मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ४ अ. २ पान ३
गणाधीश उवाच व्रतमातरम् ॥५१॥ गणेश उवाच । वरं वृणु महाभागे यं यमिच्छसि शोभने । तं तं दास्यामि सुप्रीतो
भक्त्या स्तोत्रेण तोषितः ॥५२॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठेच्छृणुयाद्देवि ईप्सितं लभते नरः ॥५३॥
एककालं द्विकालं वा त्रिकालं लभते सदा । अव्रती व्रतसाफल्यं पठनान्नात्र संशयः ॥५४॥ ब्रुवंतं गणनांथं सोवाच गंभीर-
निःस्वना । देवी प्रणम्य भावेन साश्रुनेत्रा प्रजापते ॥५५॥ देव्युवाच । वरदोऽसि गणाधीश तदा देहि त्वयि स्थिराम् । भक्तिं
मे च तथा कार्ये सामर्थ्यं करुणानिधे ॥५६॥ सृष्टिसर्जनसामर्थ्यं देहि नाथ नमोऽस्तु ते । सदा तव प्रियत्वं मे वियोगो
न च ते भवेत् ॥५७॥ ओमित्युक्त्वा गणाधीशो जगाद वदतां वरः । चतुर्विधप्रदा देवि प्रिया मम भविष्यसि ॥५८॥
तिथीनां मातृभावेन चतुर्थी संज्ञिता भव । वामभागे सदा कृष्णा शुक्ला दक्षिणभागके ॥५९॥ मम जन्मतिथिस्त्वं वै
भविष्यसि न संशयः । सदा तव व्रते संस्थाम् पाल्यामि विशेषतः ॥६०॥ मदीयव्रतजा पुण्या तिथिस्त्वं च भविष्यसि । व्रतेषु
त्वत्समं नैव दायकं कुत्र वर्तते ॥६१॥ एवमुक्त्वा गणेशानोऽन्तर्धानं प्रचकार ह । व्रतमाता प्रजानाथाऽभवत्तत्रैव संस्थिता ॥६२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चतुर्थी तपोवर्णनं नाम प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो देवी गणाध्यक्षं स्मृत्वा स्रष्टुं मनो दधे । ततोऽकस्माद् द्विधा साऽभूद्वामदक्षिणभागतः
॥१॥ वामभागं कृष्णवर्णं दक्षिणांगं तथा बभौ । शुक्लवर्णं महाभाग ततः सा विस्मिताऽभवत् ॥२॥ पुनर्गणपतिं ध्यात्वा
स्रष्टुं तत्रोपचक्रमे । ततस्तस्या मुखांभोजात् प्रतिपन्निःसृता तिथिः ॥३॥ नासिकायां द्वितीया वै वक्षसश्च तृतीयिका ।
अंगुलीभ्यस्तथा दक्ष पंचमी चाभवत्तिथिः ॥४॥ उत्पन्ना हृदयात् षष्ठी चक्षुषोः सप्तमी बभौ । अष्टमी बाहुदेशाच्च समुत्पन्ना
महातिथिः ॥५॥ नवमी तिथिरुत्पन्ना उदराच्च प्रजापते । दशमी कर्णदेशाद्वै कंठाच्चैकादशी मता ॥६॥ द्वादशी पादयो-
स्तस्याः समुत्पन्ना तथा विभो । स्तनात् त्रयोदशी तस्या अहंकाराच्चतुर्दशी ॥७॥ मनसः पूर्णिमा जाता अमावास्या तथा-
ऽभवत् । जिह्वायाः सर्वभावेन तिथयो भिन्नतां दधुः ॥८॥ कृष्णा चतुर्थी प्रोक्ता या तस्याः कृष्णाः प्रकीर्तिताः । तिथयो
दशपंचाख्या ज्ञातव्या विबुधैः किल ॥९॥ शुक्लाः शुक्लचतुर्थी देहाच्चतुर्दश वै मताः । तिथयो विधिवत् सर्वा बभुः
स्वस्वगुणान्विताः ॥१०॥ दिनांशाः पुरुषा जाता रात्रयः स्त्रीस्वरूपकाः । स्वस्वभावविहारज्ञा बभूवुश्च हिते रताः ॥११॥
तिथिभिः सहिता देवी चतुर्थी तपसि स्थिता । गणेशमभजन्नित्यं मंत्रध्यानपरायणा ॥१२॥ वर्षेणैकेन विघ्नेशस्तां ययौ
भक्तवत्सलः । शुक्लां मध्याह्नसमये कृष्णां चंद्रोदये तथा ॥१३॥ वरं ब्रूहि गणेशानस्तामुवाच विशेषतः। प्रणम्य विघ्नपं
पूजयित्वा स्तुत्वा जगाद सा ॥१४॥ चतुर्थ्युवाच । त्वदेकनिलयां देव मां कुरुष्व गजानन । नान्यं याचे वरं स्वामिन् भक्ति-
मिच्छामि शाश्वतीम् ॥१५॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । प्राप्तं चतुर्थि मध्याह्ने मदीयं दर्शनं त्वया ॥१६॥
अतो मध्याह्नकालेऽन्ये मां भजंते शिवादयः । चतुर्थ्यां शुक्लपक्षस्य स्थितायां सर्वदा जनाः ॥१७॥ मदीयव्रतमुख्यत्वे
भव त्वं सर्वभावतः । निराहारेण मां तत्र त्वद्युक्तं पर्युपासते ॥१८॥ चतुर्विधं प्रदास्यामि नानाभावनियंत्रितम् । संचितं
नास्ति चेद्देवि तथाप्यत्र न संशयः ॥१९॥ संचितं चास्ति चेद्वापि ददासि त्वं महामते । अतस्ते नाम विख्यातं वरदेति
भविष्यति ॥२०॥ त्वां पूजयंति ये नैव मद्युक्तां व्रतभावतः । तेषां व्रतानि सर्वाणि निष्फलानि भवंतु वै ॥२१॥ एवमुक्त्वाँ-
ऽतर्दधेऽसौ गणेशो देवनायकः । तदादि सा तिथिः ख्याता वरदा च प्रजापते ॥२२॥ गणेशस्य प्रियाऽत्यंतमिति जन्मतिथिः
स्मृता । तस्यामुपोषणं कार्यं नरैरात्महितेप्सुभिः ॥२३॥ पंचम्यां पारणं दक्ष कर्तव्यं द्विजसाक्षिकम् । चतुर्विधं फलं तैश्च
संप्राप्तं नात्र संशयः ॥२४॥ यद्यदिच्छति तत्तत् स लभते व्रतकारकः । अंते स्वानंदगो भूत्वा सायुज्यं ब्रह्मणस्तथा ॥२५॥
तत्र व्रते नराः पापा अन्नं भक्षंति चेत् प्रियम् । नारकास्ते भविष्यंति हीना अन्नैः पुनर्ज नौ ॥२६॥ एवं वरं चतुर्थ्यै स ददौ
विघ्नविदारणः । सा तिथिः सर्वमान्या च बभूव व्रतमूलगा ॥२७॥ ततः कृष्णां चतुर्थी स जगाद गणनायकः । वरं वृणु
महाभागे दास्यामि मनसीप्सितम् ॥२८॥ श्रुत्वा सा तं प्रणम्याऽऽदौ पूजयित्वा गजाननम् । स्तुत्वा जगाद वाक्यं वै हर्षेण
महता युता ॥२९॥ कृष्णचतुर्थ्युवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा भक्तिं दृढां देहि त्वदीयां मे महोदर
॥३०॥ त्वत्प्रियत्वं सदा नाथ वियोगो न भवेच्च मे । सर्वमान्यां कुरुष्व त्वदेकनिष्ठस्वभावतः ॥३१॥ तस्यास्तद्वचनं श्रुत्वा
तां जगाद गजाननः । सदा मम प्रियाऽत्यंतं भविष्यसि महातिथे ॥३२॥ चंद्रोदये त्वयाऽहं वै प्राप्तस्तेन चतुर्थिके । तत्
काले च व्रतं मुख्यं त्वद्युक्तं भवतु प्रियम् ॥३३॥ न वियोगो भवेद्भक्ताः प्रियेऽन्नजलवर्जिताः । उपासते च तेषां त्वं संकट-
हरणं कुरु ॥३४॥ प्रहरान् पंच मद्भक्ताः प्रियेऽन्नजलवर्जिताः । उपासते च तेषां त्वं संकटहरणं कुरु ॥३५॥ चतुर्विधं
स्वसंकटं जन्म मृत्युश्च कर्मजम् । व्रतिनां तत्फलं कर्म विद्यते न कदाचन ॥३६॥ इत्यादि विविधं देवि विशेषेण चतुर्विधम् ।
खं. ४ अ. २ | पत्र ५
संकष्टदं हर त्वं वै मत्प्रसादाच्चतुर्थिके ॥३७॥ न संकष्टं कदाचिद्वै व्रतकारि नरस्य च । भवेन् मे भक्तियुक्तस्य पुनस्त्वद्युक्त-
सेविनः ॥३८॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाप्नुयात् । संकष्टहरणी नाम भवेत्तव चतुर्थिके ॥३९॥ न करोति
चतुर्थीं चेन्नरो मद्भक्तिकारकः । निष्फलं सकलं तस्य भजनं वै भविष्यति ॥४०॥ त्वां त्यक्त्वा ये नराः पापा व्रतमन्यच्च
कुर्वते । व्रतादिकं निष्फलं तेषां सर्वं भविष्यति ॥४१॥ वर्णाश्रमस्थको भूत्वा चतुर्थीं न करोति चेत् । तस्य सर्वं
स्वधर्मस्थं कर्म यन्निष्फलं भवेत् ॥४२॥ यती रात्रौ निराहारयुक्तः सन् व्रतमाचरेत् । संकष्टहरणं देवि स्वानंदार्थं न संशयः
॥४३॥ अन्यैश्च द्विजसंयुक्तैर्भोजनं द्विजसाक्षिकम् । रात्रौ कर्तव्यमेतस्मिन् मां प्रपूज्य वरानने ॥४४॥ श्रावणे लड्डुकान्
भक्षेत् भाद्रके दधिभोजनम् । निर्जलं त्वाश्विने प्रोक्तं दुग्धपानं च कार्तिके ॥४५॥ मार्गशीर्षे जलाहारः पौषे गोमूत्र-
