मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
द्वितीयाऽङ्कः । २९ (विदूषकं विलोक्य ।) ततः शृणुमो वयं विवक्षितमार्यस्य । विदूषकः—(गणदासं विलोक्य ।) कौसिईं दाव पुच्छ । पच्छा जो मए कम्मभेदो दिट्ठो तं भणिस्सं । गणदासः—भगवति, यथादृष्टमभिधीयताम् । गुणो वा दोषो वा । परिव्राजिका—यथादृष्टं सर्वमनवद्यम् । कुतः । अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु । शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ ८ ॥ गणदासः—देवः कथं वा मन्यते । राजा—वयं स्वपक्षे शिथिलाभिमानाः संवृत्ताः । गणदासः—अद्य नर्तयितास्मि । १. कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि । तिमत्त्वादुपन्यासो नाम संध्यङ्गमुक्तं भवति । कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि ॥ अङ्गैिरित्यादि । अन्तर्निहितवचनैरन्तर्नि- हितान्यभ्यन्तरस्थापितानि वचनानि पदानि यैस्तैरङ्गैर्हस्तादिभिः । अत्राभ्यासपा- टवादङ्गानां स्वत एवान्तर्निहितवचनत्वमुत्प्रेक्षितमिति मन्तव्यम् । अर्थो गीतार्थः सम्यक् साधु । सूचितः प्रकाशितः । पादन्यासः पादस्य न्यासो विन्यासः । लयम- नुगतोऽनुसृतः । लयो नाम तालमानम् । 'तालवर्ती तु यः कालः स काललयना- ल्लय.' इत्युक्तत्वात् । अत्र पादन्यासस्य स्वतो लयानुसरणमभ्यासपाटवादिति मन्तव्यम् । रसेषु रसविषयेषु तन्मयत्वं तादात्म्यम् । रसात्मता भवतीत्यर्थः । अत्र रसशब्देनोपचारात्परितोषातिशयवत्त्वादिभावाः कथ्यन्ते । प्रकृतरसस्यैकत्वा- द्रसेष्विति बहुवचनानुपपत्तिप्रसङ्गात् । अभिनयः प्रयोगः । यथोक्तम्—'प्रयोगो यस्तु नाट्यादेर्भवेदभिनयो हि सः' इति । शाखायोनिः शाखा योनिः प्रभवो यस्य स तथोक्तस्तथाविधः सन् । मृदुः सुकुमारः । शाखा नाम नृत्तहस्तानां मानप्रचारः । यथोक्तम्—'शाखा तु नृत्तहस्तानां या मात्रोचितनर्तना' इति । तद्विकल्पानु- वृत्तौ तस्याभिनयस्य विकल्पो भेदस्तस्यानुवृत्तिरनुगतिः प्राप्तिः । तस्यां सत्यां भावः अभिनीयमानो निर्वेदादिर्विषयादाश्रयात् । प्रकृतात्स्थान इत्यर्थः । भावं
३० मालविकाग्निमित्रे उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः । श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ ९ ॥ देवी—दिट्ठिआ अपरिक्खदाराहणेण अज्जो वड्ढइ । गणदासः—देवीपरिग्रह एव वृद्धिहेतुः । (विदूषकं विलोक्य ।) गौतम, वदेदानीं यत्ते मनसि वर्तते । विदूषकः—पुढमोपदेसदंसणे पुढमं बह्मणस्स पूआ कादव्वा । सा णं वो विसुमरिदा । परिव्राजिका—अहो प्रयोगाभ्यन्तरः प्रश्नः । (सर्वे प्रहसिताः ।) (मालविका स्मितं करोति ।) राजा—(आत्मगतम्।) उपात्तसारश्चक्षुषा मे स्वविषयः । यदनेन स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् । असमग्रलक्ष्यकेसरमुच्छ्वसदिव पङ्कजं दृष्टम् ॥ १० ॥ गणदासः—महाब्राह्मण, न खलु प्रथमं नेपथ्यप्रदर्शनमिदम् । अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः । विदूषकः—मँए णाम मुद्धचादएण विअ सुक्खवणगज्जिदे १. दिष्ट्यापरिक्षताराधनेनार्यो वर्धते । २. प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो विस्मृता । ३. मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेऽन्तरिक्षे जलपानमिष्टम् । अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभवत्या शोभनं भणितं ततोऽस्यै इदं पारितोषिकं प्रयच्छामि । पूर्वासिनीतं संचारिणं शुद्धल्याकरोति । रागबन्धो रञ्जनप्रयोगः स एव । पूर्वं यादृशस्तादृश एवेत्यर्थः ॥ उपदेशं विदुरित्यादि । उपदेशिनः शिक्षकस्य । युष्मासु युष्मादृशेषु । विवेकिष्वित्यर्थः । न श्यामायते न मलिनीभवति । ‘लोहि- तादिडाज्भ्यः क्यष्’ । ‘वा क्यषः’ इति विकल्पादात्मनेपदम् ॥ दिष्ट्या अपरिक्ष- ताराधनेनार्यो वर्धते ॥ प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो विस्मृता । अत्र परिहासस्य गम्यमानत्वान्नर्मेति संध्यङ्गमुक्तं भवति ॥ स्पष्टोऽर्थ मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेन्त
