपरयोर्युष्मदस्मदोस्तवक ममक इत्येतावादेशौ भवतो यथासं- ख्यं तस्मिन्खञि अणि च परतः । निमित्तयोस्तु यथासंख्यं पूर्ववदेव न भवति । ननु च न लुमतानङ्गस्येति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न संभवति । वचनात्प्रत्ययलक्षणं भविष्यति * । अथ वा नैवेदं प्रत्ययलक्षणं किं तर्ह्यन्वर्थग्रहणम् । एकवचने युष्मदस्मदी एकस्यार्थस्य वाचके तवकममकावा- देशौ प्रतिपद्येते इति सूत्रार्थः । तावकीनः । मामकीनः । तावकः । मामकः । तस्मिन्नणि चेत्येव । त्वदीयः, मदीयः ॥ अर्द्धाद्यत् ॥ ४ ॥ अर्द्धशब्दाद् यत् प्रत्ययो भवति शैषिकः । अणोऽपवादः । अर्द्धम् । सपू- र्वपदाट्ठञ्वक्तव्यः ॥ * ॥ बालेयार्द्धिकम् । गौतमार्द्धिकम् ॥ परावराधमोत्तमपूर्वाच्च ॥ ५ ॥ पर अवर अधम उत्तम इत्येवं पूर्वाच्चार्द्धशब्दात् प्रत्ययो भवति शैषिकः । परार्द्धम् । अवरार्द्धम् । अधमार्द्धम् । उत्तमार्द्धम् । पूर्वग्रहणं किम् । परावरा- धमोत्तमेभ्य इत्येवोच्येत, अर्द्धादिति वर्तते । तस्य तत्पूर्वता विज्ञास्यते । परा- वरशब्दावदिग्ग्रहणावपि स्तः, परं सुखमवरं सुखमिति । तत्र कृतार्थत्वाद दिक्शब्दत्वात् परे ठञ्छौ स्याताम्, तस्मात्पूर्वग्रहणाद्यत्प्रत्ययो भवति परा- र्द्धमवरार्द्धमिति ॥

  • वचनात्प्रत्ययलक्षणप्रतिषेधो न संभवति । पा० २ ।

३२८ ॥ काशिका ॥ ४ ॥ ३ ॥ दिक्पूर्वपदाट्ठञ् ॥ ६ ॥ दिक्पूर्वपदादर्द्धान्तात्प्रातिपदिकात् ठञ् प्रत्ययो भवति चकाराद्वाऽण् शैषिकः । अणोऽपवादः । पूर्वार्द्धम् । पौर्वार्द्धिकम् । दक्षिणार्द्धम् । दाक्षिणा- र्द्धिकम् । पदग्रहणं स्वरूपविधिनिवारणार्थम् ॥ ग्रामजनपदैकदेशादञ्ठञौ ॥ ७ ॥ दिक्पूर्वपदादित्येव । ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च प्राति- पदिकाद्दिक्पूर्वपदादर्द्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ यतोपवादौ । इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः पौर्वार्द्धिकाः । दाक्षिणार्द्धाः दाक्षिणार्द्धिकाः ॥ मध्यान्मः ॥ ८ ॥ मध्यशब्दान्मः प्रत्ययो भवति शैषिकः । अणोऽपवादः । मध्यमः आदेश्चेति वक्तव्यम् ॥ * ॥ आदिमः ॥ अवोध

॥ काशिका ॥ ४ ॥ ३ ॥ ३२८ विभाषा रोगातपयोः ॥ १३ ॥ शरद इत्येव । रोगे आतपे चाभिधेये शरच्छब्दाट्ठञ् प्रत्ययो वा भवति शैषिकः । खञोऽपवादः । शारदिको रोगः । शारदिक आतपः । शारदो रोगः । शारद आतपः । रोगातपयोरिति किम् । शारदं दधि ॥ निशाप्रदोषाभ्यां च ॥ १४ ॥ निशाप्रदोषशब्दाभ्यां विभाषा ठञ् प्रत्ययो भवति शैषिकः । कालाट्ठञिति नित्ये ठञि प्राप्ते विकल्प उच्यते । नैशम् । नैशिकम् । प्रादोषम् । प्रादोषिकम् ॥ श्वसस्तुट् च ॥ १५ ॥ विभाषेत्येव । श्वःशब्दाद्विभाषा ठञ् प्रत्ययो भवति, तस्य च तुडागमो भवति । त्यप्प्रत्ययोऽप्यतो विहित ऐषमोह्यःश्वोन्यतरस्यामिति । एताभ्यां मुक्ते ट्युट्युलावपि भवतः । शौवस्तिकः । श्वस्त्यः । श्वस्तनः ॥ संधिवेलाद्यृतुनक्षत्रेभ्यो ऽण् ॥ १६ ॥ कालादित्येव संधिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्यो ऽण् प्रत्ययो भवति शैषिकः । ठञोऽपवादः । अण्ग्रहणं वृद्धाच्छस्य बाधनार्थम् । संधिवेलादिभ्यस्तावत् । सांधिवेलम् । सांध्यम् । ऋतुभ्यः । ग्रैष्मम् । शैशि- रम् । नक्षत्रेभ्यः । तैषम् । पौषम् । संधिवेला । संध्या । अमावास्या । त्रयो- दशी । चतुर्दशी । पञ्चदशी । पौर्णमासी । प्रतिपत् ॥ संवत्सरात्फलपर्वणोः ॥ सांवत्सरं फलम् । सांवत्सरं पर्व ॥ प्रावृष एण्यः ॥ १७ ॥ प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः । छञोऽपवादः । प्रावृषेण्यो बलाहकः ॥ वर्षाभ्यष्ठक् ॥ १८ ॥ वर्षाशब्दाट्ठक् प्रत्ययो भवति शैषिकः । छञोऽपवादः । वार्षिकं वासः । वार्षिकमनुलेपनम् ॥ छन्दसि ठञ् ॥ १९ ॥ वर्षाशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः । ठकोऽपवादः । स्वरे भेदः । नभश्च नभस्यश्च वार्षिकावृतू ॥ वसन्ताच्च ॥ २० ॥ छन्दसीत्येव । वसन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः । छञोऽपवादः । मधुश्चमाधवश्च वासन्तिकावृतू ॥

