नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
१. प्रथम-द्वितीय उच्छ्वास: आर्यावर्त-वर्णन, राजा नल पराक्रम एवं वसन्तोत्सव
२ नलचम्पूः । जयति मधुसहायः सर्वसंसारवल्ली- जननजरठकन्दः कोऽपि कंदर्पदेवः । तदनु पुनरपाङ्गोत्सङ्गसंचारितानां जयति तरुणयोषिल्लोचनानां विलासः ॥ २ ॥ अगाधान्तःपरिस्पन्दं विबुधानन्दमन्दिरम् । वन्दे रसान्तरप्रौढं स्रोतः सारस्वतं वहत् ॥ ३ ॥ त्रपदपङ्क्तिसरित्पाथोवीचिसंघट्टः श्रीत्रिविक्रमभट्टः प्रतिपादनीयसर्वरसकथोपक्रमे सदारशृङ्गारलादिन्द्रादीनेकान्तशान्तलाद्रीतरागप्रभृतीन्पहाय सर्वरसात्मकं परमेश्वरं शंकरमेव प्रणवन्नाह—जयतीत्यादि ॥ हैमवत्याः संवन्धिनि कामसंतापवाहिनि कंदर्पदेवपीडां दधान उरसि चान्दनो रसनिषेक इव संतापापहरणाद्रौहणद्रुमरसा- भिषेक इव योऽसौ भगवांश्चन्द्रमौलिः सुधांशुशेखरः स जयति सर्वोत्कृष्टो भवति । 'सर्वोत्कृष्टश्च सर्वेषां नमस्यः स्यात्' इति नमस्कारः प्रतीयते । नमस्कारेण च प्रबन्धकर्तृव्याख्यातृश्रोतृणामिष्टफलसंपत्तिः । रसा निषिच्यन्तेऽस्मिन्निति रसनि- षेको रसाधार इत्यप्येकदेशेन प्रतिपत्तव्यम् । रसाश्च शृङ्गारादयः । तांश्च कवय एव व्यक्तीकर्तुं प्रभवन्ति । अतस्तदनु रसाधारस्य भगवतः पश्चाद्रसव्यक्तिनिमि- त्तानां कवीनां वाल्मीकिव्यासकालिदासप्रभृतीनां निरन्तररसाविष्कारिणो वाग्वि- लासा विजयन्ते ॥ अत्र च पूर्वार्धेन वक्ष्यमाणप्रबन्धार्थोऽपि सूच्यते । गिरिर्भी- मन्नृपः । 'गिरिर्भीमन्नृपे सूर्ये क्ष्माभवे पर्वते जले' इत्युक्तेः । तस्य सुताया दम- यन्त्या दुर्वारस्मारविकारसंतप्त उरसि नलश्चन्दनरसनिषेको भविष्यति । स च चन्द्रवंश्यानां मौलिर्मुकुटायमान इति ॥ १ ॥ स किंसहायः किंमूलः किमुपकरणश्च कामो यो जगतः शिवतातिभ्यां शिवा- भ्यामपि स्वीकृत इत्याह—जयतीति ॥ कोऽप्यद्भुतवैभवः कंदर्पदेवो जयति । किंभूतः । मधुसहायो वसन्तसखः । नहि सहायमन्तरेण कश्चिन्महाकार्यकरणाय प्रवर्तते । तथा सर्वस्याः संसारवल्ल्या उत्पादनाय कठिनकन्दः । कठिनकन्दाद्व्यवि- च्युता वीरुद्वृद्धिः । कंदर्पदेवादनन्तरं पुनःपुनर्नेत्रापाङ्गप्रदेशक्रोडे कामुकजनलक्ष्यी- करणाय प्रवर्त्तितानां नववयःसुन्दरीनेत्राणां कटाक्षादिविभ्रमो जयति ॥ २ ॥ अथ यदवाचि 'तदनु च विजयन्ते वाग्विलासाः' इति तद्गुणानेव श्लोकत्र- येणाह—अगाधेति ॥ सरस्वती भारती नदीविशेषश्च । तस्या इदं सारस्वतम् । स्रोतः प्रवाहं वन्दे नमस्कुर्वे स्तुवे वा । नदीपक्षे प्रवाहस्य तद्धर्मत्वान्न किंचिद्दुर्घ- टम् । परं भारतीपक्षेऽन्यधर्मस्यान्यत्रारोपलक्षणसमाधिना गिरां नैरन्तर्येऽपि स्रोतःशब्दः । यथा 'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात्' इत्यत्रोन्मीलननिमीलने नेत्रधर्मावपि कमलकुमुदयोरारोपिते । किं कुर्वत् । वहत्प्रवर्त॑मानम् । पक्षे प्रसरत् । तथा अगाधो महार्थतयालब्धमध्योऽन्तर्मध्ये १ 'परिस्पन्दि'. २ 'महत्'.
प्रथम उच्छ्वासः । ३
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ४ ॥ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ५ ॥ अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥ ६ ॥
प्रकरणान्मनसि परिस्पन्दश्चमत्कारी स्फूर्तिर्विशेषो यस्य । पक्षेऽगाधो गम्भी- रोऽन्तर्मध्ये परि समन्तात्स्पन्दश्चलनमावर्तविशेषो यस्य । तथा विबुधानां देवानां पण्डितानां वा हर्षस्थानम् । भारतीविलासेन हि सुराणामपि प्रमोदः संपद्यते । पक्षे वीनां पक्षिणां मध्ये बुधा राजहंसास्तेषां हर्षस्थानम् । तथा रसानां शृङ्गारादीनामन्तरेण विशेषेण प्रौढं प्रगल्भम् । पक्षे रसाया भूमेरन्तरे मध्ये प्रवहति स्म । कर्तरि क्तः । सरस्वती किल म्लेच्छदेशे न्यग्भूय तदन्ते पुनरुद्भवतीति लोकश्रुतिः ॥ ३ ॥
प्रसन्ना इति ॥ कीदृश्यो वाचः । नानानेकधा प्रसन्नाः प्रसादगुणोपेताः । शब्दगुणः प्रसाद ओजोमिश्रितशैथिल्यात्मा । अर्थगुणस्तु प्रसादो वैमल्यं झटि- त्यवबोधगोचरत्वम् । तथाच काव्यप्रकाशकारः—'श्रुतिमात्रेण शब्दानां येनार्थ- प्रत्ययो भवेत् । साधारणः समग्राणां स प्रसादो गुणः स्मृतः ॥' इति । यद्वा प्रसन्नाः समासरहिताः । उक्तं च—'माधुर्यमभिवाञ्छन्तः प्रसादं च सुमे- धसः । समासवन्ति भूयांसि न पदानि प्रयुञ्जते ॥' इति । तथानेकधा कान्ति- गुणेन हर्तुं मनो वशीकर्तुं शीलं यासाम् । शब्दगुणः कान्तिरुज्ज्वल्यम् । ग्राम्यादिभिरनभिप्रयुक्तत्वमिति यावत् । अर्थगुणस्तु कान्तिर्दीप्तरसत्वम् । तथा नाना शब्दगुणार्थगुणार्यालंकारशब्दांलकाररूपं चतुर्विधं श्लेषं विशेषेण चक्षते याः । शब्दगुणो मसृणत्वं श्लेषः । अर्थगुणस्तु श्लेषो घटना । शब्द- कृतः शब्दालंकारः श्लेषः । अर्थकृतस्तु श्लेषोऽर्थालंकारः । स्त्रियस्तु प्रसन्नास्तो- षान्विताः । तथा कान्त्या वपुषो गुणविशेषेण मनोज्ञाः । तथा नानानेकविधे स्पृष्टक- विद्धक-उद्घृष्ट-पीडन-लतावेष्टक-वृक्षाधिरूढ-तिलतण्डुल-क्षीरनीर-ऊरु-पगूढ- जघनोपश्लेष-स्तनालिङ्गन-ललाटिक-रूपे द्वादशविध आलिङ्गने विचक्षणा दक्षाः ॥ ४ ॥ ५ ॥
अथ कुकविनिन्दाव्याजेन विपरीतगिरामग्राह्यत्वमाह—अप्रगल्भा इति ॥ एके कवयो बालका इव सन्ति । किंभूताः कवयः । पदानां सुप्तिङन्तरूपाणां न्यासे नैयत्यप्रयोगेऽप्रगल्भा अनिपुणाः । तथा जनानां विदुषां नीरागे रागाभावे हेतवः कारणम् । नहि तादृशां काव्यं श्रुत्वा रसिकानां कश्चिच्चमत्कारः संजायते । तथा बहुल आलापो येषाम् । एतेन निःसारवक्तृत्वोक्तिः । बालकास्तु पदन्यासे
१ 'तस्य'.
