न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८७ प्रकाशः । रीत्याऽन्योन्याश्रयात् । उच्यते । निमित्तकारणेतरकारणनाशत्वेन कारणत्वम् । यद्वा, विद्यमानाश्रय- द्रव्यनाशे असमवायिनाशो हेतुरेवं साऽसमवायिकारणकद्रव्यनाशे प्रतियोग्याश्रयनाशः । तथाप्यु- भयजन्ये द्रव्यनाशे का गतिः ? आश्रयनाशाजन्यद्रव्यनाशं प्रत्यसमवायिनाशस्य हेतुत्वात् तस्य चाश्रयनाशजन्यत्वात् । अत्राहूः । तन्नेतरसमवधाने तदुभयाभावाभावाभ्यां व्यक्तिविशेषाभावाभावाद् प्रकाशिका । सत्येवानतिप्रसक्तत्वेन ग्राह्यमिति परस्पराश्रय इत्यर्थः । न तु प्रतियोगिप्रसिद्धयर्थं मणिजन्यत्वग्रहो- वह्नावपेक्षणीय इत्यर्थो रूपादावेव मणिनिष्ठे प्रतियोगिप्रसिद्धेरिति । निमित्तकारणेति । नचैव- मपीन्धनानाशजन्यवह्निनाशेऽदृष्टनाशजन्यशरीरनाशे च व्यभिचार इति वाच्यम् । इन्धननाशाद्देवा- न्तरानन्तरं नोत्पद्यते पूर्वानलस्तु स्वावयवक्रियाविभागादिन्यायैनैव नश्यति, एवं शरीरमपीति स्वीका- रात् । नच निमित्तकारणत्वं समवाय्यसमवाय्यन्यत्वमिति तदन्यकारणनाशत्वेन कारणत्वमायाताम् । नचान्यान्यत्वमवच्छेदकमिति वाच्यम् । तस्य कारणतानवच्छेदकत्वेऽपि तत्कोटिप्रवेशे बाधका- भावात् सामान्ये सामान्यस्याप्रयोजकत्वेऽपि विशेषे विशेषस्य प्रयोजकत्वमविरुद्धमेवेत्याशयेनाह । यद्वेति । तथाप्युभयेति । उभयनाशोत्तरभाविनित्यर्थः । आश्रयनाशाजन्येत्याद्युपलक्षणम् । अव्यवहितपूर्वविद्यमानामंवायिकारणकद्रव्यनाशेऽपि समवायिकारणनाशस्य हेतुत्वात् प्रकृतना- शस्य चासमवायिकारणनाशोत्तरकालीनत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । अव्यवहितविद्यमा- नोभयद्रव्यनाश उभयनाशस्य दण्डचक्रवत्कारणत्वमिति भावः । यथाश्रुतेऽनन्तकारणताकल्पनाप- त्तेः । यत्त्वसमवायिकारणनाशसहितसमवायिकारणनाशत्वेन हेतुत्वे तात्पर्यमिति । तन्न । विशे- ष्यविशेषणभावे विनिगमकाभावात् । किञ्च समवायिकारणसमकालीनद्रव्यस्य नाशे ऽसमवायिकार- णनाश एवासवायिनाशसमकालीनस्य तस्य नाशे समवायिनाशो हेतुरेवं चोभयोत्तरकालीने फलत उभयनाशो हेतुः । वस्तुतो द्रव्यनाशं प्रत्यसमवायिकारणनाशस्य द्व्यणुकादिनाशस्थले कारणत्वावधारणात् यत्रापि समवायिकारणनाशानन्तरं द्रव्यनाशस्तत्राप्यसमवायिकारणनाश एव नाशकः, न चैवं क्षणद्वय आश्रयं विना कार्यस्वीकारापत्तिः । प्रथमक्षणेऽनाश्रितत्ववत् , द्विती- यक्षणेऽपि तथास्वीकाराविरोधात्, एवं च सति गुणकर्मादिनाशे समवायिकारणनाशस्य कारणत्वे क- ल्प्यमाने सामान्यत एव समवायिकारणनाशसमानकाली स्य समवेतस्य नाशे समवायिकारणनाशः कारणत्वेन कल्प्यते अनुगमानुरोधादित्येव बीजमाश्रयनाशस्य द्रव्यनाशहेतुत्वे, तथा चोदाहृतनाशे- मकरन्दः । हेतुत्वप्रहाणुपपत्तेः । तथा च विशेषणोपादानायासोऽपि व्यर्थ इति भावः । निमित्तकारणेति । न चेन्धननाशादपि वह्निनाशादनुगमः । तत्रेन्धननाशाद्वह्नयन्तरं नोत्पद्यते । पूर्ववह्नित्ववयववि- भागन्यायेनैव नश्यतीत्युपगमात् । एवं शरीरनाशोऽपि नादृष्टनाशजन्य इत्यभ्युपगमेनेदम् । ननु निमित्तकारणत्वं समवाय्यसमवायिभिन्नकारणत्वमिति कारणत्वान्तर्भावे गौरवम् । तदनन्तर्भावे तद्गन्यान्धत्वमवच्छेदकं पर्यवस्यति । तच्चानभ्युपगतमिति चेन्न । तदन्यान्यनाशत्वस्यात्र तत्प- र्यवसानात् । तथाच प्रतियोग्यनुगमकतया तत्प्रवेशे तद्धटितस्यावच्छेदकत्वं, न तु तस्यैव । अन- भ्युपगतञ्च तदिति भावः । केचित्तु, एतदस्वरसादेवाह-यद्वेति । तथापीति । न चाश्रयनाशे तदाश्रितद्रव्यतदसमवायिनोर्युगपदेव नाशादिदमसम्भवीति वा- च्यम् । समवायिनाशसमकालं विभागाद् यत्रीसमवायिनाशस्तत्र तत्सम्भवात् । आश्रयनाशा- जन्येत्युपलक्षणम् । असमवायिनाशाजन्यद्रव्यनाशं प्रत्याश्रयनाशस्य हेतुत्वात्, तस्य चासम- वायिनाशजन्यत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । नचाविद्यमानोभयक्रव्यनाशत्वावच्छिन्ने अस-
८८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां पपन्नम् । एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्याद् यस्य दह- नाऽपेक्षेति न धूमादिसामान्याद्वह्निसामान्यादिसिद्धिः । एतेन व्यतिरेको व्याख्यातः । तथा च कार्यानुपलब्धिलिङ्गभङ्गे स्वभाव- स्याप्यसिद्धेर्गतमनुमानेनेति चेत् । बोधनी । दहनादीनामुपयोग इत्यपि सम्भवान्न धूमादिमात्राद्दहनानुमानसिद्धिरित्याह—एवं तर्ही-इति । एतेन धूमादिविशेषस्य दहनाद्यपेक्षत्वसम्भावनाप्रतिपादनेन दहनादिव्यतिरेकान्न धूमादिमात्रव्य- तिरेकोऽपि सिद्ध्यतीत्याह—एतेन-इति । एवं चानुमानमात्रोच्छेद एव स्यादित्याहँ—तथाच- इति । शिंशपाया वृक्षत्वस्वभाव इत्येतद् वृक्षे शिंशपात्वानुपलब्ध्या लिङ्गेन शिंशपात्वव्यति- रेकोऽनुमानात् सिद्ध्यति, तेन व्यतिरेकासिद्धौ स्वभावस्यासिद्धेरनुमानमात्रोच्छेद एवं इति । प्रकाशः । व्यक्तिविशेषं प्रति तदुभयव्यक्त्योरनन्यथासिद्धयोः कारणत्वं गृह्यते इत्येषा दिक् । ननुः कार्यवैजात्ये तृणस्य वह्निविशेष इव वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्रे इति शङ्कया न कार्यात् कारणं काप्यनुमीयेत । यदि चोपस्थितरूपे व्यभिचाराभावात्तेनैव रूपेण कार्यत्वग्रहस्तर्हि कारणतायामपि यत्रोपस्थितरूपे व्यभिचारस्तत्रैव रूपान्तरेण कारणताग्रह इति तुल्यमित्याह । एवं तर्हीति । एवं वह्नेर्धूमविशेष एव प्रयोजकत्वाद् वह्निमात्रव्यतिरेकाद् धूम- मात्रव्यतिरेको नानुमीयेतेत्याह । एतेनेति । निषेध्यतेयेति शेषः । तथा चेति । विपक्षवा- धकमानवेदनीयो हि स्वाभावनियमो बौद्धानाम् । बाधकं च कार्यानुपलब्धी, ततस्तद्भङ्गे कथमनु- पायकः सिद्धयेदित्यनुमानमात्रविलयान्निधैव तदुपगमादित्यर्थः । तदेतद् दूषणं बीजत्वसामान्यं प्रत्यक्षसिद्धमङ्कुरे न प्रयोजकं, किन्तु तद्विशेषः कुर्वद्रूपत्वमतीन्द्रियमिति वदतो बौद्धस्य, प्रकाशिका ऽस्ति द्वयमवच्छेदकं समवायिकारणनाशसमानकालीनसमवेतनाशत्वमसमवायिनाशसमानका- लीनद्रव्यनाशत्वञ्चेति उभयावच्छेदेनोभयोः कारणत्वमित्यभिसन्धायाह । दिगिति । मकरन्द भवायिनाशसहितसमवायिनाशत्वेन हेतुत्वमस्तु । तथाच कथं व्यक्तिविशेषे व्यक्तिविशेषस्य हेतु- त्वम् ? अन्यथा अनन्तसामग्रीकल्पनापत्तेरिति वाच्यम् । तत्रैव तात्पर्यात् । नचात्राप्यन्यतर- स्यावच्छेदकत्वे विनिगमकाभावः । असमवायिनाशात्वादिना तदुभयोरपि हेतुत्वादेव । अत एव सामग्रीभेदः । अन्यत्रान्यतरस्यैव हेतुत्वात् । नचात्राप्यन्यतरस्यैव हेतुत्वमस्तु, कार्यतावच्छेदकभे- दाच्च सामग्रीभेद इति वाच्यम् । विनिगमनाविरहेणोभयोरपि तुल्यत्वात् । वस्तुतस्तु समवायि- कारणानाशाद् द्रव्यगुणकर्मणां नाशदर्शनात् तत्तन्नाशस्याननुगमादनुगतस्य सति सम्भवे त्यागा- योगादविद्यमानांश्रयकासमवेतकार्यनाशत्वावच्छेदेनास्य हेतुत्वकल्पनाद् द्रव्यनाशेऽपि तथा । तथाच युगपत् समवाय्यसमवायिनाश्योरुत्पत्तावपि तन्निप्तकार्यमात्रनाश एवाश्रयनाशो हेतुः । तथाच न सामग्रीभेदः । अत एव समवायिनाशस्थलेऽपि तज्जन्यासमवायिनाशस्यैव द्रव्यनाशकत्वं कॢप्त- त्वादित्यपास्तम् । गुणादिनाशे तस्यापि कॢप्तत्वात् । किञ्चाविद्यमानाश्रयकद्रव्यनाशे आश्रयनाशो हेतुरविद्यमानासमवायिकारणकद्रव्यनाशेऽसमवायिनाशो हेतुरस्तु । तथाच कॢप्तसामग्रीत एव प्रकृतकार्योपपत्तौ न सामग्रीभेदः । अविद्यमानता च द्रव्यनाशपूर्वक्षणे बोध्या । तेन सत्समका- लाविद्यमानत्वमादाय न व्यभिचार इति विद्वद्भिः परिचिन्तनीयमिति । एतत् सर्वमभिसन्धा- योक्तं दिगिति ॥
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८६ प्रत्यक्षाद्यनुपलम्भगोचरो जातिभेदो न कार्य्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः(१) । अस्माकन्तु यत्सामान्याक्रान्तयोर्ययोरन्वयव्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः । तथाचावान्तरविशेषसद्भावेऽपि न नो विरो- बोधनी । परिहरति-न-इति । प्रत्यक्षाद्यनुपलम्भाभ्यां गृहीतान्वयव्यतिरेकं बीजत्वादिव्यजातीयमङ्कुरादिकार्य्यं न प्रयोजकं कारणं किन्तु तद्विशेषः कुर्व्वद्रूपजातीयत्वमिति वदतो बौद्धस्यैष प्रसङ्गो बाधक इति तस्या- प्रामाणिकं कारणगतं विशेषमिच्छतोऽप्रामाणिकस्यैव कार्य्यगतस्यापि विशेषस्य सम्भावनया तस्यैव तत्कारणप्रयोज्यत्वं, नतु तद्विजातीयस्येति शङ्कावशादनुमानोच्छेदप्रसङ्गात् । एतच्च क्षणभङ्गे स्फुटी- भविष्यति । अस्माकं पुनः परिदृश्यमानजातीययोरेव कार्यकारणभावं नियच्छतां कार्य्यगतवि- शेषसम्भावनायामपि तज्जातीयमात्रात्तज्जातीयानुमाने न कश्चिद्विरोधः । न च तृणादिजन्योऽग्न्य- प्रकाशः । नास्माकमित्याह । प्रत्यक्षेति । अप्रामाणिकबीजकुर्व्वद्रूपत्ववदप्रामाणिक एव कार्य्यविशेषो यस्य कारणविशेषापेक्षेति बौद्धस्य दोष इत्यर्थः । अस्माभिस्त्वप्रामाणिको विशेषो नोपेयत इति भावः । अस्माकं त्विति । यत्र कारणसामान्यं कार्य्यसामान्ये व्यभिचारि दृश्यते, तत्रैव विशिष्य कारणताग्रहः । यत्र तु स न दृश्यते तत्रोपस्थितसामान्येनैव कार्यकारणताग्रहः । यदि च तृणा- दिवह्निविशेषाद् धूमविशेषः स्यादित्युच्यते, तदा नेदमनिष्टमित्यर्थः । ननु, कार्यकारणभावग्रहो न तावद्व्यक्त्योरेव । स हि व्यक्तिमात्रमपेक्ष्य ? तद्विशेषं वा ? । नाद्यः । घटो यदि यावत्पटजातीयापेक्षणीयापेक्षः स्यात् पटजातीयः स्याद् , घटजातीयो न स्या- दित्यत