भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ
२४२किरातार्जुनीयम्

मल्लि०—प्रमार्ष्टुमिति। किंतु, छद्मना कपटेन कृतम्। शत्रुभिरिति शेषः। अयश एव पङ्कमिति रूपकालंकारः। वैधव्येन तापितानां दुःखीकृतानामराति-वनितानां लोचनाम्बुभिः प्रमार्ष्टुं क्षालयितुम्। इच्छेयमभिलषेयम्। इषिर्लिङि रूपम्। वैरिर्निर्यातिनातिरिक्तं न किंचिदिच्छामीत्यर्थः॥ ६७॥

**हिन्दी—**मैं शत्रुओंसे कपटपूर्वक किये गये अपनी अकीर्तिरूप पङ्क (कीचड़) को वैधव्यसे सन्तापित शत्रुपत्नियोंके आँसुओंसे धोना चाहता हूँ॥ ६७॥

एवं तर्हि ‘यः करोति वधोदर्काः’ (श्लो० १९) इत्याद्युक्तदोषः स्यादिति शङ्कामङ्गीकृत्य ग्लानिर्न दोषायेति न्यायमाश्रित्य युग्मेनोत्तरमाह—

अपहस्येऽथवा सद्भिः, प्रमादो वास्तु मे धियः।
अस्थानविहितायासः कामं जिह्रेतु वा भवान्॥ ६८॥

मल्लि०—अपहस्य इत्यादि। अथवा, सद्भिः पण्डितैः अपहस्ये। उपहसिष्ये इत्यर्थः। ‘वर्तमानसामीप्ये वर्तमानवद्वा’ इति हसतेरप्यन्तात्कर्मणि लट्। व्यत्ययभ्रान्तः पाठः। मे धियः प्रमादोऽनवधानत्वं वाऽस्तु। भवान् अस्थानेऽयोग्यविषये विहित आयासो हितोपदेशो येन स तथोक्तः। विफलप्रयत्नः सन्नित्यर्थः। कामं वा जिह्रेतु लज्जताम्॥ ६८॥

**हिन्दी—**इस उद्देश्यसे की गई मेरी तपस्यामें मैं विद्वानोंका उपहासपात्र हो जाऊँ या मेरी बुद्धिकी असावधानीता हो अथवा अयोग्य विषयमें प्रयास करनेवाले होते हुए आप लज्जित हों॥ ६८॥

वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम्।
निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः॥ ६९॥

मल्लि०—वंशेति। अहं तु विद्विषां शत्रूणां समुच्छेदेन विनाशेन करणेन वंशलक्ष्मीमनुद्धृत्यापुनरावश्यं निर्वाणं मोक्षमपि जयश्रियोऽन्तरायं विघ्नं मन्ये। न तु पुरुषार्थमित्यर्थः। किमुताभ्योरसवादिकमिति भावः॥ ६९॥

**हिन्दी—**मैं तो शत्रुओंका संहार कर अपनी वंशलक्ष्मीका उद्धार किये बिना मोक्षको भी विजयलक्ष्मीमें विघ्न रूप समझता हूँ॥ ६९॥

अजन्मा पुरुषस्तावद् गतासुस्तृणमेव वा।
यावन्नेषुमिरादत्ते विलुप्तमरिमियंशः॥ ७०॥

मल्लि०—अजन्मेति। पुरुषो यावत् अरिभिर्विलुप्तं संहृतं यश इषुभिर्नदत्ते।

एकादशः सर्गः | २४३

एकादशः सर्गः | २४३

अरिवधेन न प्रत्याहरतीत्यर्थः । तावत् अजन्मा । अजातप्राय इत्यर्थः । नन्वजातो जननान्तरमुपयुज्यत एवेत्यरुच्या पक्षान्तरमाह—गतासुमूर्तः । मृततुल्य इत्यर्थः । मृतोऽपि प्रागुपयुक्तवानित्यरुच्याह—तृणमेवेति । तृणतुल्य इत्यर्थः । अचिकित्करस्तु त्रैकाल्यानुपयोगोज्जीवन्मृत इत्यर्थः । अतो नाहमाग्रहद् ब्रवीमि, किन्तु वीरधर्ममनु-पालयामीति भावः ॥ ७० ॥

हिन्दी—पुरुष जब तक शत्रुओंसे विलुप्त यशको बाणोंसे नहीं लौटाता है तब तक वह जन्महीन-सा है । वा मरा हुआ-सा है वा तृणके ही समान है ॥ ७० ॥

सर्वथा वैरनिर्यातं कर्तव्यमित्युक्तम्, तदकरणे पुरुषगुणानां हानिदोषमाह—

अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ! ॥ ७१ ॥

मल्लि०—अनिर्जयेनेति । यस्यामर्षः क्रोधो द्विषतां शत्रूणाम् । अनिर्जयेन विजयं विनैव प्रशाम्यति । उपलक्षणे तृतीया । तस्मिन् पुरुष इत्युक्तिः ‘पुरुष’ शब्दः कथम् ? न कथंचिदित्यर्थः । प्रवर्तत इति शेषः । प्रवृत्तिनिमित्तस्य पुरुषकारस्या-भावादिति भावः । हे तपोधन ! त्वं हि त्वमेव ब्रूहि कथय । न च ते किंचिदविदित-मस्तीति भावः । ‘हि हेताववधारणे’ इत्यमरः ॥ ७१ ॥

हिन्दी—हे तपस्विन् ! जिस पुरुषका क्रोध शत्रुओंके जीते बिना शान्त होता है उसमें 'पुरुष' शब्दसे व्यवहार कैसे उचित होगा ? आप ही कहिए ॥ ७१ ॥

ननु पुरुषत्वजात्यैव पुरुषोक्तिप्रवृत्तेः किंपुरुषकारेण, तत्राह—कृतमित्यादिद्वयेन—

कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ७२ ॥

मल्लि०—कृतमिति । जातिमात्रावलम्बिना जातिमात्राभिधायिना पुरुषशब्देन कृतमलम् । न तेन किंचित्साध्यत इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया करण-त्वात्तृतीयेत्युक्तं प्राक् । ‘कृतम्’ इति निषेधार्थकमव्ययं चादिषु पठ्यते । सत्यं जातिमात्रेऽपि ‘पुरुष’ शब्दः प्रवर्तते । परन्तु नासौ पुंस्त्वमात्राच्छ्लाघ्यः पश्वादिसाधारणा-दिति तात्पर्यार्थः । तर्हि कीदृशश्लाघ्य इत्याशङ्कयाह—य इत्यादिनाधयुग्मेन । अङ्गी-कृतगुणैर्गुणपक्षपातिभिः । यः पुमान् श्लाघ्यः स्तुत्यः सन् सविस्मयं ससंभ्रमम् । उदाहृतः कथितः । पुंसा ईदृशेन भवितव्यमिति निश्चितः ॥ ७२ ॥

हिन्दी—जातिमात्रका अवलम्बन करनेवाले 'पुरुष' शब्दको कुछ आवश्यकता

२४४किरातार्जुन्रीयम्

नहीं है, जो गुणोंका अङ्गीकार करनेवाले पुरुषोंसे आश्चर्यपूर्वक उदाहरणरूप होता है वही पुरुष प्रशंसनीय है ॥ ७२ ॥

ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ॥ ७३ ॥

**मल्लि०—**ग्रसमानमिति । किञ्च, सदसा सभया गौरवेणेरितं कथाप्रसङ्गाद् गौरवपूर्वकमुच्चारितं सत् । ओजांसि शृण्वतां तेजांसि ग्रसमानं गिलदिव स्थितं यस्य पुंसो नाम द्विषोऽप्यभिनन्दन्त्यनुमोदन्ते । किमुत सुहृद इति भावः । स पुमान् पुमान् । पुरुषत्वेन गण्यत इत्यर्थः । प्रथमः 'पुं' शब्दो जातिवचनः, द्वितीयो गुणवचनः । स एव श्लाघ्यः । अत्र पुमान्पुमानिति तात्पर्यमात्रभेदभिन्नार्थकत्वादेरुक्तलक्षणो लाटानुप्रासोऽलंकारः । तथा च सूत्रम्—'तात्पर्यभेदयुक्तो लाटानुप्रासः' इति ॥ ७३ ॥