३३० ॥ काशिका ॥ ४ । ३ ॥ हेमन्ताच्च ॥ २१ ॥ छन्दसीत्येव। हेमन्तशब्दात् छन्दसि विषये ठञ् प्रत्ययो भवति शैषि- कः। ऋत्वणोऽपवादः। सहश्च सहस्यश्च हैमन्तिकावृतू। योगविभाग उत्तरार्थः॥ सर्वत्राण् च तलोपश्च ॥ २२ ॥ हेमन्तशब्दादण् प्रत्ययो भवति तत्सन्नियोगेन चास्य तकारलोपः। हैमनं वासः। हैमनमुपलेपनम्। सर्वत्रग्रहणं छन्दोधिकारनिवृत्त्यर्थम्। छन्दसि भाषायां च सर्वत्रैतद्भवति। ननु च छन्दसीति नानुवर्तिष्यते। सैवानुवृत्तिः शब्देनाख्यायते प्रयत्नाधिक्येन पूर्वसूत्रेऽपि संबन्धार्थम्। हैमन्तिकमिति भाषा- यामपि ठञं स्मरन्ति। अथाण् चेति चकारः किमर्थः। अण् यथाप्राप्तं च ऋत्व- णिति, कः पुनरनयोर्विशेषः। ऋत्वणि हि तकारलोपो नास्ति हैमन्ती पङ्क्ति- [L12

॥ काशिका ॥ ४ ॥ ३ ॥ ३३१ प्रावृषष्टप् ॥ २६ ॥ प्रावृट्शब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे टप् प्रत्ययो भवति । एण्यस्यापवादः । पकारः स्वरार्थः । प्रावृषि जातः, प्रावृषिकः ॥ संज्ञायां शरदो वुञ् ॥ २७ ॥ शरच्छब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति, ऋत्वणोपवादः समुदायेन चेत्संज्ञा गम्यते । शारदका दर्भाः । शारदका मुद्गाः । दर्भविशेषस्य मुद्गविशेषस्य चेयं संज्ञा । संज्ञायामिति किम् । शारदं सस्यम् । संज्ञाधिकारं के चित्‘कृतलब्धक्रीतकुशला’ इति यावदनुवर्तयन्ति ॥ पूर्वाह्नापराह्लाद्रा॑मूलप्रदोषावस्कराद्वुन् ॥ २८ ॥ पूर्वाह्नादिभ्यः शब्देभ्यो वुन् प्रत्ययो भवति तत्र जात इत्येतस्मिन्वि- षये संज्ञायां गम्यमानायाम् । पूर्वाह्णक

३३२ ॥ काशिका ॥ ४ । ३ ॥ सिन्ध्वपकरशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतस्तत्र जात इत्येत- स्मिन्विषये । पूर्वेण कनि प्राप्ते वचनम् । सैन्धवः । आपकरः ॥ श्रविष्ठा फल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशा- खाषाढाबहुलाल्लुक् ॥ ३४ ॥ श्रविष्ठादिभ्यः शब्देभ्यो नक्षत्रेभ्य आगतस्य जातार्थे लुग्भवति । तस्मिं- स्त्रोप्रत्ययस्यापि लुक्तद्धितलुकीति भवति । श्रविष्ठासु जातः, श्रविष्ठः । फल्गु- नः । अनुराधः । स्वातिः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । आषाढः । बहुलः ॥ लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् ॥ * ॥ चित्रा- यां जाता, चित्रा । रेवती । रोहिणी । स्त्रीप्रत्ययस्य लुकि कृते गौरादित्वात् ङीष् ॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ ॥ * ॥ फल्गुनी ॥ अषाढा ॥ श्रविष्ठा- षाढाभ्यां छणपि वक्तव्यः ॥ * ॥ श्राविष्ठीयः । आषाढीयः ॥ स्थानान्तगोशालखरशालाच्च ॥ ३५ ॥ स्थानान्तात्प्रातिपदिकाद् गोशालशब्दात्खरशालशब्दाच्चातार्थे प्रत्य- यस्य लुग्भवति । गोस्थाने जातः, गोस्थानः । अश्वस्थानः । गोशालः । खरशालः ॥ वत्सशालाभिजिदश्वयुक्शतभिषजो वा ॥ ३६ ॥ वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति । वत्सशा- लायां जातः, वत्सशालः । वात्सशालः । अभिजित् । आभिजितः । अश्वयुक् । आश्वयुजः । शतभिषक् । शातभिषजः । बहुलग्रहणस्यायं प्रपञ्चः ॥ नक्षत्रेभ्यो बहुलम् ॥ ३७ ॥ नक्षत्रेभ्य उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग्भवति । रोहिणः । रौहिणः । मृगशिराः । मार्गशीर्षः ॥ कृतलब्धक्रीतकुशलाः ॥ ३८ ॥ तत्रेत्येव । सप्तमीसमर्थात्कृतादिष्वर्थेषु यथाविहितं प्रत्ययो भवति स्रुघ्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा, स्रौघ्नः । माथुरः । राष्ट्रियः । ननु च यदत्र कृतं जातमपि तत्र भवति यच्च यत्र क्रीतं लब्धमपि त