एव बाधकात् । विशेषोऽपि पूर्ववर्त्तित्वमात्रं वा ? तत्तद्व्यक्तित्वं वा ? । नाद्यः । यावत्पटा- दिजनकजन्यत्वे घटादिव्यक्तीनामभेदाद्वैजात्यापत्तेः । रासभादिसाधारण्याच्च । अत एव नान्त्यः । व्यक्त्योरेव कार्यकारणभावे पूर्वं तदनिश्चये प्रवृत्त्याद्यनुपपत्तेश्च । नाऽपि जात्यपेक्षया । भक्षित- विनष्टबीजादिव्यक्तिष्वव्याप्तेः । न चेष्टापत्तिः । तस्य सर्वथा कार्याजननाच्छिलाशकलतुल्य- त्वात् । मैवम् । बीजादिव्यक्तीनामेव बीजत्वादिन। सामान्येनानन्यथासिद्धान्वयव्यतिरेकवत्त्वेन कारणत्वात् । क्वचित् कार्य्यव्यतिरेकश्च सहकारिवैकल्यात् । अत एव शिलाशकलवैषम्यम् । न हि यस्मिन् सति कार्यं भवत्येव तत्कारणम् , अपि तु यस्मिन् सत्येव भवति । एतच्च भक्षित- विनष्टेऽपि सामान्यतोऽस्त्येव । न च सामान्येनापि रूपेण या व्यक्तिः कार्यं जनयत्येव सा कारणं प्रकाशिका । अस्माभिरिति । वह्निवैजात्यं चोक्तयुक्त्या प्रामाणिकमेवेति भावः । घटो यदीति । व्यक्ति- मात्रकारणत्वे यावत्पटापेक्षत्वाभ्युपगमे घटस्येति बोध्यम् । एवं पूर्ववर्त्तिव्यक्तिमात्रकारणत्वेऽपि । यावत्पटजनकजन्यत्वाभ्युपगम इत्यवधेयम् । रासभादीति । पूर्ववर्त्तित्वमात्रस्य तत्रापि सत्त्वा- दित्यर्थः । अत एवेति । रासभादिसाधारण्यादेवेत्यर्थः। ननु रासभादिविलक्षणव्यक्तीनामेव कार- णत्वं तत्त्वेनेत्यरुचेराह । द्रव्यत्वे सतीति । तद्व्यक्तेः कारणताप्रमाणकाभावादिति भावः । य- स्मिन् सत्येवेति । यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने सत्येवेत्यर्थः । तदुक्तम् । सामान्यत इति । मकरन्दः । उभयत्र व्यक्तिमात्रापेक्षित्त्वेन यावत्पटापेक्षणीयापेक्षित्त्वं घटस्य बोध्यम् । एवं पूर्ववर्त्तिमात्रा- पेक्षित्त्वेन यावत्पटादिजनकजन्यत्वं घटादेर्बोध्यम् । अत एवेति । रासभादिसाधारण्यादेवेत्यर्थः । यस्मिन् सत्येवेति । यद्धर्मावच्छिन्ने सत्येव सहकारिसमवधानात् कार्यं भवति तदवच्छिन्नं कार- णमित्यर्थः । तदिदमाह । सामान्यत इति । यागादौ बहुवित्तव्ययायाससाध्ये फलावश्यम्भाव- ( १ ) प्रसङ्ग इति पाठान्तरम् । १२ न्या० कु०
६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां धः । किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकम् ? तृणादीनां विशेष एव नियतत्वादिति चेत् । न । तेजोमात्रोत्पत्तौ पवनो निमित्तम्, अवयवसंयोगो- ऽसमवायी, तेजोऽवयवाः समवायिनः । इयमेव सामग्री गुरुत्ववद्द्रव्यसहिता बोधनी । वान्तरजातिभेदोऽप्रामाणिको येन तदङ्गीकारे सर्वत्रानाश्वासः स्यादिति किं पुनः-इति । किमा- क्षेपे । विशेषे स्वे स्वे कार्यविशेषे नियतत्वेनाभ्युपगमादिति । अनुवृत्तं तु न किञ्चित् दृश्यते इति भावः । न-इति । समवाय्यसमवायिनिमित्तानामनुवृत्तिरस्ति तावत् सामान्यप्रयोजकम् । अनुवृ- त्तैव च सामग्री तत्तत्सहकारिभेदवशात्पिण्डितादिविशेषोत्पत्तौ निबन्धनमुद्भूतस्पर्शतेजोऽवयवत- त्संयोगपवनास्तार्णतार्णसामान्यसामग्रीति न कुत्रचिद्विरोध इति ॥ ६ ॥ प्रकाशः । न त्वन्येति वाच्यम् । यागादौ बहुवित्तव्ययायाससाध्ये यागत्वसत्त्वेऽपि किमियं व्यक्तिः स्वर्गजनिका, न वेति संशये प्रवृत्त्यभावापत्तेः । यदि सा पापव्यक्तिर्नरकजनिका, तदा कृतेऽपि प्रायश्चित्ते नरकं जनयिष्यत्येव अन्यथा तु प्रायश्चित्तं विनाऽपि न नरकमित्यभयथापि प्रायश्चित्ते प्रवृत्त्यनुपपत्ते- श्चेति । किं पुनरिति । दहनगतं सामान्यं दहनसामान्यं तेजस्त्ववह्नित्वादि । तेन नोत्तर- विरोधः । तृणादीनामिति । तथा च सामान्यमाकस्मिकं स्यादिति भावः । तेजोमात्रेति । तेजः पदं कार्यतेजःपरम् । न च सूर्यालोके व्यभिचाराद् न पवनस्तेजोमात्रे निमित्तमिति वाच्यम् । निर्वातस्थितस्य दीपस्य वातं विना नाशदर्शनेन तत्र पवननिमित्तकत्वनिश्चयादन्यत्रापि तेजस्त्वेन पवनजन्यत्वानुमानात् । न च वह्नित्वमुपाधिः । तैजसशरीरस्य पाञ्चभौतिकत्वेन पवनजन्यतया प्रकाशिका । यदि सेति । नचाजनकत्वेऽपि तस्या जनकजातीयनाशार्थं प्रायश्चित्ते प्रवृत्तिरिति वाच्यम् । दुःखा जनकत्वेन द्वेषाविषयतया तन्नाशार्थमप्रवृत्तेः, निष्प्रयोजनकत्वेन द्वेषमात्रात् कृतेरनुत्पत्तेश्चेत्या शयात् । निर्वातस्थेति । ननु वाताभावे दीपध्वंस इत्येतावता तस्य कारणत्वं नायाति कार्या- नुत्पादप्रयोजकव्यतिरेकप्रतियोगिन एव कारणत्वात् । न वा वाताभावो वह्निनाशे कारणं समवा- यिकारणासमवायिकारणनाशयोरेव द्रव्यनाशकत्वादिति चेन्न । विनाशपदेन सजातीयानुत्पादप्रयु- क्तसन्तानोच्छेदस्य विवक्षितत्वात् । तथाचाशुविनाशितया पूर्वदीपनाशे वातरूपकारणाभावेनाग्रि- मानुत्पादे सति सन्तानोच्छेद इत्यत्र तात्पर्यम् । तेजस्त्वेन=जन्यतेजस्त्वेन । न चेति । साधना- वच्छिन्नसाध्यव्यापको यः स उपाधिरतो न वातध्वंसे साध्याव्यापकत्वम् । नन्वेवमपि वह्नित्त्वाव- च्छिन्नने पवनस्य कारणत्वमायाति न तु जन्यतेजोमात्रे, पवनोत्कर्षण वह्न्युत्कर्षादपि वह्नित्त्वावच्छि- न्ने पवनस्य कारणत्वमिति चेत् ? वह्नित्वापेक्षया जन्यतेजस्त्वस्य सामान्यतया तस्यैवावच्छेदकत्वात् । नच वह्नित्वं जातिरूपतया लघ्विति वाच्यम् । भास्वररूपसमवायिकारणतावच्छेदकतया जन्यतेज- मकरन्दः । निश्चये सत्येव प्रवृत्तेरिष्टापत्तिरिति यदि ब्रूयात्, तदा दोषान्तरमाह । यदि सेति । नचाजनकव्य- क्तेरपि तज्जातीयतया द्वेषात्तन्नाशार्थं प्रवृत्तिरिति वाच्यम् । दुःखजनकत्वे द्वेषस्याप्यभावात्, निष्प्रयोजने द्वेषमात्रात् कृतेरनुत्पत्तेश्चेति भावः । निर्वातस्थितस्येति । ननु नैतावता कारणत्वम् न हि कारणाभावेन कार्यध्वंसः, किन्त्वनुत्पाद इति चेन्न । नाशपदेन प्रवाहानुत्पादेनात्यन्तो- च्छेदस्य विवक्षितत्वात् । तथाचाऽऽशुनाशितया पूर्व प्रदीपनाशेऽपि वातं विनाऽग्रिमतदनुत्पादा- दित्यत्र तात्पर्यम् ॥ तेजस्त्वेन=कार्यतेजस्त्वेन । न चेति । न च पवनध्वंसादिषु साध्याऽव्याप्तिः । साधनावच्छि-
प्रथमस्तबके ] ब्रह्मप्रकृतिकारणतावादपूर्वपक्षः । ४१ पिण्डितस्य । इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनं, तत्रापि जलं प्राप्य दिव्यं, पार्थिवं प्राप्य भौमम् , उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयम् ॥ ६ ॥ तथाप्येकमेकजातीयमेव वा किञ्चित् कारणमस्तु, कृतं विचित्रेण । दृश्यते बोधनी । अथ वैचित्र्यादिति हेतुमवतारयितुं शङ्कते—तथापि-इति । यद्यपि कार्यस्य नियतजातीय- कारणनियमस्तथापीति । कथं तर्हि कार्यवैचित्र्यमित्यत आह—दृश्यते हीति । न चात्र प्रकाशः । तत्र साध्याव्यापकत्वात् । आगमोऽप्यत्रास्त्येवेत्येके । पवनोत्कर्षेण वह्न्युत्कर्षदर्शनात् तेजोमात्रे तस्य निमित्तत्वं न वह्निमात्रे, सामान्यस्य सामान्यं प्रति प्रयोजकत्वे विशेषस्योपाधितायामतिप्रस- ङ्गादित्यन्ये । पिण्डितस्य=सुवर्णस्य । दिव्यमिति दृष्टान्तार्थम् । तत्राप्रश्नात् ॥ ६ ॥ एतावता कारणमात्रे सिद्धेऽपि सापेक्षत्वादित्यत्र सिद्धसाधनं शङ्कते । तथापीति । एकमिति त्रिदण्डिमतसमुत्थानम् , तेषां ब्रह्मण एव सकलकारणत्वात् । एक- जातीयमिति साङ्ख्यमतम् । तेषां पुरुषाणां भेदात् प्रतिपुरुषं च महत्तत्त्वानां भेदेऽपि प्रकृति- विकारत्वात् प्रकृतेश्चैकत्वादेकजातीयत्वात् । तथाच कारणस्यैकव्यक्तित्वेनैकजातीयत्वेन वा नेश्वर- सिद्धिरस्मदादिनापि तद् द्रष्टुं शक्यत्वादिति प्रकृतसङ्गतिः । न चाविचित्राद् कारणाद्विचित्रं कार्य- प्रकाशिका । स्त्वस्यापि जातेः सिद्धेः । अत एव तेजस्त्वपेक्षया द्रव्यत्वमेव सामान्यमिति तदेव पवनजन्य- तावच्छेदकं किमिति न स्वीक्रियत इत्यनुयोगो निरस्तः । द्रव्यत्वस्य नित्यवृत्तित्वात्, जन्यद्रव्य- त्वस्य पृथिवीत्वसङ्करेणोपाधित्वात् । ननु पृथिवीजन्यत्वमेवोपाधिः स्यादत आह । आगमो- ऽपीति । तथाच पक्ष एव साध्यव्यापकत्वमिति भावः । आगमस्तु— वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भ्राजस्तद्रूपगुणमुच्यते ॥ इत्यादिः । यदिद्वेषयोरित्यादिन्यायावतारे निर्वातस्थदीपस्येत्यादिकमेव सम्यक् । तदनवतारे त्वेताव- तापि वह्निमात्रे कारणत्वमायाति न तु जन्यतेजोमात्र इत्यरुचिं विभावयति । अन्य इति । तत्राप्रश्नादिति । यद्यपि तत्गतसामान्यमपि प्रश्नविषय एव दिव्यस्यापि दहनत्वात्, तथापि तार्णादिदहनसामान्यस्यैव प्रस्तुततया प्रश्नविषयत्वमित्याशयेनेदमुक्तम्। एवं च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्येको ग्रन्थः, तेन पिण्डितस्यापि दृष्टान्तता लभ्यते । अन्यथा तस्यापि प्रश्नविषयत्वेनासङ्ग्रहापत्तेः । न च औदर्यस्यापि प्रश्नाविषयतया तत्रोत्तरविरोधः, तार्णपदेन पार्थिवेन्धनजन्यवह्नेरेवोक्तत्वेन तस्यापि प्रश्नाविषयत्वात् । दृष्टान्तपरत्वाद्वा ॥ ६ ॥ प्रकृतेरिति । एकप्रकृतिविकारत्वादेकजातीयत्वं महत्तत्त्वानां पुरुषभेदेन भेदेऽपीत्यर्थः । अस्म- मकरन्दः । न्नसाध्यव्यापकत्वादिति भावः । अत एवाह । तैजसेति । आगमोऽपीति । “ज्योतिरुत्पद्यते वायो”रित्यादिविष्णुपुराणरूप इत्यर्थः । यदिद्वेषयोरिति न्यायात्तावता वह्निसामान्यमात्रे तद्धेतुत्वं सिद्ध्यति, न तु तेजोमात्रे । अन्यथा द्रव्यमात्र एव तदापत्तेरित्यनुशयादाह । अन्य इति । दिव्य- मितीति । यद्यपि दिव्यस्यापि दहनतया तद्गतसामान्यमपि प्रश्नविषयः, तथापि तार्णऽऽदिदह- नसामान्यस्य प्रश्नविषयत्वादस्यातथात्वमित्याशयः । यद्यप्येवं पिण्डितस्येत्यप्ययुक्तं, तत्राप्य- प्रश्नात् । तथापि तदपि दृष्टान्तार्थमेव । एवञ्च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्ये- कग्रन्थो बोध्यः । दिव्यमित्युपलक्षणम्, उदर्यस्यापि दृष्टान्तत्वमित्येके । तार्णपदस्य पार्थिवेन्धन- दहनपरतया तत्र प्रश्न एवेत्यन्ये ॥ ६ ॥ प्रकृतेश्चेति । तथाचैकप्रकृतिविकारत्वान्महत्तत्त्वादीनामेकजातीयत्वमित्यर्थः । तद् द्रष्टु-
