मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
५२० मीमांसादर्शनम् [ सू० निष्कारणषडङ्गवेदाध्ययनोपन्यासेन हि सुतरां व्याकरणस्य निष्प्रयोजनत्व- मुक्तम् । आगमो वेदवाक्याच्च नान्यः कश्चन विद्यते । कथं चाऽऽदिमतां सिध्येद्वेदेनाऽनादिना विधिः ॥ ७५० तस्मात् 'स्वाध्यायोऽध्येतव्यः' इत्येतत्केवलवेदाध्ययनविधानं शतपथादिषु दृष्टम्, उपपन्नं च, निःस्यार्थालम्बनत्वात् । व्याकरणाद्यङ्गाध्ययनविधानं पुनर्न कस्यांचिच्छाखायां श्रूयते । न चाऽऽदिमदर्थविषयं सदनादित्वाधीनं वेदत्वम्, प्रमाणत्वं वा लभते । न चं वेदाङ्गभावोऽपि कश्चिद् व्याकरणं प्रति । तादर्थ्यनियवाभावाद् बुद्धादिवचनेष्विव ॥ ७५१ श्रुतिलिङ्गादिभिस्तावत्तादर्थ्यं नास्य गम्यते । अकृत्रिमस्य वा कश्चित्कृत्रिमोऽवयवः कथम् ॥ ७५२ आगमस्य श्रुत्याद्यङ्गताबोधकप्रमाणपरत्वेन व्याख्यानम् तस्मादवयवविषयमेवैतदेदं वर्णयितव्यम् । षडङ्गो वेद इत्युक्तं श्रुतिलिङ्गाद्यपेक्षया । तैः षड्भिः प्रविभक्तः सन् स हि कर्मविबोधनः ॥ ७५३ ननु बाह्याङ्गानपेक्षत्वे वेदस्वरुपान्तर्गतश्रुत्याद्यपेक्षया विशेषणमनर्थकं प्रसज्यते । तथा हि—सम्भवव्यभिचाराभ्यां स्याद्विशेषणसम्भवः । श्रुत्याद्यव्यभिचारात्तु तैरङ्गैः किं विशेष्यते ॥ ७५४ उच्यते—यस्तानि प्रविभक्तानि हेतुरूपफलैः पृथक् । ज्ञात्वाऽधीते स एवाऽस्य विधेरर्थं करोति नः ॥ ७५५ अधिगन्तव्य इत्येतदध्येय इति चोच्यते । तेन श्रुत्यादिमान्वेद्यो वेदितव्यो विधेरतः ॥ ७५६ ध्यायतेरेव वा रूपं ध्येय इत्येतदाश्रितम् । श्रुत्यार्पितस्वार्थः स ध्यातव्यः सदा द्विजैः ॥ ७५७ ततश्च मीमांसाद्वारा वेदार्थानुचिन्तनविधिरेवायमिति ज्ञायते, न व्याकरणा- ध्ययनविधिः । वेदागमशिक्षाद्यङ्गपरत्वेन द्वितीयं व्याख्यानम् वेदे व्याकरणাদীनि सन्त्येवाभ्यन्तराणि नः । भवेद्वा तदभिप्राया षडङ्गाध्ययनस्मृतिः ॥ ७५८
२४ ] प्रथमाध्याये तृतीयपादः '२१ 'तद्दध्नो दधित्त्वम्' इत्येवमादीनि हि वैदिकार्थवादान्तर्गतान्येव हि निरुक्त- व्याकरणादीनि । तैः सह विधायको वेदोऽध्येतव्य इति स्मृत्यर्थो भवेत् । प्रातिशाख्यपरत्वेन तृतीयं व्याख्यानम् प्रातिशाख्यानि वा यानि स्वाध्यायवदधीयते । गृह्यमाणतदर्थत्वादङ्गत्त्वं तेषु वा स्थितम् ॥ ७५९ व्याकरणस्य प्रयोगशास्त्रत्वमाशंकानिरासौ यानि हि वेदव्यापारपराण्येव, तेषु लिङ्गेन शक्यमङ्गत्त्वमध्यवसातुम् । नतु कतिपयस्पृष्टवेदवाक्योदाहरणच्छद्ममात्रेषु पाणिनिप्रभृतिप्रणीतेषु प्रातिशाख्यानीव प्रयोगशास्त्राणीति चेत् । ने । तेषां पदस्वरूपेष्वेव व्यापारात् । पाणिनीयादिषु हि वेदस्वरूपवर्जितानि पदान्येव संस्कृत्य संस्कृत्योत्सृज्यन्ते । प्रातिशाख्यैः पुनर्वेदसंहिताध्ययनानुगतस्वरसन्धिप्रयत्नविवृतिपूर्वाङ्गपराङ्गाद्यनुसरणाद्भेदाङ्गत्व- माविष्कृतम् । पूर्वोक्तेनानुसंधानमागमस्य च नास्ति ते । आगमोऽध्ययनप्रायः प्राक्च शब्दानुशासनम् ॥ ७६० ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय' इति विहिते ज्ञाने धर्मः, शास्त्रपूर्वप्रयोगेऽभ्युदय इति च व्याहताभिधानम् । व्याकरणस्य शब्दापशब्दज्ञानं प्रयोजनमित्यस्य निरासः यदपि च शब्दापशब्दज्ञानलाघवं प्रयोजनत्वेनोपदिष्टम्, तत् निराकृतप्रयोज- नान्तरस्य लाघवमात्रमेवावशिष्यते - इति सत्यमेवोक्तम् । गौरवस्यैवोपचारेण लाघवकथनमिति उपहासकथनम् यदि वा गौरवस्यैव लघुत्वमुपचर्यते । विपर्ययापदेशेन शूर कातरशब्दवत् ॥ ७६१ लोकप्रसिद्धानामेव शब्दानामत्यन्तविषमधातुग्गणोणादिसूत्रादिभिरलौकिक- संज्ञा-परिभाषानिबद्धप्रक्रियैरनवस्थितस्थापनाक्षेपसिद्धान्तविचारैः क्लेशेनान्तं गत्वा यथावस्थितानुवादमात्रमेव क्रियते । तत्रापि चोदाहरणव्यतिरिक्तेषु कस्य- चिदेव लक्षणयोजनसामर्थ्यं दृश्यते । तेनात्यन्तगुरुः सन्नयमुपायस्तुत्यर्थमेव लघु- रित्युपचरितः । भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्य निरासः यदपि केनचिदुक्तम्- तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ इति । ७६२ तद्रूपरसगन्धस्पर्शेष्वपि वक्तव्यमासीत् । १ म. भा. पस्पशाह्निके ।
५२२ मीमांसादर्शनम् [ सू० को हि प्रत्यक्षगम्येऽर्थे शास्त्रतत्त्वावधारणम् । शास्त्रलोकस्वभावज्ञ ईदृशं वक्तुमर्हति ॥ ७६३ अत एवं श्लोकस्योत्तरार्धं वक्तव्यम् । तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृते ॥ इति । ७६४ न ह्यत्र कश्चिद्विप्रतिपद्यते, बधिरैश्चैवमदृष्टत्वात् । पञ्चमस्यासन्देहप्रयोजनस्य निरासः असन्देहश्च वेदार्थे यदप्युक्तं प्रयोजनम् । तदप्यसद्यतो नास्मात्पदवाक्यार्थनिर्णयौ ॥ ७६५ यतः पदार्थसन्देहास्तावद्बहवो वृद्धव्यवहारादेव निवर्तन्ते । शेषाश्च निगम- निरुक्त-कल्पसूत्र-तर्काभियुक्तेभ्यः सर्वेषामर्थप्रतिपादनपरत्वात् । व्याकरणेन पुनर- तन्त्रीकृत्यार्थं पदस्वरूपमात्रेऽन्वाख्यायमाने दूरादपेतमेवार्थज्ञानम् । तथा हि— धातुभ्यः कल्पिते नाम्नि क्रियायोगोऽनुगम्यते । न चाभिधानवेलायां तत्प्रतीतिर्मनागपि ॥ ७६६ ‘गमेर्डो’ ( उ० सू० २३५ ) इत्येतद्व्युत्पत्त्यनुसारी हि गन्तृमात्रमेव गोशब्द- वाच्यमध्यस्येत् । जातिशब्दश्चायं वृद्धव्यवहारेऽवस्थितः । यत्र प्रसिद्धस्त- त्रान्वाख्यातव्यः । तथा च— कुशलोदारशब्दादेर्यवित्यनुगमस्थितः । न तावत्येव शब्दार्थप्रसिद्धिर्व्यवतिष्ठते ॥ ७६७ अश्वकर्णादिकर्णादौ समासानुगमे सति । अपेतावयवार्थोऽर्थो दृश्यते वृत्तशब्दवत् ॥ ७६८ एवं राजन्यशब्दादेरयतत्त्वाद्यनादरः । व्याक्रियाविपरीतोऽपि स्थितो लोकप्रसिद्धितः ॥ ७६९ वेदविरुद्धार्थे व्याकरणस्याप्रामाण्यमिति प्रतिपादनम् तथा वेदविरुद्धेऽर्थे दृष्टं शब्दानुशासनम् । तत्तथा यदि गृह्येत वेदाङ्गत्वं विरुध्यते ॥ ७७० ‘कलेर्ढक्’ (पा० सू० ४-२-८-) ‘वामदेवाड्ड्यौ’ (पा० सू० ४-२-९) इति कलिवामदेवदृष्टसामाभिधानप्रतिपत्तिर्व्याकरणस्य भवति । वेदे तु ‘ततो वसु वामं समभवत्, तस्माद्द्वात्रदेवत्यम्’ । ‘यदकालयत्, तत्कालेयस्य कालेयत्वम्’ इत्याद्यर्थव्युत्पत्तिदर्शनं व्याकरणानुसारिणीं प्रतिपत्तिं बाधंत ।