**हिन्दी—**सभासे गौरवसे उच्चारित होते हुए और सुननेवालोंके तेजको ग्रस करते हुए जिस पुरुषके नामका शत्रुलोग भी अनुमोदन करते हैं, वही पुरुष 'पुरुष' शब्दसे परिगणित होता है ॥ ७३ ॥

ननु सत्सु भीमादिषु तवैवायं कोऽभिनिवेश इत्यत्राह—

यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ॥ ७४ ॥

**मल्लि०—**यथेति । नृपतियुधिष्ठिरः यथाप्रतिज्ञं युधि द्विषतां प्रतिचिकीर्षया द्विषतः प्रतिकर्तुमिच्छया । प्रतिज्ञानुसारेणैव जिघांसयेत्यर्थः । तृष्यन् पिपासुः जलाञ्जलेरिव ममैवाध्येति इच्छति । कार्यसिद्धेर्मदायत्तत्वान्मामेव स्मरति, अतोऽयं ममाभिनिवेश इत्यर्थः 'अधीगर्थे—'त्यादिना कर्मणि षष्ठी ॥ ७४ ॥

**हिन्दी—**राजा (युधिष्ठिर) प्रतिज्ञाके अनुसार युद्धमें शत्रुओंका प्रतिकार करनेकी इच्छासे जैसे प्यासा पुरुष जैसे जलाञ्जलिकी इच्छा करता है उसी तरह मेरा स्मरण करते हैं ॥ ७४ ॥

ननु युधिष्ठिरः स्वार्थं साधयति, त्वया च स्वार्थमात्रमनुसंधीयतामित्यत आह—

स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कृच्छ्रेषु व्यर्थता यत्र भूयते भर्तुराज्ञया ॥ ७५ ॥

एकादशः सर्गः २४५

मल्लि०—स इति। स नरोऽवदातस्य स्वच्छस्य वंशस्य शशाङ्कस्येव लाञ्छनं कलङ्कः। यत्र यस्मिन्पुरुषे कृच्छ्रेषु व्यसनेषु भर्तुः स्वामिन आज्ञया व्यर्थया भूयते। भावे लट्। आपदि स्वार्थसाधकः कुलघातकः तत्कथं स्वार्थनिष्ठकार्यत युक्तमित्यर्थः ॥ ७५ ॥

**हिन्दी—**जो पुरुष विपत्तिमें स्वामीकी आज्ञाको व्यर्थ कर देता है वह पुरुष चन्द्रमाके समान स्वच्छ वंशका कलङ्क-स्वरूप है ॥ ७५ ॥

यदुक्तम्—'विजहीहि रणोत्साहम्' (श्लो० २१) इत्यादि, तत्रोत्तरमाह—

कथं वादीयतामर्वाङ् मुनिता धर्मरोधिनी।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः॥ ७६ ॥

मल्लि०—कथमिति। धर्मरोधिनी धर्मविरोधिनी। अर्वाक् गार्हस्थ्यात्प्रागेव मुनिता वानप्रस्थत्वं चतुर्थाश्रमतो वा। वर्णक्रमेण तस्य विधानात् 'त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनाच्च क्षत्रियस्यापि केञ्चिदिष्टत्वात्। तदेतत्सम्बग्विचेचितमस्माभी रघुवंशसंजीविन्याम् (स० ८।१४)—'स किलाक्रममन्त्यमाश्रितः' इत्यत्र। कथं वा आदीयतां मया कथं वाऽङ्गीक्रियताम्। संप्रश्ने लोट्। तथा हि पूर्वैर्मन्वादिभिराश्रमानुक्रमः स्मर्यते। न तु व्यतिक्रमः। 'ब्रह्मचारी भूत्वा गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत्' इति श्रुत्यनुसारादित्यर्थः। एतदपि 'चत्वार आश्रमाः' इत्येतत्पक्षमाश्रित्योक्तम्। 'यदि चेद्वैराग्यं तदा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा। वनाद्वा' इति व्युत्क्रमपक्षस्यापि श्रवणात्। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ७६ ॥

**हिन्दी—**गृहस्थाश्रमसे पहले ही धर्मविरोधी वानप्रस्थधर्म वा संन्यासधर्मका कैसे ग्रहण किया जाय ? मनु आदि पूर्वजोंने ब्रह्मचर्य, गार्हस्थ्य, वानप्रस्थ और संन्यास ऐसे आश्रमके क्रमका स्मरण किया है ॥ ७६ ॥

ननु भवान्गृहस्थ एव तत्कथमर्वाङ्मुनित्वविरोध इत्याशङ्क्य, सत्यं गृहस्थोऽस्मि, तथापि कृतनिखिलगृहस्थकर्तव्यस्यैव वानप्रस्थाधिकारो न गृहस्थमात्रस्य। न चाहमद्यापि कृतकृत्य इत्युत्तरमाह—

आसक्ता भूरियं रूढा जननी दूरगा च मे।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः॥ ७७॥

मल्लि०—आसक्तेति। आसक्ता लग्ना। अवश्यं कर्तव्येत्यर्थः। रूढा प्रसिद्धा

२४६किरातार्जुनीयम्

महतीत्यर्थः । इयं पूर्वोक्ता धूः वैरिनिर्यातनभारः । दूरगा दूरवर्तिनी जननी मातापि । तथा, नृपोऽप्याचारवान् । तपोऽधिक इत्यर्थः । तथापि ज्यायान् श्रेष्ठो नृपो युधिष्ठिरश्च मे मम स्वातन्त्र्यं स्वाच्छन्द्यं तिरस्करोति दूरीकरोति । आश्रमान्तरं प्रतिबध्नातीत्यर्थः । तिरस्करोतीति प्रत्येकमभिसंबध्यते । अन्यथा बहुवचनप्रसङ्गात् ॥ ७७ ॥

हिन्दी— वैरीसे बदला लेनेका महान् यह भार मेरे ही ऊपर लगा हुआ है। मेरी माता भी दूरवर्तिनी हैं और आचारवान् राजा (बड़े भाई युधिष्ठिर) भी मेरी स्वतन्त्रताको दूर कर रहे हैं (अतः दूसरा आश्रम वानप्रस्थ वा संन्यास) मैं नहीं ले सकता हूँ ॥ ७७ ॥

उक्तमर्थमुपसंहरति—

स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥ ७८ ॥

मल्लि०— स्वधर्ममिति । मानशालिनः स्वधर्मं क्षात्रधर्ममनुरुन्धन्तेऽनुवर्तन्ते । अतिक्रमं स्वधर्मातिक्रमं नानुरुन्धन्ते । ततः किमत आह—अरातिभिरिति । अरातिभिः कृतध्वंसाः कृतापकाराः सन्तः आहवान्न पलायन्ते । अयमेव स्वधर्मानुरोध इत्यर्थः । 'उपसर्गस्यायतौ' इति रेफस्य लत्वम् । अत्र मनुः—'न निवर्तेत सङ्ग्रामात् क्षात्रधर्ममनुस्मरन्' इति । अत्रोत्तरवाक्यार्थं प्रति पूर्ववाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ७८ ॥

हिन्दी— मानी पुरुष क्षत्रियधर्मका अनुसरण करते हैं, स्वधर्मका लङ्घन नहीं करते हैं । शत्रुओंसे अपकार किये जाते हुए युद्धसे पलायन नहीं करते हैं ॥ ७८ ॥