३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्या ह्यविलक्षणमपि विलक्षणाऽनेककार्यकारि । यथा प्रदीप एक एव तिमिरापहारी, वर्त्तिविकारकारी रूपान्तरव्यवहारकारीति चेन्न । वैचित्र्यात् कार्य्यस्य । एकस्य न क्रमः क्वापि वैचित्र्यञ्च समस्य न । शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः ॥ ७ ॥ बोधनी । दृश्यते स्वरूपसहकारिवैलक्षण्यमिति भावः । अत्र हेतुमवतारयति—वैचित्र्यात्-इति । कथं साध्यमेव कारणवैचित्र्यं हेतुरित्यत्राह-कार्य्यस्य—इति । व्याचष्टे-एकस्य-इति । न तावदेकमेव कारणम्, एकस्याक्रमत्वेन कार्य्यक्रमानुपपत्तेः । अनेन कालकृतवैचित्र्यं कारणवैजात्ये हेतुर्दर्शितः । यद्वा, प्रथमसंग्रहश्लोकानुपन्यस्तमेव कार्य्यक्र- ममैवाशङ्कितस्य कारणैकत्वस्य निराकरणाद्योक्तासंग्रहोक्तं वैचित्र्यमवतारितमिति । समस्यापि शक्तिभेदात्कार्य्यवैचित्र्योत्पत्तिमाशङ्कयाह-शक्तिभेदो न च-इति । धर्मिव्यतिरेकान्यतिरेकविक- ल्पदुःस्थत्वादित्येति भावः । यद्वा, भावादभिन्नः शक्तिभेदो न कारणं भावमात्रकारणत्वेन समान- योगक्षेमत्वादिति । एकप्रसरेण योजनाभेदे तु कारणवैचित्र्यस्वीकार इति भावः । ननु स्वभाव एवायं भावस्य यत्समं च विषमं कार्य्यं करोतीति तत्राह-अभिन्नस्वभाव-इति । य एवास्यैक- स्मिन् जनयितव्ये स्वभावः स एवान्यस्मिन् जनयितव्येऽपि, स्वभावस्य दुर्लङ्घ्यत्वात् । ततश्चा- भिन्नस्वभावस्य कथं विलक्षणकार्य्यनिर्माणमिति भावः । अभिन्न इत्यस्य पूर्वशेषत्वे त्वयमर्थः प्रकाशः । महच्चरमित्याह । दृश्यते हीति । तिमिरमालोकाभावः । तदपहार आलोकः । तत्कारी दीपः पिण्डितरूपः । रूपान्तरं घटादिरूपम् । प्रदीपे च. न स्वरूपभेदसहकारिभेदावित्यर्थः । तथाच तद्दृष्टान्तेनान्येषामपि विचित्रकार्याणामविचित्रकारणजन्यत्वमनुमेयमिति भावः ॥ न वैचित्र्यादिति । दृष्टान्तेऽप्यविचित्रकारणजन्यत्वमसिद्धमिति भावः ॥ एकस्येति ॥ एकस्य कारणस्य सम्बन्धी न क्रमः कार्याणाम् । समस्यैकजातीयस्य च कार- णस्य सम्बन्धि न वैचित्र्यं कार्याणाम् । शक्तिविशेषो न कार्यवैचित्र्यहेतुः, धर्म्यभिन्नो यतः । चो हेत्वर्थे । विचित्रकार्यजननस्वभावादपि कार्यवैचित्र्यमुपपाद्यम् । एकत्र कार्ये यत्स्वभावो जनकस्त- दितरकार्यजननेऽपि तत्स्वभावो वाच्यः । अन्यथैकस्य स्वभावभेदादेकत्वादिहानिप्रसङ्ग इत्येकस्व- प्रकाशिका । दादीनापीति । यद्यपि ब्रह्माणास्मदादिना वा शक्याधिष्ठानं तथापि तावन्मात्राभिज्ञसिद्धावपि न सकलदर्शित्वसिद्धिरित्यत्र तात्पर्यम् । तदित्यव्ययं षष्ठ्यन्तम् । तथाच तस्य द्रष्टुं शक्यत्वादित्यर्थः । तिमिरस्य तेजोऽभावतया तदपसारस्तेज एव न च तत्कारित्वं तस्येत्यत आह । पिण्डितरूप इति । तथा च तेजःकारित्वं तेजसो व्यक्तिभेदादविरुद्धमिति भावः । प्रदीपे चेति । अयं पूर्वपक्षिणोऽभिमानं इति भावः । अत एवाग्रेऽभिमानखण्डनमेव करिष्यति दृष्टान्तेऽपीत्यादिना । एकस्य क्रमः परैरपि नाभ्युपगत इत्यतः पूरयति सम्बन्धी कार्याणामिति चेति । एवमग्रे- मकरन्दः । मिति । तदित्यव्ययं षष्ठ्यन्तम् । तेन, तस्य द्रष्टुं शक्यत्वादित्यर्थः । ननु तिमिरं तेजोऽभावः, तदपहारं एव प्रदीपो, न तु तत्कारी, अभेदे जन्यजनकभावा- नुपपत्तेरित्यत आह । तिमिरमिति । तथा च व्यक्तिभेदमादायाविरोध इति भावः । प्रदीपे चेत्यापातः अत एव दूषयति । दृष्टान्तेऽपीति । एकस्य कारणस्य क्रमो न पराभ्यु- पग़तोऽपीत्यनाक्षिप्तसमाधानमिति पूरयित्वा व्याचष्टे । एकस्येति । एवमग्रेऽपि । अक्रमा
न तावदेकस्मादनपेक्षादनेकम् । अक्रमात् क्रमवत्कार्यानुपपत्तेः । क्रमवत्ता- वत्कार्यकारणस्वभावत्वात्तस्य तत्तथा यौगपद्यवदिति चेत् । अयमपि क्षणभङ्गे परिहारो न तु सहकारिवादे, पूर्वपूर्वानपेक्षायां क्रमस्यैव व्याहतेः । क्रमनियमे स्वभावः कार्यान्तरे जनयितव्येऽपि नापैति यावद्द्भावभावित्वात् स्वभावस्येति । आद्यं पादं विवृणोति- न तावत्-इति । नैकस्मात् क्रमवत्सहकारिविधुरादनेकं क्रमवत् कार्यं, भवतीति शेषः । अक्रमात्-इति । क्रमवत्सहकारिवैधुर्य्येणासम्भवायितक्रमादिति । यद्वा, कार्यस्य भेदस्तावत् कारणभेदात् स्यात् यथा घटपटयोः, तदभावेऽपि कालभेदाद्वा यथा दुग्ध- दध्नोः । अत्र तु पूर्वः कल्पो न भवति कारणस्यैकत्वाभ्युपगमादित्यभिप्रेत्योत्तर आह-न तावत्- इति । सहकार्यभावेन कालक्रमायोगादिति । अत्र तु नानेककार्यं भवतीति यथास्थित एव ग्रन्थः सङ्गच्छत इति । शङ्कते-क्रमवत्-इति । तस्य कारणस्य । तत् कार्यं । 'तथा क्रमवद् । यथा ह्येकस्य यौगपद्यम् । अनेकेषामेककालता हि यौगपद्यं, तत् कथमेकस्य भवेत् तत्रापि स्वभावत एव युगपत् कार्याणि कुर्वन् दृष्टान्त इत्यर्थः । एवं वदतां चार्वाकवराकेण सहकारिवाद एवाभ्युपगतः स्यादिति प्रतिपादयन्नाह-अयमपि-इति । यावत्कार्यकरणसमर्थस्वभावो भावो जातः स ताव- न्त्यपि कार्याणि तदैव कुर्यात् समर्थस्य क्षेपायोगात् । ततः स क्षणान्तरे अर्थक्रियाभावादसत्त्व- मेवेति यदा बौद्धः क्षणभङ्गं ब्रूयात् तत्रैष परिहारः सङ्गच्छते । एकस्यैव स्वभावतः क्रमेणानेकका- र्यकरणमुपपद्यत इति । अपि चेति समुच्चयो बौद्धस्यैव शिरसि सम्प्रहार इत्येतदपेक्ष्येति । सह कारिसन्निधिक्रमेणैकमेव तत्तत्कार्यं करोतीति सहकारिवादः, न तस्यायं बाघ इति । कथमबाधकं यावत्ता स्वेतरनिरपेक्षमेकमेव क्रमेण कार्याणि करोतीत्युक्तिः सहकारिवादं बाधेतैवात आह-पूर्व- भावजन्यत्वेन विजातीयकार्याणामप्यैकजात्यं स्यादित्यर्थः । अक्रमादिति । क्रमप्रयोजकसहकारि- विधुरादित्यर्थः । क्रमवदिति । सहकारिविरहेऽपि क्रमिककार्यजनशीलत्वादक्रमस्यापि क्रमिकका- र्यजनकत्वं स्यादित्यर्थः । यौगपद्यवदिति सप्तमीसमर्थाद्वतिः । यथा कार्ययौगपद्ये अयुग- पत्स्वभावोऽपि दीपः कारणमेवमक्रमोऽपि क्रमिककार्येपु कारणं स्यादित्यर्थः । तत्-कार्यम् । तथा-क्रमवदित्यर्थः । अयमपीति । समर्थस्य विलम्बानुपपत्तेरनेकानि क्रमिकाणि कार्याण्युत्प- त्त्यनन्तरमेव कुर्यादित्यत्र समर्थोऽपि न तथा, क्रमवत्तावत्कार्यकरणस्वभावस्योत्पादादिति न विरुद्धधर्माध्यास इति क्षणभङ्गपक्षे परिहारः सम्भवी । स्थैर्यपक्षे तु क्रमिकसहकार्यापेक्षां विना तादृशः स्वभाव एव न स्यादित्यर्थः । पूर्वपूर्वकर्मिककार्यानपेक्ष उत्तरकार्योत्पादः ? तत्सापेक्षो वा ? । आद्ये, पूर्वेति । विलम्बे ऽपि नित्यस्य कालादेः क्रमिककार्यजनकत्वमस्त्येवेत्यत आह । क्रमप्रयोजकेति । ननु प्रथमांस- मर्थत्वे वैम्यम् न हि यौगपद्यं कारणस्वभावजन्यं किन्तु युगपत्कालीननि कार्याणीत्यत आह । सप्तमीसमर्थादिति । ननु स्वभाववादेन परिहारः स्थैर्यपक्षेऽपि संभवत्येव तत्कुतो न सहका- रिवाद इत्युक्तमत आह । समर्थस्येत्यादि स्वभाव एव न स्यादित्यन्तम् । तथा च परैः सहकारिविलम्बेन विलम्बाभ्युपगमात्, स्वभावस्य कुर्वद्रूपात्मकस्य नियामकत्वं वक्तुं शक्यते स्थिरवादिनान्तु तादृशस्वभावस्य सहकारिणं विनानुपपत्तिः । तत्स्वीकारे तु विजातीयं कारणं सिद्धमेवेत्यर्थः । ननु कारणभेदे कार्यभेदः सत्यदहनत्वे दहनत्वे चोपपद्यत इति कुतो नियतं- दपि नित्यात् कालादेः क्रमेण कार्याणीत्यत आह । क्रमप्रयोजकेति ।
६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां त्वनपेक्षाऽनुपपत्तेः । नाप्यनेकमविचित्रम् । यदि ह्यन्यूनमनतिरिक्तं वा दहनकारणमदहनस्या- पि हेतुर्नासावदहनो दहनो वा स्यादुभयात्मको वा स्यात् । न चैवम् । बोधनी । इति । पूर्वपूर्वमुत्पाद्योत्तरोत्पादनं हि क्रमः, अन्यथा यौगपद्यप्रसङ्गात् । तत्र स्वेतरनिरपेक्षस्य कार्योत्पादने पूर्वोत्पादनमपेक्ष्योत्तरोत्पादनमित्येवमात्मकः क्रमो बाध्यते । क्रमाङ्गीकारे च पूर्वपूर्व- मुत्पादनमुत्पाद्यमानं वापेश्क्षमाणस्य कार्यकारकत्वमिति स्यात् । तत्र स्वेतरापेक्षालक्षणसहकारिवादः सिद्धः स्यादिति । द्वितीयपादं व्याचष्टे—नाप्यनेकमिति । नानेकमप्यविचित्रमेकजातीयं कारणं विचि- त्रस्य कार्यस्येति । कुतो नैवमित्याशङ्क्य किं तत् कारणं दहनैकजननस्वभावम्, अदहनैकजनन- स्वभावम् उभयजननस्वभावं वेति विकल्पं हृदि निघाय प्रथमे दोषमाह—यदि हि—इति । असावदहनाभिमतो नादहनः स्यात् किन्तु दहनसामग्रीजन्यत्वेन दहन एव स्यादिति भावः । द्वितीयेऽप्याह—दहनो वा—इति । अदहनसामग्रीजन्यत्वादिति । तृतीयेऽप्याह—उभयात्मक- इति । उभयमप्युभयात्मकं भवेदिति । विपर्ययस्तु दृश्यत इति । शक्तिभेदो नचेत्येतदवतारयितुं प्रकाशः। हेत्वभावादित्यर्थः । अन्त्ये, क्रमेति । तस्यैव द्वितीयस्य कारणस्यापेक्षणादित्यर्थः । एकजातीयं कारणं दहनजनकैकस्वभावं वा ? अदहनजनकैकस्वभावं वा ? उभयजनकस्वभावं वा ? । आद्ये दोषमाह । नासाविति । कारणाभावादित्यर्थः । भवन् वा दहनात्मकॊ भवेदित्याह । दहनो वेति । इतरदहनवत्तद्धेतुस्वभावप्रसूतत्वादित्यर्थः । दहनजनकैकस्वभावस्य अदहनजनकत्वे व्याघातोऽ- पीति भावः । द्वितीये तु यथाव्याख्यातवैपरीत्यं फक्किकार्थः,- नाऽसौ दहनोऽदहनो वा स्यादिति, कृत्वा । तृतीये, उभयात्मक इति ॥ अत्र च पटो यदि यावद्दहनजनकजन्यः स्यात् पटो न स्याद् , दहनो वा स्यादित्यदहनदहनत्वयोरापादनम् । अदहनो वा यदि तथा स्याद् दहनः प्रकाशिका । दहनत्वमेवापादनीयमतो विकल्पयति । एकजातीयमित्यादि । अदहनत्वाभावदहनत्वयोः पौनरुक्त्यमतोऽन्यर्थार्थप्रतिपत्तये हेतुं पूरयति । कारणाभावादिति । तथा चादहनेऽनुत्पत्ति- दहनत्व आपात, इत्यर्थः । एवमग्रेऽपि । यथाश्रुते वैयधिकरण्यं तृतीये चोभयात्मकत्वमापायम- प्रसिद्धमित्यन्यथा तर्कमाह । अत्र च पटो यदीति । इत्यदहनदहनत्वयोरिति । यद्यप्य- 'दहनत्वं प्रथमतर्केण नापाद्यं किन्तु तदभावो दहनजकस्वभावत्वे तर्कानुपदर्शनं च,तथाप्यत्रेतिशब्दः प्रकारवची तथा च दहनो यद्यदहनजनकस्वभावजन्यः स्याद्दहनो न स्यात् अदहनो वा स्यादिति द्वितीयस्तर्कः। स च द्वितीयकल्पे यथाव्याख्यातवैपरीत्यमित्यादिग्रन्थेन दर्शितप्रयोग इति तत्फलमेव दर्शितं अदहनदहनत्वयोर्यथायोग्यं प्रथमद्वितीयात्त्वयः । तृतीयतर्कमाह अदहनोऽयमिति । मकरन्दः । यथाश्रुते वैयधिकरण्यादाह । अत्र चेति । श्रीगणेशाय नमः । यदि हि अन्यूनमनतिरिक्तं चेति । अन्यूनानतिरिक्तं दहनकारणमेव तदेकजातीयं कारणं यदि स्यादसौ प्रसिद्धोऽदहनो न स्यात् नोत्पद्येत दहन एव वा स्यादित्येका योजना । अन्यूना नतिरिक्तमित्यत्र विभक्तिविपरिणामेन अदहनस्यापि हेतुर्यद्यन्यूनानतिरिक्तस्तदेकजातीयकारणं स्यादसौ दहनो न भवेत् अदहन एव वा स्यादिति द्वितीया । तदेकजातीयं कारणमन्यूनानतिरिक्तं दहनकारणमदहनस्यापि हेतुः स्यादसावुभयात्मको भवेदिति तृतीया ॥
प्रथमस्तबके ] प्रकृतिकारणतायादखण्डनम् । ६५ शक्तिभेदादयमदोष इति चेन्न । धर्मिभेदाभेदाभ्यां तस्यानुपपत्तेः । असङ्कीर्णो- भयजननस्वभावत्वादयमदोष इति चेत् । न । न हि स्वाधीनमस्यादहनत्वम् , अपि तु तज्जनकस्वभावाधीनम् । तथाच तदायत्तत्वादहनस्यापि तत्त्वं केन वारणीयम् । न हि तस्मिञ्जनयितव्ये नासौ तत्स्वभावः । तस्माद्विचित्रत्वात् बोधनी । शङ्कामाह-शक्तिभेदात्-इति । नानात्वादेकस्यैव कार्यवैचित्र्योपपत्तेर्न पूर्वोक्तदोष इति । न- इति । सा हि शक्तिर्धर्मिणो स्याद् भिन्ना वा ऽभिन्ना वा भिन्नाभिन्ना वा, प्रथमे शक्तिरेव कारणं स्यात् तदन्वयव्यतिरेकानुविधानात् कार्यस्य । न द्वितीयः, शक्तेरेवापलापात् । न तृतीयः, प्रमाणा भावात् तद्व्याघाताच्च । तेन भेदाभेदाभ्यामिति ग्रन्थश्च प्रत्येकसमुदायपरो योजनीयः । यद्वा, दहनादहनजननशक्तिमतः कारणाज्जातस्य कार्यस्य दहनादहनात्मकत्वप्रसङ्गेन विरुद्धधर्मसंस- र्गाद् भेदः स्यात् एकसामग्रीजन्यत्वेनाभेदश्च स्यादिति शक्तिभेदानुपपत्तिरिति । श्लोकशेषं विवरीतुं शङ्कते — असङ्कीर्ण-इति । नायं दहनादहनायात्मकत्वप्रसङ्कदोषोऽस्तीत्यर्थः । न- इति । यदि हि स्वाधीनमस्यादहनस्यादहनत्वं तदा दहनस्यादहनप्रसङ्गो वक्तुं न शक्येतापि, न चैवं, किन्तु कारणगतादहनजननस्वभावायत्तम् , तथा च दहनस्यापि तदेकसामग्रीकस्य तत्त्वमदहनत्वं दुर्वारमिति । एतदेव श्लोकशेषेणोपपादयति नहि-इति । तस्मिन् दहने जनयि- तव्येऽनासौ भावो दहजननस्वभावो न भवति, स्वभावभेदाम्युपगमे तु कारणवैजात्यं स्यादिति भावः । उपसंहरति-तस्मात्-इति । वस्तु कार्यवैचित्र्यात् कारणवैचित्र्यमभ्युपगम्यैव क्षणभ ङ्गित्वाद् भावानां स्वरूपत एव वैचित्र्यं न त्वेकस्यैवानुयायिनः सहकारिनिबन्धनं वैचित्र्यमिति प्रकाशः । स्यादित्युभयापादनमिति नाप्रसिद्धिः । ननु, दहनजनकस्यैव धर्मभेदमुपादायादहनजनकत्वान्नो- क्तदोष इति शङ्कते । शक्तिभेदादिति । स धर्मभेदो न धर्मिभिन्नः तथा सति धर्मिणोऽभिन्न- त्वात्तदभिन्नस्य शक्तिरूपधर्मस्य भेदानुपपत्तेः । नापि धर्मिभिन्नः, तस्यैव कारणान्तरत्वे प्रतिज्ञा- तैकजातीयकारणत्वव्याघातापत्तेः । नापि धर्मिणो भिन्नाभिन्नो, विरोधादिति परिहरति । धर्मिभे दाभेदाभ्यामिति । परस्परविलक्षणानेकजनकस्वभावस्य कारणत्वमिति नोभयात्मकत्वमेकस्येत्याह । असङ्कीर्णेति । जनितादहनस्य दहनेऽपि जनयितव्ये अदहनजनकस्वभावत्वमनुवर्त्तते न वा ? आद्ये, न हीति । अस्य अदहनत्वेनाभिमतस्य । अन्त्ये पुनरेकजातीयकारणव्याघातः । तस्यैवादह- नजनकस्वभावत्वमतिक्रम्य स्वभावान्तरेण दहनजनकत्वादिति भावः । तथाचेति । दहनो यद्यहन जनकस्वभावजन्यः स्याददहनः स्यादिति । एवं विपरीतमप्यापाद्यमित्यर्थः । विचित्रकार्याणां विचित्रकारणजन्यत्वे प्रत्यक्षानुमाने प्रमाणमुपसंहरन्नेवाह । तस्मादिति । ननु स्वरूपमेव विचित्र- प्रकाशिका । उभयापादनमिति । यद्यपि दहनत्वमेवापाद्यं तथापि पक्षतावच्छेदक महिम्ना तदुभयापादन- मित्यभिप्रेत्येदमुक्तम् । यद्यपि घटपक्षकदहनत्वापादककतर्कादविशेषोऽस्य, तथापि तत्र घटत्वम- त्रादहनत्वं पक्षतावच्छेदकमिति भेदः । वस्तुतोऽत्र तथाशब्देनोभयजनक स्वभावजन्यत्वस्यापाद- कत्वे, न लाभः तत्र दहनजनकैकस्वभावजन्यत्वमापादकमिति भावः । नाप्रसिद्धिरित्युपलक्षणं न वैयधिकरण्यमित्यपि द्रष्टव्यम् । ननु शक्तिभेदेऽपि शक्तस्य भेदादेककारणकत्वं भज्येतेत्यत आह । नन्विति । तथाचैवमपि धर्मानभिन्न इत्यर्थः । उभयशब्दस्य द्वितयार्थकत्वेन सर्वसङ्ग- तिरित्यन्यथा व्याचष्टे । परस्परेति । तत्त्वं दहनत्वमिति भ्रमं निवारयन्नेव वैयधिकरण्यादन्यथा- तर्कमाह । दहनो यद्यदहनेति ॥ ७ ॥ मकरन्दः । नाप्रसिद्धिरित्युपलक्षणं, नापि वैयधिकरण्यमित्यपि द्रष्टव्यम् ॥ ७ ॥
६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ८ कारिकाव्याख्यायां कार्यस्य कारणेनापि विचित्रेण भवितव्यम् । न च तत् स्वभावतस्तथा । ततः सहकारिवैचित्र्यानुप्रवेशः । न तु क्षणोऽपि तदनपेक्षस्तथा भवितुमर्हतीति ॥ ७ ॥ अस्तु दृष्टमेव सहकारिचक्रं किमपूर्वकल्पनयेति चेन्न । विश्ववृत्तिः । विफला विश्ववृत्तिर्न न दुःखैकफलाऽपि वा । दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः ॥ ८ ॥ यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनं, न परलोका- बोधनी । बौद्धो मन्यते तं प्रत्याह-न च-इति । न च तत्=कारणम् । स्वभावतः=स्वरूपतः । तथा=वि- चित्रं, तत्त्वेन प्रत्यभिज्ञायमानत्वादिति । यद्वा, प्रदीपवत् स्वभावत एव विचित्रमस्तु कारणं किं सहकारिवैचित्र्येणेत्युक्तमिति चेत्, तत्राह-न च-इति । प्रदीपे तिमिरापहारादिकार्यभेदस्य तैलवर्त्यादिसहकारिभेदनिबन्धनत्वादित्यर्थः । क्षणभङ्गवादेऽपि सहकारिवैचित्र्यमादरणीयमित्याह- न च क्षणोऽपि-इति । न चान्त्यक्षणोऽपि सहकार्यानपेक्षस्तथा विचित्रकार्यसन्ततिहेतुर्भवति । सोऽपि हि यदृच्छया सिद्धसहकारिमध्यमध्यासीन एव विचित्रकार्ये हेतुः, अन्यथा कुसूलनिहितः बीजः कृषीवलः कृतार्थः स्यादिति ॥ ७ ॥ अथ विश्ववृत्ति इत्येतदवतारयितुं शङ्कते-अस्तु-इति । ततोनेश्वरसिद्धिरिति अवतार- यति-न, विश्ववृत्तिः-इति । अस्यानन्यथासिद्धिं दर्शयन् विवक्षितसाध्यकत्वमुपपादयति- विफला-इति । यागादौ तावद्विश्वस्य जगतः प्रवृत्तिर्दृश्यते, नेयं विफला, नापि दुःखैकफला, विश्ववृत्तित्वादेव । नापि दृष्टपूजादिफला स्वरूपतो हेतुत्वात् । परैर्विप्रलब्धत्वात् परविप्रलिप्सया वा प्रवृत्तिरित्यपि न युक्तम् । ईदृशविप्रलम्भासम्भवात् तस्मात् यागादौ विश्ववृत्तिरनन्यथासिद्धा तस्यापि तावत् कारणत्वं कल्पयति । न तु दृष्टमेव सहकारिचक्रं कारणमित्यर्थः । तदेतद् व्या- प्रकाशः । मस्तु कृतं सहकारिवैचित्र्येणेत्यत आह । न चेति । ननु सहकारिवैचित्र्यानुप्रवेशं विनैव यथोत्पन्न- क्षणस्वरूपमुपादाय कार्यवैचित्र्यमुपपत्स्यत इत्यत आह । न त्विति । तदनपेक्षः=सहकार्यान- पेक्षः । तथा=विचित्रकार्यार्जकः । बौद्धमते सहोत्पन्नविचित्रसहकारिसहितस्यैव विचित्रकार्यजनक- त्वादित्यर्थः । तदेवं विलक्षणसामग्री विचित्रकार्यजनिकेति प्रसाधितम् ॥ ७ ॥ सम्प्रति दृष्टकारणमेलकात्मिकैव सा तथा, तदधिष्ठानं चास्मदादिभिरेव शक्यमिति पुनरपि सिद्धसाधनमित्याक्षिपति - अस्त्विति । विश्ववृत्तिः=विश्वेषां=लोकानां वृत्तेः=प्रवृत्तेरदृष्टं सिद्ध्यतीत्यर्थः । तदेव प्रपञ्चयति । विफलेति । भूतचैतन्ये भूतानामेव परिणतिभेदाद्वासनात् एवोत्तरकार्यमिति न परलोकसिद्धिरित्यत्र दोषमाह-यदि हीति । प्रकाशिका भूतचैतन्ये हीति । परिणतिभेद एव वासनेत्यभेदेनान्वयो विकल्पेन वा परिणतिभेदाद्वासा- नयोरन्वयः । भूतचैतन्यपक्ष आत्मनोऽनङ्गीकारात् भूतस्य शरीरादेर्भस्मीभावाच्च परलोकसिद्धिरिति मकरन्दः । भूतचैतन्य इति । भूतस्य शरीरादेर्भस्मीभावादात्मनश्चानङ्गीकारात् कस्य परलोक इति न तत्सिद्धिरित्यर्थः ॥ क्षणोऽपीति । क्षणिकपदार्थोऽपीत्यर्थः ।