२४ ] प्रथमाध्याये तृतीयपादः ५२३ तथा कल्पसूत्रकारैः कृष्णंशंवासः । कृष्णवलक्षे अजिने इत्येवमादिषु कृष्ण- दशादिविवरणाश्रयणाद्व्याकरणशतेनाप्यनवगता अर्था वेदार्थवित्परम्पराप्राप्ता वेदवाक्यपौर्वापर्यावगतयूपादिशब्दार्थाश्च व्याख्यायन्ते । यथा चैवमादिषु व्याकर- णानपेक्षाणामेव निःसंशयार्थप्रतिपत्तिः तथा स्थूलपृषत्यादिशब्दार्थेष्वपि व्याख्यातृ- परम्परैव निर्णयक्षमेति, न व्याकरणमपेक्षितव्यम् । वाक्यार्थनिर्णयेऽपि व्याकरणस्यानुपयोगवर्णनम् किं च-वाक्यार्थेषु च सन्देहा जायन्ते ये सहस्रशः । नेषां व्याकरणात्कश्चित्पूर्वपक्षोऽपि गम्यते ॥ ७७१ यदि वेदार्थसंदेहप्रयोजनं व्याकरणं भवेत् ततः किमर्थवादा स्वतन्त्राः कञ्चिदर्थं प्रतिपादयन्ति, अथ विधिशेषभूताः ? तथा किमूर्गवरोधनमौदुम्बरत्वस्य फलम्, उत प्रशंसार्थमुपात्तमिति । तथा हेतुविधि-हेत्वर्थवाद-मन्त्रप्रयोगदृष्टा- दृष्टार्थत्वादिषु, ग्रहै कत्वविवक्षादिषु च सन्देहानपनयेत् । अथैवमादिषु मीमांसा- सिद्धत्वाद्याकरणेऽनुपन्यासः ततः कल्पसूत्रकारवचनसिद्धकतिपयस्थूलपृषत्याद्यर्थ- निर्णयप्रयोजनता सुतरां नाऽऽश्रयणीया । व्याख्यानादेव सन्देहनिवृत्तेः नहि संदेहादवेद इति निरूपणम् अपि च--लक्षणोत्थेऽपि सन्देहे व्याख्यानादेव निर्णयः । वेदशब्देष्वपि व्याख्या नैव दण्डैर्निवार्यते ॥ ७७२ 'व्याख्यानतो विशेषप्रतिपत्तिः'१ इत्यनयैव परिभाषया न हि सन्देहादलक्षण- मितिवन्न हि सन्देहादवेद इत्यपि शक्यं वक्तुम् । न चागृहीतशब्दार्थैः कैश्चिद् व्याकरणाश्रयात् । व्याख्यातुं शक्यते वेदो यतः स्यात्तेन निश्चयः ॥ ७७३ यथैवावस्थितो वेदस्तथा व्याख्याऽपि सर्वदा । स्वरादर्थनिश्चय इत्यस्य निरासः अतः स्थूलपृषत्यादिव्याख्या व्याकरणादृते ॥ ७७४ न च लोके प्रयुक्तानां पदानां दृश्यते स्वरः । व्यवहाराद्वहिर्भूतात्स्वरान्नातोऽर्थनिश्चयः ॥ ७७५ वृद्धव्यवहाराधीनं शब्दार्थविधारणम् । तत्र च समासान्तोदात्तत्व-पूर्वपद- प्रकृतिस्वरत्वादिप्रयोगविभागाभावान्न तत्कृतार्थविशेषव्यवस्था । १. महाभाष्य ( प्रत्याहाराह्निके लण्सूत्रे )
५२४ मीमांसादर्शनम् [ सू० यत्र त्वस्ति स्वरज्ञानं वेदवाक्येष्वविश्रुतम् । तत्र नैव पदार्थानामवधारणसंभवः ॥ ७७६ तत्रापि निर्णयो यः स्यादर्थप्रकरणादिभिः । तत्र तैरेव सिद्धत्वान्न स्वरस्याभिधां गता ॥ ७७७ तेनादृष्टार्थ एवायं स्वरपाठोऽवगम्यते । सर्वदा ब्रह्मयज्ञाङ्गद्रव्ययज्ञजपेषु च ॥ ७७८ व्याकरणानुगमोऽपि चास्य यदि नाम कथंचित्तदुपयोगार्थ एव भवेत् । न तु लौकिकप्रयोगार्थः, अत्यन्ताप्रयुक्तत्वात् । न च व्याकरणोक्तेन स्वरेणार्थस्य निर्णयः । शब्दानुशासनं ह्येतद् दृष्टं नाऽर्थानुशासनम् ॥ ७७९ तस्मादसन्देहार्थमपि नाध्येयं व्याकरणम् । न ह्येतदर्थनिश्चयाङ्गभूतस्वर- विशेषप्रयोगोत्पत्तिशास्त्रम् । आनुषङ्गिकाणां त्रयोदशानां प्रयोजनानां निरासः यान्यपि च 'इमानि भूयः शब्दानुशासनस्य प्रयोजनानि' इत्येवमुपन्यस्तानि । तेषामपि कानिचित्प्रयोजनत्वयोग्यान्येव न संभवन्ति । कानिचित्प्रयोनाभासानि । कानिचिदप्रमाणकानि । अपि च—अर्थवत्त्वं न चेज्जातं मुख्यैर्यस्य प्रयोजनैः । तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनी ॥ ७८० तत्र यस्तावत् तेऽसुरा इत्याद्यसुरपुराकल्पार्थवादप्रक्रमेऽपशब्दप्रतिषेधः प्रयो- जनत्वेनोपन्यस्तः, स यथावस्थितस्तथोक्तं प्राक् । दुष्टः शब्दः इत्यत्रापि बहुजन- प्रसिद्धशिक्षाकारपठितमन्त्रपदोद्धारेण शब्दपदं प्रक्षिपता स्वपक्षानुरागो दर्शितः । दुष्टमन्त्रप्रयोगे त्विष्यत एव यजमानस्य प्रत्यवायः, 'यदृचोता जहाति, वाग्वि तद्यजमानं जहाति' इत्येवमादिभिः सर्वर्त्विक्प्रयोज्यमन्त्रविनाशेषु यजमा- नगामिदोषदर्शनात् । तथा 'इन्द्रशत्रुर्वर्धस्व' इति मन्त्रप्रयोगविनाशदोष एवोदाहृतः । यत्तु निरुक्ते 'यदधीतमविज्ञातं निगदेनैव शब्द्यते' १ । इत्युक्तम्, तदस्माभिः प्रथमसूत्र एवाऽथशब्दं व्याचक्षाणैः स्नानस्मृतिक्रमकारणत्वे- नोपवर्णितम् 'अनतिक्रामन्तो वेदमर्थवन्तं सन्तममनर्थकमवकल्पयेम, २ दृष्टो हि तस्यार्थः कर्मावबोधनम्' इति । ततश्चाव्याख्यातेन वेदेनार्थप्रकाशनाकरणात् 'न तज्ज्वलति कर्हिचित्' इति । सत्यमेवैतत् । न तु व्याकरणस्य तत्रोपयोगः । कर्मप्रयोगोत्पत्तिं प्रत्यशास्त्रत्वात् । शब्दशास्त्रमेतदिति चेत् ? तेष्वपि पूर्वोक्तेन १ क. शक्यते । २ क. मनर्थकं कल्पयेम ।
२४ ] प्रथमाध्याये तृतीयपादः ५२५ निर्मूलत्वेन न व्यवस्था स्यात् । तस्मात्कल्पसूत्र-निरुक्त-मींसानामेवाधीतमन्त्र- ब्राह्मणार्थविज्ञानोपयोगक्षमत्वादेतत्प्रयोजनं युक्तम्, न तु व्याकरणस्य । यस्तु प्रयुङ्क्ते इत्येतदपि मन्त्रब्राह्मणशब्दस्य सम्यक्प्रयोगप्रयोजनमेव विज्ञायते । यथासमाम्नातादन्यथाकरणाच्च 'दुष्यति चापशब्दैः' इति । स्वाध्यायाध्ययनाध्यापनयजनयाजनगतवेदशब्दाविनाशेऽपि 'यदृत्वो यज्ञ आतिं- भियात्' इति । एतद्वचनादवगतदोषानुवादोऽपीत्यवगम्यते । वाग्योगविदिति च बहुलोकव्यवहारदर्शनाद्विदितपदपदार्थसम्बन्धः पुमान्, ब्राह्मणवाक्येषु चोद्दिश्य- मानोपादीयमानगुणप्रधानादिनिरूपणावधृतवचनव्यक्तिविशेषो मन्त्रेषु चावगत- चोदितस्वार्थपरार्थप्रकाशनार्हत्वानर्हत्वविदेव१ च वाग्योगविदित्युच्यते, न वैयाकरणः वैयाकरणस्यैवंविधप्रयोगोत्पत्त्यशास्त्रत्वात् । यदप्यविद्वांस इति प्रत्यभिवादे नामान्त्यस्वरप्लुतानभिज्ञनिन्दावचनम्, तत्प्लुतस्य त्रिमात्रस्य लोकप्रसिद्धत्वान्मन्वाद्युपदिष्टनामान्त्यप्रयोगसिद्धौ लब्धायां तत्प्रयोगोत्पत्त्यशास्त्रत्वम् । न च तावता मन्वादिभिरनेन चोदाहृतेन श्लोकेन प्रकृतिप्रत्ययादिविभागद्वारेण शब्दापशब्दविवेकज्ञानम्, २ तदुपयोगो वाऽऽश्रीयते । यच्च प्रजायाः सविभक्तिकाः कर्तव्याः इति, तद्याज्ञिकोपदेशसिद्धत्वाद् ब्राह्मणे च षड्हविभक्तयः 'अग्निर्वृत्राणि जङ्घनत्' 'अग्निं वो वृत्रहन्तमम्' 'अग्निनाऽग्निः समिध्यते' इत्येवमादिविभक्तिप्रयोगदर्शनादन्तरेणापि व्याकरणम् । वैभक्तिकमात्रा लोचनापि वा सा विभक्ति.कप्रयाजप्रयोगसिद्धेर- शास्त्रं व्याकरणम् । 'यो वा इमां पदशः स्वरशोऽक्षरशो वाचं विदधाति, स आर्त्विजीनो भवति'३. इति सम्यग्वेदाध्याय्येवमभिधीयते । तथा 'चत्वारि वाक्परिमिता पदानि' इति यानि तावदोंकारमहाव्याहृत्यादि- चतुष्टयबाहुल्यप्रयोजनानुसरणेन नैरुक्तैरप्यक्षरवर्णसाम्यान्निर्वू यादितिवत्प्रपञ्चि- तानि, न तत्र व्याकरणस्य कश्चिदधिकारः । यत्तु नामाख्यातोपसर्गनिपातचतुष्ट- यानुगतं वैयाकरणमतमाश्रितम्, तदपि चतुष्टयस्य लोकसिद्धत्वादेव नातीव व्याकरणापेक्षम् । एतद्विषयत्वे च वर्ण्यमाने 'तुरीयं वाचो मनुष्या वदन्ति' इत्यसम्बद्धमेव स्यात्, चतुर्णामपि पदजातानां मनुष्यैरूच्यमानत्वात् । तस्मादय- मस्य मन्त्रस्यार्थः पौर्वापर्यसंगतो वर्ण्यते । 'चत्वारि वाक्परिमिता पदानि' इति यैर्वाक्यद्यते गम्यते तानि चत्वारि प्रत्यक्षानुमानोपमानार्थापत्त्याख्यानि प्रमाणान्य- १ क. चोदिताचोदित । २ क. (टिप्पण्यां) शब्दविवेकज्ञानमिति पाठः । ३. महाभाष्ये पस्पशाह्निके ऋ० सं० (१-१६४-४५) ।
