मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
३ ] प्रथमाध्याये तृतीयपादः २९५ ञ्चिति । कदाचित्स्मृतिमूलश्रुतिविच्छेदाद् भ्रान्त्यादिमूलत्वमापादयति । तादृश्या च सकृदपि श्रौतं विज्ञानमनुज्ञातमध्यारोप्यमाणव्यामोहाविषयत्वान्न कदाचित्प्रा- माण्यं त्यजतीत्यपाक्षिकत्वाभिधानम् । एवं केवलाप्रमाणत्वपक्षग्रहः तस्य पुनर्जी- वनासंभवादपाक्षिकं च सर्ववेष्टनस्मरणमित्याह—पाक्षिकं चेति । विकल्प- वादिसंमतपाक्षिकत्ववशादेव श्रुतिप्रामाण्यपक्षे स्मार्तश्रुतिकल्पनायामकृताया मूला- न्तरसंक्रान्तेः सर्वकालाप्रमाणत्वप्रसङ्गः । एकदाऽपि च लब्धप्रामाण्यावकाशा श्रुतिर्दुर्बलप्रतिपक्षतया न कदाचिदपि व्यामोही भविष्यतीति समर्थयमानो ‘यदेव हि तस्यैकस्मिन्पक्षे मूलमि'त्याह । नहि प्रमादपाठत्वं शक्यं कल्पयितुं श्रुतेः । दुःश्रुतस्वप्नविज्ञानमूलां त्वापद्यते स्मृतिः ॥ १६६ ‘तेन नैतत्पक्षे विज्ञानमिति'—प्रमाणविज्ञानमभिप्रेत्योक्तम् । व्यामोहात्प- क्षान्तरमिति । व्यामोहकल्पनातः प्रमाणाभावपक्षान्तरसंक्रमणं प्रतिषेधति । यद्वा स्मार्तज्ञानमेव पूर्वावधारितव्यामोहात्प्रामाण्यपक्षान्तरं न संक्रान्तमिति । दुःश्रुतस्वप्नादिमूलत्वेन श्रुतिविरोधं दर्शयति—‘तुल्यकारणत्वादिति' । बलीयः प्रतिपक्षनिराकृतत्वात्सर्वदैव श्रुत्यनुमानप्रतिबन्धान्न स्मृतेः प्रामाण्यपक्षसंक्रान्तिः । अपि चेतरेतराश्रयेऽन्यतः परिच्छेदादिति । उपरिष्टादितरेतरविरोधविवरणाद्वि- रोधमेवेतरेतराश्रयमाह— परस्परविरुद्धे हि विरुद्धव्यभिचारिवत् । प्रमाणे यत्र दृश्येते तत्रान्येनैव निर्णयः ॥ १६७ प्रमाणशब्दस्य ज्ञानसमानाधिकरणत्वेन भावोत्पन्नल्युडन्तत्वेन वा नपुंसक- लिङ्गत्वाद्भेदाः प्रमाणम् स्मृतयः प्रमाणमितिवत्प्रमाणं स्मृतौ स्पर्शनं व्यामोह इति भवितव्यम् । करणविशेषविवक्षायां वाऽभिधेयलिङ्गवचनानुवृत्तौ ल्युडन्ताट्टिड्ढा- णञिति ङीपि प्राप्ते प्रामाण्यं स्मृताविति प्रयोक्तव्यम् । तमिमममुभयअष्टं भाष्य- कारप्रयोगं समर्थयमानैरेवमनुगमः कर्तव्यः । दुरुक्तं चिन्ताकरणेन वार्तिकलक्षणस्य योजना प्रमाणमयते याति मूलभूतं श्रुतिं यतः । क्विबन्तादयतेस्तस्मात्प्रमाणा स्मृतिरुच्यते ॥ १६८ तत्र यद्यपि नित्यत्वात्क्विब्लोपः प्रथमं भवेत् । यलोपोऽपि भवेदेव वलादिप्रत्ययाश्रयः ॥ १६९ न च वर्णाश्रयत्वेन यलोपो न भविष्यति । व्योर्वलीति यलोपो हि वलादिप्रत्ययाश्रयः ॥ १७०
२९६ मीमांसादर्शनम् [ सू० यद्वा योगविभागेन वेव्यंबस्य च लुप्यते । वकारश्च यकारश्चेत्येवं लोपो भविष्यति ॥ १७१ यलोपे च कृतेऽकारो यः शुद्धः परिशिष्यते । तदन्तावधिकात्पश्चादतष्टाप्क्रियते स्त्रियाम् ॥ १७२ अकः सवर्णदीर्घत्वं परयोरन्तरङ्गतः । सर्वेणापि ततः कृत्वा प्रमाणेत्यनुगम्यते ॥ १७३ तदेतदितराश्रयं भवतीत्युक्तम् । यद्वा श्रुत्यप्रमाणत्वात्स्मृतेः प्रामाण्यमिष्यते । सिद्धाच्च तत्प्रमाणत्वाच्छ्रुत्यप्रामाण्यकल्पना ॥ १७४ तथा श्रुतिप्रमाणत्वात्स्मृत्यप्रामाण्यकल्पनम् । तदप्रामाण्यसिद्ध्या च श्रुतिप्रामाण्यनिश्चयः ॥ १७५ तदिदं विकल्पवादिना उभयत्रेतरेतराश्रयत्वम् । एकान्तवादिनस्त्वन्यतरत्र । तत्रान्यतः परिच्छेदाद्ग्राह्यं हेत्वन्तरं स्फुटम् । भाष्यकारस्त्विहोक्त्वैवं तयोरेकैकमुक्तवान् ॥ १७६ तत्र स्पर्शनस्य क्लृप्तं मूलं कल्प्यं स्मृतेरिति । समाधानम् नैवात्यन्ताप्रकृतहेत्वन्तराभिप्रायेणान्यतः परिच्छेदोऽभिहितः । प्रकृतयोरपि चयत्कृतगितरेतराश्रयत्वं तद्व्यतिरिक्तधर्मदर्शनान्निश्चीयमाने भवत्येवान्यतः परिच्छेदः । स्वतः स्थितात्प्रामाणत्वाच्छ्रुतेः स्यात् क्लृप्तमूलता ॥ १७७ स्मृतेः श्रुत्यनुमापकप्रामाण्यात्कल्प्यमूलता । ततश्च प्रत्यक्षश्रुत्यप्रामाण्यकल्प- नायत्तं स्मृतेः प्रामाण्यम्, तद्वलेन च श्रुत्यप्रामाण्यं कल्पयत इतरेतराश्रयत्वमपरि- हार्यम् । न चाध्यारोप्यमाणाऽपि श्रुतेः स्यादप्रमाणता । न च तस्यामसिद्धायां स्मृतिप्रामाण्यसंभवः ॥ १७८ बलवन्तं पराजित्य यः प्रतिष्ठातुमिच्छति । हस्तिना पादयोधीव संतिष्ठेताचिरादसौ ॥ १७९ एवं तावत्स्मृतिप्रामाण्यं कल्पयन्नेव यद्वादी पराजीयते । यदा तु श्रुतिप्रा- माण्यगतमितरेतराश्रयत्वमालोच्यते, तदा तत्रापि प्रतिपक्षभूतस्मृत्यप्रामाण्यापेक्षया निरपवादप्रामाण्यावधारणसिद्धेः पराधीनत्वात्पूर्वसिद्धस्मृत्यप्रामाण्यलिप्सायाम् । सिद्धमेवाप्रमाणत्वं स्वरूपाश्रयमादितः । क्षणमात्रमपि प्राप्य श्रुतिः प्रामाण्यमश्नुते ॥ १८०
३ ] प्रथमाध्याये तृतीयपादः २९७ तेन यत्तदाद्ये पदकेऽनुमितावस्थायां श्रुतावापातक्षणमात्रे स्मृतेरप्रामाण्यं दृश्यते, तावतैव लब्धप्रामाणत्वात् श्रुतिः सर्वदा निरपवादप्रामाण्या भवतीत्यन्तः परिच्छेदः । तेनैंकत्र श्रुतेराद्यात्प्रामाण्यादवसीयते । स्मृत्यप्रामाण्यतोऽन्यत्र क्षणमात्रावधारितात् ॥ १८१ कृत्वैकमवधिं तस्मात्सिद्धमाद्ये क्षणे दृढम् । आनुपूर्व्या व्रजेत्तावत्सिद्धोऽपरः स्फुटः ॥ १८२ तदेकेन मार्गेण दर्शयति—कल्प्यमूलत्वात्स्मृतिप्रामाण्यमनवक्लृप्तमित्यादि यावत्स्मार्तश्रुतिकल्पनमनुपपन्नं प्रमाणाभावादिति । द्वितीयमार्गेऽपि श्रुतिप्रा- माण्यदर्शनादारभ्य तावन्नेतव्यं यावत्तदेव निरपवादं सिद्धमिति । व्रीहियवबृहद्रथं- तरविधीनां त्वनन्यगतिकत्वात्कक्षान्तरितपदका इव स्थानभेदाभावात्तुल्यबलतयाऽ- नवस्थितविकल्पाश्रयणं प्रागुपदिष्टमेव योज्यम् । अतो नापेक्ष्यं प्रत्यक्षश्रुतिविरुद्ध- स्मृतिप्रामाण्यमिति ॥ ३ ॥ ॥ इति भाष्यमतेन विरोधाधिकरणम् ॥ अथ द्वितीयं विरोधाधिकरणम् न्या० सू०—सङ्गतिमाह—स्मृतीति । कथमपोद्यत इत्यपेक्षिते, सूत्रारूढं तत्स्वरूप- माह—विरोधे स्थित्विति । कस्मिन्सतीत्यपेक्षिते विरोधे वेदवाक्येनेत्युक्तम् । विरोधोऽपि वैपरीत्यपरिच्छेदात्प्रागनुपसञ्जातविरोधित्वाच्छ्रुत्यनुमानसम्भवान्न प्रत्यक्षश्रुतिः प्रागनुमानं प्रवर्तते मन्थरत्वादित्युक्तम् । तेन चार्थेनाधिष्ठिते इति वेदवाक्येन स्मृत्यर्थे वैपरीत्येना- परिच्छिन्ने परिच्छेदात्प्रागित्यर्थः । सङ्गतिमुक्त्वा विषयप्रदर्शनपूर्वकं सन्देहमाह— यावतीति । सम्प्रधार्यंत इत्यनेन यत्र तु श्रुतिविरोधः तत्र कथमिति भाष्यगतः कथं शब्दः सन्देहप्रदर्शनार्थत्वेन व्याख्यातः । अकथिते च विषये सन्देहस्य वक्तुमशक्यत्वादेतदेव भाष्यं विषयकथनार्थमपीति वक्ष्यमाणोदाहरणभाष्यानादयोदाहृत्येत्यनेन सूचितम् । यावन्तीत्यादिना चानादरकारणमुक्तम् । पर्युदस्यत इत्यनेनापवादत्वं दर्शितम् । निषेधस्य विकल्पापादकत्वेनापवादत्वायोगात् । प्रश्नपूर्वकं सन्देहहेतुमाह—कुत इति । ननु कथं प्रतीयमानस्य विरोधस्य परिहारः । कथं वा तस्मिन्सति बाधमन्तरेण गतिरित्याशङ्क्य सामान्यन्यायप्रदर्शनपूर्वकमुभयमुपपादयति—एकविषये इति । विचाराविषयत्वापत्ते- विरोधपरिहारेण पूर्वपक्षो न युक्त इति शङ्कितविरोधयोरपीत्युक्तम्—केनचित्प्रकारेणेति । वेष्टनस्मृतेर्द्वित्र्यङ्गुलव्यतिरिक्तविषयत्वात्स्पर्शश्रुतेश्च तन्मात्रविषयत्वात्, राजक्रयाग्नि- षोमीयावद्योश्चापद्विषयत्वात्, अष्टाचत्वारिंशद्वर्षब्रह्मचर्यस्मृतिकृष्णकेशाधानश्रुत्योश्च गाहं- स्थ्यायोग्ययोग्यविषयत्वादित्यर्थः । विधेयप्रतिषेध्ययोर्वेत्यनेन सत्यप्येकविषयत्वे विरुद्धाथौप- संहारित्वाभावादपि विरोधपरिहारः—सम्भवतीत्युक्तम् ।