र्थी कश्चिदिष्टपूर्तयोः प्रवर्त्तेत, न हि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् । लाभपूजाख्यात्यर्थमिति चेद् ? लाभादय एव किन्निबन्धनाः? न हीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः, यतो वाऽनेन लब्धव्यं, यो वैनं पूजयिष्यति । स किमर्थम् ? ख्यात्यर्थमनुरागार्थञ्च, जनो दातरि मान- बोधनी । ख्यास्यन्ननन्यथासिद्धिं तावत् प्रतिजानाति-यदि हि- इति । भूतानां परिणतिः कार्य, तत्पर- म्परा, उर्वं बीजमङ्कुरं जनयति, तत् सस्यं, तद्ब्रीह्यादिकमिति पूर्वं पूर्वं दृष्टमेवोत्तरोत्तरं प्रति का- रणमिति यद्युच्येतेति । यद्वां भूतानां सहकारिणां परिणतिः साकल्यम् । इष्टं=यागादि श्रौतं कर्म । पूर्तं = खातादि स्मार्त्तम् इति । अत्र हेतुत्वेन संग्रहं व्याचष्टे-न हि - इति । शङ्कते- लाभ इति । दुःखात्मकयोरपि श्रौतस्मार्त्तयोर्लाभादिदृष्टसिद्धयर्थमर्थं प्रवर्त्तत इति दूषयति-ला- भादय-इति । तेऽप्यदृष्टनिबन्धना इत्यर्थः । कुत इत्यत आह-न हि-इति । न हीयं यागा- दौ प्रवृत्तिः स्वरूपेणैव लाभादिहेतुः, तेषां प्रवृत्त्यानन्तर्यनियमाभावात्; तेनादृष्टद्वारेणैव हेतुत्व मिति भावः । यतो वा-इति । स किमर्थं लम्भयति पूजयति वेति शेषः । तत्र प्रवृत्तिरपि नादृ- ष्टमन्तरेणोपपद्यत इति भावः । शङ्कते- ख्यात्यर्थम् इति । नतु पारलौकिकं किञ्चिल्लिप्समानः पूज- प्रकाशः । इष्टं यागादि । पूर्तं तडागादि । न हीति । बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानजन्यत्वात् प्रवृत्तेरिति भावः । प्रागेवेति निपातसमुदायोऽतिशयार्थः । लाभेति । तथाच दृष्टेष्टसाधन- ताज्ञानादेव तत्र प्रवृत्तिर्न पारलौकिकेष्टसाधनताज्ञानादिति भावः । न हीति । चिरातीतायामेव यागादिक्रियायां लाभाद्युत्पादादिति भावः । यद्वा, स्वरूपतो लाभादिहेतुत्वे, नास्तिकैरपि तत्कर- णप्रसङ्गादिति भावः । यतो चेति । लाभाद्युद्दिश्य यागादौ प्रवर्त्तमानाय परेण धनदानमदृष्टार्थ- मेवेति तत्सिद्धिरित्यर्थः । ख्यात्यर्थमिति । दृष्टार्थमेव तद्दानमिति नादृष्टमुद्देश्यमिति भावः । टिप्पणी । [ पृ० ८७-१ ] यद्वा विद्यमानाश्रयेत्यादि । स्वाश्रयाधिकरणक्षणोत्पन्नद्रव्यनाश इत्यर्थः । [पृ० ८७-२] सासमवायिकारणक इति । असमवायिकारणसहितस्य द्रव्यस्य नाशे । अर्था- दसमवायिकारणनाशोत्पत्तिकक्षणोत्पन्नद्रव्यनाश इत्यर्थः । [पृ० ८७-३] उभयजन्ये द्रव्यनाश इति । पूर्वोत्पन्नविभागादाश्रयनाशक्षण एव यत्रासमवायिनाशस्तत्रोभयजन्यत्वं प्रसिद्धयति । [पृ० ८८-१२] व्यक्तिविशेषमप्रतीति । अन्यवहिविद्यमानोभयनाशकद्रव्यनाश उभयना- शस्य दण्डचक्रादिवत्कारणत्वम्बोध्यम् । यथाश्रुते कार्य्यकारणभावानन्त्यापत्तेः ॥ ६ ॥ [पृ० ९१-१४] एकजातीयत्वात् इति । महत्तत्वादीनां पुरुषभेदेन भेदेप्येकप्रकृतिविकार- त्वादेकजातीयत्वमिति पर्य्यवसितार्थः । [पृ०९१-१५]द्रष्टुं शक्यत्वादिति । ज्ञातुं शक्यत्वा- दित्यर्थः । तेन दशधातोश्चाक्षुषप्रत्यक्षार्थक तया तदभावेऽपि न क्षतिः । अल्पविषयतयाऽनुमानाव- तारसम्भवात् । यद्यप्युपादानगोचरप्रत्यक्षस्यैव कार्य्यजनक तया ब्रह्म नास्मदादिना द्रष्टुं शक्यम् । तथापि तन्मात्राभिज्ञसिद्धावपि न सकलदर्शीश्वरसिद्धिः । यद्वा द्रष्टुं शक्यत्वादित्यनेनादृष्टव्यव- च्छेदः । तथाच नादृष्टाधिष्ठातृत्वेनेश्वरसिद्धिरित्यत्र तात्पर्य्यम् । स्वरूपभेदसहकारिभेदाद्वित्यर्थे इति पूर्वपक्षिणोऽभिमानमिति शेषः । अग्रे दृष्टान्तेऽपीत्यादिना तदूखण्डनमेव करिष्यति । [पृ० ९२-२१] दृष्टान्तेऽप्यविचित्रकारणेति । कारणपदं सामग्रीपरम् , तस्यैव वैचित्र्यनियामकत्वं "तदेवमित्यादि प्रसाधितम्" इत्यन्तेनोपसंहरिष्यति । तथा च दृष्टान्तस्थलेऽपि यस्या वैचित्र्यप्र- योजकत्वं सा विचित्रेवेति भावः । [पृ० ९२-२२] सम्बन्धी न क्रम इत्यादि एकस्य क्रमः, एवं समस्य वैचित्र्यम् परैरपि नाभ्युपगतमित्यतः पूरयति सम्बन्धी कार्याणामिति ॥ ७ ॥ १३ न्या० कु०
६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ८ कारिकाव्याख्यायां यितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् । न । नीतिनर्मसचिवेष्वेव तदर्थं दानादिव्यवस्थापनात् । त्रैविद्यतपस्विनो धूर्त्तबका एवेति चेन्न । तेषां दृष्टसम्पदं प्रत्यनुपयोगात् । सुखार्थं तथा करोतीति चेन्न । नास्तिकैरपि तथाकरणप्रसङ्गात् , सम्भोगवत् । लोकव्यवहारसिद्धत्वादफलमपि क्रियते, वेदव्यवहारसिद्धत्वात् संध्योपासनवदिति चेद्, गुरुमतमेतन्न तु गुरोर्म- बोधनी । यति ददाति वेति । अनुरागो वा किमर्थ इत्यत्रोक्तं-जनानुराग इति । परिहरति-न-इति । ख्या- त्यनुरागार्थयोर्दानपूजयोर्यथाक्रमं नर्मनीतिसचिवयोर्व्यवस्थितत्वादत्र च तदमिसन्धिविरहान्न ताद- र्ध्यमिति । पुनः शङ्कते-त्रैविद्य-इति । वैदिका यागादिकर्त्तारो विप्रलम्भका दृष्टार्थमेव भावयन्तो- ऽदृष्टार्थमिवाचरन्ति, तेऽपि तेन नर्मसचिवप्राया इत्यर्थः । परिहरति न-इति । नीतिनर्मस- चिवा हि दृष्टोपयोगिनः, नैवं त्रैविद्याः, अतस्तेषु पूजादि न दृष्टार्थमिति । ननु तेषां पूजादिकमनु- तिष्ठतः किञ्चिद् दृष्टमेव सुखं जायते, ततस्तदर्थमेव पूजानुष्ठानमित्याह सुखार्थम्-इति । न- इति । न हि तात्त्विकं किञ्चिद् दानादिजन्यं सुखमस्ति, पारलौकिकसुखाध्यवसायादेव हि तदनु- ष्ठायिनस्तदा प्रीतिरिति भावः। शङ्कते-लोक-इति । अनादिना लौकिकाचारेण कर्तव्यतया सिद्ध- त्वादफलमपि दानादि क्रियते, वैदिकविधानेन सिद्धसन्ध्योपासनवत् । तद्विधायकवाक्येषु फला- श्रवणाज् जीवनादिकर्माधिकारालाभाच्च विधित एव अनुष्ठानसिद्धौ फलकल्पनायां प्रमाणाभावादफ- लमेव सन्ध्योपासनादिकमिति भावः । गुरुमतमेतत्-इति । निष्फलं कर्मेति प्राभाकरगुरोरयं प्रकाशः। नीतिनर्मेति । राजादिभिः प्रयोजनमुद्दिश्यैव दानाद्नस्ततपस्विभ्यः प्रयोजनाननुसन्धानेन दा- नामावादित्यर्थः। त्रैविद्येति । त्रिवेदीविदोऽपि तपस्विनः परप्रतारणार्थं तपसि प्रवर्त्तन्त इत्यर्थः। तेषामिति । दृष्टप्रयोजनमुद्दिश्यैव परप्रतारणात् तेषाञ्च दृष्टे निस्पृहत्वात् तदसम्भवः । प्रच्छ- न्नमपि परोपनीतधननिःस्पृहैस्तपःकरणादित्यर्थः । वेदेति । सन्ध्योपासनमकरणे निन्दोपदेशात् प्रायश्चित्तोपदेशाच्च नित्यम् , नित्ये च यदि फलाऽर्थिनः प्रवृत्तिः स्यात् तदा यागवन्नित्यताभङ्ग- प्रसङ्ग इत्यफलैव तत्र प्रवृत्तिः । कार्यताज्ञानं हि तत्र प्रवर्त्तकम् , तच्च लोके पाकादाविष्टसाधनता- ज्ञानात् कार्यताऽनुमित्या निर्वहति । वैदिके च नित्ये कार्यताज्ञानं वेदाधीनमिति किमिष्टसाधनता- ज्ञानेन । न च नित्यापूर्वमेव फलं, तथापि नित्यताभङ्गात् । काम्यस्थले धर्मिग्राहकमानात् काम्य- साधनत्वेनैव सिद्धेर्गौणप्रयोजनतया स्वतःप्रयोजनत्वाभावाच्च लोके प्रवृत्ताविष्टज्ञानान्वयव्यतिरे- प्रकाशिका । भावः । चिरेति । तथा च तद्धेतुत्वमप्यदृष्टद्वारैवेत्यर्थः । दानाभावादिति=दानाभावापत्ते- रित्यर्थः। दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः । सन्ध्योपासनस्य निष्फलत्वे मानमाह । सन्ध्योपासनमिति । निष्फलत्वेऽपि प्रवृत्तिमपपादयति । कार्यताज्ञानं हीति । मकरन्दः । चिरेति । तथाच तद्धेतुत्वमप्यदृष्टद्वारैव स्यादिति भावः । दानाभावादिति । दानाभा- वापत्तेरित्यर्थः । दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः । निष्फलत्वेऽपि तत्र प्रवृत्तिमपपादयति । सन्ध्योपासनमिति । काम्यस्थल इति । अपूर्वस्येति शेषः । टिप्पणी । नच नित्यापूर्वमेव फलमिति । एवकारेण स्वतः प्रयोजनत्वलाभः । अपूर्वसम्पादनीयस्य प्रयोजनस्याश्रुतत्वात् । स्वतः प्रयोजनत्वाभावाच्चेति । उभयसम्प्रतिपन्नस्य काम्यस्थली-
तम्, ततो नेदमनवसर एव वक्तुमुचितम् । वृद्धैर्विप्रलब्धत्वाद् वालानामिति- चेन्न । वृद्धानामपि प्रवृत्तेः । न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते । तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् । न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रता- रणशङ्का स्यात् । इदं प्रथम एव कश्चिदनुष्ठायापि धूर्त्तः पराननुष्ठापयतीति बोधनी । राद्धान्तः, नास्मद्गुरोः, तस्य निष्फलोपदेशासंभवात् । तत्राप्युपात्तदुरितक्षयादिफलमस्तीति राद्धान्तः । यद्वा, गुरु श्लाघ्यं तन्मतमित्युपालम्भगर्भः, न तु गुरोर्हितोपदेशिनः कस्यचिन्मतं-त स्मादप्रस्तुतमिदानीं न वक्तव्यमिति । तस्माद् यागादिकर्तृपूजादेर्दृष्टहेतुभावादवश्यं धार्मिक इति बुद्ध्या तदाचार इत्यभ्युपगन्तव्यम् । तेन यागादेस्तदनुष्ठातृपूजादेश्चामुष्मिकं फलं सिद्धमिति रह- स्यम् । तुरीयपादमवतारयितुं शङ्कामाह—वृद्धैः-इति । बालानां प्रवृत्तिरिति शेषः । न- इति । विप्रलम्भका यत्र परं प्रवर्त्तयन्ति न तत्र स्वयमपि प्रवर्त्तन्त इति । स्वैरेव विप्रलब्धाः प्रवर्त्तन्त इति मन्दाशङ्कां निराकरोति-न-च इति । आत्मवञ्चनमशक्यमप्रयोजनं चेति भावः । तर्हि सर्वेऽपि पूर्वैर्विप्रलब्धाः प्रवर्त्तन्त इत्याह-तेऽपि-इति । सर्वेषामेव भावाभ्युपगमेनेयं विप्र- लम्भकमूला प्रवृत्तिः । अन्यथा संविदानोऽन्यथोपदिष्य प्रवर्त्तको विप्रलम्भकः, न चात्र तादृशः कश्चित् ; अतः प्रमाणमूलत्वमेवोपपन्नमिति भावः । पुनः शङ्कते—इदं प्रथमः-इति । विप्रलि- प्सातिशयेन हि स्वयमप्यनुष्ठानोपपत्तिरिति भावः । तदतिशयप्रदर्शनार्थमुक्तं-धूर्त्तः-इति । किमसाविति धूर्त्तविप्रलम्भकास्तावदुपदेशमात्रेण विप्रलभन्ते । क्वचित्तु केचिदलपायाससाध्येपु कर्मसु स्वयमनुष्ठायापीति संभाव्येत । न तु सर्वस्वदक्षिणादिसाध्ये वैदिककर्मकलापानुष्ठाने कश्चिद् प्रकाशः । काविष्टसाधनताज्ञानजननद्वारा कार्यताज्ञान एवोपक्षोणाविति फलज्ञानं न प्रवृत्तिहेतुः । न चान्य- थाऽपि निष्फले प्रवृत्तिप्रसङ्गः । वेदस्येष्टसाधनत्वस्य वा लिङ्गस्य कार्यताज्ञानहेतोरभावादिति जर- न्मीमांसकमंतं दृष्टान्त इत्यर्थः । अत्र सोपहासमाह । गुरुमतमिति । गुरोः प्रभाकरगुरोः, गुरु महद्वा मतमेतद्, न त्वस्मद्गुरोर्मतमित्यर्थः । निष्फले प्रेक्षावतां प्रवृत्तेरनुत्पादनियमात् प्रयोजनज्ञानस्य प्रवृत्तिहेतुत्वेन निष्फले कार्यत्वस्यायोग्यतया वेदेन बोधयितुमशक्यत्वात् प्रवर्त्तक- स्य कार्यत्वज्ञानस्यासम्भवात् । अत एव नेष्टज्ञानं कार्यताज्ञान एवोपक्षीणम् । अनन्यथासिद्धत्वा- दिति भावः । वृद्धैरिति । तथाच निष्फल एवान्यैः प्रतारणादाकुमारं प्रवृत्तिरिति न तत्र प्रयोजन- गवेषणमिति भावः । विप्रलिप्सुरन्यथाज्ञातमर्थमन्यथा बोधयति, भ्रान्तो वा ? । आद्ये वृद्धानामिति । प्रकाशिका । कार्यस्य साधनत्वेनैव सिद्धेरपूर्वस्येति शेषः । तथा च नापूर्वं स्वतःप्रयोजनम्, काम्यापूर्ववदिति भावः । उपहासबीजमाह । निष्फल इति । तथाचेति । प्रयोजनमिति भावः । अनन्यथासि- द्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाधनताज्ञाने तदुपक्षीणम् । तथापि प्रवृत्तिप्रयोजकतायामपि निष्फले प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । नचैवं नित्यताभङ्गः, त्रिकालकाम्यस्तवपाठवत् मकरन्दः । तथाच तद्गत्तित्यापूर्वस्यापि न स्वतः प्रयोजनत्वमिति भावः । उपहासबीजमाह निष्फल इति । अनन्यथासिद्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाध- नताज्ञानेऽपि तदन्यथासिद्धमित्युपपादितं प्रत्यक्षप्रकाशेऽन्यथाख्यात्यवसरे । त्रिस्त्रीस्वरसोऽप्ये- वमेव । तथापि तस्य प्रवृत्तिप्रयोजकत्वान्निष्फलेऽपि प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । न चैवं नित्यताभङ्गप्रसङ्गः । त्रिकालकाम्यस्तवपाठवत् कामनाऽवश्यम्भावादिति भावः । वृद्धतरैरिति । विप्रलब्धा इति शेषः ।
१०० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ. [८ कारिकाव्याख्यायां चेत्। किमसौ सर्वलोकोत्तर एव, यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्मचर्येण तपसा श्रद्धया वा केवलपरवञ्चनकुतूहली यावज्जी- वमात्मानमवसादयति, कथञ्चैनमेकं प्रेक्षाकारिणोऽप्यनुविदध्युः। केन वा चिह्ने- नायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः ? न ह्येतावतो दुःखराशेः प्रतारणसुखं गरीयः। (१) यतः पाखण्डाभिमतेष्वप्येवं दृश्यते इति चेद् । न । हेतु- दर्शनादर्शनाभ्यां विशेषात् । अनादौ चैवम्भूतेऽनुष्ठाने प्रतीयमाने प्रकारान्तरमा- बोधनी । विप्रलम्भक इत्युत्प्रेक्षितुमपि क्षममिति । अस्तु वा तथाविधो धूर्त्तः कश्चित्, नत्वेकस्यास्य प्रेक्षाव- द्भिर्बहुभिरनुविधानं संभवतीत्याह-कथं च इति । यदि वा सर्वप्रेक्षावदनुविहिताचारस्तथाविधः पुरुषः, किमस्य विप्रलिप्सायां भवतः प्रमाणमित्याह-केन वा-इति । न केवलं प्रमाणाभावः प्रमाणबाधितैव तस्य विप्रलिप्सेत्याह-न हि इति । तस्माद् वैदिकेषु कर्मसूपदेशानुष्ठानाभ्यां परान् प्रवर्त्तयन् सकलप्रेक्षावदनुविहिताचारो लोकोत्तरः कश्चिदिति निश्चेतव्यम् । न च तस्मिन्नना- श्वासो युक्त इति भावः । विश्ववृत्तेर्भ्रममूलत्वमप्यत एव निरस्तं वेदितव्यम् । चोदयति-अथ- इति । बाह्याभिमितेषु चैत्यवन्दनादिषु विश्वप्रवृत्तिर्द्दीपान्तरापेक्षं दृश्यते, ततः साप्युक्तप्रकारेणा न्यथासिद्धां तेषामामुष्मिकफलत्वं कल्पयेदिति भावः । न-इति । ज्योतिष्टोमचैत्यवन्दनयोर्न तुल्य- त्वं, दृष्टहेतुसंभवाच्चैत्यवन्दनादिपरिग्रहस्य तदभावाच्चेतरपरिग्रहस्य । अयं च विशेषः प्रपञ्चयि- ष्यते द्वितीये परिच्छेदे । हेतुदर्शनशून्यैर्ग्रहणार्यार्थानुमानादितरत्र विश्ववृत्तिरभिमताऽसावन्यत्र नास्तीति भावः । किञ्च, यत्र यत्र प्रतारणं तत्र सर्वत्रापि पूर्वसिद्धे कस्मिंश्चिदनुष्ठाने प्रतीयमाने ततः प्रकारान्तरमाश्रित्य प्रतारयितुमात्मनोऽर्थप्रदानादिसुकरोपायोपदेशमात्रेण प्रतारणं भवति, न तु स्वयमनुष्ठानेन । यथा रोगापगमहेतौ भेषजभेदानुष्ठाने पूर्वसिद्धे प्रतारणं ‘मम हस्ते किञ्चित् प्रदी- यतामिदानीमेव सर्वं शमयिष्यामि’ इति । इह दुःखात्मके कर्मणि स्वयमनुष्ठायैव परमनुष्ठापयति, तस्मान्न प्रतारणेयमित्याह-अनादौ-इति। एवं सत्याप्रप्रणीतत्वेन वेदानामेव प्रामाण्यात् तद्विरो- धिनां बौद्धाद्यागमानां प्रमाणविरोधनिबन्धना पाखण्डत्वप्रसिद्धिः सिध्येत्, नत्वन्यथेत्याह प्रकाशः। अन्त्ये, कथं चैनमिति । प्रत्युतानादिप्रवृत्तितया दृष्टफलनिरपेक्षतया चादृष्टफलत्वमेवानुमेयमिति भावः । यत इति । एवं पाखण्डप्रवृत्तिरपि दृष्टफलनिरपेक्षा परलोकसाधनं स्यात् । अन्यथाऽयं परिशेषस्तत्रैव व्यभिचरेदित्यर्थः । हेत्विति । हेतुदर्शनेन कर्मलाघवादिना तादृशी तत्प्रवृत्तिर- न्यथासिद्धा । अत्र तु ब्रह्मचर्यादिदुःखमयकर्म्मप्रधानतया न तत्सम्भव इत्यादेर्द्वितीयस्तवके व- क्ष्यमाणत्वादित्यर्थः । नन्विष्टापूर्त्तादीनां हेतुदर्शनशून्यत्वेऽपीदम्प्रथम एव प्रतारकस्तद्बोधकाग- मस्य प्रामाण्यं भ्रमेण ग्राहयित्वा प्रेक्षावतः प्रवर्त्तयेदित्यत आह । अनादाविति । एवम्भूते- ऽनादौ अविगीते परलोकसाधने । प्रकारान्तरं = सादित्वं विगीतत्वञ्च । यदि वैदिकव्यवहारा- प्रकाशिका । कामनावश्यंभावादिति भावः । प्रत्युतेति । अनादिप्रवृत्तितया सफलत्वानुमानमेव दृष्टफलाभाव- ज्ञानसहकृतमदृष्टफलकत्वं विषयीकरोतीत्यर्थो यथाश्रुते साध्याप्रसिद्धेः । अयं परिशेष इति । विफलेत्यादिकारिकोक्त इत्यर्थः । एवं भूत इति मूलस्य परलोकसाधन इति व्याख्यानमवगीते चे- मकरन्दः । प्रत्युतेति । क्वचिददृष्टफलत्वसिद्धावेव तत् । अन्यथा साध्याप्रसिद्धेरिति ध्येयम् । अय- गरीय इति । तथात्वे त्वयाऽपि तत्करणप्रसङ्गादिति भावः । (१) अथेतिपाठान्तरम् ।
प्रथमस्तवके ] अपूर्वकारणताव्यवस्थापनम् । १०१
श्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्यात्, न त्वनुष्ठानागोचरेण कर्मणा । अन्यथा प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् ॥ ८ ॥ अस्तु दानाध्ययनादिरेव विचित्रो हेतुर्जगद्वैचित्र्यस्येति चेन्न ।
बोधनी । अन्यथा इति । अन्यथा-यदि वैदिकमनुष्ठानं प्रतारणायत्तं भवेदित्यर्थः । यद्वा, यदि वञ्चकः स्वयमप्यनुतिष्ठेत् ततो बौद्धागमानां प्रतारणपरत्वे प्रमाणाभावादाप्तोक्तत्वसिद्धौ प्रमाणं विरोधासंभ- वात् तन्निबन्धना पाखण्डत्वप्रसिद्धिर्न स्यादिति । अनादावित्यादेरपरा व्याख्या- कस्यचिदनुष्ठाने प्रागसिद्धे ह्यनुष्ठानमात्रस्यैवाज्ञानाद्विप्रलिप्- सोपदेशमात्रेण प्रतारणानुपपत्तेरवश्यमनुष्ठानायैव प्रतारणं स्यात् । प्रागेव तु ज्योतिष्टोमानुष्ठान- सिद्धौ प्रकारान्तरोपदेशमात्रेण स्वयमनुष्ठायैव प्रतारणं संभवति । नन्वनुष्ठानायैवेति विपरीतं कि- मिति न स्यादित्यत आह- अन्यथा इति । चैत्यवन्दनादीनां प्रमाणमूलत्वे प्रमाणविरोधासं- भवात् तदागमानां पाखण्डत्वप्रसिद्धिर्न स्यादित्यनुष्ठानागोचरेण कर्मणेति केचित् पठन्ति । तत्रा- यमर्थः-यदि वैदिकानुष्ठानात् पूर्वसिद्धं किञ्चिदनुष्ठानं स्यात् ततः पश्चात्तनं वैदिकमनुष्ठानं तत्र प्रतारणपरं स्यात् । न तु पूर्वसिद्धानुष्ठानागोचरेण कर्मणा प्रतारणं संभवति । सर्वत्र पूर्वसिद्धानु- ष्ठानविषयत्वात् प्रतारणस्येति । अयं च प्रथमव्याख्यायां संगच्छेत ॥ ८ ॥ प्रत्यात्मनियमाद् भुक्तेरित्याद्यपूर्वसद्भावहेतुः कालान्तरे फलोपभुक्तिरपूर्वस्यात्मसमवाये हे- तुश्च भुक्तेः प्रत्यात्मनियमः संगृहीतः । तत्रापूर्वसिद्धौ तस्यात्मसमवायः शक्यसाधन इति तत्- सिद्धिहेतुं तावद् भुक्तिमवतारयितुमाशङ्कते - अस्तु इति । अत्रैवैकारोऽपूर्वव्यवच्छेदार्थः, जग- द्वैचित्र्यस्यामुष्मिकफलस्येत्यर्थः । परिहरति-न-इति ।
प्रकाशः । तिरिक्तोऽनादिरविगीतश्च व्यवहारः प्रामाणिकः स्यात् तदायमाधुनिको वैदिकव्यवहारः परप्रतार- णपर इति व्यवह्रियेत यथाऽनादिसिद्धः पिपासोपशमनं तोयपानमिति व्यवहारः । अन्नभक्षणं पिपासोपशमनमित्याधुनिक उपदेशः परप्रतारणपर इति निश्चीयते । न त्वेवमित्याह । न त्विति । तस्मादयमेव व्यवहारः प्रामाणिको, न परप्रतारणपर इत्यभ्युपेयमिति भावः । अनभ्युपगमे त्वप्रा- माणिकत्वाविशेषात् पाखण्डापाखण्डमतभेदो न स्यात् । तथाच प्रमाणेन खण्डिताः पाखण्डा इत्यपि न स्यादित्याह । अन्यथेति ॥ ८ ॥ अस्त्विति । न तु तज्जन्यमदृष्टमित्येवकारार्थः । तथाचादृष्टाधिष्ठातृत्वेन ईश्वरानुमानमा-
प्रकाशिका । त्यपि द्रष्टव्यम् । तेनाग्रे प्रकारान्तरकथने विगीतत्वोपादानं घटते । आधुनिक इति । सादिरुपदेशो विगीतश्चेत्यपि द्रष्टव्यम् । अन्नभक्षणं पिपासोपशमनसाधनमित्युपदेशे च विगीतत्वं शिष्टव्यवहारा- विषयत्वमप्रामाणिकत्वं वा बोध्यमिति । इत्यपीति । असाधारयेनेति शेषः । तथाचोभयोः पाखण्डत्वमपाखण्डत्वं वा व्यवह्रियेतेति भावः ॥ ८ ॥
मकरन्दः । मिति । विफला विप्लववृत्तिरित्यादिरित्यर्थः । आधुनिक इति । सादिरूपदेश इत्यर्थः । अवि- गीतश्चेत्यपि द्रष्टव्यम् । यद्यपि वेदानिषिद्धत्वमविगीतत्वं न तत्र, तथापि शिष्टव्यवहाराविषय- त्वमप्रामाणिकत्वं वा तदित्येके । परदुःखहेतुतया सामान्यतस्तत्रापि निषेध इत्यन्ये । इत्यपीति । असाधारण्येनेति शेषः । तथाचोभयस्यापि पाखण्डत्वमन्यतरस्यापि वा नेति भावः ॥ ८ ॥