५२६ मीमांसादर्शनम् [ सू० भिधीयन्ते । तत्र यानि प्रतोकविधिप्राकृतवैकृतवाक्यसारूप्यदृष्टानुपपद्यमानादि- प्रभवैरनुमानोपमानार्थापत्त्याख्यैस्त्रिभिर्गम्यन्ते, तानि तत्सिद्धत्वादेव नेङ्गयन्ति नोच्चारयन्ति । यस्तु भागस्तैरशक्यः प्रतिपादयितुम्, तं तुरीयं प्रत्यक्षसमधि- गम्यमध्येतारो मनुष्या वदन्ति समामनन्तीत्यर्थः । षट्प्रमाणीमध्याच्च प्रमाणद्वयं वाक्पदत्वादपोद्धृतम् । अभावस्तावदभावविषयत्वादेव वाक्पदं न भवति । आगमस्य पुनर्वर्णात्मकत्वात्पद्यमानवागाश्रितस्य पदत्वाश्रयणमनुपपन्नम् । प्रत्यक्ष- पक्षनिक्षिप्तत्वात्पृथक्त्वेनानिर्देशः । चत्वारिशृङ्गा इत्यस्य१ तु विषुवति होतुराज्ये प्रयुक्तस्य योऽर्थः स, मन्त्रा- धिकरणे व्याख्यातः । न चात्र काचिद् व्याकरणापेक्षा । यत्तु चत्वारि पदजातानि शृङ्गाणीत्येवमादिसंख्यासामान्यमात्रेण कर्मविनि- योगानपेक्षमर्थान्तरं वर्ण्यते, तद्व्याकरणकृतवाक्कौशलमात्रम् । तादृशं च वैशेषिकादिष्वपि तदभियुक्तैः शक्यं योजयितुमित्यनादरणीयम् । 'उतत्वः पश्यन्'२ इत्यपि लोक-निरुक्त-कल्पसूत्र-मीमांसाश्रयोत्पन्नपदार्थ- वाक्यार्थज्ञानप्रशंसार्थ एव मन्त्रो विज्ञायमानो न व्याकरणमाद्रियते । एवं 'सक्तुमिव तितउना' इत्येषोऽप्यविप्लुतस्वाध्यायाध्ययननिर्मलवेदाक्षरार्थ- ज्ञानप्रशंसार्थं पूर्ववदेव वर्णनीयः । 'आहिताग्निरपशब्दं प्रयुज्य' इति, व्याख्यातमेव तत् । यदपि नामकरणे, घोषवदाद्यन्तरन्तस्थं३ द्विचतुरादिवर्णकृदन्तपरिगृहीतद्धित- वर्जनवचनम्, तत्कृत्तद्धितसंज्ञयोर्व्याकरणेऽपि पूर्वप्रसिद्धयोरेवोपादानाद्वर्णपरि- माणस्य च प्रत्यक्षपूर्वकस्मृत्यधीनत्वाद् घोषवत्त्वादीनां च शिक्षाप्रातिशाख्येष्व- नुक्रमणात्सर्वैश्च श्रोत्रियैरक्लेशेन नामकरणान्न व्याकरणं नाम प्रयोगोत्पत्तिशास्त्र- त्वेनापेक्षणीयम् । 'सुदेवो असि वरुण' इत्यत्र यद्यपि तावत्सप्तविभक्तय एव सप्त सिन्धव इति व्याख्यायन्ते, तथाऽपि तासां विभक्तिसंज्ञामात्रं व्याकरणेन क्रियते, प्रसिद्धमेव वा गृह्यते । यानि तु प्रयोगरूपाणि तानि लोके वेदे च विभागशः प्रत्यक्षाण्येवेति, न व्याकरणापेक्षयैवमभिधीयन्ते४ । यदा पुनः सप्त सिन्धवो५ नद्य एव । यज्ञर्त्विग्यजमानप्रशंसापक्षे वा सप्त होत्रागता वाचः । सप्त सामस्वरगतास्तद्भूक्ति- गता वा परिगृह्यन्ते, तदैतिहासिकयाज्ञिकगोचरापन्नत्वादविषय एव व्याकरणस्य । १. ऋ० सं० (४-५८-३) । २. ऋ० सं० (१०-७१-४) । ३ क. दाद्यन्तरं तस्य । ४ क. मभिधीयते । ५ क. सिन्धवोजनद्य ।
२४ ] प्रथमाध्याये तृतीयपादः ५२७ व्याकरणेन संस्कारो भवतीति पक्षस्य निरासः संस्कृतानां च शब्दानां साधुत्वे परिकल्पिते । वक्तव्यः कस्य संस्कारः कथं वा क्रियते पुनः ॥ ७८१ व्याकरणेन शब्देषु संस्क्रियमाणेषु न ज्ञायते किं वस्तु संस्क्रियते, को वा संस्कार उत्पत्तिप्राप्तिविकारापूर्वसाधनसामर्थ्याधानानां क्रियत इति । न तावदस्ति शब्दत्ववर्णत्वव्यक्तिसंस्क्रिया । सर्वत्रातिप्रसङ्गेन न व्यवस्था हि सिध्यति ॥ ७८२ शब्दत्वे संस्कृते स्याद्धि ध्वनीनामपि साधुता । वर्णत्वेऽप्येकवर्णानां गाव्यादीनां च तुल्यता ॥ ७८३ एतेन वर्णव्यक्तिसंस्कारः प्रत्युक्तः । गवादिषु गकारादिर्यः सकृत्संस्कृतः क्वचित् । गाव्यादिषु स एवेति साधुरेव प्रसज्यते ॥ ७८४ एवं प्रत्येकसंस्कारे न कस्यचिदसाधुता । समुदायस्तु नैवास्ति तेषामयुगपच्छ्रुतेः ॥ ७८५ येषां तावद्वर्णव्यक्तयः प्रध्वंसिन्य एव, तेषां विनष्टानुत्पन्नानां संस्कारा- योग्यत्वमेव । वर्तमानाऽपि संस्कारक्षणं नैवावतिष्ठते । तावदेव विनश्येत्सा यावत्संस्कर्तुमिष्यते ॥ ७८६ न च तां संस्कृतां भूयः कश्चन द्रक्ष्यति क्वचित् । सक्तूनामिव संस्कारो होमेनैष प्रसज्यते ॥ ७८७ यथैव होमसंस्कृतानां भस्मसाद्भावात्सक्तूनां पुनर्दर्शनविनियोगासंभवाद् द्वितीयाप्रतिपादितसंस्कार्यत्वपरिग्रहे सक्तवो होमस्तद्भावनाविधिरिति सर्वेषा- मनर्थकत्वं प्रसज्यत इति संस्कारानाश्रयणम्, तथैव क्षणिकशब्दव्यक्तिसंस्कारपक्षे सर्वानर्थकत्वप्रसङ्गः । लक्षणं प्रवर्त्यमिति भाष्योक्तस्य अर्थस्य निरासः ततश्च योऽप्ययमनियमोऽभिहितः, यद्येव नित्यः शब्दः, अथापि कार्यः ‘उभयथाऽपि लक्षणं प्रवर्त्यम्’ १ इति स एवमेव न्यायनिरूपणभयमात्राविष्करणार्थः शिष्यव्यामोहनार्थो वेति न युक्तः परिग्रहीतुम् । अदूरविप्रकृष्टे च वस्तुन्यनियमो भवेत् । शीतोष्णनियमं ब्रूयात्को नु वह्नेः सचेतनः ॥ ७८८ १ महाभाष्ये पस्पशाह्निके ।
५३८ मीमांसादर्शनम् [ सू० उत्पाद्यश्चैव संस्कारं कार्यपक्षे भवेदयम् । ततश्च सुतरां प्राप्ता प्रयोगोत्पत्त्यशाश्वता ॥ ७८९ व्याकरणप्रक्रियानुगृहीतेन वैयाकरणेनोत्पाद्यमानेषु साधुशब्देषु नित्यवेद- मूलत्ववेदाङ्गत्वनिराकरणं स्वयमेवाऽऽपादितम् । अथ व्याकरणोत्पन्नैः शब्दैर्वेदोऽपि निर्मितः । ततो व्याकरणस्येव वेदस्याप्यप्रमाणता ॥ ७९० शब्दश्चोत्पाद्यमानत्वे क्षणान्न स्यात्क्षणान्तरे । तादृशस्य च संस्कारो न शक्यो नोपयुज्यते ॥ ७९१ तस्मादनियमं मुक्त्वा नित्यः संस्क्रियते यदि । विक्रियाख्योऽपि संस्कारस्ततो नैवाऽस्य संभवेत् ॥ ७९२ विना व्याकरणादाप्तिः सिद्धा श्रोत्रसमाश्रया । दृष्टार्थेषु शब्देषु अदृष्टार्थनियमस्यासंभवोपपादनम् अदृष्टार्थस्तु संस्कारो विध्यभावान्न गम्यते ॥ ७९३ दृष्टार्थेषु च शब्देषु नादृष्टेन प्रयोजनम् । न हीष्टं भोजनार्थीनां व्रीहीणां प्रोक्षणात्फलम् ॥ ७९४ कर्मप्रकरणाम्नाता न च व्याकरणक्रिया । येनाऽपूर्वप्रयुक्तानां शब्दानां संस्कृतिर्भवेत् ॥ ७९५ हन्त्यादिविधिवन्नापि संभवी व्याक्रियाविधिः । पौरुषेयं कथं वस्तु विदध्याच्छाश्वतो विधिः ॥ ७९६ तेनानारभ्यवादेऽपि विधिर्नैवास्ति तादृशः । अनारभ्य विधित्वे च न कर्मार्थत्वसंभवः ॥ ७९७ ऐकान्तिकं हि संस्कार्यं यत्क्रतौ स्यात्स्रुवादिवत् । तद्द्वारेण ऋतुप्राप्तिर्न लोकव्यभिचारिणः ॥ ७९८ लोकवेदगतत्वाच्च शब्दानां व्यभिचारिता । अतो न व्याक्रिया गच्छेत्तदुपस्थापितं क्रतुम् ॥ ७९९ आकाशेऽवस्थितः शब्दः संस्कर्तुं शक्यते कथम् । नित्यत्वान्मूर्त्यभावाच्च व्योमाश्रितविभुत्ववत् ॥ ८०० वर्णसंस्कारमात्रं च यदि व्याकरणाद्भवेत् । प्रत्याहारेण तत्सिद्धेर्नोत्तरेण प्रयोजनम् ॥ ८०१ समुदायस्तवस्तुत्वान्नैव संस्कारमर्हति । प्रत्येकं च भवेद्यद्वदग्निधर्मः प्रतीष्टकम् ॥ ८०२