द्वितीयोऽङ्कः । ३१ अन्तरिक्खे जलपाणं इच्छिदं । अथवा पण्डिदसंतोसपच्चया णं मूढजादी जदो अत्तहोदीए सोहणं भणिदं तदो से इमं पारि- तोसिअं पअच्छामि । (इति राज्ञो हस्तात्कटकमाकर्षति ।) देवी—चिंष्ट दाव । गुणन्तरं आणन्तो किंणिमित्तं तुमं आ- हरणं देसि । विदूषकः—पेरकेरंति करिअ । देवी—(आचार्य विलोक्य ।) अज्ज गणदास, दंसिदोवदेसा दे सिस्सा । गणदासः—वत्से, प्रतिष्ठस्वेदानीम् । (मालविका सहाचार्येण निष्क्रान्ता ।) विदूषकः—(जनान्तिकम् ।) एँत्तिओ मे मादिविहवो भवन्तं सेविदुं । राजा—अलमलं परिच्छेदेन । अहं हि भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव । द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् ॥ ११ ॥ १. तिष्ठ तावत् । गुणान्तरमजानन्किंनिमित्तं त्वमाभरणं ददासि । २. परकीयमिति कृत्वा । ३. आर्य गणदास, दर्शितोपदेशा ते शिष्या । ४. एतावान्मे मतिविभवो भवन्तं सेवितुम् । रिक्षे जलपानमिष्टम् । अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभ- वत्या शोभनं भणितं ततोऽस्यै इदं पारितोषिकं प्रयच्छामि ॥ तिष्ठ तावत् । गुणा- न्तरमजानन्किंनिमित्तं त्वमाभरणं ददासि ॥ परकीयमिति कृत्वा ॥ आर्य गण- दास, दर्शितोपदेशा ते शिष्या । अनेन मालविकानिर्गमनहेतुना देवीवचनेन राज्ञो हितरोधनान्निरोधो नाम संध्यङ्गमुक्तं भवति ॥ एतावान्मे मतिविभवो भवन्तं सेवितुम् ॥ भाग्यास्तमयमित्यादि । तस्या मालविकायास्तिरस्करणं तिरोधानमक्ष्णोर्नेत्रयोर्भाग्यास्तमयमिव भाग्यस्य भागधेयस्यास्तमयमिव नाशमिव। हृदयस्य मनसो महोत्सवस्यावसानमन्तमिव । धृतेः प्रीतेर्द्वारपिधानमिव द्वारस्य प्रवेशमार्गस्य पिधानं तिरोधानमिव । मन्ये संभावयामि । अत्रार्तेर्गम्यमानत्वाद्वि-
३२ मालविकाग्निमित्रे विदूषकः—(जनान्तिकम् ।) दलिद्दो विअ आदुरो वेज्जेण ओ- सदं दीअमाणं इच्छसि । (प्रविश्य ।) हरदत्तः—देव, मदीयमिदानीं प्रयोगमवलोकयितुं क्रियतां प्रसादः । राजा—(आत्मगतम् ।) अवसितो दर्शनार्थः । (दाक्षिण्यमवलम्ब्य प्रकाशम् ।) ननु पर्युत्सुका एव वयम् । हरदत्तः—अनुगृहीतोऽस्मि । (नेपथ्ये ।) वैतालिकः—जयतु जयतु देवः । उपारूढो मध्याह्नः । तथा हि । पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां सौधान्यत्यर्थतापाद्गलभिपारचयद्वेषिपारावतानि । बिन्दुक्षेपान्पिपासुः परिसराति शिखी भ्रान्तिमद्वारियन्त्रं सर्वैरुक्तैः समग्रस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ १२ ॥ विदूषकः—अविहा अविहा । अह्माणं उण भोअणवेला उव- द्विदा । उद्दवेलादिक्कमे चिहृच्छुआ दोसं उदाहरन्ति । (हरदत्तं विलोक्य ।) किं दाणिं भणसि । हरदत्तः—नास्ति वचनस्यान्यस्यावकाशोऽत्र । राजा—तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः । विश्राम्यतु भवान् । हरदत्तः—यदाज्ञापयति देवः । (इति निष्क्रान्तः ।) १. दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि । २. अविध अविध । अस्माकं पुनर्भोजनवेलोपस्थिता । उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति । किमिदानीं भणसि । ध्रुतं नाम संध्यङ्गमुक्तं भवति ॥ दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि ॥ पत्रच्छायायेत्यादि । स्पष्टोऽर्थः ॥ अविध अविध । अस्माकं पुनर्भोजनवेलोप- स्थिता । चिकित्सका किमिदानीं भणसि
द्वितीयोऽङ्कः । ३३ देवी—१णिब्बट्टेदु अज्जउत्तो मज्जणविहिम् । विदूषकः—२भोदि, विसेसेण पाणभोअणं तुवरावेहि । परिव्राजिका—(उत्थाय ।) स्वस्ति भवते (इति सपरिजनया देव्या सह निष्क्रान्ता ।) विदूषकः—भो³ वअस्स, ण केवलं रूवे, सिप्पेवि अहुदीआ मालविआ । राजा—वयस्य, अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता । परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ १३ ॥ किं बहुना । सखे, चितयन्तव्योऽसि । विदूषकः—४भवदावि अहं । दिढं विपणिकन्दु विअ मे उअ- रब्भन्तरं दज्जइ । राजा—एवमेव भवान्सुहृदर्थेऽपि त्वरताम् । विदूषक—५गहीदो खणो । किं तु मेहावलीणिरुद्धा जोण्हा विअ पराहीणदंसणा तत्तहोदी । भवं वि सूणापरिसरचरो विअ १. निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् । २. भवति, विशेषेण पानभोजनं त्वरय । ३. भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका । ४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । ५. गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्नेव पराधीनदर्शना तत्र- भवती । भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकश्च । तदनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे । निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् ॥ भवति, विशेषेण पानभोजनं त्वरय ॥ भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका ॥ अव्याजसुन्दरीमि- त्यादि । ललिते सुभगेन विज्ञानेन संगीतकलापरिज्ञानेन ॥ भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । विपणिकन्दुनीम पण्यवीथिकायां पिष्टपचनपात्रम् । 'कन्दुनी स्वेदनी स्त्रियाम्' इत्यमरः ॥ एवमेवेत्यादि । एवमेवेत्थमेव । यथा भवान्भोजनरूपे स्वकार्ये त्वरते तथा सुहृदर्थे मदर्थे माल- विका पुनर्दर्शने त्वरताम् । अत्र दृष्टनष्टस्य बीजस्यानुसर्पणात्परिसर्प इति संध्यङ्ग- मुक्तं भवति ॥ गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्नेव पराधीनदर्शना
३४ मालविकाग्निमित्रे विहंगो आमिसलोलुओ भीरुओ अ। ता अणादुरो भविअ कज्जसिद्धिं पत्थेन्तो मे रोअसि। राजा-कथमनातुरो भविष्यामि। सर्वान्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य। सा वामलोचना मे स्नेहस्यैकायनीभूता ॥ १४ ॥ (इति निष्क्रान्ताः सर्वे।) इति द्वितीयोऽङ्कः। ――――― तत्रभवती। भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकश्च तस्मादनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे। अत्र सान्त्वनस्य गम्य- मानत्वात्पर्युपासनं नाम संध्यङ्गमुक्तं भवति ॥ सर्वान्तःपुरेत्यादि। यत्स्नेहस्य प्रेम्ण एकायनीभूता। एकं केवलमयनं स्थानम्। आश्रय इत्यर्थः। तद्भूता। अत्राङ्के मालविकाया निष्क्रमणेन कथाविच्छेदे सति सर्वान्तःपुरेत्यादिना गम्य- मानो राज्ञोऽभिलाषातिशय उत्तराङ्ककथाहेतुत्वाद्बिन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्र- व्याख्याने द्वितीयोऽङ्कः ॥
तृतीयोऽङ्कः । ३५ तृतीयोऽङ्कः । (ततः प्रविशति परिव्राजिकायाः परिचारिका समाहितिका ।) समाहितिका—आणत्तम्हि भअवदीए । समाहिदिए, देवीए उवायणत्थं बीअऊरअं गेण्हिय आअच्छत्ति । जाव पमदवणपा- लिअं महुअरिअं अण्णेसामि । (परिक्रम्यावलोक्य ।) एसा तवणीआ- सोअं ओलोअन्ती चिट्ठदि । जाव णं उवसप्पामि । (ततः प्रविशत्युद्यानपालिका ।) प्रथमा—(उपसृत्य ।) २महुअरिए, अवि सुहो दे उज्जाणवावारो । द्वितीया—३अहो समाहिदिआ । सहि, सागदं ते । समाहितिका—४हँला, भगवदी आणवेदि । अरित्तपाणिणा अम्हारिसजणेण तत्तहोदी देवी देखिदव्वा । ता बीअपूरएण सुस्सू- सिदुं इच्छामित्ति । मधुकरिका—५णं संणिहिदं बीजपूरअं । कहेहि दाव अ- १. आज्ञप्तास्मि भगवत्या । समाहितिके, देव्या उपायनार्थं बीजपूरकं गृ- हीत्वागच्छेति । यावत्प्रमदवनपालिकां मधुकरिकामन्विष्यामि । एषा तप- नीयाशोकमवलोकयन्ती तिष्ठति । यावदेनामुपसर्पामि । २. मधुकरिके, अपि सुखस्त उद्यानव्यापारः । ३. अहो समाहितिका । सखि, स्वागतं ते । ४. सखि, भगवत्याज्ञापयति । अरिक्तपाणिनासादृशजनेन तत्रभवती देवी द्रष्टव्या । तद्बीजपूरकेण शुश्रूषितुमिच्छामीति । ५. ननु संनिहितं बीजपूरकम् । कथय तावदन्योन्यसंघर्षितयोर्नाट्याचा- र्ययोरुपदेशं दृष्ट्वा कतरो भगवत्या प्रशंसितः । कविरिदानीमङ्कान्तरमारभमाणः कथासंघटनार्थं प्रथमं प्रवेशकं नामार्थोपक्षे- पकं प्रस्तौति—ततः प्रविशतीत्यादिना ॥ आज्ञप्तास्मि भगवत्या । समाहितिके, देव्या उपायनार्थं बीजपूरकं गृहीत्वागच्छेति । यावत्प्रमदवनपालिकां मधुकरिकाम- न्विष्यामि । एषा तपनीयाशोकमवलोकयन्ती तिष्ठति । यावदेनामुपसर्पामि ॥ मधु- करिके, अपि सुखस्त उद्यानव्यापारः । अहो समाहितिका । सखि, स्वागतं ते ॥ सखि, भगवत्याज्ञापयति । अरिक्तपाणिनास्मादृशजनेन तत्रभवती देवी द्रष्टव्या ।
द्वितीय अङ्क: मालविका का नृत्त प्रदर्शन व अग्निमित्र अनुराग
