भारतकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

१० मालतीमाधवे सूत्रधारः—बाढम् । एषोऽस्मि कामन्दकी संवृत्तः । नटः—अहमप्यवलोकिता । (इति निष्क्रान्तौ ।) प्रस्तावना । (परिवृत्य रक्तपटिकानेपथ्य उभावुपविष्टौ प्रविशतः ।) कामन्दकी—वत्से अवलोकिते । अवलोकिता—आणवेदु भअवदी । कामन्दकी—अपि नाम कल्याणिनोर्भूरिवसुदेवरातपत्यो- १. आज्ञापयतु भगवती । मजोऽन्येषां समाजोऽथ सधर्मिणाम्' इत्यमरः ॥ बाढमिति । तथा कुर्म इत्य- र्थः । एष इति । सूत्रधाररूपपरित्यागेन कामन्दकीभूतोऽस्मि ॥ अहमप्यवलो- किता संवृत्तेत्येतदामुखाङ्गं प्रयोगातिशयः । तदुक्तम्—'एषोऽयमित्युपक्षेपात्सूत्र- धारप्रयोगतः । पात्रप्रवेशो यत्त्रायं प्रयोगातिशयो मतः ॥' इति । अन्यस्य पात्रस्य प्रवेश एषोऽयमित्युपक्षेपः । सूत्रधारस्यैव समनन्तरपात्रत्व एषोऽहमित्युपक्षेप इति नातीव भेदः ॥ इति प्रस्तावना ॥ परिवृत्य निर्गमनं नाटयित्वा । काषायशाटीविर- चितवेषावुपविष्टौ कामन्दक्यवलोकितावेषधारिणौ प्रविशतः । इत्येवं प्रस्तावनां परि- समाप्य सूचनीयकथांशसूचनार्थं मिश्रविष्कम्भमारभते—कामन्दकीत्यादि । वदतीति शेषः । विष्कम्भलक्षणं तु—'वृत्तवर्तिष्यमाणानां कथांशानां निद- र्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥' इति । 'शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि वक्तव्यः । मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यमकृत ॥' इति । शेषं नाटकवदित्यतिदेशात्प्रकरणेऽपि विष्कम्भकनिवेशः । तथा चाहुः— 'प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः । विष्कम्भकस्तु कार्यो नाटकयोगे प्रकरणे च ॥' इति ॥ अवलोकितेति । आज्ञापयतु भगवती ॥ अपि नामेति । कल्या- णिनोः कल्याणं मङ्गलमन्योन्यानुरूपं वयोरूपभाग्यसौभाग्यादिकमनयोरस्तीति तौ तयोक्तौ । अनेन चान्योन्यानुगुणयोगान्मालत्येव माधवस्य योग्या वधूः, स एव तस्याः समुचितो वर इति सूचितम् । भूरिति श्लाघ्यवंशप्रसूतत्वेन कुलतत्संबन्धा- र्हत्वं ध्वनितम् । मालतीमाधवयोरितरेतरयोगद्वन्द्वनिर्देशेन साहित्यप्रतीतेः तद्धेतु- रन्योन्यानुरागोऽस्तीति द्योत्यते । अभिमतम् । तयोर्बन्धूनामन्येषां च सहृदयानाम- भिलषितमित्यर्थः । तदनेन मालतीमाधवयोरन्योन्यानुरागोऽत्र प्रकरणे बीजभूत- सूचितो भवति । यथा—'स्तोकोद्दिष्टः कार्यहेतुर्बीजं विस्तार्यनेकधा' इति । प्रथमं स्वल्पमेवोद्दिष्टः पश्चादनेकधा विस्तारी यः कार्यस्य प्रयोजनस्य हेतुः सोऽर्थो बी- जमित्युच्यते । अत्र च प्रकरणे मालतीप्राप्तिर्माधवस्य प्रधानं कार्यम् । तद्धेतुश्च

? No. Let's look at the strokes of that glyph: Horizontal top bar. Short vertical stroke down. Then it turns right, loops, comes down-left, and hooks down-right. That is precisely the letter ह! With a top slant: े = हे. Then the next letter: Vertical bar, loop to the left with a horizontal connection: that is precisely न! With a top slant: े = ने. So it is unmistakably "हेने"! Then व with ा: वा. Then स्मि: स्मि. So it is printed as: "आन्तरहेनेवास्मि-"! Even if it's an error for आन्तरस्नेहेनेव or आन्तरङ्गेणेव, the print clearly says "आन्तरहेनेवास्मि-". Wait, could it be "आन्तरङ्गेनैवास्मि-"? Wait, where would the ङ् and ग be? If ङ् and ग were there, it wouldn't look like ह at all. So it is printed as "आन्तरहेनेवास्मि-".

Wait, let's look at line 2 again: The first word of line 2: रनयोर्मावती... or रनयोर्माळती... or रनयोर्माध... wait! Let's look at the very first word of line 2: र न यो र्मा ल ती मा ध व यो र भि म तं

कामन्दकी—वत्से, मा मैवम् । यन्मां विधेयविषये स भवान्नियुङ्क्ते स्नेहस्य तत्फलमसौ प्रणयस्य सारः । प्राणैस्तपोभिरथवाभिमतं मदीयैः कृत्यं घटेत सुहृदो यदि तत्कृतं स्यात् ॥ १२ ॥ किं न वेत्सि । यदैव नो विद्यापरिग्रहाय नानादिगन्तवाससाहच- र्यमासीत्तदैवास्मत्सौदामिनीसमक्षमनयोर्भूरिवसुदेवरातयोः प्रवृत्तेयं प्र- गिजनोचितद्यूत्यादिकृत्येष्वमात्यभूरिवसुर्नियोजयतीति तस्य तावत्कार्यप्रस्तावाद- न्येन वास्य दुष्करत्वादनुचितेऽपि व्यापारे भगवतीं नियोजयतु नाम । तस्मिंश्चायासा- उत्खण्डित उच्छिन्नः संसार एवावग्रहो निःश्रेयसामृतवर्षप्रतिबन्धः । मोक्षान्तराय इति यावत् । स यस्य आत्मा युष्माभिरपि निक्षिप्यत इति यदेतत्सर्वमाश्चर्यमिति योजना ॥ कामन्दकी । वत्से इति । नैवं वक्तव्यमित्यर्थः ॥ यन्मामिति । स पू- ज्यो भवान्भूरिवसुर्मां विधेयविषये कृत्यविषये नियुङ्क्त इति यत्तत्स्नेहस्य प्रेम्णः फलम् । असौ विश्रम्भयोग्यं प्रेमैव प्रणय इ

१. अङ्क १-३: पद्मावती नगरी, कामन्दकी योजना, माधव-मालती प्रथम दर्शन व मकरन्द-मदयन्तिका अनुराग

प्रथमोऽङ्कः । १३ तिज्ञा अवश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इति । तदिदानीं वि- दर्भराजस्य मन्त्रिणा सता देवरातेन माधवं पुत्रमान्वीक्षिकीश्रवणाय कुण्डिनपुरादिमां पद्मावतीं प्रहिण्वता सुविहितम् । अपत्यसंबन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिं च । अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च ॥ १३ ॥ अवलोकिना—किंति मालदिं अमच्चो माहवस्स अप्पणा ण प्पडिवादेइ । जेण चोरिअविआहे भअवदी तुवरावेदि । कामन्दकी— तां याचते नरपतेर्नर्मसुहृन्नन्दनो नृपमुखेन । तत्साक्षात्प्रतिषेधः कोपाय शिवस्त्वयमुपायः ॥ १४ ॥ १. किमिति मालतीममात्यो माधवस्यात्मना न प्रतिपादयति । येन चौर्यविवाहे भगवती त्वरयति । वितिवत् 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषप्रसङ्गात् । द्विपर्यन्तानामेवत्यदादित्व- मिति तु त्यदायत्वमात्रनिरासार्थम् । तदिदानीमिति । तत्प्रतिज्ञातम् । मन्त्रिणे- तिपदं बहुप्रयोजनोद्देशेन पुत्रमत्र प्रेषितवानिति तस्य बुद्धिकौशलं प्रकटयितुम् । आन्वीक्षिकी न्यायशास्त्रम् । नीतिशास्त्रस्यापि न्यायमूलकत्वात्तदन्तर्गतिः । सुविहितं साधु संपादितम् । सुविधाने युक्तिमाह—अपत्येति । पूर्वमेव संबन्धस्य प्रतिज्ञात- त्वात्स्वयमेव भूरिवसुः सुतां माधवाय दास्यतीति यदि तमत्र देवरातो न प्रेषयेत्तदा स्मारकाभावात्कालविप्रकर्षाच्च भूरिवसुः प्रतिज्ञां विस्मरेदपि । तदनेन पुत्रप्रेषणेन सुहृदः प्रतिज्ञा स्मृतिविषयं प्रापिता । यदि वा कदाचिद्दृष्टवशात्स्मरणेपि वरगुण- परिज्ञानादतिलोकलावण्यशालिनीं सुतां दातुं संशयीत, तदपि निराकृतम् । यतः प्ररोचनार्थं संबन्धेच्छोत्पादनार्थं यूनोरन्योन्यानुरागजननार्थं चानितरसाधारणगु- णस्तनूजः प्रकटीकृतश्चेति युक्तिद्वयात्प्रतिज्ञातं सुतप्रेषणेन सुविहितमित्यर्थः ॥ १३ ॥ अवलोकिता—किमिति मालतीममात्यो माधवस्यात्मना न प्रतिपादयति । येन चौर्यविवाहे भगवती त्वरयति । माधवस्येति चतुर्थ्यर्थे षष्ठी ॥ स्वयमप्रदाने निमित्तमाह—कामन्दकी । तामिति । नरपतेर्नर्मसुहृत्क्रीडासचिवो नन्दनस्तां मालतीं नृपमुखेन याचते । नन्दनाय प्रयच्छेति राज्ञा याचयतीत्यर्थः । राज- गुणेन याचते न तु श्लाघ्यवरगुणेनेति भावः । तस्या नरपतिप्रार्थनायाः साक्षा- न्मुखतो न प्रयच्छामीत्येव निषेधो राज्ञः कोपाय स्यात् । अयं तु चौर्यविवाहरूप उपायः शिवः शोभनः । अभिमतसुहृत्संबन्धनृपद्वेषलक्षणेष्टानिष्टप्राप्तिपरिहारहेतु-