२९८ मीमांसादर्शनम् [ सू० राजक्रयादूर्ध्वं विधेयस्याभोजनसङ्कल्पस्य प्रतिषेध्यस्य च राजक्रयात्प्राग्भोजनस्य विरोधाभावेनैकस्मिन्नपि दीक्षिताङ्गरूपे विषये समुच्चयसम्भवादित्यर्थः । स्पर्श- वेष्टनयोः कृष्णकेशाधानाष्टाचत्वारिंशद्वर्षब्रह्मचर्ययोरप्येकविधानेनार्थान्तरप्रतिषेधम- भिप्रेत्य वेष्टिताया अपि स्पर्शसम्भवात् कृष्णकेशत्वस्य चानवस्थितवयोऽवस्थां कालविशेष- त्वेनाष्टाचत्वारिंशद्वर्षब्रह्मचर्योत्तरकालमपि कस्मिंश्चित्पुरुषे सम्भवाद्विरोधपरिहारो वक्तुं शक्यते । सति वा तुल्यमूल इत्येतद्व्याख्यातुम्—एकप्रयोगेत्याद्युक्तम् । विकल्पाश्रयणेऽप्यु- भयप्रामाण्यमुपपत्स्यत इत्युक्ते विरोधिनोः समावेशायोगात्कथमुभयप्रामाण्यमित्याशङ्क्य— अत्यन्तविरोधाभावादित्युक्तम् । कथं विरोधाभाव इत्याशङ्क्योभयोः प्रामाण्याङ्गीकरणे- नेत्युक्तम् । प्रामाण्यशब्देनात्रानुष्ठानलक्षणफलानपहारोऽभिप्रेतः । समुच्चय एव तर्हि कस्मा- न्नेष्यत इत्याशङ्क्यैकप्रयोगगतत्वासम्भवादित्युक्तम् । कथं तर्हि फलानपहार इत्याशङ्क्य प्रयोगान्तरे चोभयानुग्रहः स्यादित्युक्तम् । प्रत्यक्षानुमेयश्रुत्योस्तुल्यबलत्वाद्विकल्पासम्भव- माशङ्क्य—प्रत्येत्याद्युक्तम् । समस्तफक्किकायोजनं त्वेवं-यद्याशङ्कितविरोधयोरपि भिन्नविषयत्वेन व्यवस्था सिद्ध- येद्यदि वैकस्मिन्नपि विषये विधेयप्रतिषेध्ययोर्विरोधाभावेन समुच्चयसम्भवादुभयप्रामाण्य- मुपपत्स्यते, एकप्रयोगगतत्वासम्भवाद्विकल्पाश्रयणेऽपि, यद्युभयप्रामाण्यमुपपत्स्यते, ततो विरोधविषयेऽपि स्मृतिप्रामाण्यमादत्तंथमिति सिद्धान्तसम्भवाभिधानार्थं बाधो वा तद्विपर्य- यादिति, यदुक्तम्—तद्विवृणोति । अथ द्विवेति । महान् बलाबलविशेष इति, महच्छब्देन प्रत्यक्षश्रुतिविरुद्धया श्रुतेरनुमानमेव नास्तीति सूचितम् । लौकिकप्रत्यक्षानुमानवदिति दृष्टान्तेन चैतदेव प्रकटितं प्रत्यक्षविरोधे त्वनुमानस्योत्पत्तिरेव प्रतिबद्ध्यते । यथोक्तं मूले तस्य ह्यनुत्पन्नपूर्वेण विषयो हत इति । पूर्वपक्षमारभते—किं तावदिति । अन्यथा ह्यविरोधेऽप्यप्रामाण्यप्रसङ्गे सत्यप्रामाण्येन विरोधमर्यादातिक्रमात्पूर्वाधिकरणसिद्धान्तः प्रत्युद्धूयेतेत्यर्थः एतदेवोपपादयति—अना- शङ्कितेति । अतिप्रसक्तिप्रदर्शनार्थं हेतुदर्शनाद्युपन्यासः । आदिशब्देन पूर्वानुभवपारतन्त्र्य- मभिप्रेतम् । खिलानि-परिशिष्टानि । शाखाश्च खिलानि-प्रकरणानि वा । आदिशब्दोक्तानि काण्डानि । तेषां ये बहवो भेदाः तैर्मिश्रे त्विति विग्रहः लिङ्गादीत्यादिशब्देन समस्तोपदेश- प्रामाण्याभिधानम् । नामादीत्यादिशब्देनातिदेशकवचनाभिधानम् । श्रुतिलिङ्गाद्यात्मकश्चो- पदेशो नामादिद्वाराश्चातिदेशः तदात्मका विचित्राः प्रमाणभागा येषां वेदानामिति विग्रहः । ननु विरोधाशङ्कानिराकरणेनाऽन्यत्र प्रामाण्यस्याध्यवसातुं शक्यत्वात्कथं सर्वत्र प्रामा- ण्यप्रतिघातापत्तिरित्याशङ्कयाह—तथा हीति । ननु त्वत्पक्षे कथं भ्रान्त्यादिमूलत्ववारण- मत आह -- एकेति । एवं तावत् (स्थिततदुपेक्षणे एकमूलव्यवस्थोपेक्षणे अप्रामाण्यनिवृत्त्यर्थं मूलान्तरनिरा- क्रिया न शक्येत्यन्वयः । सिद्धान्तिमते स्मृत्यधिकरणसिद्धान्तः) । सिद्धान्तहानिभयाद्वि- रोधेऽपि, वेदमूलत्वं न निराकार्यमित्युक्तम् । इदानीं विरोधो मूलभूतवेदनिरकरणं कर्तु-
३ ] प्रथमाध्याये तृतीयपादः २१९ मपि न शक्नोत्यनैकान्तिकत्वादित्याह—किं चेति । श्लोकं व्याचष्टे—यदा त्विति । कल्पितस्यापि वचनस्य शाखान्तरीयत्वेनानादराशङ्का निराकर्त्तुं सर्वशाखाप्रत्ययकर्म- व्यवहारिणामिति । यदुक्तं यद्व्याचष्टे--न चेति । न च प्रमाणाभावेनाकल्पनामिति यद् दृढस्मरणोपस्थापितशब्देनोक्तम्, तदुपपादयति—अध्ययनवच्चेति । न शोभत इत्यनेनोभ- योरपि पञ्चम्योरन्वयः । एतदेवोपसंहरति--तस्मादिति । अर्द्धवैशसापत्तेरपि नेह श्रुति- मूलत्वं निराकार्यमित्याह—किं चेति । एकस्यां धर्मसंहितायामर्द्धमस्यार्थान्तरेण वैशसं विरोध इत्यर्थः । अतिक्रियालक्षणश्चास्मिन्पक्षे दोषः स्यादित्याह—मूलान्तरमिति । उचितां क्रियामतिक्रम्य क्रियाऽतिक्रिया, का पुनरुचिता क्रियेत्यपेक्षायामाह—तेनेति । एकस्मिंश्च धर्मशास्त्रे क्वचित्प्रामाण्यसिद्धयर्थं भ्रान्त्यादिमूलानामसम्भवः, क्वचिच्च बाधसिद्धयर्थं सम्भवोऽङ्गीकार्य इति विरुद्धसम्भवासम्भवापादकत्वादपि स्मृतिबाधो न युक्त इत्याह—किं चेति । विरोधपक्षे बाधो बाधपक्षः पक्षे चेद् बाधो न युज्यते किन्तर्हि युज्यते ? अत आह—तेनेति । केनचित्पाशुपतेन सर्वंजरत्या योषितोऽनुपभोग्यत्वात् सर्वंत- रुण्याश्च वृद्धेऽप्यरुचिप्रसङ्गादर्द्धंजरत्यानयने दूतः प्रेषित इति लोकप्रवादोऽर्द्धजरतीयशब्दे- नात्रोपमानत्वेनोक्तः । अस्तु तर्ह्यैकरूप्याय सर्वासामप्रामाण्यमत आह—विरुद्धत्वं चेति । विशिष्टपुरुष- प्रणीतत्वं प्रामाण्यकारणत्वेनोक्तम्, विरोधेऽपि निराकर्त्तुमशक्यमित्याशयः । यच्चात्र हेतुदर्शनं स्मृत्यप्रामाण्यकारणमुच्यते, तदपि स्थितसिद्धान्तहान्यापादकत्वादयुक्तमित्याह— गृह्यमाणेति । उत्प्रेक्षणीयो हेतुर्यस्य धर्मशास्त्रस्य, तत्तथोक्तो लोभादेः सर्ववेष्टनादिस्मृति- हेतुत्वं न केनचित्प्रमाणेनावगतं किं तूत्प्रेक्षामात्रेणोच्यते । सा चाष्टकादावपि शक्या कर्तुमित्याशयः । एतदेव प्रपञ्चयति—रागेति । रागः प्रीतिर्द्वेषोऽप्रीतिः । मदो—गर्वः उन्मादो-ग्रहावेशः, प्रमादालस्ये त्वन्यासक्तधनासक्त्यर्थे व्याख्याते, लुब्धता लिप्सातिशयः । प्रत्युत प्रामाण्य- हेतुकल्पनमेव सुलभमित्याह—अदुष्टे न हीति । जिज्ञासुचित्तेन मन्वादिष्वदुष्टेन निरा- शङ्केनेत्यर्थः । यदि चोत्प्रेक्षामात्रकल्पितेन हेतुना, प्रत्यक्षश्रुतिविरोधेन वा प्रामाण्यमपहू- नूयेत, ततो वेदस्यापि सर्वस्याप्रामाण्यं प्रसज्येतेत्याह—का चेति । न चेयमुत्प्रेक्षास्माभिरेव श्रूयते किन्त्वन्यैरेव सर्वाप्रामाण्यवादिभिः कृतेत्याह—लोकायतिकैरिति । उत्प्रेक्षाभिनिवेशे तेषां मूर्खत्वं मुग्धत्वं भ्रान्तत्वाख्यं कारणत्वेनोक्तम् । कर्मव्यवहारः कस्मादन्यदपेक्ष्यते यावत्किंचिदित्यादिना सार्द्धश्लोकेन तद्दर्शितम् । अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेयं बृहस्पतिः ॥ इत्यग्निहोत्रादीनां दृष्टार्थत्वं नास्तिकैरुक्तम् । अग्नीषोमीयादिहिंसाविधेश्च न हिंस्या- त्सर्वभूतानीति निषेधेन विरोधो योजितः । अथश्चैवंस्वभावानां लोकायतिकानामवकाश-
३०० मीमांसादर्शनम् [ सू० दानमशेषमेव धर्ममार्गं नाशयेदित्याह—तेभ्यश्चेह इति । ईषदर्थे नामशब्दः । एतदेव दृष्टान्तत्वेनोपपादयति—प्रसरन्निति । ननु विरोधहेतुदर्शनकारणकमप्रामाण्यमुच्यमानं तदभावे कथं चार्वाकैरापाद्यते, अत आह—क्वचिदिति । धाम-स्थानम् । तस्मात्तेभ्योऽवकाशो न क्वचिद्देय इत्याह— तस्मादिति । लोकायतं नास्तिकशास्त्रम् । तत्र तिष्ठन्तीति लोकायतस्थाश्चार्वाकाः । धर्मो नाश्यते येन युक्तिजालेन तत्संपन्नाः । 'पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ इति च निषिद्धत्वात्, स्मृतिप्रामाण्ये विचिकित्सा न कार्येत्याह—यच्चादाविति । राजाद्याज्ञाया यत्कार्यत्वेन सिद्धम्—निश्चितम्, तद्वेदे विचारितमाज्ञासिद्धमुच्यते । आज्ञा- सिद्धं प्रमाणत्वं यस्य पुराणादिचतुष्टयस्य, तत्तथोक्तं कथमविचारितसिद्धतेत्यपेक्षायामादौ न्यायनिरूपणात्प्रागनादिकालमहाजनपरिग्रहदाढ्यंप्रसक्तया श्रद्धया पुराणादिचतुष्टयमाज्ञासिद्ध- प्रमाणत्वरूपेण सिद्धमित्युक्तम् । न चैतावता न्यायशून्यत्वं शङ्कनीयमिति दर्शयितुं— पुनर्न्यायेन साधितमित्युक्तम् । विचिकित्सायां को दोषः स्यादित्यपेक्षयामाह—सर्वमिति । पराभवभयादपि नान्तरा श्लथयितव्यमित्याह—पक्ष इति । एवं तावदुत्प्रेक्षामात्रकल्पितं दृष्टार्थत्वं न वेदमूलत्वनिराकरणयालमित्युक्तम् । इमिदानीं वास्तवमपि दृष्टार्थत्वम् । विरोधवदनैकान्तिकत्वान्न तन्निराकरणयाल- मित्याह—वेदश्चेति । श्रूयमाणविरोधी वेतीवार्थे समुद्रो वा महासत्त्वैत्व इति । यद्वाशब्दः । अनैकान्तिकत्वं दर्शयति—यद्वा त्विति । ननु पुरुषार्थसाधनत्वलक्षणं दृष्टार्थत्वमिह हेतुः न चावघातादीनां तदस्ति क्रत्वर्थपुरोडाशनिष्पत्तौ तण्डुलीभावादिसाधनत्वादित्याशङ्क्यो- दाहरणान्तरमाह—ऋत्विग्भ्य इति । ऋत्विगमभिमतदक्षिणालाभहेतुत्वेन दानस्य पुरुषार्थताप्यि वक्तुं शक्यतेति सूचयितुम्—ऋत्विग्भ्य इत्युक्तम् । तानूनत्रं परस्परमृत्विजां यजमानस्य चाव्यभिचारार्थं कर्मारम्भे शपथकर्म । अतश्च सिद्धमनैकान्तिकत्वात् दृष्टार्थत्वस्यासाधकत्वमित्याह—यदा चेति । तस्माद्वि- रोधहेतुदर्शनाभ्यां न वेदमूलत्वं निराकर्तुं शक्यमित्युपसंहरति—तेनेति । वेदमूलत्वा- निराकरणाच्च न प्रामाण्यं निराकर्तुं शक्यमित्याह—तस्मादिति । पूर्वपक्षमुपसंहरति— अविशिष्टमिति । ईदृशं मूलश्रुत्यनुमानद्वारमविशिष्टं सामान्यतः सर्वासामं स्मृतीनाम्, यत्पूर्व- न्यायेन प्रमाणत्वं प्राप्तं तदधुना विरुद्धश्रुत्यन्तरपर्यालोचनकाले सत्यपि विरोधे युक्तमित्यर्थः । साध्याहरं सूत्रं योजयत्सिद्धान्तमारभते--सिद्धान्तः—एवमिति । निर्मूलस्मृत्य- योगाद्वेदमूलत्वाभावे किमन्यमूलं स्यादित्याशङ्क्याह—या त्विति । स्पष्टग्रहणेनान्यपर- श्रुतिमूलत्वेऽप्यप्रामाण्योपपत्तेस्तात्पर्यमात्रापवादोऽयमिति दर्शितम् । न च सत्यपि वेदमूलत्वे