३६ मालविकाग्निमित्रे ण्णोण्णसंघारिसिदाणं णट्टाअरिआणं उवदेसं देखिअ कदरो भअ- वदीए पसंसिदो। समाहितिका—दुवेवि किल आअमिणा पओअणिउणा अ। किंतु सिस्सागुणविसेसेण मालविआए उवदेसो पसंसिदो। मधुकरिका—अह मालविआगदं कोलीणं किंति सुणीअदि। समाहितिका—दिढं किल तस्सि साहिलासो भट्ठा। किंतु केवलं धारिणीए चित्तं रक्खन्तो पहुत्तणं दसेदि। मालविआवि इमेसु दिअहेसु अणुहूदसुत्ता विअ मालदीमाला मिलाणा लक्खि- अदि। अदो वरं ण जाणे। विसज्जेहि मं। मधुकरिका—ऐदं साहावलम्बिदं बीअपूरअं गेण्ह। समाहितिका—तह। (इति नाटयेन बीजपूरकं गृहीत्वा।) हला तुमं वि अदो पेसलदरं साहुजणसुस्सूसाए फलं पावेहि। (इति प्र- स्थिता।) १. द्वावपि किलागमीनौ प्रयोगनिपुणौ च। किंतु शिष्यागुणविशेषेण मालविकाया उपदेशः प्रशंसितः। २. अथ मालविकागतं कौलीनं किमिति श्रूयते। ३. दृढं किल तस्यां साभिलाषो भर्ता। किंतु केवलं धारिण्याश्चित्तं रक्षन्प्रभुत्वं दर्शयति। मालविकाप्येषु दिवसेष्वनुभूतमुक्तेव मालतीमाला म्लाना लक्ष्यते। अतः परं न जाने। विसृज माम्। ४. एतच्छाखावलम्बितं बीजपूरकं गृहाण। ५. तथा। सखि, त्वमप्यतः पेशलतरं साधुजनशुश्रूषायाः फलं प्राप्नुहि। तस्माद्बीजपूरकेण शुश्रूषितुमिच्छामीति॥ ननु संनिहितं बीजपूरकम्। कथय तावद- न्योन्यसंघर्षितयोर्नाट्याचार्ययोरुपदेशं दृष्ट्वा कतरो भगवत्या प्रशंसितः॥ द्वावपि कि- लागमिनौ प्रयोगनिपुणौ च। किंतु शिष्यागुणविशेषेण मालविकाया उपदेशः प्रशंसि- सितः॥ अथ मालविकागतं कौलीनं लोकवार्ता किमिति श्रूयते॥ दृढं किल तस्यां साभिलाषो भर्ता किंतु केवलं धारिण्याश्चित्तं रक्षन्प्रभुत्वं दर्शयति। मालविकाप्येषु दिवसेष्वनुभूतमुक्तेव मालतीमाला म्लाना लक्ष्यते। अतः परं न जाने। विसृज माम्॥ एतच्छाखावलम्बितं बीजपूरकं गृहाण॥ तथा। सखि, त्वमप्यतः पेशलतरं फलं प्राप्नुहि॥ सखि, सममेव गच्छाव विरायमा
तृतीयाऽङ्कः । ३७ मधुरिका—हेला, समं एव गच्छह्म । अहं वि इमस्स चि- राअमाणकुसुमोग्गमस्स तवणीआसोअस्स दोहलनिमित्तं देवीए विण्णावेमि । समाहितिका—जुज्जइ । अहिआरो क्खु तुह । ( इति निष्क्रान्ते ) इति प्रवेशकः । (ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च ।) राजा—(आत्मानं विलोक्य ।) शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे भवेत्सास्रं चक्षुः क्षणमपि न सा दृश्यत इति । तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं प्रसक्ते निर्वाणे हृदय परितापं व्रजसि किम् ॥ १ ॥ विदूषकः—अलं भवदो धीरं उज्झिअ परिदेविदेण । दिट्ठा मए तत्तहोदीए मालविआए पिअसही बउलावलिआ । सुणाविदो अअं अत्यो जो भवदा संदिट्ठो । १. सखि सममेव गच्छावः । अहमप्यस्य चिरायमाणकुसुमोद्गमस्य तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि । २. युज्यते । अधिकारः खलु तव । ३. अलं भवतो धीरतामुज्झित्वा परिदेवितेन । दृष्टा मया तत्रभवत्या मालविकायाः प्रियसखी बकुलावलिका । श्रावितोऽयमर्थो यो भवता संदिष्टः । णकुसुमोद्गमस्य तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि ॥ युज्यते । अधि- कारः खलु तव ॥ इति प्रवेशकः ॥ ततः प्रविशतीत्यादि । कामयमानावस्थः । कामयमानानां कामिनामवस्थेवावस्था दशा यस्य स तथोक्तः ॥ शरीरमित्यादि । दयितालिङ्गनसुखे प्रियाश्लेषसौख्येऽसत्यविद्यमाने सति शरीरं वपुःक्षामं स्यात्कृशं भवेत् । क्षणमपि क्षणमात्रमपि सा मालविका न दृश्यत इति न लक्ष्यत इति चक्षुः सास्रं सबाष्पं भवेत्स्यात् । हे हृदय चित्त, सारङ्गाक्ष्या हरिणनेत्रया तया मालविकया कदाचिज्जातुचिद्विरहितं वियुक्तं नासि न भवसि । अतस्तत्सात्कारणान्निर्वाणे सुखे माल० ४
३८ मालविकाग्निमित्रे राजा—ततः किमुक्तवती। विदूषकः—विण्णावेहि। अणुगहीदह्नि इमिणा णिओएण। किंतु सा तवस्सिणी देवीए अहिअं रक्खन्तीए णाअरक्खिदो विअ णिही ण सुहं समासादइदव्वा। तहवि घटइस्सं ति। राजा—भगवन् संकल्पयोने, प्रतिबन्धवत्सु चापि विषयेष्वभि- निवेशकारी किं तथा प्रहरसि यथा जनोऽयं न कालान्तरक्षमो भवति। (सविस्मयम्।) क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम्। मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥ २ ॥ विदूषकः—^२णं भणामि तस्सि साहणिज्जे किदो उवक्खेवो। पज्जवत्थावेदु भवं अप्पाणं। राजा—अथेमं दिवसशेषमुचितव्यापारविमुखेन चेतसा क्वनु खलु यापयामि। १. विज्ञापय। अनुगृहीतास्म्यनेन नियोगेन। किंतु सा तपस्विनी देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुखं समासादयितव्या। तथापि घटयिष्यामीति। २. ननु भणामि तस्मिन्साधनीये कृतः उपक्षेपः। पर्यवस्थापयतु भवा- नात्मानम्। प्रसक्ते प्रस्तुते सति किं किमर्थं परितापं संतापं व्रजसि प्राप्नोषि॥ अलं भवतो धीर तासुज्झित्वा परिदेवितेन। दृष्टा मया तत्रभवत्या मालविकायाः प्रियसखी बकुला- वलिका। श्रावितोऽयमर्थो यो भवता संदिष्टः॥ विज्ञापय। अनुगृहीतास्म्यनेन नियोगेन। किंतु सा तपस्विनी देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुखं समासादयितव्या। तथापि घटयिष्यामिति। अत्र तपस्विनीति करुणापात्रमुच्यते। 'तपस्वी करुणापात्रम्' इति हलायुधः। अत्र प्राप्तिसंभावनया प्राप्त्याशा नाम तृ- तीयावस्था सूचिता। अनया प्राप्त्याशया बिन्दोःसमन्वयाद्गर्भसंधिरिति मन्तव्यम्॥ क रुजेत्यादि स्पष्टोऽर्थं ॥ ननु भणामि तस्मिन्साधनीये कृत उपक्षेप पर्य
