भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

[Header] खं ४ अ. १७ | पान ५१


वायुमात्राशनोऽभवम् । चराचरं ततो मत्तेजसा व्याप्तं भयातुरम् ॥२५॥ तथापि तपसा राजन् युक्तोऽहं तत्र मेऽद्भुतम् । बभूव विश्वरूपस्य दर्शनं सर्वगं परम् ॥२६॥ तेनाऽहं ज्ञानभावेन संस्थितो योगकारणात् । तपस्त्यक्त्वा विशेषेण जडोन्मत्तादिके रतः ॥२७॥ शमी दमपरो भूत्वा योगं पूर्णसुखप्रदम् । असाधयं सदाऽत्यंतं मनोनिग्रहतत्परः ॥२८॥ एवं क्रमेण भूपाल सहजे ब्रह्मणि ह्यहम् । ब्रह्मभूतस्वभावेन संस्थितो हर्षवांस्तदा ॥२९॥ ततो मयाऽतिमोहेन शून्यं स्वाधीन- रूपकम् । दृष्टं तेनाऽभवं भ्रांतो ब्रह्मणि त्वीदृशं कथम् ॥३०॥ ततोऽहं शरणं शंभुं गत्वा तं स्तुतवान् स्तवैः । प्रसन्नं शंकरं दृष्ट्वाऽवदं योगं वद प्रभो ॥३१॥ शिव उवाच । सत्यासत्यसमानानि सहजेन युतानि वै । निजात्मबोधतो विद्धि स्वानंदादुद्भवानि च ॥३२॥ संयोगे स्वस्वरूपत्वं ज्ञातव्यं वेदवादतः । अयोगे सर्वसंयोगो नश्यत्यत्र न संशयः ॥३३॥ संयोगश्च तथा योगस्तयोर्योगो महामते । योगशांतिप्रदः प्रोक्तो योगिभिर्योगसेवया ॥३४॥ योगशांतिमयं विद्धि गणेशं ब्रह्मनायकम् । तं भजस्व विधानेन ब्रह्मभूतो भविष्यसि ॥३५॥ संयोगश्च गकाराख्यो णकारो योगवाचकः । तयोः स्वामी गणाधीशः पश्य वेदे विशेषतः ॥३६॥ एवमुक्त्वा महादेवो ददौ मंत्रं द्विजाय मे । एकाक्षरं गणेशस्य विधियुक्तं सुयोगदम् ॥३७॥ प्रणम्य शंकरं भूप गतोऽहं वनमेव च । अभजं गणराजं तं ध्यात्वा जपपरायणः ॥३८॥ ततस्तत्कृपया शांतिर्मया प्राप्ता विशेषतः । तथाऽपि पूजने सक्तस्तं ध्यायामि स्म चेतसा ॥३९॥ ततो मां दर्शयामास रूपं शुंडा- विराजितम् । दृष्ट्वा तं प्रणमामि स्म स्तौमि हर्षसमन्वितः ॥४०॥ भक्तिं दत्त्वा गणाधीशो ह्यंतर्धानं चकार मे । तदारभ्य महाभाग गाणपत्योऽहमादरात् ॥४१॥ एवमुक्त्वा ददौ तस्मै मंत्रं पंचाक्षरं मुनिः । अंतर्धानं गणेशस्य स चकार द्विजोत्तमः ॥४२॥ बकदाल्भ्यं गतं दृष्ट्वा राजा हर्षसमन्वितः । चकार स्वपुरे राज्यं पुनरागत्य धर्मतः ॥४३॥ ततः स नागरैः सार्धं चकार व्रतमुत्तमम् । आषाढे शुक्लपक्षे वै चतुर्थीजं सुभक्तितः ॥४४॥ ततः सर्वत्र तेनैव प्रशस्तं तद्व्रतं कृतम् । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना नृप ॥४५॥ शुकाश्च मूषकास्तत्र शलभा नाशमाययुः । धनधान्ययुता लोकाः पुष्टिं लेभुः सुहर्षतः ॥४६॥ नानादुःखं परित्यज्यानंदेनैव समावृताः । अंते स्वानंदगाः सर्वे ब्रह्मभूता बभूविरे ॥४७॥ राज्येऽभिषिच्य पुत्रं स्वं सपत्नीको ययौ वनम् । तत्र तं गणराजं सोऽभजतानन्यभावतः ॥४८॥ अंते स्वानंदगो भूत्वा सस्त्रीकोऽजसमुद्भव । ब्रह्मभूतो व्रतस्यास्य प्रसादेन बभूव ह ॥४९॥ अन्यच्छृणु चरित्रं तद्व्रतजं पुण्यवर्धनम् । आषाढे

खं. ४ अ. १८ | पान ५२ वरदायाश्च भुक्तिमुक्तिफलप्रदम् ॥५०॥ वंगदेशे समुत्पन्नो वाणिजः पापकारकः । स्वधर्मं स परित्यज्य दुष्टकर्मरतो- ऽभवत् ॥५१॥ द्यूतमद्यादिकं नित्यं हिंसयाऽसेवतान्वितः । बलात् धृत्वाऽभुंक्त परस्त्रियं वशमनागताम् ॥५२॥ तस्य कर्म दुराचारं ज्ञात्वा पित्रा तिरस्कृतः । असकृत्तेन स क्षुब्धो विषं पित्रे ददौ खलः ॥५३॥ विषबाधासमायुक्तः स ममार ददाह तम् । ततो मातरमगम्य धनं जग्राह वै बलात् ॥५४॥ लोकाः सर्वे ततो ज्ञात्वा चेष्टितं दुःखदं परम् । तस्य दुष्टस्य ते तत्र व्यथिताः संबभूविरे ॥५५॥ जनाः श्रेष्ठा नृपं गत्वाऽकथयंस्तद्विशेषतः । चेष्टितं क्षुभितो राजा श्रुत्वा तं तत्र चानयत् ॥५६॥ शूले नृप नरैः प्रोतो दुर्मतिः स नृपाज्ञया । तद्दिने दैवयोगेनाषाढी शुक्ला बभूव ह ॥५७॥ तत्राऽयं जलहीनश्च निराहारः स्थितोऽभवत् । पंचम्यां पीडया युक्तो ममार नृप दुष्टधीः ॥५८॥ अज्ञानव्रतपुण्येन स स्वानंदगतोऽभवत् । महापापी व्रतस्यैव प्रभावेण महीपते ॥५९॥ स्वानंदे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह । एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे ॥६०॥ तन्नैवं कति संख्यातुं शक्यते न कदाचन । वर्षायुतैर्महाराजाऽखिलं केनाऽपि योगिना ॥६१॥ यदि ज्ञानेन सा देवी चतुर्थी साधिता भवेत् । वरदा तत्र किं चित्रं तस्मै ब्रह्मप्रदा भवेत् ॥६२॥ इदमाषाढगायाश्च चतुर्थ्याश्चरितं पठेत् । शृणुयाद्वरदायाश्चेत् स लभेदीप्सितं फलम् ॥६३॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते आषाढशुक्लचतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणे वरदायाश्च माहात्म्यं वद विस्तरात् । न तृप्यामि कथां श्रुत्वा ब्रह्मभूयप्रदां प्रभो ॥१॥ वसिष्ठ उवाच । अंगदेशे पुरं श्रीमच्छततारं बभूव ह । राजा राज्यं चकाराश्वसेनसंज्ञोऽपि तत्र हि ॥२॥ धर्मेण नीतियुक्तेन नानादानपरायणः । देवविप्रातिथिप्रेप्सुर्बभूवातिपराक्रमी ॥३॥ नानाव्रतपरो राजा यज्वा तेजस्विनां वरः । शस्त्रास्त्रैः पृथिवीं सर्वां जिग्ये बलसमन्वितः ॥४॥ सार्वभौमः स विख्यातस्त्रिलोकीकीर्तिकारकः । राज्ञः सर्वान् वशे चक्रे सेवकान् करदायिनः ॥५॥ एवं राज्यं वशं कृत्वा भूतलं स चकार ह । ततोऽकस्माज्जवरस्तस्य समुत्पन्नोऽतिदाहकः ॥६॥ ज्वरेण पीडितोऽत्यंतं निशि निद्रां न चाऽलभत् । नानोपायांश्चकाराऽसौ ज्वरहीनो बभूव न ॥७॥ एवं वर्षे गते पूर्णे सोऽस्थिचर्मावशेषितः । अत्यंतदुःखितो राजा विललाप भृशातुरः ॥८॥ विषेण देहपातार्थमुद्यतोऽभून् महीपतिः । जगाम

यहाँ प्रस्तुत पृष्ठ का देवनागरी लिप्यंतरण दिया गया है:

