भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

यहाँ प्रस्तुत पृष्ठ का सम्पूर्ण देवनागरी पाठ पंक्तिशः (line by line) दिया जा रहा है:

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २७५ सङ्कतेरपि तथैव सुग्रहत्वात् । व्यक्तिमात्ररूपेणाऽविनाभाव इति चेन्न । व्यक्तित्वस्य सामान्यस्याभावात् । भावे वा, तदाक्षेपेऽपि विशेषानाक्षेपात् । वाच्यत्वमपि वा तथैवास्तु, किमाक्षेपेण ? सङ्कतेरविरोधादिति । अर्थापत्तिराक्षेप इति चेन्न । व्यक्त्या विना किमनुपपन्नम् । जातिरिति चेन्न । तन्नाशानुत्पाददशायामपि सत्त्वात् । तथापि न व्यक्तिमात्रं विनेति चेन्न । मात्रार्थाभावात् । व्यक्तिज्ञानमन्तरेण जातिज्ञा- नमनुपपन्नमिति चेन्न । तदभावेऽप्युत्पादात् । व्यक्तिविषयत्वं विना जातिविषयता बोधनी । इति । आनन्त्यदोषो हि संगतिग्रह इवाविनाभावग्रहेऽपि सुलभ इति । ननु सर्वव्यक्त्यनुगतेन व्यक्तिमात्ररूपेणाविनाभावः शक्यग्रह इत्याह—व्यक्तिमात्ररूपेण-इति । न-इति । न ताव- ज्जाति व्यक्ति चान्तरा व्यक्तित्वं नाम सामान्यमस्ति, भावेऽपि तदेव जातेराक्षिप्येत न व्यक्तय इति । यदि च व्यक्तित्वसामान्यमभ्युपगम्येत ततः शब्दवाच्यमेव तदस्तु, तस्यैकत्वेन संगति- ग्रहस्य सुकरत्वात् । किमाक्षेपतः सिद्धयेदित्याह-वाच्यत्वमपि-इति । अपिरवधारणार्थः । ननु मा भूदाक्षेपोऽनुमानम्, अर्थापत्तिर्भविष्यतीत्याह-अर्थापत्तिः इति । तस्या हि नाविनाभा- वग्रहापेक्षेति भावः। व्यत्क्या विना इति । न किञ्चित् इति शेषः । जातिः। तदाश्रया हि सेति । न इति । व्यक्तीनां विनाशदशायामपि जातेरवस्थामान्न व्यक्त्या विना जातिरनुपपन्नेति । तथापि इति । यद्यपि काश्चिद्वयक्तीरन्तरेणाप्यवतिष्ठत इति । न इति । उक्तं हि न व्यक्तिजातिव्यतिरिक्तं- मन्यत्किञ्चिदस्तीति : व्यक्तिज्ञानम् इति । ततो जातिज्ञानाद् व्यक्तिज्ञानाक्षेप इति । न इति । शब्दात्केवलजातिज्ञानस्य भवद्भिरभ्युपगमादिति । व्यक्तिविषयताम् इति । तेन जातिज्ञाना- प्रकाशः । क्तिलाभः स्यादित्याह । व्यक्तिमात्रेति । व्यक्त्याश्रितव्याप्तिरपि न व्यक्तित्वमनुगतं विना ग्राह्येति । न च तज्जातिः । जातेरपि व्यक्तित्वत्वादित्याह । व्यक्तित्वेति । उपाधित्वे तस्य दोष- माह । भावे चेति । व्यक्तिमात्रलाभेऽपि व्यक्तिविशेषानाक्षेपात्तत्प्रतीत्यनुपपत्तिरित्यर्थः । ननु पक्षधर्मतावलाद् व्यक्तिविशेषः सिद्धयेदित्यभिप्रेत्याह । वाच्यत्वमपीति । यदि व्यक्ति- त्वेनोपस्थिते व्याप्तिस्तदा गोत्वेनोपस्थिते शक्तिग्रहोऽपि स्यादित्यर्थः । वस्तुतः पक्षधर्मता- बलाद्विशेषस्य भानेऽपि विशेषत्वेनोपस्थितिर्न स्यादनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमा- दिति भावः । व्यक्तिं विना जातिरनुपपन्ना तामाक्षिपतीत्याह । अर्थापत्तिरिति । तन्नाशेति । व्यक्तिं विनाऽपि गोत्वस्योक्तरीत्या प्रतीतेर्नानुपपत्तिरित्यर्थः । यद्यप्येकव्यक्तिनाशानूत्पाददशायामपि जातिरस्ति, तथापि व्यक्त्यन्तरमस्त्येवेति न व्यक्तिमात्रं विना जातिरस्तीत्याह । तथापीति । मात्रार्थो हि नाऽशेषव्यक्तिः, एकव्यक्तिनाशेऽपि गोत्वाद्दर्शनात् । नापि व्यक्तित्वं, तद्धि न जाति- रुक्तदोषात् । उपाधित्वे तु व्यक्तित्वेन उपस्थितसर्वव्यक्त्तधन्यथानुपपत्तिग्रहवच्छक्तिग्रहोऽपि स्या- दित्याह । मात्रार्थेति । तदभावेऽपीति । मकरन्दः । चिन्त्यम् । जातेरपीति । गोत्वत्वाद्युपाधिव्यक्तीभूतगोत्ववृत्तित्वव्यक्तित्वस्य जातित्वे जातावपि जातित्त्ववृत्तित्वाभ्युपगमेऽपसिद्धान्त इति भावः । विशेषत्वेनेति । गोत्वादिनेत्यर्थः । उक्तरीत्ये- ति । गोत्वं गवाविषयज्ञानविषय इत्यादि त्वदुक्तरीत्येत्यर्थः । इत्यर्थः=इति तात्पर्य्यार्थः । अक्षराख्यानुसारणाह यद्यपीति । ज्ञानादिति । सत्त्वान्चेत्यपि वोध्यम् । टिप्पणी । विशेषत्त्वेनेति । गोत्वादिनेत्यर्थः । गोत्वादेर्ज्ञानादिति । सत्त्वाच्चेत्यपि चोध्यम् ।

२७६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां तस्यानुपपन्नेति चेन्न । एवं तर्ह्येकज्ञानगोचरतायां किमनुपपन्नं किं प्रतिपादयेदिति । जातीनामन्वयानुपपत्त्या व्यक्तिरवसीयते इति चेन्न, परस्पराश्रयप्रसङ्गात् । बोधनी । दांतं मनो व्यक्तिविषयतामाक्षिपतो व्यक्तिज्ञानसिद्धिरिति । न इति । एवं हि जातिव्यक्त्योरेकज्ञान- विषयत्वमेवोक्तं स्यात्, तत्रोभयोरपि ज्ञातत्वाविशेषात् किमनुपपन्नं प्रतिपादकं भवेत् किं वा प्रतिपाद्यं भवेत् । अत्रानुपपन्नमात्रनिराकरणप्रकरणे किं प्रतिपादयेदिति प्रक्रियाया असंगतत्वात् प्रमादकृतः पाठ इति संप्रदाय इति । जातीनाम इति । गोत्वशुक्लत्वादीनां परस्परमन्वयानुपपत्त्या तदन्वयसिद्ध्यर्थं व्यक्तिः प्रतीयत इति । यद्वा, जातीनामनेकव्यक्त्यन्वयः प्रतीयमानो नान्तरेण व्यक्तिमुपपद्यत इति व्यक्तिरवसीयत इति । न इति । प्रतीते ह्यन्वये तदन्वयानुपपत्त्या व्यक्तिः प्रतीयते, प्रतीतायां च व्यक्तौ तदन्वयप्रतीतिरितीतरेतराश्रयत्वम् । किंच, जातिप्रतीतौ सत्यां तद्- न्वयानुपपत्त्या व्यक्तिप्रतीतिः, व्यक्तिप्रतीतौ च सत्यां जातिरित्यात्माश्रयत्वं, व्यक्तिप्रतीतिपुर- प्रकाशः । गोभिन्नभावत्वेन गां विनाऽपि त्वया गोत्वज्ञानाभ्युपगमादित्यर्थः । एवं तर्हीति । व्यक्तिं विनापि जातेर्ज्ञानात् केवला जातिर्नोपस्थितेति जातित्वविशिष्ट एव पदानां शक्तिः । विशिष्टानामानन्त्येऽ- प्येकत्र विशिष्टे तत्वं विहाय गोत्वमादाय गोत्वविशिष्टं शक्यमिति शक्तिग्रहात् सर्वत्रोदासीनस्य गोः शक्यत्वान्यत्किंचिदेकोपादानेऽपि गोरुपादानान्नोपादानाशक्यत्वमेकोपादानेऽनध्यवसायो वा, व्यक्ति- वाचकपश्वादिपदवदुपपत्तेः। वस्तुतो नानुमानार्थापत्तिभ्यां व्यक्तिलाभः । न हि यत्र यदा वा गोत्वं तत्र तदा वा, यद् गोत्वं सा व्यक्तिरिति वा व्याप्तिर्व्यभिचारात्। नापि जातित्वं व्यक्त्याश्रितत्वे । लिङ्गम्। जातित्वस्य पदानुपस्थितेः । तथात्वे वा, जातिरिति वेथैव व्यक्तिः, नित्यानेकसमवेतत्वस्य जाति- त्वात् । व्यक्तेश्चापदार्थत्वे विभक्त्यर्थसंख्याकर्मत्वादेर्व्यक्तावनन्वयः स्यात् । सुब्विभक्तीनां प्रकृत्यर्था- न्वितस्वार्थबोधकत्वस्य व्युत्पत्तिसिद्धत्वात् । न च प्रकृतितात्पर्यविषये तदन्वयव्युत्पत्तिः । लक्षणोच्छे- दापत्तेः । एवं तर्हि गामानयेत्यादौ जातेरानयनाद्यन्वयानुपपत्त्या जातिशक्तपदेन व्यक्तिर्लक्ष्यते, अत एव व्यक्तेः प्रकृतिप्रतिपाद्यत्वे विभक्त्यर्थाऽन्वयस्तत्र सङ्गच्छत इत्याह । जातीनामिति । जाति- ज्ञाने सति लक्षणया व्यक्तिज्ञानं, व्यक्तिमादाय जातिज्ञानमित्यन्योन्याश्रय इत्याह । परस्परेति । प्रकाशिका । विशेषः, तथापि समवेतत्वमात्रमेव हेतुः कर्त्तव्यमिति भावः । गामिति । गोज्ञानं विनापीत्यर्थः । जातित्वस्येति । प्रकारान्तरेण च तदुपस्थितिः कांदाचित्की व्यक्तिधीश्र्व सर्वदैव पदादिति तन्नि- र्वाहाय व्यक्तौ पदशक्तिस्वीकार इति भावः । व्युत्पत्तिसिद्धत्वादिति । पश्वादिपदे तथा कल्प- नादिति भावः । लक्षणेति । वह्नितात्पर्यके धूमोऽस्तीति वाक्ये धूमपदोत्तरविभक्त्यर्थस्य वह्नाव- मकरन्दः। गोभिन्नेति । यद्यपि तेनैकवित्तिवेद्यत्वमपाकृतं तच्चानुपदमेव शङ्कितं, तथापि व्यक्तेर्ज्ञानान्तरमपि तदा नास्तीत्यस्यापि तन्निंरस्यत्वमुक्तम् । वस्तुतो व्यक्तिज्ञानकारणत्वशङ्केयं, तत्र च तुल्यग्रहसामग्रीक- त्वात् तदभावेऽप्युत्पादादित्यर्थो युक्तः । गामिति । गोज्ञानं विनाऽपीत्यर्थः । जातित्वस्येति । न ह्यः प्रकारान्तरात्तदुपस्थितिः, तस्यासार्वत्रिकत्वात् , व्यक्तिबुद्धेश्च सार्वत्रिकतया शक्तिरेवेति भावः । टिप्पणी । गोत्वज्ञानाभ्युपगमादिति । गोभिन्नभावत्वेन लिङ्गेन गोत्वमात्रज्ञानस्य साधितत्वात् तथा च व्यक्तिज्ञानकारणत्वस्य समानकालत्वस्य च निरासः । व्यक्तिं विनापोति “एवं तर्हीत्यादे”रियं व्याख्या। नियमेन जातिव्यक्त्योरेकज्ञानविषयत्वे सतीत्येवं ह्येकज्ञानगोचरतायामित्येतस्यार्थोऽत्रादिः। एवन्तर्हीति । सुब्विभक्तीनाम्प्रकृत्यर्थेत्यादिव्यवस्थितौ । जातियक्त्योर्नियमेनै कज्ञाने भासमा-

