भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ४ अ. २६ पान ७४ सस्त्रीकास्तेन ते सर्वे वनेषु सुखिनोऽभवन् ॥४३॥ पुनः स्वराज्यकर्तारो बभूवुश्च सुयोधनम् । हत्वा सर्वन्नृपैर्युक्तं कृष्णेन हर्षसंयुतः ॥४४॥ पुनस्तेन पृथिव्यां तद्विख्यातं प्रकृतं व्रतम् । शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे जनास्ततः ॥४५॥ इह भुक्त्वा- ऽखिलान् भोगान् पौत्रं राज्येऽभिषिच्य ते । पांडवा ज्ञानसंयुक्ता बभुः स्वांशेषु संगताः ॥४६॥ अन्ये जनाः क्रमेणैव गता गाणेश्वरं पदम् । दृष्ट्वा गणेश्वरं तत्र ब्रह्मभूता बभूविरे ॥४७॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यच्छृणु महाभाग महापुण्यप्रदं परम् ॥४८॥ कर्णाटे कारुकः कश्चिन् महापापपरोऽभवत् । वनेषु शस्त्रधारी जनान् जघान स नित्यदा ॥४९॥ परस्त्रियं तन्न दृष्ट्वैकाकिनीं स तथा दरात् । अयम्भ्रष्ठसंयुक्तो बलेन स महाखलः ॥५०॥ गोवधादिकमेवं स ब्राह्मणानां च हिंसनम् । चकार दुष्टभावेन द्रव्यार्थं मांसकारणात् ॥५१॥ एवं नित्यं वने गत्वा पापं चक्रे स दुर्मतिः । चोरो ग्रामे जनान् जघ्ने गृहीत्वाऽर्थं विशेषतः ॥५२॥ कदाचित् स वने गत्वा गुहायां संस्थितोऽभवत् । जनान् हंतुं महाचोर- स्ततो वृष्टिर्बभूव ह ॥५३॥ अतिवृष्टिप्रभावेन जलैर्नद्यश्च पूरिताः । यत्र तत्र जलं पूर्णं गंतुं मार्गो न विद्यते ॥५४॥ तत्र वृष्टिभयेनैव संस्थितः क्षुधितो नृप । दैवयोगेन सा देवी चतुर्थी तिथिरार्भभौ ॥५५॥ श्रावणे कृष्णपक्षे सा प्राप्ता तस्या व्रतं शुभम् । कृतं तेन सुदुष्टेन ह्यन्नहीनप्रभावतः ॥५६॥ चन्द्रोदये समुत्पन्ने जलेनागतमादरात् । फलं च नारिकेलं यत्तद्भंज बभक्ष सः ॥५७॥ निशाशेषे बहिः पापी निःसृतस्तत्र चाययौ । व्याघ्रः संगृह्य तं हत्वा बभक्ष क्षुधितो भृशम् ॥५८॥ गाणपास्तं संप्रगृह्य ययुः स्वानंदके पुरे । चक्रुर्व्रतप्रभावेन तत्र ब्रह्ममयं ततः ॥५९॥ महापापी व्रतेनैवाज्ञानजेन नृपात्मज । ब्रह्मभूतो बभूवाऽथ वर्णये किं महाद्भुतम् ॥६०॥ नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् । ययुः स्वानंदके वर्णयितुं तन्न न शक्यते ॥६१॥ इदं श्रावणकृष्णायाश्चतुर्थ्या वर्णनं पठेत् । माहात्म्यं शृणुयाद्यो वै भुक्तिं मुक्तिं स विंदति ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥

खं. ४ अ. २७ पान ७५ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भो मुने । न तृप्यामि कथां शृण्वन् सर्वसिद्धि- प्रदायिनीम् ॥१॥ वसिष्ठ उवाच । द्राविडे राजशार्दूलो बभूव परमद्युतिः । वीरसेनो यशोयुक्तः सार्वभौमो महाबलः ॥२॥ नीतिज्ञो नीतियुक्तश्च चक्रे सौराज्यमुत्तमम् । सर्वान् राज्ञो वशे कृत्वा करभारेण संयुतान् ॥३॥ धर्मशीलः सदानंदं चाददाद्भक्तिसंयुक्तः । क्षुधितं न नरं नारीमसहत् सुखकारकः ॥४॥ पुत्रानिव प्रजाः सर्वाः पालयामास यत्नतः । अपुत्रो दैवयोगेन बभूव परवीरहा ॥५॥ पुत्रार्थं यत्नमत्यंतं जपहोमादिभिः सदा । चकार तीर्थक्षेत्रादि विधाने तादृशोऽभवत् ॥६॥ एवं बहौ गते काले पुत्रो नासीन् महीपते । ततोऽतिदुःखितो राजा राज्यं त्यक्त्वा ययौ वनम् ॥७॥ सस्त्रीकः स वने राजा बभ्राम यत्र तत्र ह । ततो महावनं गत्वा पपात क्षुधयान्वितः ॥८॥ सुमंतुस्तत्र विप्रर्षिः समिदर्थं समाययौ । नृपं दृष्ट्वा दयायुक्त आययौ तं निरीक्षितुम् ॥९॥ वेदवेदांगवित् साक्षात् सर्वशास्त्रप्रवर्तकः । पुराणज्ञो महायोगी व्यासशिष्यः प्रतापवान् ॥१०॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम महामुनिम् । वीरसेनः प्रहर्षेण सस्त्रीकः संयुतो नृपः ॥११॥ करसंपुटमुत्थाय पुरः कृत्वा महामुनेः । तं जगाद विशेषज्ञं राजा वचनमुत्तमम् ॥१२॥ वीरसेन उवाच । धन्यं मे कर्म जन्मादि पिता माता कुलं यशः । विद्या व्रतादिकं सर्वं त्वदंघ्रियुगदर्शनात् ॥१३॥ राज्यं त्यक्त्वा वने संस्थः पुत्रार्थं पापवानहम् । तत्र ते दर्शनं प्राप्तं पूर्वपुण्यफलोदयात् ॥१४॥ नानायत्नेन विप्रेश पुत्रो मे नाऽभवत्किल । त्वत्कृपोपायमेकं च पश्यामि सुखदायकम् ॥१५॥ वसिष्ठ उवाच । एवं तस्य नृपस्याऽसौ श्रुत्वा वचनमुत्तमम् । संतुष्टस्तं जगादेवं सुमंतुर्मुरिसत्तमः ॥१६॥ सुमंतुरुवाच । मा चिंतां कुरु राजेंद्र पुत्रस्ते कुलतारकः । भविष्यति न संदेहः शृणु मे वचनं हितम् ॥१७॥ राज्ये नष्टं त्वदीये तच्चतुर्थीजं व्रतं महत् । तेन त्वं पुत्रहीनोऽसि नृपाधम न बुध्यसे ॥१८॥ सर्वादौ तद्वतं मुख्यं कर्तव्यं सर्वसिद्धिदम् । चतुःपदार्थदं सर्वैर्नोचेत् सर्वं सुनिष्फलम् ॥१९॥ त्वया कर्म कृतं नानापुण्यदं सर्वसंमतम् । चतुर्भिः पुरुषार्थैर्हीनं चतुर्थीविवर्जितम् ॥२०॥ एवमुक्त्वा नृपायाऽथ माहात्म्यं व्रतजं महत् । श्रावयामास तं सोऽपि श्रुत्वा पप्रच्छ भाविकः ॥२१॥ वीरसेन उवाच । वद ब्रह्मन् गणेशस्य ज्ञानं यस्य चतुःप्रदम् । व्रतं सर्वादिसंमान्यं तं भजिष्यामि नित्यदा ॥२२॥ सुमंतुरुवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्तो भवेत्तु कः । उपाधिसंयुतं ज्ञानं शृणु राजेंद्र सर्वदम् ॥२३॥ अहं तपःप्रभावेण पुरा जातो विशेषतः । शापानुग्रहणे राजन् समर्थः सर्वमंडले ॥२४॥ ततोऽतितपसा युक्तोऽभवं तेन महामते । अंतर्ज्ञानं समुत्पन्नं स दृष्ट्वा

विस्मितो ह्यहम् ॥२५॥ ततो जडादिका नाना भूमिकाः साधयंस्ततः । नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः ॥२६॥ एवं क्रमेण राजेंद्र आसं स्वानंदगोऽभवम् । तत्र शांतिसुखे सक्तो ब्रह्मभूतस्वभावतः ॥२७॥ तस्माद्भेदमयं द्वंद्वं दृष्ट्वा शांतो महामुनिम् । व्यासं गत्वा प्रणम्यैवाऽऽपृच्छं तं स्वहितप्रदम् ॥२८॥ ब्रह्मभूतस्वरूपां मे वद शांतिं महामुने । शिष्योऽहं ते महाभाग तारयस्व भवार्णवात् ॥२९॥ इति पृष्टो महायोगी मामुवाच प्रहर्षितः । तत्तेऽहं कथयिष्यामि गणेशज्ञानकारकम् ॥३०॥ व्यास उवाच । शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूतस्वरूपकम् । शांतीनां शांतिरूपं तं ज्ञातव्यं योगसेवया ॥३१॥ स्वत उत्थानकं ब्रह्म उत्थानं परतस्तथा । तयोर्भेदभावे च ह्यसत् स्वानंद उच्यते ॥३२॥ तत्रामृतमयं यत्तत् सद्रूपं स्वस्वरूपकम् । तयोरभेदभावे चानंदः स्वानंद उच्यते ॥३३॥ त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं ब्रह्म कथ्यते । चतुर्णामेव संयोगे स्वानंदो ब्रह्म उच्यते ॥३४॥ पंचभिर्गतिहीनं यन्मतं चायोगवाचकम् । न तत्र कस्यचियोगस्ततः कुत्राऽपि पुत्रक ॥३५॥ संयोगायोगयोर्योगे योगः शांतिप्रदायकः । स एव गणराजश्च ज्ञातव्यो विबुधैः सदा ॥३६॥ गणाः समूहरूपाश्चांतर- बाह्यादियोगतः । अन्नादिब्रह्मरूपास्ते ज्ञातव्या योगसेवया ॥३७॥ तेषां स्वामी गणेशानस्तं भजस्व विधानतः । तदा त्वं ब्रह्मभूतश्च भविष्यसि न संशयः ॥३८॥ चित्तं पंचविधं प्रोक्तं तदेव बुद्धिवाचकम् । चित्तं मोहस्वरूपं यत् सिद्धिरूपं वदंति च ॥३९॥ तयोः स्वामी गणाधीशो मायाभ्यां क्रीडति प्रभुः । पंचचित्तनिरोधेन लभ्यते चित्तधारकः ॥४०॥ अतश्चिंतामणिः प्रोक्तो पश्य वेदेषु पुत्रक । चित्तं त्यक्त्वा समोहं त्वं भव चिंतामणिस्ततः ॥४१॥ एवमुक्त्वा ददौ मह्यं मंत्रमेकाक्षरं प्रभुः । सविधिं तं प्रणम्यैवाऽऽगतोऽहं स्वाश्रमे पुनः ॥४२॥ ध्यात्वा गणपतिं राजन् मंत्रे जपपरोऽभवम् । ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमेव च ॥४३॥ तथाऽपि गणराजं त्वपूजयंतं विशेषतः । ततो मे दर्शयामास स्वात्मानं विघ्नपः प्रभुः ॥४४॥ समागतं गणेशानं दृष्ट्वा विस्मितमानसः । अपूजयं प्रहर्षेण तं प्रणम्य पुनः पुनः ॥४५॥ अथर्वोपनिषद्भिः स संस्तुतो गणनायकः । भक्तिं दत्त्वा स्वकीयां मेंऽतर्धानं प्रचकार ह ॥४६॥ तदादि गाणपत्योऽहं प्रभजे नित्यमादरात् । तं भजस्व महाराज ततः सर्वं शुभं भवेत् ॥४७॥ एवमुक्त्वा ददौ तस्मै स मंत्रं षोडशाक्षरम् । सविधिं मुनिमुख्यः सोऽतर्धानमगम- त्ततः ॥४८॥ राजाऽतिविस्मितो भूत्वा सपत्नीकः प्रणम्य तम् । स्वपुरे स समागत्याऽभजत्तं गणनायकम् ॥४९॥ तत्राऽऽदौ भाद्रमासे सा कृष्णा प्राप्ता चतुर्थिका । कृता तेन जनैः सर्वैः पुरवासिभिरादरात् ॥५०॥ विशेषतस्ततस्तेन प्रशस्तं तद्व्रतं

