भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

द्वितीयस्तबके ] प्रमास्वतस्त्वखण्डनम् । २११ तथा हि। प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना, कार्यत्वे सति तद्विशेषत्वात् अप्र- बोधनी। प्रमापारतन्त्र्यं तावदनुमानेनोपपादयति-तथाहि-इति। प्रमात्वं नामौपाधिकसामान्यविशेषः। तस्य नित्यत्वेनानुत्पाद्यत्वात्, तदाश्रयो यथार्थानुभवलक्षणो ज्ञानविशेषः प्रमाशब्देन पक्षीक्रियते। ज्ञप्तिपक्षे च विरोधात् प्रामाण्यशब्देन प्रमाणत्वमेव पक्षीकरिष्यते, सेयं प्रमाऽप्रमासाधारणज्ञानसामा- न्यहेत्वधीना भवति, कार्यत्वे सति ज्ञानविशेषत्वादप्रमावदिति। व्याप्तिद्वयमत्राभिसंहितं-यो यत्कार्य- विशेषः स तत्सामान्यहेत्वतिरिक्तहेत्वधीनः, यथा कलमाङ्कुरः, न ह्यङ्कुरविशेषः कलमाङ्कुरोऽङ्कु- रसामान्यहेतोर्बीजादेव भवति किन्तु तद्विशेषात् कलमबीजात्, कार्यविशेषश्चेयं प्रमा तस्मात्तथेत्येका सामान्यव्याप्तिः। अपरा च-यो ज्ञानविशेषः स ज्ञानसामान्यातिरिक्तहेतुको यथाऽप्रमेति विशेष- व्याप्तिरिति। ज्ञानं नाम ज्ञानत्वाभिव्यञ्जिका विषयप्रवणा व्यक्तिः, तद्विशेषत्वमनुभवादीनामिति। अत्र द्रव्यविशेषस्याकाशादेः, ज्ञानविशेषस्य चेश्वरप्रमाया नित्यत्वाद्धेत्वपेक्षैव नास्ति, दूरेत त्साम- न्यातिरिक्तहेत्वधीनत्वम्। ततश्च तद्विशेषत्वमनैकान्तिकं मा भूदित्युक्तं-कार्यत्वे सति-इति। पक्षीकृतस्यापि कार्यत्वेन विशेषणान्नेश्वरप्रमांशे बाधादयः प्रादुष्यन्ति। अनुमानस्य विपक्षे प्रकाशः। प्रामाण्यस्य गुणजन्यत्वं साधयति। प्रमेति। हेत्वधीनत्वे ज्ञानहेत्वधीनत्वे च साध्ये सिद्ध- साधनं स्यात्, अतो ज्ञानहेत्वतिरिक्तहेत्वधीनेति साध्यम्। ननु प्रमाया ज्ञानत्वेन तद्धेतुजन्यत्वेन बाधः, ज्ञानाजनकजन्यत्वे विरोधः। अप्रमायां तदसिद्धेर्दृष्टान्तासिद्धिः, व्यर्थविशेष्यत्वं च, घटा- दावपि साध्यसत्त्वेन कार्यत्वस्यैव व्याप्तिमत्त्वात्। व्यर्थविशेषणत्वं च, व्यावत्यैश्वरज्ञानस्य परं प्रत्यसिद्धेः। नापि ज्ञानसामान्यहेत्वन्यहेतुजन्येति साध्यम्, उक्तदोषात्। ज्ञानसामान्यं च ज्ञानत्वं वा सर्वज्ञानव्यक्तयो वा ? आद्ये हेत्वसिद्धिः। अन्त्य इन्द्रियादिभिः सिद्धसाधनम्। नापि ज्ञानत्वावच्छिन्नकार्यत्वान्यकार्यत्वप्रतियोगिककारणजन्येति साध्यम्। ज्ञानत्वस्य नित्या- नित्यवृत्तितया कार्यत्वानवच्छेदकत्वात्। जन्यत्वेन ज्ञानविशेषणे प्रत्यक्षाद्यात्मकज्ञानविशेषजन- कैरिनि्द्रयादिभिः सिद्धसाधनम्। अत एव, प्रमात्वं ज्ञानत्वावच्छिन्नकार्यत्वनिरूपितकारणताभिन्न- कारणताप्रतियोगिकार्यतावच्छेदकं, ज्ञानत्वसाक्षाद्व्याप्यधर्मत्वात्, अप्रमात्ववदिति निरस्तम्। प्रकाशिका। ज्ञानाजनकेति। ज्ञानाजनकत्वं च पारिमाण्डल्यादौ प्रसिद्धम्। मिश्रास्तु विरोधः = प्रतिज्ञावि- रोधः, तथा च ज्ञानहेत्वजन्यत्वे बाधः प्रागुक्तः, इदानीन्तु साध्याप्रसिद्ध्या प्रतिज्ञाया विरोधे वाक्यार्थबोधाजनकत्वं, पारिमाण्डल्यादेरप्यभावसाक्षात्कारं प्रति प्रत्यासत्तिघटकतया जनकत्वेन ज्ञानाजनकत्वाप्रसिद्धेरिति विकल्प्य योजयन्ति। हेत्वसिद्धेरिति। ज्ञानत्वकारणाप्रसिद्धेरित्यर्थः। तथा च साध्याप्रसिद्धिरिति भावः। नित्यानित्येति। अनित्यपदमत्र सम्पातायातम्। एवम- न्यत्रापीदृशस्थले। ज्ञानत्वसाक्षादिति। ज्ञानत्वसाक्षाद्विभाजकधर्म्मत्वादित्यर्थः। विद्या चाविद्या चेति प्रथमं विभागादितस्योपपत्तिः, यदि च प्रमात्वं चाप्रमात्वञ्चानुभवत्वव्याप्यमेव मकरन्दः। साध्यार्थविवरणपूर्वकं विरोधमपि हेत्वाभासमाह। ज्ञानाजनकेति। एतेन बाघविरोधयोर्- द्वयत्रापि चरवाद्विकल्प्य विरोधाभिधानमसङ्गतमित्यपास्तम्, एकत्रैव साध्ये दोषद्वयस्योक्तत्वात्। हेत्वसिद्धिरिति। ज्ञानत्वहेत्वप्रसिद्धिरित्यर्थः। तथा च तद्धटितसाध्यस्याप्रसिद्धिरिति भावः। ज्ञानत्वसाक्षादिति। ज्ञानसाक्षाद्विभाजकोपाधित्वादित्यर्थः। एतेन, ज्ञानत्वव्याप्यज्ञानान्यान्यत्व- व्याप्यत्वेन प्रमात्वस्यासिद्धिः। तद्व्याप्यजात्यव्याप्यत्वगर्भत्वे प्रमाऽप्रमान्यतरत्वादौ व्यभिचार

[Page Header] २१२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या


प्रकाशः । प्रमात्वस्य नित्यानित्यवृत्तित्वात् । अनित्यप्रमात्वं कार्यतावच्छेदकं कार्यमात्रवृत्तित्वधर्मत्वात्, अप्र- मात्ववदित्यपि नीलघटत्वादनाऽनैकान्तिकम् । तत्र विशेषद्वयकारणेनान्यथासिद्धत्वात् । प्रमा- ऽप्रमाकार्यवैचित्र्यं च, यथैकजातीयसामग्रीव्यक्तिभेदाद् घटद्वयं जायते तद्वदेव ज्ञानसामग्रीव्य- क्तिभेदादुपपन्नम् । वैजात्यमपि तुल्यजातीयसामग्रीजन्यत्वेऽपि यमजवैधर्म्यवत् स्यात् । न च प्रमात्वावच्छिन्नकार्यत्वं कथमननुगतहेतुकमिति वाच्यम् । उक्तयुक्त्या तस्य कार्यतानवच्छेदक- त्वात् । अनित्यप्रमा प्रमाऽप्रमोभयहेतुभिन्नहेतुजन्या जन्यत्वादप्रमावदिति चेन्न । कारणव्यक्ति- भेदजन्यत्वेन सिद्धसाधनाद् , अप्रमायां तदसिद्धेश्च । न चाप्रमायां दोषजन्यत्वात्तथा । दोषस्य पित्तादेः स्वविषयप्रमायामपि हेतुत्वात् । अनित्यप्रमा स्वविरोध्यनुभवप्रतिबन्धकजन्या अनित्या- नुभवत्वात् , अप्रमावत् । यद्वा, अनित्यप्रमा प्रमाऽप्रमान्यतरप्रतिबन्धकजन्या प्रमाऽप्रमान्य- तरत्वादप्रमावदिति चेद् , न । प्रमाजनकासाधारणव्यक्तिविशेषस्याऽप्रमाप्रतिबन्धकत्वं प्रमाजन- कत्वं चेति सिद्धसाधनात् ।

अत्रास्मत्पितृचरणाः । एवमप्रमाऽपि स्वत एव स्याद् , न परतः, प्रमावदसाधारणाका- रणादेव तदुत्पत्तौ दोषस्य तत्राहेतुत्वापत्तेः । यदि च ज्ञानसामग्र्यां सत्यां विशेषादर्शनादेर्दोष- स्यान्वयायथनुविधानाद्दोषो हेतुः, तर्हि विशेषादर्शनादेर्गुणस्यानन्वयायथनुविधानात् प्रमायामपि गुणे हेतुरिति तुल्यम् । अपि च, यत्कार्यं यत्कार्यविजातीयं तत् तत्कारणविजातीयकारणजन्यं, यथा घटविजातीयः पटः, अन्यथा कार्यवैजात्यस्याकस्मिकत्वापत्तेः । घटज्ञानमपि कार्यं तद्विजातीय- कार्यकारणविजातीयकारणजन्यमिति न व्यभिचारः । एवं प्रागुक्तानुमानेष्वपि न सिद्धसाधनम् । अनुगतस्य प्रमाहेतुत्वेनासाधारणव्यक्तिभेदस्याहेतुत्वात् । एवमनित्यप्रमात्वमनित्यज्ञानत्वावच्छि- न्नकार्यताप्रतियोगिककारणताभिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् , अनित्यज्ञानत्वव्याप्य- कार्यतावच्छेदकधर्मत्वाद् , अप्रमात्ववदित्यनित्यप्रमायामप्रमासाधारणहेतुव्यावृत्तानुगतहेतुसिद्धिः।


प्रकाशिका । तदाऽभिमतं तदा ज्ञानपदममुभवपरमिति स्मर्त्तव्यम् । प्रमात्वस्येति । त्वन्मत इति शेषः तथा च बाध इति भावः । इदं च दूषणं ज्ञानपदस्यानित्यज्ञानपरत्वे, यथाश्रुते ज्ञानत्वस्य नित्यवृत्तितया कार्यतानवच्छेदकत्वेन साध्याप्रसिद्धिरेव दूषणम् पूर्वहेतोरत्र पक्षेऽसम्भवाच्च हेत्वन्तरमाह । कार्य- मात्रेति । वैजात्यं=वैचित्र्यम् । दोषस्य=पित्तोदेरिति । वस्तुतोऽप्रमाया उभयरूपतया न तादृशहेतुजन्यत्वमिति भावः । अप्रमाप्रतिबन्धकत्वमिति । अनेनानुमानेन सिद्धस्यैव प्रतिब- न्धकत्वं विषयीक्रियतामित्यर्थान्तरमिति भावः। घटज्ञानमिति । घटविषयकानित्यज्ञानमित्यर्थः। न च तत्रानुगतकारणासम्भवः। अनुगतभोगजनकादृष्टसत्त्वात् न प्रकृतेऽपि तेनैवार्थान्तरं दृष्टस्यैव- सम्भवाच्च उक्तव्याप्तिबलेन प्रमात्वस्य कार्यतावच्छेदकत्वे सिद्धे विशेषप्रकारकप्रतीत्यर्थमाह । एवमनित्यप्रमात्वमिति । अनित्यज्ञानत्वे , व्यभिचार इत्यनित्यज्ञानत्वव्याप्येति । व्याप्यत्वञ्च भेदमात्रम् । अन्यद्वैयर्थ्यादिति ध्येयम् । अनुगतहेतुसिद्धिरिति । यद्यपि प्रमामात्रेऽनुगतगुणोऽसम्भवी, एवमप्रमायामनुगतो दोषोऽसम्भवीति बाधदृष्टान्तासि- द्धयादिः, न चानित्यसाक्षात्कारिप्रमात्वमेव पक्षः, तत्तत्प्रमात्वमेव दृष्टान्त इति वाच्यम् । तत्रा- प्यनुगतस्य हेतोरभावाद् बाधतादवस्थ्यात् । न च भूयोऽवयवेन्द्रियसन्निकर्षादिरेवानुगतो गुण


मकरन्दः । इत्यपास्तम् । प्रमात्वस्येति । त्वन्मते इति शेषः । घटज्ञानमिति । घटविषयकानित्यज्ञानमित्यर्थः । न च तदवच्छिन्नकार्यनिरूपितकारणा- न्तरमेव । अनुगतभोजकादृष्टस्य सत्त्वात् । न चैवं प्रकृतानुमाने तेनैवार्थान्तरं , दृष्टस्यैव सम्भ- वादित्याहुः । अनुगतहेतुसिद्धिरिति । ननु गुणत्वस्यानुगतस्य निर्वक्तुमशक्यत्वादिनिरत्य-

