भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

: Is it 'यनेन' or 'येनेन'? It looks like "येनेन" (misprint for येन or तेन). Let's check closely: yes, it has two 'न's or 'नेन'. It says "येनेन".

Let's check all line breaks carefully.

॥ काशिका ॥ ८ ॥ १ ॥ ७४९ शेते आहोस्विदधीते । अत्र के चिदाहुः । पूर्वं किंवृत्तमिति तच्च निहन्यते । उत्तरं तु न किंवृत्तमिति तन्निहन्यतएवेति । अपरे त्वाहुः । यद्यप्येकस्याख्या- तस्य समीपे किंशब्दः श्रूयते तथापि सर्वस्य संशयविषयस्य तेन योग इति उभ- यत्र प्रतिषेधेन भवितव्यमिति । क्रियाग्रहणं किम् । प्रश्ने मा भूत् । किं देव- दत्त ओदनंपचति आहोस्विच्छाकमिति । प्रश्नइति किम् । किमधीते देवद- त्तः । क्षेपे किंशब्दोयं न प्रश्ने । अनुपसर्गमिति किम् । किं देवदत्तः प्रपचति आहो स्वित्प्रकरोति । अप्रतिषिद्धमिति किम् । किं देवदत्तो न पठति आ

६५० ॥ काशिका ॥ ८ । १ ॥ आहोउताहो चानन्तरम् ॥ ४९ ॥ निघातप्रतिषेधोनुवर्त्तते । अपूर्वमिति च । आहो उताहो इत्येताभ्या- मपूर्वाभ्यां युक्तमनन्तरं तिङन्तं नानुदात्तं भवति । आहो भुङ्क्ते । उताहो भुङ्क्ते । आहो पठति । उताहो पठति * । अनन्तरमिति किम् । शेषे विभाषां वक्ष्यति । अपूर्वमित्येव । देवदत्त आहो भुङ्क्ते । देवदत्त उताहो भुङ्क्ते ॥ शेषे विभाषा ॥ ५० ॥ आहो उताहो इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं शेषे विभाषा भवति । कश्च शेषः यदन्यदनन्तरात् । आहो देवदत्तः पचति २ । उताहो देवदत्तः पचति २ । आहो देवदत्तः पठति २ । उताहो देवदत्तः पठति २ ॥ गत्यर्थलोटा लृण्चेत्कारकं सर्वान्यत् ॥ ५१ ॥ गतिना समानार्था गत्यर्थाः गत्यर्थानां लोट् गत्यर्थलोट् तेन गत्यर्थ- लोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति न चेत्कारकं सर्वान्यद्भवति । यत्रैव कारके कर्त्तरि कर्म्मणि वा लोट् तत्रैव यदि लृडपि भवतीत्यर्थः । कर्तृकर्मणा एवात्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते । न करणादि कारकान्तरम् । आगच्छ देवदत्त ग्रामं द्रक्ष्यस्येनम् । आगच्छ देवदत्त ग्राममोदनं भोक्ष्यसे । उह्यन्तां देवदत्तेन शालयः तेनैव भोक्ष्यन्ते । उह्यन्तां देवदत्तेन शालयः यज्ञ- दत्तेन भोक्ष्यन्ते । गत्यर्थग्रहणं किम् । पच देवदत्तौदनं भोक्ष्यस्येनम् । लोटेति किम् । आगच्छेद्वेददत्त ग्रामं द्रक्ष्यस्येनम् । लृडिति किम् । आगच्छ देवदत्त ग्रामं पश्यस्येनम् । न चेत्कारकं सर्वान्यदिति किम् । आगच्छ देवदत्त ग्रामं पिता ते ओदनं भोक्ष्यते । उह्यन्तां देवदत्तेन शालयः सक्तवस्तेन पास्यन्ते । सर्व- ग्रहणं किम् । आगच्छ देवदत्त ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातप्रतिषेधो यथा स्यात् । लृडन्तवाच्ये हि सर्वस्मिन्कारके ऽन्यस्मिन्न भवि- तव्यम् । इह तु यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते इति ॥ लोट् च ॥ ५२ ॥ लोडन्तं तिङन्तं गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत्कारकं सर्वान्यद्भवति । लोडन्तयोरेकं कारकं यदि भवतीत्यर्थः । आगच्छ देवदत्त ग्रामं पश्य । आव्रज विष्णामित्र ग्रामं शाधि । आगम्यतां देवदत्तेन ग्रामो दृश्यतां यज्ञदत्तेन । गत्यर्थानामित्येव । पच देवदत्तौदनं भुङ्क्ष्वैनम् । लोटे- त्येव । आगच्छेद्वेददत्त ग्रामं पश्येनम् । न चेत्कारकं सर्वान्यदित्येव । आगच्छ