भक्षणम् । माघे मासि तिलान् शुक्लान् फाल्गुने घृतशर्कराम् ॥४६॥ पंचगव्यं मधौ मासे वैशाखे पद्मबीजकम् । ज्येष्ठे
घृतं गवां भक्ष्यमाषाढे मधुभोजनम् ॥४७॥ यतीनां सर्वदा ह्येतत् व्रतं युक्तं प्रकीर्तितम् । अन्येषां भोजने नैवानेन वा
व्रतकं स्मृतम् ॥४८॥ याममात्राऽवशिष्टायां रात्रावुत्थाय सत्वरम् । प्रातःकृत्यं सुसंक्षेपात् कर्तव्यं तन्नरेण वै ॥४९॥ तथा
माध्याह्निकं कर्म कर्तव्यं प्रातरेव च । चतुर्घटिकरात्रौ सूर्योदयः स प्रकीर्तितः ॥५०॥ एवं कर्मादिकं कृत्वा मां संपूज्याल्प-
मंत्रतः । प्रत्यक्षोदयकाले वै सूर्योपस्थानमाचरेत् ॥५१॥ चंद्रोदयस्य पर्यंतं शमीमूले जपं जपेत् । मदीयं मौनिभावेन
पश्चात् स्नानं समाचरेत् ॥५२॥ सायाह्नकालजं कर्म तन्न कुर्यान्नरोत्तमः । विधिना पूज्य मां पश्चादर्घ्यदानं समाचरेत् ॥५३॥
आदौ तेऽर्घ्यप्रदानं च ततो मेऽर्घ्यनिवेदनम् । ततः सप्तार्घ्यदानं व्रती चंद्राय समाचरेत् ॥५४॥ ब्राह्मणैः पूजितैर्देवि नरः
कुर्याच्च भोजनम् । मोदकापूपलड्डूकपायसादिभिरादरात् ॥५५॥ रात्रौ जागरणं कुर्यान् मदीयकथान्वितः । पंचम्यामुपचारैः
संपूजयन् मां प्रयत्नतः ॥५६॥ एवं व्रतं नरः कुर्यात् स वै सर्वार्थसिद्धिभाक् । भविष्यत्यमरैर्मान्योंऽते ब्रह्मणि लयं व्रजेत्
॥५७॥ यथाऽहं देवतादीनां पूज्यः सर्वाद्यभावतः । तथा त्वं व्रतजातीनामादिपूज्या भविष्यसि ॥५८॥ शुक्लां कृष्णां चतुर्थीं
ये करिष्यंत्यमरादयः । सर्वव्रतादि भावेषु तेषां सिद्धिर्भविष्यति ॥५९॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
चतुर्थी भक्तिसंयुक्ताऽभवत्तत्रैव संस्थिता ॥६०॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। ततो गणपतिर्दक्ष ययौ सर्वतिथीः प्रति। उवाच वृणुत प्राज्ञा वरं यं मनसीप्सितम् ॥१॥
श्रुत्वा गणपतेर्वाक्यं प्रणम्य गणनायकम्। पूजयित्वा च तं स्तुत्वा जगदुस्तिथयः पराः ॥२॥ प्रतिपदाद्या ऊचुः। यदि
विघ्नेश्वर स्वामिन् वरदोऽसि गजानन। किं कर्त्तव्यं दयासिंधो अस्माभिर्वद सांप्रतम् ॥३॥ स्वस्वव्यापारजं देवं सामर्थ्यं
देहि चाद्भुतम्। भक्तिं त्वदीयपादाम्बुजे सर्व मान्यं त्वया प्रभो ॥४॥ तासां वचनमाकर्ण्य जगाद गणनायकः। ताः शृणु त्वं
प्रजानाथ सर्वेषां हितकारकम् ॥५॥ गणेश उवाच। मदीया भक्तिरत्यंतं भविष्यति न संशयः। भवतीनां महाभागास्तिथयः
पुण्यभागिकाः ॥६॥ मत्कलांशसमुद्भूता देवास्तान् प्रीणयंतु वै। भवतीभिर्युता देवा नराणां प्रीतिदास्तु च ॥७॥ सदा
वह्निं प्रतिपदि पूजयिष्यंति ये नराः। हुतद्रव्यैश्च हुत्वा तं दुग्धाहारा व्रते रताः ॥८॥ उपोषणं करिष्यंति तैश्च देवाः
सहेश्वराः। तोषितास्ते सदा तेभ्यो दास्यंति मनसीप्सितम् ॥९॥ ते मृताः संगमिष्यंत्यग्निलोके भोगकारकाः। अग्नितुल्य-
प्रकाशेन विमानेन विहायसा ॥१०॥ चरिष्यंति न संदेहः प्रतिपद्व्रतकारकाः। ब्रह्मार्पणस्वभावेन गमिष्यंति मदात्मनि ॥११॥
द्वितीयायां नरो यस्तु पूजयेदश्विनौ शुभौ। पत्त्राहारसमायुक्तो रूपवान् जायते किल ॥१२॥ इह भुक्त्वाऽखिलान् भोगानंते
तल्लोकमाप्नुयात्। द्वितीयाव्रतकारी स देवमान्यो भविष्यति ॥१३॥ ब्रह्मार्पणस्वभावेन द्वितीयाव्रतमाचरेत्। स स्वानंदे
मदीये वै लीनश्चैव भविष्यति ॥१४॥ तृतीयायां महाशक्तिं पूजयेद्भक्तिसंयुतः। सर्वैः सौभाग्यदैर्द्रव्यैर्लवणाहार-
वर्जितः ॥१५॥ स शक्तिलोकगो भूत्वा भोगयुक्तो भविष्यति। ब्रह्मार्पणतया सोऽपि मल्लोके चागमिष्यति ॥१६॥
पंचम्यां नागमुख्यांश्च दुग्धेन स्नापयेन्नरः। पूजयेत्तान् प्रयत्नेन निरम्लाहारकारकः ॥१७॥ स नागलोकगो भूत्वा
भोगयुक्तश्चरिष्यति। निष्कामेन मदीये वै लोकेंऽते आगमिष्यति ॥१८॥ षष्ठ्यां स्कंदं फलाहारः पूजयेद्भक्तिसंयुतः।
स्कंदलोके चरेत् सोऽपि महाभोगपरायणः ॥१९॥ निष्कामभावयुक्तश्चेत् स्वानंदेंऽते गमिष्यति। शुक्लगत्याः क्रमेणैव
सर्वभावनियंत्रितः ॥२०॥ सप्तम्यामर्चयेत् सूर्यमुपोषणपरायणः। स सूर्यलोकमाश्रित्य प्रचरेद्भोगसंयुतः ॥२१॥ निष्काम-
व्रतकारी चेन् महालयसमुत्थिते। स्वानंदे मे सदेहो वै ब्रह्मभूतो भविष्यति ॥२२॥ अष्टम्यां मातृकानां यः पूजको
भावसंयुतः। बिल्वाहारसमायुक्तो मातृकालोकगो भवेत् ॥२३॥ मदर्पणस्वभावेन सदा व्रतपरायणः। अष्टम्यां सोऽपि
मल्लोके गच्छेत् क्रमविनिश्चिते ॥२४॥ नवम्यामेव दुर्गायाः पूजनं यः समाचरेत्। पिष्टाशी भोगसंयुक्तोऽन्ते तल्लोकमवाप्नुयात्
खं. ४ अ. ३ पान ७
॥२५॥ ब्रह्मार्पणतया सोऽपि निजलोके गमिष्यति । शुक्लगत्या महाभागो ब्रह्मभूतो न संशयः ॥२६॥ दशम्यां
व्रतसंस्थो यो दधिभक्षणसंयुतः । दिशां दिगीशकानां वै पूजकस्तत्प्रियो भवेत् ॥२७॥ इह भुक्त्वाऽखिलान् भोगानंते
तल्लोकमाप्नुयात् । निष्कामव्रतभावेन ब्रह्मभूतो भविष्यति ॥२८॥ एकादश्यां नरो भक्षेद्बहिपक्वविवर्जितम् । धनपं
पूजयेच्चैव भक्तियुक्तेन चेतसा ॥२९॥ स वै तस्य वसेल्लोके नानाभोगकरः सदा। ब्रह्मार्पणतया तद्व्रतं कृत्वा सुखी
भवेत् ॥३०॥ विष्णुं संपूजयेद्यो वै द्वादश्यां घृतभोजनः । स विकुंठे वसेन्नित्यं नानाभोगपरायणः ॥३१॥ ब्रह्मार्पण-
विधानेन व्रतं कुर्याद्यदा नरः । महालये मदीये स लोके ब्रह्ममयो भवेत् ॥३२॥ धर्मं त्रयोदशीसंस्थं पूजयेत् क्षीरभोजनः ।
स धर्मलोकगो भूत्वा भुंजीत विविधं सुखम् ॥३३॥ ब्रह्मार्पणतया येन साधिता चेत् त्रयोदशी। स स्वानंदे समागम्य ब्रह्मभूतो
भविष्यति ॥३४॥ चतुर्दश्यां शिवं यश्च पूजयेद्भक्तिसंयुतः । उपोषणसमायुक्तो गोधूमान्नेन पारणम् ॥३५॥ करिष्यति
च कैलासे वासस्तस्य भविष्यति । निष्कामश्चेत्तदंते स मल्लोके मन्मयो भवेत् ॥३६॥ पूर्णिमायां देवगणान् देवांश्चंद्रमसं
तथा । पूजयेद्भक्तिभावेन चंद्रलोकं स आप्नुयात् ॥३७॥ इह भुक्त्वाऽखिलान् भोगानंते देवान् गमिष्यति । निष्कामनो
मदीये स लोके ब्रह्ममयो भवेत् ॥३८॥ उपोषणसमायुक्तोऽर्घ्यदानं यः करिष्यति । चंद्राय निशिभुग् वाऽपि सर्व-
देवपरायणः ॥३९॥ सर्वदेवमयी रम्या पूर्णिमा परिकीर्तिता । चांद्री चैव तथा ज्ञेया तिथिः पुण्यप्रदा मता ॥४०॥ अमायां
तर्पयेद्यो वै पितॄन् पितृपरायणः । उपोषणं वा कुर्वीत स सर्वार्थमवाप्नुयात् ॥४१॥ अंते पितृमये लोके वसतिस्तस्य
संभवेत् । आगमिष्यति निष्कामश्चेत् स्वानंदे स तल्लये ॥४२॥ कृष्णाः शुक्लाः सदा पूज्यास्तिथयो व्रतकारिणा । एवं भाव-
युतेनैव स सर्वार्थमवाप्नुयात् ॥४३॥ मत्प्रियास्तिथयः सर्वा भविष्यथ न संशयः । मत्कलांशायुतैर्देवैः संयुक्ताः प्रभवैत वै
॥४४॥ चतुर्थीं ये न कुर्वंति तेषां सर्वं निरर्थकम् । भवदीयव्रते संस्थं भविष्यति न संशयः ॥४५॥ अतश्चतुर्थीसंयुक्ताः सदा