१०२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ९ कारिकाव्याख्या क्षणिकत्वात्, अपेक्षितस्य कालान्तरभावित्वात् । चिरध्वस्तं फलायालं न कर्मातिशयं विना । सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि ॥ ९ ॥ तस्मादस्त्यतिशयः कश्चित् । ईदृशान्येवैतानि स्वहेतुबलायातानि, येन नियत भोगसाधनानीति चेत् । तदिदममीषामतीन्द्रियं रूपं सहकारिभेदो वा ? । बोधनी । एतदेव विभजते—चिरध्वस्तम् इति । फलाय कालान्तरभाविन इति शेषः । अपूर्वसि- द्धावपि तस्य प्रत्यात्मसमवायः न तु प्रतिभूतमिति कथं सिध्येदित्यत्र प्रत्यात्मनियमाद् भुक्तेरिति हेतुं व्याचष्टे—सम्भोग-इति । अपूर्वसंस्कृतेष्वपि शरीरेन्द्रियादिभूतेषु नित्यत्वविभुत्वाभ्यां सकलशरीरप्राप्तानामात्मनामपूर्वेणाविशेषितत्वे संविभज्य भोगः प्रतिनियतभोगो न सिध्येद्, दृश्यते चासौ, तस्मादात्मसमवाय्यपूर्वमिति निगदव्याख्यातत्वेन पूर्वार्धार्थं निगमयति—तस्मात्- इति । तत्र शङ्कते—ईदृशानि-इति । क्षणभङ्गुराण्यपि कर्माणि स्वकारणवशादीदृशान्येव सिद्धानि येनापूर्वजनन मन्तरेण कालान्तरभावित्वेन नियतानामेव फलानां साधनानि स्युः । तेषां कालान्तरफलानुगुणं किञ्चिद् रूपमस्तीत्यर्थः । ईदृशशब्दविवक्षितं रूपं तद्विकल्पयति-तदिद- म्-इति । न तावद् दृश्यमानं रूपं फलानुगुणं क्षणिकत्वाद् ; अतस्तदतीन्द्रियमभ्युपगन्तव्यम् । प्रकाशः । श्रयासिद्धमिति भावः । क्षणिकत्वादिति । आशुतरविनाशित्वादित्यर्थः । चिरध्वस्तमिति । फलस्य स्वर्गादेः कालान्तरभावितया न तन्नाशुविनाशिनः साक्षात्साधनत्वमिति प्रतीतसाधनत्वा- नुपपत्त्या तज्जन्यापूर्वकल्पनमित्यर्थः । अतिशयं विना चिरध्वस्तं कर्म न फलायालं समर्थमिति योजना । साक्षात्साधनत्वाभावेऽपि साधनत्वस्य फलसमयपर्यन्तस्थायिव्यापारव्याप्तत्वादिति भावः । ननु चादृष्टसिद्धावपि भूतधर्म एव तदस्त्वित्यत आह । सम्भोग इति । सम्भोगः= समीचीनो नियतो भोगो, निर्विशेषाणाम्=अदृष्टरूपविशेषरहितानामात्मनो न स्यात्, संस्कृ- तानां भूतानां साधारणत्वादित्यर्थः । अत्र स्वहेतुबलोत्पन्नस्वरूपविशेषवन्ति शरीरादीनि नियता- ऽऽत्मभोगसाधनानि सन्त्विति शङ्कते । ईदृशानीति । एतद्विकल्प्य व्याघाताभिमतसिद्धिभ्यां परिहरति । तदिदमिति । रूपं स्वरूपम्, अतीन्द्रियस्वभावत्वमित्यर्थः । सहकारिभेदोऽतीन्द्रि- प्रकाशिका एकक्षणावस्थायित्वमप्रसिद्धमित्यत आह । आशुतरेति । साक्षात्साधनत्वाभाव इति । अव्यवहितपूर्ववर्त्तित्वाभाव इत्यर्थः, चिरनष्टे दण्डे चक्रभ्रमिद्वारा घटजनके व्यभिग्रहः । न च विपक्षबाधकाभावः, स्वंस्वव्यापारान्यतरान्यव्यवहितपूर्वसत्तया एव कारणत्वात्, अन्यथा घटत्वा- वच्छिन्नं प्रति रासभस्य कदाचित् पूर्वसत्तानियमेन कारणत्वापातात् । केचित्तु कार्यकादाचित्कत्वनि- यामकत्वेन कारणकल्पना तच्चान्यव्यवहितपूर्ववर्त्तिनैव नियम्यते, अन्यथा पूर्वमपि स्वोत्पत्तेः कार्यस्य कालसम्बन्धापत्तिरित्याहुः । तदयुक्तम् । तथासति योग्यस्य व्यापारद्वाराप्यकारणत्वापत्तेः । तस्मात् कादाचित्कत्वं कारणमात्रनियम्यं स्वोत्पत्तिपूर्वमनुत्पत्तौ त्वव्यवहितकारणव्यक्त्यभाव एव प्रयोजको नैतावता कारणमात्रेऽतीते व्यापारकल्पनमिति ॥ ९ ॥ मकरन्दः । एकक्षणमात्रस्थायित्वमसिद्धमित्यत आह । आशुतरेति । फलसमयेति । यद्यपि चिरध्वस्तकारणत्ववादिनः क्वचिदपि व्यापाराप्रसिद्धेर्व्यतिरेक्यन्तरासिद्धा, तथापि चिरातीताद्दण्डा- दिना घटाद्यजननात् परोऽपि तथाऽङ्गीकारयितव्य इति स्वमतावष्टम्मेनोक्तमिदम् ॥ १ ॥ टिप्पणी । यापूर्वस्य स्वतः प्रयोजनत्वाभावे नित्यापूर्वस्यापि तत्त्वस्यायुक्तत्वादित्यर्थः ॥ ८-९ ॥
प्रथमस्तबके ] अपूर्वकारणताव्यवस्थापनम् । १०३ न तावदैन्द्रियकस्यातीन्द्रियं रूपम् , व्याघातात् । द्वितीये त्वपूर्वसिद्धिः ॥ ९ ॥ सिद्धयतु भूतधर्म एव गुरुत्वादिवदतीन्द्रियः । अवश्यं त्वयाऽप्येतदङ्गी- करणीयम् । कथमन्यथा मन्त्रादिभिः प्रतिबन्धः । तथाहि । करतलानलसंयोगाद्
बोधनी । तच्चातीन्द्रियममीषां कर्मणां स्वरूपं वा सहकारिभेदो वेति । न तावत् पूर्वः कल्पः, ऐन्द्रियक- त्वादतीन्द्रियत्वलक्षणविरुद्धधर्मसंसर्गोद्भेदप्रसङ्गेनैकत्वव्याघातादित्यत आह—न तावत्-इति । द्वितीयस्तु सिद्धसाधनमित्याह । द्वितीये तु-इति । कर्मणां फलोत्पत्यनुगुणोऽतीन्द्रियः सहकारिभेद एवापूर्वम् । तु शब्दोऽभ्युपगमसूचनार्थः । अत्र कश्चिद् विपश्चिदन्यो व्याचष्टे-समस्तस्यैव श्लोक- स्यार्थं निगमयति-तस्मादस्त्यतिशयः कश्चिदिति । आत्मसमवेत इति शेषः । ईदृशानीति । **भूतानि=**ईदृशान्येवात्मसमवेतमपूर्वमन्तरेणास्मदाद्यनुपलक्षणीयरूपविशेषविशिष्टानि जायन्ते । येन भूतानि नियतोपभोगसाधनानीति । सुगममन्यत् ॥९॥ सम्भोगे निर्विशेषाणामिति विवरीष्यम् तद्वि- परीतं चोदयति-सिद्ध्यतु-इति । सत्यं, यागादिजन्यमपूर्वमस्ति, तच्च भूतधर्म एवास्तु न त्वात्म- धर्मः, गुरुत्ववेगादिवदिति । ननु रूपादय एव भूतधर्मा दृश्यन्ते कथं तदतिरेकिणोऽपूर्वस्य भूतधर्म- त्वमित्यत आह—अवश्यम्-इति । त्वया नैयायिकमानिनापि कश्चिदतीन्द्रियः कार्योदयानुकूलो भूतधर्मः शक्त्यादिपदवेदनीयोऽङ्गीकरणीयः, तथाऽपूर्वमपि भूतधर्मो भविष्यतीति भावः । शक्तेर्वा कथमङ्गीकरणीयतेत्यत आह-कथमन्यथा-इति । मन्त्रादिभिर्दाहादिकार्यप्रतिबन्धस्तावद् दृश्यते, स चान्यथानुषपद्यमानः शक्तिं कल्पयतीति । तदेव विभजते-तथा हि-इति- । यादृशा- दग्नेः पूर्वं दाहो जातः तादृशादेव दृष्टवैकल्यरहितादेव न जायते दाहः । तेन दृष्टस्य व्यभिचाराददृष्टं
प्रकाशः । यसहकारी । यद्वा, रूपं धर्मो जातिरूपोऽजातिरूपो वा ? आद्ये । न तावदिति । व्यक्तियोग्यत- यैव जातेर्योग्यत्वादित्यर्थः ॥ ९ ॥ अन्त्यं शङ्कते । सिद्धयत्विति । नैतावताऽप्यात्मधर्मापूर्वसिद्धिः । भूतवृत्त्यतीन्द्रिय- धर्मादेवोपपत्तेरिति भावः । गुरुत्वादिवदित्यादिपदेन मीमांसकाभिमतशक्तिर्गृह्यते । तत्र शक्तार्थापत्तिं प्रमाणयति । तथाहीति । शक्तौ विप्रतिपत्तिः । कारणानि स्वजन्यानुकूलादृष्टा-
प्रकाशिका । अन्त्यमिति । द्वितीयव्याख्यानुसारेणेदम् । प्रथमव्याख्यायान्तु सहकारिभेदोऽपूर्वमेवास्तु भू- तधर्म एव कश्चनातीन्द्रियोऽस्त्वित्याशङ्केति ध्येयम् । कारणानीति । पण्डापूर्वे भागबाधा इति कारणत्वपर्यन्तं पक्षतावच्छेदकं, गुरुत्वस्थितिस्थापकादिमत्त्यंशतः सिद्धसाधनमिति स्वज- न्यानुकूलेति । तदर्थश्च स्वनििमित्तकारणानुकूलत्वं स्थितिस्थापकश्च स्वाश्रयसमवायिकारणककर्मा- नुकूलमिति तस्य व्युदासः । केचित्तु स्वजन्यानुकूलत्वं ताद्रूप्यसिद्धये विशेषणं यथाश्रुतार्थकमेव, स्थितिस्थापकाश्रयभिन्नस्यैव च पक्षत्वमतो न सिद्धसाधनमंशत इत्याहुः । अदृष्टपदं च अदृष्टवदा-
मकरन्दः । कारणानीति । वस्तुमात्रपक्षत्वे भागवाघादिरजनके पण्डापूर्वादौ तन्मते स्यादिति कार- णीत्युक्तम् । नचादृष्टस्थितिस्थापकगुरुत्वादिकमादायापि पृथिव्यादिष्वंशतः सिद्धसाधनम् । त- द्विन्नकारणस्यैव पक्षत्वात् । न च पक्षतावच्छेदकैक्ये तद्दोष एव नेति वाच्यम् । प्राचीनमतेनैवो- क्तत्वाद् , अन्यथा अदृष्टपदप्रक्षेपानुपपत्तेः । अत एव वक्ष्यमाणहेतुपक्षतावच्छेदकयोर्नाभेदः । स्वजन्यानुकूलत्वं ताद्रूप्यसिद्धये । यद्वा, स्थितिस्थापकवतोऽपि पक्षान्तर्भावात् तमादायांशतः सिद्धसाधनवारणार्थं तत् । तदर्थश्च स्वनििमित्तकारणानुकूलत्वमित्याहुः । अदृष्टपदमदृष्टवदात्मसं-
१०४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकावतरणिकायां यादृशादेव दाहो दृष्टः, तादृशादेव मन्त्रादिप्रतिबन्धे सति दाहो न जायते, असति बोधनी । किमपि कार्यान्यथानुपपत्त्या कल्पनीयमिति भावः । तत्र दृष्टादृष्टयोरन्यतरवैगुण्येनार्थानुपप- प्रकाशः । तीन्द्रियभावभूतधर्मवन्ति न वा? आत्मन्यदृष्टं तथा प्रसिद्धम् । यद्वा, कारणतावच्छेदकत्व- मतीन्द्रियत्वव्याप्यं न वेति सामान्यतः । विशिष्य तु, वह्निर्दाहानुकूलादृष्टातीन्द्रियभावभूतधर्म- वान्न वा ? करतलानलसंयोगो वा तादृशधर्मसमवायी न वा? आत्मा तथा प्रसिद्धः । अनुकूलत्वञ्च प्रकाशिका । त्संयोगमादायांशतः सिद्धसाधनवारणाय (१) प्राचीनमते तस्य पक्षतावच्छेदकैक्येऽपि दोषत्वात् । अत एव स्थितिसंस्थापकादिमिति तद्वारणाय पूर्वं प्रयत्नः कृतः । अदृष्टपदं चाव्यासज्यवृत्त्यर्थकमतोऽधि- करणभेदेनाभावभेदाभावादद्विष्ठपदेनैवाभाववारणे भावभूतपदमनर्थकमितिदूषणं परास्तम् । अती- न्द्रियपदमुष्णस्पर्शादिना सिद्धसाधनवारणाय, अनुपलब्धिगम्याभाववादिनो भट्टस्य मतेऽभावस्य सर्व- स्याप्यतीन्द्रियत्वम् । न्यायमतेऽचादृष्टाद्यभावस्यातीन्द्रियत्वमिति तद्वारणाय भावभूतेति । धर्मपदञ्च साक्षात् सम्बन्धलाभाय तेन न परम्परासम्बद्धतादृशधर्मेणार्थान्तरम् । यद्वेति । तन्मते शक्तेरेव सर्वत्र कारणतावच्छेदकतया तस्याश्चातीन्द्रियत्वाद् विधिकोटिप्रसिद्धिः । न च तन्मतेऽभावस्या- तीन्द्रियतया तस्यैवावच्छेदकत्वमस्त्वित्यर्थान्तरं धर्मपदस्य समवेतपरत्वात् न्यायमते तु दण्ड- त्वादेरपि कारणतावच्छेदकत्वान्निषेधकोटिप्रसिद्धिः । वह्निरिति । दाहानुकूलत्वं ताद्रूप्यसिद्धये- विशेषणम् । तादृशेति । दाहानुकूलातीन्द्रियेत्यर्थः । अतीन्द्रियपदमत्र संयोगत्ववारणाय । नन्वनु- कूलत्वं यदि जनकत्वं तदा बाधः शक्तेरजनकत्वात् यदि च जनकतात्वच्छेदकत्वं तदा