खं. ४ अ. २७ पान ७७ कृतम् । शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे धरातले ॥५१॥ व्रतपुण्यप्रभावेण राजा पुत्रसमन्वितः । बभूवू रोगहीनास्ते भूमिपैवं जनास्तथा ॥५२॥ पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः । सपत्नीको गणेशानमभजन्नित्यमादरात् ॥५३॥ अंते गणेश- लोके स गत्वा ब्रह्ममयोऽभवत् । क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे ॥५४॥ एतत्ते कथितं भूप माहात्म्यं संकटीभवम् । अन्यच्छृणु चतुर्थ्यास्त्वं पापघ्नं सर्वदं परम् ॥५५॥ आंध्रे च धीवरः कश्चिद् बभूवे सर्वहिंसकः । बाल्यात् प्रभृति सोऽत्यंतं पापकर्मपरायणः ॥५६॥ वृथा साक्ष्यपरो भूत्वा कलहं सोऽकरोन् मिथः । लोकानां लोभशीलश्च चौर्यद्रव्यं समाहरत् ॥५७॥ वने गत्वा महापापी मार्गस्थान् प्रजघान वै । ब्राह्मणादीन् विशेषेण नानापापपरायणः ॥५८॥ न तस्य कर्म वक्तुं वै शक्यते पापभीतितः । ग्रंथबाहुल्यतो भूप परस्त्रीलालसोऽभवत् ॥५९॥ भाद्रकृष्णचतुर्थीजे वनमध्यस्थ एकदा । व्रते प्राप्ते महापापी निराहारो बभूव ह ॥६०॥ अकस्मात् तत्र संप्राप्तो जनसंघो महान्नृप । भयात्तस्य प्रलीनोऽभूद्गुहायां धीवरः स तु ॥६१॥ किंचिद्दिनावशेषे स जनसंघो गतोऽभवत् । तदा बहिर्विनिःसृत्य गृहे गंतुं मनो दधे ॥६२॥ न प्राप्तं तेन दुष्टेन किंचित्तदपि दारुणः । स्वात्मन्यास्थाय धैर्यं स मार्गसंस्थो बभूव ह ॥६३॥ रात्रौ समागतो दुष्टः स्वगृहे राजसत्तम । चन्द्रोदये सुतैः सार्धं भोजनं स चकार ह ॥६४॥ पंचम्यां सर्पदंशेन मृतः पापेन निश्चयः । गणराजस्य तदपि दूता नेतुं समागमन् ॥६५॥ गृहीत्वा धीवरं तेऽयुर्गणाः स्वानंदके पुरे । गणेशानं स तं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥६६॥ व्रतेनाऽज्ञानजेनाऽयं विधिहीनेन भूमिप । ब्रह्मभूतो धीवरश्च संबभूव वदामि किम् ॥६७॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे । चतुर्थ्या व्रतपुण्येन वक्तुं नैव प्रशक्यते ॥६८॥ इदं भाद्रपदे कृष्णचतुर्थीजं शृणोति यः । माहात्म्यं वाऽपि पठति स ईप्सितमवाप्नुयात् ॥६९॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं यद्वद ब्रह्मन्नाश्विने कृष्णके महत् । चतुर्थीजं विशेषेण न तृप्तोऽहं भवामि वै ॥१॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । अत्र तेन महाराज शृणु तृप्तो भविष्यसि ॥२॥ पार्वती- शंकराभ्यां च तपसाऽऽराधितोऽभवत् । दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः ॥३॥ कार्तिकेयस्तथा जातः स्ववीर्यात् स्नेहकारकः । न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूत् ॥४॥ कार्तिकेयो गणेशानं स्पर्धते नित्यमादरात् । विवाहो मे पुरा पश्चात्त्वापि स्म भविष्यति ॥५॥ एवं स्पर्धयतोर्वीक्ष्य पुत्रयोः पार्वतीशिवौ । विचारं चक्रतुस्तत्र विवाहार्थं महामते ॥६॥ अयं विघ्नेश्वरः साक्षाद्ब्रह्मरूपो न संशयः। क्षोभितश्चेत् पदभ्रष्टं करिष्यति विशेषतः ॥७॥ साक्षात् पुत्रं समुत्पन्नं स्कंदं संत्यज्य विघ्नपम् । ज्येष्ठं विवाहयेच्चेद्वा सेनानीः कोपितो भवेत् ॥८॥ त्यक्त्वा स्वपुत्रं सेनान्यं विवाहो नैव शोभते । अतः कपट- रूपेण कर्तव्यं कार्यमुत्तमम् ॥९॥ ततः शिवो गणेशानं स्कंदं चैवाऽब्रवीद्वचः। धराप्रदक्षिणां कृत्वा य आदौ सुसमागतः ॥१०॥ पूर्वं विवाहकं तस्य करिष्यामि न संशयः । ततस्तं गणनाधस्तु जगाद वचनं हितम् ॥११॥ ज्येष्ठं मां कि परित्यज्य प्रभो वदसि शंकर । वेदहीनं तथा मेऽस्तु भवदाज्ञां करोम्यहम् ॥१२॥ स्थूलदेहधरोऽहं मे वाहनं मूषको मतः । पृथ्वीप्रदक्षिणां कर्तुं न शक्नोमि सदाशिवं ॥१३॥ एवमुक्त्वा गणाधीशः स्वगृहे संस्थितोऽभवत् । जगाम स्कंद आरुह्य मयूरं हर्ष- संयुतः ॥१४॥ पृथ्वीप्रदक्षिणायां स रतः स्कंदः स वेगवान् । चकार मायया तत्र गणेशः कौतुकं महत् ॥१५॥ संपूज्य पार्वतीं शंकरं चकार प्रदक्षिणाम् । उवाच शंकरं तत्र विवाहो मे विधीयताम् ॥१६॥ प्रदक्षिणा कृता येन पितुर्मातुः सदाशिव । पृथ्वीप्रदक्षिणा तेन कृता शास्त्रे न संशयः ॥१७॥ श्रुत्वा गणपतेर्वाक्यं कंपितः शंकरोऽब्रवीत् । करोमि ते विवाहं वै क्रोधं मा कुरु पुत्रक ॥१८॥ तत एकांतगं शंभुं पार्वती प्रेमविह्वला । उवाच कार्तिकेयं किं त्यक्त्वा ढुंढिः स मानितः ॥१९॥ ततस्तां शंकरो वाक्यं जगाद शृणु पार्वति । अयं क्रुद्धश्च सर्वस्वं हरत्यत्र न संशयः ॥२०॥ अतः स्नेहं परित्यज्य रक्ष धर्मं सनातनम् । नाऽयं पुत्रो महादेवि ब्रह्मभूतः समागतः ॥२१॥ एवमुक्त्वा सतीं शंभुर्विवाहमकरोत्ततः । गणेशस्य विधानेन हृदयेनाविदूयता ॥२२॥ सिद्धे विवाहके पूर्णे कार्तिकेयः समागतः । तत्र विघ्नकरो विघ्नं चकार परमाद्भुतम् ॥२३॥ नारदः सहसाऽऽगत्य कार्तिकेयमुवाच ह । विवाहकृत्यमेतस्य पित्रा मात्रा कृतं पुरा ॥२४॥ त्वां वंचयित्वा सेनानीः कृतं कर्म जुगुप्सितम् । नावलोक्यं मुखं मातुः पितुश्चापि त्वया कदा ॥२५॥ एवमुक्त्वा गतो विप्रो

[खं. ४ अ. २८] [पान ७९]