शीर्षक (Header): लं. ४ अ. १८ | पान ५३


सहसा तत्र देवलो योगिसत्तमः ॥९॥ तं दृष्ट्वा प्रणनामाथ पूजयामास बांधवैः । भुक्त्वा तृप्तं जगादेदं वचनं साधुमार्गवित् ॥१०॥ अश्वसेन उवाच । धन्यं मे जन्म कर्माऽपि पिता माता व्रतादिकम् । अधुना सफलं दानं येन ते दर्शनं मुने ॥११॥ ज्वरेण पीडितोऽत्यंतं विषपाने महामुने । तत्परोऽहं प्रपश्याम्यागतं त्वां योगिसत्तम ॥१२॥ मृतोऽहं विषपानेनात्महत्यां न लभे कदा । तव दर्शनमात्रेण मुक्तो यास्यामि धाम तत् ॥१३॥ एवमुक्त्वा रुरोदाऽपि ततस्तं देवलो मुनिः । उवाच भावगंभीरः सर्वशास्त्रार्थतत्त्ववित् ॥१४॥ देवल उवाच । राज्ये नष्टं त्वदीये यच्चतुर्थीसंज्ञितं व्रतम् । तेन त्वं रोगयुक्तोऽसि मृतो गच्छसि नारके ॥१५॥ चतुःपदार्थदं पूर्णं सर्वादौ संमतं परम् । न कृतं चेत् फलैर्हीनं कर्म सर्वं भवेन्नृप ॥१६॥ त्वया यच्च कृतं कर्म नानापुण्यात्मकं महत् । चतुःपदार्थहीनं तच्चतुर्थीव्रतहीनकम् ॥१७॥ एवमुक्त्वा महायोगी चतुर्थीव्रतसंश्रिताम् । कथां संश्रावयामास राजा श्रुत्वा तमब्रवीत् ॥१८॥ अश्वसेन उवाच । अहो व्रतस्य माहात्म्यं संश्रुतं परमाद्भुतम् । अधुना वद माहात्म्यं गणेशस्य महामुने ॥१९॥ देवल उवाच । गणेश्वरस्य माहात्म्यं मया वक्तुं न शक्यते । उपाधिना युतं राजन् वदिष्यामि स्वरूपकम् ॥२०॥ असितान् मे पितुर्वक्त्राच्छ्रुतं तत्ते वदाम्यहम् । सर्वसिद्धिकरं पूर्णं ब्रह्मयोगप्रकाशकम् ॥२१॥ पुराऽहं तपसा युक्तोऽभवंस्तत्र समागतः । जैगीषव्यो महायोगी शैवः सहजगो बभौ ॥२२॥ मया सुसत्कृतो योगी संस्थितः पूजितः स्तुतः । ममाश्रमे न किंचिन् माऽवदत् सोऽपि महायशाः ॥२३॥ तस्य चिह्नं समालोक्य मनसा धारयाम्यहम् । अकर्मकारकश्च स्म देहरक्षणतत्परः ॥२४॥ ध्यानादिशून्यभावेन तिष्ठति भ्रष्ट एव च । शांतियोगेन हीनः स्म तथा योगिस्वरूपधृक् ॥२५॥ ततोऽहं तं गृहे त्यक्त्वा गतः सामुद्रके जले । मदीयचित्तगं ज्ञात्वा स तत्रैव समाययौ ॥२६॥ अहो केनैव मार्गेणाऽऽगतोऽयं योगिसत्तमः । तापसेन मयाऽऽकाशे गच्छता नावलोकितः ॥२७॥ त्यक्त्वा ततस्तं तत्राहमगमं स्वर्गमंडलम् । तत्रापि जैगीषव्यश्च मया दृष्टो महामते ॥२८॥ एवं नानाविधैर्मार्गैः स्वर्गेषु गतवानहम् । मया तेषु महायोगी दृष्टः संपूजितोऽमरैः ॥२९॥ ततोऽकस्मात् महायोगी सोऽन्तर्धानं चकार ह । तद् दृष्ट्वा सिद्धसंघांश्चापृच्छं तैः कथितं नृप ॥३०॥ ब्रह्मलोके गतः सोऽपि तत्र तेन गतिर्भवेत् । ततोऽहं खेदसंयुक्तः स्वाश्रमं पुनरागमम् ॥३१॥ तत्रापि गृहमध्येऽसौ मया दृष्टो महायशाः । संपूज्य प्रणतो भूत्वाऽवदं योगपरायणः ॥३२॥ तारयस्व महायोगिन् संसारान् मां कुशिष्यकम् । छलनायां समायुक्तं दयया त्वं दयानिधे ॥३३॥ जैगीषव्य उवाच । हिंसात्मकं कुरुष्व त्वं

खं. ४ अ. १८ पान ५४ कर्म मा यत्नधारकः । ब्रह्माहमिति बोधेन शमी दमपरो भव ॥३४॥ यदाज्ञावशगं सर्वं वर्तते तं भजस्व च । तेन योगी त्वमेवेह भविष्यसि न संशयः ॥३५॥ जैगीषव्यश्चैवमुक्त्वा तत्रैवांतरधीयत । अहं तत्र समासीनो हिंसां त्यक्त्वा तथाऽभवम् ॥३६॥ ततः स्म पितरः सर्वे महत् कुर्वंति रोदनम् । अहो कर्म परित्यज्य देवलो न उपेक्षते ॥३७॥ अस्मान् कः पुष्यति प्राज्ञो निराधारा वयं कृताः । देवलेन न संदेहः क्षुधाविष्टास्तृषा युताः ॥३८॥ तान् दृष्ट्वा दुःखितोऽहं वै कर्म कर्तुं समुद्यतः । मया दृष्टा ओषधयो महत् कुर्वंति रोदनम् ॥३९॥ अस्मानहोऽभयं दत्वा देवलः क्रौर्यमाश्रितः । निर्लज्जः पुनरेवाऽसौ छेद्यिष्यति दुर्मतिः ॥४०॥ ततोऽहं नितरां खिन्नो ह्युभयत्रैव संकटात् । विचार्य स्वहिते सक्तः शमी दमपरो- ऽभवम् ॥४१॥ सर्वाभयस्वभावेन कर्मणा योगसेवया । क्रमेण सहजे योग्यऽहं ब्रह्मणि परोऽभवम् ॥४२॥ तत्र स्वाधीनतां दृष्ट्वा शांतिहीनोऽभवं पुनः । अगमं पितरं तत्र योगींद्रैर्वंदितं स्तुतम् ॥४३॥ तत्राऽसितं प्रणम्यैवाऽपृच्छं ब्रह्म सनातनम् । योगशांतिप्रदं पूर्णं ततो मां सोऽब्रवीद्वचः ॥४४॥ असित उवाच । संयोगाद्विद्धि पुत्र त्वं स्वसंवेद्यात्मकात् किल । चतुर्विधं समुत्पन्नं तत्यजस्व समाधिदम् ॥४५॥ अयोगेन च संयोगो दृश्यते योगिभिः कदा । संयोगायोगयोर्योगो योगशांतिप्रदो मतः ॥४६॥ भजस्व गणराजं त्वं तदर्थं नित्यमादरात् । सदा योगस्वरूपं तं शांतिदं योगिनोऽब्रुवन् ॥४७॥ संयोगेऽयं गकाराख्यो णकाराख्यस्त्वयोगके । तयोर्योगे गणाधीशो ज्ञातव्यो विबुधैः सदा ॥४८॥ एवमुक्त्वा ददौ मंत्रं मह्यमेकाक्षरं परम् । गाणपत्यः प्रसन्नात्मा पिता मे गणपं भजन् ॥४९॥ ततस्तं प्रणिपत्यैव गतोऽहं स्वाश्रमे नृप । गणेशं पूजयामि स्म ध्यात्वा जपपरोऽभवम् ॥५०॥ ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमेव च । योगिवंद्योऽभवं राजंस्तथापि गणपं भजे ॥५१॥ गते वर्षे समायातो गणेशो भक्तवत्सलः । स्तुतः संपूजितस्तत्र मया हृष्टेन चेतसा ॥५२॥ ततो मां गाणपत्यं स पितृतुल्यं महोदरः । कृत्वा स्वानंदके धाम्नि गतो ब्रह्मपतिः प्रभुः ॥५३॥ उक्त्वा दशाक्षरं मंत्रं ददावेवं नृपाय च । अंतर्धाय स्वमात्मानं देवलः स्वाश्रमेऽगमत् ॥५४॥ ततः स राजशार्दूलो गणेशभजने रतः । तत्राऽऽदौ श्रावणी प्राप्ता वरदा या चतुर्थिका ॥५५॥ तां चकार जनैः सर्वैः पुरवासिभिरादरात् । उपोषणसमायुक्तः पंचम्यां पारणे रतः ॥५६॥ ततो दाहविनिर्मुक्तो ज्वरहीनो बभूव ह । जनाः सर्वे च रोगाद्यैर्हीना जातास्तदद्भुतम् ॥५७॥ ततस्तेन महीपृष्ठे विख्यातं तद्व्रतं कृतम् । शुक्लकृष्णभवं चक्रुर्व्रतं सर्वे धरातले ॥५८॥ आरोग्यादिसमायुक्ता हृष्टपुष्टा जनाः बभुः । व्रतस्य पुण्ययोगेन

खं. ४ अ. १९ पान ५५

पुत्रपौत्रधनान्विताः ॥५९॥ पुत्रे राज्यं परित्यज्य राजा शांतिपरायणः । सस्त्रीक एकांते सोऽभूद्भजद्गणनायकम् ॥६०॥ अंते स्वानंदगो राजा ब्रह्मभूतो बभूव ह । क्रमेण सर्वे लोका वै ब्रह्मभूता बभूविरे ॥६१॥ एवं व्रतस्य माहात्म्यं सर्वसिद्धि- प्रदायकम् । कथितं ते महाराज पुनः शृणु कथानकम् ॥६२॥ गुर्जरे पापकर्माकः क्षत्रियो दुर्बलोऽभवत् । बाल्यात् प्रारभ्य दुष्टात्मा पापकर्मपरायणः ॥६३॥ स्त्रीमांसमदिरासक्तो जनानां च पशोस्तथा । वधे रतो गुरुं चैव मारयामास मंदधीः ॥६४॥ गुरोर्द्रव्यं गृहीत्वा स वनगश्च बभूव ह । एवं नानाविधं पापं चकार नित्यमादरात् ॥६५॥ एकदा ज्वरयुक्तः स बभूव क्षत्रियाधमः । अत्यंतं व्याकुलो जातो देहशुद्धिं न चास्मरत् ॥६६॥ दैवयोगेन शुक्ला सा श्रावणे सुसमागता । चतुर्थी तत्र तेनैवान्नं जलं भक्षितं न च ॥६७॥ पंचम्यां तेन किंचिद्वै भक्षितं त्वन्नमादरात् । रोगहीनो बभूवाऽपि पुनः पापं समाचरत् ॥६८॥ कालेन निधनं प्राप्तं तं नेतुं च समागताः । दुष्टं संगृह्य गाणेशा ब्रह्मभूतं प्रचक्रिरे ॥६९॥ अज्ञान- व्रतजेनैव पुण्येन क्षत्रियो ययौ । स्वानंदं किं पुनर्ज्ञानिनां कथा का नृपात्मज ॥७०॥ एवं नाना जनायाश्च चतुर्थीव्रतपुण्यतः । ब्रह्मभूता मया वक्तुं न शक्यास्ते बभूविरे ॥७१॥ इदं श्रावणगायाश्च वरदायाः पठेन्नरः । माहात्म्यं शृणुयाच्चेद्रा स सर्वं संलभेत फलम् ॥७२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः ॥

❖★❖

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वद ब्रह्मन् मले मासे चतुर्थी या समागता । वरदा चरितं तस्याः सर्वसिद्धिप्रदायकम् ॥१॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहास पुरातनम् । चतुर्थी महिमायुक्तं श्रवणात् सर्वदं परम् ॥२॥ आंध्रे राजा सुषेणश्च चकार राज्यमुत्तमम् । नगरे चंपके भूप शस्त्रास्त्रे पारगो मतः ॥३॥ नीत्या धर्मेण कीर्त्या च दानेन यश आर्जयत् । देवविप्रातिथिप्रेप्सुर्यज्वा व्रतपरायणः ॥४॥ जित्वा भूमंडलं सर्वं राज्यं चकार धर्मतः । राजानः करदाः सर्वे सेवां चक्रुर्महीपतेः ॥५॥ तस्य राज्ये महा सर्पा बभक्षुस्तज्जनान् सदा । यत्र तत्राऽचरन् क्षुब्धाः सर्पाः परमदारुणाः ॥६॥ जनैः कुत्र महीपाल प्रगंतुं नैव शक्यते । तथैव दुःखितैः स्थातुं वनेषु च गृहेषु च ॥७॥ राजा तथैव दुःखार्तो महाभयपरायणः ।