१४ | मालतीमाधवे अवलोकिता—अच्चरिअं अच्चरिअं । ण क्खु अमच्चो माहवस्स णामं वि जाणादित्ति णिरवेक्खदा लक्खिअदि । कामन्दकी—वत्से, संवरणं तत् । विशेषतस्तु बालत्वात्तयोर्विवृतभावयोः । तेन माधवमालत्योः कार्यः स्वमतिनिह्नवः ॥ १५ ॥ अपि च— अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः । श्रेयो ह्यस्माकमेवं हि प्रतार्यौ राजनन्दनौ ॥ १६ ॥ १. आश्चर्यमाश्चर्यम् । न खल्वमात्यो माधवस्य नामापि जानातीति नि- रपेक्षता लक्ष्यते । लात् ॥१४॥ अवलोकिता—आश्चर्यमाश्चर्यम् । न खल्वमात्यो माधवस्य नामापि जानातीति माधवे निरपेक्षता लक्ष्यते । कथं तस्मै सुतां प्रदित्सुस्तं माधवमप्यजा- नान इव तस्मिन्नैस्पृह्यमाचरतीत्यर्थः ॥ कामन्दकी—संवरणं तत् , राजभयेनाका- रगोपनं तत् । अज्ञाननटनमित्यर्थः । इतोऽप्यज्ञानं नटनीयमित्याह—विशेषत- स्त्विति । बाल्यानन्तरभावित्वाद्वयसः। तद्धर्मानुवृत्तेश्च । बाल्यमिह प्रथमयौवन- मुच्यते । तेन युक्तायुक्तविचारविधुरे, आकारगोपनानभिज्ञे, मदनाज्ञैकवशंवदे, गुरु- जनसुलक्ष्यापि मनोरथं संपादयितुमुद्युञ्जाने, प्रथमयौवने वर्तमानत्वाद्विवृतभावयोः प्रकटीभूतान्योन्यानुरागकुण्ठीभावपरिहारार्थं विशेषतः स्वमतेस्तदन्योन्यानुरागवि- षयाया निह्नवः कार्यः प्रच्छादनं कर्तव्यम् । मालत्यपि माधवानुरक्तां मां तातो न जानातीति यथा मन्यते, माधवोऽपि खसुतानुरक्तं माममात्यो न वेत्तीति यथा प्रत्येति, तथा तदज्ञानं नाटयितव्यम् । तथा सति, अकुण्ठितोत्साहयोस्तयोः स्वत एवाभिमतसंघटनं सिध्येत् । अन्यथा गुरुजनेन विदितमस्मच्चापलमिति लज्जया तदुद्योगभङ्गादभिलषितः कृतकपरिणयो न निष्पद्येतेति भावः । अत्र नायकयोर- न्योन्यानुरागस्य बीजस्योपन्यासादुपक्षेपो नाम मुखसंधेरङ्गमुक्तं भवति । यथा— ‘बीजन्यास उपक्षेपः’ इति ॥१५॥ **अनुरागेति—**अमात्यो माधवस्य नामापि न जानातीत्येतत्संवरणमात्रमिति किं वक्तव्यम् । यतः वत्सयोरुभयोरपि, कामन्दकीं प्रति प्रियसुहृदपत्यत्वाद्वत्सयोरिति निर्देशः । अनुरागप्रवादः सार्वलौकिकः सर्वलो- कविदितः ‘लोकसर्वलोकाभ्याम्—’ इति ठञ् । अनुशतिकादित्वाद्युभयपदवृद्धिः । पामरा अपि जानन्ति किमुतामात्य इति भावः । अनेन बीजस्य बहुलीकरणात्परि- करो नाम संध्यङ्गमुक्तं भवति । यथा—‘तद्बाहुल्यं परिकरः’ इति । एवं च सत्य- स्माकं श्रेयो भवति । कुतः । हि यस्माद्राजनन्दनौ प्रतार्यौ वञ्चयितुं शक्यौ स्याताम्। यदि कृतकपरिणये वृत्ते राजा नन्दनो वा कुप्येत् कथमनया वराक्या भिक्षुकया- स्मद्विरोध आचरित इति, तदा न ममात्र दोषः तावन्योन्यानुरागवशेन स्वत एव संमिलितौ । स चानुरागः सर्वलोकप्रसिद्ध इत्यस्माकं तद्वचनं सुलभमित्यर्थः ।

प्रथमोऽङ्कः । १५ पश्य । बहिः सर्वाकारप्रवणरमणीयं व्यवहर- न्पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति । जनं विद्वान्नेकः सकलमतिसंधाय कपटै- स्तटस्थः स्वानर्थान्घटयति च मौनं च भजते ॥ १७ ॥ अवलोकिता—मए वि तुम्ह वअणादो तेण तेणोवण्णासेण भूरिवसुमन्दिरासण्णतरराअमग्गेण माहवो सञ्चारिअदि । कामन्दकी—कथितमेव नो मालतीधात्रेय्या लवङ्गिकया । भूयोभूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।


१. मयापि युष्मद्वचनात्तेन तेनोपन्यासेन भूरिवसुमन्दिरासन्नतरराजमा- र्गेण माधवः संचार्यते ।


॥ १६ ॥ एवमेव च विदग्धाः स्वयमुदासीनवद्वर्तमानास्तद्वार्तामप्यजानाना इव परैः प्रतीयमाना बुद्धिकौशलेनैव कार्याणि निर्वहन्तो दृश्यन्त इत्याह—बहिरिति । विद्वान्कार्यविदेकोऽनेकाप्तवर्गविक्षिप्तकार्यभारोऽप्यन्यैरेकवत्प्रतीयमानः सन् बहिः स्वकीयवास्तवव्यापारप्रच्छादनेन लोकं वञ्चयितुमेव केवलमारब्धे स्वाभिलषितरह- स्यकार्याद्बहिर्भूतेऽन्यस्मिन्मनःपूर्वेऽपि व्यापारे सर्वस्याकारस्य वेषभाषाव्यवहर- णादेरनुभावस्य प्रावण्येन । भावप्रधानो निर्देशः । तदेकपरत्वेन रमणीयं लोकस्य चित्तरञ्जनं यथा भवति तथा व्यवहरन्नयमहर्निशमेतदेकपरो वर्तते । न ह्यसाव- न्यकार्यवार्तामपि जानातीति यथा रन्ध्रान्वेषिणामपि प्रतीतिस्तथा व्यवहरन्नित्यर्थः । परेषां शत्रूणामभ्यूहस्य रहस्योत्प्रेक्षणस्य समुचितानि स्थानानि छिद्राणि तनुतराण्य- प्यतिसूक्ष्माण्यपि स्थगयति पिधत्ते, एवं सकलसूक्ष्मदर्शिनमपि जनं कपटैर्वञ्च- नाव्यापारैरतिसंधाय विश्वासजननेन वञ्चयित्वा स्वयं तटस्थ उदासीन इव प्रतिभा- समान एव स्वानर्थान्घटयति संपादयति । मौनं च भजते । अभिमतकार्यविषये वाङ्मात्रमपि बहिर्न वदतीत्यर्थः । विदग्धजनस्वभावोक्तिः ॥ १७ ॥ इदानीमव- लोकिता स्वानुष्ठितकार्यमाह—अवलोकिता । मयेति । स च मयापि युष्माकं वचनात्तेन तेनोपन्यासेन बहुविधानाशङ्कनीयव्याज्योक्तिप्रयोगेण भूरिवसुम- न्दिरस्यासन्नतरराजमार्गेण माधवः संचार्यते । यथा मालतीनयनगोचरोऽसौ भवति तथा कृतमित्यर्थः । आसन्नत्वेन सर्वावयवसौष्ठवस्य सम्यग्विभाव्यता सूचिता । बहुशः संचरणेऽप्यनाशङ्कनीयत्वं राजमार्गपदेन सूचितम् ॥ तत्प्रयुक्तोपायस्य फल- मस्माभिरधिगतमित्याह—कामन्दकी । कथितमिति । धात्र्याः सुता धात्रेयी ‘स्त्रीभ्यो ढक्’ । तेन तस्याः सह स्तन्यपानसहपांसुक्रीडादिनातिविस्रम्भस्थानत्वात्स- र्वमपि तन्मनोगतं वेत्तीति सूचितम् । किमिति कथितमत आह—भूय इति । ३ माल०