  • आहो अधीते । इत्यधिकमेकस्मिन्पुस्तके ।

देवदत्त ग्रामं पश्यत्वेनं यज्ञदत्तः । सर्वग्रहणानुवृत्तेस्त्विह भवत्येव । आगच्छ देवदत्त ग्रामं त्वं चाहं च पश्याव । पृथग्योगकरणमुत्तरार्थम् ॥ विभाषितं सोपसर्गमनुत्तमम् ॥ ५३ ॥ सर्वं पूर्वमनुवर्त्तते । प्राप्तविभाषेयं, लोडन्तं सोपसर्गमुत्तमवर्जितं गत्यर्थ- लोटा युक्तं तिङन्तं विभाषितं नानुदात्तं भवति न चेत्कारकं सर्वान्यद्भवति । आगच्छ देवदत्त ग्रामं प्रविश । २ । आगच्छ देवदत्त ग्रामं प्रशाधि । २ । सोपसर्गमिति किम् । आगच्छ देवदत्त ग्रामं पश्य । अनुत्तममिति किम् । आगच्छानि देवदत्त ग्रामं प्रविशानि ॥ हन्त च ॥ ५४ ॥ पूर्वं सर्वमनुवर्त्तते गत्यर्थलोटं वर्जयित्वा । हन्त इत्यनेन युक्तं लोडन्तं सोपसर्गमुत्तमवर्ज्जितं विभाषितं नानुदात्तं भवति । हन्त प्रविश २ । हन्त प्र- शाधि २ । सोपसर्गमित्येव । हन्त कुरु । निपातैर्यद्यदिहन्तेति नित्यमत्र निघा- तप्रतिषेधो भवति । अनुत्तममित्येव । हन्त प्रभुनजावहै । हन्त प्रभुनजामहै ॥ आम एकान्तरमामन्त्रितमनन्तिके ॥ ५५ ॥ आम उत्तरमेकपदान्तरमामन्त्रितान्तमन्नन्तिके नानुदात्तं भवति । आम् पचसि देवदत्त३ । आम् भो देवदत्त३ । भो इत्यामन्त्रितान्तमपि नामन्त्रिते समानाधिकरणे सामान्यवचनमिति नाविद्यमानवद्भवति । आम इति किम् । शाकं पचसि देवदत्त३ । एकान्तरमिति किम् । आम् प्रपचसि देवदत्त३ । आम- न्त्रितमिति किम् । आम्पचति देवदत्तः । अनन्तिकइति किम् । आम् देवदत्त ॥ आम एकान्तरमामन्त्रितं यत्तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते ॥ तदुभ- यमनेन क्रियतइति के चिदाहुः । प्लुतोदात्तः पुनरसिद्धत्वाच्च प्रतिषिध्यते । अपरेषां दर्शनमनन्तिकइत्यनेन यच्च दूरं न संनिकृष्टं तत्परिगृह्यते । तेनास्मि- न्नेकश्श्रुतेः प्राप्तिरेव नास्ति । प्लुतोदात्तोपि नोदाहर्त्तव्य इति ॥ यद्धितुपरं छन्दसि ॥ ५६ ॥ आमन्त्रितमित्येतदस्वरितत्वान्नानुवर्त्तते । तिङिति वर्ततएव । यत्परं हिपरं तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति । यत्परं तावत् । गवां गोत्रमुदसृजो यदङ्गिरः । हिपरम् । इन्द्रवो वामुशन्ति हि । तुपरम् । आख्या- स्यामि तु ते । निपातैर्यद्यदिहन्तेति हि चेति तुपश्यपश्यताहेरिति च निघा- तप्रतिषेधे सिद्धे वचनमिदं नियमार्थम्, एभिरेव परैर्योगे प्रतिषेधो भवति नान्यैरिति । इह न भवति । जाये स्वारोहावै हि । एहीत्यनेन गत्यर्थलोटा युक्तस्य रोहावेत्यस्य लोडन्तस्य निघातो भवत्येव ॥

७५२ ॥ काशिका ॥ ८ ॥ १ ॥ चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ॥ ५७ ॥ चन चिद् इव गोत्रादि तद्धित आम्रेडित इत्येतेषु परतः अगतेरुत्तरं तिङन्तं नानुदात्तं भवति । चन । देवदत्तः पचति चन । चित् । देवदत्तः पचति चित् । इव । देवदत्तः पचतीव । गोत्रादि । देवदत्तः पचति गोत्रम् । देवदत्तः पचति ब्रुवम् । देवदत्तः प्रपचति प्रवचनम् । इहापि गोत्रादयः कुत्सनाभीक्ष्ण्य- योरेव गृह्यन्ते । तद्धित । देवदत्तः पचतिकल्पम् । देवदत्तः पचतिरूपम् । अनुदात्तस्तद्धित इहोदाहरणमन्यत्र तद्धितस्वरेण तिङ्स्वरो बाध्यते । पचति- देश्यः । आम्रेडित । देवदत्तः पचति २ । अगतेरिति किम् । देवदत्तः प्रपचति चन । अत्रागतिग्रहणे सगतिरपि तिङित्यत्र च उपसर्गग्रहणं द्रष्टव्यम् । इह मा भूत् । शुक्लीकरोति चन । यत्काष्ठं शुक्लीकरोति । यत्काष्ठं कृष्णीकरोति ॥ चादिषु च ॥ ५८ ॥ चादिषु च परतः तिङन्तमगतेः परं नानुदात्तं भवति । चादयो नचवा- हाहैवयुक्ते इत्यत्र ये निर्दिष्टाः त इह परिगृह्यन्ते । चशब्दे तावत् । देवदत्तः पचति च खादति च । वा । देवदत्तः पचति वा खादति वा । ह । देव- दत्तः पचति ह खादति ह । अह । देवदत्तः पचत्यह खादत्यह । एव । देव- दत्तः पचत्येव खादत्येव । अगतेरित्येव । देवदत्तः प्रपचति च प्रखादति च । प्रथमस्यात्र तिङन्तस्य चवायोगे प्रथमेति निघातः प्रतिषिध्यते, एवपरं तु निहन्यते ॥ चवायोगे प्रथमा ॥ ५९ ॥ अगतेरिति पूर्वसूत्रे चानुकृष्टमित्यत्र नानुवर्तते । च वा इत्येताभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति । गर्दभांश्च कालयति । वीणां च वादयति । गर्दभांन्वा कालयति । वीणां वा वादयति । योगग्रहणं पूर्वाभ्या- मपि योगे निघातप्रतिषेधो यथा स्यादिति । प्रथमग्रहणं द्वितीयादेस्तिङ- न्तस्य मा भूदिति । चवायोगो हि द्विसमुच्चये विकल्पे च सति भवति । स चानेकस्य धर्म इति ॥ हेति क्षियायाम् ॥ ६० ॥ ह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति क्षियायां गम्य- मानायाम् । क्षिया धर्मव्यतिक्रमः आचारभेदः । स्वयं ह रथेन याति ३ उपा- ध्यायं पदातिं गमयति । स्वयं हौदनं भुङ्क्ते ३ उपाध्यायं सक्तून्पाययति । प्रथमस्य तिङन्तस्यात्र निघातः प्रतिषिध्यते । क्षियाशीःप्रैषेषु तिङाकाङ्क्षमिति च प्लुतो भवति ॥

चेदवधारणार्थं प्रयुज्यते। क्व चास्य लोपः? यत्र गम्यते चार्थो न च प्रयुज्यते तत्र लोपः। तत्र चशब्दः समुच्चयार्थः, अहशब्दः केवलार्थ इति समानकर्तृके चलोपः, नानाकर्तृके अहलोपः। चलोपे—देवदत्त एव ग्रामं गच्छतु, देवदत्त एवारण्यं गच्छतु, ग्रामं चारण्यं च गच्छत्वित्यर्थः। अहलोपे—देवदत्त एव ग्रामं गच्छतु, यज्ञदत्त एवारण्यं गच्छतु, ग्रामं केवलमरण्यं केवलमित्यर्थः। अवधारणम् इति किम्? देवदत्तः क्वेव भोक्ष्यते, देवदत्तः क्वेव वात्स्यते/बाधिष्यते..." Wait! Look at the image line 15: "देवदत्तः क्वेव भोक्ष्यते । देवदत्तः क्वेव बाधिष्यते ।" Wait, does it have 'ब' with a dot/slash? It's 'बाधिष्यते' or 'वाधिष्यते'! It looks like 'बाधिष्यते'. And line 16: "अनवकॢप्तावयमेवशब्दः । न क्व चिद्भोक्त्यतइत्यर्थः ।" or "चिद्भोत्स्यतइत्यर्थः"? Wait, look at "भो" then the ligature: Wait, could it be "भोक्ष्यतइत्यर्थ