तृतीयोऽङ्कः । ३९ विदूषकः-अज्ज एव पुढमावदारसुहआणि रक्तकुरबआणि उवाअणं पेसिअ णववसन्तावदारखवदेसेण इरावदीए णिउणिआमु- हेण पत्थिदो भवं । इच्छामि अज्जउत्तेण सह दोलाहिरोहणं अणुह- विदुं ति । भवदावि से पडिण्णादं । ता पमदवणं एव गच्छह्म । राजा—न क्षममिदम् । विदूषकः-कहं विअ । राजा—वयस्य, निसर्गनिपुणाः स्त्रियः । कथमन्यसंक्रान्तहृदय- मुपलालयन्तमपि ते सखी न मां लक्षयिष्यति । अतः पश्यामि । उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः । उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः ॥ ३ ॥ १. अद्यैव प्रथमावतारसुभगानि रक्तकुरबकान्युपायनं प्रेष्य नववसन्ता- वतारव्यपदेशेनेरावत्या निपुणिकामुखेन प्रार्थितो भवान् । इच्छाम्यार्यपु- त्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञातम् । तत्प्रमद- वनमेव गच्छावः । २. कथमिव । वस्थापयतु भवानात्मानम् । अत्र 'कृत उपक्षेपः' इत्यनेन कपटोपायकल्पनाया गम्य- मानत्वेनाभूताहरणं नाम संध्यङ्गमुक्तं भवति ॥ अद्यैव प्रथमावतारसुभगानि रक्त- कुरबकान्युपायनं प्रेष्य नववसन्तावतारव्यपदेशेनेरावत्या निपुणिकामुखेन प्रार्थितो भवान् इच्छाम्यार्यपुत्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञा- तम् । तस्मात्प्रमदवनमेव गच्छावः ॥ कथमिव ॥ उचित इति । प्रणय इरावत्याः प्रार्थना विहन्तुं प्रतिषेद्धुमुचितोऽर्हो वरं मनाक्प्रियम् । अयं पक्षः किंचित्साधुरि- त्यर्थः । हि यस्मात्कारणात्खण्डनहेतव ईर्ष्याकोपकारणानि बहवोऽनेके दृष्टा मया लक्षिताः । खण्डनहेतुदर्शनेऽप्युपचारविशेषैः प्रलोभ्यतामित्यत आह—उपचा- रेति । भावशून्यः प्रेमरहितं उपचारविधिरिष्टाचरणं पूर्वाभ्यधिकोऽपि पूर्वस्मादुप- चारविधेरतिशयितो मनस्विनीनां तु प्रशस्तमनसां पुनः । विवेकवतीनामित्यर्थः । उपचारविधिर्न भवति । किंत्वपचारविधिरित्यर्थः । अत्र नञर्थस्तद्विरोधः ॥
४० मालविकाग्निमित्रे विदूषकः— १णरिहदि भवं अन्तेउरपइड्ठिदं दक्खिण्णं एक्क पदे पिट्ठदो कादुम् । राजा—(विचिन्त्य ।) तेन हि प्रमदवनमार्गमादेशय । विदूषकः— २इदो इदो भवं । ( उभौ परिक्रामतः ।) विदूषकः— ३एदं पमदवणं पवणदरचलाहिं पल्लवङ्गुलीहिं तुव- रेदि विअ भवन्तं पवेसिदुं । राजा—(स्पर्शसुखं रूपयित्वा ।) अभिजातः खलु वसन्तः । सखे, पश्य । आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव । अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ ४ ॥ विदूषकः— ४पविस णिव्वुदि लाहाअ । ( उभौ प्रविशतः ।) विदूषकः— ५अवहाणेण दिट्ठिं देहि । एदं खु भवन्तं विअ वि- १. नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् । २. इत इतो भवान् । ३. एतत्प्रमदवनं पवनदरचलाभिः पल्लवाङ्गुलिभिस्त्वरयतीव भवन्तं प्रवेष्टुम् । ४. प्रविश निर्वृतिलाभाय । ५. अवधानेन दृष्टिं देहि । एतत्खलु भवन्तमित्र विलोभयितुकामया मधुलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् । नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ॥ इत इतो भवान् ॥ एतत्प्रमदवनं पवनदरचलाभिः पल्लवाङ्गुलिभिस्त्वरयतीव भवन्तं प्रवेष्टुम् ॥ आम- त्तानामित्यादि। स्पष्टोऽर्थः ॥ प्रविश निर्वृतिलाभाय ॥ अवधानेन दृष्टिं देहि। एत- त्खलु T वसन्तकु