किं बहुना, ममायं निश्चयः श्रूयतामित्याह—

विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे ॥ ७९ ॥

मल्लि०— विच्छिन्नेति । विच्छिन्नं वाताहतं यदभ्रं तदिव विलीयेति विच्छिन्नाभ्रविलायं यथा तथा 'उपमाने कर्मणि च' इति कर्मण्यपदे णमुल् । नगमूर्धनि अस्मिन्गिरिशृङ्गे विलीये विशीर्ये वा । कषादिषु यथाविध्यनुप्रयोगः । यद्वा—सहस्राक्षमिन्द्रम्, आराध्यायश एव शल्यं तत् । उद्धरे उद्धरिष्यामि । न तु गत्यन्तरं शङ्क्येत्यर्थः । 'वा' शब्दो विकल्पे ॥ ७९ ॥

एकादशः सर्गः २४७

हिन्दी—वायुसे ताडित मेघके समान विलीन होकर इन्द्रकील पर्वतकी चोटीमें नष्ट हो जाऊँगा या इन्द्रदेवकी आराधना कर अकीर्तिरूप कण्टकको निकाल दूँगा ॥ ७९ ॥

इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः ।
अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश ॥ ८० ॥

मल्लि०—इतीति। मघवा इन्द्रः। इत्युक्तवन्तं तनूजं पुत्रमर्जुनम्। आविष्कृता प्रकटिता दिव्यमूर्तिर्निजरूपं येन स यथोक्तः सन्। दोर्भ्यां बाहुभ्यां परिरभ्य विभूत्यै श्रेयसे। उपहन्यतेऽनेनेत्युपघातम्। करणे घञ्प्रत्ययः। अघानां दुःखानामुपघात-मघोपघातम्। भवः संसारस्तस्योद्भवः कारणमिति भवोद्भवः शिवस्तस्य आराधन-मुपासनम्। आदिदेश। शिवमुद्दिश्य तपश्चरेत्याज्ञापयामासेत्यर्थः ॥ ८० ॥

हिन्दी—इन्द्रदेवने ऐसा कहनेवाले अपने पुत्र अर्जुनको अपनी दिव्यमूर्तिको प्रकट कर बाहुओंसे आलिङ्गन कर उन्हें कल्याणके लिए दुःखोंका नाश करनेवाले संसारके कारणस्वरूप शिवजीके आराधनका उपदेश दिया ॥ ८० ॥

प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः ।
लक्ष्मीं समुत्सुकयितासि भृशं परेषामुच्चार्य वाचमिति तेन तिरोबभूवे ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये एकादशः सर्गः।

मल्लि०—प्रीत इति । पिनाकिनि शिवे प्रीते सति लोकपालैः सह मया लोकत्रयेऽपि विहितं दत्तमप्रतिवार्यमनिवार्यं वीर्यं यस्य स तथोक्तः सन्। परेषां शत्रूणां लक्ष्मीं भृशं समुत्सुकयितासि समुत्सुकां त्वय्यनुरक्तां कर्तासि। पुनराहरिष्यसीत्यर्थः। वीरभोग्याः संपद इति भावः 'उत्सुक' शब्दात् 'तत्करोति' इति ण्यन्तात् कर्तरि लुट् इति वाचमुच्चार्य, तेन इन्द्रेण तिरोबभूवेऽन्तर्दधे । भावे लिट् ॥ ८१ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायामेकादशः सर्गः समाप्तः ।

हिन्दी—'हे अर्जुन ! शिवजीके प्रसन्न होनेपर लोकपालोंके साथ मुझसे भी दिये गये अनिवार्य पराक्रमसे युक्त होकर तुम शत्रुओंकी लक्ष्मीको अत्यन्त उत्सुक कर डालोगे' ऐसा वाक्य कहकर इन्द्रदेव अन्तर्हित हो गये ॥ ८१ ॥

इति किरातार्जुनीये एकादशः सर्गः ।

द्वादशः सर्गः

अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम्।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥ १ ॥

मल्लि०—अथेति। अथ इन्द्रतिरोधानान्तरं रुचिरवदन इन्द्रसाक्षात्कार-संतोषात् प्रसन्नमुखो धनंजयोऽर्जुनो वासवस्य वचनेन उपदेशेन त्रिलोचनं शिवं क्लान्तिरहितं यथा तथा, अभिराधयितुं प्रसादयितुं तपांसि विधिवत् विध्यर्हं यथा यथाशास्त्रमित्यर्थः। 'तदर्हम्' इति वतिप्रत्ययः। विदधे चक्रे। अस्मिन्सर्गे उद्गता वृत्तम्—'सजसादिमे सलघुको च नसजगुरुगैरयोद्गता। त्र्यर्हाङ्गितनभसजगयुताः सजसा जगौ चरणमेकतः पठेत्।' इति लक्षणात् ॥ १ ॥

**हिन्दी—**इन्द्रदेवके अन्तर्हित होनेके अनन्तर प्रसन्न मुखवाले अर्जुन उनके उपदेशसे ग्लानिरहित होकर शिवजीको प्रसन्न करनेके लिए विधिपूर्वक तपस्या करने लगे ॥ १ ॥


अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः।
तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं मिषोदतः ॥ २ ॥

मल्लि० --अभिरश्मीति। अभिरश्मिमालि अभिसूर्यं सूर्याभिमुखं भुवि एकं चरणं निधीदन् एकचरणेन तिष्ठतो विमलस्य बाह्यान्तरशुद्धिमत्तः। धृता जयधृतिर्जयेच्छा येन तस्य। अनाशुषोऽनश्नतः। 'उपेयिवाननाश्वाननूचानश्च'ति निपातः। तस्यार्जुनस्य बहूनां पूरणा बहुतिथाः। बहुसंख्याका इत्यर्थः। 'तस्य पूरणे डट्'। 'बहुपूगगणसङ्घस्य तिथुक्' इति तिथुगागमः। तिथयो दिनानि प्रतिजग्मुः। अत्र 'तिथि'शब्दः पुँल्लिङ्गः। 'तदाद्यास्तिथयो द्वयोः' इत्यभिधानात्। अन्यथा बहुतिया इत्यत्र टित्त्वाङ्गीष्प्रसङ्गात् ॥ २ ॥

**हिन्दी—**सूर्यके सम्मुख पृथ्वीपर एक पैरसे खड़े होकर निर्मल होकर विजयलाभकी इच्छा करते हुए निराहार उन अर्जुनके बहुत-से दिन व्यतीत हुए ॥ २ ॥


वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः।
दधाप नगपतिरिव स्थिरतां, महतां हि धेयंमविभाव्यवैभवम् ॥ ३ ॥

मल्लि०--वपुरिति। पाण्डवोऽर्जुनः सततं वपुष इन्द्रियाणां च उपतपनेषु

द्वादशः सर्गः २४९

संतापकरेषु । करणे ल्युट् । असुष्वेवानशनादिदुःखेष्वपि नगपतिगिरीन्द्र इव स्थिरतां दाढ्यं व्याप प्राप । तथा हि—महतां धैर्यमविभाव्यं दुर्बोधं वैभवं सामर्थ्यं यस्य तत्तथोक्तम् । धीराणामकिञ्चित्करं दुःखमिति भावः ॥ ३ ॥

हिन्दी—अर्जुन निरन्तर शरीर और इन्द्रियोंके सन्तापकारी अनशन आदि दुःखोंमें भी हिमालय पर्वतके समान दृढ़ हो गये, क्योंकि महापुरुषोंके धैर्यके वैभव-को नहीं जाना जा सकता है ॥ ३ ॥

न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् ।
तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ॥ ४ ॥

मल्लि०—नेति । तस्यार्जुनस्य मानसं मनः संनिहितानि समीपस्थानि यानि पक्तिसुरभीणि पाकसुगन्धीनि तेषु फलेषु । तथा, शुचिनि स्वच्छे शिशिरे शीतले पयसि च न पपात । न किंचिदाचकाङ्क्षेति भावः । प्राणधारणं तु तस्य तप एवे-त्याह—तथापि सुकर्मणां सुकृतिनां शोभनं तपः सुतप एव अमृतायतेऽमृतवदाचरति । किं तपस्तृप्तानां तर्पणान्तरैरिति भावः । 'लोहितादिडाज्भ्यः क्यष्' 'वा क्यषः' इत्यात्मनेपदम् । लोहितादिराकृतिगणः ॥ ४ ॥