नारदः कलहप्रियः । स्कंदो निःश्वस्य तस्मात् स ययौ श्रीशैलपर्वतम् ॥२६॥ ज्ञात्वा पुत्रस्य वृत्तांतं पार्वतीशंकराविमम् । शोधार्थं तत्र शैले तौ गतौ ज्ञात्वा पपाल सः ॥२७॥ क्रौंचे स्कंदं स्थितं ज्ञात्वा पार्वतीशंकरौ नृप । शोकसंविनचित्तौ तौ विलापं चक्रतुः पुरा ॥२८॥ तत्राऽऽजगाम विप्रेंद्रो मुद्गलः सर्वमुद्गलः । तं दृष्ट्वा सहसोत्थाय पूजयामासतुर्मुनिम् ॥२९॥ सुखासीनं महाभाग उवाच शोकसंकुलः । भगवन् सर्वतत्त्वज्ञ वद मां शोकनाशनम् ॥३०॥ स्कंदसंयोगदं पूर्णमुपायं तं करोम्यहम् । रुरोद पार्वती तत्र ततस्तौ मुनिरब्रवीत् ॥३१॥ मुद्गल उवाच । शंभो शृणु महाभाग त्वं साक्षात् सर्ववित् प्रभुः । विद्यारूपेयमाया सा शक्तिः सर्वार्थदायिनी ॥३२॥ तथापि कथयामि त्वां पुत्रौ शास्त्रे प्रकीर्तितौ । द्विविधौ तौ त्वया प्राप्तौ त्वत्समो नैव दृश्यते ॥३३॥ योगाभ्यासेन विघ्नेशो ब्रह्मणां नायकस्तव । पुत्रः समाधिजः प्रोक्तस्ततश्चितामणिः स्मृतः ॥३४॥ देहः शक्तिमयस्तत्रात्मा त्वं पुरुष उच्यसे । ताभ्यां योगबलेनैव क्रियते ब्रह्मपुत्रकः ॥३५॥ अर्धनारीश्वरस्त्वं च तस्माज्जातो गजाननः । ब्रह्मभूतपदस्याऽसौ पालको नात्र संशयः ॥३६॥ भिन्ना शक्तिरियं जाता भिन्नस्त्वं देहधारकः । भिन्नभावात् समुत्पन्नः पुत्रस्ते स्कंद एव च ॥३७॥ देहसौख्यकरः प्रोक्तः स्कंदः सर्वत्र संमतः । शांतिसौख्यकरश्चैव गणेशः पुत्रभावतः ॥३८॥ तत्र त्वं भिन्नभावेन मोहितोऽसि न संशयः । स्कंदं स्नेहेन शंभो त्वमधिकं मन्यसे सदा ॥३९॥ न तथा ब्रह्मणि श्रद्धाऽधिका विश्वेश्वरेऽधुना । तेन विघ्नसमायुक्तो जातोऽसि च भजस्व तम् ॥४०॥ ब्रह्मणि स्नेहभावेन विषयान्निंदयन् स्थितः । तदा विषयतापास्ते स्वयं वश्या भवंति वै ॥४१॥ विघ्नेश्वरमनादृत्य स्कंदं विवाहसंयुक्तम् । आदौ पश्यामि शक्त्या वै संधृतं मानसे त्वया ॥४२॥ तदैव निष्फलं सर्वं कृतं विघ्नकरेण ते । वियोगश्च समुत्पन्नस्तस्मात्तं शरणं व्रज ॥४३॥ एवमुक्त्वा मुद्गलस्तं जगाम स्वेच्छया चरन् । शिवः शक्त्या युतः स स्म मन्यते सत्यमेव तत् ॥४४॥ त्यक्त्वा स्कंदभवं स्नेहं विघ्नेशमभजत् सदा । तत्रादौ संकटी प्राप्ताऽऽश्विनी तां तौ प्रचक्रतुः ॥४५॥ मायां भ्रांतिकरीं सर्वां भिन्नभावप्रमोहतः । त्यक्त्वा शिवश्च शक्तिश्च शांतिस्थौ तौ बभूवतुः ॥४६॥ कस्य पुत्रश्च का माता पिता को भ्रमदायकम् । कृतं विघ्नेश्वरेणैव तमावां शरणं गतौ ॥४७॥ ततो विघ्नेश्वरेणैव कृतं कौतुकमादरात् । बुद्धिभेदः कृतस्तत्र स्कंदस्य नृप तच्छृणु ॥४८॥ त्यक्तौ मयाऽतिमूढेन पार्वतीशंकरवहो । ज्येष्ठं गणपतिं नित्यं स्पर्धयामि महाप्रभुम् ॥४९॥ शक्त्या शिवेन विघ्नेशस्तपसाऽऽराधितोऽभवत् । सोऽयं पुत्रस्वरूपेण बभूव वरदानतः ॥५०॥ स्वानंदवासकारी स

सिद्धिबुद्धिपतिः स्वयम् । योगशान्तिस्वरूपोऽयं न जानामि सुमूखर्वत् ॥५१॥ एवं विचार्य स्कंदः स ययौ कैलासमादरात् । आदौ प्रणम्य विघ्नेशं पूजयामास भक्तितः ॥५२॥ अथर्वशिरसा तं स ततः स्तुत्वा सदाशिवम् । उमां संपूज्य तुष्टाव प्रणनामाऽथ दंडवत् ॥५३॥ संमानितः स तैः स्कंदोऽतिष्ठत्तद्भक्तिसंयुतः । तदाज्ञावशगो भूत्वा शांतियोगपरोऽभवत् ॥५४॥ विवाहार्थं शिवेनाऽसौ प्रेरितस्तमुवाच ह । स्त्रियं बंधकरीं नाथ नेच्छामि गणपे रतः ॥५५॥ अत्याग्रहयुतः स्कंदोऽभजत्तं गणनायकम् । मायासूखं परित्यज्य तन्निष्ठः स बभूव ह ॥५६॥ एवं संकटहारिण्या चतुर्थ्या महिमाद्भुतः । कथितः शांतिदः सर्वसंमेलनकरोऽभवत् ॥५७॥ अन्यच्छृणु महाभाग चरित्रं पापनाशनम् । वंगदेशे द्विजः कश्चित् पापकमी बभूव ह ॥५८॥ त्यक्त्वा ब्राह्मणमार्गं स मद्यपानरतोऽभवत् । यवनीं स समादाय यवनोऽभून् महाबलः ॥५९॥ वक्तुं न शक्यते तस्य कर्म पापमयं महत् । कथने परदोषाणां दोषी भवति मानवः ॥६०॥ कदाचिज्ज्वरसंयुक्तो बभूवे जातिदूषणः । तत्राश्विनभवा प्राप्ता नृप कृष्णा चतुर्थिका ॥६१॥ तत्र तेन जलात्रं च भक्षितं न भयान्नृप । सुपक्तानां तंडुलानां पीतं चंद्रोदये जलम् ॥६२॥ ततो बहौ गते काले ममार यवनो द्विजः । संगृह्य ब्रह्मभूतं तं गाणेशाश्चक्रिरे नृप ॥६३॥ एतादृशा महापापा व्रतपुण्यप्रभावतः । ब्रह्मभूता बभूवुश्च का कथा विधिकारिणाम् ॥६४॥ एवं नाना जना राजन् भुक्त्वा भोगान् यथेप्सितान् । ब्रह्मण्यं ते गतास्तत्तु मया वक्तुं न शक्यते ॥६५॥ इदमाश्विनजायास्तु माहात्म्यं यः शृणोति वा । पठेत् स कृष्णसंकष्ट्याः सर्वार्थं लभते नरः ॥६६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आश्विनकृष्णचतुर्थीमाहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः ॥ ❧ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । कार्तिके कृष्णपक्षे या चतुर्थी संकटी मता । माहात्म्यं वद तस्यास्त्वं सर्वपापहरं परम् ॥१॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहास पुरातनम् । महाराष्ट्रे महातेजा राजाऽभूत् कर्दमाभिधः ॥२॥ वेदवेदार्थतत्त्वज्ञः स्वधर्मनिरतोऽभवत् । लोकान् संगृह्य षष्ठांशं पालयन् पुत्रकान् यथा ॥३॥ अपारसेनया युक्तश्चतुरंग- प्रमोदया । पूर्णकोशः कुबेराभो बभौ शस्त्रास्त्रपारगः ॥४॥ स्वबलेन नृपान् सर्वान् वशान् कृत्वा महाबलः । चकार

यहाँ दिए गए पृष्ठ का देवनागरी में अक्षरशः प्रतिलेखन (transcription) प्रस्तुत है:

खं. ४ अ. २९ | पान ८१ ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ वशगां पृथिवीं समुद्रांतां विशेषतः ॥५॥ करदा इतरे सर्वे राजानः सेवका इव । सामंताश्च महाराज तस्याज्ञा- वशवर्तिनः ॥६॥ पुण्यवान् धर्मशीलश्च नानादानपरायणः । देवविप्राऽतिथिप्रेप्सुः स्वदारनिरतोऽभवत् ॥७॥ यज्वा विनीतकस्तीर्थकारकः परवीरहा । नानागुणयुतः सोऽपि मया वक्तुं न शक्यते ॥८॥ स एव यक्ष्मणाऽत्यंतं पीडितः पापरूपिणा । शोकाकुलोऽभवद्राजा अस्थिशेषो बभूव ह ॥९॥ नानोपायाः कृतास्तस्य शांतये न च सोऽभवत् । शांतस्ततो महाराजस्तीर्थयात्रापरोऽभवत् ॥१०॥ नानातीर्थानि राजाऽसौ चकार तदपि ह्यहो । पीडया नैव मुक्तोऽभूत्ततो दुःखित- मानसः ॥११॥ देवार्चनरता विप्राः कृतास्तेन महात्मना । तथापि रोगसंयुक्तोऽधिको राजा बभूव ह ॥१२॥ ततः शांतिधरो राजा वैराग्ये निदधे मनः । राज्यं त्यक्त्वा प्रधानेषु सस्त्रीकः स वनं ययौ ॥१३॥ बभ्राम वनगो भूत्वा यत्र तत्र महीपतिः । ततो मंकणकं विप्रमदर्शद्योगिसत्तमम् ॥१४॥ तद् दृष्ट्वा निपपातोर्व्यां रुरोद भृशमेव सः । ततस्तं मुनिमुख्योऽसौ जगाद दयया युतः ॥१५॥ मंकणक उवाच । शृणु राजन् महाभाग येन त्वं रोगपीडितः । अभवस्तदहं सर्वं कथयामि नृपाधम ॥१६॥ मुख्यं नष्टं च राज्ये ते चतुर्थीसंज्ञितं व्रतम् । तेन त्वं पापसंयुक्तो नरके गच्छसि ध्रुवम् ॥१७॥ सर्वादौ तद्व्रतं कार्यं नित्यवद्राजसत्तम । सर्वसिद्धिकरं पूर्णं चतुर्विधफलप्रदम् ॥१८॥ तद्व्रतेन विहीनस्त्वं नानाधर्मपरायणः । चतुःपदार्थहीनत्वान्निष्फलोऽसि नृपाधम ॥१९॥ एवमुक्त्वा च माहात्म्यं चतुर्थीसंभवं मुनिः । श्रावयामास तस्मै तच्छ्रुत्वा सोऽपि तमब्रवीत् ॥२०॥ कद्देम उवाच । धन्यं मे जन्म कर्मादि त्वदंघ्रियुगदर्शनात् । व्रतस्य श्रवणाद्धन्यो कृतकृत्यो न संशयः ॥२१॥ दयानिधे गणेशस्य स्वरूपं वद विस्तरात् । सर्वदेवाधिदेवं तं भजिष्यामि निरंतरम् ॥२२॥ मंकणक उवाच । गणेशस्य स्वरूपं कथयितुं शक्यते न तत् । तथाप्युपाधिसंयुक्तं वदामि शृणु कद्देम ॥२३॥ पुराऽहं पत्रभक्षः संस्तपसे संस्थितोऽभवम् । बहुकाले गते हस्तो विद्धो मे कंटकेन च ॥२४॥ तदा पत्ररसस्तस्मादस्रवत् किंचिदप्यहो । दृष्ट्वा विस्मित- चित्तोऽहं नृत्यं चाकरवं तदा ॥२५॥ अहो देहाद्गतं कुत्र रुधिरं मे स्वभावजम् । पत्रभक्षणभावेन रसः स्रवति हस्ततः ॥२६॥ ततो नृत्यस्य वेगेन कंपितं स चराचरम् । मदीयंतपसा युक्तं देवाः शंकरमाययुः ॥२७॥ शंकरः सर्वदेवैश्चागत्य मामब्रवीद्वचः । किं नृत्यसि महाभाग पश्य मे कौतुकं महत् ॥२८॥ इत्युक्त्वा त्रुटिका तेन कृता तत्र रसस्य मे । भस्मरूपं कृतं भूपाऽभवं तेनातिविस्मितः ॥२९॥ त्यक्त्वा नृत्यं महेशानं प्रणम्य स्तुतवान् क्षणात् । अंतर्धाय स्वमात्मानं शंकरः स ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ

यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:

खं. ४ अ. २९ पान ८२ गतोऽभवत् ॥३०॥ मया मनसि राजेंद्र संधृतं शंकरात् परम् । विद्यते न तथा कर्तुमन्यथा कर्तुमीश्वरः ॥३१॥ दर्शयित्वा तपोरूपमतो भस्म कृतं महत् । रसस्य सर्वगः सोऽपि ब्रह्माकारः प्रदृश्यते ॥३२॥ त्यक्त्वा विष्णुं महेशस्य भजने निरतो- ऽभवम् । क्रमेण योगयुक्तोऽहं तपस्त्यक्त्वा शमे रतः ॥३३॥ जडादिका मया योगभूमयः क्रमितास्ततः । क्रमेण सहजे संस्थोऽभवं वै मोहवर्जितः ॥३४॥ यत्र तत्र महीदेशे भ्रांतोऽहं योगधारकः । सहजं ब्रह्म मोहेन हीनं दृष्टं मया ततः ॥३५॥ स्वाधीनं सहजं ब्रह्म न योग्यं शांतिदे परे । तेनाऽहं ब्रह्माणि भ्रांतः सूर्य च शरणं गतः ॥३६॥ प्रणम्य सौरमार्गेण स्तोत्रेण प्रस्तुतो मया । प्रसन्नो माऽवदत्तत्र वरं वरय चेप्सितम् ॥३७॥ ततोऽहमवदं सूर्य वद शांतिप्रदं प्रभो । सहजं मोहहीनत्वात् स्वाधीनं नैव शांतिदम् ॥३८॥ ततो मामब्रवीत् सूर्यः प्रसन्नो भक्तियंत्रितः । गणेशं भज भावेन तदा शांतिमवाप्स्यसि ॥३९॥ असच्छक्तिश्च सत् सूर्यः समो विष्णुर्महामुने । सहजः शंकरः प्रोक्तस्तेषां योगे गणेश्वरः ॥४०॥ चतुर्णां चैव संयोगे स्वानंदः परिकीर्तितः । अयोगः पंचभिर्हीनस्तत्र निर्मायिको बभौ ॥४१॥ संयोगे मायया युक्तो योगे मायाविवर्जितः । तयोर्योगे शांतिदः स गणेशो ब्रह्मनायकः ॥४२॥ चित्तरूपा महाबुद्धिः पंचधा परिकीर्तिता । चित्तमोह- प्रदा सिद्धिस्ताभ्यां क्रीडति विघ्नपः ॥४३॥ चित्तं मोहयुतं विप्र त्यक्त्वा योगेन शांतिदम् । चिंतामणिं भजस्व त्वं योगिवंद्यो भविष्यसि ॥४४॥ एवमुक्त्वा ददौ मंत्रं प्रभुर्मह्यं षडक्षरम् । स विधिं तं नमस्कृत्य स्वाश्रमेऽहं समागमम् ॥४५॥ तत्र विघ्नेश्वरं भक्त्या भजं तं नित्यमादरात् । ततः स्वल्पेन शांतिस्थोऽभवं योगस्य सेवया ॥४६॥ तथापि गणराजं संपूज्य मंत्रपरायणः । अभजं तेन संतुष्टः प्रत्यक्षं प्रययौ स्वयम् ॥४७॥ मया संपूजितो भक्त्या स्तुतो नानाविधैः स्तवैः । मह्यं दत्त्वा दृढां भक्तिमंतर्धानं चकार ह ॥४८॥ तदारभ्य महीपाल गाणपत्योऽहमादरात् । भजामि तं गणेशानं स्वच्छंदेन महामते ॥४९॥ एवमुक्त्वा ददौ तस्मै कर्दमाय षडक्षरम् । मंत्रं विधियुतं विप्रो गणेशकृपया युतः ॥५०॥ अंतर्धानं चकारापि महान् मंकणको मुनिः । राजा हर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥५१॥ तत्राऽऽदौ कार्तिके मास्यागता कृष्णा चतुर्थिका । तां चकार पुरस्थैश्च जनैर्हर्षयुतो नृप ॥५२॥ ततो भूपेन विख्यातं कृतं व्रतमनुत्तमम् । शुक्लकृष्ण- चतुर्थीजं व्रतं चक्रुर्जना भुवि ॥५३॥ रोगहीनः स राजर्षिर्भजद्गणनायकम् । जना वंध्यत्वहीनाश्चाऽभजंस्ते भावसंयुताः ॥५४॥ पुत्रे राज्यं परित्यज्य सस्त्रीकः स वनं ययौ । तत्र विघ्नेश्वरं भक्त्याऽभजच्चानन्यचेतसा ॥५५॥ अंते स्वानंदगो

[Header: खं. ४ अ. ३० | पान ८३]

भूत्वा ब्रह्मभूतो बभूव ह । क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥५६॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यत्त्वं शृणु भावेन परं कार्तिकसंभवम् ॥५७॥ चांडालः कोऽपि पापात्मा हिंसायां तत्परोऽभवत् । जघान ब्राह्मणा- नन्यान् जंतून् वनसमाश्रितान् ॥५८॥ परस्त्रियं वने दृष्ट्वाऽयभक्तां हठसंयुतः । एवं नानाविधं पापं चकार दुर्मतिः सदा ॥५९॥ कदाचित् कार्तिके मासि चतुर्थ्यां वनमाश्रितः । कृष्णायां तत्र सर्पेण दष्टः पापपरायणः ॥६०॥ ततोऽतिभयसंयुक्तः स्वगृहं प्रत्यपद्यत । तत्रोपायाः कृता नाना स्वजनैर्विषहारकाः ॥६१॥ तथापि विषबाधा च न जहौ तं सुदुर्मतिम् । ततश्चन्द्रोदये किंचित् सावधानो बभूव ह ॥६२॥ तत्रान्नं भक्षयित्वा स पुनस्तद्गरलेन च । व्याकुलः पतितस्तत्र गतचेष्टो- ऽन्त्यजोऽभवत् ॥६३॥ पंचम्यां स मृतः पापी ब्रह्मभूतो बभूव ह । व्रतपुण्यप्रभावेन तदद्भुतमिवाऽभवत् ॥६४॥ एवं नानाविधा राजन् व्रतपुण्यप्रभावतः । बभूविरे ब्रह्मभूता मया वक्तुं न शक्यते ॥६५॥ एतत्ते कथितं सर्वं माहात्म्यं कार्तिके नृप । संकष्ट्या यस्तु पठति शृणोतीप्सितमालभेत् ॥६६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । मार्गशीर्षे च कृष्णायाश्चतुर्थ्या वद मानद । माहात्म्यं सर्वदं स्वामिन् येन तृप्तो भवाम्यहम् ॥१॥ वसिष्ठ उवाच । इतिहासं पुरावृत्तं कथयामि सविस्तरम् । राजा बभूव तेजस्वी हरिश्चंद्रः प्रतापवान् ॥२॥ अयोध्यायां स्थितः सोऽपि नानाधर्मपरायणः । सदा सद्गुणसंयुक्तो यज्वा कर्मपरायणः ॥३॥ यद्यच्च याचते विप्रस्तद्ददाति स हर्षतः । तस्य पुण्येन तुल्यं तु न बभूव धरातले ॥४॥ ततश्छलयितुं योगी विश्वामित्रः समाययौ । सर्वराज्यं नृपस्यैव जगृहे दानमार्गतः ॥५॥ राज्यभ्रष्टं नृपं कृत्वा परप्रांते गतं पुनः । नानामिषेण तं तत्राच्छलयन् मुनिसत्तमः ॥६॥ ततः सोऽपि नृपोऽत्यंतं धर्मयुक्तो बभूव ह । न चचालातिदुःखेन संयुक्तः परमार्थवित् ॥७॥ तत्रैकदा चतुर्थी सा मार्गशीर्षे समागता । कृष्णा नृपः क्षुधायुक्तो बभूव तृषया युतः ॥८॥ छलितो मुनिनाऽत्यंतं ततश्चंद्रोदयोऽभवत् । तत्रान्नं भक्षयामास राजेंद्रो दैवयोगतः ॥९॥ पंचम्यां बुद्धिसंभेदो विश्वामित्रस्य चाऽभवत् । तज्ज्ञात्वा विस्मितो योगी विचचार स्वचेतसि ॥१०॥