३ ] .प्रथमाध्याये तृतीयपादः ३०१ स्वातन्त्र्येण प्रामाण्यं भविष्यत्यत आह-स्वातन्त्र्येणेति । अस्तु तर्हि वेदस्यैवानुमानमत आह- वेदेति । ननु सत्यपि प्रत्यक्षश्रुतिविरोघे, किमिति नानुमीयेतस्त आह-वेदेति । तस्यानुमेयस्य वेदवाक्यस्य योऽर्थं औदुम्बर्यादिः, तद्विषये प्रत्यक्षं वेदवाक्यं यावन्नोपलभ्य- त इत्यर्थंः । अनुमानस्यासन्निकृष्टार्थविषयत्वात्सन्निकृष्टस्य च ताद्रूप्य-तद्विपर्यंयपरिच्छेद- योस्तुल्यत्वाद्विपर्ययपरिच्छिन्नस्यानुमेयत्वे ताद्रूप्यपरिच्छिन्नं दृष्टान्तयति- न हीति । एतदेव विवृणोति - स्मृतीनामिति । निवारणे कारणमाह- तावदेवेति । ननु प्रत्यक्षेणानुमानस्योत्पत्तिप्रतिबन्धलक्षणो बाधो भवति । स्मार्त्तं तु सर्ववेष्टनादि- कर्त्तव्यताज्ञानं विरोधेऽप्युत्पद्यमानं कथं बाध्यते । न ह्युत्पन्नस्य ज्ञानस्य मिथ्यात्वलक्षणो बाधः सम्भवतीत्याशङ्क्याह - श्रुत्तमूला इति । मूलप्रमाणापेक्षत्वात्स्मृतिप्रामाण्यम्, तदभावे इदं न सम्भवतीत्याशयः । एतदेवोपपादयति--न हीति । यतो वेदाख्यान्मूलात्स्मृति- प्रामाण्यं स्यात् तद्वेदाख्यं मूलं न विद्यत इत्यर्थः । किमिति न विद्यत इत्यपेक्षिते पूर्वोक्तमेव प्रत्यक्षशास्त्रेण मूलश्रुत्यनुमानप्रतिबन्धमुपपादयितुं स्मारयति-प्रत्यक्षेति । उपपादयति - नैकाकाङ्क्ष्यादिति । अयमाशयः- गृहीतव्याप्तिकस्याप्यजिज्ञासोर्धू- मादिदर्शनेऽप्यग्नयादिज्ञानानानुपलब्ध्यात्परोक्षार्थविषयज्ञाने जिज्ञासापि सहकारिकारणमवसी- यते । स्पर्शश्रुत्या चावेष्टितत्वरूपेणौदुम्बर्याः परिच्छिन्नत्वात्कीदृश्यादुम्बर्र्याङ्गमिति जिज्ञासा नास्तीति, जिज्ञासैवात्राकाङ्क्षाशब्देनोक्ता । कथं नैराकांक्ष्यमित्याशङ्कयाह - प्रमेयमिति । यत्पर्वतादिप्रमेयं केनचिदग्निमत्वादिरूपेण परिच्छेद्यं भवेत् तस्य पर्वतादेस्तेन रूपेण परिच्छेदात्सावकाशप्रमाणता स्यादित्यन्वयः । अवकाशः प्रमाणस्य प्रमेये प्रवर्त्तितुं मार्गो जिज्ञासोपलक्षणोऽभिप्रेतः । प्रमाणं तस्मिन्प्रमेये सावकाशं स्यादिति समासार्थः । नन्वसत्यामपि जिज्ञासायां किमित्यनुमानं न प्रवर्त्तते । व्याप्तिज्ञानं हि व्यापकज्ञाने कारणम् । यत्तु क्वचिद्व्याप्यज्ञानेऽपि व्यापकाज्ञानम्, तद्व्याप्तिस्मरणादप्युपपत्स्यते । द्रव्यत्वस्य चानौष्ण्यव्याप्तिस्मरणेऽपि तेजस्यनौष्ण्यानुमानानुपपत्तिः प्रत्यक्षेणौष्ण्यावगतौ तेजसो विपक्षत्वे सति तद्वृत्तेर्द्रव्यत्वस्य व्याप्तिमङ्गादुपपत्स्यते । इह तु स्पर्शश्रुत्या वेष्टनानावावगमेऽपि सर्ववेष्टनस्मरणस्य श्रुतिकल्पकस्य सद्भावाद्विरुद्धश्रुतिदर्शनस्य चाने- क न्तिकत्वेन सर्ववेष्टनश्रुत्यभावानुमापकत्वायोगात्कथं श्रुत्यनुमानानुपपत्तिरित्याशङ्कयाह - ताद्रूप्येणेति । प्रत्यक्षावगतेऽग्नौ व्याप्तिस्मरणे सत्यपि धूमज्ञानस्याग्निज्ञानजनकत्वादशंनाद- जिज्ञासैवै तत्रानुमानानुत्पत्तिकारणमवसीयत इति भावः । नन्वेवमपि स्मृत्या परिच्छिन्ने श्रुतेरप्रवृत्तिरिति विपरीतं कस्मान्न स्यादित्याशङ्क्याह- भिन्नेति । भिन्नयोः- सन्निकृष्ट- विप्रकृष्टत्वरूपेण विलक्षणयोः कक्षयोः-प्रकोष्ठयोः स्थिते प्रमाणे तत्रैकस्मिन्प्रमेये धावत इत्यर्थः । ननु प्रत्यक्षशास्त्रस्यापि पदपदार्थपर्यालोचनादिसापेक्षत्वेनार्थपरिच्छेदवि- क्षेपात्द्विरोधात्पूर्वं मन्थरस्याप्यारब्धव्यापारत्वात्कथमप्रवृत्तिरित्याशङ्क्याह-तद्धीति । एकमपीत्यपिशब्दो यद्यपि शब्दार्थो व्याख्येयः । यद्यपि तन्मन्थरं प्रमाणं दूरमपि प्राप्तं बहूनपि व्यापारान् कृतवत् एकमेवार्थपरिच्छेदाख्यं पदमगतमर्थपरिच्छेदमात्रं न कृतव-
३०२ मीमांसादर्शनम् [ सू० दित्येवकाराध्याहारेण व्याख्येयम् । तथापीतरेणादौ गतेनार्थपरिच्छेदं कृतवता जीयत इति । तथापि योत्थौ शब्दोऽत्राध्याहार्यः । मन्थरत्वाविशेषात्तर्हिविरोधेऽव्यप्रामाण्यापत्तेर्मर्यादा- तिक्रमः स्यादित्याशङ्क्योचाह—यत्रेति । नन्वेवं सत्यर्द्धवैशसादिदोषपरिहारार्थं विरोधेऽपि प्रामाण्यमिष्यतामित्याशङ्कयार्द्धवैशसं परिहत्तुंमारभते—न हीति । यस्मादेवमैकरूप्यनियमो नास्ति, तस्माच्छीघ्रप्रमाणभावा- भावयोर्मन्थरप्रमाणप्रवृत्त्यप्रवृत्तिव्यवस्था न विरुद्धेति हिशब्दयोजना । एतदेवोपपादयितुं सामान्यन्यायं तावद्वयुत्पादयति—सर्वमिति । मूलमेव निकृत्यते, मुखं वा विरुद्ध्यत इति च पूर्वश्लोकोक्तस्य विरोधस्यैव द्वैविध्यमुक्तम् । श्रुत्या हि लिङ्गादीनां मूलं विनियोगहेतुः श्रुतिरेव छिद्यते-नास्तित्वेन बोध्यते । लिङ्गादिभिस्तु वाक्यादीनां मुखं विनियोजकश्रुत्यनुमानस्य द्वारं लिङ्गादिप्रतिबध्यते-श्रुत्यननुमापकत्वेन ज्ञाप्यते । न च रोधारोधव्यवस्थैव न युक्तेति वाच्यमित्याह—न चेति । अवाच्यत्वे कारणमाह—उत्सर्गश्चेति । कथं तर्ह्युत्सर्गापवादयोर्व्यवस्थेत्याशङ्कयाह—विषया- विषयाविति । उत्सर्गस्य विषयमपवादस्याविषयं ज्ञात्वा बाधाभावः । अपवादस्य विषय- मुत्सर्गस्याविषयं ज्ञात्वा बाध इति विवेक इत्यर्थः । व्यवस्थानभ्युपगमे तु व्यवहारविरोधः स्यादित्याह—यो हीति । यस्तु कश्चिद्वैत्यात्यादेवमपि व्यवहर्तुमारभते, तस्य लोकविरोध- माह तावदेव हीति । अनुमानस्य च प्रत्यक्षविरोधाविरोधयोर्बाधाबाधव्यवस्था लोक- प्रसिद्धैवेत्याह—अनुमानमिति । सामान्यन्यायमुक्त्वा प्रकृते योजयति—एवमिति न्यायलभ्यव्यवस्थाप्रतिपादनस्यार्द्ध- वैशसादिदोषपरिहारोपयोगितामाह—अत इति । अर्द्धवैशसग्रहणमतिक्रयार्द्धजरतीयत्वयो- रप्युपलक्षणार्थम् । कथं न्यायतो व्यवस्थेत्यपेक्षायामुक्तामेव व्यवस्थां सुग्रहणार्थमनुसन्द- धाति—प्रमाणत्वाप्रमाणत्व इति । अतश्चैकरूप्यमेवायुकमित्याह—तस्मादिति । सिद्धान्त- मुपसंहरति - तेनेति । ननु मृगतृष्णानुमानादेः सिद्धवस्तुविषयत्वेन वैकल्पिकतया विरोधपरिहारासम्भवाद् बाधो युक्तः । स्मृतेस्तु कार्यविषयतया विकल्पेनोभयानुग्रहसम्भवादत्यन्तबाधो न युक्त इत्याशङ्कते—विकल्प इति । परिहरति—उच्यत इति । पूर्वार्द्धेनात्यन्तबाधादपि विकल्पः पापीयानित्युक्तम् उत्तरार्द्धेन त्वङ्गीकृतेऽपि विकल्पे, स्मृतेरत्यन्तबाधोऽपरिहार्य इत्युक्तमिति विवेकः । विकल्पस्य सुखाम्युपगम्यता वोक्त्यां तुल्यबलयोरगत्या तदङ्गीकरणम् । इह तु स्मृतेरत्यन्तबाधेन गत्यन्तरसम्भवाद्विकल्पाङ्गीकरणमत्यन्तमन्वाय्यमिति सूचितं तत्तावद्वयाचष्टे—तुल्यबलेति । कक्षाभ्यां विलक्षणाभ्यामन्तरितेन विलक्षणीकृतेन श्रुति- स्मृत्योः प्रामाण्येन विषमत्वेन शिष्टयोरवगतयोः श्रुतिस्मृत्योर्विकल्प इति विग्रहः । किमु- तेत्यनेनोक्तमतुल्यबलविकल्पस्यात्यन्तान्याय्यत्वमुक्तमुपपादयति—तथा हीति । न च स्मृतिरपि निरपेक्षा, येन तुल्यबला स्यादित्याह—स्मृतेरिति ।