२४ ] प्रथमाध्याये तृतीयपादः ५२९ न च स्थलवदारम्भो वर्णैः शब्दस्य कस्यचित् । येन तत्संस्कृतिः सिध्येत्स हि पूर्वं निराकृतः ॥ ८०३ स्फोटगोशब्दताङ्गत्वप्रभृतौ पदकल्पना । गकारादिपदव्याख्याद्वारेणैव निराकृता ॥ ८०४ सर्ववर्णसमूहोऽपि न संस्कार्यः कथंचन । न तस्यार्थप्रयुक्तत्वमस्ति ह्यनभिधानतः ॥ ८०५ अथ त्रिचतुरा वर्णाः संस्क्रियन्ते पदे पदे । संख्यामात्रस्य साधुत्वं तच्च स्यादितरेष्वपि ॥ ८०६ संस्क्रियेतानुपूर्वी चेच्छब्दधर्मो न सेष्यते । ग्रहणोच्चारणस्थत्वाद् गाव्यादिषु च संभवात् ॥ ८०७ ग्रहणोच्चारणे एव संस्कार्ये यदि मन्यसे । कर्मणः कर्मसाध्यत्वमुपरिष्टान्निषेत्स्यते ॥ ८०८ वक्ष्यति हि—कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यादिति ३-१-१० । ताल्वादिश्रोत्रसंस्कारो न च व्याकरणाद्भवेत् । वैद्योपदिष्टसंस्कारसंस्कार्यत्वावधारणात् ॥ ८०९ मनो वा पुरुषो वाऽथ संस्कारास्पदमीष्यते । शब्दानुशासनं शास्त्रमिति व्यर्थं तदा भवेत् ॥ ८१० शिष्यानुशासनत्वं हि शास्त्राणामुपपद्यते । शब्दस्याननुशास्यत्वाद्व्यर्थं तदनुशासनम् ॥ ८११ स्फोटशब्दे च संस्कारः सुतरां नोपपद्यते । स्फोटपक्षे संस्कारानुपपत्तिवर्णनम् असन्तौ तत्र हि स्यातां प्रकृतिप्रत्ययावपि ॥ ८१२ वाक्यस्फोटश्च यैरिष्टः सर्वावयववर्जितः । नामाख्यातादि¹ संस्कार्यं तेषां शशविषाणवत् ॥ ८१३ अपोद्धारेण संस्कारो यद्यत्राभ्युपगम्यते । शृङ्गं शशादपोद्धृत्य किं न संस्क्रियते मनाक् ॥ ८१४ अन्यावयवसारूप्यादपोद्धारो यदिष्यते । खरशृङ्गेण सारूप्याच्छशशृङ्गस्य किं न सः ॥ ८१५ १ क. नामाख्याता हि । ३४
५३० मीमांसादर्शनम् [ सू० गवयादिषु नाङ्गानां सादृश्यं यन्निदर्शितम् । सत्यावयवसामान्यात्तदिहापीष्यते तथा ॥ ८१६ वाक्याधिकरणे चैतद्विस्तरेण निराकृतम् । तेनापोद्धारसंस्कारकल्पनाऽपि न युज्यते ॥ ८१७ अन्वाचक्षीत शास्त्रं चेच्छब्दान्सदपोद्धृतान् । एतेनैवाप्रमाणत्वमस्य माहेन्द्रजालवत् ॥ ८१८ अशिष्यत्वादशास्त्रत्वमेवं तावत्पदं प्रति । वाक्यानुशासनं नैव कृतं व्याकरणेन च ॥ ८१९ अर्थेन च प्रयुक्तानां शब्दानां संस्क्रियोदिता । वाक्यमेवंविधं चेष्टं न पदान्यर्थवर्जनात्१ ॥ ८२० ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले । देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥ ८२१ इति बहुप्रपञ्चमुक्तवा केवलस्य चाप्रयोगादर्थप्रयुक्तत्वं निराकृत्य वाक्या- न्वाख्यानार्थमेव व्याकरणमपि व्याख्यानं युक्तमासीत् तदनाश्रयणात्तु सूत्रवार्तिक- भाष्यकारवदेव पूर्वापरविरुद्धमभिदधानैष्टीकाकारैरपि सुतरां व्याकरणस्याप्रत्य- यितपुरुषप्रणीतत्वं दर्शितम् । अतो विगानभूयिष्ठाद्विरुद्धान्मूलवर्जितात् । निष्फलाच्च व्यवस्थानं शब्दानां नानुशासनात् ॥ ८२२ ततश्च—स्वाध्यायाध्ययनं मुक्त्वा तत्प्रयोगश्च कर्मसु । शेषशब्दप्रयोगेषु न व्यवस्थोपयुज्यते ॥ ८२३ तेन सर्वैभाषितव्यम्, सर्वे साधव इति । अत्रानुमानप्रयोगाः— गावीगोण्यादयः शब्दाः सर्वे गोत्वस्य वाचकाः । वृद्धैस्तत्र प्रयुक्तत्वाद् गौरुसेत्येवमादिवत् ॥ ८२४ एवं साधुत्वमेतेषां सर्वेषामर्थसाधनात् । श्रौत्रत्वान्नापशब्दत्वं पूर्वदृष्टान्तदर्शनात् ॥ ८२५ अनादित्वं च सर्वेषामवध्यनवधारणात् । वक्तुर्वक्तुः पुरो वृत्तेः शक्यं वक्तुं गवादिवत् ॥ ८२६ १ क. न्यर्थंवज्जनात् ।
२४ ] प्रथमाध्याये तृतीयपादः ५३१ साधुभिर्भाषिमाणानां नादृष्टफलसम्भवः । दृष्टार्थत्वाद्यथा धूमादग्निं देशेऽवगच्छताम् ॥ ८२७ अशास्त्रविहितत्वाच्च बुद्धशब्दाभिधानवत् । शास्त्रं नावेदरूपत्वात्प्राकृतव्याक्रियादिवत् ॥ ८२८ वेदमूलतयाऽप्यस्य प्रमाणत्वं न कल्पते । अवेदविषयार्थत्वान्नाटकादिनिबन्धनवत् ॥ ८२९ शास्त्राङ्गमपि नैवैतदातदर्थ्यात्कथादिवत् । अतादर्थ्यं विनाऽप्यस्माद्भेदेनार्थावबोधनात् ॥ ८३० न च शब्दप्रयोगाङ्गं सिद्धे तस्मिन्प्रवर्तनात् । यदीदृशमनङ्गं तद् दृष्टं नेत्रानुमानवत् ॥ ८३१ यथा हि चक्षुरादिग्रहणानपेक्षरूपादिविज्ञानसिद्धौ तज्जनितार्थापत्तिप्रभवं चक्षुराद्यनुमानमुपजातमपि न पूर्वज्ञानस्याङ्गम, एवं लोकवेदसिद्धशब्दप्रयोगोत्तर- कालप्रणीततया व्याकरणमप्यनङ्गम् । तस्मात्पर्यायशब्दत्वाद् गाव्यादेस्तरुवृक्षवत् । आचारेण प्रयोज्यत्वं न शास्त्रस्थैर्निवारितम् ॥ ७३२ ॥ २४ ॥ अथाष्टमव्याकरणाधिकरणम् ॥८॥ न्या० सु०—अत्र भाष्यकृता गोगाव्यादिशब्दानुदाहृत्य किमेते सर्वं एव सास्नादिमतोऽ- र्थस्य वाचकाः सन्तो वाक्यार्थे प्रमाणम्, उत एक एवेति । सास्नादिमतो वा पदार्थस्य कार्यायां वाक्यार्थप्रमायां कारणं किमेते सर्वं एव, उत एक एवेति सन्देहमुपन्यस्य प्रयोग- भेदेनाविरोधात्सर्वेषां व्रीहियवादिवद्विकल्पेन प्रामाण्योपपत्तेः, सिद्धान्ताभावेन सन्देहानुप- पत्तिमाशङ्क्य किमत्रैति भाष्येण शक्त्या विना शब्दस्यार्थप्रत्यायकत्वं सम्भवति, उत नेति सन्देहकारणमुक्त्वा सर्वं इत्यादिना भाष्येण पूर्वपक्षः कृतः । यववराहाधिकरणन्यायवर्णनम् तत्र यववराहाधिकरणे शास्त्रस्थप्रयोगबलेन लौकिकप्रयोगबाधस्योक्तत्वात् पूर्वपक्षानुप- पत्तिमाशङ्कयाह— एकस्मादिति । व्यवस्थितशास्त्रस्थप्रयोगबलेनाव्यवस्थितलौकिकप्रयोग- बाधमङ्गीकृत्य यवादिशब्दानां दीर्घशूकाद्यर्थनिर्धारणं यत्प्रतिपादितम्, तत् विकल्पदोष- भयादनेकादृष्टशक्तिकल्पनाप्रसङ्गाद् गौणमुख्यविभागाश्रयणाच्चेति योज्यम् । एतत्कारणत्रयो- पपादनायैकस्मादित्युक्तम् । यवैर्यजेतेत्येकस्माद्यवपदाद्दीर्घशूकैर्वा यष्टव्यम्, प्रियङ्गुभिर्वेत्य- नेकार्थप्रतीतेर्विकल्पोऽनेकक्तिकल्पना ह्येकस्य शब्दस्यापद्येत, एकस्मिंश्चार्थे शब्दस्य शक्तौ कॢप्तायां गौणत्वेनेतरत्र प्रयोगोपपत्तेननिकक्तिकल्पनं युक्तम् । इह तु गोशब्दश्रवणात्ततोऽ-