४ नलचम्पूः । अक्षमालाप्रवृत्तिज्ञा कुशासनपरिग्रहा । ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला ॥ ७ ॥ रोहणं सूक्तरत्नानां वृन्दं वन्दे विपश्चिताम् । यन्मध्यपतितो नीचः काचोऽप्युच्चैर्मणीयते ॥ ८ ॥ अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च । क्व सा वै रात्रिजातस्य तमसो दुर्जनस्य च ॥ ९ ॥ निश्चितं ससुरः कोऽपि न कुलीनः समेऽमतिः । सर्वथासुरसंबद्धं काव्यं यो नाभिनन्दति ॥ १० ॥ चरणक्षेपेऽनिपुणाः । तथा जनन्या मातृ रागहेतवोऽनुरागकारणम् । तथा वही- र्लीला निष्ठीवनजलानि पिबन्तीति बहुलालापाः । यद्वा बह्व्यो लाला अप्सुरूपा येषु ॥ 'ऋक्पूर-' इति सूत्रेण समासान्तः ॥ ६ ॥ कारणं विनापि केचित्परोत्कर्षमसहिष्णवः । ततस्तानेव क्षुद्रान्काव्यप्रवृत्तिभङ्ग- हेतुञ्छब्दमात्रेण गौरवयन्नाह—अक्षेति ॥ दुष्टानां कृत्याकृत्यभव्याभव्यविशेषवि- वेकविकलानां जनानांमियं दौर्जनी संसद्सभा वन्दनीया नमस्कार्येत्युपहासवाक्य- म् । श्लेषतस्तु वन्दे गृसौ करणीया वन्दनीया । केव । ब्रह्मणां विप्राणामियं ब्राह्मी द्विजसभेव । यथा द्विजसभा वन्यते तथा दुर्जनसंसदपि वन्या । किंभूता दौर्जनी । अक्षमया रुषा संभाषणस्य वृत्तिं जानाति कोपोल्लापयुग्वाक्प्रसरा । तथा कुशासनस्य कुत्सितशिक्षणस्य स्वीकारो यस्याः । तथा समे साधावपि खला प्रतिपक्षभूता । द्विजसभा लक्षमालाया भ्रमणं जानाति या । तथा दर्भासनस्य स्वीकारो यस्याः । तथा मेखलया मौञ्ज्या सहिता ॥ ७ ॥ रोहणमिति ॥ सुभाषितान्येव रत्नानि तेषां प्रशस्तरत्नानां वा रोहणमुत्पत्ति- स्थानं माणिक्यशैलो वा । 'कच बन्धे' कच्यन्तेऽर्था अनेनास्मिन्वा काचः प्रबन्धः क्षारमृद्विकारश्च । विपश्चितो ह्येतादृशमपि प्रबन्धं व्याख्यानप्रागल्भ्यादनुगृह्योत्कर्षं लम्भयन्ति ॥ ८ ॥ आस्तां सज्जनदुर्जनयोः शीलेन साम्यम् । यावन्मूर्त्यापि महदन्तरमिति निरूप- यन्नाह—अत्रीति ॥ अत्रिमुनिजातस्य शशाङ्कस्य न त्रिभिर्जातस्य सज्जनस्य च या मूर्तिः सर्वाभीष्टा सा वै स्फुटं रात्रिजातस्य तमसस्त्रिजातस्य दुर्जनस्य च क्व । यतो दुर्जनस्य वैरा वैरप्रधाना । सज्जनस्य त्ववैरा ॥ ९ ॥ निश्चितमिति ॥ सुष्ठु रसाः शृङ्गारादयो यत्र तथा बद्धं रचितं काव्यं ग्रन्थं यो नाभिनन्दति स निश्चितं ध्रुवं ससुरो मद्यपः कोऽपि । नच कुलीनः नाभि- जातः । सर्वथा समे साधावमतिः । असुरैः संबद्धं मिलितं काव्यं भृगुं यो न नन्दति स सुरो देवः कोऽपि । तथा न कौ भूम्यां लीन आश्लिष्टः । स्वर्ग एव CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
प्रथम उच्छ्वासः । ५ सदूषणापि निर्दोषा सखरापि सुकोमला । नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ ११ ॥ व्यासः क्षमाभृतां श्रेष्ठो वन्द्यः स हिमवानिव । सृष्टा गौरीदृशी येन भवे विस्तारिभारता ॥ १२ ॥ कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना । करोति कस्य नाह्लादं कथा कान्तेव भारती ॥ १३ ॥ शश्वद्वाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ १४ ॥ तस्यावस्थानात् । तथा मा लक्ष्मीः, इः कामः, ताभ्यां सहितः समेर्विष्णुस्तत्र सेव- नाय मतिर्यस्य । विष्णुपक्षीय इति भावः ॥ १० ॥ संप्रति वाग्विलासाधारानुदारान्वाल्मीकिप्रभृतीनकतिचित्कवीन्वर्णयन्नाह—स- दूषणेति ॥ अपिर्विरोधे । स च दूषणखरयोर्दोषार्थकठिनार्थकत्वे भवेत् । परिहारस्तु दूषणखरौ राक्षसौ यत्र वर्णितौ । इह्यानुक्तोऽपि वाल्मीकिः प्रतीयते । 'प्रौढविशे- षणयोगाद्विशेष्यप्रतिपत्तिः' इति वचनात् । किं चासौ भगवान्मर्त्यलोके काव्यसृ- ष्टिप्रथमवेधा निरुपमरमणीयकरामायणनिर्माणप्रवीणतयैव निर्दिश्यमानः प्रकृष्यते । नत्वितरसाधारणसंज्ञामात्रनिर्देशेन । अतएव कवितोत्कर्षचमत्कृतेन वाक्यसमाप्तिं प्रतीक्षितुमक्षमेण त्रिविक्रमेण वाक्यगर्भेऽपि तस्मै नम इति भक्तिप्रकर्षप्रकाशनमु- क्तम् । अर्धयोर्व्यत्यासपाठे तु गर्भितदोषशङ्कैव न स्यात् ॥ ११ ॥ व्यास इति ॥ स कृष्णद्वैपायनो वन्द्यः । किंभूतः । क्षान्तानां मध्येऽतिशयेन प्रशस्यः । तथा येनेदृशी सर्वत्र विख्याता विस्तरणशीलं भारतं यस्यां सा भवे संसारे गौर्वाक्सृष्टा । क इव । हिमवानिव । किंभूतः सः । क्षमाभृतां भूभृतां श्रेष्ठः । तथा येन भवे शिवे रतानुरक्तैवंभूता गौरी सृष्टा । किंभूता । विस्तारिणी भा कान्तिर्यस्याः ॥ १२ ॥ कर्णेति ॥ कर्णस्य राधेयस्यान्ते विनाशे सति विभ्रमेण विस्मयेन वेगरुडस्य भ्रमेण वाऽतिलाघवेन भ्रान्ता विचरितुं प्रवृत्ताः कृष्णपार्थधृतराष्ट्रा यस्याम् । केव । कान्तेव । किंभूता । श्रवणपर्यन्ते विलासेन भ्रान्ते स्फुरिते कृष्णार्जुने श्यामवलक्षे विलोचने नेत्रे यस्याः ॥ १३ ॥ शश्वदिति ॥ वाणः कविः शरश्च । गुणाढ्यकविर्वृहत्कथाकारो गुणेन ज्यया युक्तश्च । न मदाकारं स्तब्धत्वादिरूपं धरतीत्येवंशीकः कविः । बाणाकर्षणाय नम- दाकारं धरतीत्येवंशीलं धनुः । रञ्जितः प्रमोदं प्रापितः । अरमत्यर्थे जितो जनः प्रतिपक्षलोकश्च ॥ १४ ॥ १ 'तस्मै नमः'.
६ नलचम्पूः । इत्थं काव्यकथाकथानकरसैरेषां कवीनाममी विद्वांसः परिपूर्णकर्णहृदयाः कुम्भाः पयोभिर्यथा । वाचो वाच्यविवेकविप्लवधियामीदृग्विधां मादृशां लप्स्यन्ते क्व किलावकाशमथवा सर्वसहाः सूरयः ॥ १५ ॥ वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः । नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ॥ १६ ॥ काव्यस्याम्रफलस्येव कोमलस्येतरस्य च । बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ १७ ॥ अस्ति समस्तमुनिमनुजवृन्दवृन्दारकवन्दनीयपादारविन्दस्य भगव- तो विधेर्विश्वव्यापिन्यापारपारवश्यादवतीर्णस्य संसारचक्रे क्रतुक्रिया- काण्डशौण्डस्य शाण्डिल्यनाम्नो महर्षेर्वंशः ॥ क ॥ श्रूयन्ते च यत्र श्रवणोचिताश्चन्दनपल्लवा इव केचिदनूचानाः शुचयः सत्यवाचो विरञ्चिवर्चसोऽर्चनीयाचारा ब्रह्मविदो ब्राह्मणाः । पुण्यज- नाश्च न च ये लङ्कापुरुषाः, सूसूत्राश्च न च ये लम्पटाः, प्रसिद्धाश्च न- च ये लम्पाकाः, कामवर्षाश्च न च ये लङ्घनाः सन्मार्गस्य, नववयसो- इत्थं कविवर्णनं संक्षिपन्नाह—इत्थमिति ॥ तर्हि कथाग्रथनप्रयत्नेन किमि- त्याह—अथवेति ॥ १५ ॥ भङ्गश्लेषमुक्तिविशेषेण संवृण्वन्नाह—वाच इति ॥ यतो हेतोः कवेः काव्य- कर्तुर्नेको रसो नैका रुचिः प्रसत्तिलक्षणा व्युत्पत्तिलक्षणाप्यस्ति ॥ १६ ॥ ननु प्रसत्तिमार्गेण कोमलमेव काव्यं निबध्यताम्, किमितरेण व्युत्पत्तिमार्गेण भङ्गश्लेषकृतकाठिन्येनोद्वेगहेतुनेत्यत आह—काव्यस्येति ॥ कोमलस्य प्रसन्नस्ये- तरस्य व्युत्पन्नस्य काव्यस्य रचनाचारुत्वेन रसोऽपि शृङ्गारादिरसोऽप्यन्यादृशोऽन्य- रूपो व्युत्पत्तिचर्चया सोत्कर्ष इव स्यात् । कस्येव । आम्रफलस्येव । यथाम्रफलस्या- कारवैसादृश्यं बन्धस्य वृन्तस्य नीलपीतादिच्छायायाश्च विशेषेण यावद्रसः स- खादोऽप्यन्यादृग्भवति । बध्यतेऽनेनेति कृत्वा बन्धो वृन्तं फलारम्भकरसकणि- कारूपो वा । काव्यपक्षे बन्धो रचना ॥ १७ ॥ क ॥ श्रूयन्त इति ॥ यत्र महर्षेर्वंश ईदृशा ब्राह्मणाः श्रूयन्त इत्यन्वयः । कीदृशाः । श्रवण आकर्णन उचिता योग्याः । पुण्यरूपत्वात् । चन्दनपल्लवास्तु श्रवणयोः कर्णयोरवतंसीकरणाय योग्याः । पुण्यजना यातुधाना लङ्कावासिनो नेति विरोधः । पुण्याः पवित्रा जना लोका अलमर्थे न कापुरुषा इति विरोधपरिहारेण ब्राह्मणाः प्रशस्यन्ते । एवमग्रेऽपि । तथा सूत्रेण तन्तुना सहिता अप्यत्यन्तं पटाभाववन्तः । १ 'फलस्यापि'. २ 'च श्रवणोचिताः'. ३ 'इव तत्र केचित्'. ४ 'सूरयः'. ५ 'सत्यवाचिनः'. ६ 'सुसूत्राश्च'.