३ ] प्रथमाध्याये तृतीयपादः ३०३ ननु सापेक्षत्वेऽप्यनुमीयमानायाः श्रुतेः प्रत्यक्षया सह तुल्यबलत्वाद्विकल्पो भविष्यत्यत आह—पराधीनेति । यदि विरोधेऽपि श्रुतिरनुमीयेत, ततः पराधीनप्रमाणत्वाच्छ्रुत्या बाधितापि पुनरुज्जीवितुं क्षमा स्यात् न त्वेतदस्तीत्युक्तम्—न प्रमाणपदे स्थितेति । श्रुत्याख्यं प्रमाणं पद्यते गम्यतेऽनेनेति श्रुत्यनुमानं प्रमाणपदं-तत्त्वमस्थिता-अननुमितश्रुति- केत्यर्थः । विकल्पस्याष्टदोषत्वमुपपादयितुमारभते—तुल्यकक्ष्येति । तुल्या समाना कक्षा ययोस्ते, तुल्यकक्षे, तयोर्विकल्प इति विग्रहः । व्रीहियवशास्त्रयोर्नियमार्थत्वेनान्यनिवृत्तिपर्यन्तत्वाद् व्रीहिशास्त्रप्रामाण्ये यवप्रयोगानुपपत्तेः, यवशास्त्रप्रामाण्ये च व्रीहिप्रयोगानुपपत्तेरितरे- तराप्रामाण्यकल्पनं विना विकल्पो न युक्त इत्यर्थः । ततः किमिति चेत् अत आह— प्रमाणस्येति । कीदृशं दोषद्वयमित्यपेक्षायामाह—प्रमाणत्त्वमिति । प्रतीतप्रमाणत्वापह्नवः प्रतीतिविरोधादेव दोष इत्यर्थः । अप्रतीताप्रामाण्यकल्पनं च द्वितीयो दोष इत्याह— तथेति । सन्देहविपर्यययोर्दोषजन्यत्वात् वेदे च तदभावात्प्रामाण्याभावरूपमेवाप्रामाण्यं वाच्यम् । तस्मिंश्च प्रामाण्योपलम्भाभावः । प्रमाणमिति तच्छब्देन दर्शितम् । तस्य प्रमाण- स्याप्रमाणत्वमित्यर्थः । कथं न प्रामाण्योपलम्भस्याभाव इत्यपेक्षिते—प्रामाण्योपलम्भस्य भावे सतीत्युक्तम्—यत्परिकल्पत इति । यच्छब्दस्य क्रियाविशेषणत्वात्सोऽप्यप्रमाणत्वकल्प- नरूपो दोषः स्यादित्यनेनान्वयः । प्रमेयेत्यवचनोऽर्थशब्दः । प्रमाणप्रमेययोः प्रामाण्योपलम्भा- भावात् प्रमाणतयोः परस्परं विपर्ययाद्विरोधादित्यर्थः । कल्पितप्रामाण्यस्य च शास्त्रान्त- रस्य प्रामाण्योपजीवनं विना तदर्थानुष्ठानायोगात्तदर्थानुष्ठानकाले तस्मिन्नेव शास्त्रान्तरे परं दोषद्वयं स्यादित्याह—अङ्गीकृत्यापीति । कीदृशमित्यपेक्षिते कल्पितप्रामाण्यान्यागं ताव- द्दोषमाह—यदशास्त्रप्रमाणत्त्वमिति । प्रामाण्योपलम्भाभावः प्रमाणं यस्याप्रमाणत्त्वस्य, तत्त- थोक्तमेतस्याप्रमाणत्वस्येत्यर्थः । निराकृतप्रामाण्योपजीवनं च द्वितीयो दोष इत्याह— प्रत्यक्षमिति । शास्त्रान्तरवर्जनाश्रयणयोरुपपादितं दोषचतुष्टयमुपसंहरति—एवमिति । वाक्यान्तरेऽप्येतद् दोषचतुष्टयं योज्यमित्याह—एत एवेति । द्वितीयेऽपि वाक्ये प्रतीत- प्रामाण्यापह्नवेऽनुपलब्धे चाप्रामाण्ये कल्पितस्य चाप्रामाण्यस्य त्यागे, निराकृतस्य च प्रामाण्य- स्योपजीवने प्रकल्पित इत्यर्थः । यद्यष्टदोषो विकल्पः कस्माद् व्रीहियवादिष्वाश्रीयतेऽत आह—एवमिति । गत्यन्तराभावमेवोपपादयति व्रीहीति । ततः किमिति चेत् अत आह— द्वाभ्यामिति । अश्वमुखीभ्यां किन्नरीभ्यामिवेत्यर्थः । एकस्मिन् श्रुत्यर्थे बुद्धिमुपसंहर्तुं म- पश्यन्तं श्रोतारं प्रत्युभयोः श्रुत्योरप्रामाण्यं प्रसज्येतेत्यर्थः । अस्तु तर्ह्युभयाप्रामाण्यमेवात आह-तत्रेति । किमत्र गत्यन्तरमित्यपेक्षायामाह—एकस्य चेति । एकप्रामाण्यान्मात्रादगति- सम्भवे न द्वयोरप्रमाणता युक्तेति साध्याहारं योज्यम् । कस्मान्न युक्तेत्याशङ्क्याह—सिद्ध इति । एकं विनाशयितुं शीलं एषां चानेकन्तेषाममध्ये सर्वनाशे समुत्पन्ने ह्यर्द्धं त्यजति पण्डित इति अयं लोकप्रवादः प्रसिद्ध इत्यन्वयः । भवति च प्रस्तुतोऽर्थोऽस्य प्रवादस्य विषय इत्याह—स चायमिति । उभयो श्रुत्योर्यावर्थौ, तयोरपरिग्रहादित्यर्थः । ननु मिश्रे-
३०४ मीमांसादर्शनम् [ सू० र्यागादुभयोरनुग्रहो भविष्यत्यत आह-मिश्रैर्वेति । अप्यर्थे वाशब्दः । मिश्रैरपि यागं कुर्वाणस्योभयोः श्रुत्योर्नाश इत्यनुषङ्गः । ननु 'विधिस्त्वेकश्रुतित्वादित्यनेन न्यायेन सर्वा- ङ्गोपसंहारिणा प्रयोगवचनेन व्रीहियवयोः समुच्चयावगमात्कथं मिश्रविधेरदर्शनमत आह- नियमार्थं हीति । अप्राप्तविधिगोचरप्रयाजादिविषयोऽसौ न्यायः । व्रीहियवयोरस्तु नियम- विधिगोचरत्वात्समुच्चयो न युक्त इत्याशयः । ननु समुच्चयेऽपि नियमफलस्य नित्यत्वस्य सिद्धेरविरोध इत्याशङ्कयाह-प्राप्ते चेति । पुरोडाशाक्षेपादेव प्राप्तेषु व्रीह्यादिषु द्रव्यान्त- रप्रसक्तिनिमित्तानियतत्वनिवृत्त्यर्थनियतत्वफलस्य नियमस्य समुच्चयानुपपत्तिरित्याशयः । ननु श्रुतव्रीहियवातिरिक्तगोधूमादिनिवृत्त्यापि नियमोपपत्तेर्न व्रीहायवयोरितरेतरनिवर्त्त- कत्वमित्याशङ्क्याह-व्रीहय इति । 'समर्थः पदविधिरिति पदमात्रविधेः सामर्थ्यापेक्ष- त्वाद् व्रीह्यादिप्रातिपदिकस्य च यवादिसापेक्षत्वेन व्याघातापत्तेर्विभक्त्यन्वयायोगान्निर- पेक्षाणामेव व्रीहियवानां तृतीयाया करणत्वप्रतीतेमिश्रत्वं न युक्तमिति भावः । किं चाह- ष्ठार्थत्वे सत्यनिर्ज्ञातोपायपरिमाणत्वेन प्रधानस्यैकाङ्गविधानेन नैराकाङ्क्ष्याप्रतीतेः समु- च्चयः स्यात् । व्रीह्यादेस्तु प्रदेयप्रकृतित्वेन दृष्टार्थत्वादेकविधानेन नैराकाङ्क्ष्यत्वागतेः समु- च्चयो न युक्त इत्यभिप्रायेणाह-नैवेति । यथाश्रुतैनिरपेक्षतया प्रदेयप्रकृतित्वेन श्रुतेरि- त्यर्थः । तस्मादुभयार्थपरिग्रहत्वन्मिश्रयागेऽप्युभयनाशः स्यादित्युपसंहरति-एवमिति । अप्रतिपत्तिः-अपरिग्रहः, एकस्य चाप्रमाणत्वमित्यादिना पर्यायेणैकैकाप्रामाण्याश्रयणं नाम यद्गत्यन्तरमुपपादितम् । तदुपसंहरति-तेनेति । एतच्चैकैकाप्रामाण्यसम्भवात् क्व- चिदङ्गीक्रियते न तु दोष एव न भवतीति शङ्कनीयमित्याह-सेयमिति । येयमेकैका- प्रमाणता द्वयोरप्यनवस्थिता, सात्यन्तमन्वाय्येत्यर्थः । कथमन्वाय्येत्यपेक्षायामाह-अव्य- वस्थेति । अयुक्तत्वे हेतुमाह-सर्वत्रैव हीति । एवं तर्ह्यप्रतीयमानमपि गत्यन्तरं किंचित् व्रीहियववाक्ययोरपि मृग्यताम्, न त्वत्यन्तान्याय्यविकल्पाङ्गीकरणं युक्तमित्याशङ्कयाह- तदेतदिति । श्रुतिस्मृत्योस्त्वेकरूपत्वे व्यवस्थितं चिह्नमस्तीत्याह-श्रुतीति । किं तदित्य- पेक्षायामाह-स्वरूपेणेति । ततः स्वरूपादित्यर्थः । अन्यशब्दस्य नित्यसापेक्षत्वात्समासा- विघातः । कथमनयोर्व्यवस्थाकारणत्वमित्याशङ्कयाह-यो यस्येति । न च श्रुतेः स्वरूपाश्रयस्य प्रामाण्यरूपस्य धर्मस्य बलवत्कारणान्तरं बाधकमस्तीत्याह-न चेति । ततश्च स्मृतेः स्वरूपाश्रयस्याप्रामाण्यरूपस्य धर्मस्य बाधकं मूलश्रुत्यनुमानं प्रत्यक्षश्रुतिविरो- धान्नास्तीत्यर्थादुक्तं भवति । अन्यापेक्षस्य तु स्मृतेः प्रामाण्यरूपस्य श्रुतिरेव बाधिकास्ती- त्याह-स्मात्तंस्येति । ततश्च श्रुतेरन्यापेक्षस्यास्याप्रामाण्यरूपस्य धर्मस्य कारणाभाव एव बाधकोऽस्तीत्येतदप्यर्थादुक्तं भवति । कथं श्रौतप्रत्ययस्य स्मात्तंप्रत्ययाद् बलवत्त्वमित्याश- ङ्कयाह प्रत्यक्षे चेति । सन्निकृष्टविप्रकृष्टार्थत्वादपि श्रुतिस्मृत्योर्बलाबलव्यवस्था प्रतीयत इत्याह-श्रुतिलिङ्गेति । ननु श्रौतप्रत्ययस्य समकालमेव स्मात्तंप्रत्ययोदयात्कथं सन्निकर्ष- विप्रकर्षवित्याशङ्कयाह-स्मृत्येति । प्रतीतिमात्रं स्मृत्वा तदा क्रियते, न श्रुतिवन्ममिति
३ ] प्रथमाध्याये तृतीयपादः ३०५ रित्यर्थः । क्वचिद्विपरीतपाठः । तत्र प्रमीयत इति भावे लकारः । यावत् स्मृत्या श्रुत्यनु- मानेन प्रमाणीभूयते-मवितुमारभ्यते तावच्छ्रुत्यर्थ एव प्रतीयत इत्यर्थः । नन्वर्थपरिच्छेदाय प्रवृत्ता स्मृतिः पश्चादपि तावदर्थपरिच्छेदं करिष्यतीति किमिति विकल्पो न स्यादित्याशङ्क्य, अपवादसिद्धयर्थं जिज्ञासाविरहेणैकप्रमाणपरिच्छिन्नेऽर्थे प्रमाणान्तराप्रवृत्तिं पूर्वोक्तामेव विकल्पनिरासार्थं स्मारयति—विरुद्धेति । प्रमेयाकाङ्क्षा- निराकरणेन प्रमात्रा आकाङ्क्षैव निराकृता ताद्रूप्यपरिच्छिन्नेऽपि मन्थरं न प्रवर्तते, किमुत वैपरीत्यपरिच्छिन्न इत्याह—न चेति । ननु श्रुत्यर्थपरिच्छेदकाले यद्यपि स्मृत्यार्थो न परिच्छिद्यते, तथापि श्रुतिस्तावदनुमीयते, ततश्चानुमितायाः श्रुतेः प्रत्यक्षया सहाविशेषा- त्किमिति विकल्पो न स्यादित्याशङ्क्याह — स्मृत्या चेति । स्मार्त्तार्थपरामर्शमात्रं तदोत्पद्यते न श्रुत्यनुमानमित्यर्थः । नन्वन्यतः परिच्छिन्नोऽप्यर्थो सत्यामपि जिज्ञासायां स्वसामर्थ्यं स्मृत्यापि पश्चाच्छेत्स्यतेऽत आह—किं कर्त्तव्यमिति । यदि चैवमभविष्यत्ततः सन्निकर्ष- विकर्षविशेषाभावाद् बलाबलव्यवस्था नामविष्यदित्याह—युगपदिति । यदि च श्रुत्यर्थपरिच्छेदसमकालमेव स्मृत्या स्वमूलं स्मृतिरनुमीयेत, ततोऽर्थ- विप्रकर्षेऽपि श्रुत्यवष्टम्भात् वलावलव्यवस्था न स्यात् न त्वेतदस्तीत्याह—यद्वेति । तस्मिन्नेव क्षणे मूलं यदि कल्पयेदिति, यदिशब्दोऽध्याहार्यः, यद्वेति वा यच्छब्द एव यदिब्दार्थे व्याख्येयः' । यतस्तु स्मृत्या गृहीतेऽप्यर्थे मूलान्तरनिषेधयुक्तिपर्यालोचनापेक्षत्वाच्चिरेण श्रुतिकल्पनेति तुशब्दाध्याहारेण