हिन्दी—उन अर्जुनका मन समीपस्थ और पकनेसे सुगन्धित फलोंमें और स्वच्छ और शीतल जलमें भी आसक्त नहीं हुआ, क्योंकि पुण्यकर्म करनेवालोंकी उत्तम तपस्या अमृतके समान होती है ॥ ४ ॥

न विसिस्मिये, न विषसाद, मुहुरलसतां न चाददे ।
सत्त्वमुरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥ ५ ॥

मल्लि०---नेति । सोऽर्जुनो न विसिस्मिये । 'अहो महत्तपस्तप्तम्' इति न विस्मयं जगाम । 'तपः क्षरति विस्मयात्' इति स्मृतेरिति भावः । न विषसाद फलविलम्बाद् गतोत्साहो न बभूव । 'विषादश्चेतसो भङ्गः' इति वचनात् । 'सद्धि-रप्रतेः' इति षत्वम् । मुहुरलसतां च नाददे । तपसि मन्दोद्यमत्वं च नाग्रहीदिति भावः । किंच, हतशक्तीनी हतसारे अत एव पेलवे भङ्गुरे ते हतशक्तिपेलवे रजस्त-मसी गुणौ, उरुधृति महासारं तस्यार्जुनस्य सत्त्वं सत्त्वगुणं न हतः स्म न हतवतो । हन्तेः 'लट् स्मे' इति भूतार्थे लट् ॥ ५ ॥

हिन्दी—अर्जुन अपनी तपस्यामें विस्मित नहीं हुए और न विषादयुक्त हुए

२५०किरातार्जुनीयम्

न आलस्यको प्राप्त हुए, शक्ति नष्ट होनेसे भङ्गुर रजोगुण और तमोगुण सम्पूर्ण सारसे सम्पन्न सत्त्वगुणको नष्ट नहीं कर सके ॥ ५ ॥

तपसा कृशं वपुरुवाह स विजितजगत्त्रयोदयम् ।
त्रासजननपि तत्त्वविदां किमिवास्ति यन्न सुकरं मनस्विभिः ॥ ६ ॥

मल्लि०— तपसेति । सोऽर्जुनः तपसा कृशं तथापि विजितो जगत्त्रयस्य भुवनत्रयस्य उदय उत्कर्षो येन तत्तथोक्तम् । किञ्च तत्त्वविदामपि लोकहितप्रवृत्तिं जानतामपि त्रासजननं भयंकरं वपुः उवाह वहति स्म । न चैतच्चित्रमित्याह— किमिति । यत्तु मनस्विभिर्न सुकरं तत् किमिवास्ति । न किमपीत्यर्थः 'इव' शब्दो वाक्यालंकारे । 'मनस्विनाम्' इति पाठे शेषे षष्ठी स्यादेव । कृद्योगलक्षणा तु 'न लोके'-त्यादिना निषेधात् ॥ ६ ॥

हिन्दी— वे ( अर्जुन ) तपस्यासे दुर्बल होनेपर भी तीनों लोकोंके उत्कर्षको जीतनेवाले तथा तत्त्व जाननेवालोंके भी त्रासको उत्पन्न करनेवाले शरीरको धारण करने लगे, क्योंकि मनस्वी लोगोंसे जो सुकर नहीं है, ऐसा कौन-सा विषय है ? ॥ ६ ॥

ज्वलतोजनलादनुनिशीथमधिकरुचिरम्भसां निधेः ।
धैर्यगुणमवजयन्विजयी ददृशे समुन्नततरः स शैलतः ॥ ७ ॥

मल्लि०— ज्वलत इति । विजयी सोऽर्जुनः । अनुनिशीथमर्धरात्रे । विभक्त्यर्थेऽव्ययीभावः 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः । ज्वलतो दीप्यमानात् । अनलादग्नेः । अधिकरुचिर्दीप्यमानः । तथा, अम्भसां निधेर्धैर्यं गाम्भीर्यं तदेव गुणस्तम् अवजयन् । किञ्च, शैलतः शैलादपि समुन्नततरो ददृशे दृष्टः । अत्र रुच्यादिभिरनलाद्याधिक्यासम्बन्धे संबन्धाभिधानादतिशयोक्तिरलंङ्कारः ॥ ७ ॥

हिन्दी— विजयशील अर्जुन आधी रातमें जलते हुए अग्निसे भी अधिक तेजवाले, समुद्रके भी गाम्भीर्य गुणको जीतते हुए और पर्वतसे भी अधिक उन्नत देखे गये ॥ ७ ॥

जपतः सदा जपमुपांशु वदनमभितो विसारिभिः ।
तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवाक्रमण्डलम् ॥ ८ ॥

मल्लि०— जपत इति । सदा उपांशु रहः । गूढमित्यर्थः । 'रहोऽपांशु

द्वादशः सर्गः २५१

द्वादशः सर्गः २५१

वालिङ्गे' इत्यमरः। 'करणवदशब्दमनुप्रयोग उपांशु' इति कौमारलक्षणम् । जप्यत इति जपस्तं जपम् । मन्त्रमित्यर्थः । जपतः पठतः । तस्यार्जुनस्य वदनं कर्तृ अभितो विसारिभिः प्रसरणशीलैः । दशनकिरणैर्हेतुभिः परिवेषवान्यमर्क- मण्डलम् इव शुशुभे । 'परिवेषस्तु परिधिरुपसूर्यकमण्डले' । इत्यमरः ॥ ८ ॥

हिन्दी—निरन्तर गूढ जप करते हुए उन अर्जुनका मुख चारों ओर फैलनेवाले दन्तकिरणोंसे परिवेषके आवरणसे भयङ्कर सूर्यमण्डलके समान शोभित होने लगा ॥ ८ ॥

कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः ।
शैलपतिरिव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥ ९ ॥

मल्लि०—कवचमिति । कवचं वर्म बिभ्रदुपवीतपदे यज्ञोपवीतस्थाने निहितमारोपितं सज्यं कार्मुकं येन स तथोक्तः । 'सोऽर्जुनो महेन्द्रधनुषा परिवीतं परिवेष्टितं भीमं गहनं वनं यस्य स शैलपतिरिव हिमवानिव विदिद्युते शुशुभे ॥ ९ ॥

हिन्दी—कवचको धारण करते हुए और यज्ञोपवीतके स्थानपर प्रत्यञ्चाके साथ धनुको लिये हुए वे (अर्जुन) इन्द्रधनुसे परिवेष्टित भयङ्कर वनवाले हिमालय पर्वतके समान शोभित होने लगे ॥ ९ ॥

प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ १० ॥

मल्लि०—प्रविवेशेति । नियमसवनाय नियमस्नानाय । 'सवनं त्वध्वरे स्नाने होमनिर्दलनेऽपि च' इति विश्वः । गच्छतः तस्यार्जुनस्य पदैः पादन्यासैर्विनमितो हिमवान् गां भुवं प्रविवेशेवेत्युत्प्रेक्षा । ननु कृशस्य कथमियद् गौरवम्, तत्राह— गुणाः सारादयो गुरुतां नयन्ति प्रापयन्ति हि । संहतिः संघातः । मूर्तिरिति यावत् न नयन्ति । अन्तःसाराद्धि गौरवं भवति, न तु बाह्यस्थौल्यात्; तत्र च हेमपिण्ड- तूलपिण्डावेव निदर्शनमिति भावः ॥ १० ॥

हिन्दी—नियमके स्नानके लिए जाते हुए अर्जुनके चरणन्यासोंसे झुका हुआ हिमालय भूमिमें प्रवेश करता हुआ-सा मालूम होता था, क्योंकि गुण गुरुताको प्राप्त कराते हैं समुदाय (मूर्ति) गुरुता को प्राप्त नहीं कराता है ॥ १० ॥

२१२ | किरातार्जुनीयम्

परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम्।
ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥ ११ ॥