तृतीयोऽङ्कः। ४१ लोहइदुकामाए महुलच्छीए जुवइवेसलज्जापइत्तं वसन्तकुसुमणे- वत्थं गहीदं । राजा—(विस्मयात् ।) एतदवलोकयामि । रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् । आक्रान्ता तिलकक्रिया च तिलकैर्लग्नद्विरेफाञ्जनैः सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥ ५ ॥ (उभौ नाट्येनोद्यानशोभां निर्वर्णयतः ।) (ततः प्रविशति पर्युत्सुका मालविका ।) मालविका—अविण्णादहिअअं भट्टारं अहिलसन्ती अप्पणो १. अविज्ञातहृदयं भर्तारमभिलषन्त्यात्मनोऽपि तावल्लज्जामि । कुतो विभवः स्निग्धस्य सखीजनस्येमं वृत्तान्तमाख्यातुम् । न जानेऽप्रतिकारगुरुकां वेदनां कियन्तं कालं मदनो मां नेष्यतीति । आ, कुत्र खलु प्रस्थितास्मि । आदिष्टास्मि देव्या । गौतमचापलाद्दोलापरिभ्रष्टायाः सरुजो मम चरणः । त्वं तावद्गत्वा तपनीयाशोकस्य दोहदं निर्वर्तयेति । यद्यसौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहमभिलाषपूरयितृकं प्रसादं दास्यामीति । यावन्नियो- गभूमिं प्रथमं गता भवामि, तावदनुपदं मम चरणालंकारहस्तया बकुलावलि- कयागन्तव्यम्, परिदेवयिष्यामि तावद्विस्रब्धं मुहूर्तकम् । सुमनेपथ्यं गृहीतम् ॥ रक्ताशोकेत्यादि । बिम्बाधरे । बिम्बमिवाधरस्तस्मिन् । ‘विशेषणं विशेष्येण बहुलम्' इति विशेषणसमासः । ‘उपमितं व्याघ्रादिभिः सामान्या- प्रयोगे’ इत्युपमितसमासस्तु कविमित्रैत्र ग्राम्ये(प्राये)ण नाङ्गीकृतः। अलक्तको लाक्षा । रक्ताशोकरुचा रक्ताशोककुसुमस्य रुचा कान्त्या विशेषितगुणः। विशेषितोऽतिशयित- स्तिरस्कृतो गुणो रागो यस्य स तथोक्तः। श्यामावदातारुणम्। श्यामं च तदवदातमरुणं च तत्तथोक्तम् । ‘वर्णी वर्णेन’ इति कर्मधारयः। कुरबकं कुरबकपुष्पं प्रत्याख्यातविशे- षकम् । प्रत्याख्यातं तिरस्कृतं विशेषकं पत्रभङ्गो येन तथोक्तम् । लग्नद्विरेफाञ्जनै- र्लग्नः सक्तो द्विरेफो भ्रमर एवाञ्जनं येषु तैस्तिलकैस्तिलककुसुमैस्तिलकक्रियापि तिलकस्य ललाटिकायाः क्रियाक्रान्तोल्लङ्घिता । परिभूतेत्यर्थः। माधवी मधुसंबन्धिनी श्रीर्लक्ष्मीः ! शोभेत्यर्थः । योषितां स्त्रीणां मुखप्रसाधनविधौ मुखालंकारकरणे सावज्ञेवावमानेन सहितेव । अवमाननां कृतवतीवेत्यर्थः ॥ अविज्ञातहृदयं भर्ता-
४२ मालविकाग्निमित्रे वि दाव लज्जेमि । कुदो विहवो सिणिद्धस्स सहीजणस्स इमं वृत्तन्तं आचक्खिदुं । ण जाणे अप्पडिआरगरुअं वेअणां केत्तिअं कालं मअणो मं णइस्सदित्ति । (इति कतिचित्पदानि गत्वा ।) आ, कहिं खु पत्थिदम्हि । (इति स्मृतिमभिनीय ।) आदिद्वम्हि देवीए । गोद मचावलादो दोलापरिब्भट्ठाए सरुजो मह चलणो । तुमं दाव गदुअ तवणीआसो- अस्स दोहलं णिवट्टेहित्ति । यदि सो पञ्चरत्तब्भन्तरे कुसुमं दंसेदि, तदो अहं अहिलाषपूरइत्तअं पसादं दाइस्सं ति । जाव णिओअभूमिं पुढमं गदा होमि, ताव अणुपदं मम चलणालंकारहत्थाए बउलावलिआए आअन्तव्वं, परिदेवइस्सं ताव वीसद्धं मुहुत्तअं । (इति परिक्रामति ।) विदूषकः—(दृष्ट्वा ।) वैअस्स, एदं खु सीहुपाणुब्बेजिदस्स मच्छण्डिआ उवणदा । राजा—अयि, किमेतत् । विदूषकः—ऐसा णादिपरिआरवेसा ऊसुअवअणा एआइणी मालविआ अदूरे वहदि । राजा—(सहर्षम् ।) कथं मालविका । विदूषकः—अह इं । १. वयस्य, एतत्खलु सीधुपानोद्वेजितस्य मत्स्यण्डिकोपनता । २. एषा नातिपरिचारवेषोत्सुकवदनैकाकिनी मालविकाऽदूरे वर्तते । ३. अथ किम् । रममिलषन्त्यात्मनोऽपि तावलज्जामि । कुतो विभवः स्निग्धस्य सखीजनस्येमं वृत्तान्तमाख्यातुम् । न जानेऽप्रतीकारगुरुकां वेदनां कियन्तं कालं मदनो मां नेष्यतीति । आ, कुत्र खलु प्रस्थितास्मि । 'आ स्मृतौ' । आदिष्टास्मि देव्या । गौतम- मचापलाद्दोलापरिभ्रष्टायाः सरुजो मम चरणः । त्वं तावद्गत्वा तपनीयाशोकस्य दोहदं निर्वर्तयेति । यद्यसौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहमभिलाष- पूरयितृकं प्रसादं दास्यामीति । यावन्नियोगभूमिं प्रथमं गता भवामि । 'यावत्पु- रानिपातयोर्लट्' इति भविष्यदर्थे लट् । तावदनुपदं मम चरणांलंकारहस्तया बकुलावलिकयागन्तव्यम्। परिदेवयिष्यामि तावद्विस्रब्धं मुहूर्तकम् ॥ वयस्य, एत- त्खलु सीधुपानोद्वेजितस्य मत्स्यण्डिकोपनता ॥ मत्स्यण्डिका नाम शर्कराविशेषः ॥ एषा मालविकाऽदूरे वर्तते ॥ अथ किम् ॥