७५४ ॥ काशिका ॥ ८ । १ ॥ देवानुपातिष्ठत् । एक इति संख्यापदमेतद् अन्यार्थे न वर्तते । एकशब्दस्य व्यवस्थार्थे च समर्थयह्वयं व्यभिचारित्वात्तस्य ॥ यद्वृत्तान्नित्यम् ॥ ६६ ॥ प्रथमा छन्दसीति निवृत्तं, निघातप्रतिषेध इत्येव । यदो वृत्तं यद्वृत्तं, यच्च पदे यद्वृत्तेते तत्सर्वं यद्वृत्तम् । इह वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् । डतरडतमौ च प्रत्ययौ इत्येतच्चाश्रीयते । तस्माद्यद्वृत्तादुत्तरं तिङन्तं नानुदात्तं भवति नित्यम् । यो भुङ्क्ते । यं भोजयति । येन भुङ्क्ते । यस्मै ददाति । यत्का- मास्ते जुहुमः । यद्वाङ् वायुर्वाति । यद्वायुः पवते ॥ पञ्चमीनिर्देशेष्वत्र व्यव- हिते कार्यमिष्यते ॥ यथाकाम्ये वेति वक्तव्यम् ॥ * ॥ यत्र क्व चन यजन्ते * ॥ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ॥ ६७ ॥ पूजनेभ्यः काष्ठादिभ्य उत्तरपदं पूजितमनुदात्तं भवति । काष्ठ । काष्ठा- ध्यापकः । काष्ठाभिरूपकः । दारुण । दारुणाध्यापकः । दारुणाभिरूपकः । अमातापुत्र । अमातापुत्राध्यापकः । अयुत । अयुताभिरूपकः । अयुताध्या- पकः । अद्भुत । अद्भुताध्यापकः । अनुक्त । अनुक्ताध्यापकः । भृश । भृशाध्या- पकः । घोर । घोराध्यापकः । परम । परमाध्यापकः । सु । स्वध्यापकः । अति । अत्यध्यापकः † ॥ मलोपश्च ॥ * ॥ इति वार्त्तिककारमतम् ॥ मयूरव्यंसकादि- त्वात्समासः । समासे चैतदनुदात्तत्वम् ॥ समासान्तोदात्तत्वापवाद इष्यते ॥ दारुणमध्यापक इत्येवमादिषु न भवति । मलोपश्चेत्यनेनाप्ययमेव विषय आ- ख्यायते । यत्र विभक्तेरभावान्मकारो न श्रूयते तत्रानुदात्तत्वमिति । असमासे हि मलोपो नैवेष्यते । दारुणमधीते दारुणमध्यापक इति । पूजनादित्येव पूजि- तपरिग्रहे सिद्धे पूजितग्रहणमनन्तरपूजितप्रतिपत्त्यर्थम् । एतदेव ज्ञापकमिह प्रकरणे पञ्चमीनिर्देशेपि नानन्तर्यमाश्रीयते इति । तथा च यद्वृत्तान्नित्यमि- त्यत्रोदाहृतम् । अनुदात्तमिति वर्तमाने पुनरनुदात्तग्रहणं प्रतिषेधनिवृत्त्यर्थम् ॥ सगतिरपि तिङ् ॥ ६८ ॥ सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तमनुदात्तं भवति । यत्काष्ठं पचति । यत्काष्ठं प्रपचति । यद्दारुणं पचति । यद्दारुणं प्रपचति । तिङ्ङतिङ् इति निघातस्य निपातैर्यद्यदिहन्तेति प्रतिषेधे प्राप्ते पुन- र्विधानम् । सगतिग्रहणाच्च गतिरपि निहन्यते ॥ गतिग्रहणे चात्र उपसर्गग्रह- णमिष्यते ॥ इह न भवति । यत्काष्ठं शुक्लीकरोति । यत्काष्ठं कृष्णीकरोति ॥

  • एकस्मिन्पुस्तके यथाकाम्ये इत्यारभ्य यजन्ते इत्यन्तं नास्ति । † अनुचात । अनुचाताध्यापकः । कल्याण । कल्याणाध्यापकः । वेश्म । वेश्माध्यापकः । इत्यधिकं पुस्तकान्तरे ।

॥ काशिका ॥ ८ ॥ १ ॥ ७५५ कुत्सने च सुप्यगोत्रादौ ॥ ६९ ॥ पदादिति निवृत्तम् । सगतिरपि तिङिति वर्त्तते । कुत्सने च सुबन्ते गोत्रादिवर्जिते परतः सगतिरपि तिङ् अगतिरप्यनुदात्तो भवति । पचति पूति । प्रपचति पूति । पचति मिथ्या । प्रपचति मिथ्या । कुत्सनइति किम् । पचति शोभ- नम् । सुपीति किम् । पचति क्लिश्नाति । अगोत्रादाविति किम् । पचति गोत्रम् । पचति ब्रुवम् । पचति प्रवचनम् ॥ क्रियाकुत्सनइति वक्तव्यम् ॥ * ॥ कर्तुः कुत्सने मा भूत् । पचति पूतिर्देवदत्तः । प्रपचति पूतिः ॥ पूतिश्च चानुबन्धो भवतीति वक्तव्यम् ॥ * ॥ तेनायं चकारानुबन्धकत्वदन्तोदात्तो भवति ॥ विभाषितं चापि बह्वर्थमनुदात्तं भवतीति वक्तव्यम् ॥ * ॥ पचन्ति पूति २ । प्रपचन्ति पूति २ । सुपि कुत्सने क्रियाया मलोप इष्टो ऽतिङीति चोक्तार्थे । पूतिश्च चानुबन्धो विभाषितं चापि बह्वर्थम् ॥ गतिर्गतौ ॥ ७० ॥ गतिर्गतौ परतो ऽनुदात्तो भवति । अभ्युद्धरति । समुदानयति । अभिसं- व्योहरति । गतिरिति किम् । देवदत्तः प्रपचति । गताविति किम् । आ मन्द्रे- रिन्द्र हरिभिर्याहि मयूररोमभिः ॥ याहीत्येतत्प्रति क्रियायोगादादित्येष गतिः । तस्य गतावित्येतस्मिन्नसति गतिरित्यनाश्रितपरनिमित्तकमनुदात्तत्वं स्यात् ॥ तिङि चोदात्तवति ॥ ७१ ॥ गतिरिति वर्त्तते । तिङन्ते ऽनुदात्तवति परतो गतिरनुदात्तो भवति । यत्प्रपचति । यत्करोति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यं प्रति गतिस्तत्रानुदात्तो भवतीति धातावेवोदात्तवति स्यात् । प्रत्यये न स्यात् । यत्प्रकरोतीति । यत्क्रियायुक्ताः प्रादयस्तेषां तं प्रति गत्युपसर्गसंज्ञे भवत इति तिङन्ते धातुमेव प्रति गतिसंज्ञा । आमन्ते तर्हि न प्राप्नोति । प्रपचतितराम् । प्रपचितमामिति । अत्र केचिदामन्तेन गतेः समासं कुर्वन्ति । तेषामव्ययपूर्व- दप्रकृतिस्वरत्वे सत्यक्रियमाणेपि तिङ्ग्रहणे परमनुदात्तवद्भवतीति गतिनिघातो नैव सिद्ध्यति । अथ तरबन्तस्य गतिसमास एवमपि सतिशिष्टत्वाद्दाम एव स्वरे सति गतेरनुदात्तं पदमेकवर्जमित्येवानुदात्तत्वं सिद्धम् । येषां गतिकार- कोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेरित्यनेन वचनेन कृदन्तेनैव प्राक्सु- बुत्पत्तेः समासो भवति नान्येनेति दर्शनम्, तेषामेवंविधे विषये समासेन नैव भवितव्यमिति । पृथक् स्वरप्रवृत्तौ सत्यामनेन निघातेन प्रयोजनमस्ति । तदर्थे यत्नः कर्त्तव्यः । उदात्तवतीति किम् । प्रपचति । प्रकरोति ॥ आमन्त्रितं पूर्वमविद्यमानवत् ॥ ७२ ॥