मल्लि०- परिकीर्णमिति। उद्यतभुजस्य ऊर्ध्वबाहोस्तस्य शिरस उपरि। 'षष्ठ्यतसर्थप्रत्ययेन' इति षष्ठी। विततं विस्तृतं भुवनयोर्विवरे द्यावापृथिव्योरन्तराले परिकीर्णं व्याप्तं दुरासदं दुर्धर्षं ज्योतिस्तेजो मुनीनां दिवौकसां च निजान् नियतान् पथो मार्गान्। जगृहे जग्राह। प्रतिबबन्धेत्यर्थः ॥ ११ ॥

हिन्दी-- ऊर्ध्वबाहु होकर तपस्या करते हुए उन (अर्जुन) के शिरके ऊपर विस्तृत आकाश और पृथिवीके अन्तरालमें व्याप्त दुर्धर्ष तेज मुनियों और देवताओंके नियत मार्गोंको ग्रहण करने लगा (रोकने लगा) ॥ ११ ॥


रजनिषु राजतनयस्य बहुलसमयेऽपि धामभिः।
भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥ १२ ॥

मल्लि०-- रजनिष्विति। बहुलसमये कृष्णपक्षेऽपि रजनिषु रात्रिषु राजतनयस्यार्जुनस्य धामभिस्तेजोभिर्भिन्नस्तिमिरनिकरो यस्य तत्। नभः शशिरश्मीनां संगमेन हेतुना युजा संगतया श्रिया। तच्छ्रीतुल्यया श्रियेत्यर्थः। अत एव निदर्शनालङ्कारः। न जहे न त्यक्तम्। जहातेः कर्मणि लिट्। ज्योत्स्नातुल्यं ज्योतिरासीदित्यर्थः ॥ १२ ॥

हिन्दी-- कृष्णपक्षमें भी रातोंमें राजपुत्र (अर्जुन) के तेजोंसे हटाये गये अन्धकारसमूहवाला आकाश, चन्द्रकिरणोंके संगमके कारणसे संगत होनेवाली शोभासे परित्यक्त नहीं हुआ ॥ १२ ॥


महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना।
ह्रीतमिव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ॥ १३ ॥

मल्लि०-- महतेति। जिष्णोरर्जुनस्य जन्म यस्य तेन। जन्मोत्तरपदत्वाद्भावेऽधिकरणे बहुव्रीहिः। महता मयूखनिचयेन बहुकिरणसमूहेन शमितरुचि हतप्रभम्। अंशुमालिनो वपुरर्कबिम्बं ह्रीतं जितत्वाल्लज्जितमिवेत्युत्प्रेक्षा। वीतमले विमले। मेघनीहाराद्यावरणरहितेऽपीत्यर्थः। नभसि न विराजते स्म ॥ १३ ॥

हिन्दी-- अर्जुनसे उत्पन्न होनेवाले महान् किरणसमूहसे तेजोहीन सूर्यमण्डल लज्जित-सा होकर निर्मल आकाशमें शोभित नहीं हो रहा था ॥ १३ ॥

द्वादशः सर्गः २५३

द्वादशः सर्गः २५३

तमुदीरितारुणजटांशुमधिगुणशरासनं जनाः । रुद्रमनुदितललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पुरीः ॥ १४ ॥

मल्लि०—तमिति । उदीरिता उद्गता अरुणाः जटानामंशवो यस्य । तमधिगुणमधिज्यं शरासनं यस्य । तमर्जुनम् । जनाः सिद्धगणाः । आसुरोरसुरसंबन्धिनीः पुरोः मिमन्थिषुं मथितुमिच्छुम् । मथेः सन्नन्तादुप्रत्ययः । तथा, अनुदितानुत्पन्ना ललाटे दृक् यस्य तं साक्षात्त्रिपुरविजयोद्यतमभालाक्षं रुद्रमिव ददृशुः । अत्राभालाक्षस्य रुद्रस्यासम्भवात्स्वतः सिद्धोपमानासिद्धेनैयमुपमा, किंतूत्प्रेक्षा । सा चाभालाक्षमप्युपमानादुपमेयस्य न्यूनत्वकथनादन्वयव्यतिरेकेणोच्छीवितेत्यनयोरङ्गाङ्गिभावेन संकरः । उपमां तु व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ १४ ॥

हिन्दी—जटाओंकी लाल किरणोंसे युक्त और धनुपर प्रत्यञ्चाको चढ़ाये हुए उन (अर्जुन) को सिद्धगणोंने असुरोंकी पुरियोंके मथनकी इच्छा करनेवाले ललाटमें अग्निरूप नेत्रसे रहित शिवजीके समान देखा ॥ १४ ॥

मरुतां पतिः स्विद्बहिमांशुरुत पृथुशिखः शिखी तपः । तप्तुमसुकरमुपक्रमते, न जनोऽयमित्यवयये स तापसैः ॥ १५ ॥

मल्लि०—मरुतामिति । मरुतां पतिः स्वित् देवेन्द्रो वा । अहिमांशुरुत सूर्यो वा । पृथुशिखो महाज्वालः शिखी पावको वा । असुकरं दुष्करं तपस्तप्तुमुपक्रमते । अयं जनः पुरुषः कश्चित्प्राकृतो न, इति सोऽर्जुनः । तापसैस्तपस्विभिः । 'अण् च' इति मत्वर्थीयोऽण्प्रत्ययः । अवययेऽवगतः । यातेरवपूर्वात्कर्मणि लिट् । अत्रेन्द्रादिकं धर्ममारोप्य जनत्वापवादात्साम्यमारोप्यापह्नुवालंकारः । सामान्यलक्षणं तु—'निषिद्धविषये साम्यारोपो हापह्नवः' इति ॥ १५ ॥

हिन्दी—ये क्या देवराज इन्द्र हैं, अथवा सूर्य हैं, या विशाल ज्वालाओंसे युक्त अग्निदेव दुष्कर तपस्या करनेके लिए उपक्रम कर रहे हैं, ये सामान्य पुरुष नहीं हैं, तपस्वियोंने उनको इस प्रकार गौर किया ॥ १५ ॥

न ददाह भूरुहवनानि हरितनयधाम दुर्गम् । न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥ १६ ॥

मल्लि०—न ददाहेति । दुर्गम् । व्यापकमित्यर्थः । हरितनयस्य इन्द्रसुतस्यार्जुनस्य धाम तेजो भूरुहवनानि वृक्षषण्डान् न ददाह । अग्निवदिति भावः ।

२५६ | किरातार्जुननीयम्

क्वचित्कोणे स्थितमित्यर्थः । तथापि भुवनातिवर्तिना सर्वलोकातिशायिना । द्योत- तेजसा । अद्रिभिः पर्वतैर्जलनिधिभिः समुद्रैः जलवाहपथेनाकाशेन च सह वर्तत इति तथोक्तम् । दिग्भिः सह वर्तत इति सदिक् । उभयत्रापि 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । विश्वमश्नुवानं व्याप्नुवन्तमिव स्थितमित्युत्प्रेक्षा । 'अशूङ् व्याप्तौ' इति धातोः शानच् ॥ २१ ॥

हिन्दी— महर्षियोंने ऊँची हिमालय पर्वतकी चोटीपर विद्यमान समस्त लोकोंका अतिक्रमण करनेवाले तेजसे पर्वत, समुद्र आकाश और दिशाओंसे युक्त विश्वको व्याप्त करते हुए-से (शिवजीका दर्शन किया) ॥ २१ ॥

अनुजानुमध्यमवसक्तविततवपुषा महाहिना ।
लोकमखिलमिव भूमिभृता रवितेजसामवधिनाधिवेष्टितम् ॥ २२॥

मल्लि०— अनुजान्विति । जान्वोर्मध्येऽनुजानुमध्यम् विभक्त्यर्थेऽव्ययीभावः। अवसक्तं लग्नं विततमायतं च वपुर्यस्य तेन महाहिना । अवसक्थिकाबन्ध-भूतेनेत्यर्थः । अधिवेष्टितम्, अत एव रवितेजसामवधिना पर्यन्तभूतेन भूमिभृता लोकालोकाचलेनाधिवेष्टितम् । अखिलं लोकमिव स्थितमित्युपमा । 'असूर्यम्पश्यस्तमसो भागो लोकालोकाचलः' इत्यागमः ॥ २२ ॥