पान ८४ ततस्तेन व्रतं तत्र ज्ञातं राज्ञा कृतं महत् । प्रत्यक्षं वरदो भूत्वा हरिश्चंद्रमुवाच ह ॥११॥ कुरु राज्यं महाबुद्धे शृणु मे परमं वचः । तव राज्ये चतुर्थीजं व्रतं नष्टं बभूव ह ॥१२॥ तेन त्वं पीडया युक्तः प्रजातोऽसि नृपाधम । अहं संक्षुभितो वाऽपि तदर्थं नात्र संशयः ॥१३॥ सर्वाद्यौ तद्द्रुतं कार्यं चतुःपादप्रदं नृप । नित्यवन्नात्र संदेहः सर्वसिद्धिप्रदायकम् ॥१४॥ त्वया नानाविधं पुण्यं कृतं विधियुतं महत् । तत्सर्वं निष्फलं जातं व्रतहीनप्रभावतः ॥१५॥ जनैः सर्वैर्महाराज नरके त्वं पतिष्यसि । त्वया कृतं व्रतं मुख्यमधुनाऽज्ञानतो महत् ॥१६॥ तेनाऽहं प्रीतिसंयुक्तः कृतो वै राजसत्तम । तत् कुरुष्व महीपाल जनैः सौख्यमवाप्स्यसि ॥१७॥ एवमुक्त्वा ददौ तस्मै मंत्रमष्टाक्षरं मुनिः । सविधिं गणनाथस्य सोऽपि तं पुनरब्रवीत् ॥१८॥ हरिश्चन्द्र उवाच । गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः । व्रतस्यैव प्रभावं त्वं विधियुक्तं महामुने ॥१९॥ विश्वामित्र उवाच । गणेश्वरस्य माहात्म्यं शृणु संक्षेपतो नृप । एक एव गणेशोऽयं सर्वे तस्य गणाः स्मृताः ॥२०॥ मनोवाणीमयं विश्वं तदेव गणवाचकम् । नानाभावसमायुक्तं मया वक्तुं न शक्यते ॥२१॥ मनोवाणीविहीनं यन्नानाब्रह्मप्रवाचकम् । गणरूपं तु विज्ञेयं वेदे पश्य महीपते ॥२२॥ सिद्धिर्भ्रांतिकरी प्रोक्ता बुद्धिर्भ्रांतिधरा नृप । ताभ्यां क्रीडति विघ्नेशश्चित्ते चिंतामणिः स्थितः ॥२३॥ तं भजस्व विधानेन तदा शांतिमवाप्स्यसि । राज्यकर्ताऽपि वन्द्यस्त्वं योगिनां प्रभविष्यसि ॥२४॥ चित्तं पंचविधं प्रोक्तं तत्र मोहश्च पंचधा । समोऽहं चित्तमुत्सृज्य चिंतामणिर्भविष्यसि ॥२५॥ एवमुक्त्वा व्रतस्यैव माहात्म्यं मुनिपुंगवः। श्रावयामास तस्मै तत्ततश्चांतर्हितोऽभवत् ॥२६॥ विश्वामित्रं गतं ज्ञात्वा राजा हर्षसमन्वितः । अयो- ध्यायां ययौ वेगात् प्रधानैरनुमोदितः ॥२७॥ नागरैः सह राजाऽपि चकार व्रतमुत्तमम् । शुक्लकृष्णचतुर्थीजं गणेशभजने रतः ॥२८॥ सर्वत्रैवं प्रशस्तं तद् व्रतं चकार हर्षतः । भूमिसंस्था जनाः सर्वे व्रतं चक्रुर्विशेषतः ॥२९॥ नानेन सदृशं किंचित् सर्वदं व्रतमुत्तमम् । ततो रोगादिभिर्हीनो बभूवे हर्षसंयुतः ॥३०॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । पुत्रे राज्यं विनिक्षिप्य सस्त्रीकश्च ययौ वनम् ॥३१॥ तत्रैव गणराजं सोऽभजत् सुतपसा युतः । शांतिं प्राप्तो विशेषेणाऽभवद्योगी स पार्थिवः ॥३२॥ अंते स्वानंदगो भूत्वा गणेशे लीनतां गतः । एवं व्रतस्य माहात्म्यं कथितं तेऽजननंदन ॥३३॥ जनाः सर्वे क्रमेणैव ब्रह्मभूता बभूविरे । चतुर्थीव्रतजेनैव पुण्येन परमेण ते ॥३४॥ अन्यच्छृणु महीपाल मालवे नगरं महत् । कर्णा नाम च तत्राऽऽसीद्वेश्या नरविमोहिनी ॥३५॥ लोकान् सा हावभावेन मोहयामास तत्क्षणात् । नाना जनाः स्वधर्मं त्यक्त्वाऽभवन् वै तदात्मकाः

[खं. ४ अ. ३१] [पान ८५]

॥३६॥ स्वस्वस्त्रियं परित्यज्य तन्निष्ठास्ते बभूविरे । मद्यमांसरताः सर्वे नराधिप कृतास्तया ॥३७॥ ब्राह्मणादय एवं ते भ्रष्टा जाता विशेषतः । चौर्यादिकर्मसंयुक्ताः किं वदामि महामते ॥३८॥ कथने परदोषाणां दोषी भवति मानवः । एतादृशी तु सा वेश्या पापरूपाऽतिदारुणा ॥३९॥ नानाजनैर्युता राजन्नरके कृतनिश्चया । न विरामं चकाराऽपि नराणां मोहने कदा ॥४०॥ एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च । चतुर्थ्यां कृष्णपक्षे साऽभवद्दाहेन पीडिता ॥४१॥ पंचम्यां सा मृता तत्र ब्रह्मभूता बभूव ह । व्रतस्यैव प्रभावेण पतितानां सहायिनी ॥४२॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे । तन्न ते कति वै ब्रूयां नालं वर्षायुतैरपि ॥४३॥ मार्गशीर्षचतुर्थ्या यन् माहात्म्यं कथितं परम् । पठनात् श्रवणात् सर्वसिद्धिदं भवति ह्यहो ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । पौषकृष्णचतुर्थ्यास्तु माहात्म्यं वद भो गुरो । न तृप्यामि कथां शृण्वन् सर्वसिद्धिकरीं पराम् ॥१॥ वसिष्ठ उवाच । इतिहास प्रवक्ष्यामि पुरातनभवं महान् । राजा वीरसहो नाम बभूवे हस्तिनापुरे ॥२॥ बलवान्नीति- युक्तश्चाभवच्छस्त्रास्त्रपारगः । धर्मशीलो वदान्यः स मान्यान् मानयिता भृशम् ॥३॥ नानादानरतश्चापि वांध्यदोषयुतो- ऽभवत् । तदर्थं यत्नमास्थाय देवसेवापरोऽभवत् ॥४॥ ब्राह्मणैः पुत्रकामार्थं पुत्रीयामिष्टिमाहरत् । नैव लेभे स तदपि पुत्रं वंशविवर्धनम् ॥५॥ तीर्थक्षेत्रादिकस्थाने नानाधर्मानकारयत् । स्वयं पूजापरो भूत्वा न लेभे संततिं ततः ॥६॥ ततोऽति- दुःखितो राजा त्यक्त्वा राज्यं वने ययौ । सस्त्रीको भ्रममाणः स शीतोष्णैः पीडितोऽभवत् ॥७॥ महावनान्तरं गत्वा दुःखशोकसमन्वितः । सिंहव्याघ्रादिकान् दृष्ट्वा भयहीनश्चचार ह ॥८॥ तत्राऽऽजगाम योगींद्रस्त्रितो नाम महामुनिः । तं दृष्ट्वा प्रणनामाऽऽदौ कृतांजलिपुटः स्थितः ॥९॥ तेन पृष्ट उवाचाऽसौ निजं सर्वं महायशाः । रुरोद तं महायोगी जगाद करुणायुतः ॥१०॥ त्रित उवाच । राज्ये ते नृपशार्दूल सर्वसिद्धिकरं व्रतम् । नष्टं चतुर्थीजं पूर्णं तेन वंध्योऽसि निश्चितम् ॥११॥ सर्वांदौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् । तदा कर्म कृतं सर्वं चतुःपादप्रदं भवेत् ॥१२॥ नानाधर्मपरस्त्वं वै जनास्तथैव