प्रथम उच्छ्वासः । ७ ऽपि नच ये लम्बालकाः, महाभारतिकाश्च नच ये रङ्गोपजीविनः, सेविताप्परसोऽपि नच ये रम्भयान्विताः ॥ ख ॥ किं बहुना । जानन्ति हि गुणान्वक्तुं तद्विधा एव तादृशाम्¹ । वेत्ति विश्वंभरा भारं गिरीणां गरिमाश्रयम् ॥ १८ ॥ तेषां वंशे विशदयशसां² श्रीधरस्यात्मजोऽभू- र्देवा³दित्यः स्वम⁴तिविकसद्वेदविद्याविवेकः । उत्कल्लोलां दिशि दिशि जनाः कीर्तिपीयूषसिन्धुं यस्याद्यापि श्रवणपुटकैः कूणिताक्षाः पिबन्ति ॥ १९ ॥ तैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितम् । तस्मादस्मि सुतो जातो जाड्यपात्रं त्रिविक्रमः ॥ २० ॥ सोऽहं हंसायितुं मोहाद्वकः पङ्गुर्यथेच्छति । मन्दधीस्तद्वदिच्छामि कविबृन्दारकायितुम् ॥ २१ ॥ भङ्गश्लेषकथाबन्धं दुष्करं कुर्वता मया । दुर्गस्तरीतुमारब्धो बाहुभ्यामम्भसां पतिः⁵ ॥ २२ ॥ उत्फुल्लगल्लैरालापाः⁶ क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम्⁷ ॥ २३ ॥ सूत्रेणोपवीतेन वेदपाठेन वा युक्ता अपि न लम्पटा लालसाः । तथा प्रकर्षेण सिद्धा अग्निसंस्कारेण निष्ठां प्राप्ता अपि पूपाद्यास्ते कथमलं न पच्यन्ते स्म। प्रसिद्धा विख्याता न लम्पाका लम्पटाः । तथा कामवर्षिणोऽपि नालं मेघाः । अभिलषित- दातारोऽपि सन्मार्गस्य लङ्घना न। तथाल्यावस्था अपि नालं शिशवः । तरुणावस्था अपि न दीर्घकेशाः । अग्निहोत्रित्वात् । तथा महान्तो नटा अपि न नृत्यभूम्युप- जीविनः । महान्तो भारताख्यायका अपि नात्यर्थं गोपाश्चापञ्जीवन्ति । ‘राजान्नं तेज आदत्ते’ इति दोषश्रवणात् । तथा भुक्तदेवाङ्गना अपि न रम्भया युक्ताः। सेवितानि जलप्रधानानि सरांसि यैस्तथाविधा अपि नच येऽरमत्यर्थं भयान्विताः ॥ ख ॥१८॥ तेषामिति ॥ कूणिताक्षाः सुखात्किंचिन्निमीलितनेत्राः ॥ १९ ॥ २० ॥ सोऽहमिति ॥ मोहादज्ञानादतिमानपि बकः स्वभावसुभगगतेर्हंसस्यापेक्षया पङ्गुः । अथवा दैवात्कथंचिद्भग्नचरणत्वाद्वकः पङ्गुः ॥ २१ ॥ भङ्गेति ॥ यथा बाहुभ्यां दुस्तरः समुद्रस्तथा भङ्गश्लेषकथाबन्धोऽपि दुष्कर इत्यौपम्यादङ्गस्तुसंबन्धः । ‘अभवन्वस्तुसंबन्ध उपमा परिकल्पकः’ इति ॥ २२ ॥ उत्फुल्लेति ॥ दुर्मुखैः क्रियमाणह्लादालापा अपि दुष्टा निन्दाकराः ॥ १ ‘तादृशाः’. २ ‘वचसाम्’. ३ ‘नेमादित्यः’. ४ ‘सुमति’. ५ ‘निधिः’. ६ ‘उल्लापाः’. ७ ‘कविश्रमम्’.
८ नलचम्पूः । संगता सुरसार्थेन रम्या मेरुचिराश्रया । नन्दनोद्यानमालेव स्वस्थ्यैरालोक्यतां कथा ॥ २४ ॥ उदात्तनायकोपेता गुणवद्वृत्तमुक्तका । चम्पूश्च हारयष्टिश्च केन न क्रियते हृदि ॥ २५ ॥ अस्ति समस्तविश्वंभराभोगभास्वल्लामलीलायमानः, समानः से- व्यतया नाकलोकस्य, ग्राम्यकविकथाबन्ध इव नीरसस्यमनोहरः, भी- म इव भारतालंकारभूतः, कान्ताकुचमण्डलस्पर्श इवाग्रणीः सर्वविष- याणाम्, अनधीतव्याकरण इवादृष्टप्रकृतिनिपातोपसर्गलोपवर्णविकारः, पशुपतिजटाबन्ध इव विकसितकनककमलकुवलयोच्छलितरजःपुञ्जपि- ञ्जरितहंसावतंसया प्रचुरचलचकोरचक्रवाककारण्डवमण्डलीमण्डित- 'उल्लापाः' इति पाठे काकुभाषितानि ॥ दुर्मुखैः खरैं क्रियन्ते । गल्लशब्दो ग्राम्यो- ऽप्यत्र दुर्मुखानामकवीनां ग्राम्याणां निन्दाभिधाने प्रयुक्तः समुचित एव ॥ २३ ॥ संगतेति ॥ रुचिरो रम्य आश्रयो नलोपाख्यानलक्षणो यस्याः सेयं मम स्वस्थ्यैर्व्यग्रैरालोक्यतां विमृश्यताम् । स्वस्थे चित्ते बुद्धयः संचरन्ति । किंभूता । शोभनो रसः शृङ्गारादिर्यत्र तथोक्तेनार्थेन संगतोचिता । औचित्यं हि रसस्य परमरहस्यम् । उक्तं च—'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौ- चित्यबन्धो हि रसस्योपनिषत्परा ॥' तथा रम्या भङ्गश्लेषोक्तिभिर्मनोहरा । पक्षे खः स्वर्गे तिष्ठन्तीति कृत्वा स्वस्थ्यैः स्वर्गवासिभिः ॥ खर्परे शरि वा विसर्गलोपः ॥ किंभूता । सुराणां सार्थो वृन्दं तेन संगता कृतसङ्गा । तथा मेरुः सुरगिरिस्थिरमा- श्रयो यस्याः ॥ २४ ॥ उदात्तेति ॥ उदात्तेन महात्मना नायकेन नलेनोपेता । तथौजःप्रसादादिगु- णयुक्तं वृत्तं छन्दोबद्धं मुक्तकं गद्यात्मकं च यस्यां सा चम्पूर्गद्यपद्यमयी साङ्गो- पङ्गा सा कथोदात्तेन महार्घेण नायकेन हारमध्यरत्नेनोपेता । तथा तन्तुमयो वृत्तमुक्ता वर्त्तुलमौक्तिकानि यस्यां सा मुक्ताहारलता च केन चित्ते वक्षसि च न क्रियते ॥ २५ ॥ अस्तीति ॥ 'आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्मुधाः ॥' इति मनूक्तलक्षण आर्यावर्तो नाम प्रसिद्धो देशोऽस्ति । किंभूतः । नीरेण धान्येन च मनोज्ञः । पक्षेऽरसिकस्य मनोज्ञः । तथा भरतवर्षस्य मण्डनभूतः । पक्षे भारतस्येतिहासस्य । तथा विषयो देशः । पक्षे इन्द्रियार्थः । तथा न दृष्टः प्रकृतीनां निपातः स्वपदात्पतनम्, उपसर्गो धनापहारादिरुपद्रवः, लोपो देवदायब्रह्मदायाद्यपालनम्, वर्णविकारश्चातुर्वर्ण्याव्यवस्था यस्मिन् । पक्षे प्रकृतयो धात्वादयः, निपाताश्चादयः, उपसर्गाः प्रादयः, लोपः प्रसक्तस्यादर्श- १ आलोच्यताम् । २ प्रबन्धः । ३ जटाजूटबन्धः । ४ राजहंस ।
प्रथम उच्छ्वासः । ९ तीरया भगीरथभूपालकीर्तिपताकया स्वर्गगमनसोपानवीथीयमानरिङ्ग- त्तरङ्गया गङ्गया पुण्यसलिलैः प्लावितश्चन्द्रभागालंकृतैकदेशश्च, सारः सकलसंसारचक्रस्य, शरण्यः पुण्यकारिणाम्, आरामो रमणीयकक- दलीवनस्य, धाम धर्मस्य, आस्पदं संपदाम्, आश्रयः श्रेयसाम्, आ- करः साधुव्यवहाररत्नानाम्, आचार्यभवनमार्यमर्यादोपदेशानामार्या- वर्तोनाम देशः ॥ क ॥ यस्मिन्ननवरतधर्मकर्मोपदेशशान्तसमस्तव्याधिव्यतिकराः पुरुषा- युषजीविन्यः सकलसंसारसुखभाजः प्रजाः । तथाहि । कुष्ठयोगो गान्धिकापणेषु, स्फोटप्रवादो वैयाकरणेषु, संनिपातस्तालेषु, ग्रहसं- क्रान्तिर्ज्योतिःशास्त्रेषु, भूतविकारवादः सांख्येपु, क्षयस्थितिषु, गुल्म- वृद्धिवनभूमिषु, गलग्रहो मत्स्येषु, गण्डकोत्थानं पर्वतवनभूमिषु, शूलसंबन्धश्चण्डिकायतनेषु, दृश्यते न प्रजासु ॥ ख ॥ नम्, वर्णविकारोऽक्षरविकृतिः । तथा चन्द्रभागया नद्या चन्द्रखण्डेन च भूषि- तैकदेशः ॥ क ॥ यस्मिन्निति ॥ कुष्ठमौषधविशेषो रोगविशेषश्च । स्फुट्यते व्यज्यतेऽर्थोऽने- नेति स्फोटो वैयाकरणप्रसिद्धं शब्दब्रह्म । स च वाक्यस्फोटः पदस्फोटश्चेति द्विधा नित्यश्च । तस्य प्रकर्षेण वादः कथनम् । स्फोटस्य पिटकस्य प्रवादश्च । संनिपात उभयहस्तयोजनम् । यदुक्तम्- 'यस्यां दक्षिणहस्तेन तालं वामेन योजयेत् । उभयोर्हस्तयोः पातः संनिपातः स उच्यते ॥' वातपित्तश्लेष्मणामेकत्र योगो रोगविशेषश्च । ग्रहाणां सूर्यादीनां मेषादिराशौ संक्रान्तिः । ग्रहो बन्धनं तस्य संक्रान्तिश्च । भूततः प्रधानाख्यं तत्त्वं मूलप्रकृतिः । ततो महान् । महतस्तस्माद- हंकारः । अहंकाराच्च पञ्च तन्मात्राणि ( पृथिव्यादिपञ्चतन्मात्राणि ) । एवमष्टौ । तत एकादशेन्द्रियाणि पञ्च भूतानि चेति षोडश विकाराः । एवं चतुर्विंशति तत्त्वानि । पञ्चविंशस्तु पुरुषः । तथाच- 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृ- तयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥' इति सांख्याः । ततश्च तेष्वेव भूतविकाराणां वादः प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः । पक्षे भूतस्य प्रेतस्य विकारः । क्षयः सूर्योदयकालाद्वृत्तित्वं रोगविशेषश्च । गुल्मः स्तम्बो रुग्वा । गले ग्रहणं बडिशेन रोगविशेषश्च । गण्डकाः खङ्गिपशवो ह्रस्वस्फोटका वा । शूल आयुधविशेषो रोगविशेषश्च ॥ ख ॥ १ 'रङ्गत'. २ 'व्यवहाराणाम्'. ३ 'धर्मकर्मोपशान्त'; 'धर्म्यधर्मोपदेश'; 'धर्मकर्मपोपशान्त'. ४ 'समस्ताधिव्याधि'; 'सर्वव्याधि'. ५ 'प्रयोगः'. ६ 'पर्वतभूमिषु'.