नागानां शांतये सर्वैः पंचमी साधिताऽभवत् ॥८॥ तथा स्म न शमं यांति नागाः परमदारुणाः । नानापुण्यानि तीर्थानि जनाश्चक्रुर्विशेषतः ॥९॥ तथाऽधिकं ययुः क्रूरा नागाः सर्वत्र भूमिषु । राजेंद्रः स्वगुरुं तत्र जैमिनिं शरणं ययौ ॥१०॥ तं प्रणम्य पुरस्तस्य संस्थितः स कृतांजलिः । तं मुनिर्मानयामासाऽऽसनदानाद्विशेषतः ॥११॥ पप्रच्छ विनयेनैव युक्तं किमर्थमागतः । सुषेणः स तथोवाच निःश्वस्य मुनिपुंगवम् ॥१२॥ सुषेण उवाच । स्वामिन् सर्पा अपाराश्च धर्षतश्च सदा जनान् । न स्थातुं शक्यते तत्र भयसंकुलितैर्मुने ॥१३॥ नानोपायाः कृतास्तत्र न शांतिं लेभिरे ततः । तदर्थं त्वां महाभाग प्रष्टुमत्र समागतः ॥१४॥ वद सर्पगणानां च शांतये किं करोम्यहम् । विप्र नो चेत् त्वत्समीपे देहत्यागं करोमि वै ॥१५॥ वसिष्ठ उवाच । एवं पृष्टो महातेजा जैमिनिस्तमुवाच ह । स्वशिष्यं निंदयन् राजंस्तच्छृणुष्व समाहितः ॥१६॥ जैमिनिरुवाच । चतुर्थीजं महापापिन्भ्रष्टं राज्ये तव व्रतम् । तेन त्वं च मृतैः सर्वैर्नरके प्रपतिष्यसि ॥१७॥ चतुर्णां पुरुषार्थानां दातृत्वाद्वरदा मता । तथा संकटनाशित्वात् संकष्टी सा प्रकीर्तिता ॥१८॥ यदि व्रतं च सर्वादौ न कृतं चेन्निरर्थकम् । कर्महीनं चतुर्भिस्तन्नित्यं कार्या ततः प्रभो ॥१९॥ एवमुक्त्वा चतुर्थ्याश्च माहात्म्यं मुनिसत्तमः । कथयामास तच्छ्रुत्वा सुषेणस्तं तथाऽब्रवीत् ॥२०॥ सुषेण उवाच । कीदृशोऽयं गणेशानो व्रतं यस्य महाद्भुतम् । वद तस्य स्वरूपं मे भजिष्यामि महाप्रभुम् ॥२१॥ जैमिनिरुवाच । न वक्तुं शक्यते राजन् केनाप्येतत् स्वरूपकम् । उपाधिना युतं ढुंढिं वदामि शृणु तत्त्वतः ॥२२॥ अहं पुरा सुशांत्यर्थं व्यासं च शरणं गतः । मह्यं संकथितं तेन साक्षात्नारायणेन च ॥२३॥ तदेव त्वां वदिष्यामि स्वशिष्यं च नृपाधमम् । यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥२४॥ देहदेहिमयं सर्वं गकाराक्षरवाचकम् । णकारवाचकं ब्रह्म संयोगायोगरूपकम् ॥२५॥ तयोः स्वामी गणेशस्तु पश्य वेदे महामते । चित्ते निवासकत्वाच्चिंतामणिवै स कथ्यते ॥२६॥ चित्तरूपा स्वयं बुद्धिर्भ्रांतिरूपा महीपते । सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः ॥२७॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं षडक्षरम् । सुषेणाय यथान्यायं विधियुक्तं विशेषतः ॥२८॥ ततस्तेनाभ्यनुज्ञातः स्वपुरं स जगाम ह । तत्राऽऽदौ मलमासश्च संप्राप्तस्तेन भूमिप ॥२९॥ मलमासे गणेशस्य वरदाख्यं समागतम् । सोऽपि शुक्ले चतुर्थीजं व्रतं चक्रे सुभक्तितः ॥३०॥ नागरैर्विविधैर्लोकैः समीपग्रामसंस्थितैः । तत्कृतं विधिना राजन् सर्वसिद्धिप्रदायकम् ॥३१॥ ततस्तेन सुषेणेन प्रशस्तं भूममंडले । कृतं ततो जनाः सर्वे चक्रुर्हर्षसमन्विताः ॥३२॥ अभवन् व्रतपुण्येन सर्पा अंतर्हिता बभुः । लोका रोगादिभिः

खं. ४ अ. २० पान ५७ सर्वे वर्जिता हर्षसंयुताः ॥३३॥ पुत्रपौत्रादिसंयुक्ता धनधान्यसमन्विताः । नानासुखेषु संसक्ता अभवंस्तत्र ते ततः ॥३४॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । षडक्षरेण मंत्रेण विधियुक्तेन पूजयन् ॥३५॥ पुत्रे राज्यं विनिक्षिप्य सस्त्रीकः स वनं ययौ । तत्र विघ्नेशमेवं सोऽपूजयद्यत्नतत्परः ॥३६॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । जनाः सर्वे व्रते संस्थाः शुक्लकृष्णभवे परे ॥३७॥ स्वांते क्रमेण ते सर्वे ब्रह्मभूता बभूविरे । व्रतस्यैव प्रभावेण न किंचिद् दुर्लभं भवेत् ॥३८॥ अन्यच्छृणु महीपाल चरितं मलमासगम् । पुण्यं शुक्लचतुर्थीजं श्रवणात् सर्वदं भवेत् ॥३९॥ हस्तिनापुरवासी च क्षत्रियः कः सुदारुणः । बाल्यात् प्रभृति वै सोऽपि पापाचारो बभूव ह । ॥४०॥ द्रव्यलोभार्थमेवं स्वजनकं स जघान ह । परस्त्री- लालसः पूर्णश्चौरकर्मपरोऽभवत् ॥४१॥ एवं नानाविधं पापं चक्रेऽसौ दुर्मतिः सदा । वने स्थितः कदाचिद्वै जनान् जघ्ने महाखलः ॥४२॥ एतस्मिन्नंतरे तत्र सर्पेणैव महीपते । दष्टः सोऽपि भयोद्विग्नो गृहे गंतुं मनो दधे ॥४३॥ ततो विषेण संव्याप्तो देहस्तेन पपात ह । दैवयोगेन तत्राऽसौ जलान्न्रहितोऽभवत् ॥४४॥ शुक्लपक्षे मले मासे चतुर्थी सा तिथस्तदा । तेन प्राप्ता तत्र भूप अज्ञानेन व्रतं कृतम् ॥४५॥ पंचम्यां स मृतस्तत्र वने घोरे महाखलः । स्वानंदे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥४६॥ नाना जना व्रतेनैव ब्रह्मभूता बभूविरे । इह भुक्त्वाऽखिलान् भोगानंते वक्तुं न शक्यते ॥४७॥ इदं चतुर्थीमाहात्म्यं मलमासे शृणोति यत् । शुक्लपक्षे लभेत् सोऽपि पठेद्वा सर्वमंजसा ॥४८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । संश्रुत्य वरदाया वै माहात्म्यं सर्वदं परम् । अत्यंतं कृतकृत्योऽहं जातो नास्त्यत्र संशयः ॥१॥ नानेन सदृशं किंचिद्व्रतं सर्वार्थदं परम् । धन्यास्ते पुरुषा विप्र चतुर्थीव्रतकारकाः ॥२॥ अधुना संकटायाश्च माहात्म्यं वद विस्तरात् । न तृप्यामि सुधारूपां कथां श्रुत्वा समासतः ॥३॥ मुद्गल उवाच । एवं पृष्टो महायोगी वसिष्ठ- स्तमुवाच ह । तच्छृणुष्व प्रजानाथ श्रवणानंददायकम् ॥४॥ वसिष्ठ उवाच । तव भावं विदित्वाऽहं संतुष्टो नृपसत्तम । पुण्यवानसि येन त्वं गणेशे भक्तिमानसि ॥५॥ न ह्यल्पपुण्ययोगेन गणेशस्य महात्मनः । कथायां जायते प्रीतिर्धन्योऽस्यत्र न संशयः ॥६॥ कथां शृणु महाभाग चतुर्थीसंश्रितां पराम् । कृष्णपक्षे महापुण्यां सर्वसिद्धिप्रदायिनीम् ॥७॥

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यंतरण है:

खं. ४ अ. २० पान ५८ अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । महापुण्यप्रदः पूर्णश्रवणात् पठनाद्भवेत् ॥८॥ सहस्राख्ये पुरे राजन् शूरसेनो महीपतिः । सभायां गानसंयुक्तो बभूवे भूपसेवितः ॥९॥ तत्राऽकस्माद्विमानं वै पतितं ज्वलनप्रभम् । तद् दृष्ट्वा परमाश्चर्यं ज्ञातुं दूतानचोदयत् ॥१०॥ दूतैः संज्ञापितो राजा विमानं द्रष्टुमुत्सुकः । स ययौ नगरप्रांते पुरवासिभिरावृतः ॥११॥ तत्रेंद्रं देवयुक्तं स दृष्ट्वा विस्मितमानसः । प्रणनाम पदा गत्वा दंडवत् पृथिवीतले ॥१२॥ पुनरुत्थाय राजाऽसौ कृत्वा करपुटं शनैः । हर्षयुक्त उवाचेदं वचनं भक्तिसंयुतः ॥१३॥ शूरसेन उवाच । धन्यं जन्म वयो दानं पितरौ नगरादिकम् । कृतकृत्योऽस्मि देवेंद्र दर्शनात्ते सहानुगः ॥१४॥ वद कुत्र विभो गंतुं कुतो व्रजसि वा स्थलात् । लालसस्ते विमानं च कथं निपतितं भुवि ॥१५॥ न जाने केन पुण्येन सर्वेषां दर्शनं च ते । जातं देवसमूहेन वदाज्ञां किं करोम्यहम् ॥१६॥ विमानचलने यत्नं कुरु त्वं देवनायक । केन पापेन ते यानं पतितं तद्वदस्व मे ॥१७॥ एवं पृष्टो महातेजा महेंद्रस्तमुवाच ह । विनीतं भक्तिसंयुक्तं राजेंद्रं हर्षसंयुतः ॥१८॥ इंद्र उवाच । कैवर्तको महापापी नामा विघ्नेशमाभजत् । मुद्गलेनोपदिष्टश्च नाममंत्रपरायणः ॥१९॥ सहस्रे तद्वरेणाऽसौ वर्षेषु ब्राह्मणोत्तमः । भ्रूमध्यान्निःसृता शुंडा भ्रूशुंडी चाऽभवन् मुनिः ॥२०॥ तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते । दर्शनार्थं गतोऽहं तु संपूज्येह समागमम् ॥२१॥ अत्रापि पापरूपस्य दृशा वैश्यस्य कुष्ठिनः । विमानं पतितं भूमौ तव दूतस्य मानद ॥२२॥ यदि संकष्टिका राजंश्चतुर्थी कृष्णपक्षगा । साधिता व्रत- भावेन तस्याः पुण्यं प्रदीयताम् ॥२३॥ तदा विमानमेवेदं चलेदत्र न संशयः । नान्यथा पुरुषार्थैश्च विमानचलनं भवेत् ॥२४॥ एतस्मिन्नंतरे तत्र विमानं च द्वितीयकम् । समागतं गणेशस्य दूतयुक्तं महाद्भुतम् ॥२५॥ तत्रैव नगरे भूप चांडाली पापकारिणी । अंधा कुष्ठयुताऽत्यंतं कृमिभारसमाकुला ॥२६॥ पूयशोणितदिग्धांगा दुर्गंधेन समावृता । बभूव भिक्षया सा वै रता जठरपोषणे ॥२७॥ पौषकृष्णतृतीयायां निशा किंचावशेषिता । मद्यपानं तया तत्र कृतं सुष्वाप निर्भया ॥२८॥ मद्यपानबलेनैव निद्रां लेभे तथाऽन्त्यजा । चतुर्थ्यामुदिते चंद्रे जाते जागरिताऽभवत् ॥२९॥ ततोऽपि क्षुधयाऽऽविष्टा रात्रौ भिक्षार्थमेव च । बभ्राम तत्र केनाऽपि दत्तान्नं बुभुजे च सा ॥३०॥ पंचम्यां सा मृता तत्र नृप संगृह्य गाणपाः । विमानेन ययुस्ते वै स्वानंदे व्रतकारिणीम् ॥३१॥ गच्छंती वायुना स्पृष्टा विमानैंत्यजजा नृप । स वायुः सहसा गत्या- स्पृशदिन्द्रविमानकम् ॥३२॥ व्रतकारिशरीरस्य स्पृष्टो वायुः सुपुण्यवान् । विमानं चालयामास देवेंद्रस्य महाद्भुतम् ॥३३॥

यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण दिया गया है:

खं. ४ अ. २० पान ५९ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ तद् दृष्ट्वा विस्मिताः सर्वे देवा मुनिगणादयः । ज्ञानदृष्ट्या च तज्ज्ञात्वा शशंसू राजसत्तमम् ॥३४॥ इन्द्रे स्वर्गं गते देवै राजा स्वनगरं ययौ । विस्मितस्तं प्रणम्यैव वसिष्ठं मां समानयत् ॥३५॥ मया विधियुतं तस्योपदिष्टं मुख्यकं व्रतम् । चकार स यथान्यायमंगारकयुतं पुरा ॥३६॥ माघे कृष्णचतुर्थ्यां स कृत्वा व्रतमनुत्तमम् । पुनः संपूज्य पंचम्यां गणेशं संस्थितोऽभवत् ॥३७॥ एतस्मिन्नंतरे तत्र विमानं सहसाऽऽगतम् । गणेशदूतसंयुक्तं शूरसेनपुरे महत् ॥३८॥ विमानाद्गण- नाथस्य दूता उत्तीर्य तं नृपम् । जगुर्व्रतप्रभावेण चल राजन् गणेश्वरम् ॥३९॥ दूतानां वचनं श्रुत्वा राजा विस्मितमानसः । प्रणिपत्य प्रपूज्यैव तानुवाच सुहर्षितः ॥४०॥ शूरसेन उवाच । आरभ्य जन्मतॊ देवा अद्यावधि मया हठात् । यत्किंचिन्नागरैः सार्धं सदा भुक्तं शुभाशुभम् ॥४१॥ अधुना तान् परित्यज्य कथं यामि गजाननम् । ततस्तं गणराजस्य दूता ऊचुः शृणुष्व तत् ॥४२॥ गाणपत्या ऊचुः । नागरैः सह राजेंद्र चल त्वं विघ्ननायकम् । यथाविधि व्रतस्यैव प्रभावेण महामते ॥४३॥ यथाशास्त्रं व्रतस्यास्य महिमा केन गम्यते । अतो विश्वस्य चोद्धारे समर्थस्तु सुपुण्यतः ॥४४॥ ततोऽतिहर्षितो राजा चतुर्वर्णजनैः सह । नगरस्थैर्विमानं स समारुह्य स्थितोऽभवत् ॥४५॥ ततो गाणेशकैस्तत्र विमानं चालितं नृप । न चचाल जडीभूतं ध्यानयुक्ता बभूविरे ॥४६॥ ज्ञात्वा तं कुष्ठिनं त्यक्तुं गाणेशाश्च समागताः । तान् प्रणम्य जगादाऽसौ राजेंद्रो रोदनाकुलः ॥४७॥ महापापी च वैश्योऽयं यस्य दृष्ट्या पपात ह । विमानं सुरनाथस्य तथापि शृणुत प्रियाः ॥४८॥ किमनेन कृतं पापं मां ततो वदत ह्यहम् । प्रायश्चित्तं करिष्याम्यनेन गच्छामि संयुतः ॥४९॥ ततस्तं गणनाथस्य दूता ऊचुः प्रहर्षिताः । शृणु राजन्नयं वैश्यः पूर्वजन्मनि वाडवः ॥५०॥ बुधनामा महापापी बाल्यात् प्रारभ्य सर्वदा । माता पतिव्रता चास्य शाकिनी परिकीर्तिता ॥५१॥ दूर्वो नाम पिता चास्य तपस्वी वेदपारगः । पत्नी पतिव्रता प्रोक्ता सावित्री कुलजाऽभवत् ॥५२॥ यौवनस्थः स्त्रियं त्यक्त्वा परस्त्रीलालसोऽभवत् । कदाचिद्रौडपुर्यां का वेश्या रूपवती ययौ ॥५३॥ तां दृष्ट्वा विस्मितोऽत्यंतं तया रेमे निरंतरम् । हृत्वा गृहस्थं द्रव्यं स ददौ तस्यै विशेषतः ॥५४॥ पात्रभूषण- काष्ठं वै हृत्वा परगृहस्थितम् । चौर्यमद्यादिसंयुक्तस्तया रेमे सुदुर्मतिः ॥५५॥ कदाचित् स निशायां वै नागतः स्वगृहे नृप । तदर्थं मुनिमुख्यॊऽसौ दूर्वो बभ्राम तत्पुरे ॥५६॥ जनाः केऽपि न विप्रं त्वकथयंस्तं विशेषतः । पुत्रस्य दुर्विनीतस्य चरित्रं क्रोधभीतितः ॥५७॥ गृहे गृहे स्वपुत्रं स नालभच्च ततो ययौ । निशीथे स्वगृहे प्राप्ते पप्रच्छ वनितां द्विजः ॥५८॥ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

खं. ४ अ. २० पान ६० सोवाच नागतः स्वामिन् पुत्रो मे स्वगृहे प्रभो । एकपुत्रस्नेहवशात् पुनस्तं सो गवेषयत् ॥५९॥ निशीथे निद्रिते लोके जनान् पप्रच्छ मार्गगान् । बुधः कुत्र प्रहृष्टो मामेकं वदत पुत्रकम् ॥६०॥ एवं नाना जनास्तेन पृष्टास्तेन जगुः सुतम् । ततो भीमोऽन्त्यजो वृद्धो मिलितस्तं जगाद सः ॥६१॥ तेनैव कथितं स्पष्टं पुत्रो वेश्यागृहे स्थितः । मद्यपः किं पृच्छसि त्वं तपस्विन् जातिदूषणम् ॥६२॥ तस्य तद्वचनं श्रुत्वा विस्मितो मुनिपुंगवः । वेश्यागृहे स्वपुत्रं तं दृष्ट्वोवाच मदान्वितम् ॥६३॥ किं त्वं मद्यप वेश्याया गृहे तिष्ठसि दूषक । अधुना देहमुत्सृज्य व्रजस्व यममंदिरे ॥६४॥ पुन्नामनरकात् त्राता पुत्रस्तेन प्रकीर्तितः । नरकप्रद एवं मे किमर्थं पुत्र आगतः ॥६५॥ एवं पितुर्वचः श्रुत्वा बुधः क्रोधसमन्वितः । लत्तया ताडयामास पितरं च पुनः पुनः ॥६६॥ वृद्धः क्षुधातुरः सोऽपि मर्मस्थाने प्रहारतः । ममार तं प्रगृह्याऽसौ बुधश्चिक्षेप वै बहिः ॥६७॥ प्रभाते स्वगृहे पुत्रमागतं सा बुधं ततः । जननी स्नेहसंयुक्ता पप्रच्छ क्व स्थितं त्वया ॥६८॥ गवेषितुं च ते पुत्र पिता त्वां प्रजगाम ह । तमानय महाभाग ततः स्नानं समाचर ॥६९॥ मातृवचनमेवं स बुधः श्रुत्वा पुनः पुनः । क्रोधयुक्तः स्वयष्ट्या तां ताडयामास मस्तके ॥७०॥ मस्तकः स्फुटितस्तस्याः सा ममार तपस्विनी । बहिः प्रक्षिप्य तां वेश्यागृहमागात् स हर्षितः ॥७१॥ अदहंस्तौ जनाः संतो ब्राह्मणीं ब्राह्मणं तथा । पितृगौरवभावेन राजा तं न शशास ह ॥७२॥ पुनर्गेहागतं सा तं सावित्री दुःखसंयुता । उवाच किं कृतं स्वामिन् पितुर्मातुर्वधात्मकम् ॥७३॥ वेश्यां त्वं मां परित्यज्य किमर्थं गच्छसि प्रभो । सर्वावयवसंपूर्णां सुंदरीं धर्मपालिनीम् ॥७४॥ चतुरा करजेष्वेव नरदेहः सुदुर्लभः । ज्ञानकर्मादिसंयुक्तस्तत्र ब्राह्मण्यकं कुतः ॥७५॥ ब्राह्मणत्वं समासाद्य पापमिच्छति दुर्मतिः । निधिं त्यक्त्वा स्वहस्तस्थं विष्ठाभक्षणलालसः ॥७६॥ तथा कृतं त्वया नाथ तेनाऽहं दुःखिता भृशम् । कां गतिं च त्वया सार्धं गमिष्यामि महामते ॥७७॥ एवमाकर्ण्य दुष्टात्मा तां जघान स्वयष्टिभिः । काष्ठैः सा मर्मभेदेन ममार स्वर्गगाऽभवत् ॥७८॥ एवं स्वल्पे गते काले बुधोऽगात् स्वगुरोर्गृहे । अयभद्रुरुपत्नीमेकाकिनीं तां सुदुर्मतिः ॥७९॥ दारुणानि च पापानि एवं नानाविधानि सः । चकारांते गृहे याम्ये यातनां बुभुजे ततः ॥८०॥ भुक्तभोगः स वैश्योऽयं जातः कुष्ठसमन्वितः । पापाचरणमत्रापि कुरुते दारुणं महत् ॥८१॥ द्रव्यलोभार्थमेवायं वने गत्वा द्विजादिकान् । हंति नित्यं सतीनां च स वने दूषकोऽभवत् ॥८२॥ शूरसेन अतस्त्यक्त्वैनं याहि त्वं गजाननम् । अस्य स्पर्शेन राजेंद्र सचैलं स्नानमापतेत् ॥८३॥ दूतानां वचनं श्रुत्वा

यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:

खं. ४ अ. २१ पान ६१ कंपितो राजसत्तमः । जगाद तान् प्रणम्यैव हा हा कृत्वा सुदारुणम् ॥८४॥ शूरसेन उवाच । पापानां गणना नास्ति प्रायश्चित्तं न विद्यते । अधुना तादृशं चात्र मया किं क्रियते गणाः ॥८५॥ कृपया सर्वपापानां प्रायश्चित्तं महाद्भुतम् । कथ्यतां तत् करिष्यामि देहपातावधि किल ॥८६॥ ततस्तं गाणपत्यास्तेऽब्रुवन् हर्षसमन्विताः । गजानन इति प्राज्ञ श्रावयस्व जनाधमम् ॥८७॥ चतुर्वेदसमुद्धृतं सारं ब्रह्ममुखोद्गतम् । चतुर्मुखैश्च संगीतं सुयोगेन गजाननम् ॥८८॥ तेषां वचनमाकर्ण्य शूरसेनः प्रहर्षितः । गजाननेति वैश्यस्याऽजपत् कर्णे स सादरः ॥८९॥ श्रुत्वा पापविनिर्मुक्तो वैश्यः स्वर्णतनूर्यथा । कुष्ठहीनः स शोभाभिर्युक्तो वै हर्षितोऽभवत् ॥९०॥ ततः सर्वैः समायुक्तो नगरस्थैर्विशेषतः । चतुराकरजै राजा ययौ विघ्नेश- मादरात् ॥९१॥ स्वानंदे गणपं दृष्ट्वा ब्रह्मभूताश्च जंतवः । बभूवुः स यथा राजा गाणपत्यो बभूव ह ॥९२॥ ब्रह्मभूतः स राजेंद्रो व्रतपुण्यप्रभावतः । जंतुभिः सहितश्चातः कोऽर्हो वर्णयितुं व्रतम् ॥९३॥ चतुर्विधं जगत् सर्वं संकटं संमतं नृप । तत्त्यक्त्वा व्रतपुण्येन ब्रह्मभूतो भवेन्नरः ॥९४॥ इदं माघचतुर्थ्यास्तु संकष्ट्याः संशृणोति यः । माहात्म्यं वाऽपि पठति सर्वार्थं लभते परम् ॥९५॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मन् श्रुत्वा च वै माघी संकष्टीजं सुविस्मितः । माहात्म्यं सर्वदं पुण्यं सर्वसंकट- हारकम् ॥१॥ फाल्गुने कृष्णपक्षे या चतुर्थी संकटी मता । तस्याश्चरित्रमेवं मे कथयस्व कृपानिधे ॥२॥ वसिष्ठ उवाच । पौलस्त्यो रावणः प्रोक्तस्तपस्तप्त्वा सुदारुणम् । वरं लब्ध्वा त्रिलोकस्य राज्यं चक्रे महाबलः ॥३॥ प्रधानेषु समाक्षिप्य राज्यं राक्षससत्तमः । एकांते निर्जने गत्वा ध्यानसंस्थो बभूव ह ॥४॥ वेदोपनिषदि प्रोक्तं ब्रह्म वेदांतपारगम् । ध्यायति स्म विचारज्ञो ज्ञानयोगपरायणः ॥५॥ एवं बहौ गते काले न लेभे ज्ञानमुत्तमम् । तदा खेदसमायुक्तः सोऽतिष्ठच्छंकरं स्मरन् ॥६॥ ततः शिवेन तत्रैव प्रेषितो नारदो मुनिः । तं दृष्ट्वा नारदं रक्षः प्रणनाम कृतांजलिः ॥७॥ पप्रच्छ खेदसंयुक्तो नारदं योगिनां वरम् । स्वामिन् ज्ञानप्रदं किंचिद्वदस्व करुणायुतः ॥८॥ ज्ञानार्थं ध्याननिष्ठोऽहं नित्यं तिष्ठामि चादरात् । न लेभे तन् महत्

[खं. ४ अ. २१] [पान ६२]

ज्ञानं किं करोमि महामुने ॥९॥ नारद उवाच । शिवेन प्रेषितोऽहं वै त्वदर्थं राक्षसोत्तम । शृणु ज्ञानप्रदं पूर्णं वाक्यं तत्कुरु सादरः ॥१०॥ चतुर्विधं जगद्भूतं संकटं संमतं बुधैः । तन्नाशार्थं व्रतं मुख्यं संकष्टीसंज्ञकं कुरु ॥११॥ एवमुक्त्वा चतुर्थ्याः स माहात्म्यं नारदोऽब्रवीत् । तच्छ्रुत्वा रावणस्तं चाब्रवीद्धर्षसमन्वितः ॥१२॥ रावण उवाच । कीदृशोऽयं गणाधीशस्तस्य ज्ञानं वद प्रभो । यस्य व्रतं चतुर्णां च पदार्थानां प्रदायकम् ॥१३॥ न कृतं चेच्चतुर्णां तन्नाशकं नाऽत्र संशयः । सर्वार्दौ संमतं विप्र सर्वसिद्धिप्रदायकम् ॥१४॥ एवं पृष्टो महायोगी नारदस्तमुवाच ह । हर्षेण महता युक्तो रावणं लोकरावणम् ॥१५॥ नारद उवाच । महज्ज्ञानं कथितुं गणेशस्य न शक्यते । उपाधिना वदिष्यामि राक्षसाधिप तच्छृणु ॥१६॥ गणः समूह- रूपश्च समूहा ब्रह्मवाचकाः । बाह्यांतरादियोगेऽयं समूहो जायते यतः ॥१७॥ देहिदेहमयं ब्रह्म गकाराक्षरवाचकम् । संयोगायोगरूपं यणकाराक्षरगं मतम् ॥१८॥ तयोर्योगे गणेशश्च स्वामी सर्वत्र संमतः । तं भजस्व विधानेन तदा शांति- मवाप्स्यसि ॥१९॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं दशाक्षरम् । रावणाय महायोगी विधियुक्तं तमब्रवीत् ॥२०॥ यदि त्यजसि दैत्येंद्र तदा भ्रंशमवाप्स्यसि । अतो गणेशमंत्रो न त्याज्यो रक्षः कदाचन ॥२१॥ एवमुक्त्वा महातेजा नारदों- ऽतर्दधे स्वयम् । रावणस्य तदा प्राप्ता संकष्टी फाल्गुनी नृप ॥२२॥ सा कृता तेन हर्षेण विधियुक्तेन कर्मणा । व्रतपुण्य- प्रभावेण स्फूर्तिः प्राप्ता च तत्क्षणात् ॥२३॥ चकार स ततः शुक्लां कृष्णां वै राक्षसाधिपः । जनान् विशेषेणाबोध्य सह तैर्गणपे रतः ॥२४॥ ततो ज्ञानं समालब्धं रावणेन महात्मना । ययौ स्वनगरे दैत्यै राज्यं चक्रे मदान्वितः ॥२५॥ दुष्ट- संगतियोंगेन क्रमेण ज्ञानमुत्तमम् । नष्टं तस्य सुदुष्टस्य स्त्रीमांसादिपरोऽभवत् ॥२६॥ अहं गणेशरूपश्च नाऽन्यो जगति वर्तते । न पापपुण्यभोक्तृत्वं कस्य पूजनमाचरे ॥२७॥ ततो ज्ञानमदेनैव त्यक्तो मंत्रः सुखप्रदः । व्रतं त्यक्तमिदं पुण्यं पूजा त्यक्ता विशेषतः ॥२८॥ नष्टं ज्ञानं स्थितिर्नष्टा राक्षसो राक्षसोऽभवत् । धर्मलोपे रतोऽत्यंतं चकार कर्मखंडनम् ॥२९॥ तेनैव दोषयुक्तोऽभूद्धतो रामेण तत्क्षणात् । राक्षसैः स्वजनैः सार्धं तव पुत्रेण धीमता ॥३०॥ दशरथ उवाच । अहं वंध्यश्च विप्रेश रावणश्च प्रवर्तते । किमिदं भाषसे स्वामिन् कूटरूपं भ्रमप्रदम् ॥३१॥ वसिष्ठ उवाच । कल्पे कल्पे स रामो वै तव पुत्रोऽभवत्प्रभुः । जघान रावणं वीरो गाणपत्यबलान्वितः ॥३२॥ अन्यच्छृणु चरित्रं त्वं फाल्गुने संकटीभवम् । सर्वपापहरं पूर्णं भुक्तिमुक्तिप्रदायकम् ॥३३॥ महाराष्ट्रे द्विजः कश्चित् पापकर्मो बभूव ह । ब्राह्मणत्वं परित्यज्य चांडाल्यां