तृतीयाऽङ्कः । ५३ राजा—शक्यमिदानीं जीवितमवलम्बितुम् । त्वदुपलभ्य समीपगतां प्रियां हृदयमुच्छ्वसितं मम विक्लवम् । तरुवृतां पथिकस्य जलार्थिनः सरितमारसितादिव सारसात् ॥ ६ ॥ अथ क्व तत्रभवती । विदूषकः—ऐसा तरुराइमज्झादो णिक्कन्ता इदो एव अहिव- दृन्ती दीसइ । राजा—(विलोक्य सहर्षम् ।) वयस्य, पश्यामि । विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः । अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥ सखे, पूर्वस्मादतिमनोहरमवस्थान्तरमुपारूढा तत्रभवती । तथा हि । शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा । माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ ८ ॥ विदूषकः—ऐसावि भवं विअ मअणवाहिणा परिसुद्धा भविस्सदि । राजा—सौहार्दमेवं पश्यति । मालविका—अअं सो सुउमालदोहलापेक्खी अगहिदकुसुमणे- १. एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते । २. एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति । ३. अयं स सुकुमारदोहदापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठिताया ममा- शोकोऽनुकशेति । यावदस्य प्रच्छायशीतले शीतले शिलापट्टके निषण्णात्मानं विनोदयामि । त्वदुपलभ्येत्यादि । स्पष्टोऽर्थः । अत्र संचिन्त्यमानार्थस्य प्राप्तेः क्रमो नाम संध्यङ्गमुक्तं भवति ॥ एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते ॥ विपुलमिति । स्पष्टोऽर्थः ॥ शरकाण्डेति । स्पष्टोऽर्थः ॥ एषापि भवानि-
४४ मालविकाग्निमित्रे वच्छो उकण्ठिदाए मह असोओ अणुकरेदि । जाव एदस्स पच्छा- यसीदले सिलापट्टए णिसण्णा अप्पाणं विनोदेमि । विदूषकः—१सुदं भवदा । उकण्ठिदमह्मित्ति तत्तहोदी मन्तेदि । राजा—नैतावता भवन्तं प्रसन्नतर्कं मन्ये । कुतः । वोढा कुरबकरजसां किसलयपुटभेदशीकरानुगतः । अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥ (मालविकोपविष्टा ।) राजा—सखे; इतस्तावत् । आवां लतान्तरितौ भवावः । विदूषकः—२ईरावदिं विअ अदूरे समद्धेमि । राजा—नहि कमलिनीं लब्ध्वा ग्राहमपेक्षते मतङ्गजः । (इति विलोकयन्स्थितः ।) मालविका—हिअअ, णिरवलम्बणादो अदिभूमिलङ्घिणो ते मणोरहादो विरम । किं मं आआसिअ । (विदूषको राजानमपेक्षते ।) राजा—प्रिये, पश्य वामत्वं स्नेहस्य । औत्सुक्यहेतुं विवृणोषि तत्त्वं तत्त्वावबोधैकरसो न तर्कः । तथापि रम्भोरु करोमि लक्ष्य- मात्मानमेषां परिदेवितानाम् ॥ १० ॥ १. श्रुतं भवता । उत्कण्ठितास्मीति तत्रभवती मन्त्रयति । २. इरावतीमिवादूरे समर्थये । ३. हृदय, निरवलम्बनादतिभूमिलङ्घिनस्ते मनोरथाद्विरम । किं मामा- यास । व मदनव्याधिना परिमृष्टा भविष्यति ॥ अयं स सुकुमारदोहदापेक्ष्यगृहीत- कुसुमनेपथ्य उत्कण्ठिताया मभाशोकोऽनुकरोति । यावदस्य प्रच्छायशीतले शिलापट्टके निषण्णात्मानं विनोदयामि ॥ श्रुतं भवता । उत्कण्ठितास्मीति तत्र- भवती मन्त्रयति ॥ वोढेत्यादि । स्पष्टोऽर्थः इरावतीमिवादूरे समर्थये । हृदय, निरवलम्बनादतिभूमिलङ्घिनस्ते मनोरथाद्विरम । किं मामायास ॥ औ- त्सुक्येत्यादि । स्पष्टोऽर्थ ॥ सांप्रतं भवतो निःसंशयं भविष्यति एषार्पित
तृतीयोऽङ्कः। ४५ विदूषकः—संपदं भवदो णिस्संसअं भविस्सदि। एसा अप्पिदमअणसंदेसा विवित्ते णं बउलावलिआ उवट्ठिदा। राजा—अपि स्मरेदसावस्मदभ्यर्थनाम्। विदूषकः—किं² दाणिं एसा दासीए दुहिदा तुह गरुअं संदेसं विसुमरेदि। अहं दाव ण विसुमरेमि। (प्रविश्य चरणांलंकारहस्ता।) बकुलावलिका—³अवि सुहं सहीए। मालविका—⁴अँह्मो बउलावलिआ। सहि, साअदं ते। उवविस; बकुलावलिका—(उपविश्य।) ⁵हँला, तुमं दाणिं जोग्गदाए णि उत्ता। ता एकं चलणं उवणेहि। जाव सालत्तअं सनूउरं च करेमि। मालविका—(आत्मगतम्।) ⁶हिँअअ, सुहिदाए अलं उवट्ठिदो अअं विहवोत्ति। कहं दाणीं अत्ताणं मोचेअं। अहवा दाणिं एदं एव्व मिच्छुमण्डणं मे भविस्सदि। १. सांप्रतं भवतो निःसंशयं भविष्यति। एषार्पितमदनसंदेशा विविक्ते एनां बकुलावलिकोपस्थिता। २. किमिदानीमेषा दास्या दुहिता तव गुरुकं संदेशं विस्मरति। अहं तावन्न विस्मरामि। ३. अपि सुखं सख्याः। ४. अहो बकुलावलिका। सखि, स्वागतं ते। उपविश। ५. सखि, त्वमिदानीं योग्यतया नियुक्ता। तस्मादेकं चरणमुपनय। यावत्सालक्तकं सनूपुरं च करोमि। ६. हृदय, सुखितयालमुपस्थितोऽयं विभव इति। कथमिदानीमात्मानं मोचयेयम्। अथवेदानीमेतदेव मृत्युमण्डनं मे भविष्यति। मदनसंदेशा विविक्ते एनां बकुलावलिकोपस्थिता॥ किमिदानीमेषा दास्या दुहिता तव गुरुकं संदेशं विस्मरति। अहं तावन्न विस्मरामि॥ अपि सुखं सख्याः॥ अहो बकुलावलिका। सखि, स्वागतं ते। उपविश॥ सखि, त्वमिदानीं योग्य- तया नियुक्ता। तस्मादेकं चरणमुपनय। यावत्सालक्तकं सनूपुरं च करोमि॥ हृदय, सुखितयालमुपस्थितोऽयं विभव इति। कथमिदानीमात्मानं मोचयेयम्।