१० नलचम्पूः ।
यत्र चतुरगोपशोभिताः सङ्ग्रामा इव ग्रामाः, तुङ्गसकलभवनाः सर्वत्र नगा इव नगरप्रदेशाः, सदाचरणमण्डनानि नूपुराणीव पुराणि, सदानभोगाः प्रभञ्जना इव जनाः, प्रियालपनसाराणि यौवनानीव वनानि, विटपिहिताश्चेटिका इव वाटिकाः, निर्वृतिस्थानानि सुकलत्राणी- वेक्षुक्षेत्रसत्राणि, जलाविलक्षणाः पशुपुरुषा इवाप्रमाणास्तडागभागाः, कुपितकपिकुलाकुलिता लङ्केश्वरकिंकरा इव भग्नकुम्भकर्णघनस्वापाः कूपाः, पीवरोधसः सरित इव गावः, सतीव्रतापदोषाः सूर्यद्युतय इव कुलस्त्रियः ॥ क ॥
यत्रेति ॥ यत्र देश एते पदार्थाः । तद्यथा । येषु परिषन्मण्डपेषु ग्रामवृद्धा उपविशन्ति ते चतुरास्तैस्तथा गोपै रुपशोभिताः । यद्वा चतुरैर्दक्षैर्गोपैः पाशुपाल्य- जीविभिरुपशोभिताः । गोशब्दस्य पशुमात्रवचनत्वात् । सङ्ग्रामपक्षे ‘च’ इति छेदनीयम् । तुङ्गान्युच्चानि सकलानि सर्वाणि संपूर्णानि वा भवनानि गृहा यत्र । नगाश्च तुङ्गैः पुंनागैरुपलक्षितं कलभैरिभडिम्भैः सहितं वनं यत्र । पुंनागकरिपो- तयुता इत्यर्थः । यद्विश्वप्रकाशः—‘तुङ्गः पुंनागनागयोः । तुङ्गः स्यादुन्नतेऽन्यवत्’ । पुराणि शोभनमाचरणमेव मण्डनं यत्र । नूपुराणि सर्वथा चरणभूषणानि । दानभो- गाभ्यां सहिता जनाः । श्वश्नन्भोगा वायवः । दयितानां सकामोल्लापेन साराणि यौवनानि । वनानि प्रियालं राजादनं पनसंचेति प्राप्नुवन्ति । विटपिभ्यस्त- रुभ्यो हिता वाटिकाः । चेटिका दास्यस्तु विटैः पिहिता वेष्टिताः । इक्षुक्षेत्रे सत्राणि दानशालाः । निर्वृत्त्या वृत्तेरभावेन स्वच्छन्दं स्थीयते यंत्र । निर्वृतेः सुखस्यास्पदानि कलत्राणि । तडागभागा जलाविलां जलार्थिभिः सदा सेव्यतया जलपिच्छिलाः क्षणाः अवतारादितीरप्रदेशा यत्र । यद्वा जलैराविला नीरन्ध्राः पूर्णा क्षणाः खातकानि यत्र । अगाधाः । पशुपुरुषास्तु जडा विलक्षणा व्यपेत- शास्त्राः । यद्वा अविभिर्मेण्डैर्लक्ष्यन्ते । यद्वावीन्मेण्डॉंल्लक्षयन्ति । पश्चात्कर्मधारयः । प्रत्यक्षादिप्रमाणरहिताश्च । कूपा भग्नकुम्भकर्णाः स्फुटितघटकण्ठाः । घनाः प्राचुराः खाः स्वकीयाः पातालमूलोत्था न तु प्रवाहादिपूरिता आपः पानीयानि येषु । यद्वा घनस्वा बहुद्रव्या आपो येषु । वापीकूपादौ हि जीर्णोद्धारार्थं निधिर्भवतीति ख्यातिः । किंकरास्तु भग्नः श्रीरामागमनकथनेन कुम्भकर्णस्य रक्षसो घनः प्रचुरः षण्मासा- वधिकः स्वापः शयनं यैः । गावः पीवरं च तदूधश्च पीवरोधस्तस्मात्पीवरोधसो हेतोः सरित इव । यद्वा पीवरमूर्ध आपीनं येषाम् । अत्र ‘गोशब्दो धेन्वर्थोऽपि स्त्रीनरलिङ्गः’ इति व्याडिः । ततः पुंस्त्वादनङ् न । सरितस्तु पीव स्थूलं रोधस्तटं यासाम् । कुलस्त्रियः सतीव्रतेनापगता नष्टा दोषाः कलङ्का यासाम् । सूर्यद्युतयस्तु तीव्रतापदोषेण सहिताः ॥ क ॥
१ 'चतुरङ्ग' २ 'सकलत्राणि' ३ 'कुलित'
प्रथम उच्छ्वासः । ११ यत्र च मनोहारिसारसंद्वन्द्वास्तत्पुरुषेण द्विगुना चाधिष्ठिताः काद- म्बरीगद्यबन्धा इव दृश्यमानबहुव्रीहयः केदाराः ॥ क ॥ किं बहुना । नास्ति सा नगरी यत्र न वापी न पयोधरा । दृश्यते न च यत्र स्त्री नवापीनपयोधरा ॥ २६ ॥ अपि च । भवन्ति फाल्गुने मांसि वृक्षशाखा विपल्लवाः । जायन्ते न तु लोकस्य कदापि चै विपप्लवाः ॥ २७ ॥ यत्र सौराज्यरञ्जितमनसः सकलसमृद्धिवर्धितमहोत्सवपरम्परार- यत्रेति ॥ किंभूताः केदाराः । मनोहारिणि सारसानां द्वन्द्वानि येषु । तथा तत्पुरुषेण तत्स्वामिना द्विगुना गोयुगयुक्तेनाधिष्ठिताः बहवोऽपि गावः सन्ति । द्विगुनेति चोपलक्षणम् । अथवा चकारोऽप्यर्थे । द्विगुणापि तत्पुरुषेणाधिष्ठिताः । तथा दृश्यमाना बहवो व्रीहयो येष्विति भूमेः सस्यसंपदुक्ता । गद्यबन्धास्तु मनो- हारिणः साराः श्रेष्ठाः । सद्द्वन्द्वाः द्वन्द्वसमाससहिताः । तथा तत्पुरुषेण द्विगुना च समासेनाधिष्ठिताः । तथा दृश्यमानबहुव्रीहिसमासाः । तथाच द्वन्द्वतत्पुरुषद्विगुब- हुव्रीहिसमासबहुला इत्यर्थः ॥ क ॥ नास्ति सेति ॥ यत्र देशे सा क्वापि नगरी नास्ति । यस्यां न वापी निपा- नम् । न पयोधरा पयःप्रधाना भूमिः । नच तरुणी पीनस्तनी स्त्री दृश्यते । यदि पुनस्त्रयमपि चतुर्थपादेन विशेषणीकर्तुमाग्रहस्तर्हि पयोभूम्योरेवं व्याख्यायते । ‘णु स्तुतौ’ । नवं स्तुतिमाप्तुतोऽभीक्ष्णमिति नवापिनी । तथाभूते इनपयसी स्वामिजले धरतीति तथोक्ता वापी । भूस्तु वपन्त्यभीक्ष्णमिति वापिनः कर्षकास्ते- षामिना आजीवहेतुत्वात्स्वामिनः पयोधरा मेघा यस्यां तथाभूता । पश्चात्तन्नसंबन्धः। अवृष्टिनिष्पाद्यसस्येति भावः । अयमर्थस्तेनार्हः । प्रशस्तस्वामिपयस्का वापी, अवृष्टिनिष्पादितसस्या भूमिः, तरुणी पीनस्तनी च कान्ता, यस्यां दृश्यते सैव नगरी यत्र देशेऽस्तीति । अथवा यत्र देशे सा नगरी नास्ति यस्यां नगर्यां वापी स्त्री च न दृश्यते । कीदृशी वापी । न न पयोधरा । अपि तु पयोधरा । नञ्द्वयस्य प्रकृतार्थसूचकत्वात् । स्त्री च किंभूता । नवा तरुणी । तथा पीनप- योधरा । सर्वासपि नगरीषु पयोधरा वाप्यस्तरुणयः पीनस्तन्यश्च स्त्रियो दृश्यन्त इति भावः ॥ २६ ॥ भवन्तीति ॥ शाखा विगतपल्लवा यत्र भवन्ति । जनस्य विपदां लवा अपि न स्युः ॥ २७ ॥ 'यत्रेति ॥ यत्र जनाः खर्गिणमपि न्यक्कुर्वन्ति । कुलीना अभिजाताः । विमा- १ 'मासे'. २ 'च'. ३ 'न'. ४ 'यत्र च'. ५ 'समृद्धिवृद्धिवर्धित'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