खं. ४ अ. २२ पान ६३ निरतोऽभवत् ॥३४॥ चांडालैर्योनिसंबंधं पुत्रपुत्रीसमुद्भवम् । चकार मंदधीः सोऽपि मद्यमांसपरायणः ॥३५॥ स कदाचिद्वने संस्थो जनान् हंतुं समुद्यतः । द्रव्यलोभी महापापी परस्त्रीलालसोऽभवत् ॥३६॥ तत्र फाल्गुनमासे सा चतुर्थी कृष्णगा- ऽऽगता । संस्थितः पर्वतद्रोण्यां बभूव ब्राह्मणोऽधमः ॥३७॥ तत्र कश्चिन्नृपः सैन्यैश्चतुरंगैः समागतः । तद्भयात् सोऽपि तत्रैव संस्थितोऽन्नजलैर्विना ॥३८॥ महत् सैन्यं नृपस्यैव मार्गे गमनकारकम् । किंचिद्दिवसशेषे तत् संपूर्णगतमभवत् ॥३९॥ ततः सोऽपि बहिर्वीक्ष्य निःस्रुतो भयवर्जितः । जगाम स्वगृहं चंद्रोदये दुष्टः क्षुधातुरः ॥४०॥ बभक्षान्नं स्वपुत्रैः स रात्रौ सुप्तो निजालये । तत्र सर्पेण दष्टश्च ममार नृप दुर्मतिः ॥४१॥ ततो गणेशदूतैः स नीतः स्वानंदके पुरे । दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥४२॥ अज्ञानव्रतपुण्येन विधिहीनेन भो नृप । मुक्तश्चतुर्भिरेवं स किं पुनर्ज्ञानिनां परम् ॥४३॥ एतादृशा महाभागा विधियुक्ता विधिं विना । व्रतपुण्यप्रभावेण ब्रह्मभूता बभूविरे ॥४४॥ तत्रैवं कति ते ब्रूयां नालं वर्षायुतैरपि । भवामि नृप माहात्म्यं संक्षेपेण निरूपितम् ॥४५॥ इदं फाल्गुनमासे या चतुर्थी कृष्णगा मता । तस्याः शृणोति माहात्म्यं पठेद्वा सर्वमालभेत् ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चैत्रकृष्णचतुर्थी या तां मे वद महामुने । न तृप्यामि गणेशस्य कथां श्रुत्वा सुखप्रदाम् ॥१॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । चतुर्थीमहिमायुक्तं सर्वसिद्धिप्रदायकम् ॥२॥ कलिंगे नृपवर्यश्चोग्रसेनो धर्मतत्परः । यज्वा दानपरो नित्यं धर्मात्मा शंसितव्रतः ॥३॥ शस्त्रास्त्रकुशलो धीमान् सत्यवाक् नीतिसंयुतः । जित्वा राजगणान् सर्वांश्चकार राज्यमुत्तमम् ॥४॥ तस्य राज्ये नृपश्रेष्ठ बभक्षुः सर्वमानवान् । अपारास्तत्पुरे व्याघ्राः समागत्य महाबलाः ॥५॥ उग्रसेनश्च शस्त्रैस्तान् जघान नृपसंयुतः । तथा स्म न शमं यांति व्याघ्रा दैवोद्भवा यथा ॥६॥ लोकाः संपीड़िता व्याघ्रैर्निंनिंदुस्तं नृपं तदा । पापकर्मो नृपोऽयं वै प्रजाभ्यो दुःखदायकः ॥७॥ धर्मयुक्तो यदा राजा प्रजास्तत्र सुखे रताः । किं कर्तव्यं प्रजाभिश्च दुष्टे राजनि नित्यदा ॥८॥ स राजर्षिदूतमुखाच्छ्रुत्वा दुःखसमन्वितः । ययौ वनं प्रधानेषु राज्यं त्यक्त्वा सुदारुणम् ॥९॥ तत्र गत्वा स एकांते तताप तप उत्तमम् ।

खं. ४ अ. २२ पान ६४

सूर्य ध्यात्वा च सौरैस्तं तोषयामास नित्यदा ॥१०॥ निराहारपरो राजा गते वर्षे बभूव ह । अस्थिचर्मावशेषः स तथाऽपि तप आचरत् ॥११॥ ततो ब्राह्मणरूपेण रविस्तं प्रजगाम ह । राजा प्रणम्य तं विप्रं फलैरपूजयत्ततः ॥१२॥ फलानि भक्षयित्वा स उवाच राजसत्तमम् । तपः किमर्थं राजन् ते देहं शोषयसे वद ॥१३॥ उग्रसेनस्ततो विप्रं तमुवाच कृतांजलिः । दुःखेन महता युक्तो निःश्वस्य स पुनः पुनः ॥१४॥ उग्रसेन उवाच । करोमि नीतियुक्तेन राज्यं धर्मेण नित्यदा । तत्र व्याघ्रगणाः क्रूरा नरान् संभक्षयंति भोः ॥१५॥ शांतयेऽत्र मया तेषां नानोपायाः कृता मुने । अपरास्ते भवंतीह तदर्थं तप आचरम् ॥१६॥ राज्ञो वचनमाकर्ण्य विप्रस्तं पुनरब्रवीत् । निंदयन् सर्वभावेन साक्षाद्भानुः प्रतापवान् ॥१७॥ द्विज उवाच । महापापी त्वमेवासि कर्मदूषणतो नृप । चतुर्थीजं व्रतं मुख्यं नष्टं राज्ये सुदुर्मते ॥१८॥ सर्वादौ तत् प्रकर्तव्यं सर्वसिद्धि- प्रदायकम् । तदा कर्म कृतं भूप फलयुक्तं भवेत् सदा ॥१९॥ चतुःपदार्थदं पूर्णं व्रतानामुत्तमं व्रतम् । व्याघ्रास्तद्दोषभावेन पीडयंति च मानवान् ॥२०॥ एवमुक्त्वा चतुर्थीजं माहात्म्यं द्विजसत्तमः । श्रावयामास तस्मै स श्रुत्वा सोऽभूत् सुविस्मितः ॥२१॥ जगाद हर्षसंयुक्तस्तं विप्रं ज्ञानदं परम् । कृतांजलिः प्रणम्याऽसौ वचनं स्वहितप्रदम् ॥२२॥ उग्रसेन उवाच । किं त्वं साक्षात् स्वयं भानुस्तपसा तुष्टचेतसा । आगतोऽनुग्रहार्थं मे धन्योऽहं ते प्रदर्शनात् ॥२३॥ अधुना वद मे ब्रह्मन् गणेशस्य स्वरूपकम् । ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः ॥२४॥ द्विज उवाच । शृणु राजन् गणेशस्य स्वरूपं योगदं परम् । भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥२५॥ चित्ते चिंतामणिः साक्षात् पंचचित्तप्रचालकः । पंचवृत्तिनिरोधेन प्राप्यते योगसेवया ॥२६॥ असंप्रज्ञातसंस्थश्च गजशब्दो महामते । तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥२७॥ आंतिरूपा महामाया सिद्धिर्वामांगसंश्रिता । आंतिधारकरूपा च बुद्धिः सा दक्षिणांगके ॥२८॥ तयोः स्वामी गणेशश्च मायाभ्यां खेलते सदा । तं भजस्व विधानेन तदा शं लभसे नृप ॥२९॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं दशाक्षरम् । विधियुक्तं ततः सूर्योऽतर्धानं प्रचकार ह ॥३०॥ राजा स्वनगरे गत्वा प्रधानैरनुमोदितः । कथयामास वृत्तांतं सर्वेभ्यः सुखदायकम् ॥३१॥ तत्रादौ चैत्रगा कृष्णा चतुर्थी सहसाऽऽगता । तां चकार विधानेन गणेशे भक्तिसंयुतः ॥३२॥ समीपे नागराः संस्था नरा ग्रामांतरे स्थिताः । चक्रुस्ते हर्षसंयुक्ताः संकष्टीं कष्टहारिणीम् ॥३३॥ तत् सर्वत्र व्रतं मुख्यं प्रशस्तं स चकार ह । भयाद्द्रुतेन चक्रुस्ते जना भूमिसंस्थिताः परे ॥३४॥ ततो व्याघ्रा महोग्राः स्म सर्वेऽतर्धानमाययुः । रोगादिभिर्विनिर्मुक्ताश्चिक्रीडुर्हर्षिता

खं. ४ अ. २३ पान ६५ ═════════════════════════════════════════════════════════════════════════════════════════════ जनाः ॥३५॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । गुरुरूपेण भानुं स पूजयामास नित्यदा ॥३६॥ गते काले ततः पुत्रं स संस्थाप्य महामतिः । राज्ये निवृत्तिमास्थाय गणेशमभजत् परम् ॥३७॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये जनाः सर्वे क्रमात्ते मुक्तिमाप्नुवन् ॥३८॥ एवं व्रतस्य माहात्म्यं लेशतः कथितं मया । अन्यच्छृणु महाभाग पापनाशकं परम् ॥३९॥ द्राविडे भिल्लजातिस्थः क्षत्रियः पापकारकः । भिल्लैः संस्कारहीनश्च संबंधं स चकार ह ॥४०॥ एकदा वनसंस्थश्च द्रव्यलोभी दुरात्मवान् । कंचित् दृष्ट्वा नरं तत्राऽधावच्छस्त्रप्रधारकः ॥४१॥ पपाल सोऽपि दूरं वै नरो भयसमन्वितः । ऋक्षस्तत्र समायातो वने कश्चिन् महाबलः ॥४२॥ तेनैव क्षत्रियः पापी धृतो वेगेन भूमिप । ऋक्षं स तं स शस्त्रेण पातयामास भूतले ॥४३॥ भिल्लस्तत्र पपाताऽसौ भृशमृक्षेण पीडितः । निर्जने वनमध्ये स विललापाऽतिदारुणम् ॥४४॥ दैवयोगेन सा देवी चैत्री संकष्टहारिणी । तद्दिने तेन संप्राप्ता चतुर्थी कृष्णपक्षगा ॥४५॥ जलान्नसंविहीनोऽयं बभूवे पापकारकः । चंद्रोदये फलं तत्र पपात नृप वृक्षतः ॥४६॥ दुष्टेन क्षत्रियेणैव भक्षितं विकलेन तत् । पंचम्यां स मृतस्तत्र ब्रह्मभूतो बभूव ह ॥४७॥ एवं नाना जना राजन् व्रतस्यैव प्रभावतः । इह भुक्त्वाऽखिलान् भोगानंते ब्रह्म प्रलेभिरे ॥४८॥ तन्न ते कति शक्यं न वक्तुं वर्षायुतैरपि । नानेन सदृशं किंचिद्व्रतं सर्वार्थदायकम् ॥४९॥ अज्ञानेन कृतं दुष्टैर्व्रतं गानेश्वरं महत् । ब्रह्मभूतकरं प्रोक्तं ज्ञानिनां तत्र का कथा ॥५०॥ इदं चैत्रचतुर्थ्या यो माहात्म्यं प्रपठेन्नरः । शृणोति चेच्च कृष्णायाः स सर्वं प्रलभेदू ध्रुवम् ॥५१॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥ ❖❖❖ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वैशाखे कृष्णगायास्त्वं चतुर्थ्या वद सांप्रतम् । माहात्म्यं मुनिशार्दूल न तृप्यामि समासतः ॥१॥ वसिष्ठ उवाच । अगस्त्यो मुनिमुख्यश्च समुद्रशोषणे रतः । न शशाक महातेजा ब्रह्माणं शरणं ययौ ॥२॥ ब्रह्मणा नोदितः सोऽपि चकार व्रतमुत्तमम् । वैशाखे कृष्णपक्षे स चतुर्थ्यां विधिपूर्वकम् ॥३॥ ज्ञात्वा माहात्म्यमुग्रं स नित्यं मंत्रपरायणः । शौक्लं कार्ष्णं व्रतं सर्वैश्चकार मुनिसत्तमैः ॥४॥ दशरथ उवाच । तपस्तेजोयुतः साक्षादगस्त्यः सर्व- शास्त्रवित् । व्रतहीनः कथं सोऽपि कुंठितश्च महाद्युतिः ॥५॥ वसिष्ठ उवाच । शृणु राजन् महाभाग सम्यक् पृष्टं विचक्षण ।