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २७७ स्यादेतत् । प्रतिबन्धं विनाऽपि पक्षधर्मताबलाद् यथा लिङ्गं विशेषे पर्यवस्यति, तथा सङ्गतिं विनाऽपि शब्दः शक्तिविशेषाद्विशेषे पर्यवस्यति, स एवाऽऽक्षेप इत्यु- च्यते इति चेद्, न तावत् प्रतीतिः क्रमेण । अपेक्षणीयाभावेन विरम्य व्यापारायो- गात् । जातिप्रत्यायनमपेक्षते इति चेत्, कृतं तर्हि शब्दशक्तिकल्पनया । नावतेव तत्सिद्धेः। ओमिति चेन्न । व्यक्त्यनालम्बनाया जातिप्रतीतेरसम्भवादित्युक्तत्वात्। बोधनी। स्कारेण जातिप्रतीतेरुक्तत्वात् । पश्चिमे तु व्याख्याने शब्दादप्रतीतासु व्यक्तिषु जातेस्तदन्वयप्रतीति स्तदन्वयप्रतीत्या च व्यक्तिप्रतीतिरितीतरेतराश्रयत्वं व्याख्येयमिति । तर्हि विशेषपर्यवसानमेवाक्षेप इत्याह-स्यादेतत् इति । यथा हि लिङ्गं साध्यसामान्येनैव गृहीतव्याप्तिकमपि पक्षधर्मतासहायं साध्यविशेषे पर्यवस्यति, तथा शब्दो जात्या गृहीतसंगति- रपि शक्तिविशेषाद्वयक्तौ पर्यवसास्यतीति । न तावत् इति । किमयं शब्दो जातिव्यक्त्योः प्रतीतिं क्रमेण जनयेद्युगपद्वा ? न तावत् क्रमेण, शक्तिविशेषादेव प्रतीतिं जनयतः शब्दस्यापेक्षणीयान्तराभा- वेन विरम्य ज्ञानोत्पादनव्यापारायोगादिति । ननु जातौ गृहीतसंगतिः शब्दः तद्विषयं ज्ञानं जनयि- त्वा तदपेक्ष एव व्यक्तिं प्रत्याययतीत्याह-जातिप्रत्यायनम् इति । यदि व्यक्तिज्ञानोत्पादने जाति- ज्ञानापेक्षा तर्हि किं तत्रापि शब्दव्यक्तिकल्पनयेत्याह-कृतं तर्हि इति । कुत इत्यत आह-तावतेव इति । जातिज्ञानेन व्यक्तिज्ञानसिद्धेरिति । ननु जातिज्ञानेनैव तत्सिद्धिमनुज्ञायत एवेत्याह-ओम् इति। न इति। उक्तत्वात् । न च व्यक्त्या विना जातिस्फुरणमित्यत्र लिङ्गमपि पक्षधर्मतासहकृतमेक- प्रकाशः। वस्तुतः स्वार्थादन्येन रूपेण ज्ञाते लक्षणा, तीरत्वेन ज्ञाते गङ्गापदस्येव । न च गोत्वादन्थेन रूपेण व्यक्तेरुपस्थितिः, किन्तु गोत्वेनैव । न च व्यक्तित्वेन तदुपस्थितिः। गोपदाद् व्यक्तित्वप्रकारक- बुद्ध्यापत्तेः । गां पश्य, गौस्तिष्ठतीत्यादौ जातेरप्यन्वययोग्यत्वे व्यक्तेरलाभप्रसङ्गाच्च । तस्मादेक- वित्तिवेद्यत्वान्न व्यक्तेराक्षेपः किन्तु विशिष्टे शक्तिरेवेति भावः । ननु जातिशक्ततया ज्ञातं पदं प्रथमं जातिं बोधयति, अनन्तरं स्वरूपसद्धर्मशक्त्या व्यक्तिम्, एवञ्च जातौ ज्ञाता शक्तिर्बोधिका, व्यक्तौ तु स्वरूपसती, यथा लिङ्गं वह्निसामान्यव्याप्ततया ज्ञातं तद्विशेषव्याप्ततयाऽनवगतमपि वस्तुगत्या व्यापकं गमयतीत्याशयावानाह- स्यादेतदिति । प्रतिबन्धं विना = प्रतिबन्धग्रहं विना । शक्तिविशेषात् = स्वरूपसद्धर्मशक्ति- 'शक्तेः । एवं पदाद् युगपदेव जातिव्यक्तिज्ञानं स्यादुभयज्ञानसामग्र्या वृत्तत्वादित्याह । न ताव- 'दिति । व्यक्तिज्ञाने कर्तव्ये जातिशक्ततया ज्ञातं पदं जातिज्ञानमपेक्षते इति क्रम इत्याह । जातीति । यदि जातिज्ञानं व्यक्तिज्ञानहेतुस्तदा किं व्यक्त्या ? । जातिज्ञानादेव व्यक्ति- शक्ति विनाऽपि तज्ज्ञानोपपत्तेरित्याह । कृतमिति । नास्त्येव व्यक्तौ शक्तिः, जातिज्ञानमेव व्यक्तिज्ञानहेतुरस्त्वित्याह । ओमिति । स्यादेवं, यदि व्यक्त्यविषयं जातिज्ञानं स्यान्न त्वेव- मित्याह । व्यक्तीति । किञ्चैवं व्यक्तिज्ञाने पदानामकरणत्वे जातिज्ञानं मानान्तरं स्यादित्याह । प्रकाशिका। न्यापत्तेश्चेत्यपि द्रष्टव्यम् । मन्मते केवलजातेरपि प्रतीतिस्वीकारान्नान्योन्याश्रय इत्यरुचेराह । वस्तुत इति । ननु नीलोऽग्र घट इत्यत्र नीलरूपप्रकारकलक्षणावद् गोत्वप्रकारकलक्षणा प्रकृते स्यादित्यरुचेराह । गां पश्येति । यद्यपि तात्पर्यानुपपत्त्या यष्टीः प्रवेशयेतित्यल्लक्षणायां बाधका- मकरन्दः। ननु परेण व्यक्तिज्ञानं विनाऽपि जातिज्ञानाभ्युपगमान्नान्योन्याश्रय इत्यरुचेराह वस्तुत इति । न- न्विदमप्रयोजकम्, अत एव नीलो घट इत्यादौ तथैव लक्ष्येत्यस्वरसादाह गां पश्येति । यद्यपि टिप्पणी। मत्वानभ्युपगमे नान्योन्याश्रय इत्यत आह-वस्तुत इति ।

२७८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रमाणान्तरापातप्रसङ्गाच्च । स्मरणं तदित्ययमदोष इति चेन्न । अननुभूतानन्वयप्र- सङ्गात् । अस्त्वेकैव प्रतीतिरिति चेत्, कृतं तर्हि शक्तिभेदकल्पनया । एवञ्च यथा सामान्यविषया शक्तिरेकैव तद्वति पर्यवस्यति, तथा सामान्याश्रया सङ्गतिस्तद्वति पर्यवस्येदिति । बोधनी । मेव सामान्यविशेषविषयं ज्ञानं जनयतीति भावः । यदि च शब्दव्यापारो जातिज्ञान एव पर्यवस्यन् न व्यक्तिज्ञानं यावद् गच्छेत् तर्हि व्यक्तिज्ञानजनकं जातिज्ञानं सप्तमं प्रमाणमापद्येत, अनुमानाद्यर्थापत्त्यो- र्निरस्तत्वादसंभवाच्चान्येषामित्यभिप्रायवानाह-प्रमाणान्तर इति । ननु शब्दप्रतीता जातिः साहच- र्याद्व्यक्तिं स्मारयति न तु प्रमापयति, ततो न प्रमाणान्तरापात इत्याह-स्मरणम् इति । न इति । तर्ह्यननुभूतानां गवादिव्यक्तीनां समभिव्याहृतपदार्थान्वयप्रतीतिर्न स्यादिति । तदेवं क्रमेण प्रतीति- र्निराकृता, संप्रति यौगपद्यं निराकर्तुं शङ्कते-अस्तु इति । शब्दादेव जातिव्यक्तिगोचरा प्रतीतिरेकैव जायते न च प्रमाणान्तरापत्तिर्दोष इति । कृतं तर्हि इति । न हि कार्याभेदे कारणभेदशक्तिक- ल्पनायां प्रमाणमस्तीति । एवमुपपादितं दृष्टान्तप्रकारं दाष्ट्रान्तिके निगमयति-एवं च इति । शक्तिभेदाभावे सति यथा गोत्वादिसामान्यविषया शब्दशक्तिस्तद्वति विशेषे पर्यवस्यति तमपि विष- यीकरोतीति यावत् , तथा गोशब्दत्वादिसामान्याश्रया या वाचकत्वशक्तिस्तद्वति गोशब्दे पर्यवस्यति, सैव तस्यापि शक्तिर्भवति, नान्या कल्प्यत इत्यर्थः । प्रकाशः । प्रमाणेति । जातिज्ञानकरणकमपि व्यक्तिज्ञानं स्मरणं नानुभव इति, न तन्मानान्तरमित्याह । स्मरणमिति । एवं गामानयेति वाक्यादननुभूतगोव्यक्त्यननुभवप्रसङ्ग इत्याह । अननुभूतेति । अस्तु तर्हि जातिव्यक्तिविषयैकैव धीरुभयशक्तिसाध्येत्याशङ्कते । अस्त्विति । उभयविषयक- शक्त्यैवैकज्ञानोपपत्तौ शक्तिद्वयकल्पनं व्यर्थमिति परिहरति । कृतमिति । ननु मा भूच्छ- क्तिभेदकल्पनं, भवतु सङ्गतिरप्येका, तथापि कथं प्रकृतसिद्धिरित्यत आह । एवञ्चेति । यथा घटशब्दत्वसामान्यविषया घटपदस्य शक्तिर्व्यक्तौ पर्यवस्यति, न तु तत्र पृथक्शक्तिस्तथा शब्दानि- त्यत्वेऽपि शब्दत्वसामान्यस्यैव शक्तिः घटशब्दे वाचकत्वव्यवहारं करोति, न तु घटशब्दस्य जातिवाचकत्वं पृथगित्यर्थः । प्राभाकरास्तु-व्यक्तौ जातिरनुगमिका विशेषिकाऽवश्यंवाच्या चेति नागृहीतविशेषणान्यायेन सैव वाच्या । न च जातावपि व्यक्तिरेव विशेष इति नागृहीतविशेषणान्यायो व्यक्तावपीति प्रकाशिका । भावः, तथापि जातिव्यक्त्योः पदादेकैकप्रतीतिरनुभूयते न तु क्रमेणेति जातिशक्तावेव व्यक्तेरव- च्छेदकत्वमिति तात्पर्यात् । अननुभूतेति । तन्मते सामान्यलक्षणाया अस्वीकारादिति भावः ॥१॥ मकरन्दः । यष्टीः प्रवेशयेतिवल्लक्षणा सम्भवत्येव, तथापि गोपदाद्व्यक्तिमादायैव जातिस्मृतेरनुभूयमानत्वाद्विशिष्टे शक्तिरेव न लक्ष्णेति भावः । तदिदमाह तस्मादिति । अननुभूतेति । तन्मते इति शेषः । अपरं शब्दप्रकाशे व्याख्यातम् । वैशेषिकमते व्यावृत्तिबुद्धिसिद्धो विशेषनामा कश्चन पदार्थोऽस्ति । स च द्विविधः सामान्य- विशेषः, अन्त्यविशेषश्च । सामान्यविशेषो द्रव्यत्वादिः, स खल्वनुवृत्तिबुद्धिहेतुः सन्नेव व्यावृत्ति- बुद्धेरपि हेतुर्भवति । अन्त्यविशेषस्तु नित्यद्रव्यमात्रवर्तिरैकमात्रगतश्च, स तु स्वत एव व्यावृत्त- इति सिद्धान्तः। टिप्पणी । व्यक्तौ पर्य्यवस्यति । व्यक्तिमपि बोधयतीत्यर्थः । तथा घटशब्दत्वसामान्याश्रयेति । शब्दा-