व्याख्येयः । ननु श्रुत्यनुमानासम्भवेऽपि स्वतन्त्रेव स्मृतिः प्रतिष्ठास्यतीति विकल्पोऽपरिहार्य इत्याशङ्क्याह—स्मृतिरिति । अतोऽस्ति श्रुतिस्मृत्योरेक- रूपत्वे व्यवस्थितं चिह्नमित्युपसंहरति—तदपेक्षेति । ततश्चेत्यस्मिन्नर्थे पुनः शब्दः । एवं विकल्पस्याष्टदोषत्वान्न तावत्साभ्युपेयतेति पूर्वार्द्धं व्याख्याय, पाक्षिके चाप्रमाणत्वे स्मृतयः सुनिराकरा इत्युत्तरार्धं व्याख्यास्यन्विवेकार्थं पूर्वोक्तं बाधप्रकारमुपसंहरति— एष तावदिति । उत्तरार्द्धं व्याचष्टे—द्वितीयेनेति । विकल्पपदवीं गतायाः स्मृतेरत्यन्तबाध इति द्वितीयः प्रकार इत्यर्थः । कथमित्यपेक्षायामापन्नापाक्षिकं बाधमित्युक्तम् । अत्रैवार्थेऽ- नारब्धव्याख्यानमपि भाष्यं प्रसङ्गाद्विवेक्तुं योजयति—तद्दर्शयतीति । नासति व्यामोह- विज्ञाने इत्यादिभाष्येणैको बाधप्रकार उक्तः । विकल्पं त्वियादिना द्वितीय इति विवेकः । पाक्षिकबाधापत्तावपि कथमात्यन्तिको बाध त्याशङ्क्याह—तदा चेति । भाष्योक्तः श्रुति- प्रमाणपक्षस्तदाशब्देन परामृष्टः । किं तु तदानीं स्मृत्यप्रामाण्यकल्पनावॆलायां सा स्मृतिर- श्रुतिमूलावधार्यते । यतस्तस्याः प्रमाणत्वं श्रुतिमूलत्वकारितमित्यन्वयः । ननु श्रुतिमूलत्वा- भावेऽपि स्वातन्त्र्येण प्रामाण्यसम्भवात्कथमत्यन्तबाध इत्याशङ्क्याह—श्रुतीति । विप्र- लम्भादेर्निराकृतत्वात्कथमापत्तिरित्याशङ्क्य निराकृतेत्युक्तम् । स्वातन्त्र्यनिरासायाविगा- नेत्युक्तम् । नित्यत्वद्वारेत्यनेन नित्यत्वं बिना स्वातन्त्र्यं न सम्भवतीत्युक्तम् । नन्वेवमपि प्रमाणान्तरमूलतया प्रामाण्यं भविष्यतीत्यत आह—श्रुतिमिति । स्मृतेर- तीन्द्रियार्थविषयत्वात्प्रमाणान्तरं मूलं न सम्भवतीत्याशयः । श्रुतेरेवेति पूर्वोपन्यस्तं २०
१०६ मीमांसादर्शनम् [ सू० वैधर्म्यदृष्टान्तं विवृणोति—व्रीहीति । अयमाशयः-सन्देहविपर्ययोस्तावद्दोषजन्यत्वाद्दोषे च तदभावादसम्भवः । विज्ञानानुत्पत्तिलक्षणमप्रामाण्यं संवेदनविरोधादयुक्तम् । न च यथा सामान्यशास्त्रादेरापाततो विशेषशास्त्राद्यवरुद्धेऽपि विषये प्रवृत्तिप्रतीतावपि, विरोध- परिहारार्थापत्त्या विशेषशास्त्राद्यनवसृद्धेऽर्थे तात्पर्यावसायात् तात्पर्यवधारणसहकृतेन सामान्यशास्त्रादिना तत्रैव विषये परिच्छेदफलात्मकविशिष्टज्ञानाख्यं विज्ञानमुत्पाद्यत इति विशेषशास्त्राद्यवरुद्धेऽर्थे विज्ञानोत्पत्तिलक्षणमप्रामाण्यं जातम् । तथात्रापि यवशास्त्रस्य यवव्यतिरिक्तद्रव्यमात्रनिवृत्त्यर्थत्वप्रतीतावपि व्रीहिशास्त्रपर्यालोचनया व्रीहिव्यतिरिक्त- द्रव्यान्तरनिवृत्तौ तात्पर्यावसायात्तदवधारणसहकृतस्य यवशास्त्रस्य तत्रैव विज्ञानोत्पाद- कत्वाद् व्रीहिनिवृत्त्यंशे विज्ञानानुत्पत्तिलक्षणप्रामाण्यं भविष्यतीति वाच्यम् । तथा सति मिश्रत्वस्य निराकर्त्तुमशक्यत्वात् । किञ्च व्रीहियवशास्त्रयोर्निरपेक्षव्रीहियवविधानत्वेऽपि प्रयोगभेदेनोभयोर्निरपेक्षसाधनत्वोपपत्ते विनियोगावस्थायां विरोधाभावात्रैकस्याप्यप्रामाण्यं कल्प्यम्, प्रयोगावस्थायां त्वेकोपादानेनैव कार्यसिद्धेरितरोपादानानानर्थक्याद्विरोधः स्यात् । न चानयोर्विनियोगविध्योः प्रयोगविधानार्थत्वमस्तीति विरोधाभावात्स्तुतो नास्त्येवाप्रामा- ण्यम् । प्रयोगविधेस्तु समस्ताङ्गप्रधानशास्त्रपर्यालोचनपूर्वकत्वेन व्रीहियवशास्त्रालोचनया व्रीहयो वा यवा वा प्रयोगभेदेनोपादेया इत्येवं रूपस्यैव कल्प्यत्वान्नाप्रामाण्यशङ्का । तस्माद् व्रीहियवशास्त्रयोः प्रयोगविधानार्थत्वाभावेऽपि स्वविषयानुष्ठापकत्वस्य सर्वविधिसाधारणस्य स्वरसतः प्रतीयमानस्य निराकर्त्तुमशक्यत्वान्निरपेक्षव्रीहियवानुष्ठापकत्वस्य चैकस्मिन्प्रयागे विरोधादवश्यमेकस्यान्वष्ठापकत्वे शास्त्रान्तरस्याननुष्ठापकत्वमङ्गीकार्यम् । दृष्टं चैकस्यापि विधेः सामर्थ्याद्यपेक्षया देशकालपुरुषविशेषापेक्षमन्वष्ठापकत्वम् अननुष्ठापकत्वं चेति न कश्चिद्विरोधः । अतश्चानुष्ठापकयोरपि व्रीहियवशास्त्रयोरेकप्रयोगकाले शास्त्रान्तरस्यौदासी- न्येऽनुष्ठानाख्यफलापहारादारोपितमेव प्रामाण्याभावरूपमप्रामाण्यमिति, प्रयोगान्तरकाले वा स्तावनोज्जीवितेन तत्प्रामाण्येन वाधो युक्त इति । ननु स्मृतिप्रामाण्यस्यापि प्रयोगान्तरवेलायामुज्जीवनसम्भवात्कथमत्यन्तप्रतीघात इत्याशङ्कयाह—नन्विति । ननु प्रयोगागान्तरकाले तस्याः स्मृतेः श्रुतिमूलत्वं कल्पयिष्यते, अत आह—न हीति । ननु प्रथमप्रयोगकाले स्मृतेर्भ्रान्त्यादिमूलकल्पने माभूतप्रयोगान्तरकाले प्रामाण्योज्जीवनं प्राग्गृहीतविरुद्धश्रुतिकेन तु श्रुतिमूलत्वकल्पनेन स्मृत्यनुसारात्प्रथमप्रयोगे कृते प्रयोगान्तर- काले विरुद्धश्रुतिग्रहणेऽप्यनुमितायाः श्रुतेः प्रत्यक्षया सहाविशेषाद्विकल्पो दुर्वार इत्याशङ्कते— आहेति । एतस्येति । सर्वदा प्रतिघातस्येत्यर्थः । यदि तु सर्वैः श्रुतिरेव प्रथमं गृहीतव्या, न स्मृतैरिति नियमः स्यात्, तथापि पौर्वापर्यानिवन्धनः सर्वान्प्रति वलाबले विशेषः स्यात् न त्वेतदस्तीत्याह—न चेति । नन्वस्तु र्तार्ह प्रथमश्रुतिग्राहिपुरुषापेक्षोऽयं स्मृतिप्रमाण्याप- वाद इत्याशङ्क्य, पौर्वापर्यस्य बलाबलकारणत्वाभावे दृष्टान्तमाह—आद्य इति । तत्प्रथतीति पाठे येन पुष्पजातेनेति वक्तव्यम्, स्वपरशाखाविहितानां च सत्यपि पौर्वापर्ये कल्पसूत्र-
३] प्रथमाध्याये तृतीयपादः ३०५ कारैरेवं : प्रातरूपोदयं व्युषित, उदिते वेत्यादिवदङ्गविकल्पाङ्गीकरणात्पौर्वापर्यस्य बलाबलकारणत्वं नास्तीत्याह—स्वशाखेति। जैमिनेरपि ‘न चैकं प्रतिशिष्यते’ इति सर्वशाखोपसंहाराभिधानात्पौर्वापर्यस्य वलाबलकारणत्वमनभिमतमित्यागमविरोधो भवत्पक्षे स्यादित्याह—सर्वेति । पौर्वापर्यस्य वलाबलकारणत्वाभावमुपसंहरति—तस्मादिति । मातापितृप्रणीतोपदेशवत्पौर्वापर्यश्रवणमनाश्रित्य सर्वान्पूर्वश्राविणः पश्चाच्छ्राविणश्च पुरुषां- न्प्रति निर्विचिकित्समेव प्रामाण्यम् चैकं प्रतिशिष्यत इत्यनेन न्यायेन जिज्ञासुभिरभ्युपगन्त- व्यमित्यन्वयः । पौर्वापर्यश्रवणानाश्रयणहेतुत्वेन बलाबलापर्यालोचनात्को वलावलहेतुत्वे हि सति पौर्वापर्यश्रवणमाद्रियेत तस्य तु नित्यावस्थितासु शाखासु वस्तुतः पौर्वापर्यरहितास्वा- त्मीयाशक्तिमात्रकारितत्वाद् बलाबल हेतुत्वं नास्तीत्यर्थः । आत्मीयाशक्तिमात्रकारितस्य पौर्वापर्यस्य वलाबलहेतुत्वाभावे दृष्टान्तत्वेनैकवाक्यगतपूर्वोत्तरवर्णवदित्युक़्ते वर्णानां प्रत्ये- कमप्रत्ययकत्वेनार्थप्रतीत्यर्थतया तत्पौर्वापर्यस्याशक्तिमात्रकारितत्वाभावेनादृष्टान्तत्वात्पदव- दिति दृष्टान्तान्तरमुक्तम् । वेदकाक्यगतपदपौर्वापर्यस्य वेदो वा प्रायदर्शनादित्यत्र बलाबल- हेतुत्वामिधानाल्लौकिकवाक्यगतपदपौर्वापर्यमत्र दृष्टान्तः । वर्णपौर्वापर्यमपि वलावलहेतुर्न भवतीत्येतावता दृष्टान्तितम् । पौर्वापर्यस्य च वलावलहेतुत्वे तस्यानवस्थितत्वेन वलबलास्थानवस्थितत्वेन प्रामाण्या- नवस्थानं स्यादित्याह—अन्यथा हीति । पौर्वापर्यस्य च वलाबलकारणत्वाभावे स्वोत्प्रेक्षा- मात्रेण विकल्पभ्रान्त्यादिमूलत्वकल्पनया स्मृत्यप्रामाण्यमङ्गीक्रियमाणमर्द्धवैशसपरिहारार्थम- विरोधेडप्यापादयेदित्याह—इत्थं चेति । ऐकरूप्यमेवोत्प्रेक्षितुं युक्तमित्याह—सर्वे चेति । प्रथमं स्मृतिय्रहणेऽपि पश्चाद्विरुद्धश्रुतिदर्शनेन पूर्वोत्पन्नमूलश्रुत्यनुमानबाधाद्विकल्पे सर्वदा प्रामाण्यं प्रतिहन्येतेति परिहरति—उच्यत इति । अत्रैव दृष्टान्तमाह—यो हीति । द्वात्रिंशत्कृष्णलरजतपरिमाणं कार्षापणः, कूटाकूटविलक्षणविवेकज्ञानेन जनिता व्युत्पत्तिः— कूटत्वनिश्चयो यस्य स तथोक्तः । ननु श्रुत्यर्थपरिग्रहणकाले मूलश्रुत्यनुमानबाधोऽपि पूर्वं स्मृत्यर्थपरिग्रहकाले बाधाभावाद्विकल्पो भविष्यत्यत आह—न चास्येति । ननु द्वितीयप्रयोगे विरुद्धश्रुतिदर्शनेऽपि पूर्वोत्पन्नस्य मूलश्रुत्यनुमानस्य प्रतिबन्धायोगाद- नुमितायाश्च श्रुतेरत्यन्तबाधानुत्पत्तेर्दुर्वारो विकल्पः स्यादित्याशङ्कते—ननु चेति । अप्रमित- स्यार्थस्यानुष्ठातुमशक्यत्वादेकप्रयोगकालोत्पन्नायाश्च प्रमितेः प्रयोगान्तरकाले विनष्टत्वात् तन्मूलस्य स्मरणस्यानुवृत्तावापि मूलप्रमाणालोचनं विना निश्चायकत्वायोगात्प्रतिप्रयोगमनुष्ठेय- पदार्थविषयप्रमाणालोचनापेक्षणाद्वेष्टितोदुम्बर्यङ्गमिति प्रथमप्रयोगवेलायां स्मृतिमूलस्मृत्यनु- मानान्निश्चितोऽपि, पुनः प्रयोगान्तरवेलायां कीदृश्योदुम्बर्यङ्गमित्याकाङ्क्षायां स्मृत्या श्रुतिमनुमिमानो विरुद्धश्रुतिदर्शनान्निवार्यंत इत्यननुमितमूलायाः स्मृतेरत्यन्तबाधो विकल्पा- ङ्गीकरणे प्रसज्येतेति परिहति—नैतदेवमिति । एतदेव याज्ञिकाचारेण द्रढयति— यदि हीति ।