द्वितीयस्तवके ] प्रमास्वतस्त्वखण्डनम् । २१३ मावत् । यदि च तावन्मात्राधीना भवेदप्रमापि प्रमैव भवेत् । अस्ति हि तत्र ज्ञानहेतुः। अन्यथा ज्ञानमपि सा न स्यात् । ज्ञानत्वेऽप्यतिरिक्तदोषानुप्रवेशाद- प्रमेति चेत्। एवं तर्हि दोषाभावमधिक्रमासाद्य प्रमापि जायेत नियमेन तदपेक्ष- णात्। अस्तु दोषाभावोऽधिको, भावस्तु नेष्यते इति चेत्। भवेदप्येवं, यदि बोधनी । बाधकं तर्कमाह-यदि-इति । तावन्मात्राधीना = ज्ञानसामान्यहेतुमात्राधीनेति । कुत इत्यत आह-अस्ति हीति । यदि तत्र ज्ञानहेतुर्न स्यात् तदा कारणाभावेन कार्यं ज्ञानमपि न स्यादि- त्याह-अन्यथा-इति । ज्ञानत्वेऽपि-इति । ज्ञानत्वाभ्युपगमेन तद्धेत्वभ्युपगमं सूचयति- एवं तर्हि-इति । यदि दोषान्वयादप्रमा स्यात् तर्हि तद्विरोधिनी प्रमा दोषाभावादेव भवेदित्यधिक- हेतुरङ्गीकृतः स्यादिति। अस्तु-इति । एवमनित्यस्यापि वेदस्य प्रामाण्यं सिद्ध्यतीति भावः। भवे- प्रकाशः। यदीति । यद्यप्यप्रमायां प्रमात्वापादने प्रमावृत्ति ज्ञानमात्रहेत्वधीनत्वं व्यधिकरणम्, तथापि प्रमात्वं यदि ज्ञानसामग्रीमात्रप्रयोज्यवृत्ति स्याद् अप्रमावृत्ति स्याद् अप्रमात्ववदित्यापादनीयम् । अप्रमायाः प्रमित्यजनकदोषजन्यत्वान्नापादकमसिद्धमित्याह । ज्ञानत्वेऽपीति । तर्हि प्रमात्व- मपि न ज्ञानमात्रसामग्रीप्रयोज्यम्, अतिरिक्तदोषाभावापेक्षादित्याह । एवन्तर्हीति । युक्तञ्चै- तत् । अन्यथा प्रमासामग्र्यामधिकदोषानुप्रवेशादप्रमाऽपि प्रमाविशेषः स्यात्, वृक्षसामग्र्या- मधिककारणानुप्रवेशाच्छिंशपा वृक्षविशेष इवेति भावः। अस्त्विति । न चैवमप्रमित्यजनकज- न्यत्वे परतस्त्वमिति वाच्यम्। आगन्तुकाभावानपेक्षज्ञानसामग्रीजन्यत्वमेव स्वतस्त्वमिति विव- क्षितत्वात् । तथा च गुणजन्यत्वेन प्रमाया नेश्वरसिद्धिः। भवेदप्येवमिति । ननु पीतः शङ्ख इत्यत्र विशेषदर्शनेऽपि भ्रमाद्व्यभिचारेण न विशेषदर्शनं भ्रमहेतुः, यत्र वा विशेषदर्शनमपि भ्रमस्तत्र तज्जन्यज्ञानस्यापि भ्रमत्वान्न विशेषदर्शनं प्रमात्वप्रयोजकम् । मैवम् । यद्विशेषदर्शनं प्रकाशिका। इति वाच्यम् । तत्तत्साक्षात्कारे तत्तदवयवानामनुगतत्वाभावाद् यथार्थपरामर्शादेरपि तत्तद्विष- याननुगमेनाननुगतत्वात् । एतेन विशेष्यवृत्तिविशेषणज्ञानमेव प्रमामात्रेऽनुगतो गुणो ग्राह्यः, यथार्थज्ञानं वेत्यनित्यप्रमात्वमेव पक्ष इत्यपास्तम् । विषयाननुगमेनाननुगतत्वात् । तथापि घटप्रमायां घटवृत्तिविशेषणज्ञानं घटाप्रमायां घटावृत्तिविशेषणज्ञानं जनकमिति तत्तत्प्रमात्वत- त्तदप्रमात्वयोरेव पक्षदृष्टान्तत्वे । एवं विशेषयोः कार्यकारणभावग्रहे शाब्दप्रमायामपि विशेषत एव कार्यकारणभावग्रहे तदनुरोधादीश्वरसिद्धिरित्यत्र तात्पर्यम्। यद्यपि घटविशेष्यकत्वे सति घटत्व प्रकारकत्वमित्येव घटप्रमात्वमित्यर्थवशसम्पन्नमेतदुभयमिति न विशिष्टनियामकगुणसिद्धिः, न वा घटप्रमात्वं जन्यतावच्छेदकं नीलघटत्ववदिति । तथापि समूहालम्बनव्यावृत्तय एकावच्छिन्नापरस्यैव मकरन्दः। प्रमात्वावच्छिन्ने कथममुगतहेतुसिद्धिरिति चेन्न । अनित्यप्रमात्वपदेनानित्यसाक्षात्कारिप्रमात्वादे- रेव विवक्षितत्वात् । तत्र च भूयोऽवयवेन्द्रियसन्निकर्षस्यानुगतहेतुसत्त्वादित्येके । शाब्दप्रमायां ग्राह्यविशेषस्य वाक्यार्थस्य प्रमा हेतुरिति प्रमासामान्ये ग्राह्यप्रमासामान्यमीश्वरस्यैव गुणः । यदि- शेषयोरिति न्यायात्। न च ग्राह्यमात्रस्यातिप्रसक्ततया यत्र यद् ग्राह्यं तत्र तत्प्रमा हेतुर्वाच्यः । तथा च तद्ग्राह्यप्रमायां 'तद्ग्राह्यप्रमा हेतुरित्यननुगम एवेति वाच्यम्। एवं तत्साक्षात्कारे तदि- न्द्रियसन्निकर्षो हेतुरिति विशेषेऽप्यननुगमापत्तेः । यदि च विशेषे विशेषस्य प्रयोजकत्वेऽपि सा- मान्ययोरपि तथात्वं, तदा प्रकृतेऽपि तुल्यमित्यन्ये । स्वाविषयकप्रमाजनकत्वम् गुणत्वम् । स्वा-

२४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां नियमेन दोषैर्भावरूपैरेव भवितव्यम्, न त्वेवम् । विशेषादर्शनादेरभावस्यापि दोषत्वात् । कथमन्यथा ततः संशयविपर्ययौ । ततस्तदभावो भाव एवेति कथं स नेष्यते । बोधनी । दपि-इति । भावात्मनोऽधिकस्यानङ्गीकारो भवेदपीति । कथमन्यथा-इति । विशेषाद- र्शनस्यादोषत्वे कथं ततो विशेषादर्शनादप्रमात्मकौ संशयविपर्ययौ स्यातामिति वक्रकोटरादेः शुक्तिकात्वस्य विशेषस्यादर्शने हि तयोरुत्पत्तिरिति । सन्तु तर्ह्यभावा अपि दोषाः ततः किमित्य- त्राह-ततः-इति । अभावात्मनो दोषस्याभावो भाव एवेति । कथं स भावः प्रमाहेतुर्नेष्यत इति । प्रकाशः। हि भ्रमविरोधि तदभावोऽप्रमाहेतुः । प्रत्यक्षभ्रमे च प्रत्यक्षविशेषदर्शनं विरोधि दिङ्मोहादौ गौरोऽहमिति भ्रमे च तथा दर्शनात् । तच्च दोषात् तत्र नास्ति, प्रमारूपमेव च विशेषदर्शनं गुण इति तदभाव एव दोषः । ननु विशेषादर्शनं न दोषः, किन्तु विशेषदर्शनप्रतिबन्धकाः पित्तादयो दोषाः, आवश्यक- त्वात् । न च तेषां नानात्वेन विशेषदर्शनप्रतिबन्धकतयाऽनुगमे लाघवाद्विशेषादर्शनमेव हेतुरिति वाच्यम् । क्वचित् कश्चिद्दोष इत्यनुगमात् । अन्यथा पित्तादितोऽप्यप्रमा न स्यात्, अननुग- मात् । पित्ताद्युत्कर्षेण भ्रमोत्कर्षाच्च । पित्तादेरदोषत्वे चं विशेषप्रमैव कुतो न भवति । यदि च विशेषस्य विशेषान्तरादर्शनात्, तदाऽनवस्था । किञ्च, विशेषदर्शनं न प्रमामात्रे, न वा प्रत्यक्ष- प्रमायां हेतुः, व्यभिचारात् । तत्रैव तद्धेतुत्वेनानवस्थानाच्च । प्रकाशिका । प्रमात्वशरीरत्वेन तस्य नार्थवससम्पन्नेतेतिबोध्यम्। प्रत्यक्षविशेषदर्शनमिति। प्रत्यक्षविपरी- तदर्शनमित्यर्थः। केचित्तु विशेषपदेनात्र व्याप्यविशेषोऽप्युक्तः स च प्रतिबन्धहूपफलोन्नेयः, प्रति- बन्धकाननुगमस्तु न दोषाय । अत एव शङ्खे प्रत्यक्षे सति श्वैत्ये न पीतत्वारोपः, फालपृष्टत्वप्रत्यक्षे सति शुक्तौ न रजतत्वारोप इत्याहुः। क्वचित् कश्चिदिति । विशेषस्याप्यननुगतत्वेन स्वयाप्यनुगते- रेवानुसरणीयत्वादिति भावः। अन्यथेति। यद्यपि विशेषादर्शनमेव दोष इति वादिनोऽत्रेष्टापत्तिः, तथापि विशेषाप्रमापि पित्तादित एवेत्यभिप्रायेणेदम् । अत एवाग्रे भावाविष्करणं पित्तादेरदोष- त्वे चेति । भ्रमोत्कर्ष इति । उत्कर्षश्चात्र बहुकालावच्छिन्नसजातीयधारानुवृत्तिलक्षणः । मकरन्दः। विषयकभ्रमजनकत्वञ्च दोषत्वमिति तदुभयं निर्वाह्यम् । एवञ्च तत्तत्प्रमादौ यथार्थपरामर्शत्वादीनां हेतुत्वप्रहानन्तरं प्रमासामान्यं प्रत्युक्तगुणत्वेन कारणत्वग्रहः । एवं दोषत्वेनापीत्याहुः । विस्त- रस्तु प्रत्यक्षप्रकाशे । प्रत्यक्षविशेषदर्शनमिति । प्रत्यक्षविपरीतदर्शनमित्यर्थः । टिप्पणी । क्वचित् कश्चिद् दोष इति । क्वचिद् भ्रमविशेषजातीये कश्चिद् दोषजातीयः कारणमेतावदेवा- नुगमस्येष्टत्वात् । तवापि विशेषदर्शनस्य व्याप्यव्यापकभेदेनैकरूपतायाः सर्वत्रासम्भवादित्यर्थः । अप्रमा न स्यादिति । विशेषप्रमा न स्यात्, तत्र विशेषादर्शनस्यानवस्थाभयेनाहेतुत्व स्यानुपदं वक्ष्यमाणत्वात् । एतेन विशेषादर्शनहेतुतामते पित्तादेरहेतुत्वाद्विपारितिरिति शङ्का निरस्ता। उक्तपित्तादेर्हेतुत्वं व्यवस्थापयति । पित्ताद्युत्कर्षेणेति । यस्योत्कर्षेण यस्योत्कर्षः, तत् तत्कारणम्, अकारणोत्कर्षस्य प्रयोजकत्वेऽतिप्रसङ्गादिति भावः । पित्तादेर्भ्रमकारणत्वसाधक- मनिष्टप्रसङ्गमाह । पित्तादेरदोषत्वे चेत्यादि । दोषो हि प्रमाप्रतिबन्धको भ्रतजनकर्श, स चेद् विशेषादर्शनाभावस्तदानवस्थेत्याह । यदीत्यादि ।

द्वितीयस्तबके ] प्रमाश्वतस्त्वखण्डनम् । २१५ स्यादेतत् । शब्दे तावद्विप्रलिप्सादयो भावा एव दोषाः, ततस्तदभावे स्वत बोधनी । अस्त्वेव प्रत्यक्षे विशेषादर्शनादेरभावस्य दोषत्वं, न तु प्रमाणान्तर इत्याह-स्यादेतत् इति । शब्दे तावद्भावात्मकदोषाभावे सति स्वत एवातिरिक्तभावानापेक्षाज् ज्ञानकरणादेव शब्दा- त्प्रमोत्पद्यत इति दृष्टम् । शब्दे तावदेवम्, अनुमानादावपि तथा द्रष्टव्यमिति तावच्छब्दस्यार्थः । प्रकाशः । मैवम् । प्रमामात्राहितृत्वेऽपि संशयविपर्ययोत्तरप्रमायां तस्य हेतुत्वात् । तत्र विशेषाद- र्शनस्य दोषत्वेनान्यत्रापि तथात्वात् । पित्ताद्युत्कर्षस्यापि भूयोविशेषादर्शनप्रतिबन्धकत्वेनान्यथा- सिद्धत्वात् । ननु प्रत्यक्षप्रमादौ गुणजन्यत्वेऽपि वेदे भ्रमाद्यभावचतुष्टयं प्रमाहेतुः । लोके भ्रमाद्यभाव एव प्रमोत्पत्तेः । न तु वक्तृवाक्यार्थयथार्थज्ञानवरदादिगुण इत्याह- स्यादेतदिति । लिङ्गसादृश्यादिश्रभरूपदोषाभावमात्राज्ञानुमित्यादिः प्रमेति लिङ्गसादृ- श्यादियथार्थज्ञानमपि गुणस्तद्धेतुरिति शाब्दप्रमायामपि दोषाभावे सति यथार्थवाक्यार्थज्ञानं प्रकाशिका । संशयविपर्ययोत्तरप्रमायामिति । विशेषादर्शनप्रयोज्यसंशयविपर्ययोत्तरप्रमायामित्यर्थः । तेन नान्धकारकालीनघटसंशयोत्तरप्रत्यक्षे आलोकममवधानमात्रजन्ये व्यभिचारः। ननु संशयोत्तरं यत्र न प्रत्यक्षं तत्र संशयानुनुत्तरप्रत्यक्षसामग्रीसत्त्वे तत्प्रत्यक्षमेव कुतो न जायते तदसत्त्व तत एव न प्रत्यक्षमिति न विशेषदर्शनं कारणम् कार्यव्यतिरेकप्रयोजकव्यतिरेकाप्रतियोगित्वादिति चेत् । न । तदनुत्तरकालीनप्रत्यक्षं प्रति तदनुत्तरकालीनस्य कारणतया तदभावादेव तादृशप्रत्यक्षसां- मग्रीविरहात् । न च विशिष्टाभाव एव विशेषादर्शनविशिष्टग्राह्यसंशयाभावरूपः कारणमस्तु न तु विशेपदर्शनं कारणम् । अत एव न सिद्धयुत्तरानुमितौ सिषाधयिषाविशेषसामग्रीति वाच्यम् । विशेषादर्शनोत्तरजायमानप्रत्यक्षस्य विशेषविषयत्वनियमेन तत्र विशेषणज्ञानतया विशेषादर्शनस्य जनकत्वे विशेषरूपेणापि तस्यैव कारणता कल्प्यते तद्धर्मिणः कारणत्वकल्पनात् । अत एव निश्चयो- त्तरसंशयं प्रति प्रामाण्यसंशयः कारणं कोटिज्ञानत्वेन तत्र तस्य कारणतावश्यकत्वात् , सिषाधयिषा तु न केनापि रूपेणानुमिति प्रति कारणत्वेन क्लृप्तेति न तत् प्रतिवन्दिरिति दिक् । ननु निर्हेतुकं मूलेऽभिधानं स्वत इति न युक्तमात्माश्रयादतो व्याचष्टे । ननु प्रत्यक्षप्रमादाविति । शाब्द- प्रमायां गुणकारणत्वापेक्षायामनुमितिप्रमादौ तदुपपादनमर्थान्तरमत आह । लिङ्गेति । मकरन्दः । संशयविपर्ययोत्तरेति । यद्यपि संशयोत्तरप्रत्यक्षमात्रे विशेषदर्शनं न हेतुः, अन्धकारे घटसंशयोत्तरप्रत्यक्षस्य तद्दिनाऽप्यालोकसमवधानमात्रेणैवोपपत्तेः । तथापि यत्र विशेषादर्शनादि दोषाधीनः संशयस्तदुत्तरप्रत्यक्षे तस्य हेतुत्वम् । उक्तस्थले च व्यञ्जकाभावाधीनः स इति भावः । ननु तत्रापि विशेषदर्शनं न हेतुः, संशयानुत्तरप्रत्यक्षसामग्रीसत्त्वे तदुत्पत्त्यापत्तेः । तदसत्त्वे तद्व्य तिरेकादेव तद्व्यतिरेक इति किं विशेषसामग्र्यन्तरकल्पनया ? । अत एव सिद्धयुत्तरानुमितित्वा- वच्छिन्ने सिषाधयिषा न विशेषसामग्री, किन्तु तद्विरहविशिष्टसिद्धयभावः सामान्यसामग्री । तद् भावादेव तदा नानुमितिरिति चेत् । तर्हि तद्वदेव विशेषादर्शनविरहविशिष्टसंशयाभावः सामान्य- सामग्रीत्यत्रैव तात्पर्यमित्याहुः । विस्तरस्त्वनुमानप्रत्यक्षप्रकाशयोरनुसन्धेयः । लिङ्गसादृश्येति । यद्यपि परामर्शादिरूपसामान्यसामग्रीविरहादेव तत्र नानुमित्यादिः,