७५६ ॥ काशिका ॥ ८ । १ ॥ आमन्त्रितं पूर्वमविद्यमानवद्भवति, तस्मिन्सति यत्कार्यं तच्च भवति । असति यत्तद्भवति । कानि पुनरविद्यमानवत्त्वे प्रयोजनानि । आमन्त्रिततिङ्घा- तयुष्मदस्मदादेशाभावाः । देवदत्त यज्ञदत्तेत्यामन्त्रितस्य पदात्परस्येति निघातो न भवति । षाष्ठिकामन्त्रिताद्युदात्तत्वं भवति । देवदत्त पचसीत्यत्र तिङ्ङतिङ इति निघातो न भवति । देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वमि- त्येवमादिषु युष्मदस्मदादेशा न भवन्ति । पूजायामन्तरप्रतिषेधः प्रयोजनम् । यावद्देवदत्त पचसीत्यत्रापि पूजायां नानन्तरमित्येव प्रतिषेधो भवति । जात्व- पूर्वमित्येतद् देवदत्त जातु पचसीत्यत्रापि भवति । आहो उताहो चानन्तर- मिति आहो देवदत्त पचसि उताहो देवदत्त पचसीत्यत्रापि भवति । आम् एकान्तरमामन्त्रितमनन्तिकइति आम् भो पचसि देवदत्त इत्यत्रापि भवति । आमन्त्रितमिति किम् । देवदत्तः पचति । पूर्वमिति किम् । देवदत्त इत्येतस्या- मन्त्रिताद्युदात्तत्वे कर्तव्ये नाविद्यमानवद्भवति । पूर्वत्वं च परापेक्षं भवतीति परस्यैव कार्ये स्वनिमित्ते ऽन्यनिमित्ते वा तदविद्यमानवद्भवति, न तु स्वकार्ये । देवदत्त पचसीत्यत्रापि ह्यामन्त्रिताद्युदात्तत्वं भवत्येव । इह दमं मे गङ्गे यमुने इति गङ्गे शब्दः पूर्वमामन्त्रितं ततः परस्य यमुनेशब्दस्यानुदात्तत्वे कर्तव्ये स्वयम- विद्यमानवत्त्वान्निमित्तं न भवति । मेशब्दस्य निमित्तभावं न प्रतिबध्नाति ॥ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ॥ ७३ ॥ अविद्यमानवत्त्वस्य प्रतिषेधः । आमन्त्रितान्ते समानाधिकरणे परतः पूर्व- मामन्त्रितं सामान्यवचनं नाविद्यमानवद्भवति । किं तर्हि विद्यमानवदेव । अग्नेगृहपते । माणवक जटिलकाध्यापक । पूर्वस्य विद्यमानवत्त्वात्परमनुदात्तमेव भवति । आमन्त्रितमिति किम् । देवदत्त पचसि । समानाधिकरणइति किम् । देवदत्त पण्डित यज्ञदत्त । अत्र यज्ञदत्त विशेषणं पण्डित शब्दः । न पूर्वेण समाना- धिकरणः । सामान्यवचनमिति किम् । पर्यायेषु मा भूत् । अघ्न्ये देवि सरस्वति इंडे काव्ये विहव्ये । पर्यायशब्दा एते । एवं ह्युक्तमेतानि ह्यघ्न्ये नामानीति ॥ विभाषितं विशेषवचने बहुवचनम् ॥ ७४ ॥ पूर्वस्याविद्यमानवत्त्वे प्रतिषिद्धे विकल्प उच्यते । विशेषवचने समाना- धिकरणे आमन्त्रितान्ते परतः पूर्वमामन्त्रितं बहुवचनान्तं विभाषितमविद्यमा- नवद्भवति । देवाः शरण्याः २ । ब्राह्मणा वैयाकरणाः २ । सामान्यवचनाधि- कारादेव विशेषवचनइति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम् । बहुवचनमिति किम् । माणवक जटिलक । नित्यमेतद्विद्यमानवदेव ॥ इति श्रीकाशिकायां वृत्तावष्टमस्याध्यायस्य प्रथमः पादः ॥