१६ मालतीमाधवे साक्षात्कामं नवमिव रतिर्मालती माधवं य- द्गाढोत्कण्ठा लुलितलुलितैरङ्गकैस्ताम्यतीति ॥ १८ ॥ अवलोकिता—बाढम् । तदो ताए उव्वेअविणोअणं माहवपडि- च्छन्दं अभिलिहिअं लवङ्गिआए मन्दारिआहत्थे अज्ज णिक्खित्तं दाव । कामन्दकी—(विचिन्त्य ।) सुविहितं लवङ्गिकया । माधवानुचरः कलहंसो नाम विहारदासीं मन्दारिकां कामयते । तदनेन तीर्थेन तत्प्रतिच्छन्दकमुपोद्घाताय माधवान्तिकमुपेयादित्यभिप्रायः । १०. बाढम् । ततस्तयोद्वेगविनोदनं माधवप्रतिच्छन्दकमभिलिखितं लव- ङ्गिकया मन्दारिकाहस्तेऽद्य निक्षिप्तं तावत् । स्वमन्दिरासन्नपुरवीथ्यां बहुशो गतागतानि कुर्वाणं माधवं क्रीडासौधशिखरगोपा- नसीसंनिहिततुङ्गगवाक्षमार्गस्थिता मालती प्रत्यक्षं नूतनं दाहानन्तरोत्पन्नं कामं रतिरिव नूतनोत्पन्ना सतीत्वेन तस्मिन्नेव स्वभर्तरि बद्धानुरागा दृष्ट्वा सामिलाषं पुनः पुनर्विलोक्य गाढोत्कण्ठा तत्तदनुभावव्यज्यमानप्रवृद्धरणरणिकालुलितलुलितैर्मदन- संतापेनात्यन्तकल्लुषितैः । कामावस्थानिमित्तकमनीयवर्णान्तरशालिभिरङ्गकैरिति यावत् । ताम्यति म्लायतीति कथितमित्यन्वयः । अत्रोत्कण्ठास्वरूपं तदनुभावा- श्च भावप्रकाशिकायाम्—सर्वैन्द्रियसुखास्वादो यत्रास्तीति मनःश्रियः(?) । तत्प्रा- प्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः॥ अन्तःसंभोगसंकल्पस्तत्तदाशावलोकनम्। अङ्गग्लानिर्मनोरक्तिर्मनोरथविचिन्तनम् ॥ अधिजानुभुजालम्बिकपोलतलमासनम्। प्रसन्नमुखरागश्च खेदोष्मा गद्गदा च वाक् ॥ उत्कण्ठानुभवा भावाः कथ्यन्ते भाव- कोविदैः ॥' इति । अत्र मालत्या माधवविषयोऽभिलाषः प्रथमावस्थेति मन्तव्यम् । यथा—'अभिलाषमनःसङ्गौ संकल्पो गुणनुतिः क्रियाद्वेषः । तापो मानत्यागोन्मा- दौ मूर्च्छा मृतिर्दशावस्थाः ॥' अत्र च 'अभिलाषस्पृहा रम्ये दृष्टे चालम्बने स्मृते । औत्सुक्यस्वेदरूमाञ्चहर्षविस्मयसाध्वसैः॥ चापलस्तम्भलज्जाद्यैरनुभावैश्च भाव्यते ॥' इति ॥ १८ ॥ अवलोकिता—बाढम् । यल्लवङ्गिकया कथितं तद्दृढमित्यर्थः। दृढत्वे युक्त्यन्तरमाह-ततस्तया मालत्योद्वेगविनोदनं माधवप्रतिच्छन्दकं तत्सदृशी प्रतिमा- मभिलिखितं यत्प्रतिच्छन्दकं लवङ्गिकया मन्दारिकाहस्तेऽद्य निक्षिप्तं तावत् । क्रमेण माधवहस्तं प्राप्स्यतीति तावच्छब्दार्थः ॥ कामन्दकी । विचिन्त्येति । मन्दा- रिकाहस्ते चित्रफलकनिधानस्य तात्पर्यं विचार्य तद्विवृणोतीति शेषः। सुविहितमि- त्यादि । अनुचरश्चेटः । विहारदासीं बौद्धालयापरिचारिकां तां मन्दारिकाम् । तीर्थे- नावतरणमार्गेण । उपोद्घाताय प्रकृतकार्यसिद्धिहेतुभूतायार्थाय । स चायं मयीयमनु- रक्तेति माधवस्य प्रत्ययः । सत्येव तस्मिंस्तस्य प्रकृतकार्ये प्रवृत्तिसिद्धेरित्यभिप्रायः ।

प्रथमोऽङ्कः । ३७ अवलोकिता—माहवो वि कोऊहलं उप्पादिअ मए पउत्तम- णमहोत्सवं मअणुज्जाणं पहादे अणुप्पेसिदो। तत्थ किल मालदी गमिस्सदि। तदो अण्णोण्णदंसणं होदिति। कामन्दकी—साधु वत्से, साधु। अनेन मत्प्रियाभियोगेन स्मारयसि मम पूर्वशिष्यां सौदामिनीम्। अवलोकिता—भअवदि, सा दाणिं सोदामिणी समासादिअ- अच्छरिअमन्तसिद्धिप्पहावा सिरिपव्वदे कावालिअव्वदं धारेदि। कामन्दकी—कुतः पुनरियं वार्ता। अवलोकिता—अत्थि एत्थ णअरीए महामसाणप्पदेसे कराला नाम चामुण्डा। कामन्दकी—अस्ति। या किल विविधजीवोपहारप्रियेति साह- सिकानां प्रवादः। अवलोकिता—तँस्सिं क्खु सिरिपव्वदादो आअदत्स इदो १. माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं मदनोद्यानं प्रभातेऽनुप्रेषितः। तत्र किल मालती गमिष्यति। ततोऽन्योन्यदर्शनं भवि- ष्यतीति। २. भगवति, सेदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीप- र्वते कापालिकव्रतं धारयति। ३. अस्त्यत्र नगर्यो महाश्मशानप्रदेशे कराला नाम चामुण्डा। ४. तस्मिन्खलु श्रीपर्वतादागतस्येतो नातिदूरश्मशानवासिनः साधकस्य इदं तात्पर्यं मन्दारिकाहस्ते चित्रफलकनिधानस्येत्यर्थः ॥ अवलोकिता । स्वानु- ष्ठितं कार्यानन्तरमाह—अत्र माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं मदनोद्यानं प्रभातेऽनुप्रेषितः। किमर्थम्। तत्र किल मालती गमिष्यति। ततोऽन्यो- न्यदर्शनं भविष्यतीति हेतोः ॥ कामन्दकी। साध्वित्यादि । मत्प्रिये मद- भिलषितसंपादनेऽभियोगोऽत्यन्ताभिनिवेशस्तेन ॥ अवलोकिता—भगवति, सेदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीपर्वते कापालिकव्रतं धार- यति ॥ कामन्दकी । कुत इति । कस्मादुपलब्धेत्यर्थः ॥ अवलोकिता— अस्त्यत्र नगर्यां महाश्मशानप्रदेशे कराला नाम चामुण्डा ॥ कामन्दकी । अस्तीति । अस्ति। प्रसिद्धैव सा श्रूयत इत्यर्थः। विविधानां मनुष्यपशुप्रभृतीनां जीवानामुपहारे प्रिया । अनेन पञ्चमाङ्के मालत्युपहारप्रदर्शनं सूचितम्। साह- सिकानां साहसशीलानाम् ॥ अवलोकिता—तस्मिन्खलु श्रीपर्वतादागतस्येतो-