हिन्दी— महर्षियोंने घुटनोंके बीचमें लगे हुए विस्तृत शरीरवाले विशाल सर्पसे परिवेष्टित अतएव सूर्यतेजके पर्यन्तमें हुए लोकालोक पर्वतसे परिवेष्टित समस्त लोकके समान (शिवजीका दर्शन किया) ॥ २२ ॥

परिणाहिना तुहिनराशिविशदमुपवीतसूत्रताम् ।
नीतमुरगमनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ २३॥

मल्लि०— परिणाहिनेति । पुनश्च, तुहिनराशिवत् विशदं शुभ्रम्, उपवीत-सूत्रतां यज्ञोपवीतत्वं नीतं प्रापितम् उरगं शेषाहिम् । अनुरञ्जयता स्वगुणोपरक्तं कुर्वता । श्यामीकुर्वतेत्यर्थः । परिणाहिना विशालेन विलसन्मरीचिना प्रसृतकिरणेन शितिना नीलेन गलेन कण्ठेनोपलक्षितम् । 'कण्ठो गलोऽथ ग्रीवायाम्' इत्यमरः। अत्रोरगस्य स्वधवलिमत्यागेनान्यजन्यनीलिमग्रहणातद्गुणालङ्कारः—'तद्गुणः स्वगुण-त्यागादन्योत्कृष्टगुणग्रहः' इति लक्षणात् ॥ २३ ॥

हिन्दी-- महर्षियोंने हिमराशिके समान शुक्ल, यज्ञोपवीतके समान बनाये गये शेषनागको अपने गुणसे युक्त (श्यामवर्णवाला) करते हुए विशाल और

द्वादशः सर्गः२५७

फैली हुई किरणोंसे युक्त नीलवर्णवाले कण्ठसे उपलक्षित ( शिवजीका दर्शन किया ) ॥ २३ ॥

प्लुतमालतीसितकपालकुमुदमवरुद्धमूर्धजस् ।
शेषमिव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥ २४ ॥

**मल्लि०—**प्लुतेति । पुनश्च, मालती जातीकुसुमम् । 'सुमना मालती जातिः' इति 'पूष्ने जातीप्रभृतयः स्वलिङ्गा ब्रोहयः फले' । इति चामरः । तद्वत् सितं यत् कपालमेव कुमुदं तत् प्लुतमाप्लुतं येन तत्तथोक्तम् । अवरुद्धमूर्धजं व्याप्तशिरोरुहम् । अत एव सुरसरित्पयसां शेषमिव निर्यातावशिष्टं गाङ्गमम्म इव । स्थितमित्यर्थः । उत्प्रेक्षालङ्कारः । विसारि विसृत्वरं शशिधाम चन्द्रतेजः शिरसा बिभ्रतम् । पुरुषं ददृशुरिति पूर्वेण संबन्धः ॥ २४ ॥

**हिन्दी—**चमेलीके फूलके समान सफेद कपालरूप कुमुदको व्याप्त करनेवाले, केशोंको व्याप्त करनेवाले अत एव गङ्गाजलके अवशिष्ट भागके समान स्थित फैले हुए चन्द्रप्रकाशको शिरसे धारण करते हुए (शिवजीका दर्शन किया) ॥२४॥

मुनयस्ततोऽभिमुखमेत्य नयनविनिमेषनोदिताः ।
पाण्डुतनयतपसा जनितं जगतामशमं भृशमाचचक्षिरे ॥ २५ ॥

**मल्लि०—**मुनय इति । ततो दर्शनानन्तरं मुनयोऽभिमुखमेत्य । शिवस्येति शेषः । नयनविनिमेषेण नेत्रसंज्ञया नोदिताः प्रेरिताः सन्तः पाण्डुतनयस्यार्जुनस्य तपसा जनितं तत्पूर्वोक्तं जगतामशमं असुखम् । दुःखमित्यर्थः । 'शर्मशातसुखानि च' इत्यमरः । भृशं सम्यक् । आचचक्षिरे कथितवन्तः ॥ २५ ॥

**हिन्दी—**मुनिलोग शिवजीका दर्शन पानेके बाद शिवजीके सम्मुख आकर उनके नेत्रोंके इशारेसे प्रेरित होकर अर्जुनकी तपस्यासे उत्पन्न लोकोंके दुःखको अच्छी तरहसे कहने लगे ॥ २५ ॥

'तरसैव कोऽपि भुवनेकपुरुष ! पुरुषस्तपस्यति ।
ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ॥ २६ ॥

**मल्लि०—**तरसेति । हे भुवनेकपुरुष ! पुरुषोत्तम ! वृत्रो वृत्रासुर इव भीम-विग्रहः कोऽपि । अविज्ञात इत्यर्थः । पुरुषः । तरसा बलात्कारेणैव । 'तरसी बलरंहसी' इति विश्वः । अमलवपुष उज्ज्वलमूर्ते रवेरपि ज्योतिरभिभूय तपस्यति तपश्चरति । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः इति क्यङ् ॥ २६ ॥

१७ कि०

२५८ किरातार्जुनीयम्

हिन्दी—'हे उत्तम पुरुष ! वृत्राऽसुरके समान भयङ्कर शरीरवाला पुरुष बलात्कारसे ही निर्मल मूर्तिवाले सूर्यके भी तेजको तिरस्कृत कर तपस्या रहा है ॥ २६ ॥

स धनुर्महेषुधि बिभर्ति कवचमसिमुत्तमं जटाः।
वल्कमजिनमिति चित्रमिदंमुनिताविरोधि न च नास्य राजते ॥ २७ ॥

मल्लि०—स इति । किञ्च, स पुरुषो महान्ताविक्षुषी यस्य तत् महेषुधि कवचं वर्म उत्तममसि खड्गं जटा वल्कं चीरम् अजिनं चर्म च बिभर्ति दर्शयति रूपम्, इदं विरुद्धवेषधारणं मुनिताविरोधि मुनित्वप्रतिबन्धकं तथापि, नास्य राजत इति न। किं तु राजत एवेत्यर्थः। चित्रमाश्चर्यम्। सम्भाव्यनिषेधविषयको द्वौ प्रतिषेधौ' इति वामनः ॥ २७ ॥

हिन्दी—वह पुरुष विशाल तरकशोंसे युक्त धनु, कवच, उत्तम तलवार, जटा, वल्कल और मृगचर्मको धारण करता है। तथाऽपि मुनित्वका विरोधी इसका वेष शोभित नहीं हो रहा है, यह बात नहीं है। यह आश्चर्य है ॥ २७ ॥

चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखम्।
स्तम्भमनुभवति शान्तमरुद्ग्रहतारकागणयुतं नभस्तलम् ॥ २८ ॥

मल्लि०—चलन इति। किञ्च, तस्य पुंसः चलनेऽवनिः पृथिवी चलति तथा, करणनियमे समाधिनेन्द्रियनिरोधे सति । 'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' । इत्यमरः । शान्तैः स्तिमितैर्मरुतां वायूनां ग्रहाणां सूर्यादीनां तारकाणां नक्षत्राणां च गणैर्युतं नभस्तलं व्योम सदिङ्मुखं दिक्सहितं स्तम्भं निश्चलत्वम् अनुभवतीत्यर्थः। अतो विश्वातिशायिनी तस्य शक्तिरुपलक्ष्यत इति भावः ॥ २८ ॥

हिन्दी—उस पुरुषके चलनेपर भूमि कम्पित होती है, समाधिसे इन्द्रियोंका निरोध करनेपर वायु, ग्रह और तारा इनके शान्त गणोंसे युक्त आकाशमण्डल दिशाओंके साथ निश्चलताका अनुभव कर रहा है ॥ २८ ॥