५३२ मीमांसादर्शनम् [ सू० र्थप्रतीतिर्गवीशब्दश्रवणे तस्मादिति व्यवस्थोपपत्तेर्न तावच्छ्रोतुर्विकल्पापत्तिः । वक्तुरप्यय- मेव शब्दः प्रयोज्य इति नियमाभावात्प्रसज्यमानोऽपीच्छया विकल्पेन दोषमावहति । यत्र च कारणात्कार्यदर्शनं तत्र शक्तेरस्तित्वं सम्प्रतीयत इति न्यायेन शक्तेः कारणाश्रितत्वेन शब्दसमवेतत्वात्तद्भेदे युक्त एव भेदो । गाव्यादीनां चार्थान्तरे मुख्यगौणाभावात्सास्नादि- मति गौणत्वायोगात् शब्दसादृश्यमात्रेण शब्दस्य शब्दान्तरार्थप्रत्यायकत्वे चालाशब्दस्यापि मालाशब्दार्थप्रत्यायकत्वापत्तेर्मुख्यत्वमवश्यं प्रतीयत इति वैषम्यम् । प्रियङ्गुदीर्घशूकयोश्चैक- पदोक्तयोर्विकल्पे तस्यैव यवपदस्य युगपदेकार्थापेक्षया प्रामाण्यम् अर्थान्तरापेक्षया चाप्रामा- ण्यमित्यत्यन्तविरोधं वक्तुम् - एकस्मादित्ययुक्तम् । केषांचिद्दीर्घशूकेषु प्रयोगः, अन्येषां प्रियङ्गुष्वित्यनेकार्थप्रतिभानकारणमुक्तम् । यववराहाधिकरणन्यायमुक्त्वा, तद्वैषम्यमत्रैव दर्शयन् पूर्वपक्षयति-यत्र पुनरित्या- दिना । 'साधुत्वेनावधार्यन्त' इत्यन्तेन तत्र सत्यप्येकविषयानेकशब्दत्वेऽर्थसाधनत्वात्साधुत्वे- नावधार्यन्त इति वक्ष्यमाणसाध्यालोचनेन शक्तिभेदोपपत्तेरविरोधादिति च पञ्चमीद्वयं योज्यम् । शब्दाश्रितत्वाच्छक्तेः, तद्भेदे शक्तिभेदौचित्यं समवायिशब्देनोक्तम् । अर्थविशेषा- वच्छिन्नशब्दाश्रितैकशक्तिकल्पनामात्रेणोभयनियमोपपत्तेरनवच्छिन्नशक्तिकल्पने वा शक्ति- द्वयकल्पनेऽप्यर्थस्य सर्वशब्दवाच्यत्वापत्तेः, शब्दस्य च सर्वार्थवाचकत्वापत्तेरर्थाश्रितशक्त्य- भावात् अर्थैक्येऽप्येकस्यानेकशक्तिकल्पनादोषो नास्तीत्याशयः । यवादिविधेश्च शास्त्रस्थ- प्रयोगेण दीर्घशूकादिविषयत्वावधारणान् तद्विरुद्धलौकिकप्रयोगावगतप्रियङ्गवादिविषयत्ववाचो- दाहृतगवादिशब्दप्रयोगमात्रेण गाव्यादिशब्दानामप्रयोगत्वावगमात्सर्वपर्यायप्रयोगा नियमा- च्चाविरोधान्न शास्त्रस्थप्रयोगेण लौकिकप्रयोगबाध इति शास्त्रस्थेत्यस्यार्थः । अस्यैव पूर्वपक्षहेतुद्वयस्य यववराहाधिकरणन्यायवैषम्यप्रतिपादनार्थत्वप्रदर्शनार्थं सत्यपि विरोधे शास्त्रस्य साध्वसाधुत्वप्रतिपादनव्यापाराभावाच्छास्त्रस्थप्रयोगस्य निर्मूल- त्वेन लौकिकप्रयोगाबाधकत्वादपि सर्वे साधुत्वेनावधार्यन्त इति उत्तरोपपत्तिर्वक्ष्यमाणसाध्य- व्यवधायकरूपेण पदपूर्वकंत्वाच्चेति स्वोपपादकोपन्यासपूर्वमुपन्यस्ता अनेन व्याकरणस्मृत्य- प्रामाण्येन पूर्वपक्षकरणाद्विचारस्य पादाध्यायसङ्गतिर्दर्शिता । अनन्तराधिकरणसङ्गतिस्त्वी- दृशसम्भवप्रतिपादनार्थमेव वेत्यत्र होलाकाधिकरणोक्तव्यक्त्याकृत्यादिवाच्युपदासम्भवोप- जीवनेनात्र पूर्वपक्षोत्थानात् वक्ष्यते व्याकरणशास्त्रव्यापारस्य पदपूर्वकत्वोपपादनार्थं वाक्यात्मकत्वं विशेषणम् । अनेन च व्याकरणशास्त्रस्य लोकप्रसिद्धपदप्रयोगादुत्पत्तेः । साध्वसाधुव्यवस्थायाः शास्त्रविषयत्वायोगादित्येवम्प्रयोगोत्पत्त्यशास्त्रत्वादिति सूत्रावयवो व्याख्यातः । लोकप्रसिद्धसाधुशब्दवशात् व्याकरणशास्त्रं प्रवर्त्तते तस्माच्च लौकिकशब्दानां साध्वसाधुत्वनिर्णयं इतीतरेतराश्रयोपपादनार्थम् - तथा हीत्युक्तम् । शब्दरूपपक्षासावर्थं श्चेत्येवं वस्तुवचनत्वेनार्थशब्दो व्याख्येयपदार्थज्ञानाय वा शब्दशास्त्रस्य पदरूपशब्दापेक्षाप्रदर्श- नार्थोऽर्थशब्दः । नन्वेवमप्यर्थप्रतिपादकत्वेन गोगाव्यादिशब्दानां लोके प्रसिद्धत्वात्साधुत्वम्, भेर्यादिशब्दानां त्वर्थप्रतिपादकत्वाप्रसिद्धेर साधुतेति व्यवस्थोपपत्तेः, शब्देषु न व्यवस्था
२४ ] प्रथमाध्याये तृतीयपादः ५३३ स्यादित्ययुक्तमित्याशङ्क्य-अत इत्युक्तम् । लोकप्रयुक्तेष्वेव गोगाव्यादिषु साध्वसाधुत्व- व्यवस्थानिरासार्थमेतदित्याशयः । नन्वेवं सत्याचारेण स्मृतिबाधः स्यात् स च पूर्वोक्तस्मृतिबलाबलीयस्त्वविरुद्ध इत्याशङ्क्य-वाक्यार्थेषु होत्युक्तम् । तत्र आचारानपेक्षायाः स्मृतेस्ततो बलीयस्त्वम् । इह तु स्मृतेराचारापेक्षत्वेन विपरीतबलाबलक्रमत्वाल्लोकादेव साध्वसाधुता निर्णतव्येत्याचारेण स्मृतिबाधो युक्त एवेत्याशयः । ननु लोकस्य सङ्कीर्णव्यवहारित्वात्साध्वसाधुत्वनिर्णायकत्वं न युक्तमित्याशङ्क्य-वाचकेत्युक्तम् । अर्थप्रत्यायको यो गोगाव्यादिशब्दः, स साधुः । अप्रत्यायको भेर्यादिशब्दश्चासाधुरिति व्यवस्था लोकसिद्धैवेत्यर्थः । ध्वनिमात्राणीत्यनेनैत- देव विवृतम् । मात्रिका वर्णसमाम्नायः । ननु वेदादिविद्यास्थानप्रयुक्तेष्वेव गवादिशब्देषु साधुत्वप्रसिद्धेर्गाव्यादिशब्देषु च तत्राप्रयुक्तेष्वसाधुत्वप्रसिद्धेर्लोके चैवंविधव्यवस्थोनु- पलब्धेः वतंतो निर्णयः संभवतीत्याशङ्का, साध्वसाधुशब्दयोरर्थप्रत्ययसाधनत्वासाधनत्वनि- मित्तत्वेन रूढित्वाभावाल्लोके च भेर्यादिशब्दानामप्रत्यायकत्वनिश्चयात् । गोगाव्यादिशब्दानां प्रत्यायकत्वनिश्चयात्सिद्धैव व्यवस्थेति-तेनेत्यादिनोक्तम् । अपशब्दत्वमप्यर्थं प्रत्ययानव- गमनिमित्तत्वाद्भेर्यादिशब्देष्वेव व्यवस्थितमित्यनर्थकत्वादित्यनेनोक्तम् । नन्वेकेनैवार्थ- प्रत्ययसिद्धेः कथमेकस्मिन्नर्थे अनेकेषां साधुतेत्याशङ्का गवादिदृष्टान्तेन निरस्ता । एवं वाचकशक्तिभेदोपपत्तिरविरोधादिति च पञ्चमीद्वयान्वयायैतावद्ग्रन्थतात्पर्यमेकवाक्यतया व्याख्यातम् । यद्वा तत्र वाचके शक्तिभेदोपपत्तिप्रतिरोधत्वं पर्यालोच्य यो निर्णयो भवति । सर्वेषां साधुत्वमित्येवंरूपः स्वीकार्यः । न तु शास्त्रस्थप्रयोगबलेन लौकिकप्रयोगबाधं पर्यालोच्येति ल्पब्लोपे पञ्चमीद्वयमङ्गीकृत्य पूर्वपक्षिकावगतनिर्णय शब्दानुषङ्गेण वैषम्य- प्रतिपादनार्थत्वेनाविरोधादित्यन्तं ग्रन्थं व्याख्याय, ननु वाचकशक्तिभेदोपपत्तौ शास्त्रस्थ- प्रयोगाविरोघे च सत्यपि व्याकरणशास्त्रेण गवादिशब्दानामेव साधुत्वान्वाख्यानेनेतरेषाम- साधुत्वप्रतिपादनाच्च तद्विरुद्धाचारबलेन सर्वेषां साधुत्वं युक्तमित्याशङ्क्यानराकरणार्थं- तयोत्तरग्रन्थो व्याख्येयः । अत्र भाष्यकृता 'सर्वं इति ब्रूम' इत्यनेन शब्देषु न व्यावस्था स्यादिति सूत्रावयवं सर्वशब्दानादित्वपूर्वकपक्षप्रतिज्ञानार्थत्वेन व्याख्याय, कुत इत्यादिनाथं प्रत्ययान्यथानुपत्त्या गाव्यादिशब्दानामपि सास्नादिमतार्थेन सह वाच्यवाचकसम्बन्धं प्रश्नपूर्वकमुपपाद्य, अशक्तिजत्वेनापभ्रंशत्वशङ्कामबाध्य स्मृत्या निराकृत्य, कर्तृस्मृत्या च सामायिकत्वाशङ्कां सम्बन्धग्रन्थे निराकृतामुक्त्वा, .तस्मात्सर्वे साधवः इत्युपसंहृत्य सर्वेषा- मर्थवत्त्वात्सर्वैर्भाषितव्यमिति पूर्वपक्षप्रयोजनमुक्त्वा, तेन सर्वेषां दृष्टार्थसाधनत्वाविशेषेऽप्य- दृष्टार्थो गवादिशब्दनियमो भविष्यतीत्याशङ्कानिरासार्थत्वेन प्रयोगोत्पत्तेरुच्चारणनियमस्या- शास्त्रीयत्वादित्येवं प्रयोगोत्पत्त्याशास्त्रत्वादितिसूत्रावयवो व्याख्यातः । तत्र भाष्यातात्पर्य- विवेकर्थं दृष्टार्थत्वे साधनत्वाद गाव्यादिशब्दानामसाधुत्वासम्भवमुपपादितमुपसंहरति-