॥ काशिका ॥ ८ ॥ २ ॥ ७५७

॥ अथ अष्टमस्याध्यायस्य द्वितीयः पादः ॥

पूर्वत्रासिद्धम् ॥ १ ॥

पूर्वत्रासिद्धमित्यधिकार आ अध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमि- ष्यामः पूर्वत्रासिद्धमित्येवं तद्वेदितव्यम् । तत्र येयं सपादसप्ताध्याय्यनुक्रान्ता एतस्यामयं पादोनो ऽध्यायो ऽसिद्धो भवति । इत उत्तरं चोत्तरोत्तरो योगः पूर्वेञ्पूर्वत्रासिद्धो भवति । असिद्धवद्भवति * । सिद्धकार्यं न करोतीत्यर्थः । तदे- तदसिद्धत्ववचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च । अस्माउदुरु । द्वावत्र । द्वावानय । असावादित्यः । इत्यत्र व्यलोपस्यासिद्धत्वाद् चादुव्य. इत्यकः सवर्णे दीर्घ इति च न भवति । अमुष्मै । अमुष्मात् । अमुष्मिन् । इति उत्वस्यासिद्धत्वात् स्मायादयो भवन्ति । शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा । मतो

४५८ ॥ काशिका ॥ ८ । २ ॥ नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ॥ २ ॥ नलोपः पूर्वत्रासिद्धो भवति सुब्विधौ स्वरविधौ संज्ञाविधौ तुग्विधौ च कृति। विधिशब्दोऽयं प्रत्येकमभिसंबध्यमानः स्वरसंज्ञातुकानां विधेयत्वात्तैः कर्म- षष्ठीयुक्तैर्भावसाधनो ऽभिसंबध्यते। सुपा तु संबन्धसामान्यवचनषष्ठ्यन्तेन कर्म्म- साधनः। तेन सुपः स्थाने यो विधिः सुपि च परभूते सर्वोसौ सुब्विधिरिति सर्वत्रासिद्धत्वं भवति। सुब्विधौ तावत्। राजभिः, तक्षभिरित्यत्र नलोपस्या- सिद्धत्वादतोभिस ऐसिति न भवति। राजभ्याम्, तक्षभ्याम्, राजसु, तक्षस्विति, सुपि चेति बहुवचने झल्ये दिति दीर्घत्वमेत्वं च न भवति। स्वरविधौ। राज- वतीत्यत्र नलोपस्यासिद्धत्वादन्तोवत्या इति न भवति। पञ्चारं, दशारममिति। अत्र नलोपस्यासिद्धत्वाद् अर्मे चावर्णे द्वयजिति पूर्वपदस्यानुदात्तत्वं न भवति। पञ्चबीजीत्यत्र नलोपस्यासिद्धत्वादिगन्ते द्विगाविति पूर्वपदप्रकृतिस्वरो न भव- ति। संज्ञाविधौ। पञ्च ब्राह्मण्या दश ब्राह्मराय इति नलोपस्यासिद्धत्वाद् ष्णा- न्ताषडिति षट्संज्ञा भवति। ततश्च न षट्स्वस्रादिभ्य इति टापः प्रतिषेधो भवति। तदेतत्कथं प्रयोजनं भवति। यदि प्रतिकार्यं संज्ञाप्रवृत्तिरित्येतद्दर्श- नम्। या हि जश्शसोलुगर्था षट्संज्ञा प्रवृत्ता तया स्त्रीप्रत्ययप्रतिषेधो न क्रियतइति सा पुनः प्रवर्त्तयितव्येति। तुग्विधौ। वृत्रहभ्यां, वृत्रहभिरिति नलोपस्यासिद्धत्वाद् ह्रस्वस्य पिति कृति तुगिति तुङ् न भवति। अत्र के चित्सं- निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति तुकं प्रति नलोपस्यानिमित्तत्वा- द्वहिरङ्गलक्षणेन वा ऽसिद्धत्वात्तुग्विधिग्रहणमनर्थकमिति प्रतिपन्नाः, तत्तु क्रियतेपरिभाषाद्वयस्यानित्यत्वं ज्ञापयितुम्। कृतीति किम्। वृत्रहच्छत्रम्। वृत्रहच्छाया। छे चेति तुग्भवति। अत्र सिद्धे सत्यारम्भो नियमार्थः। एते- ष्वेव नलोपो ऽसिद्धो भवति नान्यत्र। तेन राजीयति राजायते राजाश्व इति ईत्वं दीर्घत्वमेकादेशश्च सिद्धो भवति ॥ न मु ने ॥ ३ ॥ मुभावो नाभावे कर्त्तव्ये नासिद्धो भवति। किं तर्हि सिद्ध एव। अमुना। मुभावस्यासिद्धत्वात् घिल्लक्षणो नाभावो न स्यात्। कृते तु नाभावे मुभावस्यासिद्धत्वात्सुपि चेति दीर्घत्वं यत्प्राप्नोति तत्सन्निपातलक्षणो विधिर- निमित्तं तद्विघातस्येति न भवति। अथ वा योमदयमिदमुभयार्थे तन्त्रेणोच्चा- रितम्। अथ वा ने परतो यत्प्राप्नोति तस्मिन्कर्त्तव्ये मुभावो नासिद्ध इत्येवं रूपोत्र सूत्रार्थः। ने तु कर्त्तव्ये मुभावस्य यत्सिद्धत्वं तदर्थतो गृहीतम्। तेनात्र मुभावस्य सिद्धत्वाचाभावश्च भवति। दीर्घत्वं च भवति ॥ एकादेशस्वरान्त- रङ्गः सिद्धो वक्तव्यः ॥ * ॥ किं प्रयोजनम्। अयायावेकादेशप्रवृत्तस्वरैकाननुदा-

॥ काशिका ॥ ८ ॥ २ ॥ ७५९

ससर्वानुदात्तार्थम् । वृत्तददं, प्रत्तददम् । अत्र प्रातिपदिकान्तसप्तम्येकवचनयो- रुदात्तानुदात्तयोरेकादेशः स एकादेश उदात्तेनोदात्त इत्युदात्तः तस्य सिद्धत्वं वक्तव्यम् । आन्तर्यतः अयादेश उदात्तो यथा स्यात् । आय् । कुमार्या इदम् । कथमिदमुदाहरणम् । यदि उदात्तयणो हल्पूर्वादित्युदात्तत्वे कृते विभक्तेरा- टश्चैकादेशस्तदा भवतीदमुदाहरणम् । अथ कृते एकादेशे उदात्तयणो हल्पूर्वा- दिति स्वरस्तदा नैतदस्य प्रयोजनं भवति । आव् । वृत्ताविदं, प्रत्ताविदम् । एकादेशस्वरः । गाङ्गे ऽनूप इति गाङ्गे शब्दे एकार एकादेश उदात्तेनोदात्त इत्युदात्तः तस्य सिद्धत्वाद् यः पुनरेङः पदान्तादतीति एकादेशः स एकादेश उदात्तेनोदात्त इति, स्वरितो वाऽनुदात्ते पदादाविति, एतद्भवति । शतुःस्वरः ।