४६ मालविकाग्निमित्रे बकुलावलिका—किं विआरेसि। ऊसुआ खु इमस्स तवणी- आसोअस्स मुउलुग्गमे देवी। राजा—कथमशोकदोहदनिमित्तोऽयमारम्भः। विदूषकः—किंणु खु जाणासि तुमं। मह कालणादो देवी इमं अन्तेउरणेवच्छेण जोअइस्सदिति। मालविका—हँला, मरिसेहि दाव णं (इति पादमुपहरति।) बकुलावलिका—अँह, सरीरं सि मे। (इति नाटयेन चरणसं- स्कारमारभते।) राजा— चरणान्तनिवेशितां प्रियायाः सरसां पश्य वयस्य रागरेखाम्। प्रथमामिव पल्लवप्रसूतिं हरदग्धस्य मनोभवद्रुमस्य ॥ ११ ॥ विदूषकः—चेलणाणुरूवो तत्तहोदीए अहिआरो उवक्खित्तो। राजा—सम्यगाह भवान्। १. किं विचारयसि। उत्सुका खल्वस्य तपनीयाशोकस्य मुकुलो- द्गमे देवी। २. किंनु खलु जानासि त्वम्। मम कारणाद्देवीमामन्तःपुरनेपथ्येन योजयिष्यतीति। ३. सखि, मर्षय तावदेनम्। ४. अयि, शरीरमसि मे। ५. चरणानुरूपस्तत्रभवत्या अधिकार उपक्षिप्तः। अथवैदानीमेतदेव मृत्युमण्डनं मे भविष्यति॥ किं विचारयसि। उत्सुका खल्वस्य तपनीयाशोकस्य मुकुलोद्गमे देवी॥ किंनु खलु जानासि त्वम्। मम कार- णाद्देवीमामन्तःपुरनेपथ्येन योजयिष्यतीति॥ सखि, मर्षय तावदेनम्॥ अयि, शरीरमसि मे॥ चरणान्तेत्यादि स्पष्टोऽर्थ च
तृतीयोऽङ्कः । ४७ नवकिसलयरागेणाग्रपादेन बाला स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन । अकुसुमितमशोकं दोहदापेक्षया वा प्रणमितशिरसं वा कान्तमाद्रीपराधम् ॥ १२ ॥ विदूषकः—१पहरिस्सदि तत्तहोदी तुमं अवरद्धम् । राजा—मूर्ध्ना प्रतिगृहीतं वचः सिद्धिदर्शिनो ब्राह्मणस्य । (ततः प्रविशति युक्तमदा इरावती चेटी च ।) इरावती—२हंजे णिउणिए, सुणोमि बहुसो मदो किल इत्थि- आजणस्स मण्डणं ति । अवि सच्चो लोअवाओ अअं । निपुणिका—३पढमं लोअवाओ एव्व । अज्ज सच्चो संवृत्तो । इरावती—४संकित्तणसंसिणा अलं सिणेहेण । कहेहि कुदो दाणिं ओगमिदव्वो दोलाघरं पुढमं गदो भट्ठा ण वेत्ति । निपुणिका—५भट्टिणीए अखण्डिदादो पणआदो । इरावती—६अलं सेवाए । मज्झत्थदं परिगहिअ भणाहि । १. प्रहरिष्यति तत्रभवती त्वामपराधम् । २. चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डनमिति अपि सत्यो लोकवादोऽयम् । ३. प्रथमं लोकवाद एव । अद्य सत्यः संवृत्तः । ४. संकीर्तनशंसिनालं स्नेहेन । कथय कुत इदानीमवगन्तव्यो दोला- गृहं प्रथमं गतो भर्ता न वेति । ५. भट्टिन्या अखण्डितात्प्रणयात् । ६. अलं सेवया । मध्यस्थतां परिगृह्य भण । अधिकार उपक्षिप्तः ॥नवकिसलयेत्यादि। स्पष्टोऽर्थः ॥ प्रहरिष्यति तत्रभवती त्वामपराधम् ॥ चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डन- मिति । अपि सत्यो लोकवादोऽयम् ॥ प्रथमं लोकवाद एव अद्य सत्यः संवृत्तः ॥ संकीर्तनशंसिनालं स्नेहेन कथय कुत इदानीमवगन्तव्यो दोलागृहं प्रथमं गतो भर्ता न वेति ॥ भट्टिन्या अखण्डितात्प्रणयात् । अलं सेवया । मध्यस्थतां परिगृह्य भण ॥ बसन्तोपायनलोलुपेनार्यगौतमेन। कथितम् । त्वरतां भट्टिनी । चेटिम,
४८ मालविकाग्निमित्रे निपुणिका—^१वसन्तोआअणलोलुवेण अज्जगोदमेण कहिअं तुवरदु भट्टिणी । इरावती—(अवस्थासदृशं परिक्रम्य ।) ^२हंजे, मदेण किलामिअमाणं अत्ताणं अज्जउत्तदंसणे हिअअं तुवरेदि । चलणा उण ण मह पसरन्ति । निपुणिका—^३णं पत्ता दोलाघरं । इरावती—^४णिउणिए, अज्जउत्तोएत्थ ण दीसदि । निपुणिका—^५भट्टिणीए ओलोअदु । परिहासनिमित्तं कहिं वि अदिट्ठेण भत्तुणा होदव्वं । इमं पिअङ्गलदापरिक्खित्तं असोअ- सिलापट्टं पविसामो । इरावती—^६तह । निपुणिका—(विलोक्य ।) ^७ओलोअदु भट्टिणी । चूदङ्कुरं विचि- णन्तीणं पिवीलियाहिं दंसिदं । १. वसन्तोपायनलोलुपेनार्यगौतमेन कथितम् । त्वरतां भट्टिनी । २. चेटि, मदेन क्लाम्यमानमात्मानमार्यपुत्रदर्शने हृदयं त्वरयति । च- रणौ पुनर्न मम प्रसरतः । ३. ननु प्राप्ते स्वो दोलागृहम् । ४. निपुणिके, आर्यपुत्रोऽत्र न दृश्यते । ५. भर्तृन्यवलोकयतु । परिहासनिमित्तं कुत्राप्यदृष्टेन भर्त्रा भवितव्यम् । इमं प्रियङ्गुलतापरिक्षिप्तमशोकशिलापट्टं प्रविशावः । ६. तथा । ७. अवलोकयतु भट्टिनी । चूताङ्कुरं विचिन्वत्योः पिपीलिकाभिर्दष्टम् । देन क्लाम्यमानमात्मानमार्यपुत्रदर्शने हृदयं त्वरयति । चरणौ पुनर्न मम प्रसरतः ॥ ननु प्राप्ते स्वो दोलागृहम् ॥ निपुणिके, आर्यपुत्रोऽत्र न दृश्यते ॥ भर्ह्टि- न्यवलोकयतु । परिहासनिमित्तं कुत्राप्यदृष्टेन भर्त्रा भवितव्यम् । इमं प्रियङ्गुलता- परिक्षिप्तमशोकशिलापट्टं प्रविशावः ॥ तथा ^७ अवलोकयतु भट्टिनी । चूताङ्कुरं विचि