१८ मालतीमाधवे णादिदूरमसाणवासिणो साधअस्स मुण्डंधारिणो अघोरघण्टणामहेअस्स अन्तेवासिणी महापहावा कवालकुण्डला णाम अणुसंज्झं आगच्छइ । तदो इअं पउत्ति । कामन्दकी—सर्वं हि सौदामिन्यां संभाव्यते । अवलोकिता—१अलं दाव एदिणा । भअवदि, सो वि पासअरो माहवस्स बालमित्तं मअरन्दो णन्दणस्स भइणिं मदअन्तिअं जइ समुव्वहइ तं वि माहवस्स दुइअं पिअं होदि । कामन्दकी—नियुक्तैव तत्र मया प्रियसखी बुद्धरक्षिता । अवलोकिता—२सुविहिदं भअवदीए । कामन्दकी—तदुत्तिष्ठ । माधवप्रवृत्तिमुपलभ्य मालतीमेव पश्यावः। (इत्युत्तिष्ठतः ।) कामन्दकी—(विचिन्त्य ।) अत्युदारप्रकृतिर्मालती नाम । निपुणं निसृष्टार्थदूतीकल्पस्तन्त्रयितव्यः । सर्वथा मुण्डधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामा- नुसंध्यमागच्छति । तत इयं प्रवृत्तिः । १. अलं तावदेतेन । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति तदपि माधवस्य द्वितीयं प्रियं भवति । २. सुविहितं भगवत्या । नातिदूरश्मशानवासिनः साधकस्य मन्त्रसाधनोद्यतस्य मुण्डधारिणो नरशिरःकपा- लधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामानुसं- ध्यमागच्छति । तत इयं प्रवृत्तिर्वार्ता । मया श्रुतेति शेषः ॥ कामन्दकी । सर्वमिति । संभाव्यत इति । अनेनोत्तरत्र सौदामिनीसाध्यान्यद्भुतानि सूचि- तानि ॥ अवलोकिता—अलं तावदेतेनालं तावदनुपयुक्तेनाघोरघण्टवृत्ता- न्तकथनेनेत्यर्थः । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति तदपि माधवस्य द्वितीयं प्रियं भवति । अनेनोपनायकस्य मकरन्दस्य गर्भसंधौ पताकावृत्तान्तः सूचितो भवति ॥ कामन्दकी । नियुक्तेति । तदपि मया पूर्वमेवानुसंहितमित्यर्थः । अवलो- किता—सुविहितं भगवत्या ॥ कामन्दकी । तदिति । माधवप्रवृत्तिमुपलभ्य किं मदनोद्याने तयोरन्योन्यदर्शनमभून्न वेति वार्तां ज्ञात्वेत्यर्थः । मालतीमेव पश्यावः। कुलकुमारीजनानुचिते ह्यस्मदुपदिष्टे स्वयमात्मप्रदानसाहसे यथासौ नाशङ्कते तथा नैवातिपरिचयेन वशीकर्तव्येति भावः ॥ कामन्दकी । विचिन्त्येति । कीदृशं

शरज्ज्योत्स्ना कान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यः स च युवा । गरीयानन्योन्यप्रगुणगुणनिर्माणनिपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु ॥ १९ ॥ (इति निष्क्रान्ते ।) मिश्रविष्कम्भः । (ततः प्रविशति गृहीतचित्रफलकोपकरणः कलहंसः ।) कलहंसः—केहिं दाणिं तुलिअमअरद्धआवलेवरूवविब्भमा- १. केदानीं तुलितमकरध्वजावलेपरूपविभ्रमाक्षिप्तमालतीहृदयमाहात्म्यं दूत्यमाचरणीयमिति । विमृश्य । निश्चिनोतीति शेषः । अत्युदारातिगम्भीरा प्रकृति- र्यस्याः सा । तथा गाम्भीर्यं च—'यस्य प्रभावादाकारा हर्षक्रोधभयादिषु । भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यं प्रकीर्तितम् ॥' इत्युक्तरूपम् । तेन मालत्यतिगम्भीरप्र- कृतित्वाच्चरमावस्थायामपि स्वाभिप्रायं स्वयं न निवेदयतीति हेतोर्निपुणं यथा स्यात्तथा निसृष्टार्था या दूती तस्याः कल्पो या व्यापारपद्धतिस्तन्मन्त्रयितव्यः प्रधा- नीकर्तव्यः । प्राधान्येनाश्रयणीय इत्यर्थः । निसृष्टो निक्षिप्तः 'त्वमेव वेत्सि सर्वं कृत्यम्' इति समर्पितोऽर्थः । कार्यभारो यस्यामिति व्युत्पत्त्या स्वतन्त्रकार्यनिर्वाहि- का दूती कथ्यते । तदुक्तम्—'रूढानुरागयोर्यूनोरभिलाषं मनोगतम् । ज्ञात्वा ताभ्यामनादिष्टा तदपेक्षितसिद्धये ॥ या प्रवर्तेत सा प्रोक्ता निसृष्टार्थेति कोविदैः । निसृष्टः कार्यभारोऽस्यामिति व्युत्पत्तिसंभवात् ॥' इति । अवाच्यकौटिल्यो यत्कृताः संध्यादयः प्रमाणं स निसृष्टार्थो दूतः। यथा भगवान्पाण्डवानामिति ॥ इदानीं स्वव्या- पारसाफल्यमाशास्ते—सरथेति । शरज्ज्योत्स्नेति । कल्याणी मनोहराकारानु- गुणशीलसंपन्ना सुजातं सुजन्मानं कान्तं स्वप्राणनायकं शारदचन्द्रिकाकुमुदमिव समानुरागसंघटने दृष्टान्तः । नन्दयतु निरतिशयानन्दसमृद्धं करोतु । तेन स च युवा कृतपुण्यश्चरितार्थो भवतु । उभयोः समानुरागत्त्वेन स च तां नन्दयतु । सा च कृतकृत्या भवतीत्ययमर्थोऽर्थाल्लभ्यते । तं चकारो द्योतयति । एवं च सति गरीयान्गुरुतरोऽन्योन्यस्य परस्परस्य प्रगुणा अनुगुणा ये गुणास्तेषां निर्माणे निपुणो विधातुर्व्यापारः फलतु तत्संघटनलक्षणेनैव फलेन फलवान्भवतु । मनोज्ञः सर्वजनश्लाघ्यो भवतु । तादृगन्योन्यानुरूपनिर्माणस्य तयोः संघटनमेव फलम् । अन्यथा व्यर्थमेव स्यात् । यदाह कालिदासः—'परस्परेण स्पृहणीयशोभम्' इत्यादिश्लोकेन । अत्रोपमोपस्तुत्यमन्योन्यमलंकारः । अत्र परस्परानुरागस्य बीज- स्यानुरूपेण स्तुतेर्विलोभनं नामाङ्गम् । यथा—'तद्गुणाख्या विलोभनम्'इति ॥१९॥ मिश्रविष्कम्भोऽयम् । नीचमध्यमपात्रप्रयोजितत्वादिति ॥ 'माधवानुचरः कलहंसो नाम' इति वाक्ये सूचितमुपदर्शयन्नङ्कमरभते—तत इत्यादि । अङ्कलक्षणं

' (dva) with 'ि' = 'द्वि'. And then 'ला' (lā). Then 'स' (sa). Then 'त' (ta) with 'स' before it? No, 'त' with 'स' = 'स्त'? Or 'तस्तेना'? Wait, 'त', 'स', '्ते', 'ना'? Look at line 18: ...विभ्रमः [space] सौंदर्यसंपद्विलासतस्तेना- Wait, let's count characters in that word: सौ (1) ं (2) द (3) र्य (4) सं (5) प (6) द्वि (7) ला (8) स (9) त (10) स्ते (11) ना (12) Wait, let's look at the image: 1: सौ 2: ं 3: द 4: र्य 5: सं 6: प 7: द्वि (or ट्टि?) 8: ला 9: स 10: स्ते 11: ना Wait, where is 'त'? Is there a 'त'? Wait, is it "विलासात्तेना-"? Or "विलासतस्तेना-"? Look closely at: 'ला' next is 'स' next is 'ते'? Wait, is it 'स' with 'त' below? No, it's 'स' then 'ते' or 'स' + 'त' + '