१२ नलचम्पूः । म्मनिर्भरः, सततभकुलीनं कुलीनाः, प्राप्तविमानमप्राप्तविमानभंगाः, कतिपयवसुविराजितमनेकवसवः, समुपहसन्ति स्वर्गवासिनं जनं जनाः ॥ क ॥ कथं चौसौ स्वर्गान्न विशिष्यते ॥ ख ॥ यत्र गृहे गृहे गौर्यः स्त्रियः, महेश्वरो लोकः, सश्रीका हरयः, पदे पदे धनदाः सन्ति लोकपालाः । केवलं न सुराधिपो राजा । नैच विनायकः कश्चित् ॥ ग ॥ यत्र चलतासंवन्धः कलिकोपक्रमश्च पादपेषु दृश्यते न पुरुषेषु ॥ घ॥ यत्र चमरकवार्ता परमहिमोपघातश्च तुहिनाचलस्थलीषु श्रूयते न प्रजासु ॥ ङ ॥ यश्च नीतिमत्पुरुषाधिष्ठितोऽप्यनीतिः, सवटोऽप्यटसंकुलः, कारू- पयुतोऽप्यगतरूपशोभः ॥ च ॥ नता तिरस्कारः । वसु धनम् । पक्षे कुः पृथ्वी तस्यां लीनाः । विमानं देवयानम् । वसवोऽष्टौ ध्रुवादयः । देवन्यक्कारस्तुल्यार्थे व्याख्येयः ॥ क ॥ कथं चायं स्वर्गान्नाधिकः ॥ ख ॥ यत्रेति ॥ गौर्यो गौराङ्गयः शुद्धोभयान्वया वा स्त्रियः । महानीश्वरोऽतिसमृद्धः। सहश्रिया शोभया सश्रीकाः । हरयोऽश्वाः । धनप्रदा नृपाः । स्वर्गे त्वेकस्मिन्नेव गृहे गौरी उमा । एक एव महेश्वरः शिवः । सलक्ष्मीको विष्णुरेव एव । न बहवः । धनदः कुबेर एकस्मिन्नेव स्थान एक एव । केवलं परम् । अधिपिवतीत्यधिपः । सुराया मद्यस्याधिपः सुराधिपो न राजा । नच कोऽपि विरुद्धनायकः । सुरामधि- पिवतीति वाक्ये लक्ष्यदूषणमप्रसङ्गात् । सुराप्रपावत् । स्वर्गे तु सुराणामधिप इन्द्रः । विनायको गणेशः ॥ ग ॥ यत्रेति ॥ लतासंबन्धो वल्लीयोगः । कलिकाया उपक्रमः । पक्षे 'चलतासं- बन्धः' इति समुदितं पदम् । चलता लौल्यम् । कलिः कलहः । कोपः क्रुधू । तयोः क्रमः ॥ घ ॥ यत्रेति ॥ चमरका गोविशेषाः । परममुत्कृष्टं हिमं तुहिनम् । पक्षे मरको मरणबाहुल्यम् । परस्य महिमा माहात्म्यम् । तस्योपघातः ॥ ङ ॥ यश्चेति ॥ न विद्यत ईतिरूपद्रवोऽस्मिन्नित्यनीतिः । वटा न्यग्रोधाः । अवटाः कूपादिगर्ताः । कारवः शिल्पिनः । तथा न गता न भ्रष्टा रूपशोभा यस्य । अगै- र्नेगैस्तरुभिश्चोपशोभा यस्येति वा । अपिर्विरोधे । स च तुल्यार्थेनाव्याख्या । कुत्सितमीषद्वारूपं कारूपम् ॥ च ॥ १ 'सङ्गाः'. २ 'राजित'. ३ 'स स्वर्गलोकान्न'. ४ 'सर्वत्र महेश्वरः'. ५ 'न विनायकः'. ६ 'कारूप्यम्'.
प्रथम उच्छ्वासः । १३ यत्र च गुरुव्यतिक्रमं नक्षत्रराशयः, मात्राकलहं लेखशालिकाः, मित्रोदयद्वेषमुलूकाः, अपत्यत्यागं कोकिलाः, बन्धुजीवविर्घातं ग्रीष्म- दिवसाः, कुर्वन्ति न जैनाः ॥ क ॥ किं बहुना । देशः पुण्यतमोदेशः कस्यासौ न प्रियो भवेत् । युक्तोऽनुक्रोशसंपन्नैर्ये जनैरिव योजनैः ॥ २८ ॥ तस्य विषयस्य मध्ये निषधो नामास्ति जनपदः प्रथितः । तत्र पुरी पुरुषोत्तमनिवासयोग्यास्ति निषधेति ॥ २९ ॥ जननीतिमुदितमनसा सततं सुखामिना कृतानन्दा । सा नगरी नगतनया गौरीव मनोहरा भाति ॥ ३० ॥ यस्यामभ्रंलिहेन्द्रनीलशालशिखरसहस्रनिँभृतांशुजालवालशाद्वला- ङ्कुराग्रग्रौसलालसाः सर्व्वलन्तः खे खेदयन्ति मध्यैदिनं सादिनं रविर- थतुंरंगमाः ॥ ख ॥ यस्यां च स्फटिकमणिशिलानिबद्धभवनप्राङ्गणगँतासु संचरद्गृहिणी- चरणालक्तकपङ्क्तिषु पतँन्ति निर्मलसलिलाभ्यन्तरतरत्तरुणरुणक- नलकाङ्क्षया मुग्धमधुपपटलानि ॥ ग ॥ यत्र चेति ॥ इदमेते कुर्वन्ति न जनाः । गुरुर्वृहस्पतिः । मात्रा वर्णावयवः । मित्रः सूर्यः । बन्धुजीवं बन्धूकम् । पक्षे सुगमम् । मात्रा जनन्या सह ॥ क ॥ देश इति ॥ अनुक्रोशेन कृपया संपन्नैर्जनैर्युक्तोऽसौ देशः सर्वस्यापि प्रियः । पक्षेऽनुक्रोशे संपन्नान्यन्नजलतृणादिभिः समृद्धानि । अथवाऽनुगताः परस्परसंबद्धाः क्रोशा अनुक्रोशास्तैः संपन्नानि ॥ २८ ॥ तस्येति ॥ पुरुषोत्तमो विष्णुः पुंश्रेयाश्च ॥ २९ ॥ जनेति ॥ जनस्य नीत्या हृष्टमनसा सुप्रभुणा कृतहर्षा । तथा न अष्टनया अपि तु सन्नीतिमती । सा पुरी रम्या भाति । यत एवानष्टनया अतएव जनो नीतिमान् । गौरी तु नगस्य हिमाद्रेस्तनया । तथा जननी मातेति हेतोर्हृष्टमनसा । अतएव शोभनेन हर्षोचिताकृतिसुन्दरेण स्वामिना स्कन्देन कृतानन्दा । तथा मनसि हरो यस्याः ॥ ३० ॥ यस्यामिति ॥ शालः प्राकारः । इन्द्रनीलमणिकिरणान्नीलतृणतु·द्याँल्लिलिक्षवः सप्तसप्तयः स्खलन्ति ॥ ख ॥ यस्यां चेति ॥ स्फटिकस्य सलिलं पदपङ्क्तेश्च कमलमुपमानम्॥ ग ॥ १ 'घातम्'. २ 'प्रजाः'. ३ 'नासौ'. ४ 'निःसृतांशु'. ५ 'ग्रासग्रहणलालसाः'. ६ 'स्खलन्तः खेदयन्ति'. ७ 'मध्यंदिने'. ८ 'तुरंगाः'. ९ 'संगतासु'. १० 'निपतन्ति'.