भवत मानदाः । तिथयः कालमानेन सर्वपूज्या भविष्यथ ॥४६॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो गणवल्लभः । तथा जातं प्रजा-
नाथ तिथियुक्तव्रतं सदा ॥४७॥ चतुर्थीजं च माहात्म्यं तिथीनां यद्विशेषतः। शृणुयाद्यः पठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥४८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः ॥
खं. ४ अ. ४ । पान ८
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं संवादं तं पुरातनम् । दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः ॥१॥
येन त्वं तिथिमुख्यायाश्चतुर्थ्या व्रतजे परे । महिम्नि निपुणोऽत्यंतं संभवेर्ब्रह्मपुत्रक ॥२॥ महायशा दशरथो
वंध्यदोषभयार्दितः । वसिष्ठं शरणं गत्वा नत्वा पप्रच्छ तं मुनिम् ॥३॥ दशरथ उवाच । पुत्रप्राप्त्यर्थमेवं भो वदोपायं महामुने ।
शिष्यं मां शाधि भावज्ञ तारयस्व भवार्णवात् ॥४॥ ततस्तं मुनिशार्दूल उवाच नृपमुत्तमम् । कुलदेवं गणेशं ते
भजस्व व्रतसंयुतः ॥५॥ वसिष्ठस्य वचः श्रुत्वा पुनस्तं प्रणनाम ह । पप्रच्छ विनयेनैव संयुतः स नृपोत्तमः ॥६॥
कीदृशं तद्व्रतं विप्र गणेशस्य महात्मनः । कृतं केन व्रतं तत्र भवेत् सिद्धिश्च कीदृशी ॥७॥ कस्मिन् काले व्रतं कार्यं
पूजनं कीदृशं मुने । वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया ॥८॥ वसिष्ठ उवाच । चतुर्थी गणनाथस्य प्रियाऽत्यंतं नृपोत्तम ।
शुक्ला कृष्णा समाख्याता सर्वसिद्धिप्रदा भवेत् ॥९॥ चंद्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थिका । सा संकष्टहरा प्रोक्ता
चतुर्विधफलप्रदा ॥१०॥ चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मज । संकष्टं तत् समाख्यातं बंधनेन विशेषतः ॥११॥ इह
भुक्त्वाऽखिलान् भोगान् संकष्टीकरणात्नृप । सर्वसंकटहीनः स स्वानंदे प्रगमिष्यति ॥१२॥ यदा चन्द्रोदये भूप चतुर्थी नैव
लभ्यते । प्रदोषव्यापिनी ग्राह्या सर्वसंकटमुक्तये ॥१३॥ उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी । तदा स्वेच्छाविहारेण
कर्तव्या चन्द्रव्यापिनी ॥१४॥ तृतीयायां प्रदोषाच्च चंद्रस्योदयगा भवेत् । तदा सैव सदा ग्राह्या परां त्यक्त्वा विशेषतः ॥१५॥
शुक्ला सा वरदा प्रोक्ता चतुर्णां नात्र संशयः । संचिताऽसंचितानां वै व्रतकारिजनाय च ॥१६॥ धर्मार्थकाममोक्षाद्या-
श्चत्वारो ये पदार्थकाः । तान् ददाति गणेशस्य प्रीतिदा सा चतुर्थिका ॥१७॥ मध्याह्नव्यापिनी ग्राह्या सदा शुक्लचतुर्थिका ।
उभयत्र यदा नाप्ता पूर्वविद्धा मता तिथिः ॥१८॥ उभयत्र यदा प्राप्ता भवेत् प्रहरभानुगा । तृतीया चेत्तदा साऽपि
पूर्वविद्धा मता तिथिः ॥१९॥ प्रहरादूर्ध्वगा भूप तृतीया सूर्यसंयुता । तदा पूर्वा परा वाऽपि कार्या सैव चतुर्थिका ॥२०॥
चतुर्थीव्रतहीनस्य फलहीनानि भूमिप । व्रतानि सर्वकालेष्वाद्या कार्या सा ततः प्रभो ॥२१॥ एतद्व्रतं महाभाग ब्रह्मणा-
ऽऽचरितं पुरा । व्रतस्यैव प्रभावेण निर्ममे सकलं जगत् ॥२२॥ विष्णुना शंकरेणैव कृतं व्रतमनुत्तमम् । पालने हरणे देवौ
समर्थौ तौ बभूवतुः ॥२३॥ योगिभिः शुकमुख्यैश्च कश्यपादिमुनीश्वरैः । मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये ॥२४॥
इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगा बभुः । नानेन सदृशं विद्धि चतुर्णां साधकं नृप ॥२५॥ अन्यैर्नानाविधैरतत् कृतं
खं. ४ अ. ५ पान ९
वर्णाश्रमस्थितैः । ते सर्वे ब्रह्मभूता वै ययुः स्वानंदके पुरे ॥२६॥ एतद् व्रतं महीपाल कुरु त्वं भावसंयुतः । भविताऽसि
सपुत्रश्च तथा स्वानंदगो भवेः ॥२७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मादिभिः कथं विप्र चतुर्थीगं व्रतं कृतम् । गणनाथप्रियं पूर्णं वद सर्वं प्रविस्तरात्
॥१॥ दक्ष उवाच । वद मुद्गल माहात्म्यं चतुर्थ्यास्त्वं प्रविस्तरात् । श्रुत्वा कथां महारम्यां न तृप्यामि मुनीश्वर ॥२॥ दक्षस्य
भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः । जगाद तं विशेषज्ञो मुद्गलः शृणु शौनक ॥३॥ वचनं नृपवर्यस्य श्रुत्वा दशरथस्य
च । जगाद तं मुनिश्रेष्ठो वसिष्ठः सर्ववित् प्रभुः ॥४॥ वसिष्ठ उवाच । कदाचित् प्रलये वृत्ते नष्टं स्थावरजंगमम् । पंचभूतमयं
सर्वं व्यवस्थासंयुतं पुरा ॥५॥ शून्यवत् सर्वभावैस्तद्धीनं ब्रह्ममयं बभौ । योगनिद्रा गणेशस्य सैव वेदे प्रकथ्यते ॥६॥ पुनः
स कस्मिंश्चित्काले वेदवाग्भिः प्रबोधितः । गणेशो निर्ममे सर्वं तत्त्वैस्तत्त्वप्रधारकः ॥७॥ त्रिगुणेभ्यः समुत्पन्ना देवाः पंच
नृपेश्वर । ब्रह्मा विष्णुः शिवः शक्तिः सूर्यः सर्वधरा बभुः ॥८॥ तैस्तपश्चरितं घोरमेकाक्षरविधानतः । तपसा गणनाथस्तु
प्रसन्नः प्रबभूव ह ॥९॥ हृदये दर्शयामास स्वात्मानं सर्वदं परम् । तेन ज्ञानयुता जाता देवाः पंच नरेश्वर ॥१०॥
तैश्च संप्रार्थितो योगी भृशुंडी सर्वपारगः । तेन संप्रेषिता देवा आययुर्नगरे निजे ॥११॥ कर्मभूमौ गणेशस्य क्षेत्रं
स्वानंदवाचकम् । वेदैः संदर्शितं स्थापयामासुस्तत्र विघ्नपम् ॥१२॥ यस्मिन् काले च देवेशैः स्थापिता मूर्तिरादरात् । तस्मिन्
काले चतुर्थी सा भाद्री शुक्ला बभूव ह ॥१३॥ मध्याह्नसमये संस्था सा मुख्या प्रबभूव ह । तत आराधितस्तैः स
गणराजो विशेषतः ॥१४॥ माघमासे सिते पक्षे चतुर्थ्यां राजसत्तम । प्रकटोऽभूत् पुरस्तेषां वरदाता गजाननः ॥१५॥
वरप्रसादेन तस्य निर्मितं सकलं जगत् । देवेशैः सा तिथिर्मुख्या बभूव वरदायिनी ॥१६॥ ब्रह्मादिभिश्च सर्वेभ्य उपदिष्टा
चतुर्थिका॑ । आदौ काले तथा तत्र ज्येष्ठी मुख्या बभूव सा ॥१७॥ ज्येष्ठशुद्धचतुर्थ्यां तद्व्रतदानं कृतं पुरा । तस्मिन् काले
धृता सर्वैः सद्यः सा वरदायिनी ॥१८॥ अतो मुख्यत्वमापन्ना ज्येष्ठी माघी च भाद्रिका । चतुर्थी नृपशार्दूल शुक्लपक्षेषु
सर्वदा ॥१९॥ तत्र भाद्रपदे मासे चतुर्थी या महामते । शुक्ला साऽत्यंतभावेन मुख्या जाताऽद्य भावतः ॥२०॥
चतुर्थी समभावेन न किंचिद्वर्तते व्रतम् । अतः किं वर्णनीयं वै तदौपम्यं तदेव च ॥२१॥ भाद्रे चतुर्थी या शुक्ला साधिता
सा नरेण चेत् । स द्वादशचतुर्थीसंभवं पुण्यं समाप्नुयात् ॥२२॥ अंगारकयुता भूप सा नरेण कृता भवेत् । चतुर्थी षोडशभवं
पुण्यं प्राप्तं न संशयः ॥२३॥ नरेण धीमता सा चेद्यदि चंद्रयुता कृता । चतुर्थी विंशतिभवं फलं प्राप्तं महामते ॥२४॥ यदि
स्वातियुता भूप चंद्रवारेण चेत्कृता । प्राप्तं चतुर्विंशतिचतुर्थीजं किल पुण्यकम् ॥२५॥ माघे शुक्लचतुर्थी सा कृता चेन्नात्र
संशयः । अष्टानां च चतुर्थीनां फलं प्राप्तं नरेण तत् ॥२६॥ अंगारकयुता चेद्वै साधिता सा नरेण च । द्वादशानां चतुर्थीनां
पुण्यं प्राप्तं व्रतोद्भवम् ॥२७॥ ज्येष्ठे शुक्लचतुर्थीं यः करोति व्रतधारकः । चतुश्चतुर्थीजं पुण्यं लभते स नराधिप ॥२८॥