५३४ मीमांसादर्शनम् [ सू० ततश्चेति । न च दृष्टार्थसाधनत्वनिबन्धनत्वात् साधुशब्दस्य, गाव्यादिशब्दानां तदभावात्सा- ध्वसाधुव्यवस्था भविष्यतीत्याशङ्कते—अदृष्टेति । साध्वसाधुव्यवस्थेत्यर्थः । यद्वा श्रेयोरूपादृष्टसाधनत्वनिबन्धना साधुता प्रत्यवायरूपादृष्टसाधनत्वनिबन्धनाऽसा- साधुतेत्यर्थः । साधूनामेवादृष्टसाधनत्वम् अदृष्टसाधनत्वमेव वा साधुत्वमित्युभयथापि व्यवस्था वेदाधीना । न च सा वेदवाक्यैर्निदिष्टा । अदृष्टसाधनत्वं वान्यप्रमाणविषय एव न भवतीति निराकरोति—वेदवाक्यैरिति । न च दृष्टसाधनत्वस्य प्रमाणान्तराविषयत्वेऽपि तद्धेतुभूतयोः साध्वसाधुत्वयोः प्रमाणान्तरावगतयोर्वेदेनादृष्टसाधनत्वबोधो भविष्यतीत्याशङ्क्याह— प्रत्यक्षेण तावदिति । उपमानस्य सादृश्यमात्रविषयत्वेनानाशङ्कनीयत्वादर्थप्रत्ययान्यथानु- पपत्तेश्चार्थापत्त्या सर्वेषां वाचकत्वप्रतीतेर्व्यवस्थापकत्वस्य दूरनिरस्तत्वादनिराकरणम् । ननु प्रमाणान्तरासम्भवेऽपि वेदवाक्यं साधुत्वासाधुत्वाग्राहकं भविष्यतीत्याशङ्क्याह— वेदेति । साध्वसाधुत्वयोः शब्दान्तरजातिरूपत्वे वस्तुस्वरूपान्वाख्यानपरमेते साधवस्त्वन्य इत्येवं रूपं वाक्यं कल्प्यम् । धर्मान्तरत्वे साधुत्वगुणान्वाख्यानपरम् । असाधुत्वदोषान्वाख्या- नपरं तस्य च पुरुषार्थानुबन्धित्वाभावेनानर्थक्यापत्तेरध्ययनविधीनां तात्पर्यानवधारणा- त्प्रामाण्यं न युक्तमित्याशयः । आत्मस्वरूपप्रतिपादकानां तूपासनादिविध्यपेक्षितार्थामिधा नात्सरस्वतीविनशनादिना वाक्यानां सारस्वतसत्रादिकर्म्मविधेयोपयिकत्वानामानर्थक्या- पत्तिरिति वैषम्यसूचनार्थम्—विधीत्युक्तम् । अस्तु तर्हि विधिनिषेधरूपमेव वाक्यं साध्व- साधुत्वप्रतिपादकमित्याशङ्क्याह—न वेति । ननु माभूत्स्वरूपेण विधिनिषेधविषयत्वं ‘साधुभिरभिदध्यादसाधुर्मिन’ इत्यभिधानकरणत्वेन तु भविष्यतीत्याशङ्कते—अभिधेति । गोशब्देनाभिदध्यादश्वशब्देनाभिदध्यात्, गावीशब्देनाभिदध्यात्, न गोणीशब्देनाभिदध्यादि- त्यादिस्वरूपा प्रत्येकं वा विधिनिषेधा कल्प्यन्ते, ‘साधुरभिरभिदध्यादसाधुर्मिर्नेति द्वावेव वा । तत्रानन्त्यापत्तेराद्यं पक्षं तावद् दूषयति—नेति । कथं कल्पनानुपपत्तिरित्यपेक्षायां व्याकरणस्मृतिमूलत्वेन कल्प्यत्वादनन्तानां चाध्येतुमशक्यत्वादनुपपत्तिरित्याह—यो हीति । यो हि व्याकरणप्रणेता तद्गुणतया य एव पदानां प्रतिपत्तौ प्रतिपदं पाठ इति महाभाष्य- कारोक्तन्यायेन साधूनां प्रतिपदं पाठान्नाद्यव्यवस्यतीत्यर्थः । स एकैकस्य शब्दस्य गावीगोण्या- द्यनेकापशब्ददर्शनात्तेषां विशेषमाह—अपशब्दाश्चेति । कलञ्जादिवदिति वैधम्र्यदृष्टान्तं विवृणोति—व्रीह्यादीनि हीति । कलञ्जादिग्रहणेन तुल्यन्यायतया व्रीह्यादीनां विधेयत्व- सम्भवसूचनार्थं व्रीह्यादिग्रहणम् । अनन्तरोक्तव्यतिरेकमुखेन द्वितीयपक्षं निराकरोति— न त्विति । सर्वानुगतैकधर्म्ममात्रोपलक्षणार्थो जातिशब्दः । तत्र एकोपलक्षणत्वाभावेनैकविधिनिषेधविषयत्वासम्भवमुपादयति—न तावदिति । अयमाशयः—न तावच्छब्दत्वातिरिक्ता सर्वसाधुशब्दानुयायिन्यसाधुभ्यो व्यावृत्ता विलक्षण- काकारप्रत्ययवेद्यासाधुत्वजातिसाधुत्वजातिर्वा साधुशब्दानुगता साधुभ्यो व्यावृत्तोपलभ्यते, न वा अन्योऽपि कश्चिद्धर्म्मः साध्वसाधुशब्दाभिधेयः सम्भवति तथा हि न तावच्छब्दव्यति-
२४ ] प्रथमाध्याये तृतीयपादः ५३५ रिक्तस्येन्द्रियलिङ्गादेः शब्दस्यापि वा वक्तृज्ञानविवक्षाविषयप्रत्यायकत्वं साधुत्वं कस्य- चिदिष्टम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वम्, गाव्यादिशब्देष्वव्याप्तेः । न च शब्दस्य शक्त्यार्थप्रतिपादकत्वं साधुत्वं गङ्गायां घोषोऽग्निर्मांणवक इत्यादौ गङ्गाग्निशब्दयोस्तीरमाण- वकादिषु शक्त्यभावेऽपि तत्र साधुत्वप्रसिद्धार्थान्तरविषयशक्त्या अर्थान्तरविषयसाधुत्वाभ्युपगमे गोणीशब्दस्याप्यावपनविषयशक्तिसद्भावात् सास्नादिमति साधुत्वापत्तिः । देवदत्तादिशब्दानां च संस्कृतेनार्थप्रतिपादनम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वम्, गाव्यादिशब्देष्व- व्याप्तेः । न च शब्दस्य शक्त्या अर्थप्रतिपादकानां शक्त्यभावादसाधुत्वापत्तिः । स्नुषादि- शब्दानां पुत्रभार्यादिवाचिता पुत्राद्यनभिधाय तद्विशिष्टभार्याद्यभिधानशक्तेः पुत्रादौ शक्ति- सद्भावादसाधुत्वापत्तिः । अर्थविषयानादिप्रयोगत्वे तु साधुत्वलक्षणे गाव्यादिशब्दानामपि सास्नादिमदर्थविषयप्रयोगावध्यस्मरणानादित्वावगमात्साधुत्वमशक्यं निराकर्त्तुम्, स्वाभा- विकार्थपरत्वमपि प्रतीतिप्रयोगाविशेषाद् गवादिशब्दवद्गाव्यादिशब्देष्वपि तुल्यम् । लक्षणानु- गमोऽपि च सिद्धेऽनयानर्थक्यमाशङ्क्य चम्पतीत्यादिशब्देषु वृद्धप्रयुक्तत्वेनासाधुतयाऽभि- मतेषु भावान्न साधुत्वलक्षणमिति न कथंचित् साधुत्वं निरूपयितुं शक्यम् अनेनैव मार्गेणासाधुत्वमपि निराकार्यमिति । एतदेव विवृणोति—अविभक्ता हीति । अतश्चैको- पलक्षणाभावात्सामान्यरूपेण साध्वसाधूनां विधिनिषेधविषयत्वानुपपत्तेः । व्यक्तिरूपेण विधिनिषेधविषयत्वानुपपत्तेः । पूर्वोक्तमेव विधिनिषेधानन्त्यप्राप्तमित्युपसंहरति — तेनेति । ननूपलक्षणान्तरासम्भवेऽपि स्वाभाविकार्थपरत्वलक्षणसाधुत्वतद्विपर्ययलक्षणासाधुत्वोपल- क्षणयोगेन विधिनिषेधविषयत्वं भविष्यतीत्याशङ्क्याह — न चेति । अर्थप्रत्यायनोद्देशेन सर्वेषां प्रयोगदर्शनेनार्थप्रत्यायनार्थत्वावसायादर्थप्रत्यायनार्थत्वलक्षणस्य वाचकत्वस्या- व्यावर्तकत्वाद्विपर्ययलक्षणस्य वा वाचकत्वस्यासत्त्वान्नोपलक्षणत्वं सम्भवतीत्याशयः । ननु गाव्यादिशब्दाव्यावर्त्तकत्वेऽपि प्रसिद्धावाचकत्वाद्भैर्यादिशब्दव्यावर्त्तकत्वाद्ववाच- कत्वस्य विधेयशब्दोपलक्षणत्वोपपत्तेरवाचकत्वस्य निषेध्यभैर्यादिशब्दोपलक्षणतोपपत्तेस्तन्नि- बन्धनौ विधिनिषेधौ भविष्यत इत्याशङ्क्याह—वाचकैरिति । प्राप्ताप्राप्ततया विधिनिषेध- विषयत्वाभावे दृष्टान्तमाह—न हीति । द्रवद्रव्यमात्रोपलक्षणार्थमुदकग्रहणम् । ननु विधिनिषेधरूपश्रुतिमूलानपेक्षव्याकरणपरम्परामात्रेण साध्वसाधुविवेकसिद्धे विधि- निषेधनिराकरणमनर्थकं मूलश्रुत्यपेक्षायामपि वा साध्वनुशासनात्मकत्वेन व्याकरणस्य साधुविधिमात्रापेक्षत्वादसाधुनिषेधनिराकरणमनर्थकमित्याशङ्क्याह—अवश्यं चेति । निर्मूलत्वे अन्धपरम्परा न्यायापत्तेर्न साध्वसाधुविवेकसिद्धिरित्याशयः । साधुविधानेन, असाधुवर्जनसिद्धेर साधुनिषेधेन वा साधुप्रयोगसिद्धेरुभयानर्थक्यमाशङ्क्य--संयोगेत्युक्तम् । विधेयेष्टसंयोगो विधेः फलम्, निषेध्यानिष्टसंयोगो निषेधस्येत्यर्थः । ननु उपलक्षणमूलत्वे निषेधमूलसाध्वनुशासनं न युक्तमित्याशङ्क्याह—त्रिष्वपि चेति । साधूनामसाधुभ्योऽल्प- त्वाद्व्यवस्थितत्वाच्च सौकर्यम् । एतदेव विवृणोति—यदीति । यथा पञ्चनखानाम्मध्ये पञ्चैव शशादयो भक्ष्या इति नियमे कृते, ततोऽन्येषां श्वादीनामभक्ष्यत्वं गम्यते । तथा
५३६ मीमांसादर्शनम् [ सू०