७६० ॥ काशिका ॥ ८ ॥ २ ॥ सकारादिः पठ्यते तस्य श्चुत्वस्यासिद्धत्वाद् ऋट्श्च्योतति रट्श्च्योतति इति ङः सि धुट् इति प्राप्नोति । ऋटतीत्य्ऋङ् । रटतीति रङ् । क्विबन्तोयम् । किमर्थं पुनः सकारादिः पठ्यते । इह मधु श्च्योततीति मधुश्च्युत् क्विबन्तः । मधुश्च्युतमाचष्टे इति णिच् । मधुश्च्ययति । मधुश्च्ययतेः पुनः क्विपि कृते संयोगादित्वात्सलोपः संयोगान्तत्वाद यलोपः चकारस्य कुत्वं मधुगिति सिद्धम् । शकारादौ पुनरेतस्मिन्संयोगान्तलोपेन यकारचकारयोर्लुप्तयोः शका- रस्य षत्वे सति मधुडिति स्यात् ॥ अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये ॥ * ॥ बभणतुः । बभणुः । अभ्यासजश्त्वस्यासिद्धत्वादनादेशादेरि- त्येत्वं प्राप्नोति । छिदेः, चिच्छित्सति, उच्छेः, उच्चिच्छिषतीति अभ्यासादेश- स्यासिद्धत्वात् छे चेति तुक् प्राप्नोति । द्विवेचने परसवर्णत्वं सिद्धं वक्त- व्यम् ॥ * ॥ सय्यन्ता, सव्वत्सरः यल्ल्लोकम्, तल्लोकमिति परसवर्ण- स्यासिद्धत्वाद्वर इति द्विवेचनं न स्यात् ॥ पदाधिकारश्चेल्लत्वढत्वघत्वनत्व- रुत्वषत्वणत्वानुनासिककुत्वानि सिद्धानिवक्तव्यानि ॥ * ॥ लत्वम् । गलो गलः । गरो गरः । घत्वं, द्रोग्धा २ । ढत्वं, द्रोढा २ । नत्वं, नुन्नो नुत्तः । रुत्वम्, अभिनोभिनः । अभिनदभिनत् । षत्वम् । मातृष्वसा २ । मातृः- स्वसा २ । णत्वं माषवापाणि २ । माषवापानि २ । अनुनासिक । वाङ्नय- नम् २ । वाग्नयनम् २ । कुत्वं । वाक्श्यनम् २ । वाक्शयनम् २ । लत्वा- दीनां विकल्पितानामसिद्धत्वात् कृते द्विवेचने सत्युपरिष्टाद्विकल्पे सति गरो- गलः गलोगरः इत्येवं रूपमपि द्विरुक्तं स्यात् । तदेतत्सर्वं न मु ने इति योग- विभागेन साध्यते । न इत्येतावदनिष्टे विषये पूर्वत्रासिद्धस्य प्रतिषेधार्थम् । ततो मु ने इति । नेत्येतदनुवर्त्तते ॥ उदात्तस्वरितयोर्यणः स्वरितो ऽनुदात्तस्य ॥ ४ ॥ उदात्तयणः स्वरितयणश्च परस्यानुदात्तस्य स्वरित आदेशो भवति । उदात्तयणः । कुमार्यै । कुमार्यः । उदात्तानिवृत्तिस्वरेणायमीकार उदात्तः, तस्य स्थाने यणादेशः स उदात्तयण्, तस्मात्परस्यानुदात्तस्य स्वरित आदेशो भवति । स्वरितयणः । सङ्कल्याशा । खलप्वाशा । सङ्कलूँः, खलपूरिति कृत्स्वरेणान्तोदात्तौ, तयो रोः सुपीति यणादेशः स उदात्तयण् ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात्स्वरितयणः परस्याशाशब्दाकारस्यानुदात्तस्य स्वरितो भवति । ननु च सप्तम्येकवचनस्य यदुदात्तयण इति स्वरितत्वं तदसिद्धं यणादेशे । तत्कथमयं स्वरितयण् भवति । आश्रयात् सिद्धत्वं भविष्यति । यद्येवमुदात्तादनुदात्तस्य स्वरित इति एतस्याप्याश्रयात्सिद्धत्वं प्राप्नोति । ततश्च दध्याशेत्यत्रापि स्वरितः स्यात् ।

॥ काशिका ॥ ८ ॥ २ ॥ ७६१

तस्मादयमेव यण्स्र्वरो यणादेशे सिद्धो वक्तव्यः । के चित्तु ब्रुवते उदात्तात्स्व- रितयणेापि परस्यानुदात्तस्य स्वरितत्वं दृश्यते । तथा च तैत्तिरीयके शाखा- न्तरे पठ्यते । यास्ते विश्वाः समिधः सन्त्यग्ने इति । अग्ने इत्ययमकारः स्वरितः पठ्यते । तथा ब्राह्मणेपि दध्याशयतीत्याकारः स्वरितः पठ्यते इति । यथा तु वार्त्तिकं भाष्यं च तथा उदात्तात्स्वरितयणः परस्यानुदात्तस्यानेन स्वरितत्वं न भवतीति स्थितम् । तथा च भाष्ये स्वरितयण्ग्रहणमिदं प्रत्या- ख्यायते । सङ्कल्न्याशेत्युदात्तयण इत्येव स्वरितस्य सिद्धत्वात् । स्वरितयण- व्यवधानमव्यवधानमेव । स्वरविधौ व्यञ्जनमविद्यमानवदिति । तत्तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावाद् व्यवधानमस्ति । स्वरदीर्घयलोपेषु च लोपा-