२१६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां एव शाब्दी प्रमेति चेन्न । अनुमानादौ लिङ्गविपर्यासादीनां भावानामपि दोषत्वे तदभावमात्रेण प्रमाऽनुत्पत्तेः । अन्यत्र यथा तथाऽस्तु, शब्दे तु विप्रलिप्सार्य- भावे वक्तृगुणापेक्षा नास्तीति चेन्न । गुणाभावे तदप्रामाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि सुवचत्वात् । अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ

बोधनी । न-इति । अनुमाने लिङ्गविषयविपर्यासविरुद्धत्वादीनां भावानां दोषत्वे सत्त्वेऽपीत्यपिशब्दो भिन्न- क्रमः, अवधारणे वा । भावरूपदोषाभावमात्रेण लैङ्गिकज्ञानहेतोर्हृत्संशचाराद् दृष्टव्यभिचारालि- ङ्गाद्य्याप्तिलक्षणगुणाभावे प्रमाद्यनुत्पत्तेस्तवापीष्टत्वात् । न च व्याप्तिरप्यनुमितिज्ञानमात्रे हेतुर्न प्रमाया इति युक्तम् । व्याप्त्यभावेऽपि मैत्रीतनयत्वादेवानुमितिज्ञानोत्पत्तेः । अत्रादिशब्दाभ्यामर्थापत्तिमनु- पपद्यमानविपर्यासञ्च संगृह्णाति । अन्यत्र-इति । अनुमानादावतिरिक्तभावापेक्षाऽस्तु मा वा, न हि नस्तत्र निर्भरः, शब्दे तु दोषाभावे सत्यपि न स्वतः प्रम्रोत्पत्तौ गुणापेक्षाऽस्तीति नः समीहित वेदप्रामाण्योपयोगादिति । तदेतदनिष्टप्रसङ्गमुद्भाव्य शङ्कितं, तत्समान्धिमन्त्रापि समीकुर्वन् परिहरति—गुणाभाव इति तुल्यत्वादित्यन्तेन । तर्हि पौरुषेयवाक्ये गुणान्वयव्यतिरेकदर्शनात् तदधीनमस्तु प्रामाण्यम्, अपौरुषेये तु वेदे तदसम्भवादोषाभावमात्राधीनं प्रामाण्यमङ्गीकर्त्तव्यमि-

प्रकाशः । गुणे हेतुरित्याह । अनुमानादाविति । ननु यथार्थवाक्यार्थज्ञानादौ गुणे सत्यपि करणापा- टवाद् यत्रान्यमभिधित्सिते अन्यद् ब्रूते तत्र वाक्यं न प्रमाणम्, दोषाभावस्य तु प्रमाहेतुत्वे करणापाटवान्न सोऽस्तीति तत्र न प्रामाण्यमुपपद्यते इति शङ्कते । अन्यत्रेति । वक्तृदोषे सत्यपि भ्रान्तविप्रलम्भकवाक्ये संवादात् प्रामाण्यदर्शनाद्दोषोऽपि नाऽप्रामाण्यप्रयोजकः । तात्पर्यविषये त्वप्रामाण्यमेवेति प्रामाण्येऽपि तुल्यमिति परिहरति । गुणाभाव इति ।

प्रकाशिका । तथा च दृष्टान्तार्थ तदुपपादनमिति भावः । न च लिङ्गादिज्ञानाभावदशायां सामान्यसामग्रीविर- हादेव न प्रमेति वाच्यम् । एवं सति यत्र सामान्यमित्यादिन्यायेन यथार्थपरामर्शादेव प्रमाहे- तुत्वे सिद्धेऽनुमित्यादिदृष्टान्तेन शाब्देऽपि गुणजन्यत्वमुपपादितमेवेति शङ्खैवेयं तुच्छेत्यतस्तां दीपयति । ननु यथार्थेति । तात्पर्थ्यविषये त्विति । यद्यपि न भ्रान्तप्रतारकस्थले तात्प- र्यविषयघटसत्तांशे प्रामाण्यं तथाप्यन्यथानुबुद्धमन्यथा बोधयामीति यत्तत्र तात्पर्यं तद्विषयीभूतदु- ग्धांशेऽप्रामाण्यमस्त्येवेति भावः। प्रामाण्येऽपि तुल्यमिति । यद्यपि करणापाटवस्थले तात्पर्यविषये- न प्रामाण्यं तात्पर्यस्यैवाभावादिति न तौल्यार्थः । तथापि भ्रान्तप्रतारकस्थलेऽपि नाप्रमाजनकत्वं व- स्तुत इति । यद्युपनीतभानस्थलेनैव पूर्वग्रन्थे मयाप्येवमुपगन्तव्यमिति तुल्यार्थः, वस्तुतः करणापा- टवस्थले प्रकृतवाक्यार्थयथार्थज्ञानाभावादेवाप्रामाण्यं भ्रान्तप्रतारकवाक्यस्थले चाहार्यसंसर्गज्ञानस्यैव यथार्थस्य सत्त्वात् प्रामाण्यमित्यभिसन्धिः । ननु युज्यतां तथैव विभाग इत्युपेक्षाज्ञानादपि प्रवृत्ति-

मकरन्दः । तथापि यत्सामान्ये यत्सामान्यमिति न्यायात् प्रमात्वस्यानुमित्यादिविशेषे सत्यपरामर्शादिविशेषस्य हेतुत्वमिति भावः । तात्पर्यविषये त्विति । अघटे घटत्वं तत्तात्पर्यविषयस्तत्र च प्रमा नो- त्पन्नेवेत्यर्थः । प्रामाण्येऽपीति । यद्यपि तात्पर्यविषयीभूतेऽर्थे करणापाटवस्थलेऽपि प्रामाण्य- मेवेति न तौल्यार्थस्तत्र प्रामाण्याभावात्, तथापि प्रकृतवाक्यार्थगोचरयथार्थज्ञानलक्षणो गुण- एव तत्र नास्तीति भावः ।

३. तृतीय स्तबक: बौद्ध प्रत्यक्ष-अनुमान खण्डन एवं ज्ञान-प्रामाण्य

द्वितीयस्तवके ] प्रामाण्यस्वतस्त्वखण्डनम् । २१७ स्त इति चेन्न । प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् । पौरुषेयविषये इय- मस्तु व्यवस्था, अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेन्न । गुणनिवृत्त्याऽ- प्रामाण्यस्यापि सम्भवात् । तस्या अप्रामाण्यं प्रति सामर्थ्यं नोपलब्धमिति चेत् । दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामर्थ्यमुपलब्धम् ? । लोकवचसीति चेत् । तुल्यम् । तदप्रामाण्ये दोषा एव कारणं, गुणनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति चेत् । प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् । गुणानां दोषोत्सारणप्रयुक्तः सन्नि- धिरिति चेद्, दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु । निःस्वभावत्वमेवमपौरु- षेयस्य वेदस्य स्यादिति चेत्, आत्मानमुपालभस्व । तस्माद्यथा द्वेषरागाभावा- विनाभावेऽपि रागद्वेषयोरनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषका- रणकत्वं, न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुवि- बोधनी । र् ह-पौरुषेय-इति । तदेतत्परिहरन् प्रसङ्ग तावदाह-गुणनिवृत्ति-इति । तत्समाधि- माशङ्क्य साम्यापादनेन परिहरति-तस्याः-इति । यदि लोकवचसि दोषनिवृत्तेः प्रामाण्ये हेतुत्वमुपलब्धं तर्हि गुणनिवृत्तेरप्रामाण्यहेतुत्वमपि तत्रैवोपलब्धमिति शङ्कोत्तराभ्यामाह- लोक-इति । ननु तस्य लोकवचसऽप्रामाण्ये दोषा एव कारणमनन्यथासिद्धान्वयव्यतिरेकत्वात्, गुणनिवृत्तिस्तु विरोधिदोषसंनिधाननान्तरीयकेत्याह -तदप्रामाण्य-इति । तर्हि प्रामाण्यकार- णेषु गुणेषु सत्सु तद्विरोधिनां दोषाणां निवृत्तिरप्यवर्जनीयसंनिधिरिति स्यादित्याह-प्रामाण्यं प्रति-इति । यदि गुणानामन्यत्रोपक्षयेण प्रमायामहेतुत्वं तर्हि दोषाणामपि तथात्वे नाप्र- मायामहेतुत्वं भवेदिति शङ्कोत्तराभ्यामाह -गुणानाम्-इति । ननु प्रामाण्याप्रामाण्योरथैवं वक्तृगुणदोषाधीनत्वे सति वक्तृविधुरस्य वेदस्योभयोरप्यभावेन प्रामाण्याप्रामाण्योरन्यतरस्व- भावत्वमपि न स्यादित्याह - निःस्वभावत्वम् इति । आत्मानम् इति । अपौरुषेयं वेद- मातिष्ठमानमिति शेषः, न तु गुणवद्वक्तृत्वेन वेदस्य प्रामाण्यमङ्गीकुर्वतोऽस्मानिति भावः । उक्तमर्थं दृष्टान्तमुखेन विशदयन्नुपसंहरति-तस्मात्-इति । द्वेषरागाभावाविनाभावेऽपीत्यस्य प्रकाशः । निःस्वभावत्वमिति । वेदे प्रमाणत्वाप्रमाणत्वप्रयोजकगुणदोषयोरभावादित्यर्थः । तस्मादिति । यथा प्रवृत्तौ द्वेषाभावहेतुकत्वे निवृत्तौ रागाभावहेतुकत्वे सत्यपि उपेक्षाज्ञानादपि प्रवृत्तिनिवृत्ती स्या- तामिति रागद्वेषयोः प्रवृत्तिनिवृत्तिहेतुत्वमेकैकभावाऽन्यथासिद्ध., तथा प्रमाऽप्रमयोरपि गुण- दोषौ, न तु दोषाभावगुणाभावावित्यर्थः । प्रकाशिका । प्रसङ्गेन पूरयित्वा व्याचष्टे । यथा प्रवृत्ताविति । न च तत्रोक्तातिप्रसङ्गात्तथास्तु प्रकृते तु न किञ्चिदनिष्टमिति वाच्यम् । प्रकृतेऽपि सुषुप्तिदशायामेव प्रमाद्युत्पत्तिप्रसङ्गस्यानिष्टत्वात् परामर्शो- द्बोध सामान्यसामग्रीत्वे तद्विशेषस्यैव प्रमाहेतुत्वादित्युक्तत्वात् । रागद्वेषयोरिति । न च प्र- वृत्त्यभाव एव निवृत्तिरिति नाक्तविभागसङ्गतिरिति वाच्यम् । वैपरीत्यापत्तेः । न च सुषुप्तिदशायाम- प्येवं प्रवृत्तिप्रसङ्गे तत्कार्यचेष्टापत्तिरिति वाच्यम् । शरीरमनःसंयोगाभावेनैव तद्विरहोपपत्तेः । न चैवं सुषुप्तिदशायां प्रवृत्तोऽयमिति व्यवहारप्रसङ्ग इति वाच्यम् । निवृत्तव्यवहारस्यापि तदाभावेन मकरन्दः । रागद्वेषयोरिति । अत्रेदं चिन्त्यम् । प्रवृत्तिविरह एव निवृत्तिरिति न प्रयत्नद्वैविध्यं, मानाभावात् । न च वैपरीत्यापत्तिः । सुषुप्तिदशायामपि निवृत्तिविरहस्य सत्त्वेन प्रवृत्तिह्याप्य- २८ न्या० कु०

२१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां धाने द्वेषाभावहेतुक इति विभागो युज्यते, विशेषाभावात्, तथा प्रकृतेऽपि । तथापि वेदानाम्पौरुषेयत्वे सिद्धे, मपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति, ततः सिद्धे प्रामाण्ये गुणाभावेऽपि तदिति दोषाभाव एव हेतुरकारणं गुणा इति चेन्न । अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् । स्वत एव प्रामाण्यनिश्चयः, किन्तु शङ्कामात्रमनेनापनीयते दोषनिबन्धनत्वात्तस्य तदभावेऽभावात्, अतो नेदमनु- बोधनी । प्रवृत्तिनिवृत्तप्रयत्नयोरित्यनेन संबन्धः, न त्वित्यस्य युज्यते इत्यनेन । विशेषाभावादिति । द्वेषानु विधायिनो निवृत्तिप्रयत्नाद्रागानुविधायिनः प्रवृत्तिप्रयत्नस्यैतदनुविधायित्वे विशेषाभावादिति । न चात्र द्वेषाभाव एव प्रवृत्तेः कारणमिति युक्तम्, उपेक्षाज्ञानादपि प्रवृत्तिप्रसङ्गात् । तथा प्रकृते प्रामाण्यविषयेऽपि दोषगुणाभावाविनाभावेऽपि प्रामाण्याप्रामाण्योरन्यथासिद्धगुणदोषानुविधान- नियमात्तद्धेतुक्त्वम् । न त्वप्रमा दोषहेतुका, प्रमा तु सत्यपि गुणानुविधाने दोषाभावहेतुकेति- विभागो युक्त इति । नन्वस्तु गुणानुविधानं प्रामाण्यस्य तथापि न तद्धैतुकत्वमित्याह—तथापि—इति । वेदानां प्रामाण्यमपौरुषेयत्वं च तावत्सिद्धं तेन दोषाभावमात्रेण प्रामाण्यं सेत्स्यतीति सिद्ध्य- त्येव ततो गुणाभावेऽपि दोषाभावादेव वेदे तत्प्रामाण्यं दृष्टमिति व्यभिचारादकारणं गुणाः- सर्वत्र दोषाभावस्तु कारणमव्यभिचारादिति । न-इति । न तावद्यापि वेदानाम्पौरुषेयत्वेन प्रामाण्यमिति सिद्धं, येन तत्र गुणव्यभिचारो निर्दिश्येत । लोकाधीननिर्णयो हि वेदो लोके चान्य- भिचाराद् गुणः प्रामाण्यहेतुरिति स्थितम्, तत्र यदि वेदस्यापौरुषेयत्वमाश्रित्य दोषाभावात् प्रामा- ण्यमुच्येत तदा गुणाभावादप्रामाण्यमपि वक्तुं शक्यत इति । स्वतः-इति । न तावद्वेदानां प्रामाण्यमपेतदोषवक्तृत्वेनानुमीयते, स्वतो बोधजनकत्वेन निश्चिते प्रामाण्ये हेत्वन्तरादप्रामाण्य- शङ्कायां तन्निराकरणमात्रमप्रामाण्यकारणदोषाभावावधारणेन क्रियते । तदाहुः— तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धौ प्रमाणता । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते । ( श्लो० वा, ) इति । प्रकाशः । नन्वन्यत्र गुणस्य प्रमाहेतुत्वेऽपि वेदस्यापौरुषेयतया वक्तृगुणाभावाद्दोषाभावमात्रप्रयुक्तमेव प्रामाण्यमिति प्रामाण्ये गुणस्य व्यभिचाराद् न हेतुत्वं, किन्तु दोषाभावस्यैवेत्याह । तथा पीति । सिद्धिर्ज्ञप्तिः । सिद्धेः=निश्चिते । वेदाः प्रमाणम् , अपेतवक्तृदोषत्वादित्यनुमानादि त्यर्थः । अत्र वेदा न प्रमाणम् , अपेतवक्तृगुणत्वादिति सत्प्रतिपक्षमाह । अपेतेति । ज्ञान- ग्राहकादेव प्रमात्वं स्वीक्रियते, दोषाधीना तु शङ्का अपेतवक्तृदोषत्वादेव निरस्येत्याह । स्वत एवेति । तथापि गुणाभावहेतुकोऽप्रमाण्यसंशयस्तदवस्थ एवेत्याह । गुणनिवृत्तोति । तस्या इति । दोषसहितगुणनिवृत्तेरेवाऽप्रमात्वहेतुत्वादित्यर्थः । दोषेति । गुणसहितदोषनिवृ- त्तेरेव प्रमात्वप्रयोजकत्वादित्यर्थः । ननु तथापि शुकादिवाक्यं भ्रान्तप्रतारकवाक्यं च संवादि कथं प्रमाणं, गुणाजन्यत्वात् । मकरन्दः । चेष्टादिकार्योत्थापत्तेः । न च तदा निवृत्तिरेवेति वाच्यम्, तदा तत्कारणद्वेषाभावेन तदभावात् द्वेषाभावश्च तत्कारणदुःखसाधनत्वज्ञानाभावादिति ॥