गवादय एव साधव इति नियमे कृते अन्येषामसाधुत्वावगतिरित्यर्थः । एतदेवोपसंहरति— स एष इति । प्रासङ्गिकं व्याकरणस्य त्रिविधश्रुतिमूलत्वेऽपि साध्वनुशासनमात्रात्मकत्वस- म्भवमुपसंहृत्य प्रकृतं मूलश्रुत्यनुमानासम्भवमुपसंहरति—नन्विति । मूलासम्भवमेव द्रढयितुं व्यवस्थापकोपपदासम्भवं पूर्वाधिकरणोक्तमत्रापि योजयन्नाह—इदङ्गीति । एवमेकोपलक्षणासम्भवेन विधिनिषेधासम्भवमुक्त्वा, विधिविषयासम्भवादपि विध्य- सम्भवमाह—अथ प्राप्तश्चेति । अनेन च शब्दप्रयोगस्य लोकव्यवहारार्थत्वेनैवोत्पत्तेः सिद्धेरशास्त्रविषयत्वादित्येतत्सूत्रावयवो व्याख्यातः । नन्वत्र महावार्त्तिककारेण सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्म्मन्नियमो यथा लौकिकवैदिकेष्विति व्यवहारलक्षणेनैवार्थेन साध्वसाधुशब्दप्रयोगे आक्षिप्ते धर्म्मार्थं शास्त्रेण साधुनियमः क्रियते । यथा लोके क्षुत्प्रतीघातार्थे प्राप्ते भक्षणे भक्ष्याभक्ष्यनियमो वेदे वा पयोव्रतं ब्राह्मणस्येत्यादिवदिति नियम इति वदता समाधान- मुक्तमित्याशङ्कते--अथेति । धर्म्मजिज्ञासाप्रकृतत्वेन धर्म्मस्य नियम इति । षष्ठीविग्रहेऽपि सम्बन्धमात्रोत्पन्नायाः षष्ठ्यास्तादर्थ्यलक्षणविशेषनिष्ठत्वसन्दर्शनार्थं धर्मयेति चतुर्थ्यानिर्देशः । साधूनां नियमविषयत्वासम्भवेनैतन्निराकरोति—तदिति । नित्यप्राप्तस्य नियम- विषयत्वासम्भवे हेतुमाह—यस्य हीति । ननु गाव्यादिभ्योऽप्यर्थप्रत्ययसिद्धेस्तत्प्रसक्तौ गवादिशब्दस्य पाक्षिकत्वापत्तेर्गव्यादिनिवृत्त्यर्थो नियमो भविष्यतीत्याशङ्क्याह— यस्यापीति । गाव्यादिशब्दानां साध्वसाधुत्वपक्षद्वयेऽपि व्यावत्र्यत्वायोगादित्यशयः । एतदेवोपपादयितुं विकल्पयति कीदृशश्चेति । उभयत्र दोषमाह—यदीति । न च साधूनामप्यर्थप्रत्ययहेतुत्वादस्तिप्रसक्तिरित्याशङ्कयाह—यदि हीति । शब्दव्यापारसाध्यमर्थ- प्रतिपादनं भाषणम् । नार्थप्रतिपादनमात्रं शब्दस्य च मुख्यार्थे साक्षाद्व्यापारो गौणलाक्षणिकयोस्त्वभिधेयसाहचर्याविनाभावद्वारा । गाव्यादीनां तु कथञ्चिद्व्यापाराल्लाभान्न शब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे हेतुतास्तीत्याशयः । ननु साधूच्चारणायैव प्रवृत्तस्य प्रमादेन अशक्त्या वा प्रसज्यमानस्यासाधोर्निवृत्त्यर्थो नियमो भविष्यतीत्याशङ्कते—अथेति । प्रमादाशक्तिजानां दोषाणां परिहर्त्तुमशक्यत्वात्तन्नि- वारणमनर्थकमिति परिहरति—तदसदेति । नन्वव्यग्राणां शक्तानामपि च गाव्यादिशब्द- प्रयोगदर्शनादप्रयुक्ताभिधानमयुक्तमित्याशङ्कते—दृष्ट इति । मत्पक्षे गाव्यादिशब्दानामप्यर्थ- प्रतिपादने व्यापारसद्भावायुक्ता प्रसक्तिः । त्वत्पक्षे तु तेषां कथंचिद्व्यापाराभावान्न तावच्छब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे प्रसक्तिः । यथा कथंचिदर्थप्रतिपादने तु प्रसक्तस्य गाव्यादेर्निवृत्त्यर्थं नियमाभ्युपगमे अक्षिनिकोचादेरपि प्रसक्तेः, तन्निवृत्त्यर्थो नियमः कल्प्यः, ततश्च शब्दव्यतिरिक्तसर्वप्रमाणोच्छेदः स्यादित्यभिप्रायेण परिहरति— उच्यत इति । निवृत्त्यर्थत्वे च नियमत्वं व्याहन्येतेत्याह—न चेति । साध्वसाध्वोश्च द्वयोर्नित्यप्राप्त्यभावात्परिसंख्या युक्तेत्याह—नियमेति । 'किं चादृष्टार्थस्य यागादीष्टसिद्धयर्थं
२४ ] प्रथमाध्याये तृतीयपादः ५३७ पुरोडाशादिद्रव्यनियमः, तत्प्रकृतित्वादिनियमः । तदपेक्षितावघाताद्युपायनियमश्च युक्तः । शब्दप्रयोगस्य तु परप्रतिपत्त्यर्थत्वेन दृष्टार्थत्वाच्च तत्साधनसाधुनियमो युक्त इत्याह-न चेति । नन्वेकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवतीति शब्दप्रयोगस्य स्वर्गसाधनत्वावगमात्तदन्यथानुपपत्तिरस्त्येवापूर्वकल्पनायां प्रमाणमित्या- शङ्कयाह-परार्थत्वाच्चेति । ननु यथा दृष्टार्थस्यापि भोजनादेः 'आयुष्यं प्राङ्मुखो भुङ्क्त इत्यदृष्टार्थः' प्राङ्मुखत्व नियमः तथा दृष्टार्थस्यापि शब्दप्रयोगस्यादृष्टार्थः साधुनियमो भविष्यतीत्याशङ्कयाह- न चेदमिति । शब्दादीनां विषयाणां गोचरे समुदाये तन्मध्य इत्यर्थः । शब्दस्य तावन्नियम- जन्यादृष्टाश्रयत्वस्य सम्भवमुपपादयति-शब्दस्येति । कर्तृत्वेन परार्थस्यापि स्वर्गकामादेः कर्म्मफलभोक्तृत्वेन प्राधान्यस्यापि भावेनापूर्वाश्रयत्वदर्शनात्तद्वैषम्यप्रदर्शनार्थम्- अत्यन्तग्रहणम् । यत्पुनः परार्थस्याप्याहवनीयोद्देशसम्मार्गादिजन्यापूर्वाश्रयत्वप्रदर्शनात्- दृष्टार्थग्रहणम् । नन्वर्थस्य भाषणं प्रति प्राधान्यादपूर्वाश्रयत्वं भविष्यतीत्याशङ्कयाह-सत्यपि चेति । क्रत्वङ्गभूतानामप्यर्थानामर्थाक्षिप्तस्याभिधानस्यापि वैधत्वेन केवलदृष्टार्थत्वान्नापूर्वेणो- पयोगः इत्याशयः । ननु श्रोतुरुनुष्ठेयादृष्टार्थक्रियाफलभोक्तृत्वयोग्यताधानायाऽपूर्वपेक्षणात्तदाश्रयत्वं भविष्य- तीत्याशङ्कयाह-श्रोतुः पुनरिति । शब्दार्थविषययोस्तु श्रोतृबुद्ध्योः क्षणिकत्वान्नापूर्वा- श्रयत्वशङ्केत्याह-बुद्ध्योश्चेति । वक्तुरपि बुद्धिवद्गुणभूतत्वान्नापूर्वाश्रयतेत्याह-वक्त्रेति । ननु कामधुक्शब्देन शब्दप्रयोगस्य फलसाधनत्वावगमात्प्रयोक्तुः फलभाक्त्वात्प्राधान्यं भविष्यतीत्याशङ्कयाह-नेति । स्वर्गकामादिशब्दात्काम्योपयिकत्वावगतेस्तदनुरोधेन क्रिया- फलभाक्त्वावगतिः । इह तु साधुशब्दप्रयोगस्य फलसाधनत्वमात्रं प्रतीयते । तच्चार्थवाद- मात्रत्वेनोपपत्तेर्न प्रयोक्तुः फलभाक्त्वमाक्षिपतीत्याशयः । यदि वात्र वक्तुः कामधुगिति षष्ठी स्यात्, ततः सप्तदशवैश्यस्येत्यादिवत् षष्ठ्युक्तसम्बन्धसामान्यस्यापेक्षावशात्स्व- स्वामिलक्षणविशेषरूपत्वप्रतीतेः प्राधान्यं स्यात् त्वसावस्तीत्याह-न चेति । ननु यथा कमिपादाद्यभावेऽपि प्राङ्मुखोऽन्नानि भुञ्जीतेत्याख्याताक्षिप्तस्य भोक्तुर्गुणभूतस्य दिङ्नियमपूर्वाश्रयत्वम्, तथात्रापि साधुशब्दप्रयोगाक्षिप्तस्य प्रयोक्तुः साधुनियमपूर्वा- श्रयत्वं भविष्यतीत्याशङ्कयाह-यत्त्विति । कमिपादाद्यभावेऽपि भोजनं प्रति भोक्तुर्लोकादेव प्राधान्यावगतेरपूर्वाश्रयत्वं युक्तमिति भावः । अपूर्वाश्रयत्वमुच्चारणस्यानाशङ्क्यमेवेत्याह-स्वरूपेण पुनरिति । अतो विषयाभावाद व्यवस्थाभावाददृष्टार्थत्वाभावाच्च नियमानुपपत्तेस्साधुनियमार्थस्य व्याकरणस्य वेदमूलत्वा- योगाच्छास्त्रेण धर्म्मनियम इति यन्महावार्त्तिककारेणोक्तम् तद्युक्तमित्युपसंहरति-एवं चेति । अनेन च साधुशब्दप्रयोगाणामुत्पत्तिरस्मादिति व्युत्पत्त्या व्याकरणं प्रयोगोत्पत्ति- शब्देनाभिप्रेत्य तस्याः शास्त्रमूलत्वाच्छन्दव्यवस्थानियमो न प्रयोजनमिति सूत्रं योजितम् । ननु स्वयमेवैतस्य वेदवच्छास्त्रत्वं भविष्यतीत्याशङ्कयाह-न चेति । अत्रापि प्रयोगोत्पत्ते-
सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः ।