१०८ मीमांसादर्शनम् [ सू० ननु सङ्कर्षे व्रीहिभिरिष्ट्वा, व्रीहिभिरेव यजेत, यवेभ्यो यवैर्राष्ट्वा यजेतात्रीहिभ्य इति वाक्यमुदाहृत्य किमनेनाग्रयणाभ्यासो विधीयते दर्शपूर्णमासयोर्वा द्रव्यनियम इति सन्दिह्याग्रयणप्रकरणे पाठाद्यजेस्तद्विषयत्वप्रतीतेर्वाद्याग्रयणेनेष्ट्वा पुनव्रीह्याग्रयणेन यजेतेत्या- ग्रयणाभ्यासविधिरयमिति व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेत यवेभ्य इत्यन्ताग्रयणाभ्यासः प्रकरणादित्यनेन सूत्रेण पूर्वपक्षयित्वा अभ्यासविधौ प्राप्ते कर्मण्यभ्यासद्रव्यरूपानेकगुणविधानेन वाक्यभेदापत्तेः कर्मान्तरविधौ च गौरवापत्तेः । प्रकृताग्रयणप्रकृतित्वेनोपस्थापिते दर्शपूर्णमा- साख्ये कर्मणि व्रीहियवयोर्विकल्पेन प्राप्तयोर्यवव्रीह्याग्रयणावधिव्यवस्थाविधानार्थमेतद्वाक्य- मिति दर्शपूर्णमासयोर्वान्तरालसंयोगान्न ह्यान्यत् अन्यक्रमं प्रत्यक्षं विद्यते [जै० ३।१।२५] इति सूत्रेण सिद्धान्त यिष्यमाणत्वात्कथं — यावज्जीवं तैरेव यजेतेत्युक्तम् उच्यते । अग्निहोत्री वै नानादयिता तस्याः पयसा जुहुयादित्याग्रयणेष्टेस्थाने अग्निहोत्रस्थाने अग्निहोत्रविशेष- विधानात्तत्पक्षाश्रयणेनेह उक्तमित्यदोषः । अव्यवस्थितविकल्पोऽपि व्रीहियवयोरकृताग्रयण- विषयतयैव व्याख्येयः । एतदेवोपसंहरति — नेति । यद्यपि समस्ताङ्गोपेतप्रधानविषयप्रयोग- शास्त्रालोचनेनानुष्ठानं प्रवर्तते, तथापि तस्य प्रत्येकपदार्थावधारणपूर्वकत्वात् तस्य च विनि- योगशास्त्राधीनत्वादालोचनमिहोक्तम् । प्रयोगशास्त्रस्य त्वनुष्ठानमात्रफलत्वेनाङ्गाङ्गिभावे प्रमाणत्वाभावत्तदभिप्रायः प्रमाणशब्दो न युज्यते । यच्चात्यन्ताप्रामाण्यवादिमते पौर्वापर्यान- वस्थानात्प्रामाण्यानवस्थानमुक्तम् । तदस्मिन्नपि विकल्पवादिमते प्रथमश्रुतिग्रहणेऽत्यन्त- स्मृत्यप्रामाण्याङ्गीकरणेन पर्य॑नुयोगसाम्याद्विकल्पवादिना वा पौर्वापर्यानादरेऽत्यन्ताप्रामाण्य- वादिनापि तदनादरेण परिहारसाम्यादवाच्यमित्याह — यच्चेति । पर्य॑नुयोगसाम्यमुपपा- दयति — यदा हीति । ननु पर्य॑नुयोगसाम्येऽपि प्रथमं स्मृतिग्रहणे विरोधादर्शनेन मूलश्रुतेर- वश्यकल्प्यत्वात्क्लृप्तायाश्च श्रुतेरत्यन्तबाधायोगात्पौर्वापर्यानादरेऽत्यन्ताप्रामाण्यसिद्धेः परि- हारसाम्यं नास्तीत्याशङ्कयाह — कालान्तरेऽपीति । क्लृप्ताया अपि श्रुतेर्विरुद्धश्रुतिदर्शने सत्यामावावधारणस्योक्तत्वादत्यन्ताप्रामाण्यवादिमतेऽपि पौर्वापर्यमकारणं तदनङ्गीकृतमेव तु पौर्वापर्यस्य वलावलहेतुत्वमापाद्य विकल्पवादिना निरस्तमित्याशयः । किं च प्रथमं स्मृतिग्रहणेऽपि पुरुषान्तरदृष्टया श्रुत्या तदानीमपि मूलश्रुत्यनुमानबाधाद्विकल्पो न युक्त इत्याह — पूर्वेति । ननु पुरुषान्तरस्य विरुद्धश्रुतिदर्शनेऽपि स्वयमदर्शनात्कथं बाधोऽत आह — पुरुषान्तरेति । एव तर्हि व्रीहियवश्रुत्योरपि पुरुषान्तरबाधेनाङ्गीकृतप्रामाण्यमपि पुरुषं प्रत्यप्रामाण्यापत्तेः । सर्वान्प्रत्यप्रामाण्यं प्रसज्येतेति शङ्कते — यवेति । श्रुतेरनुष्ठा- पकत्वमात्रमप्रामाण्यम्, न च पुरुषान्तराननुष्ठापकत्वेन पुरुषान्तरं प्रत्यनुष्ठपकत्वं बाध्यते । न चैवं पुरुषव्यवस्थया विकल्पानापत्तिः शङ्कनीया । पठ्यमानत्वाविशेषेण प्रमाणीकृतयव- श्रुतिकमपि पुरुषं प्रति कालान्तरे यवश्रुतेः प्रामाण्याभ्युपगमादिति परिहरति — उच्यत इति । प्रतियोगित्वेन व्रीहिश्रुतेरपि बुद्धिस्थत्वातयोरिति द्विवचनम् । ननु स्मृत्यनुमिताया अपि श्रुतेः पुरुषान्तरगतिविरुद्धश्रुतिदर्शनेनानुष्ठापकत्वरूपं निमज्जनमात्रं करिष्यते । नामावावधारणमित्याशङ्कयाह — स्मृति त्विति । सर्वेषां प्रथमस्मृतिग्रहणे निष्प्रतिद्वन्दानुमानसिद्धः पश्चाद्विरुद्धश्रुतिदर्शने सति निमज्जनमात्रकल्पनं भवेदाप ।
३ ] प्रथमाध्याये तृतीयपादः ३०५ केषांचित्तु प्रथमश्रुतिग्राहिणां स्मृतिमूलश्रुत्यभावावधारणे सत्येकस्याः श्रुतेः सदसत्त्व- विरोधात्पुरुषान्तरगतमपि श्रुत्यनुमानं मिथ्येति निश्चीयत इत्याशयः । सर्वदा तावतां पुंसामभावात् न स्मृतिरप्रामाण्येन मुच्यत इत्याकारप्रश्लेषेणान्वयः । कर्त्तरीयं तृतीया । अप्रामाण्यं स्मृतिमात्मनः सकाशान्न मुञ्चतीत्यर्थः । प्रामाण्येनेति तु पाठे यदि सर्वदा तावतां भावः स्यात्ततो न प्रामाण्येन मुच्यते । न त्वेतदस्ति । प्रथमश्रुतिग्राहिणामपि केषां चिद्भावादिति व्यवधारणकल्पनया योज्यम् । अभ्युपगमवादमात्रं चैतत् । परमार्थतस्तु सर्वेषामपि प्रथमश्रुतिग्रहणे पश्चात्तन विरुद्धश्रुतिदर्शनेन पूर्वोत्पन्नस्मृति- मूलश्रुत्यनुमानमिथ्यात्वनिश्चयाद्विकल्पो न युक्त इत्याह—अप्रामाण्यपदं चेति । पारतन्त्र्यम् अप्रामाणपदम् । ननु सत्यपि विरुद्धश्रुतिदर्शने विकल्पेनोभयप्रामाण्यसम्भवात्किमिति स्मृत्यनुमितायाः श्रुतेरभावोऽङ्गीक्रियत इत्याशङ्क्याह—अध्यारोप्येतेति । गत्यन्तरसम्भवे- ऽष्टदोषदुष्टविकल्पापादकश्रुत्यनुमानस्यायुक्तत्वात् स्मृत्यप्रामाण्यकल्पनमेव न्याय्य- मित्याशयः । एतदेव विवृणोति—विरुद्धयोर्हीति । एवं च सति श्रुतिविरोधेऽत्यन्तदुष्टविकल्पपरिहा- रार्थं भ्रान्त्यादिमूलत्वकल्पनया स्मृत्यप्रामाण्याङ्गीकरणस्य न्याय्यत्वेनाद्वैवैशसानापाद- कत्वान्न तत्परिहार्थमविरोधेऽप्यप्रामाण्यमापादनीयमित्याह – नन्विति । यत्तु सर्वत्रैकरूप्यो- त्प्रेक्षणं युक्तेत्युक्तम् । तद्विरोधाविरोधाभ्यां सर्वत्र व्यवस्थादर्शनादयुक्तमित्याह—यथेति । नास्त्येकरूपतेत्यतः शब्दादध्याहारेणोपसंहारः । अधिकरणार्थं व्याख्याय भाष्यमनुसन्दधान- स्तत्र यथेत्युदाहरणभाष्यं पूर्वाधिकरणप्रतिपादितश्रुत्यनुमानद्वारस्मृतिप्रामाण्यापवादार्थे- ऽस्मिन्नधिकरणे प्रत्यक्षश्रुत्यर्थोपसंहारपरकल्पे सूत्रकारवचनस्यानुदाहार्यत्वादयुक्तमित्याशङ्क्य समर्थयते—यद्यपीति । कल्पसूत्राधिकरणे स्वातन्त्र्यस्य निषेत्स्यमानत्वात्पौरुषेयत्वेन च वस्तुतोऽप्यनुपपत्तेः कल्पसूत्रमूलभूतानामपि श्रुतीनां शाखान्तराधीतानामनुमेयत्वाविशेषा- त्प्रत्यक्षश्रुत्यर्थोपसंहारपरत्वलक्षणस्य वैलक्षण्यात्मकस्यान्तरस्याव्यापकत्वेनाल्पत्वादयुक्तमु- दाहरणत्वमित्याशयः । सर्ववेष्टनस्मृतेर्जैमिनिदृष्टशाट्यायनिब्राह्मणगतश्रुतिमूलत्वेऽप्यस्मदादीनां मूलादर्शनादस्तूदाहरणत्वम् । क्रीतराजकभोज्यान्नतवस्मृतिमूलस्य तु तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यं भवतीत्यथर्ववेदे पठ्यमानस्यास्मदादिप्रत्यक्षत्वेन निराकर्त्तुमशक्यत्वात् क्रीतराजको भोज्यान्न इत्युदाहरणभाष्यमयुक्तमाशङ्क्य समर्थयते—क्रीतेति । बाध्यत्वासम्भवशङ्कानिरा- ससाम्याद्व्युत्क्रमो न दोषः । तथापि स्मृतिपक्षे बाध्यत्वे निक्षेपादुदाह्रियत इत्यन्वयः । अग्निषोमीयसंस्थावधिभोजनप्रतिषेधविरोधादिति बोध्यत्वे हेतुः । विरोधेऽपि कथं बाध इत्याशङ्क्य—अधिकृतानधिकृतेत्युक्तम् । अधिकृतानधिकृतविवेकार्थं तस्येत्याद्युक्तम् । कथमधिकृतानधिकृतयोर्बलावलविशेष इत्याशङ्क्य प्रकरणविशेषादिति प्रकरणाधीतसामि- धेनीपाञ्चदश्याना रभ्याधीतसप्तदश्यबलन्यायायोदाहरणं दीक्षितान्नभोजनस्यायज्ञाङ्गत्वेन यज्ञाङ्गगोचरन्यायाविषयत्वात्स्वा संमतिसूचनाथम्—भाष्यकारेणेत्युक्तम् । भाष्यकृतश्चै-