द्वितीयस्तबके ] शब्दानित्योपपादनम् । २७९ न च नित्या अपि वर्णाः स्वरानुपूर्व्यादिहीनाः पदार्थैः सङ्गम्यन्ते, न च तद्विशि- बोधनी । सन्तु वर्णाः स्वरूपेण नित्यास्तथाप्यनित्यानामेव संगतिग्रहोऽभ्युपगन्तव्यः स्वरानुपूर्व्यादिवि- शिष्टानां तेषां वाचकत्वाद्व्यञ्जकध्वनिधर्मयत्त्वाच्च स्वरादीनामित्याह- न च इति । कथं तर्ह्यनि- त्यानामेव पदार्थानां पदानां चानन्त्यव्यभिचारादिपरिहारेण संगतिग्रह इत्याशङ्क्य सुहृद्भावेन प्रकाशः । वाच्यम् । जातेः स्वत एव व्यावृत्तत्वात् । अन्यथाऽन्योन्याश्रयात् । स्वतो व्यावृत्तत्वं च परेषा- मन्वयविशेषस्येव स्वाश्रयवत स्वस्मिन् व्यावृत्तधीजनकत्वम् । व्यक्तिधीस्तु जातिशक्तादेव पदात् , गोपदं हि नियमतो जातिव्यक्ती बोधयति, तत्रास्य जातिशक्तिज्ञानमेव सहकारि कल्प्यते, लाघ- वादावश्यकत्वाच्च, न तु व्यक्तिशक्तिज्ञानं, गौरवात् , जातिशक्तिज्ञाने सति तज्ज्ञानं विना व्यक्ति- ज्ञाने विलम्बाभावाच्च, यथा परेषां पदार्थशक्तादेव पदादन्वयधीः । यद्वा, जातिशक्तिज्ञानाज्जाति- ज्ञानं जायमानं व्यक्तिमपिविषयीकरोति । यद्येन विना न भासते, तज्ज्ञानहेतोस्तद्बोधकत्वनिय- मात् । अन्यथा, जातिमपि न बोधयेत् । तस्मादेकवित्तिवेद्यत्वनियमाज्जातिज्ञानार्थं क्लृप्ता शक्ति- र्व्यक्तिमपि ज्ञापयति । न च जातिं विनाऽपि प्रत्यक्षादिज्ञाऽपि व्यक्तिज्ञानादन्यैव व्यक्तिज्ञानसा- मग्री, जातिविशिष्टज्ञानं चोभयज्ञापकसामग्रीसमाजादिति वाच्यम् । जातिव्यक्त्योः प्रत्यक्षादिना बोधे सामग्रीभेदेऽपि शाब्दव्यक्तिबोधे जातिशक्तिज्ञानस्यैव हेतुत्वात् । लाघवात् । तत्सत्त्वे तन्न विलम्बाभावेन सामग्र्यन्तराकल्पनाच्च । न चैवं व्यक्तिज्ञानस्य शक्यत्वात्तद्विषयत्वाज्जातिवद् व्यक्तिरपि शक्या स्यात् । यद्विषयतया ज्ञाने ज्ञाता शक्तिरुपयोगिनी तस्यैव विषयतया शक्य- तावच्छेदकस्य शक्यत्वात् । एवञ्च जातिव्यक्तिज्ञानजनकत्वादुभयत्रापि पदशक्तिः । जात्यंशे तु सा ज्ञाता हेतुः । परेणाऽप्यन्वये कुब्जशक्तिस्वीकारात् । उच्यते । शक्यज्ञाने विषयतया जातेरवच्छेदकत्वं व्यक्तिमादायैव ज्ञायते, न तु केवलायाः । व्यक्तिं विना जातेरज्ञानादिति जातेरवच्छेदकत्वे नागृहीतविशेषणान्यायाद्व्यक्तेरवच्छेदकत्वमाव श्यकमिति शक्यज्ञाने विषयतयाऽवच्छेदकत्वाज्जातिवद्व्यक्तिरपि शक्या । यद्वा, प्रथमं व्यवहा- रानुमितव्यक्तिज्ञाने पदानुविधानात् पदं शक्तमित्यवधारयति न तु जातिज्ञाने, व्यवहाराहेतु- त्वेन तदा तस्यानुपस्थितेः । पश्चाद्व्यक्तेर्व्यावृत्त्यर्थमनुगमार्थञ्च जातिरपि तद्विषय इति मानान्तरेण ज्ञात्वा जातिज्ञानेऽपि तत्पदस्य कारणतां प्रत्येति । तथा च व्यक्तिशक्तिज्ञानमपि कारणम् । न च जातिशक्तिज्ञानेनान्यथासिद्धिः । व्यक्तिज्ञानकारणतामुपजीव्य जातिज्ञानकारणताग्रह इति उपजीव्य- विरोधात् । अपि च, पदस्य व्यक्तिज्ञानार्थं शक्यज्ञाने विषयतया व्यक्तेरवच्छेदकत्वमात्रं कल्पयति । लाघवात् । जातिविषयत्वाद्व्यक्तिविषयत्वस्य ज्ञानवित्तिवेद्यत्वेनावश्यं शीघ्रोपस्थितत्वात् । न तु जातौ शक्तिं तज्ज्ञानं कारणान्तरं वा तदवच्छेदकं कल्पयति गौरवात् । शक्तिग्रहकाले तेषां कल्प- नीयोपस्थितिकत्वाच्चेत्यस्मत्पितृचरणाः । इदानीं वर्णनित्यतापक्षेऽपि पदानित्यताया सङ्गतिरविशिष्टेत्याह- न चेति । स्वरो = ध्वनिः । तन्मतेऽप्यनित्यः । न हि तावद्वर्णमात्रे शक्तिः, व्युत्क्रमेण ततोऽर्थप्रत्ययाभावादित्यानुपूर्वीविशेषविशिष्टे तत्र शक्तिः, सा चैकवर्णज्ञानानन्तरज्ञानविषयत्वमर्पर- मकरन्दः । यत्र शक्तिरस्ति, परन्तु शाब्दबोधे तस्याः कारणता नास्ति, तत्रैव कुब्जशक्तिरित्येके । यत्र स्वरूपसत्येव शक्तिः कारणं न तु ज्ञाता, तत्र कुब्जशक्तिरित्यपरे ॥ १ ॥ टिप्पणी । नित्यत्वेऽपि शब्दत्वसामान्यस्यैव शक्तिः । क्वचित् ज्ञानानन्तरज्ञानविषयत्वमिति पाठः । इदञ्च शब्दनित्यतामते, स्वमते एकवर्णान्तरापरवर्णत्वस्यैव तथात्वात् ॥ १ ॥

Here is the line-by-line transcription of the Sanskrit text from the image:

२८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२ कारिकापतरणिकाब-] ष्टत्वमपि तेषां नित्यम्, तस्मात्तत्तज्जातीयक्रोडनिविष्टा एव पदार्थाः पदानि च संबध्यन्ते नातोऽन्येथेति, नैतदनुरोधेनापि शब्दस्य नित्यत्वमाशङ्कनीयमिति । यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णस- मूहभूतानां पदानां, कुतस्तराञ्च तत्समूहरचनाविशेषस्वभावस्य वाक्यस्य, कुत- स्तमां तत्समूहस्य वेदस्य ॥ १ ॥ परतन्त्रपुरुषपरम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां ब्रूम इति चेत् । एतदपि नास्ति । सर्गप्रलयसम्भवात् । अहोरात्रस्याहोरात्रपूर्वकत्वनियमात्, कर्मणां विषमविपाकसमयता युगपद् वृत्तिनिरोधायुपपत्तेर्वर्णादिव्यवस्थाऽनुपपत्तेः, समयानुपलब्धौ शाब्दव्यवहारविलो- पप्रसङ्गाद्, घटादिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेव मिति चेत् । बोधनी । दर्शयंन्नुपसंहरति-तस्मात् इति । एतदनुरोधेन = संगतिग्रहानुरोधेनेति । तदेवं वर्णानामपि नित्यत्वं प्रसाध्य वेदानित्यत्वमाह-यदा वर्णाः इति । एवं तावत्प्रमायाः परतन्त्रत्वादिति व्याख्यातम् ॥१॥ अथ द्वितीयं पादं व्याचिख्यासुः शङ्कते-परतन्त्र इति । पूर्वपूर्वोच्चारयितृपुरुषपरतन्त्रोत्तरो- च्चारयितृपरम्पराप्रवाहस्याविच्छेदो नित्यता सा च प्रत्युच्चारणविनाशिनोऽपि संभवतीतिः। एतदपि इति। एवत्प्रवाहाविच्छेदलक्षणमपि नित्यत्वमिति । सर्गप्रलययोरसंभवे पराभिमतसाधना- न्याशङ्कते-अहोरात्रस्य इति । विप्रतिपन्नमहोरात्रमव्यवहिताहोरात्रपूर्वकम् अहोरात्रत्वात् अद्य- तनाहोरात्रवत्, अन्यथाऽद्यतनमपि तथा न स्यात् नियामकाभावात् । किञ्च, कर्मणां धर्माधर्माणाम् विषमोऽनेकः फलकालः तेनैकस्मिन् भुक्तफले कर्मणि क्षीयमाणे कर्मान्तरमुपतिष्ठते फलान्तरोत्पा- दनेनेत्येककर्मिणः कियन्त्यपि कर्माणि युगपन्निरुद्धवृत्तीनि न संभवन्तीति किमुतानन्तानां कर्मि- णामनन्तानि कर्माणि, तदापि कस्यचित्कर्मणो विपाकावश्यंभावात् । प्रयोगश्च-विवादाध्यासि- प्रकाशः । वर्णस्य, ज्ञानं चानित्यमिति तद्घटितं पदमपि तथेत्यर्थः । अभिमतमुपसंहरति । तस्मादिति ॥१॥ ननु कूटस्थनित्यतां वेदस्य न ब्रूमः, किन्तु प्रवाहाविच्छेदरूपामित्याह । परतन्त्रेति । तज्जातीयानुपूर्वीज्ञानजन्यत्वव्याप्यज्ञानविषयत्वं परतन्त्रपुरुषपरम्पराधीनत्वम् । तथा च काल- त्वस्य वेदाधिकरणत्वव्याप्यत्वमेव वेदस्य नित्यतेत्यर्थः । प्रलये बाधकमाह । अहोरात्रेस्येति । साम्प्रतिकाहोरात्रे तथा दर्शनादित्यर्थः । विपाकः = सहकारिलाभः । वर्णादीति । वर्णा = ब्राह्म- णादयः, तेषां व्यवस्था ब्राह्मणादिमातापितृजत्वेन, सर्गादौ तदभावात् सा न स्यादित्यर्थः । आ- दिपदाद्वादिगृह्यते । समयेति । सर्गादौ प्रयोज्यप्रयोजकवृद्धव्यवहाराभावान्नच्छदसङ्केतग्रहो न स्यादित्यर्थः । सर्वशब्दानाम्गृहीतसङ्केततयेश्वरेण शब्दतोऽपि व्युत्पादनस्याशक्यत्वादिति भावः । घटादीति । सम्प्रदायः = प्रवाहस्तस्य भङ्गो विच्छेदः । यथा घटादिः क्रियते, तद्रूपस्यादर्शना- दित्यर्थः ॥ प्रकाशिका । प्रलयसंभवेऽपि सर्गादित एवारभ्य-परतन्त्रपुरुषपरम्पराधीनत्वं स्यान्न चैतावता प्रवाहाविच्छेदसि- द्धिरत आह । तज्जातीयेति । ज्ञानविषयत्वमानुपूर्वी रूपं, प्रलयसम्भवे च सर्गादावेव व्यभिचा- रान्न, नैतदस्तीति भावः । कालत्वस्येति । कालोपाधित्वस्येत्यर्थः । मकरन्दः । ननु पूर्व्वविच्छेदेऽपि तदुत्तरं परतन्त्रपुरुषपरम्पराधीनत्वसम्भवान्न तावन्मात्रेण प्रवाहावि- च्छेदसिद्धिरित्यन्यथा व्याचष्टे तज्जातीयेति । विच्छेदे सर्गाद्यवेदस्य तज्जातीयानुपूर्वीज्ञानजन्य- त्वाभावान्द्व्याप्यसिद्धिरिति भावः । ज्ञानविषयत्वं तद्गत्वमित्यर्थः ।