७६२ ॥ काशिका ॥ ८ । २ ॥ णोति रेफहत्वयोरसिद्धत्वाद् नलोपः प्राप्नोति । सावकाशं तदुभयं संबुद्धौ । हे ऽहः । हे दीर्घाहो निदाघेति । तत्र समाधिमाहुः । अहन्निति हविधौ यदु- पादीयते प्रथमैकवचनान्तमकृतनलोपं तदावर्त्यते, तत्रैकया ऽऽवृत्त्या तदेवंरूपं नलोपाभावार्थमन्वाख्यायते, द्वितीययापि तस्य रुर्विधीयते ॥ न ङिसंबुद्ध्योः ॥ ८ ॥ ङौ परतः संबुद्धौ च नकारलोपो न भवति । आर्द्रं चर्मन् । लोहिते चर्मन् । सुपां सुलुगिति डेलुक् । संबुद्धौ । हे राजन् । हे तक्षन् । अस्मादेव नलोपप्रतिषेधवचनादप्रत्यय इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा न प्रतिषि- ध्यते इति ज्ञायते । भसंज्ञा च न भवतीति । तथा हि राज्ञः पुरुषो राजपुरुष इति । अत्र नलोपश्च भवति । अल्लोपश्च न भवति ॥ डावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः ॥ * ॥ चर्मणि तिला अस्य चर्मतिलः । हे राजन्वन्दारक इत्यत्र समुदायार्थ संबोधनं न पूर्वपदार्थसंबोधनं प्रतीयतइति संबुद्ध्यन्तं पूर्वपदं नैव समस्यते ॥ वा नपुंसकानामिति वक्तव्यम् ॥ * ॥ हे चर्मन् । हे चर्म ॥ मादुपधायाश्च मतोर्वो ऽयवादिभ्यः ॥ ९ ॥ मतोरिह कार्यित्वेनोपादानात् सामर्थ्य लब्धं प्रातिपदिकं तन्मादिति मकारावर्णाभ्यां विशिष्यते । मकारावर्णविशिष्टया चोपधया इत्ययमर्थो भवति । मकारान्ताद् मकारोपधादवर्णान्तादवर्णोपधाच्चोत्तरस्य मतोर्व इत्ययमादेशो भवति, यवादिभ्यस्तु परतो न भवति । मकारान्तात् । किंवान् । शंवान् । मका- रोपधात् । शमीवान् । दाडिमीवान् । अवर्णान्तात् । वृत्तवान् । प्रत्तवान् । खट्वा- वान् । मालावान् । अवर्णोपधात् । पयस्वान् । यशस्वान् । भास्वान् । मादुपधा- याश्चेति किम् । अग्निमान् । वायुमान् । अयवादिभ्य इति किम् । यवमान् । दल्मिमान् । ऊर्मिमान् । यव । दल्मि । ऊर्मि । भूमि । कृमि । क्रुञ्चा । वशा । द्राक्षा * एतेषां मादुपधायाश्चेति प्राप्नोति । भ्रजि । ध्वजि । सञ्जि † इत्येतेषां छन्दसीर इति । हरित् । ककुत् गरुत् इत्येतेषां झय इति । इक्षु मधु द्रुम मघउ धूम इत्येतेषां संज्ञायामिति । आकृतिगणश्च यवादिः । अकृतवत्वो मतुब् यवा- दिषु द्रष्टव्यः । यस्य सति निमित्ते मतुपो वत्वं न दृश्यते स यवादिषु द्रष्टव्यः ‡ । इह नुमत इदं नार्मतमिति बहिरङ्गलक्षणत्वादवर्णोपधस्य मतुपो वत्वं न भवति ॥ झयः ॥ १० ॥

  • वृक्षा । वेशा । इत्यधिकं पुस्तकान्तरं । † यजि । व्रजि । भ्राजि । क्षिपि । इत्यधिकमन्यस्मिन्पुस्तके । ‡ यस्य सति निमित्ते मतुपो वत्वं न दृश्यते स यवादिषु द्रष्टव्य इति नास्त्येकस्मि- न्पुस्तके ।

ण्वती"! Line 19: "चर्मण्वतीति" is spelled "चर्म्मण्वतीति"! Line 20: "चर्मण्वती" is spelled "चर्म्मण्वती"! Line 21: "चर्म्मवतीत्येवान्यत्र ॥"! Let's check if the double 'm' is used consistently. In line 6: च र्म्म ण्व ती -> चर्म्मण्वती! In line 7: च र्म्म ण्व ती -> चर्म्मण्वती! Line 19: च र्म्म ण्व ती ति -> चर्म्मण्वतीति! Line 19: च र्म्म णो -> चर्म्मणो! Line 20: च र्म्म ण्व ती -> चर्म्मण्वती! Line 21: च र्म्म व ती त्ये वा न्य त्र -> चर्म्मवतीत्येवान्यत्र ॥! Yes! 'र्म्म' is used everywhere for 'र्म'. We should preserve चर्म्म... or चर्म...? Pure transcription usually preserves the exact ligature/spelling: चर्म्मण्वती, चर्म्मवतीत्येवान्यत्र, etc.

Let's check other words with doubling after repha: Line 15: हविर्द्धानानि (havirddhānāni) - yes! Line 16, 24: ऋषिः - no repha doubling. Line 2: विद्युत्त्वान्वला

७६४ ॥ काशिका ॥ ८ ॥ २ ॥ छन्दसि विषये इवर्णान्ताद्रेफान्ताच्चोत्तरस्य मतोर्वत्वं भवति । इव- र्णान्तात्तावत् । त्रिवती याज्यानुवाक्या भवति । हरिवो मेदिनं त्वा । अधि- पतिवती जुहोति । चरुमग्निवानिव । आरेवानेतु मा विशत् । रथेर्मेताविति संप्रसारणम् । सरस्वतीवान् । भारतीवान् । दधीवांश्चरुः । छन्दसि सर्वे विधयो विकल्प्यन्तइतीह न भवति । सप्तर्षिमन्तम् । ऋषिमान् । ऋतीमान् । सूर्ये ते द्यावापृथिवी मन्तमिति । रेफान्तात् । गीर्वान् । धूर्वान् । आशीर्वान् ॥ अनो नुट् ॥ १६ ॥ छन्दसीति वर्तते ऽनन्तादुत्तरस्य मतोर्नुडागमो भवति छन्दसि विषये । अक्षन्वन्तः कर्णवन्तः सखायः । अस्थन्वन्तं यदनस्था बिभर्ति । अक्षन्वता लाङ्गलेन । शीर्षन्वती । मूर्धन्वती । नुटोऽसिद्धत्वान्नस्य च वत्वं न भव

॥ काशिका ॥ ८ ॥ २ ॥ ७६५ उपसर्गस्यायतौ ॥ १९ ॥ आयतौ परत उपसर्गस्य यो रेफस्तस्य लकार आदेशो भवति । प्रायते । पलायते । अत्र च यो ऽयमेकादेशस्तस्य स्थानिवद्भावादायतेरुपसर्गस्य च विभागे सति यद्यातिग्रहणं रेफस्य विशेषणं तदा येन नाव्यवधानं तेन व्यवहितेऽपि वच- नप्रामाण्यादिति एकेन व्यवधानेऽपि सति लत्वं भवति । तथा च पल्ययते इत्य- त्रापि भवति । उपसर्गस्य विशेषणे त्वायतिग्रहणे सिद्धमेवैतत्सर्वं प्रतेरपि तु व्यव- हितेऽपि प्राप्नोति । तत्र केषां चिद्दर्शनं भवितव्यमेव प्रत्ययतइति । प्रथमपक्षद- र्शनाभिनिविष्टास्तु प्रत्ययतइत्येव भवतीति मन्यन्ते । अपरे तु प्रतिशब्दोपसृ- ष्टस्यायतेः प्रयोगमेव नेच्छन्ति । दुस्- निस् इत्येतयोस्तु रुत्वस्यासिद्धत्वाल्ल- त्वेन नैव भवितव्यम् । निरयाणम् । दुरयाणम् ॥