ख. ४ अ. ३१ पान ८६


मानद । फलहीनप्रभावेण पतिष्यंति च रौरवे ॥१३॥ एवमुक्त्वा चतुर्थ्यास्तु माहात्म्यं मुनिसत्तमः । श्रावयामास संपूर्णं ततस्तं त्वब्रवीन्नृपः ॥१४॥ वीरसह उवाच । गणेश्वरस्य माहात्म्यं वद मे करुणानिधे । एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥१५॥ त्रित उवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्यं कथं भवेत् । उपाधियुक्तं भावेन कथयामि शृणुष्व तत् ॥१६॥ अहं पुरा तपोयुक्तः शापानुग्रहणे क्षमः । एको द्वितश्च मे राजन् भ्रातरौ विद्यया युतौ ॥१७॥ ताभ्यां यज्ञार्थमेवाहं गतो राज्ञो महात्मनः । अभवं कारयित्वा तं स्वगृहे गंतुमुत्सुकः ॥१८॥ दक्षिणापशुभिर्युक्तं विपुलैर्मार्गसंस्थितम् । भ्रातरौ लोभसंयुक्तौ कूपे क्षिप्त्वा प्रजग्मतुः ॥१९॥ जलहीने हि कूपेऽहं पतितः खेदसंयुक्तः । तत्र मानसिकं यज्ञं प्रचकार हितावहम् ॥२०॥ आजग्मुरस्तत्र देवाद्या हविर्भागार्थमादरात् । मया संपूजिताः सर्वे तृप्ताः संहर्षिता बभुः ॥२१॥ अमरा ईप्सितं सर्वे वरं मह्यं ददुर्नृप । ततः कूपाच्च मां सर्वे बहिः क्षिप्त्वा प्रजग्मिरे ॥२२॥ ततोऽहं याचयित्वाऽन्यं नृपं गोभिः समन्वितः । हर्षेण स्वाश्रमं गत्वा संस्थितस्तप आचरन् ॥२३॥ ततोऽतितपसा ज्ञानं सर्वगं ह्यभवत्ततः । तपस्त्यक्त्वा च योगेन प्राभवं भूमिसाधकः ॥२४॥ जडोन्मत्तपिशाचाद्या भूमयः साधिता मया । अंते ब्रह्मगतोऽतिष्ठं समात्माऽहं स्वशांतिदे ॥२५॥ स्वाश्रमे हर्षयुक्तोऽहं ततो मुद्गल आगतः । धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥२६॥ योगींद्रैर्वंदितो नित्यं तं दृष्ट्वा प्रणतोऽभवम् । पूजयित्वा सुविश्रांतं तमपृच्छं कृतांजलिः । शांतियोगं वद स्वामिन् शांतिभ्यः शांतिदायकम् ॥२७॥ मुद्गल उवाच । असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने । अव्यक्तः शंकरस्तेषां संयोगे गणपो- ऽभवत् ॥२८॥ संयोगे मायया युक्तो गणेशो ब्रह्मनायकः । अयोगे मायया हीनो भव ते मुनिसत्तम ॥२९॥ संयोगा- योगयोर्योगे योगो गाणेशसंज्ञकः । शांतिभ्यः शांतिदः प्रोक्तो भज तं भक्तिसंयुतः ॥३०॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं स मुद्गलः । एकाक्षरं विधियुतं ततः सोऽंतर्हितोऽभवत् ॥३१॥ ततोऽहं गणराजं तमभजं सर्वभावतः । तेन शांति- समायुक्तश्चरामि ह्यकुतोभयः ॥३२॥ न गणेशात् परं ब्रह्म न गणेशात् परं तपः । न गणेशात् परं कर्म ज्ञानं न गणपात् परम् ॥३३॥ न गणेशात् परो योगो भक्तिर्न गणपात् परा । तस्माच्च सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः ॥३४॥ गणेशानं परित्यज्य कर्म ज्ञानादिकं चरेत् । तत्सर्वं निष्फलं याति भस्मनि प्रहुतं यथा ॥३५॥ सर्वांस्त्यक्त्वा गणेशानं भजतेऽनन्य- चेतसा । सर्वसिद्धिं लभेत् सद्यो ब्रह्मभूतः स कथ्यते ॥३६॥ एवमुक्त्वा त्रितस्तस्मै ददौ मंत्रं दशाक्षरम् । विधियुक्तं ततः

साक्षादंतर्धानं चकार ह ॥३७॥ राजा वीरसहो राजन् हर्षतः स्वपुरं ययौ । प्रधानैर्नागरैः सर्वैर्मानितः संस्थितोऽभवत् ॥३८॥ तत्रादौ पौषगां कृष्णां चतुर्थी तां समागताम् । चकार स्वपुरस्थैः स विधियुक्तां सुहर्षितः ॥३९॥ प्रशस्तं तद् व्रतं तेन कृतं सर्वत्र भूमिप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥४०॥ ततः पुत्रं महाशूरं नीतिज्ञं धर्मसंयुक्तम् । लेभे नानागुणैर्युक्तं जनाः संहर्षिता बभुः ॥४१॥ रोगादिभिर्विनिर्मुक्ता हृष्टाः पुष्टाश्च तेऽभवन् । यत्र तत्र चतुर्थीजं माहात्म्यम- वदन् जनाः ॥४२॥ पुत्रं राज्ये समास्थाप्य राजा निर्वृत्तिधारकः । सस्त्रीको गणनाथं तमभजद्भावसंयुतः ॥४३॥ अंते ब्रह्ममयः सोऽपि बभूव व्रतपुण्यतः । क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥४४॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यच्छृणु महाभाग पापनाशकरं महत् ॥४५॥ गौडे कश्चिद् वणिक् पापी लोभयुक्तो बभूव ह । द्रव्यार्थं पितरं सोऽपि जघान विषदोषतः ॥४६॥ मातरं स तथा दुष्टो मार्गे नानाजनांस्तथा । वणिजो विषयोगेन मारयामास नित्यदा ॥४७॥ एवं बहुधनो जातः परस्त्रीलालसोऽभवत् । मद्यमांसपरो दुष्टो सतीसंगेषु लालसः ॥४८॥ नानामिषेण दुष्टः स्म सतीर्धर्षति वेगतः । परस्त्रियस्ततो राज्ञा धृतोऽसौ ताडितोऽभवत् ॥४९॥ निगडैर्बद्ध एवाऽसौ संस्थितो राजवेश्मनि । दैवयोगेन पौषी सा प्राप्ता कृष्णा चतुर्थिका ॥५०॥ तस्यामन्नादिभिर्हीनः स्थितो दुःखसमन्वितः । चंद्रोदये रक्षकैर्यद्दत्त- मन्नमभक्षयत् ॥५१॥ पंचम्यां राजदूतैः स शूलप्रोतो ममार ह । ब्रह्मभूतः स वै जातो व्रतपुण्यप्रभावतः ॥५२॥ एवमज्ञानसंयुक्ता ज्ञानयुक्ता बभूविरे । ब्रह्मभूता व्रतस्यैव प्रभावेण महामते ॥५३॥ तत्रैव कति ते राजन् कथयामि विशेषतः । न वक्तुं शक्यते तस्मादुक्तं संक्षेपतो मया ॥५४॥ इदं पौषस्य संकष्ट्या माहात्म्यं संशृणोति यः । पठेद्वा तस्य शुभदं भविष्यति निरंतरम् ॥५५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥

शीर्षक (Header): खं. ४ अ. ३२ | पान ८८


॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । मलमासे च संकष्ट्याश्चतुर्थ्या वद मानद । माहात्म्यं प्रीतिदं पूर्णं न तृप्तोऽहं कृपानिधे ॥१॥ वसिष्ठ उवाच । आंध्रदेशे महाराजो बभूवे रैवतांतरे । धर्मदत्त इति ख्यातो नानाधर्मपरायणः ॥२॥ यज्वा विनीतकोऽत्यंतं नीतिज्ञोऽखिलतोषकृत् । षष्ठांशग्राहकः सोऽपि प्रजापालनतत्परः ॥३॥ जलोदरयुतोऽकस्माद्भवन् मानदायकः । सार्वभौमोऽतिपापेन गृहीतः सर्वशास्त्रवित् ॥४॥ नानोपायाः कृतास्तस्य शांतये नृपसत्तम । तथाऽपि रोगनिर्मुक्तो न बभूव महीपतिः ॥५॥ तुलादानादिकान्येव महादानानि पीडितः । चकार रोगयुक्तस्तदप्यत्यंतमजायत ॥६॥ परिक्रमन् स तीर्थानि चकार विधिसंयुतः । देवताऽराधनं राजा नाऽभवद्रोगवर्जितः ॥७॥ ततोऽतिदुःखितो राजा जलेनैवा- त्मघातनम् । विषेण कर्तुमुद्युक्तो नानाजनैः सुविह्वलैः ॥८॥ ततोऽकस्मान् महायोगी चाष्टावक्रः समाययौ । तद्गृहे तं नमस्कृत्य पूजयामास बांधवैः ॥९॥ भोजितं तं प्रणम्यैव कृत्वा करपुटं नृपः । धर्मदत्त उवाचाऽसौ विनयावनतोऽभवत् ॥१०॥ धर्मदत्त उवाच । धन्योऽस्म्यनुगृहीतोस्मि सफलो मे भवोऽभवत् । तव दर्शनतो विप्र साक्षाद्योगीश्वरस्य तु ॥११॥ आत्मघाते- ऽहमुद्युक्तस्तत्र ते दर्शनं महत् । प्राप्तं पुण्यसमूहेन नरको न भविष्यति ॥१२॥ वसिष्ठ उवाच । एवं वदंतमानंदयुक्तो योगींद्रसत्तमः । उवाच तं महाराजं दयया करुणानिधिः ॥१३॥ अष्टावक्र उवाच । किमर्थं देहघाते त्वमुद्यतोऽसि महामते । रोगदुःखविनिर्मुक्तो भविष्यसि न संशयः ॥१४॥ तव राज्ये महीपाल चतुर्थीमुख्यकव्रतम् । नष्टं तेन महोग्रेण पापेन संयुतो भवान् ॥१५॥ राजा राष्ट्रकृतं पापं त्वया प्राप्तं तथैव तत् । त्वमपि व्रतसंहीनः पतितोऽसि नृपाधम ॥१६॥ सर्वादौ तद्व्रतं कार्यं चतुर्वर्गफलप्रदम् । तदा कर्म कृतं राजन् फलयुक्तं भवेत् किल ॥१७॥ त्वया धर्मयुतं कर्म कृतं नानाविधं तथा । चतुःपदार्थहीनं तद्बभूव ह जनैः कृतम् ॥१८॥ सर्वैः सह जनै राजन्ररके त्वं पतिष्यसि । तदर्थं व्रतराजं तत् कुरु सर्वसमन्वितः ॥१९॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः । श्रावयामास तस्मै स करुणायुतचेतसा ॥२०॥ श्रुत्वा मुख्यं स माहात्म्यं धर्मदत्तः सुविस्मितः । उवाच तं हि योगींद्रं हर्षयुक्तेन चेतसा ॥२१॥ धर्मदत्त उवाच । पूर्वपुण्यं महन् मेऽस्ति कथनाय न शक्यते । मयेदृशं व्रतं विप्र श्रुतं तेन महाद्भुतम् ॥२२॥ अधुना विघ्नराजस्य स्वरूपं मे दयानिधे । कथयस्व सदा देवं भजिष्यामि महाप्रभुम् ॥२३॥ न सामान्यं चरित्रं तत्तस्य देवाधिपस्य यत् । यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत् ॥२४॥ अष्टावक्र उवाच । धर्मदत्त महाभाग शृणु त्वं गणपस्य यत् । यस्येदृशं व्रतं मुख्यं सर्वसिद्धि-