१४ नलचम्पूः । यस्यां च विविधमणिनिर्मितवासभवनभव्यभित्तिषु स्वच्छासु स्वां छायामवलोकयन्त्यः कृतापरस्त्रीशङ्काः कथमपि प्रत्यानीयन्ते प्रियैः प्रियतमाः ॥ यस्यां च दिव्यदेवकुलालंकृताः स्वर्गाः इव मार्गाः, सततमपांसुव- सनाः सागरा इव नागराः, समत्तवारणानि वनानीव भवनानि, सुर- सेनान्विताः स्वर्गभूपा इव कूपार, अधिकंधररोहेशमुद्भासयन्तो हारा इव विहाराः ॥ क ॥ यस्यां च बहुलक्षणाः सुधावन्तो दृश्यन्तेऽन्तः प्रचुराः प्रासादा बहिश्च वारणेन्द्राः । सुशोभितरङ्गाः समालोक्यन्तेऽन्तः संगीतशाला बहिश्च क्रीडाकमलदीर्घिकाः । बहुधान्यनिरुद्धाः कथमप्यभिगम्यन्ते- ऽन्तः पण्यस्त्रियो बहिश्च क्षेत्रभूमयः । नानांशुकविभूषणाः शोभन्तेऽन्तः सभा बहिश्च सहकारवनराजयः । ससौगन्धिकप्रँसारा विराँजन्ते- ऽन्तर्विपणयो बहिश्च सलिलाशयाः ॥ ख ॥ किं बहुना । भूमयो बहिरन्तश्च नानारामोपशोभिताः । कुर्वन्ति सर्वदा यत्र विचित्रवयसां मुदम् ॥ ३१ ॥ यस्यां चेति ॥ दिवि भवैरिब दिव्यै रम्यैर्देवकुलैर्देवगृहैः । पक्षे दिव्यैः स्वर्गोद्भवैः कल्पद्रुमादिभिर्देवानां कुलैरन्वयैर्वालंकृताः । अपांसु रेणुरहितं वसनं वस्त्रं येषाम् । पक्षे सुष्ठु वसन्त्येच्छ्विति सुवसनाः । 'अपाम्' इति कर्तरि षष्ठी । जलाधारा इत्यर्थः । मत्तवारणोऽपाश्रयो मत्तेभश्च । सुरसेन सुजलेन । स्वर्गभूपास्तु सुरसेनया त्रिदशसैन्येनान्विताः । अधिकमिति क्रियाविशेषणम् । धरोद्देशः पृथ्वी- प्रदेशः । विहाराश्चैत्यानि । पक्षे कंधरोद्देश इत्यधिकंधरोद्देशम् । विभक्त्यर्थेऽव्ययी- भावः ॥ क ॥ यस्यां चेति ॥ क्षणो भूमिका । सुधा लेपविशेषः । पक्षे बहूनि लक्षणानि येषाम् । तथा सुष्ठु धावन्तः । रङ्गो नर्तनस्थानम् । पक्षे सुशोभिनस्तरङ्गा येषु । बहुधेति भिन्नं पदम् । अन्यैर्विटैर्निरुद्धाः । पक्षे बहुभिर्धान्यैर्निरुद्धाः । आशुकविः शीघ्रकविः । पक्षे शुकाः पक्षिणः । सुगन्धीनि द्रव्याणि पण्यमेषां ते सौगन्धिका वणिजः कहलाराणि वा । प्रसारो लध्वापणो विस्तरश्च ॥ ख ॥ भूमय इति ॥ बाह्ये आरामैर्मध्ये रामाभिरुपशोभिताः । यस्यां रम्यवयसां यूनां विविधपक्षिणां च मुदं कुर्वन्ति । वपुष्मतां कालकृतावस्था पक्षी च वयः ॥३१॥ १ 'विनिर्मिता' २ 'स्वर्भूपः' ३ 'संगीतकुशला' ४ 'प्रसरा' ५ 'राजन्ते'
प्रथम उच्छ्वासः । १५ यस्यां च भक्तभाजो देवतायतनेषु देवताः संनिधाना दृश्यन्ते हट्टेषु वणिग्जनाः । अक्षरसावधानाः कविगोष्ठीषु कवयो विलोक्यन्ते द्यूत- स्थानेषु द्यूतकाराः । कान्तारागप्रियाः करिणो राजद्वारेषु संचरन्ति वेश्याङ्गनेषु भुजङ्गाः ॥ क ॥ यस्यां च चतुरुदधिवेलाविराजितसकलधराचक्रचूडामणौ मणि- कर्मनिर्मितरैम्यहर्म्यतया सुरपतिपुरीपराभवकारिण्याम् । ॲव्ययभा- वो व्याकरणोपसर्गेषु न धनिनां धनेषु । दानविच्छित्तिरुन्माद्यत्करि- कपोलमण्डलेषु न त्यागिगृहेषु । भोगभङ्गो भुजङ्गेषु न विलासिलो- केषु । स्नेहक्षयो रजनिविरामविरमत्प्रदीपपात्रेषु न प्रतिपन्नजनहृद- येषु । कूटप्रयोगो गीततानविशेषेषु न व्यवहारेषु । वृत्तिकलहो वैयाकरणच्छात्रेषु न स्वामिभृत्येषु । स्थानकभेदश्चित्रकेषु न सत्पुरु- षेषु ॥ ख ॥ किं बहुना । त्रिदिवपुरसमृद्धिस्पर्धया भान्ति यस्यां सुरसदनशिखाग्रेष्वाग्रहग्रन्थिनद्धाः । यस्यां चेति ॥ भक्तो भक्तिमान् । भक्तं चान्नम् । संनिधानं नैकट्यम् । सम्यङ्निधिश्च । अक्षरं वर्णः । पक्षे अक्षः पाशकः । अक्षरेसे स्थितमवधानं येषाम् । कान्तारे वने अगः सल्लक्यादिवृक्षस्तत्प्रियाः । पक्षे कान्ता वधूः ॥ क ॥ यस्यां चेति ॥ अव्ययभावोऽव्ययत्वम् । पक्षे व्ययो दानादिनोपयोगस्तद- भावः । दानविच्छित्तिमंदशोभा त्यागविच्छेदश्च । भोगः सर्पवपुर्विलासश्च । भङ्ग आमर्दनम् । कुण्डलीकरणमिति यावत् । व्याघातश्च । स्नेहस्तैलादिः प्रेमा वा । प्रतिपन्नानि परस्परप्रतीतानि च तानि जनहृदयानि च गीतस्य ताना द्वये । एके कूटाख्याः पञ्चत्रिंशत् । अन्ये च शुद्धाख्याश्चतुर्दश । एकमेकोनपञ्चाशत् । तेषां विशेषेषु कूटशब्दप्रयोगः । पक्षे कूटं कपटं प्रयोगो व्यापारः । वृत्तिः शास्त्रविवरणम् । आजीवंन च । स्थानकभेदः संमुखं पराङ्मुखं संपूर्णायवरूपं पार्श्वागतम् । ततो भागद्वयेनैकतः पततान्यत्र च घटता क्रमेण ऋजु ऋजुत्वा- गतबर्धार्धार्धऋजुसंज्ञानि चेति स्थितस्थानकानि पञ्च । गमनामालीढं लरितं त्रिभङ्गमित्याख्यानि च चत्वारि गच्छत्स्थानकानीति । एवं च नवानां स्थान- कानां भेदश्चित्रेषु । पक्षे स्थानकस्य रक्षणीयनगरादेर्भेद उपजापो न सत्पुरुषेषु सत्त्वात् ॥ ख ॥ त्रिदिवेति ॥ सुराणां सदनानि प्रासादा विमानानि च । आगृह्णन्त एभि- रित्याग्रहा अङ्कुटकास्तेषु ये ग्रन्थयस्तैर्नद्धाः । वेल्लत्पल्लवैश्चलदञ्चलैः । उल्लसन्ती १ 'भक्तिभाजो'. २ 'हर्म्यरम्यतया'. ३ 'अव्ययीभावो'. ४ 'चित्रेषु'.
१६ नलचम्पूः । नभसि पवनवेल्लत्पल्लवैरुलसद्भिः परममिह वहन्त्यो वैभवं वैजयन्त्यः ॥ ३२ ॥ अपि च । चार्वी सदा सदाचारसज्जसज्जनसेविता । नगरी न गरीयस्या संपदा सा विवर्जिता ॥ ३३ ॥ तस्यामासीन्निजभुजयुगलबलविदलितसकलवैरिवृन्दसुन्दरीनेत्रनी- लोत्पलगलद्बहलबाष्पपूरप्लवमानप्रतापराजहंसः, सकलजलनिधिवेला- वननिखातकीर्तिस्तम्भभूषितभुवनवलयः, विश्रंभराभोग इव बहुधारण- क्षमः, प्रासाद इव नवसुधाहारी, रविरिवानेकधामाश्रयः । दनुजलोक इव सदानवः स्त्रीजनस्य, वसिष्ठ इव विश्वामित्रत्रासजननः, जनमे- जय इव परीक्षितनयः, परशुराम इव परशुभासितः, राघव इवाल- घुकोदण्डभङ्गरञ्जितजनकः, सुमेरुरिव जातरूपसंपत्तिः, तुहिनाचल इव पुण्यभागीरथीसहितः, चिन्तामणिः प्रणयिनाम्, अग्रणीः साङ्गा- मिकाणाम्, उपाध्यायोऽध्ययनविदाम्, आदर्शो दर्शनीयानाम्, आचार्यः शौर्यशालिनाम्, उपदेशकः शंखशाखस्य, परिवृढो दृढप्र- हारिणाम्, अग्रगण्यः पुण्यकारिणाम्, अपश्चिमो विपश्चिताम्, राजद्भिः। वैभवं माहात्म्यम्। सर्वोऽपि विजिगीषुर्वद्धपरिकरः पताकां दर्शय- तीति भावः ॥ ३२ ॥ चार्वीति ॥ चार्वी मनोज्ञा । सततं साध्वाचारप्रह्वसाधुश्रिता सा नगरी पुरी गरीयस्या श्रिया न त्यक्ता ॥ ३३ ॥ तस्यामिति ॥ शत्रुकान्ताश्रुपुरे तरन्प्रताप एव राजहंसो यस्य । तथा जयस्तम्भैर्भूषितभूमण्डलः । तथा स्तम्भोपमोद्दर्ण्डे न्यस्ता शालभञ्जिकेव जयल- क्ष्मीर्यस्य । स वीरसेनतूनुर्नल इति प्रसिद्धो नृप आसीत् । बहुधानेकशो रणे क्षमः । पक्षे बहूनां धारणे क्षमः । आभोगः पूर्णता । वसुधां देवद्विजसंवृद्धां हरत्येवंशीलो न । पक्षे नवया सुधया लेपविशेषेण हारी रम्यः । अनेकधा सप्ताङ्गलाङ्गेषुधा माया लक्ष्म्या आश्रयः । पक्षेऽनेकस्य प्रचुरस्य धाम्न आश्रयः । सदा नित्यं नवो रम्यतयापूर्व एव । पक्षे दानवैः सह । विश्वेषाममित्राणां त्रास- कृत् । पक्षे विश्वामित्रो मुनिः । परीक्षितो नयः षाड्गुण्यं येन । पक्षे परीक्षर- भिमन्युसुतस्य सुतः । परस्मिञ्छुभे आसितः । पक्षे परशुः कुठारः । अलघुको गौरवार्हः । तथा दण्डस्य वधपरिक्लेशार्थहरणलक्षणस्य भङ्गेन मुक्त्या रञ्जितलोकः । पक्षे वृद्धधनुर्भङ्गाहर्षितजनकाख्यनृपः । जाता रूपसंपत्तिर्यस्य । पक्षे जातरूपं १ 'प्लवप्लवमानः'. २ 'जलधि. ३ 'वसुंधरा'. ४ 'दनुलोक'. ५ 'शखशाखेषु'. ६ 'अग्रगण्यैः'.