न चैतदुपेक्ष्यमित्याशयेनाह—
स तदोजसा विजितसारममरदितिजोपसंहितम्।
विश्वमिदमपिदधाति पुरा किमिवास्ति यन्न तपसामदुष्करम् ॥ २९ ॥

मल्लि०—स इति। स पुमान्। ओजसा विजितसारं निरस्तसत्त्वम्। अमरदितिजोपसंहितं सुरासुरसहितं तदिदं विश्वं पुराऽपिदधाति। अपिधास्यतीत्यर्थः।

द्वादशः सर्गः २५९

शीघ्रमेव हरिष्यतीति भावः । 'निकटागामिके पुरा' इत्यमरः । 'यावत्पुरा- निपातयोर्लट्' इति भविष्यदर्थे लट् । तथा हि—यत् कर्म तपसामदुष्करं तत्किमि- वास्ति । न किञ्चित्तेन दुष्करमस्तीत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तर- न्यासः ॥ २९ ॥

हिन्दी—वह पुरुष जीते गये सारवाले देवताओं और दैत्योंसे युक्त इस संसार को शीघ्र तिरोहित कर डालेगा, क्योंकि जो कर्म तपस्यासे दुष्कर है वह कर्म क्या है ? ( कुछ भी नहीं ) ॥ २९ ॥

न चैतदन्यफलकं तप इत्याह— विजिगोषते यदि जगन्ति युगपदय संजिहीर्षति । प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुं क्षमा रुजः ॥ ३० ॥

मल्लि०—विजिगीषत इति । स पुरुषो जगन्ति भुवनानि युगपद्विजिगोषते यदि विजेतुमिच्छति वा । 'पूर्ववत्सनः' इत्यात्मनेपदम् । अथ युगपत् संजिहीर्षति संहर्तुमिच्छति वा । अभवमपवर्गं प्राप्तुमभिवाञ्छति वा, न विद्मो वयमिति शेषः । किन्तु वयमप्यस्य रुजस्तेजांसि विषहितुं सोढुम् । 'तोषमह्लुम्रुष्वरिखः' इति विकल्पादिडागमः । नो क्षमा न शक्ताः । केचित् रुजः कान्तितानि विषयितुमवधार- यितुम्' इति व्याचक्षते, तत्र सहेरवधारणार्थत्वं विचार्यम् ॥ ३० ॥

हिन्दी—वह तपस्वी लोकोंको एकबार ही जीतना चाहता है या एकबार ही संहार करना चाहता है अथवा मोक्ष पाना चाहता है । हमलोग इसके तेजको सहनेमें असमर्थ हैं ॥ ३० ॥

किमुपेक्षसे कथय नाथ ! न तव विदितं न किंचन । त्रातुमलमभयदाऽर्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ॥ ३१ ॥

मल्लि०—किमिति । हे नाथ ! किमर्थमुपेक्षसे ? कथय । त्वमिति शेषः । तव न विदितम् । त्वयाऽज्ञायमानमित्यर्थः । 'क्तस्य च वर्तमाने' इति षष्ठी । न किंचन किमपि न । हे अभयद ! नोऽस्मान् अलं त्रातुमर्हसि । त्वयि शासति सति पराभवो मा स्म भवत् मा भूत् । 'स्मोत्तरे लङ् च' इति लङ् ॥ ३१ ॥

हिन्दी—हे नाथ ! आप क्यों उपेक्षा कर रहे हैं? कहिए । आपसे अविदित कुछ भी नहीं है । हे अभय देनेवाले भगवन् ! आप हमलोगोंकी रक्षा करनेको पूर्णरूपसे योग्य हैं, आपके शासनमें हमलोगोंका मत हो ॥ ३१ ॥

२६० किरातार्जुननीयम्

इति गां विधाय विरतेषु मुनिषु, वचनं समाददे।
भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरमन्धकान्तकः॥ ३२॥

मल्लि०—इतीति। इति इत्थं गां वाचं विधाय। अभिधायेत्यर्थः। सामान्यस्य विशेषपर्यवसानात्। मुनिषु विरतेषु तूष्णींभूतेषु सत्सु। अन्धकान्तकः शिवो भिन्नस्योद्वेलस्य जलधेर्जलस्य नादमिव गुरु गम्भीरं यथा दिशां विवरमन्तरालं ध्वनयन् वचनं समाददे स्वीकृतकार। उवाचेत्यर्थः॥ ३२ ॥

**हिन्दी—**ऐसा वचन कहकर मुनियोंके चुप रहनेपर शिवजी उठी हुई तरङ्गोंवाले समुद्रके जलके शब्दके समान गम्भीररूपसे दिशाओंके अन्तरालको ध्वनित करते हुए बोलने लगे॥ ३२ ॥

बदरीतपोवननिवासनिरतमवगात माऽन्यथा।
धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम्॥ ३३॥

मल्लि०—बदरीति। बदरीतपोवने बदरिकाश्रमे निवासनिरतं नित्यनिवासिनं गां गतं भुवमवतीर्णं जगतामुदयनिधने सृष्टिसंहारौ धातुः। तयोः कर्तुरित्यर्थः 'तृन्' इति दधातेस्तृन्प्रत्ययः। अत एव 'न लोके--'त्यादिना कर्मणि षष्ठीप्रतिषेधः। आदिपुरुषस्य विष्णोः। अंशमंशभूतम्। नरम्, नरसंज्ञकमित्यर्थः। यो नारायणसखेति भावः। अन्यथा उक्तवैपरीत्येन, एनं माऽवगात। मनुष्यमात्रं मा जानीतेत्यर्थः। 'इणो गा लुङि' इति गादेशः॥ ३३ ॥

**हिन्दी—**बदरिकाश्रममें निवास करनेवाले, भूतलम अवतीर्ण लोकोंकी सृष्टि और संहार करनेवाले आदि पुरुष (विष्णु) के अंशभूत नरसंज्ञक इसको आपलोग दूसरा (मनुष्यमात्र) मत समझें॥ ३३ ॥

द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः।
क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः॥ ३४॥

मल्लि०—द्विषत इति। एष नरः सकलभुवनान्यभितापयन्त्यभीक्ष्णमिति तथोक्तान्। 'बहुलमाभीक्ष्ण्ये' इति णिनिः। क्रान्ते आक्रान्ते कुलिशकरस्येन्द्रस्य वीर्यबले शक्तिसैन्ये यैस्तान् द्विषतः शत्रून् परासिसिषुः परासितुमिच्छुः अस्यतेः सन्नन्तादुप्रत्ययः। मदुपासनं मदाराधनम्। करणे ल्युट्। महत्तपो विहितवान्। अत्र निमित्तं शत्रुक्तय एवेति भावः॥ ३४ ॥

**हिन्दी—**इस (नर) ने समस्त लोकोंको सन्तप्त करनेवाले और इन्द्रकी शक्ति

द्वादशः सर्गः २६१

द्वादशः सर्गः २६१

और सैन्यको आक्रान्त करनेवाले शत्रुओंको परास्त करनेकी इच्छा कर मेरी आराधना-स्वरूप बड़ी तपस्या की है ॥ ३४ ॥

अथास्य मानुषावतारे कारणमाह—
अयमुच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः ॥
पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥ ३५ ॥

मल्लि०—अयमिति । विभू प्रभू अयं नरोऽच्युतः कृष्णश्च सरसिरुहजन्मनो ब्रह्मणो वचनेन प्रार्थनया । असुराणां निधनेन मारणेन प्रजाः पातुं रक्षितुं भुवमभ्युपेत्य मनुजेषु तिष्ठतः । वस्तुस्तु साक्षान्नारनावणावेतौ कृष्णार्जुनवित्यर्थः ॥ ३५ ॥

हिन्दी—समर्थ यह ( नर ) और अच्युत ( नारायण ) ब्रह्माकी प्रार्थनासे दैत्योंके संहारसे प्रजाओंकी रक्षा करनेके लिए भूतलपर अवतीर्ण होकर रहते हैं ॥ ३५ ॥