द्वितीयस्तबके ] प्रामाण्यस्वतस्त्वखण्डनम् । २१६ मानवत् सप्रतिसाधनोकर्तुमुचितमिति चेत् । न । गुणनिवृत्तिनिबन्धनायाः शङ्कायाः सुलभत्वात् । तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेद्, बोधनी । ततो नेदमपेतवक्तृदोषत्वं सप्रतिसाधनीकर्तुं युक्तमिति । न-इति । दोषाभावे तद्दोषनिबन्ध- नाप्रामाण्यशङ्कानिवृत्तावपि प्रामाण्यहेतुगुणनिवृत्तिनिबन्धनायास्तस्याः स्वस्यत्वात् । न हि स्वतः प्रामाण्यनिश्चय इत्यग्रे निवेदयिष्याम इति भावः । तस्या-इति । न तावद्दोषसंसर्गमन्तरेण प्रकाशः । धूमभ्रमाद्धिमत्येव वह्नयनुमितिर्वा कथं प्रमा, यथार्थलिङ्गज्ञानाजन्यत्वात् । न च वह्नयन्तरमेव तद्विषयः । प्रत्यभिज्ञानात् । गोत्वायैकव्यक्तिके तदभावाच्च । उच्यते । शुकादिवाक्ये भ्रान्त- प्रतारकवाक्ये च प्रमाणशब्दत्वेनातोक्तत्वाद्देववदीश्वरस्यैव यथार्थवाक्यार्थज्ञानं गुणो हेतुः, तस्य कार्यमात्रकर्तृत्वात् । शुकादिवाक्ये वेदतुल्यतया दोषाभावादिनाऽपि मन्तव्यत्वात् । न चैवं शब्दाभासोच्छेदः, तस्यापीश्वरकर्तृकत्वादिति वाच्यम् । तद्वाक्यार्थस्यासत्त्वेनेश्वरज्ञानाविषय- त्वात् । एवं लिङ्गाभासजन्यप्रमायामपीश्वरस्यैव यथार्थलिङ्गज्ञानं गुणः । एवं प्रमाया गुणजन्यतया शाब्दप्रमाया अपि गुणजन्यतया वेदे वक्तृन्तरस्याभावात् तदा- प्रकाशिका । तुल्यत्वात् । ईश्वरस्यैवेति । भ्रान्तप्रतारकवाक्य आहार्यसंसर्गज्ञानमेव यथार्थं गुणः सम्भवति तथापि शुकादिवाक्यसाधारण्यार्थमिदमेवोक्तम् । केचित्तु भ्रान्तप्रतारकस्यैव वाक्यं भ्रान्तप्रतारक- वाक्यं तथा च भ्रान्त एवान्यस्मिन् वक्तव्ये यत्रान्यद् वदति तत्संवादिवाक्यमत्र तत्पदेनोक्तमित्याहुः। न च भ्रान्तप्रतारकवाक्ये गुणसत्त्वेऽपि दोषसत्त्वात् कथं प्रमेति वाच्यम् । भ्रमस्य भिन्नविषय- त्वात् । प्रतारणायाश्च सद्वस्तुप्रतिपादनेच्छायास्तत्राभावात् । एवं लिङ्गाभासेति । अत्रापि शुकादिवाक्यसाधारण्यार्थमीश्वरज्ञानानुधरणम् । वस्तुतः पक्षतावच्छेदकविरोधिसाध्यनिष्ठप्रकृत- हेतुप्रतियोगिकव्यापकतानिषयत्वमेव परामर्शप्रयोजकमिति कूटलिङ्गपरामर्श एव तत्र गुणः । अत एवायथार्थरूपपरामर्परूपदोषसत्त्वात् कथं प्रमेति निरस्तम् । निरुक्तयथा विरोघिन एवायाथार्थ- याप्रमाप्रयोजकत्वात् । प्रकृते च तदभावादितिदिक । शाब्दप्रमाया अपीति । यद्यपि शाब्दप्र- मकरन्दः । भ्रान्तप्रतारकवाक्य इति । अत्राहार्यारोपं विना प्रतारणाया अभावात् स एव विषया- बाधात् प्रमारूप इति तमादाय यद्यपि गुणजन्यत्वमप्रत्यूहं तथापि समाधिसौकर्यादेतदुक्तम् । यद्वा, भ्रान्तप्रतारकस्येव वाक्यं भ्रान्तप्रकारकवाक्यं, तथा च बाधितमन्यदवगत्या- न्यदबाधितं यन्न दैववशाद् ब्रूते, तत्र भगवदनुद्देशेर्गुणत्वमिति वयं पश्यामः । अत एवो- क्तगुणजन्यत्वेऽपि भ्रमादिदोषजन्यत्वादप्रामाण्यमपि स्यादित्यपास्तम् । भ्रमस्य भिन्नविषयत्वेन तद्वाक्याजनकत्वात् , प्रतारणायाश्चाभावात् । केचित्तु विप्रलिप्सा विसंवादिप्रवृत्तिजनकेच्छा, टिप्पणी । वह्नयन्तरमेव तद्विषय इति । धूमसंसर्ग्यैव वह्निर्धूमलिङ्गकानुमितौ विषयः स च वह्निस्तत्र नास्त्येव यश्चास्ति स धूमसंसर्गिबह्नेर्विभिन्न एवेत्यर्थः । यद्यपि वह्नित्वेन गृही- तवह्निव्याप्तिकस्य लिङ्गस्य वह्निमास्यानुमितौ सामर्थ्यम् तथा च तत्रत्यवह्निभाने न क्षतिः । तथाप्येतद्दूरे सत्येव, यः पूर्वं धूमसम्बन्धित्वेन गृहीतः, तस्यैव धूलिपटलेन धूमत्वेन गृहीतेनानुमितौ भाने तद्वहेर्धूमसंबन्धिनिभिन्नत्वस्य प्रत्यभिज्ञानबाधितत्वादित्युत्तरं सौक- र्यार्थमाह । प्रत्यभिज्ञानेति । विशिष्टबुद्धौ विशेषणज्ञानस्य हि हेतुत्वमनभ्युपगम्येदम् ।

२२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां दोषनिवृत्तेरपि केवलायाः प्रामाण्यं प्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति तुल्यमिति । एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्य बोधनी । केवलाया गुणनिवृत्तेप्रामाण्यहेतुत्वं लोके दृष्टं, न चापौरुषेये दोषः सम्भवति । तेन गुणनिवृत्ति- मात्रेण नाप्रामाण्यशङ्केति । दोषनिवृत्तेरपि इति । गुणसहिताया एव दोषव्यावृत्तेः प्रामा- ण्यहेतुत्वं लोके दृष्टमिति न दोषनिवृत्तिमात्रेणाप्रामाण्यशङ्का निवर्त्तत इति । यच्च ज्ञानानां स्वरूपात्स्वग्राहकाद्वा प्रामाण्यं ज्ञायते नान्यस्माद् गुणसंवादादिज्ञानादिति स्वतःप्रामाण्यमुक्तं परैस्तदपि निराकुर्वन्नुपसंहरञ् ज्ञप्तिरपि परत इत्याह। एवम् इति। स्वविष- प्रकाशः। श्रयेश्वरसिद्धिरित्युक्तम् । सम्प्रति प्रमात्वग्रहोऽपि न स्वतः, अपि तु परत इति वैदिकप्रमाया अपि तत्त्वमातोक्तवाक्यजन्यत्वेन ग्राह्यमिति ततोऽपीश्वरः सिद्ध्यतीत्याह— एवमिति । अत्र यद्यपि ज्ञानप्रामाण्यं ज्ञानग्राहकसामग्रीग्राह्यं न वेति न संशयः, परतः पक्षेऽपि ज्ञानस्यापि पक्षतया प्रमात्वानुमितौ ज्ञानग्राहकत्वात्, अप्रामाण्यस्यापि स्वतो ग्राह्यत्वा- पत्तेश्च । तथापि तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यं न वेति संशयः । स्वतः पक्षे प्रामाण्यवत एव ज्ञानस्य ग्रहात् । परतः पक्षे ज्ञात एव ज्ञानेऽनुमित्या प्रामाण्यग्रहात् । तत्र तेनैव प्रामाण्य- ग्रह इति प्राभाकराः । ज्ञानस्यातीन्द्रियतया तदनुमित्या तद्ग्रह इति भाट्टाः । मनसैव ज्ञानस्व- रूपयत् तत्प्रामाण्यग्रह इति मुरारिमिश्राः । त्रितयसाधारणं च स्वतस्त्वं निरुक्तमेव । पूर्वपक्षस्तु, यद्यपि विशेष्यावृत्त्यप्रकारकत्वम्, अगृहीतग्राह्यत्वं वा, प्रभाकरपक्षे स्मृत्यन्यज्ञा- नत्वं विशिष्टज्ञानत्वं वा प्रामाण्यं नानुव्यवसायग्राह्यम्, विशेषणज्ञानं विना विशिष्टज्ञानाभावात् । तथापि तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यं ग्राह्यम्, निष्कम्प-प्रवृत्त्यर्थत्वाल्लाघवाच्च । तच्च ज्ञानग्राहकसामग्रीग्राह्यमेव । तथा हि । विशेष्ये तद्धर्मवत्त्वं तत्प्रकारकत्वं च व्यवसायस्यानु- प्रकाशिका । यायां यथार्थयोग्यताज्ञानमेव गुणः सम्भवतीति न तदर्थं वक्तुरपेक्षा वेदे, तथापि विशेष्यवृत्तित्वि- शेषणज्ञानं गुणः प्रमासामान्यप्रयोजक इत्यभावत्वप्रकारकप्रथमाभावप्रमायामीश्वरीयमभावत्वज्ञानं तदंशप्रमात्वनिष्पत्तये गुण इत्याशयेनेदमुक्तम् । सम्प्रतीति । तथा च प्रमायाः परतन्त्रत्वा- दिति कारिकायां परतन्त्रत्वमुत्पत्तिज्ञप्त्यो विवक्षितमिति ध्येयम् । तज्ज्ञानविषयकेति । पक्षश्च ज्ञान- प्रामाण्यमित्यनुषज्यते । अनुव्यवसायेन गृह्यत इति । तज्ज्ञानविषयकसमानाधिकरणसमानका- मकरन्दः । यापि यथार्थैव दोषः, तादृशी च तत्र नास्त्येवेत्याहुः । वस्तुतो गुणविरह एव दोषः, स च तत्र नास्तीति । अत एव लिङ्गाभासजन्यप्रमायामीश्वरयथार्थलिङ्गज्ञानजन्यत्वेऽप्ययथार्थलिङ्गज्ञानरूप- दोषजन्यतया व्याप्तावकाश एवं भ्रमत्वमपि स्यादित्यपास्तम् । एतदपि सम्प्रदायानुरोधादुक्तम् । वस्तुतोऽसङ्कीर्णबाधस्थले बाधानवतारकाले यथार्थपरामर्शाद्यद्यप्यथार्थानुमित्युत्पत्तेर्बाधितत्वप्रमा गुणः, तद्भ्रमो दोषः । शब्दे च वाक्यार्थभ्रमो दोषस्तत्प्रमा गुणः, योग्यताभ्रमो दोषस्तत्प्रमा- गुण इति वा विवक्षितमिति सर्वमवदातम् । तज्ज्ञानविषयकेति । पक्षश्च ज्ञानप्रामाण्यमित्यनुषज्यते प्रत्यक्षाकाशे चैतदनुसन्धेयम् । टिप्पणी । तत्र तेनैवेति । ज्ञानस्यातीन्द्रियेति । ज्ञानत्वेन ज्ञाततात्वे सामान्यतो व्याप्तिज्ञानादेव तज्ज्ञानानुमितिरिति कारणीभूतज्ञाने तज्ज्ञानस्य विषयत्वान्न निरुक्तस्वतस्त्वानुपपत्तिरिति भावः । व्यवसायस्यानुव्यवसायेनात । ज्ञानविषयकज्ञानेनेत्यर्थः । तेन गुरुमतस्यापि