३१० : मीमांसादर्शनम् [ सू० षोऽभिप्रायः त्रयीप्रतिपादतस्य दीक्षितान्नभोजनप्रतिषेधस्यावव्यपेक्षायामथर्ववेदप्रतिपादि- तस्यावधेर्दू॑रस्थत्वेन विलम्बितत्वात्थर्ववेदप्रतिपादितस्य तु तस्माद्दीक्षितस्याविज्ञातस्या- क्रीतराजकस्याभोज्यं भवतीति प्रतिषेधस्य निर्ज्ञातावधित्वेनावध्यनपेक्षत्वाद्वौर्बल्यमिति । अष्टाचत्वारिंशद्वर्षब्रह्मचर्योदाहरणमयुक्तम् । कृष्णकेशत्वस्यानवस्थितवयोवस्थाविशेष- त्वेनावस्थितवर्षसंख्यारूपकालविशेषत्वेन चोत्तरकालमपि सम्भवात् । न च जातपुत्रोऽग्नी नादधीतेत्युत्तरकालं पुत्रजन्मप्रतीक्षणाद् बहुकालातिक्रमे सति कृष्णकेशत्वापनयः शङ्कनीयः । जातपुत्रस्य पक्षान्तरत्वसम्भवेन समुच्चयस्य संदिग्धत्वादित्याशङ्क्य समर्थयते—कृष्ण- केशत्वं चेति । तथापि व्यक्त एव विरोधो दृश्यत इत्यन्वयः । कथमित्यपेक्षिते स्मरण- प्रकाशितस्यार्थस्य यौवनावस्थारूपस्य जातपुत्रत्वकृष्णकेशत्वाभ्यां बाल्यवार्द्धक्यव्यवच्छेदेन परिग्रहादुपलक्षणादित्युकम् । कृष्णकेशत्वजातपुत्रत्वयोः प्रत्येकमाधानाधिकारिविशेषणत्वेऽष्ट- दोषविकल्पापत्तेर्विशेषणविशेष्यभावाप्रतीतेश्च समुच्चयायोगाद्दारपरिग्रहोत्तरकाले च कृष्ण- केशस्य नियमेनाधानप्राप्तेः पलितकेशव्यावृत्त्यर्थतया कृष्णकेशत्वविशेषणत्वविशेषणस्य परिसंख्यार्थत्वापत्तेरजातपुत्रस्यापि च हरिश्चन्द्रादेः पुत्रार्थयागोपाख्यानेनाहिताग्नित्व- दर्शनेनाजातपुत्रत्वस्य स्वरूपेण विशेषणत्वानुपपत्तेः । स्मृत्यनुसाराच्चोभयोर्यौवनावस्थोप- लक्षणाथंत्वमवसीयत इति । ननु यौवनावस्थायाः किंचिच्छेदेऽपि स्मृत्यनुसारोपपत्तेर्विरोधः स्यादित्याशङ्क्य - अकृतो वेत्युक्तम् । 'शतायुर्वे पुरुष' इति श्रुतेः पञ्चाशद्वर्षंस्याद्धं वयो भवति तावता यौवनावस्थासमाप्तिरित्याशयः । तथापि कथं विरोध इत्याशङ्क्य- अष्टाचत्वारिंशद्वर्षेत्याद्युक्तम् । पञ्चवर्षोपनयनपक्षे सातिरेकाणि द्विपञ्चाशद्वर्षाणि गर्भाष्टम- पक्षे सातिरेकाणि चतुःपञ्चाशदिति । तत्प्रमाणमशक्यत्वादिति पूर्वपक्षसिद्धान्तभाष्ये स्पष्टत्वान्न व्याख्याते । वस्त्रान्तरितोदुम्बरीस्पर्शोऽप्यौदुम्बरीं स्पृष्ट्वेति बुद्धयनपायात् स्पर्शानासर्ववेष्टनयोरविरोध इति कथमशक्यतेत्यविरोधाशङ्काभाष्याभिप्रायं व्याचष्टे—ननु चेति । नौपचारिकशब्द- प्रयोगमात्रेणानुपलब्धिविरोधात् वस्त्रान्तरितोदुम्बरोस्पर्शनानुभवकल्पना युक्तेति स्पर्शन- विधानादित्यादिपरिहारभाष्याभिप्रायं व्याचष्टे—कथमिति । ननु व्यक्तिद्वारेणेव जातेर्वं- स्त्रद्वारेणौदुम्बर्याः स्पर्शो मविष्यतीत्याशङ्कां निराकर्तुमाह—न चेति । जात्योर्व्यक्त्योः स्पर्शयोश्चेति विग्रहः । औपचारिकस्पर्शाङ्गीकरणे तु विधानार्थक्यमित्याह—अथेति । अविरोधवादी स्वाभिप्रायं विवृणोति — नन्विति । बुद्ध्यवैलक्षण्यमेव व्यवहारेण द्रढयति - तथा हीति । परिहर्त्ता व्यवहारमन्यथोपपादयति — सत्यमिति । किं तु चण्डालस्पृष्टवस्त्र- स्पर्शकारितमित्यर्थः । तद्वस्त्रं स्पृश्यमानमित्यध्याहारः । कथं तस्याशुद्धिकारणत्वमित्या- शङ्कयाह—तथा चेति । नन्वशुचिस्पर्शो निषिद्धत्वादशुद्धिकारणं वस्त्रस्य च चाण्डालादिवत् स्वतोऽशुचित्वा- भावान्मनुष्यवच्च निषेधाधिकाराभावेन निषिद्धाचरणनिमित्ताशुचित्वाभावात्-
३ ] प्रथमाध्याये तृतीयपादः ३११ स्यसंशयाशुद्धिकारणत्वानुपपत्तेः पतितचण्डालसूतिकोदक्याशवस्पृष्टिवत्तत्स्पृष्टाशने सचेलो जलमाविशेदित्यस्य च मनुष्यमात्रविषयत्वोपपत्तेर्न चण्डालस्पृष्टवस्त्रस्पर्शे दोषकल्पनं युक्तमित्याशङ्कते—कथं पुनरिति । ननु सूत्यादिवदनिषिद्धोऽपि वस्त्रस्याशुचिस्पर्शो शुचित्वमापादयिष्यतीत्याशङ्क्यानिष्टापादनेन प्रत्याचष्टे—कथं वेति । तत्स्पृष्टेषु स्पृश्य- मानेष्विति विग्रहः । अनिष्टापत्तिं तावत्परिहरति—तदुच्यत इति । काष्ठादीनां चण्डालादि- स्पर्शापादितस्याप्यशुचित्वस्य । अष्टाङ्गुलं भवेत्काष्ठं तृणमुष्टिर्यदा भवेत् । मारुतेनैव शुद्धिः स्यादूर्ध्वं स्पृष्टिनं दूष्यति ॥ इति स्मृतेः आदिशब्दोक्तानां च रथ्याकर्दमादीनाम्— रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्वेष्टकचितानिति ॥ स्मृतेर्वायुस्पर्शेनापनयात् स्पर्शस्य च दोषकारणत्वं न जातमशुचित्वानापादना- दित्याशयः । ननु निर्वातस्थस्य काष्ठादेश्चण्डालादिस्पृष्टस्यापि शुद्ध्यन्तरास्मरणेन मारुत- शुद्धिस्मृतेरशुचित्वानापत्तिप्रतिपानपरत्वावसायान्न तावत्तत्साम्येन वस्त्रस्याशुचित्वापत्तिर्वक्तुं शक्यते । न च प्रक्षालनशुद्धिस्मृतेर्वस्त्रस्याशुचित्वापत्तिर्वक्तुं शक्यते । "तस्याः" गन्धलेपाप- कर्षणे शौचममेध्यस्ये'ति लेपापकर्षणोपदेशाल्लिप्तविषयत्वप्रतीतेरित्याशङ्कते—नन्विति । प्राक्तनलेपापकर्षणविषयत्वेनापि विध्युपपत्तेनश्रुतलिप्तविषयत्वकल्पनं युक्तमिति परि- हरति-नेति । तुशब्दः शङ्कानिवृत्त्यर्थः । यद्यपि केनचिदमेध्येन लिप्तस्येति लिप्तपदं प्रक्षिप्य पठ्यते, तथाप्यभियुक्तबहुजनापठितत्वान्नासावार्षः पाठ इति चिरन्तनग्रहणेन सूचितम् । तवं तर्हि वस्त्रस्यामेध्यत्वाभावान्नानेन शुद्धिरुक्ता स्यादित्याशङ्क्याह-चण्डालेति । आशङ्का- वादी स्वाभिप्रायं प्रकटयति — ननु चेति । गवाश्वादितुल्यत्वावधारणहेतुः स्वाभाविका- शुचित्वनिषेधाधिकाराभावरक्षणः प्रागेवास्माभिरुक्तः । स्वाभाविकाशुचित्वनिषेधाधिकार- योरभावेऽपि प्रक्षालनविधिसामर्थ्याच्चण्डालादिस्पर्शेन वस्त्रस्याशुचित्वापत्तिरवसीयत इति परिहारवादी स्वाभिप्रायं प्रकटयति — उच्यत इति । चण्डालस्पृष्टवस्त्रस्पर्शनिमित्त- दोषप्रतिपादनस्य प्रकृतोदुम्बरीस्पृष्टवस्त्रस्पर्शनिमित्तो दुम्बरीस्पर्शबुद्ध्यभावोपयोगितामाह- अतश्चेति । शाखान्तरे चौदुम्बर्योद्गाता स्पृष्टव्य इति विधानात्तस्याश्चाचेतनत्वेन स्पर्श- संवेदनलक्षणस्पर्शयोगात्प्राप्तिमात्रवचनत्वेन स्पर्शश्रुतेः प्राप्तेश्च व्यवधानेऽनुपपत्तेरविरोधा- शङ्कव नास्तीत्याह—यदा त्विति । ननु कस्यांचिच्छाखायामोदुम्बर्याश्रयत्वमात्रविधानाद्वस्त्रान्तरिताया अपि चौदुम्बर्याः पतनप्रतिबन्धकत्वेनाश्रयत्वोपपत्तेरविरोधो भविष्यतीत्याशङ्कयाह-अपाश्रयणेति । अस्पृष्टायाः संयोगाभावेनाश्रयत्वायोगादपाश्रयणहस्तसंयोगाद्यनेकोपायसाध्ये च स्पर्शेऽपाश्रयणनियमार्थ- त्वेनापाश्रयणविधेरपाश्रयणेनैवौदुम्बरीं स्पृष्ट्वेत्येकवाक्यत्वावसायादस्त्येव विरोध इत्याशयः ।
३१२ मीमांसादर्शनम् [ सू० ननु संयुक्तस्यापि वस्त्रस्य पतनप्रतिबन्धकत्वायोगात्संयुक्तसंयोगो नास्पृष्ट्वाप्यौदुम्बर्येवाश्रयो मविष्यतीत्याशङ्कयाह — परेति । संयुक्तसंयोगमात्रेणाश्रयत्वाङ्गीकरणेऽविन्ध्यसंयुक्ताकाश- संयुक्तस्य हिमवतोऽपि विन्ध्याश्रयत्वापत्तेर्वस्त्रस्यैवोदुम्बरीसंयोगलब्धस्थैर्यस्य पतनप्रति- बन्धकत्वं प्रसज्येतेत्यपाश्रयणस्पर्शयोर्विरोधोऽस्तीत्याशयः । ननु सत्यपि विरोधे सर्वशब्दस्य कतिपयवेष्टनेऽत्यन्तवाधानापत्तेः । स्पर्शश्रुतेश्वौदुम्बरी- सम्बद्धवस्तुस्पर्शेऽप्यौपचारिकत्वेनोत्पत्तेः कथंचिद् बाधमात्रेण चानुपपत्तिपरिहार- सम्भवेऽत्यन्ताबाधायोगान्न सर्ववेष्टनस्मृतेर्व्यामोहत्वं युक्तमित्याशङ्क्य कथंचिद् बाधोऽपि श्रुतेः कारणाभावादयुक्त इति तामुद्गायतेतिभाष्येणोक्ताः सर्वैत्यनेन स्मृतेर्वाधिकारिकत्व- माशङ्क्य, नन्वित्यनेन निर्मूलत्वान्निराकृत्य वैदिकमित्यनेन श्रुतिमूलत्वामाशङ्क्य भवेदित्यादिना प्रत्यक्षश्रुतिविरोधान्मूलश्रुतिकल्पनासम्भवमुक्त्वा, कथं न हीत्यनेन किं तर्हि मूलमिति पृष्ट्वा व्यामोहादित्युत्तरे दत्ते कथमित्यनेन व्यामोहमूलत्वे किं प्रमाणमिति पृष्ट्वा श्रोतेत्यनेन विरुद्धश्रुत्यवगता यथार्थत्वान्यथानुपपत्तिः प्रमाणमित्युक्तम्, तत्सर्वं संक्षेपेण तात्पर्यतो व्याचष्टे — इति युक्तमिति । पूर्वोक्तबलाबलहेतुपरामर्शोऽय- मितिकरणः । अथेत्याशङ्काभाष्यं श्रुतिमूलत्वस्य निराकृतत्वात्स्वातन्त्र्येण चाप्रामाण्याद्विधि- त्वाच्चायुक्तमाशङ्क्य, विकल्पाङ्गीकरणेन विरोधपरिहारसम्भवाच्छ्रुतिकल्पनोपपत्ति- मङ्गीकृत्यैतदुक्तमिति व्याचष्टे — अथेति । नास्तीत्यादितुल्यकारणत्वादित्यन्तं भाष्यं तात्पर्यतस्तावद्व्याचष्टे — नास्तीति । (हसे हसने मृङ् प्राणत्यागे, गृ निगरणे, इण् गतौ, वा गतिगन्धनयोः, अम गतौ, दम उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम्, हस्तः करनक्षत्रयोः । मतंः, 'भूर्लोकः । गर्तः अवटः' । एतः-लबुर्बरः । वातो-वायुः, रोगश्च । अन्तः-अन्तेऽन्तिके च । दन्तःदशनम् । लोतः-अश्रुवह्नयोः । पोतः-बालवह्नियोः । धूर्त्तः शठः) । औणादिके तन्प्रत्यये कृते गम्यतेऽसावित्यस्मिन्नर्थेऽयमन्तशब्दः । एकेनाम्यते गम्यते प्राप्यते योऽसावैकान्तो व्यामोहाश्वासावैकान्तश्चेति तृतीयासमासगर्भः कर्मधारयः । विकल्पेऽङ्गी- क्रियमाणे पूर्वोक्तेनैव तुल्यकक्षकविकल्पोऽपीत्यादिना मार्गेण व्यामोहस्यैकविज्ञानगतस्य कल्पना- मवश्यमापन्नां पूर्वोक्तेनैव द्वितीयेन प्रकारेणेत्यादिना मार्गेण स्मृताबेव नियच्छतीति प्रथमपादावृत्त्या योज्यम् । एतदेव भाष्यमवयवशो व्याचिख्यासुर्व्यामोहविज्ञानसमासं द्वेधा विगृह्णाति — व्यामो- हेति । विकल्पं त्विति भाष्ये न पाक्षिकीयपाक्षिकत्वाभिधानमेकस्मिन्प्रयोगेऽङ्गीकृत- प्रामाण्याया अपि स्पर्शश्रुतेः प्रयोगान्तरे व्रीह्यादिश्रुतिवदप्रमाण्याङ्गीकरणोपपत्तेरयुक्त- माशङ्क्योपपादयति — विकल्पं त्विति । अपाक्षिकं चेति पाठे सर्ववेष्टनस्मरणं चेति भिन्नक्रमश्चाकारः । पक्षे तावदित्यादिपाक्षिकत्वोपपादनार्थमिति व्याचष्टे — एवमिति । यथा श्रुतिरपाक्षिकी तथा स्मरणमपीत्येवं शब्देनाभिधानाद्भिन्नक्रमत्वं सूचितम् । पाक्षिकं चेति
३ ] प्रथमाध्याये तृतीयपादः ३१३ तु पाठे विकल्पेऽङ्गीक्रियमाणे पाक्षिकत्वमेवात्यन्ताप्रामाण्यहेतुरिति व्याचष्टे—पाक्षिकं चेति । ततश्चाव्यामोहे तस्मिन्स्पर्शनविज्ञाने पक्षान्तरेऽपीत्यध्याहृत्य भाष्यं योज्यम् । ननु पक्षान्तरे स्पर्शनश्रुतेर्व्यामोहत्वात्स्मृतिमूलश्रुतिकल्पनं भविष्यतीत्याशङ्कानिवृत्त्यर्थं न चासावितिभाष्यं व्याचष्टे — एकदापि चेति । यदेव हीत्यादिभाष्यं श्रुत्यपाक्षिकत्वो- पपादनार्थतया व्याचष्टे — इति समर्थयमान इति । तस्याव्यामोहत्वस्य निरपेक्षप्रमाजनकत्वं मूलम्, तदपाक्षिकत्वात्तद्वशेनैव च स्मृतिब्यामोहत्वस्यापाक्षिकत्वात्सर्वदा निर्विचिकित्स- श्रुतिप्रामाण्यसिद्धिरिति भाष्यार्थः । ननु पक्षान्तरे प्रमादपाठत्वान्निरपेक्षप्रमाजनकत्वं न सम्भवतीत्याशङ्कानिरासार्थं नासाविति भाष्यं व्याचष्टे—न हीति । स्मृतेः श्रुत्यादिमूलत्वं वैधर्म्यदृष्टान्तत्वेनोक्तम् । तेनेति भाष्यं श्रुत्यपाक्षिकं चोपसंहारार्थत्वेन ताथद्वयाचष्टे—तेनेति । व्यामोहादिति हेतौ पञ्चमीत्यर्थः । अन्यपर्यायान्तरशब्दयोगनिमित्तपञ्चम्यङ्गीकरणेन वा तेन श्रुतिविरोध- परिहारासम्भवेन नैतत्स्मार्त्तंविज्ञानं व्यामोहपक्षात्प्रामाण्यरूपं पक्षान्तरं संक्रान्तम्, किं तु दुःश्रुततादिविज्ञानं सर्वदा तस्य मूलमित्येवमेतद् भाष्यं योजयमित्याह—यद्वेति । दुःश्रुत- स्वप्नादिमूलत्वेनैकदाङ्गीकृतेन सर्वदापन्नेन हेतुना पक्षान्तरं न संक्रान्तमित्यर्थः । ननु सत्यपि विरोधे शिष्टत्रैवर्णिकदृढपरिग्रहस्य श्रुतिकल्पनहेतोर्भावात्किमिति श्रुतिनं कल्प्यत इत्याशङ्क्य, प्रमित्सानिरपेक्षपरोक्षार्थविषयप्रमाणानुत्पत्तैनं विरोधे श्रुतिकल्पनं युक्तमिति प्रतिपादनार्थं 'न हीति' भाष्यं किं कर्त्तव्यमिदानीं चेत्यनेन पूर्वमेव व्याख्यात- प्रायत्वान्न व्याख्यातम् । तस्मादित्यपसंहारभाष्ये तुल्यकारणत्वं व्याचष्टे—श्रुतीति । विषमशिष्टत्वादपि विकल्पो न युक्त इति प्रतिपादनार्थमपि चेति भाष्यम् । प्रमाणायां स्मृता- वित्यत्रोभयं प्रामाण्यविरोधविवरणदर्शनाद्युक्तमाशङ्क्य विरोधप्रतिपादनपरतयैव ताव- द्वयाचष्टे – अपि चेति । इतरस्मृतिप्रामाण्यं श्रुतिप्रामाण्यं चेतरच्छ्रुतिप्रामाण्यं स्मृति- प्रामाण्यं वा नाश्रयतीति नञ्समासो । नन्वयमकारो दीर्घ इत्याशयः । अन्यतो बलाबल- परिच्छेदाभावे तुल्यबलत्वावगत्या विकल्पः स्यात्सति तु तस्मिन्नष्टदोषविकल्पाङ्गीकरणं न युक्तमिति भाष्याभिप्रायः । क्व पुनरितरेतराश्रयविरोधेऽन्यतः परिच्छेदोदृष्ट इत्या- शङ्क्याह—परस्परेति । प्रतिज्ञा यत्र बाध्यत पूर्वोक्तैयंस्य बाधकैः । तत्पराजयतः कार्यो निर्णयो बाधवजर्नात् ॥ —श्लो० वा० अनु०, ९३-९४ इत्यत्रोक्तो विरुद्धाद् व्यभिचारिणो विरोधे, अन्यतः परिच्छेदो दृष्टान्तितः । प्रमाणशब्दमाक्षिपति—प्रमाणशब्दस्येति । प्रमाणशब्दस्य स्मृतिसामानाधिकरण्य- प्रयोगेण ज्ञानसमानाधिकरण्याभावात् स्मृतेश्चाप्रमितित्वेन भावोत्पन्नल्युडन्तत्वायोगानानेन कारणद्वयेन नपुंसकलिङ्गत्वसिद्धिरित्याशङ्क्य प्रमाणशब्दस्य वेदाः प्रमाणमित्यादिप्रयोगेण
३१४ मीमांसादर्शनम् [ सू० लोके नियतलिङ्गत्वत्वावधारणात्, करणसाधनत्वेऽपि ज्ञानशब्दवत्सामान्यविवक्षया नपुंसक- लिङ्गत्वात् भावे ल्युट् चेति ल्युट्प्रत्ययस्मरणात्तदाश्रयणेन नपुंसकलिङ्गत्वसमर्थनार्थं वेदाः प्रमाणमितिदर्शनम् । ज्ञानसामानाधिकरण्येनेति च तस्य ज्ञानमुपदेश इति करणव्युत्पन्न- स्यापि ज्ञानशब्दस्य नपुंसकलिङ्गत्वदर्शनाद्यदेव ज्ञानशब्दस्याधिकरणमभिधेयम्, नपुंस- कलिङ्गं तदेवास्यापीति व्याख्येयम् । ज्ञानशब्दस्य विषयाव्यभिचारिबुद्धिविशेषवाचिद- वयंवार्यप्रत्यभिज्ञानेन च च रूढित्वायोगाद् बुद्धिवोधादिसामानाधिकरण्याविशेषेण चानेक- लिङ्गतापत्तेरव्युत्पन्नस्यैव प्रमाणशब्दस्य ज्ञानशब्दपर्यायत्वाभिप्रायं समानाधिकरण्य- व्याख्यानं कथं निर्वहतीति न विद्मः । भावव्युत्पत्तौ तु स्मृतिजन्यसंवेष्टनज्ञानलक्षण्या स्मृतिशब्दस्य प्रमाणशब्दसामानाधिकरण्यं द्रष्टव्यम् । करणविशेषविविक्षायां वेति विशेष- शब्देन पूर्वं सामान्यविवक्षा द्योतिता । समर्थनं प्रतिजानीते—तन्मिममिति । समर्थयते—प्रमाणमिति । मूलप्रमाणाश्रितायाः स्मृतेः श्रुत्या सह स्पर्द्धा भवति, न स्वतन्त्राया इति प्रतिपादयितुं प्रमाणशब्दात्परात्रअय- गतावित्येष धातुर्भाष्यकृता प्रयुक्तः । न शुद्धः प्रमाणशब्दः ततश्च प्रमाणमयनायां गच्छन्त्यां प्रमाणायां स्मृतौ स्पर्शनं व्यामोहो न तन्निरपेक्षायामिति भाष्यार्थो भवतीत्या- शयः । योजना चैवम् । यतः स्मृतिः प्रमाणमयते तस्मात्प्रमाणोच्यते धात्वन्तरेण यतिधात्व- र्थव्याख्यानार्थम्—यातीत्युक्तम् । किं तत्प्रमाणमित्यपेक्षिते—मूलभूतां श्रुतिमित्युक्तम् । नन्वयतेर्यकारान्तरत्वात्कथं प्रमाणेति रूपसिद्धिरित्याशङ्क्य, क्विपो बलादित्वेन लोपो व्योर्वलीति यकारलोपे सत्येतरूपसिद्धिरिति सूचनार्थं—क्विवन्तादयतेरित्युक्तम् । ननु कृताकृतप्रसङ्गितया नित्यत्वेन क्विपो लोपस्य प्राथम्यात् वलः परभूतस्याभावे सति कथं यकारलोपः स्यादित्याशङ्क्य वल्प्रत्ययपरत्वनिमित्तयकारलोपाभ्युपगमेनैव तावत्परि- हरति—तत्रेति । प्रत्ययलोपे प्रत्ययलक्षणमितिज्मरणात्प्रथमं क्विपो लोपेऽपि तत्कार्यं- सिद्धिरिति भावः । नन्विदं वल्ग्रहणं वर्णविषयम् । तथा सति गोधाया अपत्यमित्यस्मिन्नर्थे गोधाया ढूगिति विहित ढक्छूत्ययादिभूतढकारस्यायनेयीनियियः फढखच्छघां प्रत्ययादीना- मित्ययादेशे कृते लोपोव्योर्वलीति यलोपाद् गोधेर इति रूपं सिद्ध्यति । प्रत्ययविषयत्वे तु प्रत्ययमध्यगतस्य वलो रेफमात्रस्य प्रत्ययत्वाभावात्प्रत्ययमध्यगतयकारलोपनिमित्तत्वाभावेन न रूपसिद्धिः स्यादित्याशङ्कयाह—न चेति । वल्ग्रहणस्य वर्णविषयत्वेन, प्रत्ययविषयत्वेन च द्वेधा वैयाकरणैर्व्याख्यानादिह लक्ष्यानुसारेण प्रत्ययविषयत्वाभ्युपगमेन वलादिपत्यय- निमत्तोऽत्र यलोपः प्रत्ययलोपलक्षणेन युक्त इति भावः । मामूद्वा वल्प्रत्ययपरत्वनिमित्तो यकारलोपः, तथापि यदि वा कानिचिदन्यान्यपि वर्णाश्रयाणि कार्याणि प्रत्यययलोपलक्षणेन भवन्ति तद्वदिदमपि भविष्यतीत्युक्त्वाऽथ वैवं वक्ष्यामि लोपोव्योर्वलिं ततः वेव्यंन्तस्य व्योर्लोपो भवतीति भाष्ये पतञ्जलिना वेरपृक्त- स्येति योगविभागाभिधानाद्विमक्तस्य वेदिति सूत्रस्य येनविधिरतदन्तस्येति स्मरणेन व्यन्तस्ये- त्यर्थावगतेः कृताकृतप्रसङ्गित्त्वेन च नित्यत्वेऽपि विलोपस्य प्रथमकरणे व्यन्तशब्दाभावेन