अंगारकयुता चेद् द्वादशभिः समतां व्रजेत् । नरेण सा प्रयत्नेन कर्तव्या सर्वदायिका ॥२९॥ अन्येषु श्रावणाद्येषु चतुर्थी वरदा
कृता । धर्मार्थकाममोक्षाणां दात्री शास्त्रेषु संमतम् ॥३०॥ तत्र श्रावणमासे या चतुर्थी वरदा मता । द्विचतुर्थीभवं पुण्यं
ददाति व्रतकारिणे ॥३१॥ चतुर्थ्या महिमाऽनंतोऽशक्यौ वर्णयितुं भवेत् । चतुःपदप्रदा प्रोक्ता सा कथं वर्ण्यते मया ॥३२॥
अधुना शृणु राजेंद्र कृष्णपक्षे समागताम् । चतुर्थीं सर्वदां पुण्यां संकष्टहरिणीं शुभाम् ॥३३॥ चतुर्विधं च संकष्टं प्राप्तं
सर्वैर्नराधिप । जन्ममृत्युत्य्रव्यवस्थारूयं चतुर्थं कर्मजं फलम् ॥३४॥ इत्यादिबहवो भेदाः कथनं नैव शक्यते । चतुर्विधं जगत्
सर्वं पंचमं ब्रह्म उच्यते ॥३५॥ चतुर्विधं सुसंकष्टं व्रतमात्रेण हंति या । संकष्टहरिणी प्रोक्ता चतुर्थी कृष्णपक्षगा ॥३६॥
तस्यापि महिमानं कः क्षमो वर्णयितुं भवेत् । सर्वसिद्धिप्रदायास्तु व्रताचरणमात्रतः ॥३७॥ माघमासे कृताऽऽदौ च ब्रह्मणा
विश्वयोनिना । अतः सा मुख्यतां प्राप्ताऽष्टचतुर्थीव्रतैः समा ॥३८॥ अंगारकयुता तत्र विंशत्या समतां व्रजेत् । साधिता
व्रतभावेन चेन्नरेण नराधिप ॥३९॥ श्रावणे या समाख्याता चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा भवत्यत्र न संशयः
॥४०॥ ब्रह्मणा चोपदिष्टा वै श्रावणे सा ततोऽधिका । आदौ देवमुनींद्रेभ्यः सर्वसंकष्टहारिणी ॥४१॥ भाद्रमासे नराधीश
चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा शृणु कारणमत्र वै ॥४२॥ देवानां गणनांथश्च वरदः संबभूव ह । व्रतमात्रेण
तस्मात् सा मुख्या जाता न संशयः ॥४३॥ अंगारकयुता कुत्र संप्राप्ता चेत् सुसिद्धिदा । द्वादशव्रतजं पुण्यं ददाति
व्रतकारिणे ॥४४॥ शुक्ला कृष्णा सदा कार्या चतुःपदसुसिद्धये । अन्यथा सिद्धिहीनानि प्रभवंति व्रतानि च ॥४५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चतुर्थीविवेकवर्णनं नाम पंचमोऽध्यायः ॥
❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀
पान १२
नमः ॥२६॥ सर्वाद्ये महादात्रे सर्वपूज्याय वै नमः । सर्वभावस्थितायैव ढंढिराजाय ते नमः ॥२७॥ स्वानंदवासिने तुभ्यं
योगशांतिमयाय च । योगिभ्यो योगदात्रे वै योगानां पतये नमः ॥२८॥ सृष्टिकर्त्रे च पात्रे ते सृष्टिहर्त्रे नमो नमः । गणेशाय
गुणानां वै चालकाय नमो नमः ॥२९॥ आत्मनेऽनात्मने चैव कारणानां प्रकाशिने । ब्रह्मेशाय सदानाथ देवपालकरूपिणे
॥३०॥ निवारय महाविघ्नं सहसा समुपस्थितम् । ग्रसिष्यति न चेदंडमस्मान् वै नात्र संशयः ॥३१॥ त्वदीयपादपद्मस्य वयं
दासा गजानन । मरिष्यामो यदा नाथ यशस्तव गतं तदा ॥३२॥ अधुना रक्ष देवेश न वयं द्रष्टुमुग्रकम् । क्षमा गच्छंति नः
प्राणा रक्ष विघ्नेश रक्ष भोः ॥३३॥ एवं संस्तुवतां तेषां पुरः सोऽपि महापुमान् । गणेशाकाररूपेण बभूव नृपसत्तम ॥३४॥
ततस्ते तं प्रणेमुश्च पूजयामासुरादरात् । मानसीं स्वसुतां तस्मै ददुः सर्वे शिवादयः ॥३५॥ सरस्वतीं ददौ ब्रह्मा विष्णुः पुष्टिं
च मानसीम् । योगिनीं शंकरश्चैव मोहिनीं जगदंबिका ॥३६॥ संजीवनीं ददौ तस्मै भानुः सर्वप्रियंकरः । एवं संपूज्य विघ्नेशं
प्रणतास्ते महीपते ॥३७॥ उवाच तान् स उत्थाप्य विघ्नेशे भक्तिभावतः । विष्णुमुख्यान् महेशांश्च मेघगंभीरनिःस्वनः ॥३८॥
श्रीगणेश उवाच । शंभुमुख्याः शृणुत च देवेंद्रा मुनिमुख्याकाः । मदीयांशा भवंतोऽपि गर्व मा कुरुत प्रियाः ॥३९॥ चराचरं
मदीयांशं मद्रहितं न किंचन । तेभ्यः सिद्धिप्रदानार्थं देहधारी भवाम्यहम् ॥४०॥ यदि ज्ञानेन मां त्यक्त्वा पूजयेत्
तृणरूपकम् । तेनाऽहं किं महादेवाः पूजितो वदत प्रियाः ॥४१॥ तत्रांशो वर्तते किंचिन् मदीयस्तत् समा च मे । तृप्तिर्जाता
न संदेहः पूर्णस्तृप्तो भवामि न ॥४२॥ भवंतोऽपि तथा विप्रैः कलांशाः पूजिता यदि । कलांशरूपा मे तृप्तिस्तेन जाता
गुणात्मिका ॥४३॥ ब्रह्मांड पूजिते पूर्णे न तृप्तोऽहं भवामि च । अनंतानि मदीयेषु ब्रह्मांडानि स्वलोमसु ॥४४॥ गजवक्त्रादि-
चिह्नेन चिन्हितोऽहं महेश्वरः । जगद्ब्रह्ममयस्तत्र तिष्ठामि योगशांतिदः ॥४५॥ तस्य पूजनमात्रेण जगद्ब्रह्म सुपूजितम् । अहं
तयोश्च योगे वै पूर्णः संपूजितो मतः ॥४६॥ मां त्यक्त्वा ज्ञानमोहेन मोहिता मुनिदेवताः । भवतां पूजनं चक्रुः सर्वादौ
विघ्नसयुताः ॥४७॥ तत्रापि मदसंयुक्ता भवंतस्तादृशात्मकाः । सिद्धिहीनास्ततो जाताः पुनर्मां कुरुत त्विदम् ॥४८॥ पूर्वस्मिंश्च
भवद्भिर्वै सेवितो भक्तिसंयुतैः । अतः सहामि देवेशा दत्तं वो दर्शनं मया ॥४९॥ कलांशमात्रेण यदि संतुष्टोऽहं भवामि चेत् ।
तदा देहधरः कस्मात् स्थास्यामि वदत प्रियाः ॥५०॥ एवमुक्त्वा गणाधीशो विरराम महीपते । तेऽपि प्रणम्य विघ्नेशं स्वदोषं
प्रक्षमापयन् ॥५१॥ एतस्मिन्नंतरे तत्र चन्द्रः शंकरभालगः । जहास विवृतैर्दतैर्गणेशं रूपगर्वितः ॥५२॥ उवाच मोहितोऽत्यंतं
प्रणम्य गणनायकम् । गजवक्त्रयुतं रूपं किं धृतं विकटं प्रभो ॥५३॥ पुनः पुनरुवाचेदं वाक्यं हास्यपरायणः । ततस्तं कुपितो
देवः शशाप शशलाञ्छनम् ॥५४॥ ये त्वां विलोकयंते वै चन्द्र ते पापिनः सदा । भवंतु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः
॥५५॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः । भार्याभिः सहितो भूप चन्द्रश्च मलिनोऽभवत् ॥५६॥ अहंकारविहीनास्ते
जाताः शंम्वादयः सुराः । तदारभ्य महाभाग गाणपत्या विशेषतः ॥५७॥ वेदज्ञाऽहंकृतिः पूर्णा ब्रह्मणो हृदि संस्थिता ।
तया मदयुतो ब्रह्मा भवत्येषं पुनः पुनः ॥५८॥ सरस्वती सा दत्ता वै गणेशाय महात्मने । तया युक्तः सदा रेमे ब्रह्मणो
हृदि विघ्नपः ॥५९॥ हृदि स्थिते गणेशे स कथं मोहयुतो भवेत् । सदा तं भजते भक्त्या गाणपत्यस्वभावतः ॥६०॥
सर्वपोषणता तद्वद्विष्णोर्हृदि समास्थिता । तत् सामर्थ्यविमोहेन गर्वं गच्छति केशवः ॥६१॥ तां ददौ विघ्नराजाय पुष्टिं
विश्वस्य पोषिणीम् । तया युक्तो गणेशानो रेमे विष्णोः सदा हृदि ॥६२॥ सोऽपि तं भजते नित्यं गाणपत्यविचारवित् ।
हृदिस्थे स कथं मोहं प्राप्नोति नृप विघ्नपे ॥६३॥ योगेन मोहहीनत्वं सदा शंभोर्हृदि प्रभो । तेनाहंकारभावेन मन्यते किं
न शंकरः ॥६४॥ तामेव योगिनीं देवीं हृदिस्थां प्रददौ शिवः । गणेशस्तु तया युक्तो रेमे शंभोर्हृदि स्थितः ॥६५॥ गणेशे
हृदि संस्थे स मोहं नैव प्रपद्यते । सदा गाणेशको भूत्वा भजते गणनायकम् ॥६६॥ वृष्ट्या दानप्रदाने वै करोति स
दिवाकरः । सर्वेषां जीवनं तेन धृतं कर्ममयं नृप ॥६७॥ तदेव हृदये तस्य वर्ततेऽहंस्रभावतः । तां संजीवनिकां सूर्यो