द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २२१ बोधनी । यनान्तरीयस्यार्थक्रियादेः कारणगुणस्य वा विज्ञानान्निश्चितप्रामाण्यैः प्रवर्त्तकज्ञानैः सह संजातीय- त्वानुसंधानमभ्यासद्दशापत्तिः, तद्दशापन्नानां ज्ञानानामनंतरेणाप्य ऽक्रियादिविज्ञानं तजातीयानुस- न्धानादेव प्रामाण्यं निश्चीयते, तेन तत्र संशयिकत्वमसिद्धं भवेदित्यत उक्तम्-अनभ्यासदशा- याम्-इति। न च व्यभिचारव्यावर्त्तनायैव हेतोर्विशेषणम्। रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वा- दित्युक्तानसिद्धिपरिहारार्थमपि दृष्टत्वादिति। तज्जातीयत्वानुसंधानदशायां हि जाते ज्ञानेऽपि निश्चि- तेऽपि तत्स्वरूपे प्रामाण्यं प्रति संशेरते ज्ञातारः किमिदं प्रमाणमप्रमाणं वेति। तस्माज् ज्ञानस्वरू- पाद् स्वग्राहकाद्वा न प्रामाण्यनिश्चयः, किन्तु परतोऽर्थक्रियादिविज्ञानाद्, यथैवाप्रामाण्यनिश्चयः परतो प्रकाशः । व्यवसायेन गृह्यते । ज्ञानस्य विषयन्निरूप्यतया ज्ञानवित्तिवेद्यो विषय इति व्यवसाये भासमाने धर्मधर्मिवत्तद्वैशिष्ट्यमपि विषयः, व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । अत एव रजतत्वेन पुरो- वर्तिनं जानामीति तदाकारः । अन्यथा, पुरोवर्तिनं रजतञ्च जानामीति तदाकारापत्तिः । अप्रा- माण्यं तु परतो ज्ञायते, तदभाववत्त्वस्य भ्रमांगुलिखितत्वेनानुव्यवसायाविषयत्वात् । न चैव- मनुव्यवसायस्य यावद्व्यवसायविषयविषयकत्वे भ्रान्तभ्रान्तिज्ञसङ्करः, बाधानवतारदशायामिष्ट- त्वात् , तदवतारे तस्यैव प्रतिबन्धकत्वादिति । तत्र सिद्धान्त्याह । एवमिति । अनभ्यासदशायामिति भागासिद्धिवारणार्थम् , न तु व्यभिचारनिरासार्थम् । परतो ज्ञेयत्वस्य केवलान्वयित्वात् । ननु स्वस्याप्यन्यापेक्षया परत्वाद् भट्टमते ज्ञाताऽनुमितिग्राह्यत्वाच्च सिद्धसाधनम् । परतो ग्राह्यत्वेऽपि कदाचित् स्वतो ग्राह्यत्वावि- रोधाद् , अर्थेन व्यभिचारश्च । तस्य तज्ज्ञानग्राह्यस्य ज्ञानप्रामाण्यसन्देहेन सन्दिह्यमानत्वात् । न च ज्ञानत्वेन हेतुर्विशेषणीयः । ज्ञानविषयकज्ञानप्रामाण्यसन्देहाहि-ज्ञानरूपार्थसन्देहेऽपि प्रकाशिका । लीनज्ञानेनेत्यर्थः । तेन सार्वसाधारण्यम् । व्यवसायरूपेति । व्यवसायविषयं प्रत्येव प्रत्यासत्तिक- थनमिदम्, एतदभावेऽपि ज्ञानत्वादिभानादिति स्मर्त्तव्यम्। भागासिद्धिवारणार्थं पक्षविशेषणं बोद्धव्य- मितिशेषः । नन्विति । हेतुविशेषणमिति शेषः। न च ज्ञानत्वेनेति । न चैवं स्वरूपासिद्धिर्दृष्टान्ता- सिद्धी इति वाच्यम् । ज्ञानधर्मत्वेनेत्यर्थात् । न चैवं ज्ञानरूपार्थे व्यभिचारप्रदर्शनमग्रेतनं विरुद्धमिति वाच्यम् । तत्रापि ज्ञानपदेन ज्ञानत्वमभिधानात् । केचित्तु ज्ञानत्वेनेत्यस्य ज्ञानाविषयप्रतीत्यविषय- मकरन्दः । भागासिद्धिरिति । पक्षविशेषणं बोध्यमिति शेषः । न त्विति । हेतुविशेषणमिति शेषः । न च ज्ञानत्वेनेति । ज्ञानाविषयप्रतीत्यविषयत्वेनेत्यर्थः । यथाश्रुते स्वरूपासिद्धिप्रसङ्ग इति बोध्यम् । यत्तु ज्ञानधर्मत्वेनेत्यर्थ इति तन्न। ज्ञानरूपार्थेऽनुपदं व्यभिचारोपदर्शनविरोधात् । टिप्पणी । संग्रहः । अत एवेति । वैशिष्ट्यस्यापि विषयत्वादेव । ननु स्वतो ग्राह्यत्वं परतो- ग्राह्यत्वञ्च परस्परविरुद्धमिति स्वतो ग्राह्यत्वमङ्गीकर्तॄणामसिद्धमेव परतो ग्राह्यत्वमत आह । परत इति । तथा च न तयोर्विरोध इति । स्वाश्रयानतिरिक्तज्ञानग्राह्यत्वस्य परतस्त्वस्वरूपत्वाद् भट्टेति । अविरोधादिति । परतो ग्राह्यत्वस्य स्वतो ग्राह्यत्वासिद्धत्वं कल्पयितुन्न शक्यत इति भावः । तज्ज्ञानप्रामाण्यं तज्ज्ञानेन गृह्यत इत्येवं साधने त्वाह-अर्थेन व्यभि- चारश्चेति । तज्ज्ञानग्राह्यस्येति । अनेन साध्यव्यतिरेको दर्शितः । न च ज्ञानत्वेनेति । ज्ञानाविषयकप्रतीत्यविषयोऽत्र ज्ञानपदार्थः। तेन प्रामाण्यस्य ज्ञानत्वाभावेन स्वरूपासिद्धिरिति शङ्काया

२२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रकाशः । तस्य निश्चितत्वेन तथापि व्यभिचारात् । उच्यते । अनभ्यासदशोत्पन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यं तदन्यग्राह्यं वा, स्वाश्रये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात् , प्रकाशिका । त्वेनेत्यर्थः । अतो न पक्षदृष्टान्तासिद्धि। न वाग्रे दर्शितव्यभिचारविरोध इत्याहुः । अनभ्यासद- शोत्पन्नेति । इदं च भागासिद्धिवारणाय पक्षविशेषणम् हेतोरन्यतरोप लक्षणम् । न स्वाश्रयेति । न यावत्स्वाश्रयग्राह्यमित्यर्थः, तेन योगिज्ञानादिग्राह्यत्वमादाय न बाघः, सर्वविशेष्यकत्वे सति सर्व- प्रकारकत्वन्तु प्रामाण्यमपक्ष एवेति न निरुक्तसाध्येऽप्यंशतो बाघः । तदन्येति । यावत्स्वाश्रयग्रा- ह्यत्वे सति स्वाश्रयातिरिक्ताग्राह्यत्वं साध्यम् । तेन यथाश्रुतेऽनुमितिमादाय-सिद्धसाधनं मात्रपदप्र- वेशे योगिज्ञानमादाय बाध इति दूषणं निरस्तम् । स्वाश्रयीभूतास्मदादिज्ञानव्यक्त्यतिरिक्तमात्रग्रा- ह्यत्वं साध्यम् । तेन नोक्तदोषावकाश इति कश्चित् । स्वाश्रये सत्यपीति । अपिशब्दो विपक्ष बाधकसूचनाय सतिसप्तमीमहिम्ना सामानाधिकरण्यं लभ्यते तेन स्वाश्रयसमानाधिकरणस्वाश्र- मकरन्दः । ज्ञानत्वे व्यभिचारोपदर्शनपरं तदिति ज्ञानधर्मपरत्वेऽप्यदोष इत्यन्ये । मनभ्यासदशापन्नेति । कर्त्तव्यहेतुर्यावति तावंत एव पक्षत्वमभिमतम् । अनभ्यासदशापन्नेऽपि सर्वत्र न संशय इति यथाश्रुते भागासिद्धितादवस्थ्यापत्तेरिति । न स्वाश्रयेति । न यावत्स्वाश्रयग्राह्य मित्यर्थः । तेन योगीश्वरज्ञानस्य सर्वप्रामाण्याश्रयतया तद्ग्राह्यत्वेन न बाधः । यद्यपि सर्वविषयकज्ञानमात्रवृत्तिप्रामाण्यांशे बाधः । तथापि तस्य पक्ष- बहिर्भाव एवेति बोध्यम् । तदन्येति । स्वाश्रयान्येत्यर्थः । ननु परेषामपि प्रामाण्यस्यानुमिति- ग्राह्यत्वाभ्युपगमेन सिद्धसाधनम् । न च स्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः, उक्तन्यायेन प्रामा- ण्यमात्रस्यैव स्वाश्रयीभूतयोगीश्वरज्ञानादिग्राह्यतया बाधापत्तेरिति चेन्न । स्वाश्रयपदेन स्वाश्रय- त्वावच्छिन्नं न विवक्षितं, येनोक्तदोषः स्यात् , किन्तु स्वाश्रयीभूतास्मदादिज्ञानव्यक्तिः, तदति- रिक्तमात्रग्राह्यमित्यर्थः । स्वाश्रये सत्यपीति । विपक्षबाधक तर्कसूचनायापिशब्दः, सतिसप्तमीमहिम्ना च स्वाश्रयसा- मानाधिकरण्यं पक्षविशेषणं लभ्यते । तथा च स्वाश्रयसमानाधिकरणस्वाश्रयाधिकरणक्षणावधिकतृ- टिप्पणी । निराशः प्रामाण्यस्याप्युक्तज्ञानत्वात् । तस्य निश्चितत्वेनेति । ज्ञानरूपार्थस्य प्रामाण्याश्रयत्वे नाभिमतज्ञानज्ञानग्राह्यत्वेन निश्चितत्वेनेत्यर्थः । न स्वाश्रयग्राह्यमिति । भट्टं प्रति साधने च स्वाश्रयविषयकयावद्ग्राह्याभावः साध्यः । तेन नेश्वरज्ञानमादाय स्वमते बाधः, मीमांसकमात्रं प्रत्येव साधनीयत्वेन गुरुमते स्वाश्रययावद्ग्राह्यत्वस्यैव सत्त्वेन न सिद्धसाधनम् विशिष्य स्वाश्रय- विषयकज्ञानाजन्यज्ञानविषयत्वस्य विषयेऽपि सत्त्वाविरोधादित्यर्थः । तदन्यग्राह्यं चेति । मीमांसकसामान्यं प्रत्येव साधनस्य प्रस्तुतत्वेन प्रभाकरमते स्वाश्रयेणापि ग्रहणाद् भट्टादिकम्प्रत्येव तथात्वे जन्यस्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः । नातो भट्टादिमते स्वाश्रयातिरिक्तानुमित्यनुव्यवसायग्राह्यत्वेऽपि सिद्धसाधनम् । यद्वा भट्टादिमतेऽनुमित्य- नुव्यवसाययोः स्वातन्त्र्येणापि व्यवसायविषययावद्ग्राहकतवेन तयोस्तदंशे व्यवसायसमाना- कारकत्वा स्वाश्रयत्वेनैव सिद्धसाधनाभावान्मात्रपदन्न देयम् , स्वमते च प्रामाण्यानुमितिर्न व्यवसायसमानाकारिका व्यवसायविषयवह्निमत्पर्वतादेराधेयतया विशेष्यत्वे प्रकारत्वात् पर्वतादौ बह्वयधिकरणत्वादरेव वा प्रमात्वघटकत्वादिति । संशयविषयत्वादिति । स्वाश्रय-

द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २२३ प्रकाशः । प्रामाण्यसंशयाजन्यसंशयविषयत्वाद्वा, अप्रामाण्यवत् । अर्थे निश्चितेऽपि न निश्चयानन्तरतृतीय- क्षणेऽर्थसंशयो न वा प्रामाण्यसंशयं विनेति नार्थेन व्यभिचारः । स्वशब्दस्य सम्बन्धिशब्दत्वेन समभिव्याहृतपरत्वान्न स्वस्य परत्वम् । यथोक्तं, "यावद्व्यवसायोल्लिखितप्रकारविशिष्ट एव धर्म्य- नुव्यवसाये भासते" तन्न । तथा हीदं रजतञ्च जानामीति नानुव्यवसायः, बहिर्विशेष्यके मनसो- ऽस्वातान्त्र्यात् , किं स्विदमिदन्त्वेन रजतत्वेन जानामीति । तत्रेदन्त्वरजतत्वे प्रकारत्वेन, तत्प्र- कारकज्ञानवत्त्वञ्चात्मनि भासते, अन्यथा प्रकारवाचितृतीयाऽर्थोऽसम्भवः । न च रजतत्ववैशिष्ट्यमेव तृतीयार्थः, व्यवसायेऽपि तदुल्लेखापत्तेः । अतः, इदन्त्वरजतत्ववैशिष्ट्यं पुरोवर्तिनो नानुव्यव- सायविषय इति कुतः स्वतः प्रामाण्यग्रहः । ननु परतः प्रामाण्यपक्षेऽपि परस्य शब्दादेरभावेऽनुमानं वाच्यम् , तच्च लिङ्गाभावादसं- भवि । समर्थप्रवृत्तिजनकत्वं लिङ्गमिति चेन्न । कारणतावच्छेदकरूपग्रहं विना तद्ग्रहात् । तद् प्रकाशिका । यावधिकतृतीयक्षणवृत्तिसंशयविषयत्वादिति हेतुः पर्यवस्यति, यत्र विशेष्ये तादृशसंशयकोटित्वं तत्र विशेष्ये न स्वाश्रयग्राह्यमिति सामान्यव्याप्त्येदेमनुमानमभिप्रेतमतो न रूपं गुण इति ज्ञानानन्तरं ज्ञानं गुणो न वेति यथोक्तसंशयकोटौ गुणत्वे व्यभिचारः । वस्तुतो यज्ज्ञानव्यक्त्यनन्तरं तृतीयक्षणे नैतादृ- शसंशयः, तद्व्यक्त्युत्तरतृतीयक्षणवृत्तिसंशयविषयत्वादित्येव हेतुरतो नोक्तक्रमेण गुणत्वे व्यभिचा- रशङ्का । एतेन यत्र धर्मोत्पत्तिपूर्वमेव धर्मिज्ञानकोटिस्मरणे दैवात् तत्र ज्ञानोत्पत्तेरनन्तरं प्रामाण्य- संशयः, तदनन्तरमर्थसंशय इत्यर्थे हेतोर्व्यभिचार इत्यपास्तम् । अतादृशव्यक्तिविशेष्योत्तरतृतीय- क्षणवृत्तिसंशयविषयत्वस्यैव हेतुत्वात् । प्रामाण्येति । स्वाश्रयविशेष्यकप्रामाण्यसंशयजन्यसंशययो- ग्यत्वादित्यर्थः । समर्थप्रवृत्तिजनकत्वमिति । न च जनकतावच्छेदकप्रामाण्याग्रहे कथं जनकता ग्रह इति वाच्यम् । उक्तग्राहक सत्त्वे तृणारणिमणिन्यायेन व्यक्तावपि तद्ग्रहसम्भवात् । ज्ञाने प्रवृ- त्तिजनकत्वं प्रवृत्तौ समर्थत्वं गृह्यत इति विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति न्यायेन विशि- मकरन्दः । तीयक्षणवर्त्तिद्विमात्रकोटिकसंशयकोटित्वादित्यर्थः । तेन यत्र रूपं गुण इति ज्ञाने गुणत्वतदभाव-प्रा- माण्यतदभावकोटिकः समूहालम्बनः संशयः, तत्र गुणत्वे हेत्वभावादेव न व्यभिचारः । यत्र च गुणत्वतदभावमात्रकोटिकः संशयः, तत्र तादृशसंशयविषयप्रामाण्याश्रयज्ञानग्राह्यत्वाभावरूपसाध्य- सत्त्वादेव न व्यभिचार इति । यद्वा, तादृशतदधिकरणकसंशयकोटित्वादिति हेतुः । तथा च यत्र- तादृशतदधिकरणकसंशयकोटित्वं तत्र तन्निष्ठतया न स्वाश्रयग्राह्यत्वमिति सामान्यतो व्याप्तिरभि- मता । एवञ्च गुणत्वस्य रूपनिष्ठतया स्वाश्रयेण ग्रहेऽपि स्वाश्रयनिष्ठतयाऽग्रहेण विशिष्टाभावसत्त्वात् तत्र न व्यभिचार इति । के चित्तु यद्व्यवसायविषयकोटिको यद्व्यवसायधर्मिकश्च सन्देहस्तृतीय- क्षणे जायते तत्प्रामाण्यस्यैव पक्षत्वात् तत्प्रामाण्याश्रयग्राह्यत्वाभावो गुणत्वेऽस्त्येवेति न व्यभि- चार इत्याहुः । प्रामाण्यसंशयेति । स्वाश्रयविशेष्यकप्रामाण्यसंशयायोग्यत्वादित्यर्थः । विस्तरस्तु प्रत्यक्ष- प्रकाशेऽनुसन्धेयः । समर्थेति । न च जनकतावच्छेदकस्य प्रामाण्यस्याग्रहे कथं तद्ग्रह इति वाच्यम् । उक्तग्राहक सत्त्वे तृणारणिमणिन्यायेन व्यक्तावपि तद्ग्रहसम्भवात् । यद्वा, ज्ञानवृत्तिप्रवृ- टिप्पणी । समानाधिकरणस्वाश्रयावधिकतृतीयक्षणवर्त्तिसंशयविषयत्वादिति पर्यवसितो हेत्वर्थः । न स्वस्य परत्वमिति । न प्रामाण्यमात्रपरत्वमित्यर्थः । तेन दृष्टान्तेऽप्रामाण्ये न साध्यवैकल्यम् । व्यवसायेऽपीति । रजतत्वेनेदमिति व्यवसायस्याप्यभिलापापत्तेः । कारणतावच्छेदकरूपं-