दृष्टान्ता- सिद्धिः, अदृष्टस्यानवच्छेदकत्वादत आह । अनुकूलत्वं चेति । व्याप्तिरत्र कालिकी । न च प्रागभावगर्भस्यास्य नित्यस्थलेऽसम्भवः, तदगर्भस्य च दण्डाभावे सत्यपि घटसत्त्वेन व्यभिचारादन्या- मकरन्दः । योगेन सिद्धसाधनवारणार्थमन्यासज्जवृत्त्यर्थपरम् । अन्यथा अधिकरणभेदेनाभावभेदानभ्युपगमे तत एव प्रतिबन्धकाभावव्यवच्छेदे भावपदमनर्थकं स्यात् । उष्णस्पर्शादिना अंशतः सिद्धसाधन- वारणायतीन्द्रियेति । न च तत एव प्रतिबन्धकाभाववारणे भावपदवैयर्थ्यं, भट्टमतेऽनुपलब्धि- गम्यतया तस्यातीन्द्रियत्वात् । दुरदृष्टादिप्रतिबन्धकाभावस्याऽतीन्द्रियत्वाच्च । यथाकथ- ञ्चित् सम्बन्धितयाऽदृष्टेनैवार्थान्तरवारणाय धर्मपदम् । न हि तदन्यधर्मस्तदनाश्रितत्वादित्याहुः । यद्वेति । न च प्रतिबन्धकाभावमादाय भट्टमतेऽर्थान्तरम्, धर्मपदस्य भावपरत्वादिति वदन्ति । दाहानुकूलत्वमत्र ताद्रूप्यसिद्धयर्थमेव । तादृशेति । दाहानुकूलातीन्द्रियेत्यर्थः । अत्र च संयो- गत्वेनार्थान्तरवारणायातीन्द्रियेति । नन्वनुकूलत्वं यदि जनकत्वं, तदा तन्मतेऽपसिद्धान्तः । अथाऽवच्छेदकत्वं, तदास्मन्मतेऽ (१) पक्षतावच्छेदकस्य साध्यतावच्छेदकधर्माक्रान्ततया साध्यरूपत्वे पक्षतावच्छेदकीभूत- साध्यमादायापि सिद्धसाधनं दोषः प्राचीनमते, तन्मते तद्व्यावृत्तमेव साध्यतावच्छेदकं कर- णीयम् । नवीनमते पक्षतावच्छेदकीभवत्साध्येन सिद्धसाधनं न दोषः, साध्यतावच्छेदकस्यासिद्धसा- धारणस्येष्टतावच्छेदकत्व' भवात् तन्मते तत्साधारणमपि साध्यतावच्छेदकं भवत्येव, समानप्रका- रकसिद्धेरेव नव्यमते विरोधित्वादिति भावः । अदृष्टवदात्मसंयोगविशिष्टवह्नेरेव कारणत्वेन स्थिति- स्थापकविशिष्टस्यैव वंशस्य कर्मकारणत्वेन कारणपक्षकानुमाने तेषां पक्षतावच्छेदकत्वं बोध्यम् ।
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १०५ तु जायते, तत्र न दृष्टवैगुण्यमुपलभामहे । नापि दृष्टसाङ्गुण्येऽदृष्टवैगुण्यं सम्भावनीयम्, तस्यैतावन्मात्रार्थत्वात् । अन्यथा कर्मण्यपि विभागः कदाचिन्न बोधनी । त्तिमाशङ्कयाह—तत्र—इति । एतावन्मात्रार्थत्वादिति । दृष्टकारणसमवधानमात्रार्थत्वा- ददृष्टस्येति । एतदेव कुत इत्यत आह—अन्यथा—इति । यदि दृष्टकारणसाङ्गुण्यातिरेकेणाह- प्रकाशः । कार्याभावव्याप्याभावप्रतियोगित्वं कारणतदवच्छेदकोभयसाधारणमिति नापसिद्धान्ताप्रसिद्धी । अर्थापत्तौ दृष्टादृष्टान्यतरवैगुण्येनान्यथोपपत्तिं निराकरोति । तत्रेति । दाहकोष्णस्पर्शस्य पूर्ववत् सत्त्वादित्यर्थः । न च मन्त्रादिना स एव नाश्यते, पुरुषान्तरेणौष्ण्यानुभवादिति भा- वः । तस्येति । अदृष्टस्य दृष्टसाकल्यमात्रार्थत्वादित्यर्थः । ननु परमाणुकर्मणि, अध्ययनतुल्यत्वेऽप्येकत्र फलाभावे, वन्ध्यासम्प्रयोगे चादृष्टविलम्बो दृष्टो दृष्टोपसंहारे सत्यपि । मैवम् । अदृष्टविलम्बो हि न तावन्नाशानुत्पादौ । मण्याद्यपसारणानुपदं दाहाद्यापत्तेः । अदृष्टोत्पादकस्य तत्राभावात् । अदृष्टजनकशौचाऽऽचमनादेः साधारणस्याप्यत्रान्व- यापत्तेः । अशुचेरेव च तदुत्पादे शौचे सति तदभावापत्तेः । अदृष्टाद्यन्ताभावस्य च तत्राभावात् । कदाचिद्दाहात् । दाहादिकार्यविशेषे यावद्दृष्टसमवधानेऽवश्यमदृष्टसद्भावात्तदभिप्रेत्य एतदुक्तमित्यन्ये । ननु मण्यादिना दाहप्रतिपक्षस्यादृष्टभेदस्योत्पादनाद्दाहस्याभावः स्यात् । न चान्यन्तरेणापि तस्य दाहाभावापत्तिः । प्रतिनियताग्निसাধ্যदाहप्रतिपक्षस्यैवादृष्टस्यानेन जननात् । औषधिलि- प्तकाष्ठादिषु लेपकारिपुरुषनिष्ठस्य तस्योत्पादनात् । अदृष्टविशेषार्जितप्रतिपक्षसमवधानस्य वा प्रतिबन्धकत्वम् । स च दाहाभावकल्प्यः । मैवम् । तस्योत्तेजकाभावविशिष्टमण्वजन्यत्वे निय- मेनादाहार्थिनस्तत्राप्रवृत्त्यापत्तेः । तज्जन्यत्वे तु प्रथमोपस्थितोपजीव्यत्वेन तदुत्पादकस्यैव हेतु- त्वौचित्यात् । प्रतिबन्धकाभावहेतुत्वस्य तथाप्यभ्युपगमात् । अन्यथेति । अविनश्यदवस्थकर्मण्यपीत्यर्थः । अतो यदभावात् कार्याभावस्तदह्वयादावभ्यु- प्रकाशिका । तिरिति वाच्यम् । अनित्यकारणमात्रपक्षत्वे प्रांगभावगर्भस्यैवादुष्टत्वात् । इदञ्चात्मनोऽपि दृष्टान्तार्थ मुक्तम् वस्तुतोऽनुकूलत्वमवच्छेदकत्वमेव दृष्टान्तस्य धर्मत्वादिकमादाय धर्मादिरेवेति ध्येयम् । अशुचेरेवेति । यद्यपि शौचाशौचयोरन्यतरसत्त्वेऽपि कस्य चिददृष्टस्योत्पत्तिर्भवत्येव, तथाप्य- दृष्टजनकत्वमेव तत्र नास्ति, न चोत्तजकाभावसहितमणिरैव तथा, तस्यादृष्टजनकत्वे मानाभावादित्येव दूषणम् । कचिददृष्टस्य साक्षात्प्रतीतिप्रतिबन्धकत्वं यदि सिद्धं तदान्यत्रापि तथैव कल्प्यते क्लृप्त- जातीयत्वादित्यरुचिं विभावयति अन्य इति । लेपेति । स्वयमौषधलिप्तकाष्ठस्थले चौषधलेपकारि पुरुषसमवेतमेवादृष्टमिति भावः । तज्जन्यत्वे त्विति । वस्तुतस्तस्य जनकत्वे मानाभाव एवेत्युक्तम् । मकरन्दः । प्रसिद्धिरित्युभयानुगतमाह । कार्येति । व्याप्तिश्च कालिकी । न च प्रागभावगर्भतया नित्यशक्ता- वव्याप्तिः । अनित्यकारणमात्रपक्षत्वे तथाप्यदोषात् । लेपेति । दैववशादौषधलेपादौ यदादृष्ट- टिप्पणी । नापसिद्धान्ताप्रसिद्धी इति । कारणतावच्छेदकतारूपत्वेऽदृष्टस्यातथात्वाद् दृष्टान्ताप्रसिद्धिः। कारणतारूपत्वे शक्तेरतथात्वाभ्युपगमादपसिद्धान्तः । ननु परमाणुकर्म्मणीति । इतरस- कलकारणे सत्यपि परमाणुक्रियायाः प्रलयादौ विलम्बे । अध्ययनतुल्यत्वेऽपीति । शिष्ययो- रिति शेषः । वन्ध्यासम्प्रयोगे चेति । फलाभाव इत्यनुपज्यते । हेतुत्वौचित्त्वादिति । नचेष्टापत्तिः, 'नच प्रतिबन्धके'त्यादिना मूल एव निराकरिष्यमाणत्वात् । तथाप्यभ्युप- १४ न्या० कु०
१०६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकावतरणिकायां जायेत। न च प्रतिबन्धकाभावविशिष्टा सामग्री कारणम्। अभावस्याकार- णत्वात्। तुच्छो ह्यसौ। प्रतिबन्धकोत्तम्भकप्रयोगकाले च तेन विनापि कार्यो- त्पत्तेः। प्राग्ध्वंसादिविकल्पेन चानियतहेतुकत्वापातात्। अकिञ्चित्करस्य प्रति- बोधनी। ष्टस्य कार्यं प्रति व्यापारोऽङ्गीक्रियते तर्हि कर्मणि सत्यपि कार्यविभागः कदाचिन्न जायेत अदृष्टवै- गुण्यसंभवादिति । उभयवादिसिद्धप्रतिबन्धकाभावेनान्यथोपपत्तिमाशङ्कयाह- न च-इति । किंमिति कारणं न भवतीत्यत आह-तुच्छ-इति । विधिरूपविरहस्तुच्छत्वमिति । ननु विधिरू- पेण तुच्छत्वेऽपि स्वरूपेण सतः कथं कारणत्वानुपपत्तिरित्यत आह-प्रतिबन्धक इति । उत्त- म्भकप्रयोगकाले प्रतिबन्धकस्य सत्त्वात् तेन प्रतिबन्धकाभावेन विनापि कार्योत्पत्तेर्व्यभिचाराद- कारणमभाव इति । इतश्चाकारणमभाव इत्याह-प्राक्-इति । न तावत् प्रागभावः कारणं, प्रध्वंसे व्यभिचारात्, न च प्रध्वंसः, प्रागभावे व्यभिचारात्, नात्यन्ताभावः, इतरत्र व्यभिचारात्, न च समुच्चयेन, प्रत्येकं व्यभिचारात् असम्भवाच्च, नापि विकल्पेन, अनियतहेतुकत्वप्रसङ्गादिति । तथाचान्वयव्यतिरेकयोर्व्यभिचारादिति । एवं कार्यान्यथानुपपत्तिं शक्तिसद्भावे प्रमाणयित्वा प्रति- बन्धकत्वान्यथानुपपत्तिमपि प्रमाणयति-अकिञ्चित्करस्य-इति । दृष्टेऽग्न्यादिस्वरूपे प्रतिब- न्धादर्शनाददृष्टमनभ्युपगच्छतो मण्यादीनां प्रतिबन्धकत्वं न संभवतीति । अस्तु किञ्चित्करस्ततः प्रकाशः। पेयम्। तेन विना तदभावाधीनदाहाद्यभावानुपपत्त्याऽर्थापत्तेः शक्तिसिद्धिरिति भावः। ननु यत्किञ्चिद्दाहप्रयोजकाभावस्तंत्र सिद्धयति, न तूक्तरूपः। यद्भावे दाहाभावस्तदभाव एव प्रयोज- कोऽस्तु, अन्वयाद्यनुविधानादुभयसिद्धत्वाच्चेत्यत आह । न चेति । तुच्छो हीति । तुच्छ- त्वं विधिरूपरहितत्वम् । अत्र कारणत्वं विधित्वव्याप्यमित्याशयात् । न त्वलीकत्वम्, मीमांस- कैस्तथाऽनङ्गीकारात् । एतच्चाग्रे स्फुटम् । व्यतिरेकव्यभिचारमाह । प्रतिबन्धकेति । एकप्र- तिबन्धकसत्त्वे तदन्यप्रतिबन्धकाभावे कार्यानुदयादन्वयव्यभिचारोऽपीति भावः। सामान्यतो व्यतिरेकव्यभिचारमुक्त्वा विशिष्य तमाह । प्रागिति । परस्परव्यभिचारेण प्रतिबन्धकाभावहे- तुत्वस्य ग्रहीतुमशक्यत्वाद् न तेनान्यथोपपत्तिरित्यर्थः । तावतामुपसंग्राहकश्चैक उपाधिर्ना- स्तीत्यभिमानः। अत्र प्रागभावेति वक्तव्ये प्रध्वंसपदगम्याभावविशेषणतया प्रागभावस्य- प्राप्तेः प्रागित्येतावन्मात्रमुक्तम् । प्रतिबन्धकत्वान्यथानुपपत्तिरूपामप्यर्थापत्तिमाह । अकि- ञ्चिदिति । प्रतिबन्धजननं विना प्रतिबन्धकत्वानुपपत्तेरित्यर्थः । अथ शक्तिनाशरूपप्रति- प्रकाशिका। अदृष्टविशेषाजितमणिसमवधानस्य प्रतिबन्धकत्वमाशङ्कितमपि न निराकृतम् । दृष्टेनैव विशिष्टाभा- वेनान्यथोपपत्तेः। तत्कल्पनायां मानाभावात् । अत एव मणिसमवधानजनकादृष्टस्यापि न प्रतिबन्ध- कत्वमाशङ्कितं समवधानपूर्वं दाहापत्तेश्च, अदृष्टस्य तस्य पूर्वत एवानुवृत्तेः, तदा तदुत्पत्तौ कारणा- भावात् । अविनाशयदवस्थकर्मणीति षष्ठीसमासः। मीमांसकैरिति । भट्टैरतिरिक्तस्य प्राभाकरैरधिक- रणरूपस्यानलीकस्यैव स्वीकारादित्यर्थः। अन्वयव्यभिचारोऽपीति। प्रतिबन्धकाभावत्वेन कार- णत्वात् कारणतावच्छेदकावच्छिन्नियतकिञ्चित्समवधान एव च कार्योत्पादादिति भावः। अत्रेति। अभाववाचकध्वंसपदसन्निहितस्य प्राक्पदस्य लक्षण्या प्रागभावोपस्थापकत्वमिति भावः। प्रतिब- मकरन्दः। योजके पुरुषे तदुत्पत्तिरिति भावः। मीमांसकैरिति । यद्यपि तैरभावो नाङ्गीक्रियते एव, तथाप्यधिकरणात्मकस्यापि