ददौ विघ्नेश्वराय च ॥६८॥ तया युक्तो गणाधीशः सदा हृदि स खेलति । भानोस्तेन रविस्तं स भजतेऽनन्यचेतसा ॥६९॥
शक्तिर्हृदयगां देवीं मोहिनीं सर्वमोहिनीम् । ददौ विघ्नेश्वरायैव शक्तिभावसमन्विताम् ॥७०॥ तया युक्तो गणेशानस्तस्या
हृदि विशेषतः । तेन खेलति सा देवी भजते गणनायकम् ॥७१॥ इत्यहंकारनिर्मुक्ता देवेंद्रास्ते बभूविरे । गाणपत्यप्रिया
जाता भजंते विघ्ननायकम् ॥७२॥ चित्ते चिंतामणिः स्थित्वा प्रकृत्या खेलति प्रभुः । मिथ्याहंकारभावेन बंधनं प्रतिपद्यते
॥७३॥ कर्ता कारयिता देवो गणेशो नात्र संशयः । हृदिस्थं तं समर्प्यैव स्वात्मानं सुखिनोऽभवन् ॥७४॥ मुद्गल उवाच ।
श्रुत्वा दशरथो राजा जगाद मुनिसत्तमम् । चंद्रस्य का गतिर्जाता तां मे वद महामुने ॥७५॥ वसिष्ठ उवाच ।
गणेशशापसंयुक्तश्चंद्रः स स्वगृहे गतः । एकांते दुःखसंयुक्तो विचारमकरोद्धृदि ॥७६॥ संप्रज्ञातस्वरूपश्च देहो गणपतेः
स्मृतः । असंप्रज्ञातरूपं वै शिरस्तस्य महात्मनः ॥७७॥ तयोर्योगे गणेशोऽयं भक्तानुग्रहकारणात् । देहधारी स्वयं
खं. ४ अ. ६ पान १४
साक्षाद्भूवात्र न संशयः ॥७८॥ वेदेषु कथितं ते यद्रूपं परमयोगदम् । तन्न ज्ञातं मया देव मोहेनैव गजानन ॥७९॥
अपराधं दयासिंधो क्षम त्वं चित्तगं प्रभो । एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूव ह ॥८०॥ गंगातीरे समागम्य तताप
तप उत्तमम् । अष्टादशाक्षरेणैव तोषयामास विघ्नपम् ॥८१॥ चंद्रे लीने जगत् सर्वं दुःखयुक्तं बभूव ह । सूर्यस्य तेजसा
दग्धं रसहीनं चराचरम् ॥८२॥ ततो देवगणैः सर्वैर्भयभीतैः समंततः । शंभुविष्णुमुखास्तत्र तपस्तेपुः सहेश्वराः ॥८३॥
षडक्षरविधानेन ध्यात्वा हृदि गजाननम् । भक्तियुक्ता नृपश्रेष्ठ तोषयामासुरादरात् ॥८४॥ वर्षाणां शतके तत्र गते चंद्रं
गणाधिपः । आययौ वरदानार्थं तपो बद्धो नृपोत्तम ॥८५॥ वर्षेणैकेन देवेशान् ययौ विघ्नाधिपो विभुः । समकाले च
देवेशांश्चंद्रस्तं तुष्टुवुर्विभुम् ॥८६॥ अथर्वशिरसा ढुंढिं तोषयामासुरादरात् । संतुष्टस्तानुवाचेदं गणेशो ब्रह्मनायकः ॥८७॥
श्रीगणेश उवाच । वरं वृणुत देवेशाः संतुष्टोऽहं ददामि तम् । यं यमिच्छथ तं तं वै सफलं वः करोम्यहम् ॥८८॥ गणेशवचनं
श्रुत्वा देवास्तं प्रणिपत्य ते । कृत्वा करपुटं सर्वे जगुः परमहर्षिताः ॥८९॥ देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा चंद्रं सुनिर्दोषं कुरु नाथ नमोऽस्तु ते ॥९०॥ स तानुवाच सर्वात्मा भक्त्या संतोषितः प्रभुः । भाद्रशुक्लचतुर्थ्यां वै न
द्रष्टव्यः सुधाकरः ॥९१॥ हास्यं कृतं मदीयं वै तद् दिने तेन देवपाः । दोषयुक्तो विधुस्तस्मान्नान्यथा मे वचो भवेत् ॥९२॥
ततोऽतिहर्षिता देवास्तथेति प्रतिपाद्य ते । ययुश्चंद्रं तु संद्रष्टुं गणेशोऽन्तर्हिते नृप ॥९३॥ चंद्रो गणपतिं दृष्ट्वा ननाम दंडवत्
क्षितौ । पूजयामास तं देवं तुष्टाव स कृतांजलिः ॥९४॥ चंद्र उवाच । नमस्ते विघ्नपालाय गणेशाय परात्मने । ब्रह्मेशाय
स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥९५॥ अनामयाय सर्वादिपूज्याय तु नमो नमः । शिवात्मजाय देवाय विष्णुपूत्राय ते नमः
॥९६॥ ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे । शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥९७॥ सर्वपुत्राय सर्वेषां
मात्रे पित्रे नमो नमः । सर्वेशाय परेशाय परात्परतराय ते ॥९८॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक । हेरंबाय
महेशानां महेशाय नमो नमः ॥९९॥ सृष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे । सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो
नमः ॥१००॥ क्षमापराधं देवेश त्वन्मायामोहधारिणः । शरणं ते प्रसन्नस्य रक्ष मां महतो भयात् ॥१॥ मां दृष्ट्वा हर्षसंपन्ना
अभवन् देवतादयः । अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः ॥२॥ अतो मां नैव पश्यंति पापिनां पापरूपिणम् ।
निर्दोषं कुरु विघ्नेश करुणालय ते नमः ॥३॥ सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण । तेनाऽहं कृतकृत्यश्च भवेयं
खं. ४ अ. ६ पान १५
योगिसंमतः ॥४॥ ततोऽतिभक्तिसंयुक्तं नृत्यंतं देवसंनिधौ । रोमांचाश्रुसमायुक्तं दृष्ट्वा ढुंढिर्जगाद तम् ॥५॥ श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । अपराधाननंतांश्च सहे तेऽनेन निश्चितम् ॥६॥ सर्वसिद्धिप्रदं पूर्णं भविष्यति
विशेषतः । पठतां शृण्वतां चैव नानासुखकारकं भवेत् ॥७॥ यथापूर्वं स्थितश्चंद्र तादृशो भव नित्यदा । यस्मिन्
दिने कृतं हास्यं तत्र दोषयुतो भवेः ॥८॥ ललाटे भूषणं मे त्वं भव सेवापरायणः । चतुर्थ्यां कृष्णपक्षस्य व्रते ते पूजनं
भवेत् ॥९॥ मां पूजयित्वा तारेश अर्घ्यं यस्ते प्रदास्यति । तस्य सिद्धिर्भवेत् पूर्णा व्रतजा नान्यथा क्वचित् ॥१०॥
द्वितीयायां च सायाह्ने त्वया प्राप्तोऽहमादरात् । अतः शुक्लद्वितीयायां नमस्यो मानवैर्भव ॥११॥ द्वितीयायां प्रयत्नेन त्वां
नमस्यंति मानवाः । मासगं दुःखमुत्सृज्य क्वचित् तिष्ठति नान्यथा ॥१२॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशश्चंद्रपूजितः ।
तस्मिन् काले च देवेशा देवास्तत्र समाययुः ॥१३॥ मानयामास संपूज्य चन्द्रस्तांस्तैः समन्वितः । गणेशं ब्राह्मणैः सार्धं
संस्थाप्यापूजयत् प्रभुम् ॥१४॥ गणेशभालसंस्थानं प्राप्तं चन्द्रेण यन्न वै । भालचन्द्रं गणेशानं वदंति तत्र संस्थितम् ॥१५॥
देवैः संपूजितस्तत्र ब्राह्मणैर्गणनायकः । प्रगृह्य चन्द्रं निर्दोषं ततः स्वर्गं ययुः सुराः ॥१६॥ चन्द्रः स्वांशस्वरूपेण स्वर्गे
तिष्ठति भूमिप । पूर्वरूपेण विघ्नेशं सेवते नित्यमादरात् ॥१७॥ गंगातीरे निवासं स चकारात्रिसमुद्भवः । विधुश्च भालचन्द्रं
तं सेवते भक्तितत्परः ॥१८॥ अथ कस्मिंश्च समये देवैः संप्राथितो हरिः । यादवेषु समुत्पन्नो वासुदेवो बभूव ह ॥१९॥
अज्ञानेन विधोस्तेन दर्शनं प्रकृतं नृप । भाद्रशुक्लचतुर्थ्यां तु सदोषः स बभूव ह ॥२०॥ अंतर्ज्ञानं गतं तस्य नरतुल्यो
बभूव सः । तथापि विघ्नसंयुक्तो हरिस्तच्छृणु भूमिप ॥२१॥ सत्राजिन्नाम राजर्षिर्यादवेषु बभूव वै । तेन सूर्यतपस्तप्तं
दारुणं शतवत्सरम् ॥२२॥ सूर्येण स्वगले संस्थो मणिर्दत्तः स्यमंतकः । सत्राजिते स तद्रत्नं गले भक्त्या बबंध ह ॥२३॥
नित्यं सुवर्णभाराणामष्टौ स्रवति सन्मणिः । सूर्यतेजःसमानश्चाऽशोभयद्यदुनंदनम् ॥२४॥ द्वारकायां स्थितं तं स सूर्यभक्ति-
परायणम् । शुचिभावेन रत्नं सोऽपूजयत्तान्रंतरम् ॥२५॥ ततो बहुगते काले कृष्णो दोषयुतोऽभवत् । तस्य बुद्धिः
समुत्पन्ना मणेः संग्रहणे नृप ॥२६॥ सभायां संस्थितः कृष्णः स सत्राजितमाह्वयत् । आगतं तमुवाचाऽसौ विनयेन