प्रथम उच्छ्वासः । १७ अपाश्चात्यस्त्यागवताम्, अचरमश्चातुर्याचार्याणाम्, अपर्यन्तभूभारा- धारस्तम्भभूतभुजकाण्डकीलितशालभञ्जिकायमानविजयश्रीः, श्रीवी- रसेनस्नुः, समस्तजगत्प्रासादशिरःशेखरीभूतकान्तकीर्तिध्वजो, राजा, राज्यलक्ष्मीकरेणुकाचापलसंयमनशृङ्खलः, खलवृन्दकन्दलदावानलो नलो नाम ॥ क ॥ यस्येन्दुकुन्दमुकुदकान्तयः सकललोककर्णप्रियातिथयो गुणाः सत- तमेकब्रह्माण्डसंपुटसंकीर्णनिवासव्यसनविषादिनः पुनरनेकब्रह्माण्ड- कोटिघटनामभ्यर्थयमाना इव भगवतो विश्वसृजः कमलसंभवस्य कर्ण- लग्नाः स्वर्गलोकमधिवसन्ति स्म ॥ ख ॥ यस्मिंश्च राजनि जनितजनानन्दे नन्दयति मेदिनीम्, गीतेषु जाति- संकराः, तालेषु नानालयभङ्गाः, नृत्येषु विषमकरणप्रयोगाः, वाद्येषु दण्डकरप्रहाराः, पुण्यकर्मारम्भेषु प्रबन्धाः, सौरिद्यूतेषु पाशप्रयोगाः, पुष्पितकेतकीषु हस्तच्छेदाः, न्यग्रोधेषु पादकल्पनाः, कञ्चुकमण्डनेषु नेत्रविकर्तनानि, आसन् । न प्रजासु ॥ ग ॥ सुवर्णं संपत्तिर्यस्य ॥ पुण्यभजनशीलः । रथवान् । हितैः सह । पक्षे पुण्यगङ्गा- न्वितः । प्रणयिनामर्थिनां चिन्तितप्रदो मणिरिव । जगतः प्रासादः कीर्तेश्च ध्वज उपमानम् ॥ क ॥ यस्येति ॥ यस्य नलस्य प्राचुर्यादेकस्मिन्ब्रह्माण्डेऽस्मान्तोऽनेकब्रह्माण्डनिर्माणं कारयिष्यन्त इव स्वर्गिभिर्नित्यमेव श्लाघ्यमानलात्कर्णलग्नाः श्रुतौ विज्ञापनाथं निकटीभूताः ॥ ख ॥ यस्मिंश्चेति ॥ गीतादिष्वेव जातिसंकरादीनि न प्रजास्विति परिसंख्यायाव- धारणम् । गीतेषु नन्दयन्तीप्रभृतयो जातयोऽष्टादश । तासु संकरो मिश्रप्रतीतिः । पक्षे जातयो विप्राद्याः । संकरोऽनुचितसंबन्धेन विप्लवः । तालश्चञ्चत्पुटादिः । लया द्रुतमध्यविलम्बितलक्षणाः । पक्षे आलयो गृहम् । करणानि तलपुष्पपटा- दीन्यष्टोत्तरशतसंख्यानि । पक्षे विषमात्सार्थे कः । रणो युद्धम् । दण्डः कोणः । करः पाणिः । पक्षे दण्डो वधादिः । करो राज्ञे देयोंऽशः । प्रहारो घातनम् । प्रबन्धाः सातत्यानि प्रकृष्टबन्धाश्च । पाशो बन्धो बन्धनरज्जुश्च । सारयो हि दायैर्वच्यन्ते । अक्षार्थस्तु पाशक एव प्रतीतः । हस्तः केतकीगर्भः पाणिञ्च । पादस्य मूलस्य रचना । न्यग्रोधपादपः पादान्रचयति कल्पयति । पक्षे पादस्याङ्गेः कल्पना कर्तनम् । नेत्रं वस्त्रविशेषो नयनं च । विशेषेणाङ्गप्रमाणेन कर्तनं विकर्तनं विखण्डनं च ॥ ग ॥ १ 'कर्णलग्नाः'. २ 'स्वर्लोकं'. ३ 'सारच्यूतेषु'. ४ 'न्यग्रोधपादपेषु'. ५ 'कर्तनानि'. ६ 'न प्रजानामासन्'.
१८ नलचम्पूः । यश्च कोऽप्यन्यादृश एव लोकपालः । तथाहि । अपूर्वो विबुधपतिः, अदण्डकरो धर्मराजः, अजघन्यः प्रचेताः, अनुत्तरो धनदः ॥ क ॥ येन प्रचण्डदोर्दण्डमण्डपमण्डलीविश्रान्तविजयश्रिया श्रवणोत्पलद्- लायमानमानिनीमानलुण्टाकलोचनेन पृथ्वी प्रिया च कामरूपधारिणी सा तेन भुक्ता ॥ ख ॥ यस्याः सकलजनमनोहारिविशेषकम्, पृथुल्ललाटमण्डलम्, अ- भिलषणीयकान्तयः कुन्तलाः, श्लाघनीयो नासिक्यभागः, बहुलव- लीकः सरोमालिकांलकारश्च मध्यदेशः, प्रकटितकामकोटिविलासः काञ्चीप्रदेशः ॥ ग ॥ किं बहुना । यस्याः कृष्णागुरुचन्दनामोदबहुलकुचाभोगभूषणा नृत्यतीवाङ्गरङ्गे यश्चेति ॥ कोऽपि विस्मयहेतुः । लोकं जगत्पालयन्ति ये तेभ्योऽन्यादृशो विसदृश एव लोकं प्रजां पालयतीति कृत्वा लोकपालः । खोक्तमेव द्रढयति— तथाहीत्यादिना । यतो विबुधानां सुराणां पतिः सपूर्वः पूर्वदिग्युक्तत्वात् । नल- स्त्वपूर्वो उत्कृष्टो विबुधानां विदुषां पतिः । दण्डपाणिर्यमः । नलस्तु न दण्डो वधादिः, करो राज्ञे देयोंऽशो यस्मादित्यदण्डकरः । तथा धर्मप्रधानो राजा धर्मराजः । धर्मविजयत्वात् । प्रचेता वरुणः सह जघन्यया पश्चिमया वर्तते । नलस्त्वजघन्योऽकुत्सितः प्रकृष्टचेताश्च । यदुक्तम्— 'जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत्' । धनदः कुबेरः सहोत्तरया दिशा वर्तते । नलस्तु न विद्यत उत्तर उत्कृष्टोऽस्मादित्यनुत्तरः । तथा धनं ददातीति धनदः ॥ क ॥ येनेति ॥ विजयता सुनेत्रेण येन भूः कान्ता च सातेन सुखेन निर्विष्टा भुक्ता । सातं सुखम् । यदमरसिंहः—'शर्मसातसुखानि च' इति । कामरूपो देशविशेषः । प्रिया तु काम्यत इति काममभिलषणीयं रूपम्, काममतिशयेन रूपं वा धरती- त्येवंशीला ॥ ख ॥ यस्या इति ॥ यस्या भुवः विशेषक-लाट-कुन्तल-नासिक्य-मध्यदेश-काञ्ची- इत्येवंरूपा देशाः । लवली लताविशेषः । सरसां मालिका श्रेणिः । कामकोटि- नाम्नी देवी । प्रियापक्षे विशेषकं तिलकम् । ललाटमलकम् । कुन्तलाः केशाः । नासिकायां भवो नासिक्यः । मध्यदेश उदरम् । बहुला बह्व्यो वल्य उदररेखा यत्र । तथा सह रोमपङ्क्तिमण्डनेन । प्रकटितानङ्गोत्कर्षविलासः काञ्चीप्रदेशः श्रोणी ॥ ग ॥ यस्या इति । अङ्गेऽङ्गाख्यदेश एव रङ्गे नर्तनस्थाने निरुपमवायौ सति वनश्रीर्नृत्यतीव । वाततरलनमेव नर्तनम् । कृष्णा पिप्पली । अगरुचन्दनौ वृक्ष- १ 'येन च'. २ 'कृष्णागरु'.