द्वितीयस्तबके ] .. प्रलयोपपादनम् । २८१ उच्यते— वर्षांदिवद्भवोपाधिर्वृत्तिरोधः सुषुप्तिवत् ॥ उद्भिद्वृश्चिकवद्वर्णा मायावत् समयादयः ॥ २ ॥ तत्पूर्वकत्वमात्रे सिद्धसाधनाद् , अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वाद् , वर्षादि बोधनी । तानि कर्माणि न युगपन्निरुद्धवृत्तीनि विषमविपाकसमयत्वात् इदानीं भुक्तभुज्यमानभोक्ष्यमाणकर्मव- दिति । किञ्च, सर्गादिभुवां जातिविशेषव्यवस्थापकोत्पादकजातिविशेषाभावाद् ब्राह्मणत्वादि- वर्णव्यवस्था न स्यात् । विप्रतिपन्ना ब्राह्मणा ब्राह्मणसंतानजन्मानः ब्राह्मणत्वादद्यतनवत् । किञ्च, सर्गादौ सर्वेषामव्युत्पन्नतवेन समयग्रहणाद्युपपत्तौ शब्दव्यवहारोऽपि लुप्येत । विप्रतिपन्नः शाब्द- व्यवहारः वृद्धव्यवहारपूर्वकः शाब्दव्यवहारत्वात् अद्यतनवत् । किञ्च, तदानीं कस्यचिदादर्शक- स्याभावाद् घटादिनिर्माणसंप्रदायो न स्यात् । विप्रतिपन्नं घटादिनिर्माणं तथाभूतादर्शकज्ञानपूर्वकं घटादिनिर्माणत्वादद्यतनवत् इत्येतैर्हेतुभिर्युगपत्सर्गप्रलययोर भावे सति कथं वेदसंप्रदायविच्छेदः स्यादिति ॥ पञ्चापि साधनानि दूषयति-उच्यते वर्षादिवत् इति । न तावदहोरात्रपूर्वकत्वे अहोरात्रत्वं प्रयोजकं, भवस्य ब्रह्माण्डस्थितेस्तत्रोपाधित्वात् । यथा वर्षादिदिनस्य तद्दिनपूर्वकत्वे तद्दिनत्वमप्र- योजकं राश्यादिसंसर्गोपाधित्वात् । तस्य च कर्मणां युगपद्वृत्तिनिरोधोऽपि सुषुप्तिदशायामिव संभवति । ब्राह्मणत्वादिनियमोऽपि गोमयादिजातानामिव वृश्चिकादीनामुपपद्यते । समयग्रहोऽपि सर्गादौ स्वयमेव परिगृहीतप्रयोज्यप्रयोजकवृद्धशरीरव्यवहारस्य परमेश्वरस्य व्यवहारात एव सुकरः, यथेन्द्रजालिकस्य सूत्रप्रोता दारुमयीपुत्रिकां इदमानयेति नियुज्य तथा कुर्वन्तीभिस्ताभिर्मायाव्यव- हारे तद्दर्शिनां बालानां, तया घटादिक्रियासंप्रदायोऽपि गृहीतकुलालादिविग्रहेण भगवतैव सिध्यतीति । प्रथमं पादं व्याचष्टे-तत्पूर्वकत्वमात्रे इति । सर्गादिवृत्तिनोऽहोरात्रस्याहोरात्रपूर्वकत्वे साध्ये सिद्धसाधनं, तस्यापि पूर्वसर्गान्तिमाहोरात्रपूर्वकत्वात् । किञ्च, संप्रतिपन्नाहोरात्रपक्षीकर- णे सिद्धसाधनं सर्गादिवृत्तिनस्तवाश्रयासिद्धिरिति भावः । नन्वव्यवहिताहोरात्रपूर्वकत्वं साध्यत इत्यत्राह-अनन्तर इति । तत्राहोरात्रत्वमप्रयोजकं संप्रतिपन्नाहोरात्राणामनन्तरतत्पूर्वकत्वेस्योपा- ध्यन्तरप्रयुक्तत्वादिति । अप्रयोजकत्वमेव दृष्टान्तेन दर्शयति-वर्षादि इति । यथा हि वर्षाः शरदि- प्रकाशः । वर्षादिवदिति । वर्षादौ, वर्षादिनपूर्वकत्वे साध्ये यथा राश्यादिभेदसंसर्गभेद उपाधिः, तथाऽ- होरात्रपूर्वकत्वेऽहोरात्रस्य साध्ये भवो ब्रह्माण्डस्य स्थितिकालः, स एवोपाधिरित्यर्थः । सुषुप्तौ यथा कर्मणां युगपन्निरोधस्तथा अन्यत्रापि स्यादित्याह । वृत्तिरोध इति । यथा तण्डुलीयवृश्चि- कयोस्तत्पूर्वकत्वेऽपि आद्यौ तौ तण्डुलकणगोमयाभ्यां भवतः, तथा ब्राह्मणादीनां तत्पूर्वकत्वेऽपि सर्गादौ तज्जनककर्मोपगृहीतभूतभेदात् स्यादित्याह । उद्भिदिति । प्रयोज्यप्रयोजकाद्यधिष्ठातुरी- श्वरस्यैव व्यवहारान्मायादिव्यवहारादिव तद्दर्शी व्युत्पन्नः स्यादित्याह । मायावदिति । विवादाध्यासिताहोरात्रस्याहोरात्रपूर्वकत्वं साध्यम् अव्यवहिताऽहोरात्रपूर्वकत्वं वा ? । नाद्य इत्याह । तत्पूर्वकत्वेति । पूर्वसर्गाहोरात्रपूर्वकत्वेन प्रलयेऽपि साध्यसिद्धेरित्यर्थः । नान्त्योऽप्रयोजक- त्वादित्याह । अनन्तरेति । वर्षादीति । तद्दिनं = वर्षादिनम् । ननु शारदाद्यदिनस्य वर्षादिनपूर्वकत्वं प्रकाशिका । वर्षादाविति । वर्षाद्यदिन इत्यर्थः । प्रलये = प्रलयाभ्युपगम इत्यर्थः । ३६ न्या०कु०

२८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां दिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः । राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत् । तदभाव एव व्यावृत्तेः । तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालो- बोधनी । त्यादौ ऋतुमध्यन्दिनानां तत्तद्दिनपूर्वकत्वे तद्दिनत्वमप्रयोजकं संप्रतिपन्नाहोरात्राणां तत्तदृतूनां प्रथमदिनेषु व्यभिचारात् । यद्वा, वर्षात्तौरादिदिनस्य तद्दिनपूर्वकत्वे साध्ये तद्दिनत्वमप्रयोजकम्- भ्युपगम्यते, तदाहोरात्रत्वमप्रयोजकमपपद्यत इति । कस्तत्रोपाधिर्येन तद्दिनत्वस्य नियमो भज्यत इत्यत्राह—राश्यादि इति । राश्यादिविशेषैरादित्यस्य संसर्गात्मको यः कालोपाधिस्तत्प्रयुक्तं तद्दिन पूर्वकत्वं तस्य कालोपाधेरभावे तद्दिनपूर्वकत्वस्यापि व्यावृत्तेः साध्याभावाविनाभावात्ययत्वादिति यावत् इति । दाष्टन्तिंकत्वेऽप्यप्रयोजकत्वमुपाधिप्रदर्शनेनाह-तथा इति । सर्गस्यानुवृत्तौ प्रकाशः । साध्यमस्ति, न च राशिविशेषावच्छेद इति साध्याव्यापकत्वम् । न । वर्षादिनत्वे सति यद्वर्षादिन- पूर्वकं तद्राशिविशेषावच्छिन्नमिति साधनावच्छिन्नसाध्यव्यापकत्वात् । तथापि राशिविशेषावच्छि- न्नत्वं वर्षादिनत्वस्य साधनस्य व्यापकम् । अत्र, यदा दिनत्वेन वर्षाद्यदिनस्य वर्षादिनपूर्वकत्वं साध्यते, तदा पक्षधर्मावच्छिन्नसाध्यव्यापकोऽयमुपाधिरिति साम्प्रदायिकाः । किञ्च, विवादाध्या- सितत्वेनैतत्कालीनाहोरात्रस्य पक्षत्वे सिद्धसाधनम् , सर्गाद्यतत्पक्षत्वे च बाधः । न चाहोरात्र- प्रकाशिका । पक्षधर्मावच्छिन्नेति । अत्र यद्धर्मावच्छिन्नसाध्यस्य व्यापकः = तदवच्छिन्नस्यैव साधनस्याव्यापक उपाधिरुच्यते । अन्यथा व्यञ्जनवत्त्वादेरपि प्रसिद्धानुमान उपाधितापत्तेः, तथा च प्रकृतोपाधेरुक्त- पक्षधर्मावच्छिन्नसाधनव्यापकत्वादसङ्गतिरित्यरुचिं विभावयति साम्प्रदायिका इति । तस्माद् मकरन्दः । वर्षादाविति । वर्षाद्यदिने इत्यर्थः । प्रलये = प्रलयाभ्युपगमपक्षे । पक्षधर्मेति । वर्षादि- नत्वरूपपक्षधर्मावच्छिन्नेत्यर्थः । ननु वर्षाद्यदिनव्यावृत्तो राश्यादिविशेषसंसर्गविशेष उपाधित्वेना- भिमतः । तदिदमुक्तं प्राक्, राश्यादिभेदसंसर्गभेद उपाधिरिति । तथा च वर्षादिनत्वरूपसाध- नाव्यापकत्वमप्याद्यदिने सम्भवत्येवेत्यनुशयमाविष्करोति साम्प्रदायिका इति । केचित्तु राशि- विशेषवत्पूर्वकत्वमत्रोपाधित्वेनाभिमतं, तच्च शुद्धसाध्यव्यापकमेव, शरदाद्यदिनेऽपि तत्पूर्वकत्वस- त्त्वात् , एवञ्चात्र न साधनव्यापकत्वशङ्काऽपि, वर्षाद्यदिने वर्षादिनत्वरूपस्य साधनस्याव्यापकत्वा- दित्याहुः । पक्षविकल्पभिया पक्षधर्मत्वमाशङ्क्य परिहरति न चेति । अहोरात्रत्वं अहोरात्रवृत्ति टिप्पणी । साम्प्रदायिका इति । राशिविशेषसंसर्गविशेषो वर्षाद्यदिनव्यावृत्तोऽप्युपाधित्वेनाभिमतस्त- स्य वर्षाद्यदिन एव साध्यव्यापकत्वम् , पूर्वोक्तानुमान एव सम्भवतीत्यनुमानान्तरानुसरणं व्यर्थम् । यद्वा राशिविशेषवत्पूर्वकत्वस्यैवोपाधित्वं वाच्यम् तस्य शरदाद्यदिनेऽपि सत्त्वाच्छुद्धस्यै- वोपाधेः साध्यव्यापकत्वसम्भव इति पक्षधर्म्मत्वाद्यनुसरणं व्यर्थमित्यस्वरसः साम्प्रदायिका इति सूचितः । न चाहोरात्रत्वमव्यवाहितेति । अहोरात्रमात्रवृत्तिधर्मोऽत्राहोरात्रत्वं विवक्षितं न त्वहोरात्रत्वमहोरात्रवृत्तिधर्मो वा, आद्ये तत्तदहोरात्रत्वादेः पक्षैकदेशत्वाभावेन पक्षैकदेशस्यापी- त्यादिग्रन्थासङ्गतेः । न च पक्षैकदेशत्वाभावेऽपि साध्यहेतुमत्तया निश्चितस्य दृष्टान्तत्वसम्भवा- देवानुमानदोषाभावे ग्रन्थासङ्गतिरकिञ्चित्करीति वाच्यम् । तस्यैव पक्षत्वे सिद्धसाधनतादवस्थ्यात् । साध्यघटकाव्यवहितेत्यत्र स्वाश्रयाव्यवहितेत्यस्यैव वाच्यत्वात् सामान्यतोऽव्यवहितत्वस्याव्या- वर्त्तकत्वात् तत्राहोरात्रत्वे पक्षभूते साध्यसत्त्वसम्पादने स्वपदेन तस्यैवोपादेयतया स्वाश्र- यपूर्वसर्गीयाहोरात्राव्यवहिताहोरात्रपूर्वकत्वस्य सर्गीयाहोरात्रेऽपि सम्भवेन तदन्तर्भावेनापि व्या- प्यत्वक्षतेरभावात् । उक्तप्रकारेण पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतया सर्गाहो-

Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari script:

द्वितीयस्तबके ] प्रलयोपपादनम् । २८३ पाधिनिबन्धनत्वात्तस्य तदभाव एव व्यावृत्तौ को दोषः । न च तदनुत्पन्नमनश्वरं वा अवयवित्वात् ॥ वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः । न ह्यनियतविपाकसमयानि कर्मा- बोधनी । निमित्तभूता या ब्रह्माण्डस्थितिः सा स्वरूपमात्मा यस्य कालोपाधेः स एव निबन्धनमनन्तराहोरा- त्रपूर्वक्त्वस्य; तन्मात्सर्गादौ तस्योपाधेरभावे साध्यव्यावृत्तिर्नानुपपन्नेति । ननु ब्रह्माण्डस्य सर्व- दावस्थानात् कथं च तदभावः तत्राह-न चेति । तत् ब्रह्माण्डमुत्पन्नं विनश्वरं च सावयवत्वादिति। अथ द्वितीयं पादं व्याचष्टे-वृत्तिनिरोधस्यापि इति । दृष्टान्तं विभजते-न हि इति । प्रकाशः । स्वमव्यवहिताहोरात्रपूर्वकत्वव्याप्यम्, अहोरात्रवृत्तित्त्वधर्मत्वात्, एतदहोरात्रवत् । पक्षैकदेशस्यापि दृष्टान्तत्वाविरोधात् । साध्यवत्तया निश्चितत्वस्यैव तन्त्रत्वादिति वाच्यम्। अहोरात्रत्वसमानाधिकरण- त्यन्ताभावप्रतियोगित्वस्योपाधित्वात् । न च ब्रह्माण्डस्य नित्यत्वेन साधनव्यापकोऽयमुपाधिरित्याह। न चेति । वृत्तिनिरोधस्येति । यथा सुषुप्तौ विषमविपाकसमयान्यपि कर्माणि, युगपन्निरुद्धवृ- प्रकाशिका । वर्षादिनपूर्वकत्वे राशिविशेषावच्छिन्नदिवाकरदिनोत्तरत्वमुपाधिः, स च शरदाद्यदिनेऽपि वृत्तेर्न साध्याव्यापकः, वर्षाद्यदिने वृत्तेर्न साधनव्यापक इत्येव मूलतात्पर्य्यमिति भावः । अत एव राश्या- दिविशेषसंसर्गभेद उपाधिरित्युक्तं प्रकाशकृता । अहोरात्रस्याहोरात्रपूर्वकत्वे च साध्ये वत्स- राद्यनन्तरितब्रह्माण्डावच्छिन्नकालोपाध्युत्तरत्वमुपाधिरित्यवसेयम् । पक्षैकदेशस्यापीति । इद- म्बाहोशत्रमात्रवृत्तित्वधर्मत्वावच्छिन्नस्य पक्षत्वे, यथाश्रुतेऽहोरात्रत्वस्य सकलाहोरात्रवृत्तित्वधर्म- विशेषस्य पक्षतायामेतदहोरात्रस्वस्य पक्षान्यत्वादसङ्गतेः पक्षतावच्छेदकावच्छिन्नसाध्यानुमितेश्च प्रकृतोपयोगितया हेतोरेव पक्षतावच्छेदकतया व्याप्तिग्रहकाल एव सिद्धसाधनमिति निरस्तम् । अहोरात्रत्वेति । पक्षैकदेशे चाहोरात्रकत्वे साधनाव्यापकत्वमुपाधिरिति ध्येयम् । न चेति । मकरन्दः । धर्म इत्यर्थः । तेन पक्षैकदेशस्यापीत्यग्रिमग्रन्थसङ्गतिः । अन्यथैतद्धर्मविशेषस्यापक्षत्वे दृष्टा न्तस्य तदेकदेशत्वाभावादसङ्गतिः स्यादिति ध्येयम् । न चैवं हेतुपक्षतावच्छेदकयोरभेदोऽशतः सिद्धसाधनश्चेति वाच्यं, तद्विशेष्यकोद्देश्यप्रतीतेरसिद्धेरिति । अहोरात्रत्वेति । अहोरात्रत्वस्य धर्मे पक्षान्तर्भूते साधनाव्यापकत्वमस्येति ध्येयम् । न चेति । न चानित्यत्वेऽपि ब्रह्माण्डस्य तत्कालीनसर्वमहोरात्रत्वरूपसाधनव्यापकमेव प्रलयकालेऽहो- रात्रानभ्युपगमादिति वाच्यम् । स्थितिकालपदेन सर्गाद्याहोरात्रव्यावृत्तस्य स्थितिकालविशेषस्योक्त- टिप्पणी । रात्रत्वेनाभिमतव्यक्तिनिष्ठतद्व्यक्तित्वे स्वाश्रयाव्यवहिताहोरात्रपूर्वकत्वस्य न्यायमते तदाश्रयेऽ सिद्धेः सिद्धसाधनाभावात् । द्वितीये च पक्षतावच्छेदकहेत्वोरैक्येन व्याप्तिग्रहकाले सिद्ध- साधनप्रसङ्गादिति भावः । अहोरात्रत्वसमानाधिकरणेत्यादि । अहोरात्रवृत्तित्वधर्मत्वरू- पो हेतुर्न साध्यप्रयोजकः, तस्य परिदृश्यमाननिर्विवान्साध्यवदिदानीन्तनाहोरात्रत्व इव साध्यवत्तया सन्दिग्धेऽहोरात्रत्वेऽपि निश्चितत्वात्, किन्तूक्तप्रतियोगित्वमेव, तस्य साध्यवत्तया निश्चितेष्वेव तत्तदहोरात्रत्वेषु सत्त्वादिति इदम्बाद्यहोरात्रत्वे साधनाव्यापक उपाधिरिति यथाश्रुताभिप्रायः। न च भ्रमान्तस्येत्याद्यग्रिमग्रन्थविरोधः स्यात् । नित्यानित्यत्वेऽप्युभयथैवाहोरात्रत्वे साधनव्यापकत्वस्यो- पाधेः सत्त्वादिति वाच्यम्। स्वपदार्थघटितोक्तसाध्यस्याहोरात्रत्वसत्त्वादौ निश्चयेन तत्रोपाधेर- सम्भवात् साध्याव्यापकत्वाद् ब्रह्माण्डान्तःस्थितिकालीनवृत्तित्वस्योपाधितया विवक्षणीयत्वात् ।