२२४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १ कारिकान्याख्यायां

प्रकाशः । यदि प्रमात्वमेव, तदाऽऽत्माश्रयः । अन्यच्चेत्, तदेव प्रामाण्ये लिङ्गमस्तु, उपजीव्यत्वात् । न च तृणारणिमणिन्यायेन व्यक्तावेव कारणत्वं गृहीत्वा समर्थप्रवृत्तिजनकत्वग्रहः, ग्राहकाभा- वात् । न च प्रत्यक्षमेव तद्ग्राहकम् । तद्धि न बहिरिन्द्रियजन्यम् । आन्तरत्वात् । नापि मान- सम् । तद्धि समर्थप्रवृत्तेः प्रागुत्तरकालं वा ? नाद्यः । समर्थप्रवृत्तेरभावात्तद्वैशिष्ट्याग्रहात् । नान्त्यः । ज्ञानस्य नष्टत्वेन मनसा प्रत्यासत्त्यभावात् । नाऽपि तज्जातीयत्वं लिङ्गम् । तद्धि करचरणवति शरीरज्ञानत्वादि । तत्र करचरणाद्यन्तरवति करचरणाद्यन्तरवत्त्वज्ञाने व्यभिचारः । तत्रापि शरीरांशे प्रमात्वमेवेति चेत्, तर्हि, करचरणादीति व्यर्थम् । शरीरभ्रमेऽपि कस्याश्चि- च्छरीरव्यक्तेर्भानात्, तत्र तस्य प्रामाण्यात् । अन्यथा शरीरत्वस्यैव भानायोगात् । करचरणा- दिशून्ये यच्छरीरत्वेन ज्ञानं तद्व्यावृत्त्यर्थं तदिति चेत् । करचरणादिमत्त्वमुपलक्षणं विशेषणं वा ? नाद्यः । व्यावृत्तोपलक्ष्याभावात् । नान्त्यः । विषयतया हि न ज्ञानविशेषणत्वं करचरणवत्प्र- कारकज्ञानविषयत्वस्य व्यभिचारात्, अशरीरेऽपि तादृशभ्रमसम्भवात्, शरीरज्ञाने तदसिद्धे- श्च । विषयविशेष्यत्वे च करचरणवद्विषयकशरीरज्ञानत्वस्य व्यभिचारात् । शरीरभ्रमस्यापि।

टिप्पणी । विनेति । अवच्छेदकरूपग्रहं विनेत्यर्थः । तदाऽऽत्माश्रय इति । जनकताया जनकताव- च्छेदकरूपत्वाभिमानेनात्माश्रय इत्यन्यथान्योऽन्याश्रयो बोध्यः । आन्तरत्वादिति । कार्यकार- णयोः प्रवृत्तिप्रमयोर्बहिरिन्द्रियाग्राह्यत्वेन तत्कार्यकारणभावस्यापि तत्त्वादित्यर्थः । वैशिष्ट्या- ग्रहादिति । सम्बन्धग्रहस्य सम्बन्धिग्रहसापेक्षत्वेन प्रवृत्तेरग्रहे तत्सम्बन्धस्य कारणत्वघट- कस्य कार्यकारणभावस्य वा ग्रहीतुमशक्यत्वादित्यर्थः । ज्ञानस्य नष्टत्वेन इति। प्रवृत्त्युत्तर- क्षणस्य प्रमातृतीयक्षणत्वेन तदानीं तत्र विशेष्यसन्निकर्षाभावादित्यर्थः । करचरणवतीति । अत्र सप्तम्या विषयत्वमात्रपरत्वमभिप्रायोऽवासेयः । इदं ज्ञानं शरीरप्रमात्त्ववत् करचरणादिम- द्विषयकशरीरज्ञानत्वादित्यनुमाने तच्छरीरे तच्छरीरवृत्तिकरचरणज्ञानस्य भ्रमत्वेन साध्याभाववत्त्व- मभिमत्य दोषमाह । तत्रेति उक्तज्ञानस्य भ्रमत्वेऽपि करचरणादिमत्त्वांश एव न तु शरीरांशे, विशेष्यांशे सर्वज्ञानस्य प्रमात्वाभ्युपगमात् , साध्यञ्च शरीरप्रमात्वमेवेति कुतो व्यभिचार इत्याशङ्कते । तत्रापि शरीरांश इति। शरीरभ्रमेऽपीति । शरीरत्वविशिष्टशरीरविषयकभ्र- मेऽपीत्यर्थः, न तु शरीरत्वत्वेन भ्रमेऽपीत्यर्थः, तस्य शरीरविषयकस्यापि सम्भवात् । करचरणा- दीति । शरीरप्रमात्वञ्च शरीरत्ववति शरीरत्वप्रकारकज्ञानत्वं तदेव साध्यं, हेतुघटकं शरीरज्ञानञ्च न शरीरत्वविशिष्टविषयकज्ञानत्वं किन्तु शरीरत्वप्रकारकज्ञानत्वमेव तस्य च स्थाण्वादौ शरीरभ्रमे सत्त्वेन व्यभिचारः स्यादिति करचरणादिमद्विशेष्यकत्वमुपादेयमित्याह । करेत्यादि । व्यावृत्तो- पलक्ष्याभावादिति । अविद्यमानेन येन यदितरतो व्यावर्त्यते तदुपलक्षणमुपरञ्जकञ्चोच्यते दशाविशेषे करचरणादिशून्यस्या शरीरव्यावृत्तस्याभावात् कथमुपलक्षणं स्यादिति भावः। विषतया हीति करचरणवतीत्यत्र सप्तम्या आधेयत्वमर्थः, प्रकारतया करचरणवद्वृत्तिशरीरत्वप्रकारकज्ञानत्वं हेतुः पद्यवसितः। करचरणवत्प्रकारकेति । “करचरणवत्प्रकारकशरीरत्वज्ञानस्य व्यभिचा- रादिति” क्वचित् पाठः। विषयत्वस्य व्यभिचारादिति । विषयतया शरीरत्वप्रकारप्रमाव्यभि- चारादित्यर्थः । तथा च स्थाणुविषयके करचरणादिमदिदं शरीरमिति भ्रमेऽपि हेतोः सत्त्वेन साध्यस्य तत्राभावात् व्यभिचार इति भावः । शरीरज्ञानेऽपीति । इदं शरीरमिति प्रमायाः करायप्रका- रकत्वेन तत्र भागासिद्धेरिति भावः । शरीरज्ञानत्वस्येति । करचरणवद्विषयकत्वे सति शरी- रत्वप्रकारकज्ञानत्वस्येत्यर्थः । शरीरभ्रमस्यापीति । स्थाणुशरीरयोः शरीरत्वस्यानुगत

द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२५ प्रकाशः । वस्तुतः करादिमद्विषयकत्वात् । न च करचरणशून्ये यच्छरीरत्वेन ज्ञानं न भवतीति विवक्षितम् । तृतीयार्थस्य विषयत्वे स्वरूपासिद्धेः । शरीरज्ञानस्य तच्छून्यशरीरत्वादिविषयकत्वनियमात् । अत्राहूः । समर्थप्रवृत्तिजनकत्वं प्रवृत्त्युत्तरकालं संस्कारोपनीतज्ञाने प्रमेयत्वाभिधेयत्वव्या- प्तिवद् गृह्यते । यद्वा पूर्वं पृथिवीज्ञाने पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितौ कदाचित् तत्रैव गन्धस्य तद्विरोधिविरहस्य साक्षात्कारे पुनः स्मृतिरूपे पृथिवीज्ञाने सति तत्सन्निकृष्टेन प्रत्य- भिज्ञान इव विशेषणज्ञानजनितसंस्कारापेक्षेण मनसा गन्धवत्त्वेनेवाय निश्चय इत्याकारेण सुरभि चन्दनमिति चान्नुपवज्ज्ञानजननान्न ग्राहकाभावादत्वसिद्धिः । तज्जातीयत्वमपि करचरणबद्वि- शेप्यकशरीरत्वप्रकारकज्ञानकत्त्वादि । शरीरभ्रमे करचरणवतो विशेषणत्वात् । प्रथमं च प्रामा- ण्यानुमितिः केवलव्यतिरेकिणा । प्रकाशिका । ष्टविशेषणकहेतुग्रहसम्भवाच्च । पुनः स्मृतिरूप इति । अत्र केचित् । पृथिवीज्ञानि = पृथिवीज्ञानज्ञाने । अन्यथा पृथिवी- वीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यस्य वैय- र्थ्यापत्तेः । एवं च ततः सन्निकृष्टेनेत्यस्य तत्स्मृतिरूपसन्निकर्षवतेत्यर्थ इति व्याचक्षते । वस्तुतो गन्धवद्विशेष्यकत्वोपनयार्थमेव पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसायोपयोगः । एवं च पृथिवीत्वपदं गन्धवत्त्वपरम् , एवं च पृथिवीज्ञाने जाते तद्विषये गन्धवत्त्वपरिच्छेदे गन्धव- त्त्वप्रकारकनिश्चयत्वानुव्यवसितौ स्मृतिरूपे पृथिवीज्ञाने तत्सन्निकृष्टेन मनसा स्मृत्युपनीतगन्धव- मकरन्दः । त्तिसामान्यजनकत्वमेक हेतुप्रविष्टम् , तथा चोपनोते ज्ञाने प्रवृत्तिजनकत्वे प्रवृत्तौ च समर्थत्वमुप- नीतं गृह्यत इत्यथोद्दिशिष्टवैशिष्ट्यरूपहेतुग्रह उपपद्यत इति । स्मृतिरूपे पृथिवीज्ञाने इति । पृथिवीज्ञानज्ञाने इत्यर्थः । अन्यथा पृथिवीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यनर्थकमापद्येत । एवञ्च तत्सन्निकृष्टेनेत्यस्य स्मृतिरूपसविषयकसहकारिणेत्यर्थः । तथा च स्मृत्युपनीते पूर्वानुभव एव गन्धवद्विशेष्यकत्वनिश्चय इति तद्विशेष्यकपृथिवीत्वप्रकारकज्ञानत्वाद हेतुग्रह इति भावः । टिप्पणी । प्रकारकभ्रमस्यापीत्यर्थः । तृतीयार्थस्य विषयत्व इति । विषयत्वरूपत्वे, सप्तम्या अपि तत्त्व इत्यपि वाच्यम् । अभिधेयत्वव्याप्तिवद् गृह्यते इति । प्रमादिघटिते तत्र नियमेनोपनया- पेक्षासम्भवात् । तद्विरोधिविरहस्येति । गन्धविरोधीशीतोष्णस्पर्शादिग्रहे गन्धसाक्षात्- कारे शङ्खपीतत्वसाक्षात्कार इव दोषजत्वशङ्कया प्रामाण्यसंशये गन्धवद्विशेष्यकत्वांशपरिच्छेदो न स्यात्तस्य तत्र विरोधित्वात् अतः सर्वथैव तदभावदार्थ्याय गन्धविरुद्धत्वेन ये ये गृहीतास्त- त्कालमुपस्थिताश्च तेषामभावसाक्षात्कारपर्यन्तानुसरणमिति भावः । पृथिवीज्ञाने स- तीति । पृथिवीज्ञानज्ञाने सतीत्यर्थः । गन्धवत्त्वे चाद्यनिश्चय इति । गन्धवद्विशेष्यकपृ- थिवीत्वप्रकारकोऽयं निश्चय इत्यर्थः । इत्याकारेण सुरभिचन्दनमितीति । अभेदे तृतीया ततश्च तज्ज्ञानेत्यत्रान्वेति । करचरणवद्विशेष्यकेति । करचरणवनिष्ठविशेष्यतानिरूपित- शरीरत्वप्रकारतानिरूप कज्ञानत्वादिरूपं निर्वक्तुं शक्यत इत्यर्थः । शरीरभ्रमे चेति । स्थाणुत्वा- दिना शरीरभ्रमे न तु शरीरत्वेन शरीरप्रकारकभ्रम इत्यर्थः । तत्र व्यभिचारस्याप्रसक्तत्वाद्धेतोः सत्त्वाच्च करचरणवतोऽविशेषणत्वादिति न विद्यते ज्ञाने विवक्षितशरीरत्वरूपविशेषणं यत्र तत्त्वादित्यर्थः । अन्यथा विशेषणत्वोक्त्या विशेष्यत्वमेव व्यावत्त्यं स्यात्तस्य शरीरादेः सखण्डत्वे- २६ न्या० कु०