व्याकरणस्य शास्त्रत्वाभावादिति योज्यम्, साधितं चास्य स्वातन्त्र्यं कल्पसूत्राधिकरणे इत्याह—तदुक्तमिति । एतदेव विवृणोति—न हीति । यद्वा पौरुषेयत्वात् व्याकरणस्य वक्त्रभिप्रायमात्रपर्यवसानेनार्थपरत्वाभावात्साधुप्रयोग- नियमं प्रत्यशास्त्रत्वादिति षष्ठेन प्रकारेण योज्यमित्याह—सर्वत्र हीति । स्मृतिशास्त्रान्तर- सम्वादाभावादिति सप्तमीं योजनामाह—न चेति । एतदेव विवृणोति—प्रायेणेति । अस्तु तावत्स्मृत्यन्तरेणासम्वादः । परस्परमपि व्याख्येयव्याख्यानग्रन्थानां न सम्वादोऽस्तीत्याह—परस्परेण चेति । सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः । कीदृशं विगानमित्यपेक्षायां निःप्रयोजनं व्याकरणं सूत्रकृतोऽभिप्रेतम् । साधुशब्दप्रयोगद्वारेण धर्मप्रयोजनत्वं वार्तिककृता साधुशब्दज्ञानद्वारेण भाष्यकारस्येति विगानं दर्शयितुमाह—न तावदिति । तेन तस्य प्रयोजनाभावाभिप्रायो लक्ष्यत इति भावः । ननु विस्मृत्याप्य- नुक्त्युपपत्तेः, कथं प्रयोजनाभावाभिप्रायो लक्ष्यत इत्याशङ्क्याह—कथं चेति । एतावत्त्वेन बह्वायासात्वमभिप्रेतम् । एतदेव विवृणोति—येष्विति । मोक्षाणामिति निर्धारणे षष्ठी । न चानादरेणानुक्त्युप- पत्तिरित्याह—न चेति । सुज्ञानत्वेनापि नोपपत्तिरित्याह—सुज्ञानत्वं पुनरिति । यद्यपि वार्तिककृता शास्त्रेण धर्म्मनियम इति धर्म्मप्रयोजनत्वं व्याकरणस्योक्तम् । तद्ब्याकरणे धर्म्मस्याप्रतिपाद्यमानत्वादयुक्तमित्याह—धर्म्मश्चेति । ननु न साक्षाद् धर्म्मप्रयोजनत्वं व्याकरणस्याभिप्रेतम्, किं तु तदनुगतशब्दप्रयोगद्वारेण, ज्ञानद्वारेण वेत्याशङ्क्याह-धर्म्मत्व- मिति । एतदेव विवृणोति—शास्त्रार्थो हीति । किं पुनः शब्दस्य ज्ञाने धर्मः, आहो- स्वित्प्रयोग इति सन्दिग्धो वार्त्तिककृता ज्ञाने धर्मं इति चेत्तथाधर्म्म इत्यनेन साध्वसाधु- विवेककारिणो व्याकरणवत्साधुत्वज्ञानेऽर्थान्तरोपलक्षणरहितानामसाधुत्वाज्ञानापत्तेः, तस्य च न म्लेच्छभाषां शिक्षेतेत्यादिनिषेधपर्यालोचनेनाधर्म्मसाधनत्वाधर्म्मसाधनत्वावसायाद- धर्म्मः प्रसज्येतेत्युक्त्वा प्रयोगे र्तहि धर्म्मो भविष्यतीत्याशङ्क्य तस्मिन्पक्षे व्याकरणानभि- ज्ञानामपि साधुशब्दप्रयोगात् धर्म्मोत्पत्तेर्व्याकरणानानर्थक्यमिति, प्रयोगे सर्वलोकस्येत्य- नेनोक्त्वा दोषद्वयमयाच्छास्त्रपूर्वकं प्रयोगेऽभ्युदयः, तस्य च वेदशब्देनेत्यनेन व्याकरण- जनितज्ञानपूर्वकसाधुशब्दप्रयोगो धर्म्मसाधनम्, यथा वेदशब्दपूर्वोऽग्निष्टोमादिजनित- ज्ञानपूर्वकमनुष्ठितो धर्म्मसाधनम् । यथा वा वेदरूपः शब्दो नियमपूर्वमधीतो धर्म्मसाधन- मित्युकतं भाष्यकृता । तत्सर्वं व्याख्याया, अथ वा 'पुनरस्तु ज्ञाने धर्मं' इत्युक्तम् । न चैवमव्यवस्थितशास्त्रार्थावधारणं युक्तमित्यर्थः । ननु सम्यग् ज्ञातः सुप्रयुक्त इत्युभयोर्ज्ञानप्रयोगयोरेकवाक्योपादानात्समुच्चितयोर्धर्म्मत्वं भविष्यतीत्याशङ्क्याह-सम्बद्धयोश्चेति । एकवाक्योपपत्तयोरप्याख्याते नामाथंयोः समुच्चयः, प्रतिपदमपूर्वाणि एकपदे एवापूर्वमित्याधिकरणं यदेकस्मादपूर्वं तदेतरत्तदर्थमित्येतदित्यर्थः प्रतिपदाधिकरणे निराकरिष्यत इत्याशयः । सामान्यन्यायमुक्त्वा प्रकृते योजयति—
२४ ] प्रथमाध्याये तृतीयपादः ५३९ तद्विहेति । एकस्मिन्वाक्ये साधनद्वयविध्ययोगात्सति ज्ञाने साधुशब्दप्रयोगोऽप्यनुषङ्गान्निष्पद्यत इत्येवं ज्ञानस्तुत्यर्थत्वेन सुप्रयुक्तस्तु शब्दो ज्ञानस्य धर्मसाधनत्वपक्षे व्याख्येयः । प्रयोग- पक्षे तु ज्ञातमात्रोऽपि साधुशब्दः स्वर्गं साधयति, किमुत प्रयुक्त इति प्रयोगस्तुत्यर्थत्वेन सम्यग्ज्ञानशब्दो व्याख्येयः । ततश्च ज्ञानधर्मत्वे, प्रयोगस्य धर्मत्वायोगात् लोकसिद्धस्यैव ज्ञानानुनिष्पादितत्वेन सत्यामपि व्याकरणादुपकारनिवृत्तौ व्याकरणं प्रति प्रयोजकत्वाभावान्न भवदभिप्रेतद्वारेण व्याकरणस्य धर्मप्रयोजनत्वं युक्तम् । प्रयोगस्य तु धर्मत्वे यदेकस्मादपूर्वं तदेतरत्तदर्थमितिन्यायेन ज्ञानस्य प्रयोगाङ्गत्वेन पारार्थ्यज्ञानात्फलश्रुतेः सुप्रयुक्त इति- वत्सम्यग्ज्ञान इत्यनेनाप्यन्वये कल्प्यमानेऽर्थवादत्वावसायेन ज्ञानस्य धर्मत्वायोगात्तद्- द्वारेणापि व्याकरणस्य धर्मप्रयोजनत्वं न युक्तमित्यर्थः । आदिमध्याद्व्याकरणानुगतशब्द- प्रयोगस्यानादिशास्त्रविषयत्वाभावादित्यष्टमी योजनामाह किं चेति । व्याकरणपूर्वकज्ञान- प्रयोगयोरित्यर्थः । एतदेव विवृणोति - यन्नामेति । मन्त्रार्थवादगतस्यानित्यसंयोगस्य परिहारो यो न्यायो अनित्यसंयोगविरोधरूपः तेनेत्यर्थः । न च व्याकरणस्यापि नित्यत्वं शङ्कनीयमित्याह - न चेति । ननु व्याकरणस्य कूटस्थनित्यत्वाभावेऽपि, प्रवाहनित्य- त्वाद्वैदिकविधिविषयत्वं भविष्यतीत्याशङ्क्याह - अथापीति । उक्तमौत्पत्तिकसूत्रेऽध्येतॄणाम- स्मरणादिभिश्चशब्दपूर्वत्वमिति वेदाधिकरणसिद्धान्तसूत्रोक्तेन न्यायेन सर्वपुरुषेभ्यो वेदस्य प्राथम्यान्न पौरुषेयग्रन्थविषयत्वं युक्तमित्यर्थः । ननु व्याकरणत्वजातेः कूटस्थनित्यत्वाद्वेद- विषयत्वं भविष्यतीत्यत आह - न चेति । ननु व्याकरणस्य सूत्रमिति षष्ठ्यर्थस्य भेदं विनानुपपत्तेः सूत्रमात्राच्छब्दाप्रतिपत्तेः, व्याकरणाच्छब्दान्प्रतिपद्यामह इति प्रयोगानुपपत्तेः । न सूत्रस्य व्याकरणत्वं युक्तं 'नापि शब्दस्य' व्याक्रियन्ते शब्दा अनेनेति व्याकरणमिति ल्युडर्थानुपपत्तेर्योगस्य च शब्दवत्त्वा- भावाद् व्याकरणे भवो योगो वैयाकरण इति भवतद्धितानुपपत्तेः । शब्दस्य च पाणिन्या- दिभिरप्रोक्तत्वेन पाणिनिना प्रोक्तं पाणिनीयमिति प्रोक्ततद्धितानुपपत्तेरिति वार्तिककारेण व्याकरणशब्दस्य सूत्रपरत्वशब्दपरत्वरूपे पक्षद्वये इत्यर्थः । पक्षद्वयेऽपि दूषिते भाष्यकारेण शब्दपक्षे तावद् दोषपरिहारार्थं प्रस्कन्दनं प्रपतनमित्यपादानादिष्वपि दर्शनेन, करणाधि- करणयोरेव ल्युट्प्रत्ययनियमाभावाद्, व्याक्रियत इति व्याकरणमिति कर्मव्युत्पत्त्या ल्युडर्थोपपत्तिमुक्त्वा भवप्रोक्तादितद्धितोपपत्त्यर्थं लक्ष्यलक्षणे व्याकरणमिति लक्ष्यलक्षणयोः शब्दसूत्रयोः समुदायिनोर्व्याकरणत्वाभिधानात्सूत्रात्मकस्य व्याकरणस्य कृत्रिमत्वेऽपि शब्दात्मकस्य नित्यत्वाद्वेदविषयत्वं युक्तमित्याशङ्कते-अथेति । लक्षणनिरपेक्षाणां शब्दा- नामानानन्त्याद्विधिविषयत्वानुपपत्तिं तु गवादिगाव्यादीनां जातिरूपेण, व्यक्तिरूपेण वा विधिप्रतिषेधौ उपपद्येते इत्यादिनोक्तेन परिहरति - तदिति । ननु यथा यदितिहासपुराणानि कल्पानीति ब्रह्मयज्ञविधिविषयत्वान्यथानुपपत्त्या कल्पसूत्राणां कर्तृस्मृतिदार्ढ्यात्कूटस्थनित्यत्वाभावेऽपि प्रवाहनित्यत्वमुक्तम्, तथात्रापि 'तस्मादेषा व्याकृता वागुद्यत' इति व्याकरणानुगताया अर्थवाचो वदितव्यत्वश्रुतेर्व्या-