३८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्या शीति तदानीं कृत्स्नान्येव भोगविमुखानि । न ह्यचेतयतः कश्चिद्भोगो नाम । विरो- धात् । कस्तर्हि तदानीं शरीरस्योपयोगः ? । तं प्रति न कश्चित् । तर्हि किमर्थमनु- वर्त्तते । उत्तरभोगार्थं, चक्षुरादिवत् । प्राणिति किमर्थम् । श्वासप्रश्वाससन्ताने- नायुषोऽवस्थाभेदार्थम्, तेन भोगविशेषसिद्धेः । एकस्यैव तत् कथञ्चिदुपपद्यते, न- तु विश्वस्येति चेत् । अनन्ततया, अनियतविपाकसमयतया, उपमर्द्योपमर्दकस्वभा- वतया च कर्मणां, विश्वस्यैकस्य वा को विशेषो येन तन्न भवेत् । भवति च सर्व- स्यैव सुषुवापः । क्रमेण, न तु युगपदिति चेन्न । कारणक्रमायत्तत्वात् कार्यक्रमस्य । न च स्वहेतुबलायातः कारणैः क्रमेणैव भवितव्यम्, अनियतत्वादेव । सर्वग्रास- वत् । ग्रहाणां ह्यन्यदा समागमनियमेऽपि तथा कदाचित् स्यात् । यथा फलाद्यनि- बोधनी । अनियतविपाकसमयानीत्येतावता सुषुप्तिदशायां कृत्स्नान्यपि भोगाविमुखानि न हि भवन्ति, किंतु भोगविमुखान्येव । सुषुप्तस्य भोगोत्पादः किमिति न स्यात् अत्राह- न हि इति । अचैतन्यं सुषुप्तिमूर्च्छादिः, भोगश्च सुखानुभवः । तत्र यदि सुषुप्तस्य भोगः स्यात् तदाऽस्त्यनुभवो नास्ति चेति विरोधः स्यादिति । यदि तदा न भोगः कश्चित्तर्हि भोगसाधनस्य शरीरस्य कोपयोग इत्याह- कस्तर्हि इति । गूढाभिसन्धिराह- तं प्रति इति । तं = सुषुप्तमिति । अज्ञातपराभिसन्धिः पृच्छति- किमर्थम् इति । स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह- उत्तरं इति । यथा हि ज्ञानजननार्थानि चक्षुरादीनि तदानीं ज्ञानमनुत्पादयन्त्यपि जाग्रद्दशायां तदुत्पादनायानुवर्त्तन्ते तथा शरीरमप्युत्तर- भोगायेति । कस्तर्हि उत्तरकालं यावत्तावदवस्थितस्य प्राणनस्य तदानीमुपयोग इत्याह-प्राणिति इति । प्राणनं नाम = शरीरान्तर्वर्त्तिनो वायोर्गतिविशेष इति । श्वास इति । प्राणाख्यस्य वायोः कालावच्छेदेन संबन्ध आयुरिति । अवस्थाभेदो वा किमर्थ इत्याह-तेन इति । अस्मिन्नवस्था- भेदे असौ भोगोऽस्मिंस्त्वयमित्यवस्थाभेदेषु भोगविशेषाः प्राणिनां नियताः, ततस्तत्सिद्धयर्थोऽव- स्थाभेद इति । नन्वस्त्वेकस्यात्मनः कर्मणां युगपद्वृत्तिनिरोधः, न तु विश्वस्यात्मवर्गस्य, न ह्यनन्तानां भोक्तॄणामनन्तानि कर्माणि युगपन्निरोत्स्यन्त इति संभवतीत्याह-एकस्यैवेति । अनन्त इति । अनन्तत्वादीनि हि कर्मणां युगपन्निरोधविरोधीनि; तानि च कर्मणामेकत्वानेक- त्वयोरविशिष्टानि । तत्र यद्येकस्य सुषुप्तिदशायां तथाभूतानामेव कर्मणां युगपन्निरोधः संभवति । किमिति विश्वस्यायं न संभवेदिति । किंच, सुषुप्तिरपि सर्वस्य भवति न त्वेकस्यैवेत्याह-भवति च इति । तेन कर्मणामेकानेकत्वकृतो विशेषो नास्तीति । ननु सत्यमस्ति सर्वस्यापि सुस्वापः, स तु क्रमेण न युगपदित्याह-क्रमेण इति । ततश्च न तन्निदर्शनेन युगपत्प्रलयः सिध्यतीति भावः । न इति । सुषुप्तेः कारणक्रमवशात् क्रमः, न युगपन्निरोधविरोधादिति । ननु सुषुप्तेरिव प्रलयस्यापि कारणानि क्रमेण भवन्ति दृश्यन्ते, तद्वत्सर्वदापि किमिति न भवन्तीत्यत्राह- न च इति । न हि क्वचित्कदाचिद्वा क्रमभावीनि कारणानीति सर्वत्र सर्वदा वा तैस्तथा भवितव्यं स्वहेतूनां क्रमयौग- पद्यवशेन संभवत्क्रमयौगपद्यानां कारणानामनियतत्वात् क्रमस्येति । एकदा क्रमभाविनामेवा- न्यदा यौगपद्यं दृष्टमित्याह-सर्वग्रासवत् इति । तदेव विभजते-ग्रहाणामिति । अत्रैव दृष्टा- प्रकाशः । न्तीनि प्रतिवद्धभोगजननानि, तद्वत्तदाऽपीत्यर्थः । आयुष इति । जीवनस्य कालावच्छेद आयुस्त- दर्थमित्यर्थः । उपमर्द्येति । प्रतिवद्ध्यप्रतिबन्धकस्वभावतयेत्यर्थः । सुसुवाप इति युक्तः पाठः । प्रकाशिका । न चानित्यत्वेऽपि ब्रह्माण्डस्य तत्कालींनत्वं साधनाब्यापकमैव, प्रलयेऽहोरात्रानभ्युपगमादिति वाच्यम् । विवक्षितोपाधेराद्याहोरात्रे साधनाब्यापकत्वात् । स्वापसन्तानजनककर्मणामनिरुद्ध-

द्वितीयैस्तबके ] प्रलयोपपादनम् । २८५ यमेऽपि सर्वमण्डलोपरागः स्यात् । त्रिदोषसन्निपातवद्वा । यथा हि वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमानियमेऽपि एकदा सन्निपातः स्यात्तदा देहसंहारः, तथा काला- नलसंहारपवनमहार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहि- ताश्चेतनाः स्युरिति को विरोधः ? । तथापि, विदेहाः कर्मिण इति दुर्घटमिति चेत् । किमत्र दुर्घटम् ? । भोगनिरोधवच्छरीरेन्द्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः । वृश्चिकतण्डुलीयकादिवद् वर्णादिव्यवस्थाप्युपपद्यते । यथा हि, वृश्चिकपूर्व- कत्वेऽपि वृश्चिकस्य गोमयादाद्यः, तण्डुलीयकपूर्वकत्वेऽपि तण्डुलीयकस्य तण्डुल- कणादाद्यो, वह्निपूर्वकत्वेऽपि वह्नेररणेराद्यः, एवं क्षीरदधिघृततैलकदलीकाण्डादयः । तथा मानुषपशुगोब्राह्मणपूर्वकत्वेऽपि तेषां प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेद- हेतुका एव, स एव हेतुः सर्वत्रानुगत इति सर्वषां तत्सान्तानिकानां समानजा- बोधनी । न्तान्तरमाह-त्रिदोष इति । तदेव विभजते-यथा हि इति । वातादिदोषाणां चयप्रकोपप्रशमा न नियताः कदाचिद्धि कश्चिच्चीयते कुप्यति शाम्यति वेति, न तु युगपत्सर्वेऽपि । यथाह-चाहटः । चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु । वर्षादिषु च पित्तस्य श्लेष्मणः शरदादिषु । इति तत्रैकैकमात्रकोपे रोगः स्यात् । कदाचित् त्रयाणां सन्निपातो युगपत्कोपः स्यात् । तदा देह एव प्रलीयते । तदप्याह । "रोगस्तु दोषवैषम्याद्दोषसाम्यमरोगता । वातः पित्तं कफश्चेति त्रयो दोषाः समासतः । विकृता विकृता देहं घ्नन्ति ते वर्तयन्ति च" । इति पक्षेऽप्याह-तथा इति । ब्रह्माण्डात् मनो देहस्य, कालानलः पित्तं, संहारपवनो वातः, महार्णवः श्लेष्मेति, तेषां कोपे तदपि प्रलीयते । तदां च भोग्यभोगसाधनयोरसंभवे भोगरहिताः कर्मिणस्ति- ष्ठन्तीत्यांविरुद्धमिति । तथापि इति । न सन्ति देहाः, सन्ति च तेषां निमित्तानि कर्माणीति व्याहतमिति । किमत्र इति । यथा हि तदानीं सत्स्वेव कर्मसु तन्निरोधात् भोगो निरुध्यते, तथाऽत एव भोगसाधनदेहादिनिरोधोऽपि घटिष्यत इति । तृतीयं पादं व्याचष्टे-वृश्चिक इति । दग्धाद्वेत्रबीजात् कदलीकाण्डोत्पत्तिरित्यादयः । पक्षेऽप्याह-तथा इति । तेषां मानुषादीनाम् । तत्तत्कर्म इति । तत्तन्मानुषत्वादिजातिभेदनि- मित्तादृष्टवदात्मसंयुक्कारम्भकपरमाणुभेदहेतुका इति । तर्हि वैजात्यात्कारणस्य कार्यसाजात्यं न स्यादित्यत्राह-स एव इति । अद्यतनानामप्यदृष्टोपनिबद्धभूतभेदहेतुकैव जातिव्यवस्था, ततश्च न कारणवैजात्यमिति । यदि सर्वत्र कर्मोपनिबद्धभूतभेदहेतुर्जातिनियमः, तर्ह्यत्पादकजातिपूर्वकत्व- प्रकाशः । "सुविनिर्दुर्भ्यः सुपिसूतिसमा" इत्यनेन कृतसंप्रसारणस्यैव सुपेः षत्वविधानात् । तथाऽपीति । कर्मभिर्भोगजनने देहस्यावश्योत्पाद्यत्वादित्यर्थः । भोगेति । तदानीं कर्मभिर्भोगजननात् तदर्थं देहोत्पादनमित्यर्थः । तण्डुलीयकमृद्भिद् दृष्टान्तः। एवमिति । क्षीरादक्षीराच्च परमाणोः क्षीरम् , एवं दध्याद्यपीत्यर्थः । नन्विदानीं ब्राह्मणत्वादिव्यवस्थापकं विशुद्धमातापितृजत्वादिकं, सर्गादौ तु कर्मैत्यननुगम इत्यत आह । स एवेति । इदानीमप्यदृष्टविशेषोपगृहीतभूतजनितत्वेनैव तद्वय- प्रकाशिका । वृत्तित्वकत्वाद् व्याचष्टे । प्रतिबद्ध्येति । तण्डुलीयकमिति । "उद्भिद्वृश्चिकच- मकरन्दः । त्वात् । श्वासजनककर्मणां वृत्तिलाभादसिद्धिरिति विवृणोति प्रतिबद्ध्येति । तण्डुलीयेकेति ।

२८६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ २ कारिकान्याख्याने तीयत्वमिति किमसङ्गतम् ? । गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना । न गतम्, योनिजेष्वेव व्यवस्थापनात्, मानसास्त्वन्यथाऽपीति । गोमयवृश्चिकादिवद् इदानी- मपि किं न स्यादिति चेन्न । कालविशेषनियतत्वात् कार्यविशेषाणाम्, न हि वर्षासु गोमयाच्छालुक इति हेमन्ते किं न स्यात् ॥ समयोऽप्येकेनैव मायाविनेव व्युत्पाद्यव्युत्पादकभावावस्थितनानाकायाधिष्ठा- नाद् व्यवहारात एव सुकरः । यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकमिद- मानयेति प्रयुङ्क्ते, स च दारुपुत्रकस्तथा करोति तदा चेतनव्यवहारादिवत् तद्दर्शी बालो व्युत्पद्यते, तथेहापि स्यात् । क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दा- दीनाम् । सर्गादावेव किं प्रमाणमिति चेत् । विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवा- बोधनी। मुत्पाद्यजातीनामिति नियमो निरस्तः स्यात् इत्याह-गतं तर्हि इति । न गतम् इति । न च सोऽपि नियमः सर्वथा निरस्यत इति । कथमित्याह-योनिजेषु इति । योनिजेष्वेवायं नियमो नायोनिजेष्विति केवलं व्यवस्थाप्यते, तेन मानसानामन्यथात्वमपि संभवतीति । नन्वन्यत्वेऽपि यथा गोमयाद् वृश्चिका जायन्ते तथा मनसाऽपि केचिज्ञ्जायन्ताम् इत्याह-गोमय इति । न इति । कालविशेषलक्षणसहकारिविरहादित्यर्थः । तत्रैव दृष्टान्तमाह-न हि इति । तथा सर्गादावेवादृष्टोप- निबद्धभूतहेतुको जातिनियमः, नेदानीमपीति सिद्ध एव । संग्रहस्य तुरीयं पादं व्याचष्टे-समयोऽपि इति । मायाविनेत्येतद्विभजते-यथा हि इति । शब्दव्युत्पत्तिवद् घटादिनिर्माणव्युत्पत्तिरपि कुलालादिभावव्यवस्थितकायानाधिष्ठाय पटादिकं निर्मिमाऐनैवेश्वरेण सुकरेत्याह-क्रियाव्युत्पत्तिरपि इति । ननु सर्गप्रलययोः सिद्धौ सर्वमेतदेवं स्यात्, तयोरेव सिद्धिः कुतस्त्येत्याह-सर्गादौ इति । सर्गसिद्धौ तावदनुमानमाह-विश्वसंतानो ऽयम् इति । अवयवावयविप्रवाहः संतानः, सिद्धसा- ध्यतान्निवृत्यर्थमुक्तं-विश्व इति । दृश्यसंतानशून्यैः इति । यथा ह्यद्यत्वे घटादिकार्याणि तदारम्भकैः परमाणुभिः तदारम्भात् पूर्वदृश्यमानमृत्पिण्डादिकार्यसंतानवद्भिरारभ्यन्ते, नैवं सर्व- दापीति । कदाचिद्दृश्यसंतानशून्यैरनारब्धसर्वकार्यैः स्वरूपेणावस्थितैरिति यावत् । परमाणुभिर्विश्वं कार्यमारभ्यते यथा हारणिजनितोऽग्निः संतानान्तरशून्यैरवारणिवर्तिभिरान्नेयपरमाणुभिरारभ्यत प्रकाशः। इत्येतार्थः । गतमिति । सर्गायगोव्यक्तौ व्यभिचारादित्यर्थः । योनिजेष्विति । योनिजमात्रवृत्ति- गोत्वव्याप्यजातेस्तत्र हेतुत्वादित्यर्थः। तन्निश्चयश्च कालविशेषवृत्त्येति भावः । समयोऽपीति । नन्वीश्वरव्यवहाराच्छक्तिग्रहे स भ्रमः स्यात् । व्यवहारहेतुतज्ज्ञानस्य नित्यतया शब्दजन्यत्वबाधात् । तथा च तन्मूलकः सर्वशाब्दव्यवहारो भ्रमः स्यात् । न । घट- पदं घटज्ञानमित्यस्य भ्रगत्वेऽपि घटपदं घटशक्तमित्यस्य ज्ञानस्य सत्यज्ञानत्वाद् विषयाबाधावात्। न च भ्रममूलकत्वेन भ्रगत्वम् । विशेष्यावृत्तिप्रकारकत्वस्योपाधित्वात् । अत एवानुरूपं दृष्टान्तमाह । यथा हीति । विश्वसन्तान इति । ननु विश्वशब्देन ब्रह्माण्डपक्षत्वे तदसिद्ध्या आश्रयासिद्धि, कार्यमात्र- पक्षत्वे क्रमारब्धदहनपवनादिन्यायेनारम्भेऽपि प्रलयासिद्धौ सिद्धसाधनम्। एकदेति विशेषणे टिप्पणी। प्रलयेऽहोरात्रत्वानभ्युपगमेऽपि ब्रह्माण्डस्यानित्यत्वे सर्गायहोरात्रव्यक्तित्वे साधनाव्यापक-