। २१ भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं कलितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥ २० ॥ (ततः प्रविशति यथानिर्दिष्टरूपो माधवः ।) माधवः— तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे । दरूपफलशून्यत्वेन शून्या च । शून्या यथा—‘तारासम्पुटा स्निग्धा निष्कम्पा शून्य- दर्शना । बाह्यार्थग्राहिणी श्यामा शून्यदृष्टिस्तु चिन्तनात् ॥’ इति । अनेन चिन्ता- ख्यो व्यभिचारी व्यज्यते । ‘प्रयत्नपूर्वकार्थेषु स्मृतिश्चिन्तेति कथ्यते’ इति । तथा शरीरमसौष्ठवं बलहीनम् । स्वव्यापाराससमर्थकरचरणादिकमित्यर्थः । अनेन ग्लान्या- ख्यो व्यभिचारी व्यज्यते । यथा—‘वाङ्मनःकायकर्माणि ग्लानिर्गमयतीति यत्’ इति । श्वसितमधिकं पूर्वापेक्षया प्रबलम् । अनेन श्रमविषादमोहादयो व्यज्यन्ते । निःश्वासस्यानुभावस्यानेकभावसाधारणत्वात् । एवं चानुस्मृतिरूपा तृतीयावस्था दर्शिता । यथा—‘मुहुर्मुहुर्निःश्वसिति मनोरथविचिन्तनैः । प्रद्वेषादन्यकार्याणाम- नुस्मृतिरुदाहृता ॥’ इति । किं न्वेतत्स्यात् । एषां चिन्तालसादीनां निमित्तं किं नु भवेदिति मकरन्दस्य वितर्कः । विमृश्य तन्निमित्तं निर्धारयति—किमन्य- दिति । अथवा किमत्र वितर्केण मदनविकारव्यतिरिक्तं किमेतेषां निमित्तं संभा- व्यते । न किंचिदपीत्यर्थः । तदेव निमित्तमाह—भ्रमतीति । भुवने कंदर्पाज्ञा भ्रमति अप्रतिहता विजृम्भते । यौवनं च प्रथमं द्वितीयं वा । इतरयोरत्रायोग्य- त्वात् । विकारि विकारजननशीलम् । यौवनं यथा—‘रतिव्यायामसहने मत्तेभ- स्येव मत्तता । विद्यते युवभावो यस्तद्यौवनमुदाहृतम् ॥’ इति । ‘यौवनं तु चतुर्धा स्यात्’ इत्यादिना भावप्रकाशे यौवनविशेषलक्षणं प्रपञ्चितं तत एव ज्ञातव्यम् । ललिताः सुन्दरा नयनसुखकरा मधुरा मनोहराश्च ते ते भावा इन्दूद्यानादय उद्दी- पनविभावाः स्वभावधीरस्यापि धीरतां धैर्यं क्षिपन्त्यपसारयन्ति । धैर्यं यथा— ‘चाप्लेनानुपहता सर्वार्थेष्वविकत्थना । स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधी- यते ॥’ इति । नूनमद्य मदनोद्याने मदनोत्सवदर्शनायागतोऽसौ कस्यांचिदासक्त- चित्तो मदनावस्थयैवाभिभूतो वर्तत इत्यर्थः । ससंदेहो निश्चयान्तःसमुच्चयालं- कारः ॥ २० ॥ दिष्ट्येत्यादिना माधवप्रवेशः सूचितः । तदाह—तत इत्यादिना । यथानिर्दिष्टः गमनमित्यादिना निरूपितावस्थः ॥ तामित्यादि । मे चेतः कर्तृ । इन्दुवन्मनोज्ञमुखीं तां पूर्वक्षणे नयनातिथीकृतां सुचिरं बहुकालं विभाव्य ऐकाग्र्येण विषयान्तरपरित्यागेन भावनाविषयं कृत्वा । ध्यात्वेत्यर्थः । कथंकथमपि केनकेनापि प्रकारेण कदाचिदप्यननुभूतचरेण । ईदृगसाविति निरूपयितुमशक्ये- नावस्थाभेदेनेत्यर्थः । व्यपवर्तते वैकृतादन्यथैव वर्तते । विकारमुपयातीत्यर्थः । किं कृतवेलापेक्षायां तामेवापयवृत्तिमाह—अकाण्डेऽनवसरे । प्रथमदर्शनसमय

२२ मालतीमाधवे लज्जां विजित्य विनयं विनिवार्य धैर्य- मुन्मथ्य मन्थरविवेकमकाण्ड एव ॥ २१ ॥ आश्चर्यम् । यद्विस्मयस्तिमितमस्तमितान्यभाव- मानन्दमन्दममृतप्लवनादिवासीत् । तत्संनिधौ तदधुना हृदयं मदीय- मङ्गारचुम्बितमिव व्यथमानमास्ते ॥ २२ ॥ मकरन्दः—(उपसृत्य ।) सखे माधव, इत इतः ललाटंतपस्तपति घर्मांशुः । तदस्मिन्नुद्याने मुहूर्तमुपविशावः । (उभौ परिक्रामतः ।) कलहंसः—कहं मअरन्दसहअरो इमं एव्व बालुज्जाणं अलं- करेदि माहवो । ता दंसिमि मअणवेअणाखिज्जमाणमालदी- १. कथं मकरन्दसहचर इदमेव बालोद्यानमलंकरोति माधवः । तद्दर्श- यामि मदनवेदनाखिद्यमानमालतीलोचनसुखावहात्मनोऽस्य प्रतिच्छन्द- कम् । अथवा विश्रामसौख्यं तावदनुभवतु । एव । लज्जाम् । कथमार्यविगर्हिते परोपहासनीये कर्मणि प्रवृत्तोऽहमिति मनःसं- कोचनं लज्जा । यथा—'मनःसंकोचनं लज्जा ह्यनौचित्यप्रवर्तनात्' इति । तां विजित्य निरस्य विनयं विनीततां विनिवार्य । धैर्यं धीरतामुन्मथ्य मथिला मन्थरो मन्दीभूतो विवेकः कृत्याकृत्यज्ञानं यथा स्यात्तथेति ॥ अत्र लज्जात्यागो विवेकमन्द्येन उन्मादश्चेति सप्तमाष्टमावस्थाद्वयमादावेव रागोत्कर्षप्रदर्शनाथैमुक्त- मिति द्रष्टव्यम् । मन्थरविवेकमिति चेतोविशेषणं वा ॥ २१ ॥ आश्चर्यम् । यद्विस्मयेति । यन्मदीयं मनस्तस्याः संनिधौ विस्मयेनामानुषलोकोचितापूर्वला- वण्यदर्शनजनितेन चित्तविकासेनाद्भुतरसस्थायिना रसतामापन्नेन स्तिमितं निष्प- न्दमस्तमितान्यभावं विगलितवेद्यान्तरममृतप्लवनादिव सुधार्र्णवनि मज्जनेनेवानन्देन निरतिशयसुखाविर्भावेन मन्दं तदास्वादैकपरतया निरुद्धवृत्त्यन्तरमभूत् । तदेवे- दानीं तदसंनिधावङ्गारचुम्बितं प्रदीप्तेन्धनशकलसंस्पृष्टमिव । दग्धमिति वक्तव्ये मनोगतप्रेयसीदाहभिया चुम्बितमिति कोमलोक्तिः । व्यथमानं संतप्यमानमास्ते । तत्संनिधानासंनिधानयोः क्षणमात्रभेदेनातीव मनोऽवस्थावैलक्षण्यमाश्चर्यमित्यर्थः ॥ २२ ॥ मकरन्दोऽन्यमनस्कतयात्मानमपश्यन्तमपि स्वयमेव प्रज्ञापयन्नाकार- यति—मकरन्दः । सखे माधवेति । इत इतः । आगम्यतामिति शेषः । ललाटेत्यादि । ललाटंतपो नभोमध्यवर्तीत्यर्थः । 'असूर्यललाटयोर्हृक्षितपोः' इति खन् । 'खित्यनव्ययस्य' इति मुमागमः ॥ कलहंसः—कथं मकरन्दसह- चर इदमेव बालोद्यानमलंकरोति माधवः । तद्दर्शयाम्यस्य मदनवेदनाखिद्यमान-