६६६ ॥ काशिका ॥ ८ ॥ २ ॥ संयोगान्तस्य पदस्य लोपो भवति । गोमान् । यवमान् । कृतवान् । हतवान् । इह श्रेयान् भूयानिति रुत्वं परमप्यसिद्धत्वात् संयोगान्तस्य लोपं न बाधते । जश्त्वे तु नाप्राप्ते तदारभ्यतइति तस्य बाधकं भवति । यशः पय इति । दध्यत्र मध्वत्रेत्यत्र तु यणादेशस्य बहिरङ्गतयास्यासिद्धत्वात्संयोगा- न्तलोपो न भवति । पदस्येति किम् । गोमन्तौ गोमन्त इति ॥ रात्सस्य ॥ २४ ॥ संयोगान्तपदस्य यो रेफस्तस्मादुत्तरस्यान्तस्य सकारस्य लोपो भवति । गोभिर्त्ताः । प्रत्यङ्गमत्साः । तरतेः त्सरतेश्च लुङि सिचश्छान्दसत्वादीड- भावो बहुलं छन्दसीति वचनाद्दीर्घे सति रूपमेतत् । मातुः पितुरिति । ऋत उदिति उत्वे कृते रपरत्वे च सति रात्सस्येति सलोपः । सिद्धे सत्यारम्भो [L1

॥ काशिका ॥ ८ ॥ २ ॥ ७६७

अमंस्त । अमंस्थाः । झलीति किम् । अभित्साताम् । अभित्सत । अयमपि सिच एव लोपस्तेनेह न भवति, सोमसुत् स्तोता । दृषत् स्थानमिति ॥ ह्रस्वादङ्गात् ॥ २७ ॥ ह्रस्वान्तादङ्गादुत्तरस्य लोपो भवति झलि परतः । अकृत । अकृथाः । अहृत । अहृथाः । ह्रस्वादिति किम् । अच्योष्ट । अप्लोष्ट । अङ्गादिति किम् । अलाविष्टाम् । अलाविषुः । झलीत्येव । अकृषाताम् । अकृषत । अयमपि सिच एव लोपस्तेनेह न भवति । द्विष्ठरां द्विष्ठमामिति सुजन्ताद् द्विशब्दात्त- रप्तमपौ अद्रव्यप्रकर्षे आतिशायिकः आमु प्रत्ययः ॥ इट ईटि ॥ २८ ॥ इट उत्तरस्य सकारस्य लोपो भवति ईटि परतः । अदावीत् । असे- वीत् । अकोषीत् । अमोषीत् । इट इति किम् । अकार्षीत् । अहार्षीत् । ईटीति किम् । अलाविष्टाम् । अलाविषुः ॥ स्कोः संयोगाद्योरन्ते च ॥ २९ ॥ पदस्यान्ते यः संयोगः झलि परतो वा संयोगस्तदाद्योः सकारककारयो- र्लोपो भवति । लस्जेः । लग्नः । लग्नवान् । साधुलक् । ककारस्य । तष्टेः, तष्ट । तष्टवान् । काष्ठतट् ॥ झलि सङीति वक्तव्यम् ॥ * ॥ किमिदं सङीति । सनः सप्रभृति महिङो ङकारेण प्रत्याहारः । इह मा भूत् । काष्ठशक्स्थातेति थकारे झलि ककारस्य संयोगादेर्लोपः प्राप्नोति । तदत्र शकेः क्विबन्तस्य प्रयोग एव नास्तीत्याह । काष्ठशगेव नास्ति कुतो ऽयं काष्ठशक् तिष्ठेदिति । वाक्यर्थे, वाक्यर्थमिति । अत्रापि बहिरङ्गलक्षणस्य यणादेशस्यासिद्धत्वात् संयोगादि- लोपो न भवति । स्कोरिति किम् । भर्त्ता । वर्षते । संयोगाद्योरिति किम् । पयःशक् । अन्ते चेति किम् । तक्षिता । तक्षकः ॥ चोः कुः ॥ ३० ॥ चवर्गस्य कवर्गादेशो भवति झलि परतः पदान्ते च । पक्ता । पक्तुम् । पक्तव्यम् । ओदनपक् । वक्ता । वक्तुम् । वक्तव्यम् । वाक् । कुञ्चेत्यत्र सहोति वचनाद् अकारस्य चकारे झलि कुत्वं न भवति । युजिक्रुञ्चां चेति निपात- नाद्वा । नकारोपधो वा धातुरयं रेफरहितश्च कुञ्चकौटिल्याल्पीभावयोरिति पठ्यते । नकारलोपे हि निकुञ्चिरिति दृश्यते । युजिक्रुञ्चां चेति तस्यैव रेफो- धिको नकारस्य लोपाभावश्चेति निपात्यते । तत्रानुस्वारस्य परसवर्णस्य चासि- द्धत्वात् अकार एव नास्तीति कुत्वं न भविष्यति ॥ हो ढः ॥ ३१ ॥

७६८ ॥ काशिका ॥ ८ । २ ॥ हकारस्य ढकारादेशो भवति झलि परतः पदान्ते च । सोढा । सोढुम् । सोढव्यम् । तुराषाट् । वोढा । वोढुम् । वोढव्यम् । प्रष्ठवाट् । दित्यवाट् ॥ दादेर्धातोर्घः ॥ ३२ ॥ दकारादेर्धातोर्हकारस्य घकारादेशो भवति झलि परतः पदान्ते च । दग्धा । दग्धुम् । दग्धव्यम् । काष्ठधक् । दोग्धा । दोग्धुम् । दोग्धव्यम् । गोधुक् । दादेरिति किम् । लेढा । लेढुम् । लेढव्यम् । गुडलिट् । धातोरिति दादिसमानाधिकरणमेतच्च, किं तर्हि तद्विशेषणमवयवषष्ठ्यन्तं धातोरवयवो यो दादिः शब्दस्तदवयवस्य हकारस्येति । किमेवं कृतं भवति । अधोगित्यत्रापि घकारः । सिद्धो भवति । कथं दोग्धा दोग्धुमिति, व्यपदेशिवद्भावात् । अथ [L1