अथास्य सत्त्वसंपदं प्रकाशयितुमाह—
सुरकृत्यमेतदवगम्य निपुणमिति मूकदानवः ।
हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥ ३६ ॥

मल्लि०—सुरेति । मूकदानवो मूकाख्यः कश्चिदसुरः । एतत् पाण्डवकृत्यं सुरकृत्यमिति निपुणमवगम्य साधु निश्चित्य पाण्डुसुतमर्जुनं हन्तुमभिपतति । तत् तस्मात्कारणात्, अत्रार्जुनाश्रमे । आश्रमं प्रतीत्यर्थः । मया सह त्वरया गम्यताम् । द्रष्टुमिति शेषः ॥ ३६ ॥

हिन्दी—( हे तपस्विगण ! ) मूक नामका दानव यह ( तपस्यारूप ) कार्य देवताओंका कार्य है ऐसा अच्छी तरहसे निश्चय कर पाण्डुपुत्र अर्जुनको मारनेके लिए आ रहा है इस कारणसे अर्जुनके आश्रममें मेरे साथ आपलोग शीघ्र आयें ॥ ३६ ॥

विवरेऽपि नैनमनिगूढमभिभवितुमेश पारयन् ।
पापनिरतिरविशद्वितया विजयं व्यवस्यति वराहमायया ॥ ३७ ॥

मल्लि०—विवर इति । पापे निरतिरतिप्रीतिर्यस्य स एव दानवो विवरे रन्ध्रेऽपि । एकान्तेऽपीत्यर्थः । एनं पाण्डवम् । अनिगूढं प्रकाशं स्पष्टं यथा तथा, अभिभवितुं न पारयन् न शक्नुवन् । विभाषायाम् 'नञ' इति नञ्समासः ।

२६२ किरातार्जुनीयम्

अविशङ्कितया स्वरूपगूहनान्निःशङ्कितया वराहमायया वराहभूमिकया विजयाय व्यवस्यति । विजयं प्रत्युद्युक्त इत्यर्थः ॥ ३७ ॥

हिन्दी— पापमें प्रीति करनेवाला यह मूक दानव, एकान्तमें भी इस (अर्जुन) को प्रकाशरूपसे अभिभूत करनेमें असमर्थ होकर अपना रूप छिपानेके कारण निःशङ्क होकर वराहकी मायासे अर्जुनको जीतनेका व्यवसाय (उद्योग) कर रहा है ॥ ३७ ॥

ततः किं भविष्यतीत्यत्राह—

निहते विडम्बितकिरातनृपतिवपुषा रिपौ मया ।
मुक्तनिशितविशिखः प्रसभां मृगयाविवादमयमाचरिष्यति ॥ ३८ ॥

मल्लि०— निहत इति । विडम्बितमनुकृतं किरातनृपतिवपुर्येन । तद्रूपधारिणेत्यर्थः । मया निहते रिपौ वराहे मुक्तनिशितविशिखः सन् । अयं पाण्डवः प्रसह्य प्रसद्य मृगयाविवादं मृगप्रहारकलहम् । आचरिष्यति करिष्यति । मत्प्रहतमेव पूर्वं प्रहृत्य स्वयमहमेव प्रहृते॑ति कलहिष्यति इत्यर्थः ॥ ३८ ॥

हिन्दी— किरातराजके शरीरका वेष लेनेवाले मुझसे मारे गये वराहमें तीक्ष्ण बाण छोड़कर यह (पाण्डव) हठात् मृगयाके विषयमें कलह (विवाद) करेगा ॥ ३८ ॥

ततोऽपि किं भावीत्यत्राह—

तपसा निपीडितकृशस्य विरहितसहायसंपदः ।
सत्त्वविहितमतुलं भुजयोर्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥ ३९ ॥

मल्लि०— तपसेति । तपसा नितरां पीडितोऽत एव कृशस्तस्य निपीडितकृशस्य । 'पूर्वकाले--'त्यादिना समासः । तथा, विरहिता सहायसंपद्यस्य, तस्यैकाकिनो मृधे रणे । 'मृधमास्कन्दनं संख्यम्' इत्यमरः । अधिकुप्यतोऽस्य पाण्डवस्य सत्त्वविहितं स्वभावकृतम् । स्वाभाविकमित्यर्थः । 'सत्त्वोऽस्त्री जन्तुषु' क्लीबे व्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः' । 'प्राणे बलेऽन्तःकरणे' इति वैजयन्ती । अतुलं निरुपमं भुजयोर्बाह्वोर्बलं शक्तिं पश्यत । 'बलं शक्तिर्बलं सैन्यम्' इति शाश्वतः ॥ ३९ ॥

हिन्दी— तपस्याके कारण अत्यन्त पीडित अत एव कृश, सहायता सम्पत्तिसे

द्वादशः सर्गः २६३

रहित युद्धमें अत्यन्त कोप करते हुए इस ( पाण्डय ) का स्वाभाविक अनुपम बाहुबलको आपलोग देख लें ॥ ३९ ॥

अथ त्रिभिरस्य किरातभावं वर्णयति— इति तानुदारमनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्गजमौक्तिकाबलिगुणेन वक्षसा ॥ ४० ॥

**मल्लि०—**इतीत्यादि । शिव इति इत्थं तान् मुनीन् । उदारं युक्तियुक्तं यथा तथाऽनुनीय शिक्षयित्वा । उक्त्वेति यावत् । 'रुचिरः किरातपूतनापतिः संबभूवे' इत्युत्तरेणान्वयः । किरातसेनापतिवेषधारी बभूवेत्यर्थः । कथंभूतः । विषमा विकृतविषमा वा हरिचन्दनस्यालयो रेखा यस्मिंस्तेन । घर्मेण स्वेदेन जनिताः पुलका रोमाञ्चा यस्मिंस्तेन । 'पुलकः पुनः । रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम्' हेमचन्द्रः । 'घर्मः स्यादातपे ग्रीष्मे उष्णस्वेदाम्भसोरपि' इति विश्वः । लसन्तः शोभमाना गजमौक्तिकानां करिकुम्भोद्भवमौक्तिकानाम् आवलय एव गुणाः सूत्राणि यस्मिंस्तेन वक्षसा वक्षःस्थलेनोपलक्षितः । करिणां मुक्तायोनित्वे प्रमाणमाहागस्त्यः—'जीमूतकरिमत्स्याहिवंशशङ्खवराहजाः । शुक्त्युद्द्भवाश्च विज्ञेया अष्टौ मौक्तिकयोनयः ॥' इति ॥ ४० ॥

**हिन्दी—**शिवजी इस प्रकार उन मुनियोंको युक्तिके साथ कहकर विकृत हरिचन्दनकी रेखावाले, पसीनेसे उत्पन्न रोमाञ्चवाले और शोभित होते हुए गजमुक्ताओंकी पङ्क्तिरूप सूत्रवाले छातीसे उपलक्षित ( सुन्दर किरातसेनापति हो गये ) ॥ ४० ॥

वदनेन पुष्पितलतान्तनियमितविलम्बि मौलिना । विभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ ४१ ॥

**मल्लि०—**वदनेनेति । पुष्पितैर्लतान्तैर्विकसितलताग्रैर्नियमिताः संयता विलम्बितश्च ते मौलयः संयतकेशा यस्य तेन । 'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' । इत्यमरः । शिखिपिच्छलाञ्छिते बर्हिबर्हाङ्किते कपोलभित्ती यस्य तेन । अरुणनयनेनारक्तनेत्रेण वदनेन रुचं शोभा विभ्रत् ॥ ४१ ॥

**हिन्दी—**शिवजी पुष्पयुक्त लताओंके अग्रभागोंसे बाँधे गये और लटकते हुए जूडोंवाले, मोरपंखसे चिह्नित कपोलोंसे युक्त लाल नेत्रोंवाले मुखसे शोभाको धारण करते हुए ( सुन्दर किरात-सेनापति हो गये ) ॥ ४१ ॥