द्वितीयस्तबके ] प्रलयोपपादनम् । २९७ प्रकाशः । तेनैव व्यभिचारात् । एकदाऽऽरम्भहेतुसाकल्ये सतीति विशेषणासिद्धेः । साध्यमपि कार्यद्रव्य- शून्यसमवाय्यारभ्यत्वं कार्यमात्रशून्यसमवाय्यारभ्यत्वं वा ? । आद्ये सिद्धसाधनमन्त्ये बाधः, आरम्भकसंयोगादेः सत्त्वात् । अथैककालीनाः सर्वे परमाणवः कदाचित् समप्रोपादेय- प्रबन्धशून्याः, आरम्भकत्वान्नष्टपवनारम्भकपरमाणुवत् । सर्वत्र पक्षतावच्छेदकावच्छिन्न- साध्यं प्रतीयते इत्येककाले शून्यता लभ्यते । न च पवनपरमाणूनामपि पक्षत्वेनांशतः सिद्धसाधनम् । पक्षधर्मतावल्लभ्यसाध्याप्रतीतेः । अमेदानुमानवज पक्षस्यापि दृष्टान्तत्वाविरोधः । न । कार्यद्रव्याधिकरणकालमात्रवृत्तित्वस्योपाधित्वात् । प्रकाशिका । दिति" कारिकायामुन्द्रिच्छब्देन तण्डुलीयकशाकविशेषो दृष्टान्त इत्यर्थः । तेनैवेति । धूमारब्धद हनादिनेवेत्यर्थः । .. समप्रोपादेयप्रबन्धशून्यत्वं सामान्याभावः स च बाधितः । इदानीं प्रतिबन्धसत्त्वादिति कदा चिदिति विशेषणम् । उपादेयपदं = स्वोपादेयद्रव्यपरमतः खण्डप्रल- येऽपि कर्म्मादिसत्त्वान्न बाधः । आरम्भकत्वादिति । द्रव्यसमवायिकारणत्वादित्यर्थः । तेन ना काशादौ व्यभिचारः । नष्टेति । न च तेजोट्वयोरपि संसर्गिद्रव्यतया तेनापि द्रव्यान्तरजनने दृष्टान्तस्य साध्यवैकल्यमिति वाच्यम् । पूर्वद्रव्यनाशकालीनस्य परमाणोः साध्यवत्त्वानिश्चयात् । कार्यद्रव्येति । ननूपाधिदातुर्रमते मात्रपदव्यवच्छेद्याऽप्रसिद्धिः । न च न्यायमतेनैवाय- मुपाधिः स्यादिति ग्रन्थयोजना दृष्टान्तीकृतपरमाणोरेव साध्याव्यापकत्वात् । न च प्रलयासिद्धौ साध्यव्यापकतासन्देहोऽस्त्येवेति वाच्यम् । प्रलयस्य सिद्धावसिद्धौ चोपाधिताप्रयोजकान्यतररूपन्य- मकरन्दः । उन्द्रित्पदेन शाकविशेष एव दृष्टान्ततयोक्त इति भावः । तेनैवेति । कमारब्धदहनपवनादिने- त्यर्थः । तस्यैकदाऽऽरब्धत्वाभावादिति भावः । संप्रति तद्बाधितमित्यत आह कदा चिदिति । उपादेयपदं स्वोपादेयद्रव्यपरं, तेन खण्डप्रलयसाधने न बाधः । कार्यद्रव्येति । ननु मात्र- पदोपादाने दृष्टान्तितपवनपरमाणावेव साध्याव्याप्तिः, तस्य प्रलयेऽपि वृत्त्या तादृशकालमा- त्रवृत्तित्वाभावात् । तदनुपादाने साधनव्यापकत्वम् । उपादिदातृर्मते मात्रपदव्यवच्छेद्यकार्यद्रव्या- नधिकरणकालाप्रसिद्धिश्च । अत एवेदमेवानुमानं सिद्धान्तितं शब्दखण्डे, अन्यथा सोपाधित्वे तद- नुपपत्तेः, तस्मादयमनुपाधिरेव । प्रलयसन्देहदशायामुपाधित्वेनास्य सन्देहो दूषक इत्याशयेनास्यो- पाधित्वेनोद्भावनम् । न च मात्रपदव्यवच्छेद्यासिद्धेरस्यैवाप्रसिद्धतया कथं तथात्वमपीति वाच्यम् । न्यायमतेन तथात्वसम्भवादिति वदन्ति । वयन्तु ब्रूमः । न्यायमतेनैवास्योपाधित्वम् । एवञ्चोपा- धित्वादित्यस्य पूर्वे त्वन्मत इति पूरणीयम् । तथा च नाप्रसिद्धिर्न वा साधनव्यापकत्वम् । साध्या- व्यापकत्वन्तववशिष्यते, तदपि न, सावयवत्वाणुभिन्नत्वाद्यवच्छिन्नसाध्यव्य पकतया पर्यवसित- साध्यव्यापकत्वात् । न चैवं स्वीकृतत्रिविधोपाधिवहिर्भावेऽपसिद्धान्तः, तस्योपलक्षणपरत्वात् । अत एव वायुः प्रत्यक्षः प्रमेयत्वादित्यादौ रूपवत्त्वावच्छिन्नसाध्यव्यापकमुद्भूतत्वमुपाधिः सर्वसिद्धः । न च न्यायमतेन सिद्धान्तितत्वादव्यभिचरिते प्रकृतहेतौ नोपाधिरिति वाच्यं, शून्यपदस्य ध्वंस- परतया कादाचित्काभावपरतया वा यथाश्रुते हेतोर्मनःप्रभृतौ व्यभिचारेणास्य सङ्गतत्वात् । अत एवारम्भकत्वादिति हेतुरुक्तः, अन्यथा मेयत्वादिकमेव समर्थं स्यात् । द्रव्यसमवायिकारण- त्वविवक्षया च सिद्धान्तत्वमिति न विरोधगन्धोऽपीति तत्त्वम् । कालमात्रपदयोरन्यतरान्तर्भावेण तन्मतेऽपि सन्दिग्धोपाधिपरत्वमित्याहुः । न चेति । व्योमादिसमानकालीनतया तदति- रिक्तत्वमसम्भवतीत्यत आह कार्येति । बाधवारणाय द्रव्येति । दृष्टान्तसिद्ध्यर्थमाह टिप्पणी । त्वात् नित्यत्वे च तत्राप्यस्त्येवोपाधिरिति नासङ्गतिः । कार्यद्रव्याधिकरणकालमात्रेति ।