खं. ४ अ. ३२ | पान ८९


प्रदं भवेत् ॥२५॥ निर्गुणं गजवाच्यं यद्ब्रह्म मस्तकमेव च । तस्य देहः सगुणं ब्रह्म योगे गजाननः ॥२६॥ सिद्धिर्भ्रांतिस्वरूपा सा बुद्धिर्भ्रांतिधराऽभवत् । ताभ्यां क्रीडति विघ्नेशो मायाभ्यां परमार्थतः ॥२७॥ स्वसंवेद्येन योगेन लभ्यते दर्शनं महत् । तेन स्वानंदवासी स कथ्यते योगिभिः प्रभुः ॥२८॥ संयोगेऽयं गकारः सो योगेऽयं च णकारकः । तयोः स्वामी गणेशानः शांतियोगेन लभ्यते ॥२९॥ पंचधा चित्तवृत्तिर्या तस्यां मोहस्तु पंचधा । समोहं चित्तमुत्सृज्य लभ्यते चित्तचालकः ॥३०॥ तेनाऽयं गणनाथस्तु चिंतामणिरिति स्मृतः । तं भजस्व महाभाग तदा शांतो भविष्यसि ॥३१॥ एवमुक्त्वा ददौ तस्मै मंत्रं मालात्मकं प्रभुः । सविधिं धर्मदत्ताय ततः सोऽंतर्हितोऽभवत् ॥३२॥ राजाऽपि हर्षसंयुक्तो बभूवाचितरां ततः । धन्यमात्मानमेवं स्म मन्यते भाग्यगौरवात् ॥३३॥ तत्रादौ मलमासे या चतुर्थी कृष्णपक्षगा । समागता जनै राजा तां चकार विधानतः ॥३४॥ ततस्तेन व्रतं मुख्यं तत् सर्वत्र प्रकाशितम् । ततो जना व्रतं चक्रुर्भूमिस्या यत्र तत्र ते ॥३५॥ ततो रोगविनिर्मुक्तो धर्मदत्तो बभूव ह । जनाः सर्वे तथा हृष्टा बभूवू रोगवर्जिताः ॥३६॥ नित्यं गणपतिं राजाऽभजच्चानन्य- मानसः । गणेशप्रीतये नानादानानि स ददौ सदा ॥३७॥ ततो राज्ये स्वपुत्रं स संस्थाप्यैकांतसंस्थितः । सस्त्रीको गणनांथं तमभजद्ध्यानमार्गतः ॥३८॥ अंते जगाम विघ्नेशं तल्लीनः स बभूव ह । जनाः सर्वे क्रमेणैते ब्रह्मभूता बभूविरे ॥३९॥ एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् । कथितं ते महीपाल शृण्वन्यत्त्वं कथानकम् ॥४०॥ गांधारदेशवासीयः क्षत्रियः पापकारकः । बभूव स परद्रव्यहारकश्चौर्यमार्गतः ॥४१॥ द्यूतमचरतो नित्यं परस्त्रीलंपटोऽभवत् । गोमांसभक्षणे सक्तो मिथ्यावाक् साक्ष्यपूरकः ॥४२॥ नानाभेदैः सुदुर्बुद्धिः कलहं यत्र तत्र वै । चकार सर्वदा राजन् हिंसाकर्मपरायणः ॥४३॥ ततो राज्ञा महापापी वने निष्कासितो बलात् । जघान मार्गगांस्तत्र जंतून्नानाविधान् खलः ॥४४॥ द्विजादीनां वधे सक्तः स्त्रीबालवधकारकः । एवं नानाविधं पापं नित्यमेव चकार सः ॥४५॥ ततो द्रव्ययुतोऽत्यंतं बुभुजे भोगमुत्तमम् । हृदीप्सितं स दुष्टात्मा नानाचौरसमन्वितः ॥४६॥ कदाचित् पर्वतद्रोणीं मलमासे स आश्रितः । चतुर्थ्यां कृष्णपक्षस्य हिंसार्थं लोभसंयुतः ॥४७॥ ततो मानवमेकं तु मार्गस्थं स ददर्श ह । निःसृत्याधावदत्यंतं शस्त्रहस्तो वधाय वै ॥४८॥ पपाल क्रूरकर्माणं दृष्ट्वा तं सोऽपि भीतितः । क्रोशमात्रं ततो दुष्टः पपात पदव्युत्क्रमात् ॥४९॥ पतितं तं समाज्ञाय नरः क्रोधसमन्वितः । पाषाणेन महादुष्टं मारयामास मस्तके ॥५०॥ मस्तकः स्फुटितस्तत्र क्षत्रियस्य नराधिप । तेन स

[Header] खं. ४ अ. ३३ | पान ९०


व्याकुलोऽत्यंतं गतचेष्टो बभूव ह ॥५१॥ रात्रौ चंद्रोदये किंचित् सावधानोऽभवत् कुधीः । पायसं भक्षयामास स्वल्पं दुःखसमन्वितः ॥५२॥ ततो ममार पंचम्यां गतः स्वानंदके पुरे । तत्र दृष्ट्वा गणेशानं ब्रह्मभूतो बभूव ह ॥५३॥ एवं व्रतप्रभावेण पापकर्मा स क्षत्रियः । ब्रह्मभूतो बभूवाऽपि किं पुनर्शानतः कृतम् ॥५४॥ नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् । ब्रह्मभूता बभूवुश्च कथितुं तन्न शक्यते ॥५५॥ इदं कृष्णचतुर्थ्यां यन् माहात्म्यं मलमासके । शृणोति यस्तु पठति स ईप्सितमवाप्नुयात् ॥५६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते मलमासकृष्णपक्षचतुर्थीमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । शमीमूले च यस्तिष्ठेच्चतुर्थ्यां मुनिसत्तम । संकष्ट्यां तस्य माहात्म्यं वद मे करुणा- निधे ॥१॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि पुरातनभवं नृप । सर्वसिद्धिकरं पूर्णं श्रवणात् पठनान्नृणाम् ॥२॥ पांचाले ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः । पूर्वकर्मविपाकेन कुष्ठयुक्तो बभूव ह ॥३॥ नानाक्षतसमाकीर्णः प्रस्रवत् पूयशोणितः । कीटकैः सर्वतो व्याप्तो ह्यंधः कुब्जोऽभवन्नृप ॥४॥ तं दृष्ट्वा तादृशं पुत्रं पिता परमदुःखितः । अत्रिं जगाम शरणं तं पप्रच्छ प्रणम्य सः ॥५॥ तेनापि कथितं राजन् शमीमूले स्थितो भवेत् । चतुर्थी संकटीं कुर्यात्तदा पापात् प्रमुच्यते ॥६॥ ततः सोऽपि स्वपुत्रं तं शमीमूले महीपते । समानाय्य बबंधैव दाम्ना सर्वार्थसाधकः ॥७॥ सूर्योदयात् समारभ्य यावच्चन्द्रोदयो- ऽभवत् । तावत्तत्र महारोगी सोऽतिष्ठद्बंधनाकुलः ॥८॥ ततः पित्रा समानीतः स्वगृहे सोऽपि तत्क्षणात् । नेत्रयुक्तो बभूवाऽथ रोगादिभिर्विवर्जितः ॥९॥ कुब्जताहीनरूपं तं संस्थितं विगतज्वरम् । तद् दृष्ट्वा परमाश्चर्यं विप्राः सर्वे विसिस्मिरे ॥१०॥ ततः सोऽपि गणेशानमभजन्नित्यमादरात् । चतुर्थ्यां कृष्णपक्षे वै शमीमूले स्म तिष्ठति ॥११॥ अंते शांतिसमायुक्तो ब्रह्मभूतो बभूव ह । एवं तिष्ठेच्छमीमूले सोऽसाध्यं कुरुते वशम् ॥१२॥ अन्यच्छृणु महीपाल माहात्म्यं सर्वसिद्धिदम् । चोरः कश्चिन् महान् पापी नगरे स गतोऽभवत् ॥१३॥ स्फोटयित्वा गृहं किंचित्तेन तत्र प्रविश्य सः । धनं गृहीत्वा निर्यातो नरैर्दृष्टः पपाल सः ॥१४॥ जनैः कोलाहलस्तत्र कृतः परमदारुणः । श्रुत्वा राज्ञो ययुर्दूताः शस्त्रहस्ता महाबलाः ॥१५॥

[Header] खं. ४ अ. ३३ | पान ९१


ज्ञात्वा वृत्तांतमुग्रं ते धाविताः क्रोधसंयुताः । वेगेन तं महाचौरं जघ्नुः शस्त्रप्रहारतः ॥१६॥ छिन्नांगं पतितं चौरं दूताः संगृह्य दारुणम् । तं बबंधुः शमीवृक्षे ततो राजानमाययुः ॥१७॥ समागता चतुर्थी सा तत्राऽकस्मात् महीपते । कृष्णा सोऽपि महाचौरो शमीमूलस्थितोऽभवत् ॥१८॥ पंचम्यां क्षतहीनांगं चौरं सर्वत्र शोभनम् । संजातं राजदूतास्ते ज्ञात्वा राज्ञे न्यवेदयन् ॥१९॥ राजा तत्र समागम्य तं प्रणम्य पुरःस्थितः । एतस्मिन्नंतरे तत्र विमानं सहसाऽऽगतम् ॥२०॥ तं तत्रागृह्य निक्षिप्य गणान् शुंडाविराजितान् । तान् प्रणम्य स पप्रच्छ राजर्षिर्गंतुमुत्सुकान् ॥२१॥ महासेन उवाच । भो भो गणपतेर्दूताः किमनेन कृतं महत् । वदेत करुणायुक्तास्तद्वयं करवामहै ॥२२॥ गणेशा ऊचुः । कृष्णपक्षे चतुर्थ्यां यः शमीमूले जपेन्मनुम् । तिष्ठेत् सूर्योदयाद्यावत्तथा चन्द्रोदयो भवेत् ॥२३॥ निराहारः स विघ्नेशं पूजयेत् व्रतकारकः । पश्चाद्विप्रांश्च संभोज्य स्वयं भुंजीत वाग्यतः ॥२४॥ रात्रौ जागरणं कुर्यात् पंचम्यां पूजनं पुनः । प्रकुर्यात् गणराजस्य स ईप्सितमवाप्नुयात् ॥२५॥ फलयुक्तः सद्य एव भवत्यत्र न संशयः । अंते स्वानंदगो भूत्वा ब्रह्मभूतः स जायते ॥२६॥ एवमुक्त्वा गता दूताश्चौरेण सहिता नृप । चौरो विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥२७॥ ततो राजा महाभागो गणेश- भजने रतः । स चतुर्थ्यां शमीमूले तिष्ठन्नियमसंयुतः ॥२८॥ ततो राजा गतिं लेभे त्रिलोक्यां व्रतपुण्यतः । ब्रह्मादीनां सभायां स गत्वाऽतिष्ठत् स्वयेच्छया ॥२९॥ पुनः स्वनगरे राजा चंपावत्यां जगाम ह । एवं सर्वत्रगो भूत्वा रराजे राजमंडले ॥३०॥ अंते सर्वजनै राजा नगरस्थैर्महामते । जगाम विघ्नराजं तं ब्रह्मभूतो बभूव ह ॥३१॥ इदं ते मुख्यमाहात्म्यं शमीमूल- स्थितेर्महत् । चतुर्थ्यां कथितं राजन् संकष्ट्यां सर्वसिद्धिदम् ॥३२॥ शृणुयाद्यः पठेद्वा स सद्य एव फलं लभेत् । ईप्सितं गणराजस्य प्रसादान्नात्र संशयः ॥३३॥ एवं नाना जना राजन्धांध्यदोषादिवर्जिताः । बभूवुश्चरितं तेषां मया वक्तुं न शक्यते ॥३४॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥

यहाँ दिए गए पृष्ठ का देवनागरी लिप्यंतरण प्रस्तुत है:

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणादिषु मासेषु लड्वादीन् यस्तु भक्षति । तस्य विधियुतं विप्र माहात्म्यं वद सर्वदम् ॥१॥ वसिष्ठ उवाच । मनोर्वैवस्वतस्यैव पुत्र इक्ष्वाकुसंज्ञकः । राज्यलोभी कनिष्ठः सन् व्रतं चकार सिद्धिदम् ॥२॥ बभक्ष श्रावणे कृष्णसंकष्ट्यां पंचखाद्यजान् । लड्डुकान् सप्त भावेन व्रतसाधनतत्परः ॥३॥ दधिभक्षणमात्रं स भाद्रे कृष्णे चकार ह । आश्विने निर्जलं तद्वच्चकार व्रतमनुत्तमम् ॥४॥ कार्तिके दुग्धभुक् राजाऽतिष्ठत् स्वनियमे रतः । मार्गशीर्षे जलं पीत्वाऽभजत्तं गणनायकम् ॥५॥ पौषे गोमूत्रमात्रं तु व्रतं पीत्वा समाचरत् । माघे शुक्लतिलान् राजा बभक्ष व्रतकारणात् ॥६॥ फाल्गुने शर्करायुक्तं मानवोऽभक्षयद् घृतम् । चैत्रे तद्वत् पंचगव्यं पूजयित्वा विनायकम् ॥७॥ वैशाखे पद्मबीजं स बभक्ष व्रतधारकः । ज्येष्ठे घृतं गवां भक्षंश्चकार व्रतमुत्तमम् ॥८॥ आषाढे मधुमात्रं स बभक्ष नियमे रतः । चंद्रोदये गणेशानं पूजयित्वा विधानतः ॥९॥ ततस्तस्य व्रतस्यैव प्रभावेण महामते । सुद्युम्नो मनुपुत्रो य इलो ज्येष्ठो- ऽभवन्नृप ॥१०॥ ततो मुनिभिराचं तं राजानं स चकार ह । मनुरिक्ष्वाकुमेवं तु सार्वभौमं महाद्युतिम् ॥११॥ एवं त्वसाध्यकं राजन्निच्छेद्रै यदि मानवः । धर्ममार्गेण तत् सोऽपि लभते नात्र संशयः ॥१२॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः । लब्ध्वांऽते ब्रह्मभूताश्च बभूवुर्भूममंडले ॥१३॥ अतस्त्वं राजशार्दूल पापरूपोऽसि सांप्रतम् । तव राज्ये व्रतं नष्टं नृपाधम न बुध्यसे ॥१४॥ जनैः सह व्रतं तस्मात् कुरुष्व त्वं भविष्यसि । पुत्रयुक्तश्च विघ्नेशमंते गच्छसि निश्चितम् ॥१५॥ मुद्गल उवाच । प्रणम्य तं दशरथो महाराजो जगाम ह । स्वपुरे जनसंयुक्तश्चकार व्रतमुत्तमम् ॥१६॥ ततो भूपेन सर्वत्र प्रशस्तं तद्व्रतं कृतम् । चक्रुः सर्वजना भूमौ व्रतं गाणेश्वरं महत् ॥१७॥ व्रतपुण्यप्रभावेण विष्णुः साक्षाद्वभूव ह । चतुर्धाऽत्मानमाभाज्य पुत्रस्तस्य महात्मनः ॥१८॥ रामश्च भरतो राजा लक्ष्मणः शत्रुसूदनः । पुत्राश्चत्वार एवं ते बभूवुर्बलसंयुताः ॥१९॥ अंते जगाम विघ्नेशं दशरथः प्रतापवान् । लोका दुःखविहीनाश्च ब्रह्मभूता बभूविरे ॥२०॥ वसिष्ठर्षेदशरथस्येमं विप्रस्य धीमतः । संवादं व्रतहेतुं तु यः शृणोति पठेन्नरः ॥२१॥ तस्मै विघ्नेश्वरः साक्षाद्ददाति फलमुत्तमम् । पुत्रपौत्रादिसंयुक्तं धनधान्यसमन्वितम् ॥२२॥ नानारोगविहीनत्वमैश्वर्यादियुतं महत् । अंते गणपतौ लीनं करोत्यत्र न संशयः ॥२३॥ चतुर्थ्याश्चरितं पूर्णं कथितं ते प्रजापते । श्रोतुमिच्छा पुनः किं ते वर्तते वद सांप्रतम् ॥२४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुर्विंशोऽध्यायः ॥

खं. ४ अ. ३५ पान ९३ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । उद्यापनं व्रतस्यास्य वद त्वं मुनिसत्तम । येन सांगं फलं सर्वं लभते व्रतकारकः ॥१॥ मुद्गल उवाच । उद्यापनं प्रजानाथ व्रतस्यादौ मतं बुधैः । अथवा वर्षमध्ये तत् कर्तव्यं व्रतकारिणा ॥२॥ अथवा भाद्रमासे वै शुक्लायां च प्रजापते । उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके ॥३॥ महामंडपं कुर्यात् कदलीस्तंभमंडितम् । नाना- शोभासमायुक्तं विभवे सति मानद ॥४॥ वित्तशाठ्यं न कुर्यात् स यथाविभवमाचरेत् । छत्राऽऽदर्शादिभिः शोभां दीपमालाविराजितम् ॥५॥ मणिमुक्तादिकैः पूर्णं भूषणैश्च विशेषतः । यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः ॥६॥ मध्याह्न- समये तस्याः शुक्लायाः कथितं प्रभो । चन्द्रोदये च कृष्णायाश्चतुर्थ्याः पूजनं चरेत् ॥७॥ गोमयेन प्रलिप्याऽथ धान्यराशिं प्रकल्पयेत् । तन्मध्येऽष्टदलं पद्मं कुर्यात्तद्रुरुणा स्वयम् ॥८॥ तत्र संस्थाप्य सौवर्णं कलशं ताम्रजं तथा । रौप्यं वा मृन्मयं दक्ष वस्त्रयुग्मेन वेष्टयेत् ॥९॥ तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः । वस्त्रं ततो गणेशस्य यंत्रं कुर्याद्विचक्षणः ॥१०॥ तत्र गणपतेश्चैव मूर्तिर्धातुविनिर्मिता । सर्वावयवसंयुक्ता भूषणै राजिता भवेत् ॥११॥ द्विजोत्तमश्च संस्थाप्य पूजयेत्तां यथाविधि । ब्राह्मणान् वरयेच्छुद्धानैकविंशतिसंख्यकान् ॥१२॥ गणानां त्वेति मंत्रस्य जपं कुर्याद्विशेषतः । ततो होमं प्रकुर्वीत सहस्रं वा तदर्धकम् ॥१३॥ अष्टोत्तरशतं वाऽपि तथा जपद्दशांशकम् । गीतवाद्यपुराणानि वेदाध्ययनमेव च ॥१४॥ नानाशास्त्रप्रवादांश्च कुर्वंतु ब्राह्मणास्ततः । यत्र तत्र गणेशस्य कथाः संकथयंतु ते ॥१५॥ ततः पूर्णाहुतिं कुर्याद्वसोर्धारां स पातयेत् । बलिदानं ततः कुर्यात्ततो वायनकं चरेत् ॥१६॥ एकविंशतिपक्वान्नैरैकविंशतिसंख्यकैः । नैवेद्यैर्ब्राह्मणान् संभोज्यार्थयेत्तान् विशेषतः ॥१७॥ दक्षिणां विपुलां दत्त्वा सपत्नीकान् प्रतोषयेत् । योषिद्भ्यः कंचुकीर्दद्या- द्भूषणानि महामतिः ॥१८॥ कृष्णायां च चतुर्थ्यां स चन्द्रायार्घ्यं प्रदापयेत् । शुक्लायां तत्तथा दक्ष चेरेच्चन्द्रार्घ्यवर्जितम् ॥१९॥ आदौ स तिथये दद्यात् पश्चाद्विघ्नेश्वराय वै । ततश्चन्द्राय तन् मंत्रैरर्घ्यं मंत्रसमन्वितम् ॥२०॥ तिथीनां मातृरूपे त्वं देवि सर्वार्थदायिनि । गृहाणार्घ्यं मया दत्तं चतुर्थ्यै ते नमो नमः ॥२१॥ गजानन नमस्तुभ्यं नानासिद्धिप्रदायिने । गृहाणार्घ्यं बुद्धिपते मया दत्तं शुभप्रद ॥२२॥ अत्रिगोत्रसमुद्भूत गणेशप्रीतिवर्धन । गृहाणार्घ्यं मया दत्तं रोहिण्यामृतधारक ॥२३॥ कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत् । शुक्लपक्षे च पंचम्यां ब्राह्मणादींस्तु भोजयेत् ॥२४॥ चतुर्थ्यां जागरं कुर्यात् गणेशकथयान्वितः । पंचम्यां पूर्ववत् पूज्य नैवेद्याद्यैर्महामतिः ॥२५॥ दीनांधकृपणेभ्यश्च दद्यादन्नादिकं