प्रथमोऽङ्कः । २३ लोअणसुहावहं अत्तणो से पडिच्छन्दं । अहवा विस्सामसोक्खं दाव अणुहोदु । मकरन्दः—तदस्यैव तावदुच्छ्वसितकुसुमकेसरकषायशीतलामो- दवासितोद्यानस्य काञ्चनपादस्याधस्तादुपविशावः । (उभौ तथा कुरुतः ।) मकरन्दः—वयस्य माधव, सकलनगराङ्गनाप्रवर्तितमहोत्सवा- भिरामाकामदेवोद्यानयात्राप्रतिनिवृत्तमन्यादृशमिव भवन्तमवधारयामि । अपि त्वमवतीर्णोऽसि रतिरमणबाणगोचरताम् । (माधवः सलज्जमधोमुखस्तिष्ठति ।) मकरन्दः—(विहस्य ।) किमवनम्रमुग्धमुखपुण्डरीकः स्थितोऽसि । पश्य । अन्येषु जन्तुषु च यस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि । सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथंचिदपह्नुतिर्भूत् ॥ २३ ॥ मालतीलोचनसुखावहम् । चित्रस्य दर्शनमात्रफलकत्वात् । आत्मनः प्रतिच्छन्दकम् । अथवा विश्रामसौख्यं तावदनुभवतु । पश्चाद्दर्शयिष्यामीति शेषः ॥ मकरन्दः— तदिति । विकसितकुसुमकिञ्जल्कानां कषायशीतलो य आमोदो दूरविस्रमरो गन्धः । कषायशीतलयो रसधर्मत्वेऽपि तादृशरसेनाकार्यसमवायादामोदधर्म- त्वोपचारः तेन सुरभीकृतोद्यानस्य काञ्चनपादपस्य चाम्पेयतरोश्छायायामुपवि- शावः ॥ सकलेत्यादि । अन्यादृशं विलक्षणावस्थम् । अपिः प्रश्ने ॥ विह- स्येति । स्वमनोगतज्ञानादवनतानने माधवे सत्यं मदनविकार एव मदुन्नीतो हेतुरेतद्वैलक्ष्यस्येति स्वमतिसंवादाद्विहस्य सानुकूल्यप्रदर्शनेन लज्जां शिथिलयि- तुमाहेति शेषः। किमिति । मुग्धं सुन्दरम् । त्वदन्तःकरणनिर्विशेषे मयि किमा- शङ्कया लज्जया वा । तावद्विस्रब्धं कथयेत्यर्थः । किं च न खलु त्वदुपज्ञ एवार्यं स्मराभिषङ्गः सुरासुरनरसाधारणत्वात् । तेनानन्यकृतपूर्वान्तस्यानुचितवन्नैतदपह्नवो न्याय्य इत्याह—अन्येष्विति । यो विश्वस्य धातरि जगत्स्रष्टरि सुरज्येष्ठे स्वदु- हितृकामुके परमेश्वरे स्मरशासनेऽपि वामदेहार्धनिवेशितप्रेयसीके तमसावृतेष्व- ज्ञानोपहतविवकेष्वन्येषु जन्तुषु । प्राणिमात्र इत्यर्थः । समोऽवैषम्येणाकुण्ठित- व्यापारः । स तादृशोऽयं सर्वमनोगतश्चित्तजन्मा प्रसिद्धविभवः प्रथितप्रभावः खलु ब्रह्मादीनपि स्ववशीकरोति । का कथान्येष्विति भावः । ततो लज्जया तव मनोगतस्य विकारहेतोरपह्नुतिरपह्नवः । चित्ते नियमनमिति यावत् । मा भूत् ।

३४ मालतीमाधवे माधवः—वयस्य, किं न कथयामि । श्रूयताम् । गतोऽहमव- लोकिताजनितकौतुकः कामदेवायतनम् । इतस्ततः परिक्रम्य परिश्र- मादुल्लसितमधुरमदिरामोदपरिमलाकृष्टसकलमिलदलिपटेलसंकुलकु- लितमुकुलावलीमनोहराभरणस्य रमणीयाङ्गणभुवो बालबकुलस्यालवा- लपरिसरे स्थितः । तस्य च यदृच्छया निरन्तरनिपतितानि विकसि- तानि कुसुमान्यादाय विदग्धरचनामनोहरां स्रजमभिनिर्मातुमारब्ध- वान् । अनन्तरं च देवस्य संचारिणी मकरकेतनस्य जगद्विजयवैज- यन्तिका निर्गत्य गर्भभवनादुज्ज्वलविदग्धमुग्धबालनेपथ्यविरचनावि- भावितकुमारीभावा महानुभावप्रकृतिरत्युदारपरिजना कापि तत एवागतवती । लज्जां विसृज्य कथयेत्यर्थः ॥ २३ ॥ माधवः—वयस्य, किं न कथयामि । सर्व- विश्रम्भास्पदस्य तवाप्यपह्नवः किमित्याशयः । यदाहुः—समानुरागव्यसनो रह- स्यास्यैकभाजनम् । विपत्प्रतिक्रियादक्षो वयस्यः परिकीर्तितः ॥' इति । अवलोकि- तया जनितं कौतुकं 'अद्य खलु महानुत्सवो मदनोद्याने नागरिकाणाम्, तत्तत्रापि तद्दर्शनार्थं गन्तव्यम्' इत्येवमुत्पादितो गमनोत्साहो यस्य सोऽहं कामदेवायतनमु- त्सवस्थानं गतोऽभूवम् । तत्र चेतस्ततः परिक्रम्य रम्यवस्तुविलोकनलोभा- त्परिश्रमात्परिक्रमणसंजातादुल्लसितो विसर्पन्त्यो मधुरो मनोहोरो मदिरामोदस- मानो यः परिमलः केसरकुसुमस्येव जातिप्रयुक्तः तेनाकृष्टं यत्सकलानां मिल- तामलीनां पटलं तेन संकुला व्यासाकुलिता च या मुकुलश्रेणिः सैव मनोहरमा- भरणं यस्य सः । तथा च रमणीयेऽङ्गणे कामदेवायतनपुरोभागे भवति तथा । तेन सम्यगुत्सवावलोकनयोग्यदेशलमुक्तम् । बालबकुलस्य । बालत्वादुपविश्य करापचयकुसुमस्येत्यर्थः । आलवालपरिसरे प्रतिदिनजलसेकशीतले स्थितः । निरन्तरनिपतितानि सान्द्रनिपतितानि । उपवेशनस्थल एव यावदपेक्षं लभ्यानि विकसितानि तस्य कुसुमानि यदृच्छया स्वेच्छयादाय विदग्धा मनोज्ञा या रचना ग्रथना तया मनोहरां स्रजमभिनिर्मातुमारब्धवान् । अनन्त- रमिति । संचारिणी संचरणशीला जगद्विजयवैजयन्तिका त्रिभुवनविजयलाञ्छ- नभूता पुरःसरी पताका । तामेवानु मन्मथो जगज्जिगीषया निर्गतः । तस्य चाह- मादिशरव्यतामुपगतोऽस्मीत्याशयः । उज्ज्वलं प्रकाशमानं विदग्धमग्राम्यं मुग्धं सुन्दरं बालोचितनेपथ्यं प्रसाधनं तस्य या विरचना तया विभावितः कुमारी- भावः कन्यात्वं यस्याः । प्रथमयौवने वर्तमानत्वात् । वयसा पुनर्न ज्ञायते कुमारी- यमित्याशयः । महानुभावप्रकृतिरतिगम्भीरस्वभावा । अत्युदारोऽतिदक्षिणः । 'उदारो दातृमहतोर्दक्षिणे चाभिधीयते' इति दर्शनात् । परिजनो यस्याः सा । तत एव यत्राहं स्थितस्तत्रैवेति सप्तम्यर्थे तसिः । सार्वविभक्तिकत्वात् । अथ तत्प्रथमतो