प्रथम उच्छ्वासः । १९
रमणीयतया निरुपमा नवा यौवनश्रीः ॥ क ॥ किं चान्यत् । अन्य एव नवावतारः स कोऽपि पुरुषोत्तमो यो न मीनरूपदूषितः, नाङ्गीकृतविश्वविश्रंभराभारोऽपि कूर्मीकृतात्मा, न वराहवपुषा क्लेशेन पृथ्वीं बभार, नच नरसिंहः सँमुत्सन्नहिरण्यकशिपुः, न बलिराज- बन्धनविधौ वामनो दैन्यमकरोत्; नापि रामो लङ्केश्वरश्रियमपाहरत्, नापि बुद्धः कल्किकुलावतारी ॥ ख ॥ किं³ बहुना । धन्यास्ते दिवसाः स येषु समभूद्भूपालचूडामणि- र्लोकालोकगिरीन्द्रमुद्रितमहीविश्रान्तकीर्तिर्नलः ।
विशेषौ । तेषामामोदः । बहूनां लकुचानामाभोगो विस्तारः । तौ भूषणं यस्याः । पक्षे चर्चावशात्कालागुरुचन्दनयोरामोदेन व्याप्तस्तनविस्तारमण्डना । नवेति यौवन- श्रीरिति च भिन्नम् ॥ क ॥ किं चेति ॥ कोऽप्यपरिच्छेद्यमहिमा । तथा नवः पूर्वविलक्षणोऽवतारो जन्म यस्य स तथाभूतः । यदि वा 'णु स्तुतौ' इत्यस्य नवाः स्तुतयोऽवतार्यन्ते यस्मि- न्निति स्तवास्पदम् । सर्वोर्वीपतिभ्योऽन्योऽसाधारण एव स नलो राजा । पुरुषे- षूत्तमः । तथा अमो रोगोऽस्यास्तीत्यमी । नामी अनमी नीरोगः । यदि वा नमयति शत्रूनवश्यमिति कृत्वा नमी । प्रतापाक्रान्तारिचक्र इत्यर्थः । तथा न रूपे दूषितः । तथा स्वीकृतधराधुरोऽपि न कूर्मिर्भङ्गुरः । कुत्सितोर्मिः पीडा यस्य स कूर्मिः । अङ्गीकृतभारो हि पीडावान्भवति । यदुक्तम्—'ऊर्मिः पीडाजवोत्कण्ठा- भङ्गप्राकाश्यवीचिषु' । तथा वरमाहवं पुष्णता क्लेशेन न धरामपि तु सुखेनेत्यर्थः । नरेषु सिंहः शौर्यात् । नच समुत्सन्नं हिरण्यं धनं कशिपु भोजनाच्छादनादि यस्मात् । तथा वलिनां राज्ञां बन्धने विधाने वा मनोदैन्यं न चाकरोत् । रामः सुन्दरः । अलमत्यर्थं कस्य ब्रह्मण ईश्वरस्य शंभोश्च श्रियं नापि नच हृतवान् देवस्वापहारी नेत्यर्थः । ब्रह्मेशौ देवानामुपलक्षणम् । बुद्धो विद्वान्न पापिकुलोत्पन्नः । अन्य एव पुराणपुरुषाद्दशावताराद्विसदृश एव नवावतारो नवसंख्यावतारः । कोऽप्ययं पुरुषोत्तमो विष्णुरित्युक्तिलेशः । तत्पक्षे मीनकूर्मवराहनरसिंहवामनरामबुद्धक- ल्किनोऽवताराः । हिरण्यकशिपुबलिलङ्केश्वरास्तत्प्रतिपक्षाः । रामः परशुरामो- ऽपि । तदा । अलमिति भित्त्वा कु ईषद्वीश्वरः केशवः सहस्रार्जुनो जमदग्निहो- मार्जुनीमात्रहरणात् । रामः कृष्णः । तथा केन वायुनेष्टे समर्थो भवति पवना- शनत्वात् । यद्वा कस्य पानीयस्य यमुनाह्रदलक्षणस्येश्वरः स्वामी केशवः कालीय- सर्पस्य श्रियमपजहार ॥ ख ॥
१ 'नाङ्गीकृतविश्रंभरा', २ 'समुच्छिन्न', ३ 'किंच'.
२० नलचम्पूः । लोकास्तेऽपि चिरंतनाः सुकृतिनस्तद्वक्त्रपङ्केरुहे यैर्विस्फारितनेत्रपत्रपुटकैर्लावण्यमास्वादितम् ॥ ३४ ॥ अपि च । ये कुन्दद्युतयः समस्तभुवनैः कर्णावतंसीकृता यैः सर्वत्र शलाकयेव लिखितैर्दिग्भित्तयश्चित्रिताः । यैर्यक्तं हृदि कल्पितैरपि वयं हर्षेण रोमाञ्चिता- स्तेषां पार्थिवपुंगवः स महतामेको गुणानां निधिः ॥ ३५ ॥ यस्य च युधिष्ठिरस्येव न क्वचिदपार्थो वचनक्रमः, मरुमण्डलमि- वापामं मानसम्, महानसमिव सूपकारसारं कर्म, कार्मुकमिव सत्को- टिगुणं दानम्, दानवकुलमिव दृष्टवृषपर्वोत्सवं राज्यम्, राजीवमिव भ्रमरहितं सर्वदा हृदयम् ॥ क ॥ यश्च परमहलाभिरतोऽप्यपारदारिकः । शान्तनुतनयोऽपि न कुरू- पयुक्तः ॥ ख ॥ किं बहुना । सदाहंसाकुलं विभ्रन्मानसं प्रचलज्जलम् । भूभृन्नाथोऽपि नो याति यस्य साम्यं हिमाचलः ॥ ३६ ॥ यस्य चेति ॥ अर्थादपेतोऽपार्थः । अन्यत्र पृथाया अपत्यत्वात् । अपापं निष्पापम् । पक्षेऽपेता आपो यस्मात् । सुष्ठु उपकारेण सारम् । पक्षे सूपकारैः सूदैः सारम् । सत्पात्रप्रतिपादनाद्दानं सच्छोभनम् । कोटिः संख्या । पक्षे कोटि- रटनिः । गुणो ज्या । वृषो धर्मः । पर्व पौर्णमास्यादि उत्सवः पुत्रजन्मविवाहा- दिस्ते दृष्टा अनुष्ठिता यत्र । पक्षे वृषपर्वा दानवः । भ्रमः संशयः । पक्षे भ्रम- रेभ्यो हितम् ॥ क ॥ यश्चेति ॥ हेला शृङ्गारचेष्टा । यद्वा पर उत्कृष्टो मह उत्सवो यस्यां तस्या- मिलायां पृथ्व्यां रतः । राजन्वती हि मही सदुत्सवा । विरोधे महेला स्त्री । शान्तश्चासौ नूतनयश्च । शान्तो जितेन्द्रियः । तथा नुत: स्तुतो नयो नीतिर्यस्य । तथा न कुत्सितरूपयुक्तः । पक्षे शान्तनुपुत्रो गाङ्गेयः कुरूणां क्षत्रियाणांमुप- योगी ॥ ख ॥ सदेति ॥ भूभृतो गिरयो नृपाश्च । तन्नाथत्वं द्वयोरपि । सत्यप्येवं हिमाचलो यस्य साम्यं नायाति । यतः । सदाहं सखेदम् । साकुलं व्यग्रम् । प्रचलत्कम्पमा- नम् । जडं व्यामूढम् । मानसं चेतः । विभर्ति । सिद्धान्ते तु मानसं सरः । सदेति भिन्नम् । प्रचलज्जलं यत्र । शेषं प्रतीतम् । आकुलशब्दो भावप्रधानो यथा तिष्ठन्ति च निराकुलाः ॥ ३६ ॥ १ प्र० यस्य युधिष्ठिरस्येव । २ ०हिमालयः।
प्रथम उच्छ्वासः । २१ अपिच । नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः । सुजातरूपोऽपि न याति यस्य समानतां कांचन काञ्चनाद्रिः ॥३७॥ तस्य चं महांपहीपतेरस्ति स्म प्रशस्तिस्तम्भः सकलश्रुतिशाखशा- सनाक्षरमालिकानाम्, न्यग्रोधपादपः पुण्यकर्मप्ररोहाणाम्, आकरः साधुव्यवहाररत्नानाम्, इन्दुः पार्थिवनीतिज्योत्स्नायाः, कन्दः सक- लकलाङ्कुरकलापस्य, सागरः समस्तपुरुषगुणमणीनाम्, आलान- स्तम्भश्चपलराज्यलक्ष्मीकरेणुकायाः, सकलभुवनव्यापारपारावारनौ- कर्णधारः, सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुरयशःकुशेशयखण्डमण्डि- तसकलसंसारसराः, सरागीकृतसमस्तपार्थिवानुजीवी, जीवितसमः, प्राणसमः, हृदयसमः, शरीरमात्रभिन्नो द्वितीय इवात्मा, कुलक्रमागतः, संक्रान्तिदर्पणः सुखदुःखयोः, स्वभावानुरक्तः, शुचिः, सत्यपूतवाक्, कृतज्ञः, ब्राह्मणः सौंलङ्कायनस्य सूनुः श्रुतशीलोनाम महामन्त्री ॥क॥ मित्रं च मन्त्री च सुहृत्प्रियश्च विद्यावयःशीलगुणैः समानः । बभूव भूपस्य स तस्य विप्रो विश्वंभराभारसहः सहायः ॥ ३८ ॥ अपिच । ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः । सद्द्वेषोऽपि द्वेषनिर्मुक्तचेताः को वा तादृग्दृश्यते श्रूयते वा ॥३९॥ नक्षत्रेति ॥ यस्य नलस्य काञ्चनाद्रिर्मेरुः कांचन कांचिदपि समानतां नायाति । सुष्ठु जातरूपं सुवर्णं यत्र । नलपक्षे रूपं सौन्दर्यम् । अतो द्वयोरपि सुजातरूपत्वा- त्साम्ये निषेधः । यतो नायं क्षत्राद्भवति स्म । तथा भोगैर्न युक्तः । नलस्तु क्षत्र- प्रसूतिर्भागभाक् । सिद्धान्ते तु नक्षत्राणां भूः स्थानम् । तथा नभसि गच्छन्ति ये तैर्नभोगैर्देवैर्युक्तः ॥ ३७ ॥ तस्य चेति ॥ तस्य नरपतेः श्रुतशीलो नामामात्योऽस्ति स्म आसीत् । यशसां कुशेशयानि, संसारस्य सर उपमानम् ॥ क ॥ ब्रह्मण्य इति ॥ ब्रह्मणे हितो ब्रह्मण्यः । तथा ब्रह्म वेत्ति । तथा तापहारी । तथा विप्रैर्द्विजैर्युक्तः । तथा सच्छोभनो वेषो यस्य । विरोधांशः सुगम एव । ब्रह्म- वित्तं ब्रह्मस्वम् । विप्रयुक्तो वियुक्तः ॥ ३८ ॥ ३९ ॥ १ 'च महीपतेः' २ 'प्रशस्तप्रशस्तिस्तम्भः' ३ 'पुण्यकर्मारम्भप्ररोहाणाम्' ४ 'व्या- पारनौकर्णधारः' ५ 'संसारकासारः' ६ 'सत्यवाक्' ७ 'सालङ्कायनसूनुः' ८ 'च'