समन्वितः ॥२७॥ श्रीकृष्ण उवाच । उग्रसेनश्च सर्वेषां यादवानां महामते । राजाऽस्माभिः कृतस्तं ते यादवाः पूजयंति भोः ॥२८॥
अस्माभिर्दिग्विजये प्राप्तमुग्रसेनाय यादव । दत्तं श्रेष्ठं तथा त्वं तं मणिं देहि स्यमंतकम् ॥२९॥ सुवर्णं मणिसंभूतं गृहाण
खं. ४ अ. ६ | पान १६
त्वं तु नित्यदा। शोभार्थं कंठगं तात मणिं कुरु नृपस्य तम् ॥१३०॥ एवमुक्तः स सत्राजित्तमुवाच समन्युना।
प्रसेनाय मया दत्तः स मे नैव ददाति तम् ॥१३१॥ एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौ मणिम् । प्रसेनाय स्ववृत्तांतं
कथयामास विस्तरात् ॥१३२॥ ततः कदाचित् कृष्णेन सहिता यदुनंदनाः । मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः ॥१३३॥
तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परम् । बबंध स्वगले सोऽपि तैः सह प्रययौ वनम् ॥१३४॥ अशुचित्वस्य दोषेण
सिंहकस्तं प्रसेनकम्। साश्वं हत्वाऽऽगृह्य मणिं ययौ स्थानं स्वकं महान् ॥१३५॥ ततस्तं जांबवान् हत्वा गृह्य सिंहं मणिं
ययौ । स्थानं पुत्र्या मणिं हस्ते तं ददौ स महाबलः ॥१३६॥ तव भर्त्ता सुते यो वै भविष्यति मणिं परम्। तस्मै दास्यामि
भावेन त्वदीयोऽयं मणिः स्मृतः ॥१३७॥ सायाह्ने यादवाः सर्वे आगताः स्वस्वमंदिरे । प्रसेनेन विहीनास्ते सत्राजित्
क्रोधमादधे ॥१३८॥ अहो कृष्णेन मे भ्राता संहतो नात्र संशयः। मणिलोभवशेनाऽपि पापिना पापचेतसा ॥१३९॥ ततो
लोकाः पुरे संस्थाः सत्यमामानयंस्तु ते । उग्रसेनादयः सर्वे कृष्णं न्यभर्त्सयन्नृप ॥१४०॥ ततः कृष्णश्च दुःखार्तः स ध्यानेना-
वलोकयन् । नरवन्न बुबोधाऽपि स दोषो वसुदेवजः ॥१४१॥ ततोऽतिदुःखितो भूत्वा विचारं देवकीसुतः । चकारांतरजं ज्ञानं
क्व गतं मम सांप्रतम् ॥१४२॥ नरतुल्यः कथं जातः कारणं नात्र वेद्मि वै । देहत्यागं करिष्यामि वृथा लाञ्छनकारणात्
॥१४३॥ ततः सभां समागम्याऽऽगृह्य यादवमुख्यकान् । वनं ययौ प्रसेनस्य निश्चयार्थं महाद्युतिः ॥१४४॥ पादमार्गं प्रसेनस्य ते
संगृह्य महावने । गतास्तत्र मृतं साश्वं प्रसेनं ददृशुर्नराः ॥१४५॥ सिंहेन संहतं दृष्ट्वा मणिहीनं तु यादवाः । पुरतस्ते ययुः सर्वे
सिंहमार्गप्रधारिणः ॥१४६॥ ततो महावने सिंहमृक्षेण प्रहतं पुनः । ददृशुर्न मणिं तत्र लेभिरे भयसंकुलाः ॥१४७॥ ऋक्षपादं
तथाऽऽगृह्य ययुर्यादवमुख्यकाः । महावने बिले घोरे गतमृक्षमलोकयन् ॥१४८॥ ततस्तांस्तत्र संस्थाप्य कृष्णः परपुरंजयः ।
बिले संप्रविवेशाऽथ लाञ्छनस्यापनोदनात् ॥१४९॥ बिले योजनमात्रं स गत्वा तत्र ददर्श ह । प्रकाशयुक्तं संस्थानं
शोभमानं सुविस्तरम् ॥१५०॥ दोलायां संस्थितं वीक्ष्य मणिं कृष्णो जहर्ष च । तत्र सुप्तं शिशुं दृष्ट्वा शनैरागात् स यादवः
॥१५१॥ ततोऽकस्माज्जांबवतो बहिः पुत्री समाययौ । अपूर्वं पुरुषं दृष्ट्वा चुक्रोश भयसंकुला ॥१५२॥ ततो जांबवता राजन्
श्रुतं पुत्र्याः प्ररोदनम् । आययौ च स तं दृष्ट्वा युयुधे विष्णुना स्वयम् ॥१५३॥ गतास्तयोरेकविंशतिघस्त्रास्तु प्रयुध्यतोः ।
यादवा जग्मिरे सर्वे बहिःस्था अष्टमे दिने ॥१५४॥ द्वारकायां स्ववृत्तांतं कथयंति स्म विह्वलाः । दिवसाः सप्त तत्रैव
खं. ४ अ. ६ | पान १७
किलास्माकं गता बहिः ॥५५॥ तथापि विवरात् कृष्णो न बहिश्च समागतः । मृतो वा जीवितो वा स ज्ञायते किं न
यादवः ॥५६॥ वसुदेवादयः श्रुत्वा सस्त्रीका नृप दुःखिताः । उग्रसेनादयः सर्वे रुरुदुर्दुःखकर्शिताः ॥५७॥ परेऽस्माकं
विशेषेण शत्रवः संस्थिता अहो । जरासंधादयश्चान्ये किं भविष्यति यादवाः ॥५८॥ हीनाः कृष्णेन संजाता अधुना नात्र
संशयः । द्विषद्भिः संहताः सर्वे मरिष्यामः सपक्षकः ॥५९॥ ततो रामेण ते सर्वे सांत्विता बहुलोक्तिभिः । निःश्वस्य
संस्थिता भूप दुःखयुक्ता भयाऽऽतुराः ॥६०॥ सत्राजितं निंदिंदुस्ते व्यर्थलाञ्छनदं तदा । सोऽपि दुःखसमायुक्तो बभूव
भयसंकुलः ॥६१॥ अथ तं जांबवान् कृष्णमुवाच घननिःस्वनः । कस्त्वं वीर महातेजा योधयन्नसि मां वद ॥६२॥ ततस्तं
प्रत्युवाचेदं कृष्णो वचनमुत्तमम् । यदुवंशभवं कृष्णं मां जानीहि महामते ॥६३॥ श्रुत्वा खेदसमायुक्तो जांबवांस्तं
ननाम वै । रामेणोक्तं वचो रम्यं स त्वं विष्णुः समागतः ॥६४॥ अहं दासस्त्वदीयो वै क्षमस्व करुणानिधे । अज्ञाना-
च्छक्तिगर्वेणापराधं युद्धजं च मे ॥६५॥ स्तुतः संपूजितस्तेन कृष्णो वृत्तांतमादरात् । अगदत्तं ततः श्रुत्वा कन्यायुक्तं मणिं
ददौ ॥६६॥ गृहीत्वा सस्त्रियं कृष्णो द्वारकायां समागतः । आगतं कृष्णमालोक्य हर्षयुक्ता बभूविरे ॥६७॥ यादवैश्च ततः
कृष्णः समानाय्य महामणिम् । सत्राजिते ददौ तत्र सर्वेषां पश्यतां नृप ॥६८॥ सत्राजिन् मनसाऽत्यंतं निंदयामास तां
तनुम् । भयभीतः स कृष्णस्य विरोधेन महायशाः ॥६९॥ सत्यभामां ददौ तस्मै मणियुक्तां महात्मने । कृष्णाय स
उवाचेदं श्वशुरो विनयान्वितः ॥७०॥ सूर्यभक्तियुतस्त्वं वै मणिं रक्ष महामते । दौहित्रास्ते भविष्यंति ग्रहीष्यंति मणिं
च ते ॥७१॥ तथेति यादवेनैव कृतं सत्राजिता नृप । एतस्मिन्नंतरे तत्र वृत्तांतो यादवैः श्रुतः ॥७२॥ लाक्षागृहेषु संदग्धाः
कुंत्या युक्ताश्च पांडवाः । पुरोचनेन तज् ज्ञात्वा रुरुदुर्यादवा बहु ॥७३॥ रामेण हस्तिनापुर्यां कृष्णः सद्यो जगाम ह ।
धृतराष्ट्रादिभिः सोऽपि रुरोद शोकसंकुलः ॥७४॥ शतधन्वा ततोऽक्रूरः कृतवर्मा च यादवः । मिलिताः क्रोधसंयुक्ता
विचारं चक्रुरादरात् ॥७५॥ सत्राजिता वयं सर्वे कन्यार्थं संवृताः पुरा । अस्मान् संत्यज्य कृष्णाय ददौ कन्यां सुरूपिणीम्
॥७६॥ कृष्णः पांडवशोकार्तोऽभवत् तत्रैव संस्थितः । स रामो निश्चयतः कार्यं कर्तव्यं तत् त्रिभिः किल ॥७७॥ हत्वा
सत्राजितं सुप्तं मणिर्ग्राह्यो न संशयः । एवं निश्चित्य रात्रौ तं शतधन्वा जगाम ह ॥७८॥ सत्राजितं स हत्वा वै मणिं
जग्राह दारुणः । संस्थाप्य तैलद्रोण्यां तं कृष्णं सत्याययौ ततः ॥७९॥ श्वशुरं स हतं श्रुत्वा रामेण सहसा गतम् । कृष्णं
खं. ४ अ. ६
पान १८
ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ ॥१८०॥ अक्रूरेण समात्यक्तः कृतवर्माणमाययौ । तेनापि न धृतः पक्षः पुनः
सोऽक्रूरमाययौ ॥८१॥ मणिं तत्रैव निक्षिप्य पपाल भयसंकुलः । शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज ॥८२॥
पलायमानं विज्ञाय कृष्णः संकर्षणान्वितः । रथमारुह्य वेगेन तमनु प्रययौ तदा ॥८३॥ योजनानां शतं गत्वा ममार ह
पुरोऽश्विनी । शतधन्वा भयैर्युक्तः पलायत पदा ततः ॥८४॥ पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः । पदातिर्बलभद्रे
स रथं त्यक्त्वा महाद्युतिः ॥८५॥ ततश्चक्रेण कृष्णेन हतस्तत्र पपात ह । शतधन्वा तेन तस्मिन् न दृष्टो मणिरुत्तमः