प्रथमोऽङ्कः । २५ सा रमणीयकनिधेरधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा । तस्याः सखे नियतमिन्दुकलामृणाल- ज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ २४ ॥ अथ प्रणयिनीभिरनुचरीभिः कुसुमसंचयावचयलीलाभिलाषवती- भिरभ्यर्थ्यमाना तमेव बकुलपादपोद्देशमागतवती । तस्याश्च कस्मिंश्चि- दपि महाभागधेयजन्मनि बहुदिवसोपचीयमानमिव मन्मथव्यथावि- कारमुपलक्षितवानस्मि । यतः । परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । लोचनपथगोचरं तस्याः स्वरूपमिदानीमपि प्रत्यक्षमिव विभाव्यमानं निर्वर्णयति— सेति । रमणीयस्य भावो रमणीयकम् । 'योपधाद्गुरूपोत्तमात्' इति वुञ् । आ- भिरूप्यमिति यावत् । तस्य निधिर्निक्षेपः शङ्खपद्मादिमान् । तस्याधिष्ठातृदेवता वा । सौन्दर्यस्य सर्वावयवसौष्ठवस्य निकेतनं मन्दिरं वा । सखे, तस्या निर्माणे कारणमु- पादानमिन्द्वादि । न तु भौतिकम् । मदनश्च वेधाः । न तु साधारणो वेदाभ्यासजडः । यदाह—'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः' इत्यादि । अनेन नायिकागुणवर्णनेन तद्विषयो महानुरागोऽपि श्रेयानिति बीजगुणप्रशंसनाद्विलोभनं नाम मुखसंधेरङ्गमुक्तम् । यथा—'तद्गुणाख्या विलोभनम्' इति । गुणस्वरूपनिरूप- णाद्गुणस्तुतिरूपा चतुर्थ्यवस्था माधवस्य प्रदर्शिता । यथा—'रूपौदार्यगुणैर्लीला- चेष्टाहासितवीक्षितैः । दर्शनालापमाधुर्यैर्नास्यस्तत्ससमा वधुः ॥' इति । 'यत्रेदृशी शिवा वाणी भवेत्सैव गुणस्तुतिः' इति । वितर्कश्च व्यभिचारी व्यज्यते । यथा— 'ऊहो वितर्क इत्युक्तः परार्थेषु यथामति' इति । संशयापह्नवयोः संसृष्टिः ॥ २४ ॥ अथेति । प्रणयिनीभिः प्रेमविषयाभिरनुचरीभिः परिसरवर्तिनीभिः । कुसुम- संचयस्यावचय एव लीला तस्यामभिलाषवतीभिरभ्यर्थ्यमाना स्वयमेव गन्तुका- मापि शालीनतया कुण्ठितेच्छा सती तदपनोदाय मनोविनोदिनीभिः प्रार्थ्य- माना तमेव यत्राहं स्थितः । तस्याश्च कस्मिंश्चिदपि लोकोत्तरे । महाभागधेयाद- श्वमेधाद्यपि तत्कर्मकलापं यदुत्पादने वराकप्रायं तादृशसुचरितविशेषाज्जन्म यस्य तस्मिन् । अन्यादृशस्य तदभिलाषपात्रतालक्षणत्रिभुवनसाम्राज्यसिंहासनाधिरो- हणसौभाग्यानर्हत्वात् । बहुदिवसोपचीयमानमिव चिरकालाप्रवर्धमानमिव मन्मथा- ज्जाता या व्यथा तज्जन्यं विकारमुपलक्षितवानस्मि । उभयथा लिङ्गान्याह—यतः । परिमृदितेति । परिमृदितापचयेन म्लायमाना मृणाली बिसतन्तुरिव । 'जाते- रस्त्रीविषयादयोपधात्' इति ङीप् । म्लानं ग्लानिमुपगतम् । कार्श्यं नाम मदन- दशा सूचिता । क्रियासु स्नानपानादिकासु परिवारप्रार्थनाभिः परिजनस्य चाटुवा-

२६ मालतीमाधवे कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी- मभिनवकरिदन्तच्छेदकान्तः कपोलः ॥ २५ ॥ सा मम दर्शनादमृतमय्यमृतवर्तिरिव चक्षुषोर्निरतिशयमानन्दमुत्पाद- यन्त्ययस्कान्तमणिशलाकेव लोहधातुमन्तःकरणमुपसंहृतवती । किं बहुना । संतापसंततिमहाव्यसनाय तस्या- मासक्तमेतदनपेक्षितहेतु चेतः । प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वंकषा भगवती भवितव्यतैव ॥ २६ ॥ क्यपादप्रणामादिभिरनुनयैः कथमपि कृच्छ्रेण प्रवृत्तिः । न तु स्वारस्येन । क्रियाद्वेष- रूपारतिर्नाम मन्मथावस्था दर्शिता । व्याधिवशादप्येतत्संभवतीत्यन्यदसाधारणं लिङ्गमाह—कलयतीति । अभिनवेति । सद्यःकृत्तद्विरददन्तच्छेदकमनीयः कपो- लः निष्कलङ्कस्य हिमांशोर्लक्ष्मी

प्रथमोऽङ्कः । २७ मकरन्दः—स्नेहश्च निमित्तसव्यपेक्षश्चेति विप्रतिषिद्धमेतत् । पश्य । व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- र्न खलु बहिरुपाधीनप्रीतयः संश्रयन्ते । विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ २७ ॥ ततस्ततः । माधवः—ततश्च तत्र सभ्रूविलास मथ सोऽयमितीव नाम संप्रत्यभिज्ञमिव मामवलोक्य तस्याः । श्वासादिकमपि कार्यं भवितुं प्रभवति । तादृशी भवितव्यता प्राक्तनादृष्टपरिपक्ति- रेव जन्तोः प्राणिमात्रस्य शुभमशुभं च विदधाति । यद्बुद्धिसंपादने न वयं स्वत- न्त्रास्तद्वदनिष्टप्रतीकारेऽपि । कर्मवशाद्यद्यदुपमतं तत्तदवश्यमनुभोक्तव्यमित्यर्थः । अर्थान्तरन्यासोऽलंकारः ॥ २६ ॥ मकरन्दः—स्नेहश्चेति । निमित्तसव्यपेक्षो बाह्योपाधिसापेक्षः । स्नेहत्वमौपाधिकत्वं चेत्येतद्द्वयमेकत्र धर्मिणि विरुद्धमि- त्यर्थः । यत्तु भावप्रकाशे स्नेहद्वैविध्यमुक्तम् , यथा—'मनसो यद्यार्द्रत्वं विष- येषु च तत्त्वतः । भयशङ्कावसानात्मा स एष स्नेह उच्यते ॥ द्विधा द्रवः स्यान्म- नसः स्पर्शनाद्दर्शनादपि । जतुवद्वह्निसंस्पर्शाद्दर्शनाच्चन्द्रकान्तवत् ॥ आर्द्रता निश्चि- रत्वं यत्सर्वावस्थासु मानसम् । ययोः परस्परस्यास्ते तदपि स्नेह ईरितः ॥ द्विधा भवेत्स च स्नेहः कृत्रिमाकृत्रिमात्मकः । सोपाधिः कृत्रिमः स्नेहो निरुपाधि- रकृत्रिमः ॥ उपाधौ विनिवृत्ते तु तज्जन्योऽपि निवर्तते । स्नेहः स्वभावजो याव- द्द्रव्यभावी भविष्यति ॥' इत्यादिना, तत्सोपाधिके स्नेहे स्नेहत्वोपचारात्स्नेहशब्दप्र- योग इति मन्तव्यम् । स्वाभाविकस्नेहस्य बाह्योपाधिनैरपेक्ष्यमेवोपपादयति— पश्येत्यादि । दृष्टान्तमुखेनेममर्थमवधारयेत्यर्थः । व्यतिषजतीति । पदा- र्थांन्भावानचेतनांश्चेतनांश्च । आन्तरो गूढः । कार्यैकसमधिगम्यः कोऽपीदन्तया निरूपयितुमशक्यो हेतुर्व्यतिषजति परस्परं संघटयति । पुनः प्रीतयः स्नेहा बहिरुपाधीन्बाह्यानि निमित्तानि न संश्रयन्ते । दृष्टान्तमाह—पतङ्गस्य रवेरुदये पुण्डरीकं विकसति । हिमरश्मौ चन्द्रे चोद्गत उदिते चन्द्रकान्तमणिर्द्रवति । नचात्र परिदृश्यते बाह्योपाधिः कश्चिदृते स्वभावसौहार्दात् । तद्वत्कस्यचित्कुत्रचिदवलो- कनमात्रेणान्तःकरणं विकसति द्रवीभवतीति स्वाभाविकस्नेहस्य महिमायमित्यर्थः । दृष्टान्तालंकारः ॥ २७ ॥ ततस्तत इति । अनन्तरवृत्तान्तं ब्रूहीति शेषः ॥ माधवः—ततश्चेति । तदनन्तरं तत्र तस्मिन्नेवावसरे । सभ्रूविलासेति । तस्याश्चतुरेण विदग्धेन सखीजनेन मामवलोक्य । अथ मदवलोकनानन्तरं स्मितसु- ४ मालतीमा०