२२६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां प्रकाशः । ननु न् प्रामाण्यप्रसिद्धिं ना ऽव्याप्त्यग्रहात् कथमनुमानं ? अथ, व्याघातात् प्रमातद्विषय- सिद्धौ सामान्यतः साध्यप्रसिद्ध्या न तदप्रसिद्धिः, विशिष्यानिर्णयाच्च नान्वयिवासाधारणत्वे इति चेत्, तर्हि, कस्यापि प्रथमं स्वार्थे प्रामाण्यानुमितिर्न स्यात् । प्रामाण्यनिषेधरूपस्य परकीय- व्याघातस्य तदाऽनुपस्थितेः । स्वयं प्रामाण्यनिषेधस्य च तद्धीपूर्वकत्वात् । मैवम् । प्राग्भवीय- संस्काराद्विशेष्यावृत्त्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा प्रामाण्यमात्रं स्मृतं, पृथिवीज्ञानादौ साध्यभानं सर्वनाममहिम्ना पक्षधर्मताबलात् पृथिवीज्ञानस्य विशेष्यावृत्त्यप्रकारकत्वादौ पर्यवस्यति स्वतः प्रामाण्यनिषेधे प्राथमिकप्रामाण्यज्ञानस्यान्यथोपपादयितुमशक्यत्वादिति साम्प्रदायिकाः । अस्मत्पितृचरणास्तु, - प्रथमं प्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यम् । तत एव निष्कम्पप्रवृत्तेरुपपत्तेः । तदेव वा सिद्ध्यत् पक्षधर्मताबलेन तद्वति तत्प्रकारकनिश्चयत्वादिक- प्रकाशिका । द्विशेष्यकत्वग्रह इति न हेत्वसिद्धिरिति समुदयार्थः । सर्वनाममहिम्नेति । इदं च दृष्टान्ततयो- क्तम् । तेन यथा शाब्दबोधे सर्वनाममहिम्ना विशेषविषयता तथानुमानिके पक्षधर्मताबलात्तथे- त्यर्थः । ननु देवदत्तत्वादिप्रकारं ज्ञानं जन्मान्तरे नानुभूतं तद्वति तत्प्रकारकत्वञ्चैकं नास्त्येवेति न त- त्रोक्तगतिः, किंच प्रकारान्तरसत्त्वेऽनुपपत्तिरपि प्राग्भवीयसंस्कारोद्बोधिका नास्तीत्यनुशयेनाह । अ- स्मत्पितृचरणास्त्विति । तदेवेति । यद्यपि पक्षधर्मताबलेन व्यापकत्वेन गृहीतस्य धर्मस्य पक्ष- सम्बन्धमात्रं सिद्ध्यति न तु तत्समनियतधर्म्मान्तरमपि तथाप्यग्रिमव्यतिरेकिणा तत्सिद्धिरित्यत्र (१) तात्पर्यम् । अयं च प्रकारः क्वचित् सम्भवतीत्युपन्यस्तो न तु सार्वत्रिकः । एतेन प्रमेयत्वप्रकारकज्ञाने नायं कल्पः, तत्राप्रामाण्याप्रसिद्धेः । किञ्चायमपि कल्पोऽप्रामाण्यप्रसिद्धौ, तत्प्रसिद्धिश्च जन्मान्तरी- यसंस्कारादुपपाद्या तथा च प्रामाण्यप्रसिद्धिरपि तथैवास्तु किमनेन कल्पेनेत्यादि दूषणं निरवका- मकरन्दः । सर्वनाममहिम्नेत्यनेनानुपपत्तिविशेषः पक्षधर्मतासहकारी विवक्षित इति नानुमाने तदुप- योग इति दूषणमनवकाशमित्येके । दृष्टान्तपरतया तदित्यन्ये । ननु तद्वत्त्वस्यैकस्याभावाद् देव- दत्तादिज्ञानप्रामाण्यं जन्मान्तरे नानुभूतमिति तत्र नोक्तगतिसम्भवः । गत्यन्तरसत्त्वे प्राग्भवीय- संस्कारोद्बोधे मानाभावश्चेत्यनुशयादाह । प्रथममिति । तत एवेति । अप्रामाण्यशङ्काविधू- ननस्य ततोऽपि भावादिति भावः । तदेवेति । यद्यपि पक्षधर्मतावलादप्यखण्डाभावस्य पक्षी- यत्वं व्यापकतानवच्छेदकप्रकारेण सिद्ध्यति, न तु तद्वत्तत्यादिकं, तथापि तदनन्तरमर्थात्तत्सिद्धिरि- त्यत्र तात्पर्यम् । अत्र चाप्रसिद्धाभावोऽपि प्रतियोगिप्रसिद्ध्या व्यतिरेकव्याप्तिग्रहे सति सिद्ध्येत् । न चाप्रामाण्यं प्रसिद्धं, प्रामाण्यवत्तस्याप्यतीन्द्रियत्वात् । तदर्थं प्राग्भवीयसंस्काराद्यनुसरणं च प्रामाण्यानुमानार्थमेव तदनुसरणमर्हं, लाघवादावश्यकत्वाच्च । प्रमेयमित्यादिज्ञाने चाप्रामाण्या- टिप्पणी । नासम्भवदिति । अथ व्याघातादिति । परेण प्रमातद्विषयनिषेधोद्भावनात् ; तद्वति तत् प्रकारकत्वमादाय पक्षधर्म्मताबलेनेति व्यापकस्य तत्तद्रूपेणागृहीतस्य भानेऽनुभवानुरोधाद्या- लाघवज्ञानादेः सामर्थ्यं कल्प्यते तथा निरुक्तव्याप्तिग्रहकालीनपक्षधर्मताग्रहस्याप्यनुभवानुरोधाद् विशेष्ये विशेषणमिति रीत्या निरुक्तप्रामाण्यभाने सामर्थ्यकल्पनादिति भावः । निर्द्धम्मितावच्छे- (१) अप्रामाण्याभावविशेष्यकप्रथमानुमितेरितरबाधविधया द्वितीये तत्प्रकारकानुमितौ प्रामाण्यभाने पक्षधर्मतासहकारित्वमिति भावः ।

द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२७ प्रकाशः । मादाय सिद्ध्यति । तथा हि । अयं पृथिवीत्वेनानुभवो न पृथिवीत्वाभाववति पृथिवीत्वप्रकारकः; गन्धवद्विषयकप्रयत्नजनकपृथिवीत्वप्रकारकज्ञानत्वात् यन्नैवं तन्नैवम् । यथा पृथिवीभ्रमः। एवञ्च पृथिवीभ्रमे पृथिवीत्वाभाववति पृथिवीत्वप्रकारकत्वसमर्थप्रवृत्तिजनकत्वाभावयोर्व्याप्तिग्रहा- दप्रामाण्यव्यापकहेत्वभावाभावरूपाद्धेतोराप्रामाण्याभावरूपं साध्यं सिद्ध्यति । यद्व्यापकतया हेत्वभावो गृहीतस्तदभाव एव हि हेतुना साध्यते । यत्र त्वभावव्यापकता हेत्वभावस्य ज्ञायते, तत्र साध्यप्रसिद्धिरनुमानाङ्गम् , तां विना तदभावात् यत्र च भावव्यापकता हेत्वभावस्य, तत्र न साऽङ्गम्, तां विनाऽपि व्यतिरेकव्याप्तिग्रहात् । विशेषणज्ञानं विना कथं प्रामाण्यविशिष्टानुमिति- रिति चेत् । प्रथमं न कथम्चित् । ज्ञाने प्रामाण्यमित्यनुमित्यनन्तरं तेनैव हेतुना तत्र प्रामाण्य- विशिष्टानुमितिः, अभावविशेष्यकज्ञानानन्तरम् , अभाववद् भूतलमिति ज्ञानवत् । एवं तदभाववति तत्प्रकारकत्वव्यतिरेकः सिद्धस्तद्वति तत्प्रकारकत्वमादाय पक्षधर्मताबलेन सिद्ध्यतीतिं तत्त्वचिन्ता- प्रकाशिका । शम् । अप्रामाण्यशङ्काविरहस्य क्वचिदेव संभव इत्याशयेनैतत्कल्पावतारात् । अयमिति । अनु- भवपदं निश्चयपरम् तल्लाभायैव च हेतुनिष्ठनिश्चयपदं न तु हेतुप्रविष्टं वैयर्थ्यात् । निष्प्रकारक- त्वेनान्यप्रकारकत्वेन वार्थान्तरवारणाय तृतीयान्तम् । पृथिवीभ्रमपक्षैकदेशतो बाधः स्यादिति तद्वार- णाय अयमिति । पृथिवीविशेष्यक इत्यर्थः । पृथिवीत्वाभाववतीति । अत्र पृथिवीत्वाभाववद्वि- शेष्यकत्वाभावमात्रं साध्यमन्यथा वैयर्थ्यात् । अप्रामाण्यस्याभावरूपत्वेन व्याप्त्यवेन च व्यर्थविशेष- णतायाः दुष्परिहरत्वात् पृथिवीत्वप्रकारजलंज्ञाने व्यभिचार इति गन्धवद्विषयकेति । अत्र पृथिवि- त्वमिति ज्ञानस्यापि प्रवर्त्तकतया तत्र व्यभिचार इति पृथिवीत्वप्रकारकेति । पृथिवीत्वप्रकारत्वा- वच्छेदेन तादृशप्रयत्नजनकत्वं हेतुरतो न जलपृथिव्याविति समूहालम्बने व्यभिचारः । निश्चयपद- न्तु निरुक्तमेवेति । कदाचिदपोताति । न च कदाचित् दोषात् प्रामाण्यसंशयेऽपि तद्विरहदशायां स्वतःप्रामाण्यग्रहे बाधकाभावः, दोषात् कदाचिद्रजतत्वसंशयेऽपि कदाचिद्रजतत्वग्रहवदिति वाच्यम् । स्वप्रकाशपक्षस्य सामग्रीविरहादनुपपत्तेः । ज्ञाततायाश्चाप्रामाणिकतया तल्लिङ्गकानुमितेरप्रसिद्धेः । मनंसश्चोपनयसहकृतस्य बहिरर्थग्राहकत्वेऽपि उपनायकज्ञानगोचरस्य ज्ञानस्य स्वातन्त्र्येण बहिरर्था- विषयकत्वात् । अनुव्यवसायस्य व्यवसायप्रामाण्यग्रहोत्तरकालीनस्याप्रवर्त्तकत्वेन तथा कल्पनात् । उपनायकज्ञानविषयत्वन्तु क्वचिदेवेत्यत्रादृष्टमेव नियामकम् । एवं च ज्ञानोपनीतप्रामाण्यग्रहेऽपि न मकरन्दः । भावेऽनुमानासम्भवे तत्र प्रकारान्तरानुसरणे स एव प्रकारः सर्वत्रानुस्रियतामित्यादि दूषणं प्रत्यक्ष- प्रकाशे द्रष्टव्यम् । अयमिति । अनुभवपदं निश्चयपरम् । तेन संशयव्यावृत्तसाध्यसिद्धिः, स्मृतेरपि प्रवृत्तेस्त- त्पाधारण्येत्येत्याहुः । निष्प्रकारकत्वेनार्थान्तरवारणाय तृतीयान्तम् । पृथिवीत्वाभाववति नेत्येव साध्यम् । व्यतिरेकव्याप्तौ साध्याभावस्य व्याप्त्यत्वेन तत्र नीलधूमवदधिकस्य व्यर्थत्वात् । अप्रा- माण्यस्य भावरूपतया साध्याभावस्याखण्डत्वेन न वैयर्थ्यमित्यस्याप्यसम्भवादिति ध्येयम् । पृथिव- वीत्वभ्रमे व्यभिचारवारणाय जनकान्तम् । अत्र पृथिवीत्वमिति निश्चयस्य पृथिवीत्वाभाववत्पृथिव- वीत्वविशेष्यकस्य पृथिवीप्रवर्त्तकत्वाभ्युपगमपक्षे तत्र व्यभिचार इत्यत उक्तं, पृथिवीत्वप्रका- रकेति । निश्चयपदं च निश्चयपक्षतासूचनार्थमविवक्षितार्थंकम् । विस्तरः प्रत्यक्षप्रकाशे । टिप्पणी । दकसंशयस्याभावाद् धम्मितावच्छेदकः कश्चिद् वाच्यस्तंस्य च विशेषणत्वात्तज्ज्ञानमपेक्षितं स्यात्-

२३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां वत्। यदि तु स्वतः ज्ञायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात्, ज्ञानत्वसं- शयवत्। निश्चिते तदनवकाशात्। न हि साधकबाधकप्रमाणाभावमवधूय समा- नधर्मादिदर्शनादेवाऽसौ, तथा सति तदनुच्छेदप्रसङ्गात्। अथ प्रमाणवदप्रमाणे- ऽपि तत्प्रत्ययदर्शनाद्विशेषादर्शनाद्भवति शङ्केत्यभिप्रायः, तत् किं प्रमाणज्ञानोप- लम्भेऽपि न तत्प्रामाण्यमुपलब्धं, प्रमाणज्ञानमेव वा नोपलब्धम् ? आद्ये, कथं स्वतः प्रामाण्यग्रहः, प्रत्ययप्रतीतावपि तदप्रतीतेः, द्वितीये, कथं तत्र शङ्का, धर्मिण एवा- बोधनी । विसंवादादेरिति । संशयिकत्वाद्संशयत्वादित्यर्थः । साध्यविपर्ययाङ्गीकारेऽनिष्टप्रसङ्गमाह-यदि इति । यथा हि निश्चिते ज्ञानस्वरूपे संशयो नास्ति ज्ञानमिदं न वेति, तद्वत्प्रामाण्येऽपि संशयः कदाचिन्न स्यात् तस्यापि निश्चयात्, निश्चितेऽपि विषये संशयस्यानुत्थानादिति । ननु निश्चितेऽपि प्रामाण्ये ज्ञानत्वादेः प्रमाणाप्रमाणसाधारणधर्मस्य दर्शनात् संशयः स्यादित्याश्राव- न हि-इति । असत्येव च साधकबाधकप्रमाणाभावे समानधर्मादर्शनादेः संशयहेतुत्वे को दोषस्तत्राह-तथा स- ति-इति । विशेषदर्शनोत्तरकालेऽपि समानधर्मादिदर्शनस्य संशयहेतोः सत्त्वादिति । अथ-इति । ज्ञानेन सह गृह्यमाणेऽपि प्रामाण्ये प्रमाणज्ञानेष्विवाप्रमाणज्ञानेष्वपि प्रामाण्यदर्शनादिदं प्रमाणज्ञान मिदं त्वप्रमाणमिति नियामकविशेषादर्शनाच्च संशयोपपत्तिरिति भेदतद्विशेषोपलम्भे संशयस्यानु- त्पत्तेः, प्रामाण्यसंशयवादिनापि तदनुपलब्धिरवश्यं वक्तव्येति मन्वानो विकल्प्य दूषयति-तत्कि- म्-इति । धर्मिण एव-इति । उपलब्धे हि धर्मिणि धर्मविषयकः संशयो न त्वनुपलब्ध इति । अत्रायं संक्षेपः-गृह्यमाणं ज्ञानं यद्यप्रमाणविलक्षणं न गृह्येत ततः प्रामाण्यमेव न गृहीतं स्यात्, अथ तथा गृह्येत ततो न कदाचिदपि प्रामाण्यसंशयः स्यादिति । एवं स्वपक्षसाधनमभिधायेदानीं प्रकाशः । मणावाहुः । कदा चिदपीति । प्रामाण्यग्रहोत्तरकालमिव तत्पूर्वमपीत्यर्थः । न च ज्ञानत्वस्य साधा- रणधर्मस्य ज्ञानमात्राद् इत्याह । न हीति । प्रामाण्यज्ञानमात्रं न विरोधि, अपि तु प्रमाणमेवे- त्यवधारणाऽऽत्मकमित्याशयेन शङ्कते । अथेति । निश्चयमात्रमेव संशयविरोधि, न तु तद्वि- शेषोऽवधारणमित्याशयेन परिहरति । तत्किमति । प्रमाणेति । प्रमाणरूपं ज्ञानमित्यर्थः । तदप्रतीतेः = प्रामाण्याप्रतीतेः ॥ धर्मिण एवेति । ननु धर्मिज्ञानं न संशयहेतुः । कोटिस्मरणविशेषादर्शनधर्मेन्द्रियसन्नि- कर्षात् प्रामाण्यसंशयरूप एव ज्ञानग्रह उत्पद्यते । अन्यत्र विशिष्टज्ञाने विशेष्यज्ञानस्याहेतुत्वात् । अत्राहुः । तुरगादौ वेगेन गच्छतस्तद्विषयेन्द्रियसन्निकर्षेऽपि यावद्विशेषाज्ञाने यदेव धर्मि ज्ञायते तत्रैव विशेषादर्शनादितः संशयो जायते, न त्वज्ञाते धर्मिणीति धर्मिज्ञानं तद्धेतुः । किञ्च, यद्य- मकरन्दः । कदा चिदपीतीति । तत्र दोषात् कदाचित् प्रामाण्यसंशवेऽपि कच्चिन्मनसा तद्ग्रहे बाध- काभावान्म नोयोग्यत्वलक्षणं स्वतस्त्वं न खण्डितं भवति, अन्यथा रजतत्वादेश्चक्षुरादियोग्यत्वं न स्यात् । दोषतदभावाभ्यामुभयोपपत्तिरिति तु तुल्यम् । न च तत्र सामग्रीबलात् तथा, प्रकृते मनसो बहिरस्वातन्त्र्यात् स्वातन्त्र्येण तद्वत्प्राहकस्यैव तत्सत्तानिश्चयरूपतया प्रामाण्याग्राहक- त्वान्न तथेति वाच्यम् । तर्हि सामग्रीविरहान्न स्वतस्त्वमित्यायातं, संशयानुपपत्तेः कोपयोगः ? । न च सोऽपि उपनीते मनसः स्वातन्त्र्याभ्युपगमात् । अन्यथा तत्राप्युपनयसहकारेण तत्तत्तद- ग्रहणं सर्वसिद्धं विरुद्ध्येतेति चिन्त्यम् । टिप्पणी । च्चनेन्द्रियादिना धर्मिणमगृहीत्वा सम्भवतीत्युक्तदोषो न स्यादत आह । किञ्चेति । यद्धर्मि-