॥८६॥ ततः शोकसमायुक्तो बलभद्रमुवाच ह । शतधन्वा हतो हीनो मणिना तत्र मानद ॥८७॥ उवाच कोपयुक्तस्तं स
ततो रोहिणीसुतः । मणिस्त्वया सुसंगुप्तो मिथ्या वाक् त्वं महाखल ॥८८॥ अग्रजाय प्रदातव्यस्तदर्थं मणिरादरात् । कृतं
त्वया महालोभिन् कर्म साधु जुगुप्सितम् ॥८९॥ ततस्तं विनयेनैव सांत्वयामास केशवः । द्विजदेवगवां ते मे शपथो न कृतं
मया ॥१९०॥ तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगाम ह । विदर्भं राजनीतिज्ञं स्वमित्रं नृपतिं तदा ॥९१॥ ततोऽतिदुःख-
संयुक्तः कृष्णः परमदारुणम् । रुरोद बलभद्रं स स्मृत्वा स्मृत्वा विशेषतः ॥९२॥ ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपते ।
ततोऽतिदुःखितो भूत्वा रुरोद च पुनः पुनः ॥९३॥ अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः । नरतुल्यः कृतः केन धिङ् मे
जीवितकं किल ॥९४॥ रथसंस्थः समायातो द्वारकायां महायशाः । लोकवृत्तांतमुग्रं स कथयामास विस्तरात् ॥९५॥ ततो
यादवमुख्यैः स भर्त्सिसतोऽतिविशेषतः । कृष्णः सत्राजितः कर्म चकारोत्तरकं नृप ॥९६॥ देशे देशे नृपाद्याश्च जनाः कृष्णं
विशेषतः । निंदिंदुः कर्म कृष्णेन किं कृतं दुष्टबुद्धिना ॥९७॥ समर्थं बलभद्रं योऽत्यजज्ज्येष्ठं सुदुर्मतिः । मणिलोभी
महापापी विश्वास्यो नैव केनचित् ॥९८॥ द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे । त्यक्तः सर्वैस्तथा कृष्णः शुशोच
परमव्यथः ॥९९॥ अस्थित्वचासमायुक्तं सदा स्वगृहसंस्थितम् । नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः ॥२००॥
तं प्रणम्य महात्मानं कृष्णः परमदुःखितः । उवाच भावभक्त्या वै कृतांजलिपुटः शनैः ॥१॥ श्रीकृष्ण उवाच । सर्वैः
संत्याजितो दुःखी गृहे नित्यं वसाम्यहम् । तन्न ते दर्शनं स्वामिन्नभवत् भाग्ययोगतः ॥२॥ ततस्तं नारदः प्राह किमर्थं
त्यज्यसे वद । एवं पृष्टः पुनः प्राह वृत्तांतं सर्वमंजसा ॥३॥ श्रुत्वा वृत्तांतमुग्रं वै ध्यानेनालोक्य नारदः । देहत्यागे
समुद्योगं कुर्वंतं तमुवाच ह ॥४॥ नारद उवाच । भाद्रशुक्लचतुर्थ्यां च त्वया चन्द्रो विलोकितः । शप्तोऽसौ विघ्नराजेन तेन
खं. ४ अ. ६ पान १९
संदुःखितो भवान् ॥५॥ देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः । गणेशं भज भावेन संकष्टीव्रतसंयुक्तम् ॥६॥
मिथ्याऽपवादशून्यस्त्वं भविष्यसि न चान्यथा । सज्ञानश्च समर्थेखास्तस्मात् तं शरणं व्रज ॥७॥ एवमुक्त्वा महायोगी
नारदः प्रययौ ततः । गणेशगानसंयुक्तो वीणावादनलालसः ॥८॥ ततः कृष्णः प्रहर्षेण युक्तो विघ्नेशमादरात् ।
अभजद् ध्यानमार्गज्ञो ध्यानेनोग्रेण भूमिप ॥९॥ एकाक्षरेण मंत्रेणापूजयन्नित्यमेव तम् । व्रतं चकार स ततः संकष्टी-
संज्ञमुत्तमम् ॥१०॥ रात्रावेकांतसंस्थं तं ध्याननिष्ठं जनार्दनम् । निश्चलं गणराजः स ययौ भक्तं सुखप्रदः ॥११॥
बोधयामास तं कृष्णं गणेशो ब्रह्मनायकः । तमुत्थाय ननामाऽसौ पूजयामास चादरात् ॥१२॥ पुनः प्रणम्य तुष्टाव
विघ्नेशं सामगेन सः । स्तोत्रेणाष्टकसंज्ञेन नाम्ना तं प्रननर्त ह ॥१३॥ सरोमांचं गणेशानः कृष्णं दृष्ट्वा जगाद ह । वरं
वरय मत्तस्त्वं दास्यामि हृदि वाञ्छितम् ॥१४॥ गणेशवचनं श्रुत्वा तं जगाद महायशाः । कृष्णो भक्त्या समायुक्तो
वचनं खेदसंयुक्तः ॥१५॥ श्रीकृष्ण उवाच । यदि तुष्टोऽसि विघ्नेश वरदोऽसि विशेषतः । तदा ते भक्तिमुग्रां मे देहि ह्यव्यभि-
चारिणीम् ॥१६॥ भाद्रशुक्लचतुर्थ्यां ये चन्द्रं पश्यंति विघ्नप । ते शापदुःखहीना वै भवंतु कृपया च ते ॥१७॥ अहं
चासन्नमरणजनवज्ज्ञानवर्जितः । प्रकृतोऽन्यस्य का वार्ता प्रार्थयामि ततः प्रभो ॥१८॥ जगाद गणनाथः स ततस्तं
भक्तिमोहितः । मम भक्तिर्दृढा कृष्ण भविष्यति च तेऽनघ ॥१९॥ स्यमंतकस्य माहात्म्यं त्वदीयं लाञ्छनप्रदम् । वरदानं
मदीयं च यः शृणोति जनार्दन ॥२०॥ पठेत्तु भावयुक्तश्चैन् मां धृत्वा हृदये हरे । स एव दोषसंहीनो भवत्वन्न न संशयः
॥२१॥ एवमुक्त्वा गणेशानः कृष्णं भक्तिपरायणम् । अंतर्धानं चकाराऽसौ कृष्णस्तत्र समास्थितः ॥२२॥ संपूर्णं जागरं
कृत्वा पंचम्यां नियतः प्रभुः । पूजयित्वा गणेशानं ददौ दानं विशेषतः ॥२३॥ गणेशकृपया तस्यांऽतर्ज्ञानं संबभूव ह ।
ग्रहणं च मणेस्तेन ज्ञातमक्रूरकारितम् ॥२४॥ सभायां स समागम्याक्रूरं तत्राजुहाव च । तं प्रणम्य महाभागमुवाच
हास्यसंयुक्तः ॥२५॥ मणिश्च तात संत्यक्तो गेहे ते शतधन्वना । बलभद्रार्थमद्य त्वं मणिं दर्शय मानद ॥२६॥ ततोऽक्रूरेण
चानीतो मणिस्तत्र सुसंसदि । दृष्ट्वोग्रसेनमुख्यास्ते प्रशंसुर्जुनार्दनम् ॥२७॥ अक्रूरश्च विदर्भं तं गत्वा हलधरं प्रभुम् ।
मणिं दत्त्वा समानीय सभायां संस्थितोऽभवत् ॥२८॥ समागतं महावीरमनमत् केशवः पुनः । सर्वे हर्षयुता जाता द्वारका-
वासिनस्ततः ॥२९॥ निर्दोषं वासुदेवं ते मानयामासुरादरात् । राजानः सुहृदः सर्वे नानादेशनिवासिनः ॥३०॥
पान २७
सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः । तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् ॥३१॥ अतो भाद्रचतुर्थ्यां वै न
द्रष्टव्यः कदाचन । चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात् ॥३२॥ तेन दोषविहीनश्च जायते नात्र संशयः । अन्यथा
भ्रष्टभावेन नारकी स नरो भवेत् ॥३३॥ स्यमंतकमणेश्चित्रं चरितं कथितं परम् । चन्द्रदर्शनजं दोषं हरति श्रवणेन च ॥३४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रशुक्लचतुर्थी चंद्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं मया महाख्यानं त्वत्तो वेदविदांवर । चतुर्थ्योर्भुवयोः सारं माहात्म्येन
समन्वितम् ॥१॥ तथापि वद मे ब्रह्मन् पृथक् व्रतसमुद्भवम् । चरित्रं विस्तरेणैव केन केन कृतं पुरा ॥२॥ कीदृशी
चाऽभवत् सिद्धिः केन प्राप्तो गजाननः । श्रुत्वा व्रतस्य माहात्म्यं यामि नो तृप्तिमादरात् ॥३॥ मुद्गल उवाच। एवं पृष्टो महायोगी
वसिष्ठः परमार्थवित् । जगाद तं प्रजानाथ शृणु तत् सुखदं परम् ॥४॥ वसिष्ठ उवाच । आदौ शंम्भादिभिश्चैतत् कृतं व्रतमनु-
त्तमम् । कृष्णशुक्लचतुर्थ्यां यदुपोषणपरायणैः ॥५॥ ततः स्वायंभुवाद्यैश्च कृतं सर्वार्थसिद्धिदम् । ततो मुनिगणैः
सर्वैरन्यैर्वर्णस्थजंतुभिः ॥६॥ अधुनाऽहं पृथक्त्वेन कथयामि व्रतोद्भवम् । माहात्म्यं सर्वदं पुण्यं संक्षेपेण शृणुष्व तत् ॥७॥
पुरा दौष्यंतिको नाम भरतः संभवूव ह । तेजस्वी वीरमुख्येशः शस्त्रास्त्रज्ञः प्रतापवान् ॥८॥ जित्वा भूमंडलं सर्वं
सार्वभौमो बभूव ह । सप्तद्वीपवतीं पृथ्वीमपालद्धर्मसंयुतः ॥९॥ तद्देशे दैवयोगेन ह्यनावृष्टिः सुदारुणा । बभूव
सर्वलोकास्ते भयभीता बभूविरे ॥१०॥ चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः । कण्वं मुनिवरं शांतं ययौ शरण-