ख. ४ अ. २३ | पान ६६

अधुना तस्य माहात्म्यं कथयामि समासतः ॥६॥ अगस्त्यस्तपसा युक्तो बभूवाऽतीव दारुणः । न समस्तेन राजेंद्र ब्राह्मणेषु तपस्विषु ॥७॥ न व्रतं तेन तदपि कृतमज्ञानभावतः । ब्रवीमि कारणं तत्र शृणु संशयनाशनम् ॥८॥ वेदशास्त्रपुराणेषु कर्म नानाविधं नृप । कथितं तच्च सर्वं तु कर्तुं केन प्रशक्यते ॥९॥ स्वेच्छया कर्मणः कर्ता स्वयं भवति मानवः । तत्र मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥१०॥ नित्यं नैमित्तिकं कर्म द्विविधं शास्त्रमार्गतः । तत्रागस्त्यश्चकाराऽसौ नित्यं कर्म महीपते ॥११॥ अन्यव्रतादिकं सर्वं त्यक्त्वा विधिसमन्वितः । तपस्सु तत्परो नान्यदजानात् स तपोधनः ॥१२॥ अतस्तेन व्रतं मुख्यं न धृतं राजसत्तम । न समर्थेन शास्त्रेऽन्यच्छृणुष्व कथयामि ते ॥१३॥ गणेशभजनं मुख्यं सर्वेषां नात्र संशयः । सर्वसिद्धिकरं प्रोक्तं वेदादिषु विशेषतः ॥१४॥ राजशार्दूल तदपि नराः संस्कारहीनकाः । नाभजंस्तं गणेशानं ब्रह्मणां नायकं परम् ॥१५॥ तपसा दग्धपापश्च पुण्यराशिः प्रजायते । तदा रुचिर्भवेत्तत्र गणेशे भक्तिसंयुता ॥१६॥ अतोऽयं तपसा युक्तोऽगस्त्यस्तेजस्विनां वरः । जातः पात्रं विजानीहि ज्ञाने गाणेशसंज्ञिते ॥१७॥ अगस्त्यः क्रोधसंयुक्तो नृप वातापिरक्षकम् । समुद्रं तं शोषयितुं क्षोभयामास चोद्यतः ॥१८॥ तत्राऽतिकुंठितो जातस्तदर्थं विस्मितः स्वयम् । गत्वा ब्रह्माणमानम्य वचनं स जगाद ह ॥१९॥ अगस्त्य उवाच । तपसा जलधिं ब्रह्मन् शोषयामि न संशयः । तत्र मे तपसः शक्तिः कुंठिताऽभूत् कथं वद ॥२०॥ ब्रह्मोवाच । शृणु पुत्र महाभाग कारणं कथयामि ते । नित्यकर्मपरस्त्वं वै सदा तपसि संस्थितः ॥२१॥ गणेशस्मरणं वत्स पूजनं नित्यमादरात् । करोषि तेन भवति कर्म ते सफलं मुने ॥२२॥ तथापि नित्यवत्तात्त चतुर्थी व्रतमुत्तमम् । कर्तव्यं यत्त्वया त्यक्तं तन्नैमित्तिकमानतः ॥२३॥ चतुर्णां पुरुषार्थानां दायकं शास्त्रसंमतम् । तेन हीनस्त्वमद्यैव कुंठितो नात्र संशयः ॥२४॥ अधुना तद्व्रतं मुख्यं कुरु भावसमन्वितः । नित्यवत्तन् महाभाग समाचर विशेषतः ॥२५॥ तदा संकटहीनस्त्वं चतुष्पदसमन्वितः । पूर्णयोगी भवसि वै गाणपत्यमवाप्स्यसि ॥२६॥ ततस्तेन कृतं राजन् व्रतं गाणेश्वरं महत् । पुरुषार्थसमायुक्तस्तेनैव स बभूव ह ॥२७॥ समुद्रं शोषयामास व्रतपुण्यप्रभावतः । अचलां गणनांथस्य भक्तिं चकार नित्यदा ॥२८॥ ततस्तेन मुनींद्रेषु विख्यातं तत् कृतं व्रतम् । नित्यवत्ते व्रतं मुख्यं चक्रुः सर्वार्थसिद्धये ॥२९॥ अन्यच्च शृणु माहात्म्यं पुण्यदं श्रवणात्नृणाम् । अवंतीनगरे वैश्यो बभूवे पापकारकः ॥३०॥ बाल्यात् प्रारभ्य तेनैव कृतं पापं महाद्भुतम् । मरणावधि राजेंद्र वक्तुं तन्न प्रशक्यते ॥३१॥

मातृहा द्रव्यलोभार्थं पितृहा संबभूव ह । गुरुद्रोहं चकारैव ब्रह्महत्यां समाचरत् ॥३२॥ ततो लोकैः समाज्ञप्तो राजा तं निर्वासयत् । ग्रामाद्वनं समागत्य गुहायां संस्थितोऽभवत् ॥३३॥ जघान मार्गगान् लोकान् जीवान्नानाविधान् सदा । तत्र प्रयोजनेनैव हीनो वा युक्त एव वा ॥३४॥ ततो बहुधनो जातश्चौराः संमिलिताः परे । सह तैस्तत्र तेनैव कृतं दुर्गं सुदुर्गमम् ॥३५॥ पर्वतद्रोणगं तत्र गृहं चक्रे महाखलः । चौरास्तत्र निवासार्थमाययुः सर्वतः स्थिताः ॥३६॥ तेषां राजा बभूवाऽसौ भार्या तत्र महीपते । समानीताऽतिदुष्टेन पुत्रपुत्रीभिरावृता ॥३७॥ यथेष्टं रमते तत्र चौरैश्चौर्यपरायणः । चकार लेशमात्रं स न पुण्यं दुर्मतिः कदा ॥३८॥ मार्गे परस्त्रियं धृत्वा स सतीदूषकोऽभवत् । काश्चित्तत्र मृता राजन् स्त्रियः सत्यो महाभयात् ॥३९॥ सोऽवंतीपालको लोकै राजेंद्रो बोधितस्ततः । मार्गरोधभयाच्चौरं तं हंतुं प्रोद्यतोऽभवत् ॥४०॥ सर्वत्र दशदिक्ष्वेव सैनिकाः प्रेषितास्ततः । राज्ञा चक्रुः प्रयत्नेन रुद्धं सर्वत्र तं खलम् ॥४१॥ ततस्ते संधृतं चौरं पुत्रश्चौरैः समन्वितम् । राज्ञे निवेदयामासुस्तं दुष्टं वैश्ययोनिजम् ॥४२॥ राजा चौरान् जघानापि जनैः शस्त्रधरैर्नृप । तं वैश्यं बंधने क्षिप्त्वा ताडयन्नित्यदा खलम् ॥४३॥ ततोऽकस्माच्चतुर्थी सा वैशाखी सहसाऽऽगता । कृष्णा तत्र च वैश्येन न प्राप्तं त्वन्नभक्षणम् ॥४४॥ नित्यताडनभावेन दुःखितोऽतितरां खलः । क्षुधया पीडितोऽत्यंतं पापी स निशि चैककः ॥४५॥ ततो दयायुतैस्तत्र राजदूतैश्च भक्षणम् । किंचिद्दत्तं विधोरेवोदये वैश्यो बभक्ष सः ॥४६॥ पंचम्यां स मृतस्तत्र बंधने ताडितो भृशम् । गाणेशैर्ब्रह्मभूतः स कृतः स्वानंदके पुरे ॥४७॥ एतादृशः सुदुष्टात्मा व्रतपुण्यप्रभावतः । ब्रह्मभूतो बभूवाऽपि किं पुनर्व्रतकारिणः ॥४८॥ एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे । तेऽत्र वक्तुं न शक्या वै भवंति नृपसत्तम ॥४९॥ इदं वैशाखमासे वै चतुर्थ्याः संशृणोति चेत् । कृष्णाया वाऽपि पठति माहात्म्यं लभते परम् ॥५०॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः ॥