यहाँ दी गई पृष्ठ-छवि का पंक्ति-दर-पंक्ति देवनागरी पाठ प्रस्तुत है:

द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२६ नुपलब्धेरिति । यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते, तदपि नास्ति । अन्यथैवोपपत्तेः । झटिति प्रवृत्तिर्हि झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत्, प्रचुरप्रवृत्तिरपि स्वकारण- प्राचुर्यम्, इच्छा च प्रवृत्तेः कारणम्, तत्कारणमपीष्टाभ्युपायताज्ञानम्, तदपि तज्जातीयत्वलिङ्गानुभवप्रभवम्, सोऽपीन्द्रियसन्निकर्षादिजन्मा, न तु प्रामाण्य- ग्रहस्य क्वचिदप्युपयोगः । उपयोगे वा स्वत एवेति कुत एतत् ? । ततः समर्थ- प्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्याद्वा, तद्ग्रहणप्राचुर्याद्वा । स्वतस्त्वं तु तस्य कोप- युज्यते । न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपश- बोधनी । स्वतः प्रामाण्यं ज्ञायत इत्यत्र परोक्तं प्रमाणं दूषयितुमनुभाषते-यदपि-इति । समर्था=संगतार्था प्रयोजनाविसंवादिनीति यावत् । यदाह भाष्यकारः-‘सामर्थ्यं पुनरस्याः फलेनाभिसंबन्धः’- इति । तदेतत्प्रवृत्तिसामर्थ्यं प्रवर्त्तकविज्ञानस्य प्रामाण्यमन्तरेणानुपपद्यमानं तदाक्षिपति । तस्यापि प्रवृत्तेः प्रामाण्यसंशयादप्युपपत्तिमाशङ्क्योक्तं—प्रचुर इति । संशयेन हि कदाचित् क्वचित् प्रवृ- त्तिः स्यात्, न तु प्रचुरेति । ननु ततः प्रामाण्यनिश्चयोऽस्तु स्वत एवेति कुत इत्यत्रोक्तं-झटि- ति-इति । प्रमाणान्तरानपेक्षमेव ज्ञानोत्पत्त्यन्तरं भवन्ती तादृशी प्रवृत्तिः स्वतः प्रामाण्यनिश्चयं गमयति । ततश्च परतस्त्वानुमानं बाधप्रतिरोधयोरन्यतरदोषकलुषितमिति भावः । दूषयति- तदपि-इति । तामेवान्यथैवोपपत्तिमाह-झटिति-इति । न तु तत्रैवोपयोगः प्रामाण्यग्रहस्येति दर्शयंस्तत्कारणपरम्परां दर्शयति-इच्छा च इति । दृष्टार्थेषूपयोगाभावेऽप्यदृष्टार्थेषु ज्योतिष्टोमा- दिषु प्रागेव प्रवृत्तेः प्रामाण्यनिश्चयोपयोगमाशङ्क्याह । ततः समर्थ इति । यतः प्रामाण्यग्रहस्य न प्रवृत्तिं प्रत्युपयोग इति कथं प्रामाणादप्यगृहीतप्रामाण्यात् समर्था प्रवृत्तिरित्याह-तद्ग्रहण इति । प्रवर्त्तकविज्ञानप्रमाण्यग्रहणस्यावश्यंभावेऽपि विशिष्टप्रवृत्तेर्न तद्ग्राहकादेव तद्धर्मप्रामाण्यग्रह इत्येतद् दृष्टान्तेनोपपादयति-न हि इति । न हि पिपासाशमनशक्तमिति विशिष्टा प्रवृत्तिः पाथः- प्रकाशः । र्निगतसाधारणधर्मस्य येन सह भूयःसहचारावसायस्तत्रोत्कटकोटिकता संशयस्य धर्मिज्ञानस्या- हेतुत्वे न स्यात् । यदपीति । प्रामाण्यस्यानुमेयत्वे लिङ्गपरामर्शापेक्षया विलम्बः स्यादित्यर्थः । तथा चार्थी- पत्त्या परतस्त्वसाधनं प्रतिबद्धमिति भावः । अन्यथैवेति । प्रवृत्तिमात्रे प्रामाण्यग्रहो न हेतुः, अर्थसन्देहादपि प्रवृत्तेरित्यन्यथोपपत्तेरित्यर्थः । उपयोगे चेति । झटित्यभ्यासाप- न्ने लिङ्गानुसन्धानादप्युपपत्तेरित्यर्थः । पर मतेऽपि व्यभिचारमाह । न हीति । न ह्यविलम्ब टिप्पणी । णीति वक्तुमुचितम् । धर्मिज्ञानस्याहेतुत्वे न स्यादिति । धर्मस्योभयकोटिसह- चरितत्वविशेषाभावात् क्वचिद्धर्मिणि भावेन क्वचिच्चाभावेन भूयस्तदग्रहात् सहचारग्रहांशस्य विशेष्यकत्वस्य वक्तुमशक्यत्वात् धर्मितावच्छेदकग्रहस्यापि विशेषकत्वासम्भवाद् विशेषो न स्याद्, धर्मिग्रहस्य हेतुत्वे च यद्धर्मिणि येन भूयस्सहचारग्रहस्तद्धर्मिगोचरसहचारज्ञानजन्य- त्वस्य संशये सत्कार्योत्कटत्वनियामकत्वस्य वक्तुं शक्यत्वादिति भावः । न च संशयस्यैव तद्धर्मिविषयकत्वं तत्कोट्यंत्कटत्वप्रयोजकमस्त्विति वाच्यम्, तद्धर्मिविषयकपरोक्षासाधार- णधर्मधर्मिज्ञानजनितसंशये तद्धर्मिमात्रविषयकत्वस्य नियामकाभावेनोपपादयितुमशक्यत्वात्तत्को- ट्योत्कटत्वव्यवस्थायास्तत्रोपपादयितुमशक्यत्वात् । धर्मिज्ञानस्य हेतुत्वे च संशयस्य तन्न धर्मि- मात्रविषयकत्वं सुपादम् कारणगतविशेषाप्रयोज्यत्वे कार्य्यगतविशेपस्याकस्मिकत्वमपि दोषो

२३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां सनशक्तितस्त्य प्रत्यक्षा स्यात् । स्यादेतत् । प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते । स च स्वतः यदि न स्याद्, न स्यादेव; परतः पक्षस्याऽनवस्थादुःस्थत्वादिति चेन्न । तद्ग्रहेऽप्यर्थसन्देहादपि सर्वस्योपपत्तेः । न चानवस्थाऽपि, प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात् । अन्यथा बोधनी। स्वरूपग्राहकप्रत्यक्षादेव तच्छक्तिग्रहमपेक्षते, धौहित्यलिङ्गेनापि तद्ग्रहोपपत्तेः । तथा प्रवर्त्तक- विज्ञानस्वरूपग्राहिणः प्रमाणादन्येनापि तज्जातीयत्वादिनो लिङ्गेन तत्प्रामाण्यानुमानमविरुद्धमिति । स्यादेतत्-इति । सर्वमिदं-प्रवृत्त्यादिकमिति । न इति । मा भूदनवस्थादुःस्थत्वात् परतः प्रामाण्यग्रहः । तथापि न स्वतःत्वसिद्धिः, प्रामाण्याग्रहेऽप्यर्थग्रहोपपत्तेरर्थसंदेहेऽपि च प्रवृ- त्युपपत्तेरिति । ननु प्रामाण्ये कदाचित् ज्ञातव्ये भवत्येवानवस्थेत्याशङ्क्य न तावत्फलज्ञानमाश्रि- त्येयं प्रसज्यत इत्याह-न च इति । यथा ह्यर्थे गृह्यमाणे न तद्विषयकज्ञानप्रामाण्यग्रहापेक्षा, तथा प्रवर्त्तकविज्ञानप्रामाण्ये गृह्यमाणेऽपि न तद्ग्राहिणो गुणसंवादिविज्ञानस्य प्रामाण्यग्रहापेक्षा । तेन यदा कदाचित् केनचित् प्रामाण्यं जिज्ञास्येत तदा तदन्येनागृहीतप्रामाण्येनेव गृह्यत इति नान- वस्थेति । अवश्यं ज्ञेयत्वाभ्युपगमे दोषमाह- अन्यथा इति । न तावन्मीमांसकस्यापि ज्ञानं स्वयमेव प्रामाण्यं गृह्णाति स्वस्यैवाग्रहणात् । अतः स्वग्राहिणो ज्ञाततालक्षणफलाद्यनुपपत्तिरूपा त्प्रमाणाद् गृह्णात इति वक्तव्यं, तत्र चार्थापत्तिप्रामाण्यविषयविज्ञानस्याप्यर्थान्तरेण प्रामाण्यं ग्रहीतव्यम्, एवं तस्य तस्यापीत्यनवस्था प्रसज्यत इति । ननु मा भूतफलज्ञानप्रामाण्यस्याव- श्यं ज्ञेयत्वं, मा च भूत् तत्रानवस्था, तथापि प्रमाणसाधनमाश्रित्यानवस्था प्रसज्यत इत्याह- प्रकाशः। इत्येव लिङ्गानपेक्षता । तथा सति पिपासोपशमनशक्त्यनुभवस्याप्यलैङ्गिकत्वप्रसङ्ग इत्यर्थः । सर्वमेतदिति । झटिति प्रवृत्त्यादिकमित्यर्थः । स चेति । यद्यगृहीतप्रामाण्यमेव ज्ञानं परप्रामाण्यनिश्चयकमास्थेयं, तदा व्यवसायोऽप्यगृहीतप्रामाण्य एव विषयं निश्चाययतु, किं तत्प्रा- माण्यग्रहेण । यदि च तस्याप्रामाण्यसंशयान्न तन्मात्रादर्थनिश्चयस्तर्हि प्रामाण्यानुमितेरप्रामाण्य- संशयान्न ततोऽपि प्रामाण्यनिश्चयः । ततस्तस्या अपि प्रामाण्यनिश्चयावश्यकत्वेनानवस्था । एवं लिङ्गव्याप्त्यादिज्ञानानामपि प्रामाण्यानिश्चये हेत्वाद्यसिद्धिः, तन्निश्चये चानवस्था । न हि, न लि- ङ्गादिज्ञाने प्रामाण्यसंशयोऽनुभवविरोधात्, तथा च, परिशेषात् स्वतः प्रामाण्यग्रह इत्यर्थः । तद्ग्रहेऽपीति । न तज्ज्ञानप्रामाण्यनिश्चयादेवार्थनिश्चयः, किन्तु न यत्राप्रामाण्यशङ्का करतला- दिज्ञाने, तत्र व्यवसाय एवार्थनिश्चय इति तत एव निष्कम्पप्रवृत्त्युपपत्तिरिति न प्रामाण्या- नुमितिलिङ्गादिज्ञानानामपि प्रामाण्यानुसरणमिति नानवस्थेत्यर्थः । तथाप्यनभ्यासद्शापन्न- ज्ञानप्रामाण्यसंशयेनार्थनिश्चयस्य प्रतिबन्धात् तत्प्रामाण्यानुसरणेऽनवस्थेत्यत आह । न चेति । अगृहीतप्रामाण्यमेव ज्ञानं परप्रामाण्यं निश्चाययति, अप्रामाण्यशङ्काकलङ्काभावात् । यत्र प्रामाण्यज्ञानेऽप्यप्राण्यशङ्कया प्रामाण्यसंशयस्तत्र प्रामाण्यज्ञानप्रामाण्यनिश्चयादेव प्रामाण्य- निश्चयः । एवं, यावदप्रामाण्यशङ्कं तज्ज्ञानप्रामाण्यनिश्चयादेव तन्निश्चयः । न चैवमन- वस्था, चरमप्रामाण्यज्ञानस्य ज्ञानाभावाद्धर्मज्ञानाभावेन कोटिस्मरणाभावात् विषयान्तरसञ्चा- राद्वा प्रामाण्यसंशयानवश्यम्भावादित्यर्थः । अन्यथेति । भाट्टानां प्रामाण्यस्य ज्ञानानुमितिग्राह्यत्वे प्रकाशिका। स्वातन्त्र्येण प्रामाण्यग्रह इति प्रवर्त्तकं प्रामाण्यज्ञानं परत एवेति भावः । भट्टानामिति । इदमुप- मकरन्दः। अन्यथेतीति । प्रवृत्त्यनुपयोग्याप्यस्तीत्येव यदि प्रामाण्यमवश्यं ज्ञेयं, तदाऽस्य प्राह्यरवेऽ-