मादरात् ॥११॥ तं प्रणम्य महात्मानं पूजयामास भक्तितः । कृत्वा करपुटं तस्याऽग्रे स्थितो भरतोऽभवत् ॥१२॥ तमुवाच
महायोगी गाणपत्यप्रियः सदा । कण्वो वेदार्थसंनिष्ठो भरतं राजसत्तमम् ॥१३॥ कण्व उवाच । किमर्थमागतो राजन् कुशलं
ते महामते । अस्ति देशादिभावेषु तिष्ठ त्वं चासनोत्तमे ॥१४॥ कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः । मुनिदत्ते
विवेशासावासने स कृतांजलिः ॥१५॥ उवाच तं महात्मानं कण्वं वेदविदां वरम् । भरतो राजनीतिज्ञो भक्तियुक्तो
विशेषतः ॥१६॥ भरत उवाच । त्वत्प्रसादेन योगींद्र कुशलं मे प्रवर्तते । दैवयोगेन तदपि दुःखितोऽहं समागतः ॥१७॥
खं ४ अ. ७ पान २१
नित्यं स्वधर्मयुक्तेन मया संपालिता मही । देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम ॥१८॥ वर्णाश्रमाचारयुता जनाः सर्वे
भवंति च । तथापि पापजं दुःखं संप्राप्तं तन्न वेद्यहम् ॥१९॥ अनावृष्टिश्च संभूता प्रभो सर्वत्र दुःखदा । चराचरं
भयोद्विग्नं बभूव रसहीनतः ॥२०॥ तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः । त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत्
॥२१॥ अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम् । येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद ॥२२॥ ततस्तं नृपशार्दूल-
मुवाच मुनिसत्तमः । कण्वः श्रुत्वा च वृत्तांतं दयायुक्तः स्वभावतः ॥२३॥ कण्व उवाच । शृणु राजन् महत् पापं तव राज्ये
प्रवर्तितम् । तेनाऽवृष्टिभवं दुःखं प्रादुर्भूतं न संशयः ॥२४॥ चतुःपदविहीनं ते राज्यं भवति निश्चितम् । जनैः सर्वैः सुशीलैश्च
पापं घोरं कृतं महत् ॥२५॥ त्वं पापशीलभावेन वर्तसे जनवत्सल । धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम ॥२६॥
चतुर्थीसंभवं तात व्रतं सर्वार्थसिद्धिदम् । कार्ष्णं शौक्लं सुविख्यातं भ्रष्टं राज्येऽभवन्नृप ॥२७॥ चतुर्विधं जगत्सर्वं स्थूल-
सूक्ष्मादिभेदतः । संकटं यत्तदेव त्वं जानीहि नृपनायक ॥२८॥ चतुर्विधं च संकटं हरति व्रतकारिणः । सा संकटचतुर्थी
वै कृष्णा ते कथिता मया ॥२९॥ चतुर्विधं या ददाति सा शुक्ला वरदा मता । संचितं नास्ति चेद्राजन् व्रतकारिजनाय
वै ॥३०॥ चतुर्थीजं स माहात्म्यं कथयामास विस्तरात् । कण्वस्तद्धरतायैव स्वशिष्याय विशेषतः ॥३१॥ व्रतानि वै
निष्फलानि चतुर्थीहीनकानि चेत् । ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः ॥३२॥ भरत उवाच । स्वामिन् वद गणेशस्य
माहात्म्यं सर्वसिद्धिदम् । एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥३३॥ कण्व उवाच । शृणु राजन् गणेशस्य माहात्म्यं
सर्वदं परम् । क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता ॥३४॥ एकदाऽहं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा । वायुमात्राशनो
भूत्वा तपामि स्म तपो महत् ॥३५॥ मदीयतपसा सर्वं व्याप्तमासीन्नराधिप । तथापि योगमास्थाय संस्थितोऽहं
विशेषतः ॥३६॥ ततः प्रजापतिः साक्षादाश्रमे मे समागतः । ऋतुर्योगींद्रवंद्यो यो गाणपत्यो महायशाः ॥३७॥ तं प्रणम्य
महात्मानं पूजयित्वा पुरः स्थितम् । कृतांजलिं मामुवाच स तथा भक्तवत्सलः ॥३८॥ क्रतुरुवाच । वत्स तिष्ठस्व मे दत्त आसने
किं महामते । इच्छा ते वद मां तात करिष्यामि हि तं च ते ॥३९॥ तस्य तद्वचनं श्रुत्वा हर्षितोऽहं नराधिप । आसने
समुपावेश्यावदत्तं विनयान्वितः ॥४०॥ कण्व उवाच । तव दर्शनमात्रेण कृतकृत्योऽस्मि सांप्रतम् । तथापि शांतिदं योगं
वद पूर्णं दयानिधे ॥४१॥ क्रतुरुवाच । सम्यक् पृष्टं त्वया वत्स श्रेष्ठाच्छ्रेष्ठतमं महत् । कथयामि महाभाग ब्रह्मणः संश्रुतं
खं. ४ अ. ७ | पान २२
मया ॥४२॥ तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः । न शांतिं प्रलभे तत्र योगभूमिं प्रसाधयन् ॥४३॥ ततोऽहं पितरं
गत्वा ब्रह्माणं सर्ववेदिनम् । वंद्यं तं योगशांत्यर्थमपृच्छं विनयान्वितः ॥४४॥ स्वामिन् शांतिप्रदं ब्रह्म कीदृशं वद मे प्रभो ।
केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः ॥४५॥ ब्रह्मोवाच । योगशांतिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक । मनोवाणीमयं सर्वं
त्यज योगस्य सेवया ॥४६॥ मनोवाणीविहीनं यदेव तत्तादृशं मतम् । गणेशोऽहं न भिन्नश्च ब्रह्मणो नायकः स्मृतः ॥४७॥
मनोवाणीमयः प्रोक्तो गकारो वेदवादतः । मनोवाणीविहीनश्च णकारः सर्वसंमतः ॥४८॥ तयोः स्वामी गणेशानो नाम्ना
गणपतेर्यदा । गकारस्य णकारस्य योगो वेदप्रमाणतः ॥४९॥ समाधिना लभ्यते यच्चित्तेन च महामते । गकाराक्षरगं ज्ञानं
ज्ञातव्यं वेदवादतः ॥५०॥ चित्तेन यन्न लभ्येत णकारं विद्धि मानद । ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शांतिमवाप्स्यसि ॥५१॥
एतदेव परं गुह्यं शांतिदं कथितं मया । तदर्थं गणराजं त्वं भजस्व भावसंयुतः ॥५२॥ एकाक्षरं महामंत्रं गृहाण त्वं
महामते । ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः ॥५३॥ एवमुक्त्वा महामंत्रं ददौ मह्यं विधानतः । तं प्रणम्य वने
तात गतोऽहं योगकारणात् ॥५४॥ क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परम् । चित्तं चिंतामणौ पुत्र क्षिप्तं तद्रूप-
भावतः ॥५५॥ ततो योगींद्रवंद्योऽहं जातस्तदपि नित्यदा । गणेशध्यानसंयुक्तोऽभवं तद्भक्तिकाम्यया ॥५६॥ ततो
विघ्नपतिः साक्षाद्दर्शनं मे ददौ मया । स्तुतः संपूजितः सोऽपि ददौ स्वभक्तिमुत्तमाम् ॥५७॥ तदादिगाणपत्योऽहं जातः
सर्वैश्च वंदितः । भजस्व गणराजं तमतस्त्वं योगकाम्यया ॥५८॥ कण्व उवाच । एवमुक्त्वा महायोगी मह्यं मंत्रं ददौ ततः ।
एकाक्षरं यथान्यायमंत्र्धानं चकार ह ॥५९॥ अहं तथा गणेशानं साधयित्वा विशेषतः । शांतिं प्राप्तस्तं तथापि भजाम्य-
नन्यचेतसा ॥६०॥ अतस्त्वमपि राजेंद्र भज विघ्नपतिं सदा । चतुर्थीव्रतसंयुक्तो ब्रह्मभूतो भविष्यसि ॥६१॥ तत एकाक्षरं
मंत्रं ददौ तस्मै महामुनिः । कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा ॥६२॥ तस्मिन् काले चतुर्थी सा शुक्ला भाद्री समागता ।
कृता तेन सुभक्त्या वै नगरस्थजनैः सह ॥६३॥ ततः सर्वत्र संघोषः कृतस्तेन महीभृता । शुक्लां कृष्णां चतुर्थीं ये
नाऽऽचरिष्यंति नित्यदा ॥६४॥ ते दंडैः पीडनीया वै ततः सर्वेऽभवन् जनाः । व्रतकारिण एतस्मात् पुण्यात् वृष्टिर्बभूव ह ॥६५॥
हृष्टपुष्टजनाः सर्वे तया जाता नृपात्मज । रोगादिदोषहीनास्ते भजंतं गणनायकम् ॥६६॥ भरतः स्म महाराजोऽभजत्सो-
ऽनन्य चेतसा । गणेशं भक्तिसंयुक्तो गाणपत्यप्रियोऽभवत् ॥६७॥ स पुत्रे राज्यमुग्रं तन्निक्षिप्य वनगोऽभवत् ।