पान ६८

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं तच्छ्रुतं मुख्यं मया वैशाखके परम् । संकष्टीसंभवं मुख्यं न तृप्तस्तदपि प्रभो ॥१॥ अतो ज्येष्ठे चतुर्थी या संकष्टी मुनिसत्तम । तस्याश्चरितमेवं मे वद पूर्णं समासतः ॥२॥ वसिष्ठ उवाच । निषधेषु महाभागो नलो नामाऽभवन्नृपः । तेजस्वी शस्त्रसंपन्नः शास्त्रज्ञश्च बभूव ह ॥३॥ रूपवान् धनसंपन्नश्चतुरंगबलान्वितः । शस्त्रास्त्रैर्भूमिपालांश्च बभौ जित्वा महाबलान् ॥४॥ सामंता वशगा यस्य करदा इतरे नृपाः । सार्वभौमो महाराजः शशास पृथिवीमिमाम् ॥५॥ धर्मेण दानशीलेन नीत्या त्यागेन भूमिपः । यशसा पूरयामास त्रैलोक्यं स चराचरम् ॥६॥ इन्द्रलोके विधेर्लोके कैलासे वैष्णवे पदे । यस्य वार्तां प्रचक्रुस्ते धर्मशीलस्य देवपाः ॥७॥ त्रिलोकीगमने सक्तः साधुदर्शनतत्परः । देवविप्रातिथिप्रेप्सुर्दीनांधादीनपालयत् ॥८॥ दमयंती महाभागा रूपेणाऽप्रतिमा भुवि । भार्या यस्य विशालाक्षी जगन्मोहकरी बभौ ॥९॥ गुणा वर्णयितुं नैव शक्यास्तस्य महात्मनः । पुण्यश्लोकः स वै राजा कलि जिग्ये महायशाः ॥१०॥ कदाचिद्दनगेनैव भ्रात्रा कलिवशेन सः । जितो द्यूतेन राज्यं त्यक्त्वा वनं स जगाम ह ॥११॥ तत्राऽपि कलिना मत्स्यमिषेणैव महासती । प्रेरितेन नलेनाऽसौ त्यक्ता नृप वनांतरे ॥१२॥ अर्धवस्त्रधरा साऽपि दमयंती पितुर्गृहे । नानादुःखसमायुक्ता जगाम नलवर्जिता ॥१३॥ गूप्तरूपेण वर्षाणि त्रीणि भ्रमणलालसः । नलो बभ्राम तेजस्वी वने वस्त्रार्धधारकः ॥१४॥ धर्मशीलं स राजानं कलिना पीडितं परम् । दृष्ट्वा मुनिवरस्तत्र नारदः प्रजगाम ह ॥१५॥ तं दृष्ट्वा लज्जितो राजा प्रणामं कृतांजलिः । लज्जितं तं समाज्ञाय नारदः स उवाच ह ॥१६॥ नारद उवाच । मा लज्जां कुरु राजेंद्र कर्मणां गतिरीदृशी । सावधानमना भूत्वा शृणु मे परमं वचः ॥१७॥ तव राज्ये महाभाग व्रतं नष्टं महाद्भुतम् । चतुर्थी- संज्ञितं तेन राज्यभ्रष्टोऽसि सांप्रतम् ॥१८॥ सर्वार्दौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् । न कृतं चेन् महाराज कर्म सर्वं निरर्थकम् ॥१९॥ चतुःफलविहीनस्त्वं भवस्यत्र न संशयः । अतोऽवश्यकभावेन कुरु त्वं सर्वसिद्धिदम् ॥२०॥ एवमुक्त्वा महायोगी नारदः श्रावयन्नृपम् । माहात्म्यं व्रतमुख्यस्य चतुर्थ्याः शांतिकारकम् ॥२१॥ तच्छ्रुत्वा विस्मितो राजा नलस्तं प्रत्युवाच ह । गणेश्वरस्य माहात्म्यं भजिष्यामि वदस्व मे ॥२२॥ नारद उवाच । गणेश्वरस्य माहात्म्यं शांतियोगफलप्रदम् । वक्तुं न शक्यते राजंस्तथापि शृणु मे वचः ॥२३॥ ब्रह्मा विष्णुश्च शंभुश्च शक्तिः सूर्योऽमरास्तथा । शेषादिनागमुख्यास्तं भजंति कुलदैवतम् ॥२४॥ अन्नप्राणादिकान्येव ब्रह्माणि नृपसत्तम । भजंति तं विशेषेण कुलदेवं सनातनम् ॥२५॥

खं. ४ अ. २४ पान ६९ महावाक्यादिभिर्वेदास्तं भजंति सुयोगदम् । महावाक्यानि राजेंद्र भजंति ब्रह्मनायकम् ॥२६॥ सर्वसिद्धिप्रदा यस्य वामांगे प्रकृतिः परा । पंचचित्तमयी बुद्धिर्दक्षिणांगे व्यवस्थिता ॥२७॥ स्वानंदे वसतिर्यस्य सर्वपूज्योऽयमुच्यते । सर्वादिर्गण- नाथश्च विप्रैः सोऽंतेषु तिष्ठति ॥२८॥ गणाः समूहरूपाश्चांतरबाह्यादियोगतः । तेषां स्वामी गणेशोऽयं तं भजस्व विधानतः ॥२९॥ एवमुक्त्वा ददौ तस्मै नृप मंत्रं षडक्षरम् । विधियुक्तं ततः सोऽंतर्दधे गाणेशको मुनिः ॥३०॥ ततः स नृपशार्दूलो ध्यात्वा हृदि गजाननम् । मंत्रं जजाप भावेन स्वात्मानं निंदयन् भृशम् ॥३१॥ ततः कर्कोटकेनैव दष्टस्तेन बभूव ह । विरूपस्तं ददौ वस्त्रं नागः पुनः स्वरूपदम् ॥३२॥ तेन संहर्षितो भूप ऋतुपर्णं जगाम ह । तेनैव मानितोऽत्यंतं विरूपो गुणसंयुतः ॥३३॥ पितुर्गृहे गता नारी दमयंती महासती । तद्व्रतं कारयामास गत्वा तामपि नारदः ॥३४॥ नलेन दमयंत्या तज्ज्येष्ठमासे समागतम् । प्रथमं तद्व्रतं मुख्यं संकष्टीसंज्ञकं कृतम् ॥३५॥ त्रीणि वर्षाणि पूर्णानि गुप्तरूपेण संस्थितः । नलश्चतुर्थीजेनैव पुण्येन ज्ञानवानभूत् ॥३६॥ ततः श्वशुरमागम्य ऋतुपर्णेन संयुतः । स्वात्मानं नागवस्त्रेण पूर्वरूपं चकार ह ॥३७॥ दमयंत्या युतः सोऽपि श्वशुरेण च सेनया । ऋतुपर्णेन राजेंद्रो गतः स्वनगरे ततः ॥३८॥ भ्रात्रा संमानितो- ऽत्यंतं चकार राज्यमुत्तमम् । विघ्नहीनः स्वभावेन हृष्टपुष्टजनैर्वृतः ॥३९॥ ततो बहौ गते काले पुत्रं राज्येऽभिषिच्य सः । सपत्नीको वने गत्वाऽभजत्तं गणनायकम् ॥४०॥ अंते जगाम राजाऽसौ स्वानंदे गणपं नृप । तत्रैव ब्रह्मभूतः स बभूव नलनामकः ॥४१॥ नलेन संप्रदिष्टा ये जना भूमितले ततः । शुक्लकृष्णचतुर्थीजं मुख्यं चक्रुर्व्रतं नृप ॥४२॥ ते सर्वे सुखसंयुक्ता बुभुजुः सुखमुत्तमम् । पुत्रपौत्रादिभिर्युक्ता रोगैः संवर्जिता नृप ॥४३॥ अंते क्रमेण सर्वे ते ब्रह्मभूता बभूविरे । एवं कृष्णे ज्येष्ठमासे माहात्म्यं संकटीभवम् ॥४४॥ कथितं ते नृपश्रेष्ठ पुनस्त्वं शृणु सिद्धिदम् । ज्येष्ठकृष्ण- चतुर्थीजं सर्वसंकटहारकम् ॥४५॥ मालवेंत्यजजः कश्चित् पापकर्मा बभूव ह । वनं गत्वा द्विजादीन् स जघान द्रव्य- लोलुपः ॥४६॥ एकाकिनीं स्त्रियं दृष्ट्वा बलेन बुभुजे खलः । सती परनरस्पर्शाहीना तत्याज सा तनुम् ॥४७॥ एवं नानाविधं पापं चकार जातिदूषणः । न तच्छक्यं कथयितुं पापभोगभयान् मया ॥४८॥ एकदा वनसंस्थश्च चांडालः शस्त्रधारकः । कंचित् पुरुषकं दृष्ट्वाऽधावत् स हननाय तम् ॥४९॥ पलायनपरः सोऽपि जगाम भयसंकुलः । हाहा कृत्वा पुरोदेशे स ततो निष्फलोऽभवत् ॥५०॥ एतस्मिन्नंतरे तत्र पुरुषाः शस्त्रधारकाः । राज्ञः समागतास्तत्र श्रुत्वा कोलाहलं तयोः ॥५१॥

खं. ४ अ. २५ पान ७०


ते धृत्वा ताडयामासुः पुनस्तं राजसेवकाः । बद्ध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेप बंधने ॥५२॥ तत्रैव दैवयोगेन प्राप्ता ज्येष्ठ- चतुर्थिका । कृता तेनान्नहीनोऽयं बभूवे बंधनाकुलः ॥५३॥ चंद्रोदये दयायुक्तै रक्षकैस्तैर्महामते । अन्नं दत्तं तथा भुक्तं तेन दुष्टेन तत्क्षणात् ॥५४॥ राजाज्ञया च तं दुष्टं पंचम्यां जघ्नुरादरात् । स मृतोंत्यजजस्तत्र ब्रह्मभूतो बभूव ह ॥५५॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः । भुक्त्वा भोगांश्च ते सर्वे ब्रह्मभूता बभूविरे ॥५६॥ अपारमाहात्म्ययुतं व्रतं वक्तुं न शक्यते । तथाऽपि कथितं भूप माहात्म्यं संकटीभवम् ॥५७॥ इदं ज्येष्ठचतुर्थ्यास्तु कृष्णायाः संशृणोति यः । माहात्म्यं वा पठति स लभते स्वेप्सितं फलम् ॥५८॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । आषाढे संकटी प्रोक्ता चतुर्थी चरितं शुभम् । तस्या वद महायोगिन् सर्वदं पापनाशनम् ॥१॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । सर्वसिद्धिकरं पूर्णं सेवितं चेष्टृपात्मज ॥२॥ वृत्रेण पीडितोऽत्यंतं महेंद्रश्चितयान्वितः । वने वसत्तु संत्रस्तस्त्यक्त्वा राज्यादिकं पुरा ॥३॥ मुनयः श्रुतिभिर्हीना भ्रष्टाचाराः समंततः । अतिष्ठंस्ते भयोद्विग्ना वर्णाः सर्वे तथा नृप ॥४॥ कर्मखंडनभावेन देवाः परमविह्वलाः । उपोषणपरा भूत्वाऽतिष्ठंस्ते मरणोन्मुखाः ॥५॥ गिरेर्गुहासु संस्थास्ते ददृशुर्मुनिपुंगवम् । विशेषज्ञं गृत्समदं योगिनां गुरुमागतम् ॥६॥ तं दृष्ट्वा दंडवत् सर्वे प्रणेमुरेंद्रमुख्यकाः । पप्रच्छुः पूजयित्वा तं स्वासने संस्थितं मुनिम् ॥७॥ इन्द्र उवाच । दृष्टिर्धन्या जन्म धन्यं पिता माता व्रतादिकम् । यज्ञो ज्ञानादिकं मे वै त्वदंघ्रेर्दर्शनात् प्रभो ॥८॥ तव दर्शनमात्रेण कल्याणं नो भविष्यति । साक्षाद्योगीश्वरस्यैव सर्वसिद्धिप्रदस्य च ॥९॥ वृत्रासुरेण दुष्टेन निर्जिता वयमेव च । राज्यं त्यक्त्वा वने विप्र तिष्ठामः पशवो यथा ॥१०॥ अत्रातिकर्मनाशेनोषोपणेन समन्विताः । मरिष्यामो न संदेहस्तत्र किं दर्शनं भवेत् ॥११॥ तथाऽपि पुण्ययोगेन प्राप्तं ते दर्शनं परम् । वद ब्रह्मन् दयां कृत्वा वृत्रनाशकरं महत् ॥१२॥ जगत् सर्वं महायोगिन् भ्रष्टाचारं कृतं