२८ मालतीमाधवे अन्योन्यमेव चतुरेण सखीजनेन मुक्तास्तदा सितसुधामधुराः कटाक्षाः ॥ २८ ॥ मकरन्दः—(स्वगतम् ।) कथं प्रत्यभिज्ञापि नाम । माधवः—अथ ताः सलीलमुत्तालकरकमलतालिकातरलवलयाव- लीकमुद्ग्रस्तकलहंसविभ्रमाभिरामचरणसंचरणरणायमानमञ्जुमञ्जीर- रणितानुविद्धमेखलाकलापकिङ्किणीरणरणत्कारमुखरं प्रतिनिवृत्य 'भ- र्तृदारिके, दिष्ट्या वर्धामहे । यदत्रैव कोऽपि कस्या अपि वल्लभ- स्तिष्ठति' इति मामङ्गुलीदलविलासेनाख्यातवत्यः । धामधुरा दरहसितामृतसाहचर्यमनोहराः कटाक्षा आकृतद्योतका दृष्टिविशेषा अन्योन्यं मुक्ताः प्रहिताः । मां दृष्ट्वा स्मितपूर्वकं परस्परमवलोकनं कृतवत्य इत्यर्थः । अथ मामवलोक्येत्यवलोकवक्रियां विशिनष्टि—सप्रत्यभिज्ञमिवेति । प्रत्यभिज्ञा नाम पूर्वानुभूतस्य पुरोवर्त्यैक्यावगाहिनी धीः । सा च परबुद्धित्वान्न मया प्रत्य- क्षीकृता, किंतूत्प्रेक्षितेति इवशब्देन द्योतयति । कथं त्वयैतदुत्प्रेक्षितमित्याशङ्क्य- बीजमाह—सोऽयमितीव नामेति । नाम प्रसिद्धौ । यो मालतीजीवितवल्लभो माधवो नाम प्रसिद्धः सखीजनकथासु स एवायमितीव तत्तेदन्तांशावच्छेदः प्रत्यभिज्ञोत्प्रेक्षाबीजम्, तस्यापि तदिदंशब्दाभिलापरूपस्य तदानीमभावात् । ज्ञाना- कारस्य अप्रत्यक्षत्वात् सोऽप्युत्प्रेक्षित एवेतीवशब्देन सूचयति । तदपि कथ- मुन्नीतमित्याशङ्क्य स्फुटं तल्लिङ्गमाह—सभ्रूविलासमिति । भ्रुवोर्विलासो विक्षेपः । योऽस्माभिर्भर्तृदारिकाचित्तचोरो माधवो नाम गोष्ठीषु प्रसज्यते स एवायमित्येवं- रूपार्थद्योतिका चेष्टाभ्रूलतोन्नमनचातुरी तत्सहितं यथा भवति तथा पूर्वानुभू- तपुरोवर्तिलक्षणतत्तेदन्ताभिव्यञ्जिका भ्रूचेष्टा, पदार्थाभिनयरूपत्वाच्चेष्टायाः । तेन तया तत्तेदन्तावच्छेदनेनासाधारणधर्मेण मद्विषया तासां प्रत्यभिज्ञाभ्यूहिते- त्यर्थः। भाविकमलंकारः ॥ २८॥ मकरन्दः—स्वगतम् । कथमिति । नामेति संभावनायाम् । अननुभूतपूर्वे कथं तासां प्रत्यभिज्ञासंभव इति वितर्कः। इदं चात्म- गतं वेदितव्यम् । अन्यथा माधवेनोत्तरस्य वक्तव्यतापत्तेः। माधवः—अथेति । अनन्तरं तस्याः पुरत एव मत्समीपमागतास्ताः परिचारिका मां दृष्ट्वा प्रतिनिवृत्य पश्चादागच्छन्त्यै तस्यै । अङ्गुल्य एव दलानि। अङ्गुलीनां दलत्वरूपणं करस्य कमलत्वं द्योतयति । तेषां विलासोऽप्रागल्भ्यललितक्रिया तेन मां कथितवत्यः । कथं प्रतिनिवृत्येत्यपेक्षायां त्रीणि क्रियाविशेषणानि । तत्र सलीलं लीलया सहितं यथा भवति तथा । लीला नामाङ्गव्यापारेणाभीष्टार्थानुकरणम् । यथा—'मनो- मधुरवागङ्गचेष्टितैः प्रीतिचोदितैः । प्रियानुकरणं लीला सा स्यात्स्त्रीपुंसयोरपि ॥' उत्ताला उन्नताः करकमलयोस्तालिका ऊर्ध्वप्रसारिताङ्गुलीककरतलद्वयपरस्परा- स्फालनं तेन तरला वलयावली कङ्कणश्रेणिर्यथा स्यात्तथा । उद्ग्रस्ता उद्दिग्ना मत्ताश्च ये कलहंसास्तेषां विभ्रमो विशिष्टभ्रमणं मनोज्ञा गतिस्तद्वदभिरामं चरणसंचरणं

प्रथमोऽङ्कः । २९ मकरन्दः—हन्त, महतः प्रथमानुरागस्योद्भेदः । कलहंसः—^१एदाणं सरसरमणिज्जाणुबन्धिणी क्खु इत्थिआ- कहा । मकरन्दः—ततस्ततः । माधवः— अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्य- माचार्यकं विजयि मान्मथमाविरासीत् ॥ २९ ॥

१. अनयोः सरसरमणीयानुबन्धिनी खलु स्त्रीकथा । तेन रणरणायमानं मनोज्ञं यन्मञ्जीरं नूपुरं तस्य रणितेन शिञ्जितेनानुविद्धः संभिन्नो यः काञ्चीदामनिविष्टक्षुद्रघण्टिकारणरणत्कारस्तेन मुखरं यथा स्यात्तथेति । किमि- त्याख्यातवत्य इत्यपेक्षायां भर्तृदारिके दिष्ट्या भाग्येन वर्धामहे । यस्मादत्रैव प्रदेशे ‘या लतान्विष्यते सैव लता संप्रति पादयोः’इति रीत्या पुरत एव कोऽप्ययम् । असा- विति साक्षान्निर्देश्टमनुचितत्वात्सप्रच्छादनाय सामान्योक्तिः । कस्या अपीत्यत्रापि तवैवानौचित्याद्गूढोक्तिः । वल्लभो दयितस्तिष्ठतीति । केचित्तु स्त्रीलिङ्गमप्ययुक्तं मन्यमानाः ‘कस्यापि’ इति पठित्वा जनस्येति व्याचक्षते ॥ मकरन्दः । हन्तेति हर्षे । महतोऽतिप्ररूढस्य पूर्वानुरागस्योद्भेदः प्रकाशः । प्रतिभातीति शेषः । उद्भेदो नाम मुखसंध्यङ्गम् । यथा—‘उद्भेदो गूढभेदनम्’इति॥कलहंसः। अनयोः सरसरमणीयानुबन्धिनीत्यविच्छिन्ना स्त्रीकथा । वर्तत इति शेषः । मकरन्दः— ततस्तत इति ॥ माधवः-अत्रान्तर इति । अस्मिन्नवसरे आयताक्ष्या- स्तस्या मान्मथमाचार्यकम् । मन्मथ एव हि कुमारीजनस्यात्यन्तापरिचिततादा- त्मिको दीयमानविविधविलासशिक्षायामाचार्यः । तस्याचार्यकमाचार्यभावः । ‘योपधाद्गुरूपोत्तमाद्वुञ्’ । विविधशृङ्गारचेष्टाशिक्षाप्रावीण्यमाविरासीत्प्रादुर्भूत् । कीदृशम् । वाग्विभवातिवृत्तवैचित्र्यमुक्तिप्रकारसर्वस्वोल्लङ्घिविचित्रभावम् । अत एव किमपि विशेषतो निर्देष्टुमशक्यम् । उल्लसितो विभ्रमो यत्र । विभ्रमः शृङ्गारचेष्टा- विशेषः । यथा—‘वागङ्गसत्त्वाभिनयभूषास्थानविपर्ययः । त्वरया कल्पितोऽभीष्टद- र्शने यः स विभ्रमः ॥’ इति । तन्मनसैव केवलमनुसंधीयमानं भूरिसात्त्विकवि- कारं प्रचुरतरस्तम्भादिसात्त्विकभावम् । सात्त्विकभावादिर्यदुक्तम्—‘तद्भावभावनं येन भवेत्तदनुकूलतः । तत्सत्त्वं तेन निर्वृत्ताः सात्त्विका इत्युदीरिताः ॥’ यथा— ‘स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदश्च वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥’ इति । अपास्तधैर्यमन्योन्यदर्शनादुभयोरप्यपाकृतचित्तस्थैर्यम् । विजयि जयशीलम् । कुत्राप्यकुण्ठितप्रसरमिति । अत्र परिपूर्णशृङ्गारानुभवनिबन्धना-