३८८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां प्रकाशः। न च परमाणवः कार्यद्रव्यसमानकालिकपरमाणुक्रियाऽतिरिक्तक्रियावन्तो मूर्तत्वात् पटवदि- त्यावान्तरप्रलये, महाप्रलये च कार्यद्रव्यसमानकालिकैतद्वृत्तिध्वंसान्यध्वंसवन्तः तत एव तद्वदिति प्रकाशिका। तिरेकनिश्चयात् सामान्यतोऽनुपाधितानिश्चयात्, प्रलयस्वीकारे साधनव्यापकत्वनिश्चयेऽपि साध्या- व्यापकत्वनिश्चयादस्वीकारे च साध्यव्यापकत्वनिश्चयेऽपि साधनव्यापकतानिश्चयात् । न च प्रलय- स्वीकारेऽपि सावयवत्वावच्छिन्नसाध्यव्यापकोऽयमुपाधिरुपाधित्रैविध्याभिधानस्योपलक्षणपरत्वादिति ति वाच्यम् । सावयवत्वावच्छिन्नसाधनव्यापकत्वात् । यद्धर्मावच्छिन्नसाध्यव्यापकस्तद्धर्मावच्छिन्न- साधनव्यापकस्यैवोपाधित्वात् । अन्यथा प्रसिद्धानुमाने व्यञ्जनवत्त्वादेरुपाधितापत्तेः । किञ्चात्रानुमाने व्याप्तिदोषो नास्त्येवेति कथमुपाधिः सङ्गच्छताम् । अत एव चिन्तामणिविदमेव सिद्धान्तानुमान- मुक्तमिति । अत्राहूः। आरम्भकत्वमात्रं हेतुर्न च द्रव्यविशेषितमेवञ्च यथा निरुक्तस्य साध्यस्याका- शादावसत्त्वेन हेतोर्व्यभिचार इति एवं द्रव्यविशेषितहेत्वभिप्रायेण च चिन्तामणौ सिद्धान्तानुमान- मिदम् । अणुभिन्नत्वावच्छिन्नसाध्यव्यापकश्चायमुपाधिः । कपालादौ निरुक्तसाध्यव्यापकत्वादाका- शादौ तदवच्छिन्नसाधनाव्यापकत्वाच्च न्यायमतेनैवायमुपाधिरतो न मात्रपदव्यवच्छेद्याप्रसिद्धिः। का- लपदमुपाधौ त्याज्यमेव तथा सति आकाशादेरेव मात्रपदव्यवच्छेद्यत्वमित्यप्याहुः । वस्तुतं उपा- धिपदं प्रकृतेऽवच्छेदकपरं तेनायमर्थः, एककालीना इत्यत्र प्रलयरूपकालोपाधेरेवावच्छेदकत्वेऽ- प्रसिद्धिरिति संसाररूपकालोपाधिरेव पक्षतावच्छेदको वाच्यः । तथा सति बाधापत्तिरिति । अनयैव रीत्या कार्यद्रव्यानधिकरणेत्यपि क्वाचित्कः पाठो योजनीयः, संसारकालस्यावच्छेदकत्वे बाध इति तदन्यः कालोपाधिरवच्छेदको वाच्यः । तत्र चाप्रसिद्धिरित्येवं कृत्वा, मात्रपदं च उभयपाठप क्षेऽपि व्युत्क्रमेण योजनीयम् । कार्यद्रव्याधिकरणकालवृत्तित्वमात्रमिति क्रमेणेति दिक् । न च परमाणव इति । व्योमादेः प्रलयेऽपि सत्त्वाद्वाध इति कार्येति । क्रियाकाले कार्यावश्य- म्भावेन बाध इति द्रव्येति । दृष्टान्तसिद्ध्यर्थं परमाण्विति । पक्षधर्मतावलात् कार्यद्रव्यसमान- कालीनक्रियासिद्धौ, प्रलयसिद्धिरिति भावः । योग्यतैवात्र साध्येति न निष्क्रिये विनष्टे व्यभिचारः । क्रियावत्त्वमेव वा हेतुत्वेन विवक्षितमिति स्मर्त्तव्यम् । तत एवेति । ध्वंसवत्त्वादेवेत्यर्थः । न च यस्मिन् परमाणौ प्रथमत एव संयोगादिसमस्तकार्यध्वंसः, पश्चाच्च परमाण्वन्तरकर्मनांशेन महाप्रल- यस्तस्मिन्नंशतो बाधव्यभिचाराविति वाच्यम् । संयोगनाशाय क्रियायास्तन्नाशाय वा संयोगस्य स्वीकारेणादृष्टनाशादेव चरमनाशे सर्वत्र साध्यसत्त्वात्। योग्यतैवात्रापि साध्येति क्रियावत्वमेवात्रापि मकरन्दः। परमाण्विति । मूर्त्तत्वादिति । क्रियावत्त्वादित्यर्थः । तेन निष्क्रिये विनष्टे न व्यभिचारः । योग्यता साध्येत्यन्ये । तत एवेति । मूर्त्तत्वादेवेत्यर्थः । अत्रापि योग्यतायाः साध्यत्वान्नोत्पन्नविनष्टे व्यभिचारः । वस्तुतो मूर्त्तपदं ध्वंसवत्परमन्यथाऽवच्छिन्नपरिमाणवत्परत्वे व्यर्थविशेषणत्वापत्तेरिति ध्येयम् । टिप्पणी। न्यायमतेनैवेदमुपाद्युद्भावनम्, तव मते इति च शेषः । यद्यपि दृष्टान्ते साध्याव्या- पकत्वम् । तथापि अणुभिन्नत्वावच्छिन्नसाध्यव्यापकत्वादाकाशे तादृशसाधनाव्यापकत्वाच्च भवत्युपाधिः, न चाकाशे साध्यसत्त्वनिश्चयः, एतदनुमानपूर्व प्रलयस्य सन्दिग्धत्वात्, साध्यवत्तया निश्चिते यावत्युपाधिनिश्चयस्यैव दूषकत्वात् साध्याव्यापकत्वस्य सन्दिग्धस्यापि दूष- कत्वात् । मात्रपद्व्यावर्त्यस्य न्यायमते प्रलयस्य सत्त्वान्न तद्वैयर्थ्यशङ्का । वस्तुतस्तूपधिपदमव- च्छेदकपरम्, तथा चैककालीनता इत्यत्र पक्षतावच्छेदककालवृत्तित्वं कार्यद्रव्याधिकरणकाल-

द्वितीयस्तबके १] प्रलयोपपादनम् । २८६ प्रकाशः । वाच्यम् । एतदन्यगुणवत्त्वस्योपाधित्वात् । नाप्यारम्भककालान्यवृत्तिध्वंसप्रतियोगिवृत्तिकार्यद्रव्यत्वं, स्वाधिकरणानधिकरणवृत्तिध्वंसप्रतियोगिवृत्ति, कार्यमात्रवृत्तिधर्मत्वात्, एतत्प्रदीपत्ववदिति, वाच्यम् । स्वपदेन पक्षभिन्नाभिधानेऽनन्वयात् । पक्षाभिधाने त्वप्रसिद्धिः । अत्राहुः। विश्वसन्तानपदेन कार्यमात्रवृत्त्यनेकवृत्तिधर्मः कार्यद्रव्यत्वं पक्षः। तथा हि, समयसम- • प्रकाशिका । तत इत्यनेन परामृश्यते मूर्त्तत्वस्यावच्छिन्नपरिमाणवत्त्वार्थकत्वे अवच्छिन्नपदवैयर्थ्यादिति कश्चित् । एतदन्येति । पक्षेतरत्वनिरासाय तदन्यत्वं विहाय एतद्वृत्तिगुणान्यगुणवत्त्वपर्यन्तानुधावनम् । यद्यप्ययमपि पर्वतेतरद्रव्यत्ववन्नोपाधिः साध्यव्यापकताग्राहक सत्त्वे तु वह्नीतरत्ववदेतदन्यत्वमुपाधिः सम्भवत्येव, तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् । नाप्यारम्भकेति । आकाशवृत्तिध्वंस- प्रतियोगिवृत्तित्वमादायार्थान्तरमिति वृत्तयन्तः पक्षविशेषणम् । तस्यापि तादृशध्वंसप्रतियोग्यवृत्ती- त्यर्थोऽन्यथो कार्यान्तरतादवस्थ्यात् । इयञ्च कालाघटितसाध्यपक्षे व्याख्या । यदा तु कालघटितं, साध्यंतदोक्तार्थान्तरशङ्का विरहादुपरञ्जकमेव तद्विशेषणम् । स्वपदेनेति । पक्षभिन्नस्य दृष्टान्ती- कृतैतत्प्रदीपत्वादेरभिधाने अनन्वयः, उद्देश्यप्रलयासाधकत्वात् । पक्षाभिधाने तु तादृशकालाप्रसि- द्धेरित्यर्थः । इदञ्च कालघटितसाध्यपक्षे व्याख्यानम् । तदघटितसाध्यपक्षे तु पक्षभिन्नायावद- भिधाने तदधिकरणानधिकरणधर्मिणोऽभावात् साध्यस्य क्वचिदप्यसत्त्वादनन्वयः । पक्षाभिधाने त्वप्रसिद्धिः, दृष्टान्ते साध्यासिद्धिरिति व्याख्याता उक्तदोषनिरासाय स्वपदकालपदाघटितं साध्य- मादाय सिद्धान्तयति-तथा हीति । आकाशादिवृत्तिध्वंसप्रतियोगिवृत्तित्वमादायार्थान्तरशङ्का मा भूदिति बाघस्फोरणाय समयेत्यादि अवृत्तीत्यन्तं पक्षविशेषणम् । समयपदं साधारणाधिक- रणपरमतो न पक्षविशेषणासिद्धिः, तादृशशब्दवृत्तित्वेनार्थान्तरमिति पक्षे, द्रव्यपदं स्वरूपासिद्धि- वारणाय, पक्षे कार्यपदं महाप्रलयेनार्थान्तरवारणाय, साध्ये समानकालीनान्तमधिकरणान्त- विशेषणं न तु ध्वंसविशेषणमिदानीन्तनध्वंसस्यापि महाप्रलये सत्त्वादुक्तार्थान्तरतादवस्थ्यात् । ध्वंस- मकरन्दः । एतदन्येति । यद्यपि पक्षेतरत्वनिरासाय गुणवत्पदमयुक्तं, साध्यव्यापकताग्राहक सत्त्वे वह्नीतरत्व- वत्त्वस्याप्युपाधित्वात्, तदसत्त्वे पर्वतेतरद्रव्यत्वादिवदस्यापि पक्षेतरतुल्यत्वेनानुपाधित्वात्, तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् । अनन्वयादिति । प्रकृतानन्वयात् कार्य्यद्रव्याधिकरणकालासिद्धे- रित्यर्थः । पक्षेति । कार्य्यद्रव्याधिकरणद्रव्यादेः प्रसिद्धत्वेऽपि तादृशंकालस्याप्रसिद्धेः साध्ये काल- पदान्तर्भावादप्रसिद्धिरिति भावः । एतदनन्तर्भावेण सिद्धान्तमाह तथा हीति । समयेत्युपलक्षणं तदुपाधि-दिक्-तदुपाध्यादिकमपि बोध्यम् । एतच्च तादृशाकाशवृत्तिध्वंसप्रतियोगिवृत्तित्वेनार्थो- न्तरं मा भूदिति बाधस्फोरणाय समवायिपदं द्रव्यसमवायिपरम् । तादृशशब्दवृत्तित्वेनार्थान्तर- वारणाय पक्षे द्रव्यपदम् । महाप्रलयेनार्थान्तरवारणाय कालीनान्तं ध्वंसविशेषणम् । कार्य्यप्राग- भावपदयोरन्यतरान्तर्भावेण साध्यद्वयं बोध्यम्, अतो न व्यर्थविशेषणत्वम् । कार्यपदं भावकार्य्य- परम् । कार्य्यद्रव्यानधिकरणत्वं कार्य्यद्रव्याभाववत्त्वं, तच्च कपालादावपीति तद्वृत्तिध्वंसमादायार्था- टिप्पणी । वृत्तित्वं न तु प्रलयवृत्तित्वन्तस्यासिद्धेस्तथा च बाध इति भावः । एतदन्यगुणवत्त्वस्योपाधित्वा- दिति । यद्यप्येतस्य पक्षेतरत्वतुल्यत्वम् । तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् । आरम्भकका- लान्येति । आरम्भको द्रव्यसमवायिकारणं तस्मात् कालाच्च यदन्यत् तद्वृत्तिध्वंसप्रतियोगिवृत्ति- त्वाभावादित्यर्थः । उक्तविशेषणोपादानादाकाशवृत्तिध्वंसप्रतियोगित्वमादाय नार्थान्तरम् । कालघ- ३७ न्या० कु०

यिभिरारब्धः। सन्तानत्वाद्वारोयसन्तानवत्। वर्त्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पा इति। प्रलयेऽपि प्रमाणमाह-वर्त्तमान इति। यदि संतानानारम्भकत्वादित्येवोच्येत द्व्यणुकादिभि र्व्यभिचारः स्यात्, न हि ते पूर्वमुत्पादितसंतानान्तराः अथ चारम्भकाः, अतस्तद्व्यवच्छेदायोक्तं- वायिभिन्नवृत्तित्वंसप्रतियोग्यवृत्तिकार्यद्रव्यत्वं, कार्यद्रव्यप्रागभावसमानकालीनारम्भकातिरिक्तकार्यद्र- व्यानधिकरणवृत्तित्वंसप्रतियोगिवृत्ति, कार्यमात्रवृत्तिधर्म्मत्वात्, शब्दत्ववत्। न चात्र विभुवृत्तित्वं वृत्तित्व मुपाधिः। अन्त्यावयविकर्मत्वे साध्याव्यापकत्वात्। वर्त्तमानेति। ब्रह्माण्डस्यागमसिद्धत्वानाश्रया- प्रागभावात्मककर्मादिसमानकालीनो द्रव्यध्वंसो महाप्रलयाव्यवहितक्षणे भवत्येवेति तमादायार्था- न्तरवारणाय द्रव्यपदम् कार्यद्रव्यपदयोस्तु विकल्पेनान्वयः कार्यपदञ्च भावकार्यपरं कार्यद्रव्यान- धिकरणत्वं कार्यद्रव्याभाववत्त्वमेवोक्तं तच्च कपालादावस्त्येवेति कपालादिकमादायार्थान्तरवारणाया- रम्भकातिरिक्तेत्यनधिकरणान्तविशेषणम्। आरम्भकपदं द्रव्यसमवायिकारणपरमतो न दृष्टान्ते- साध्यवैकल्यम्। कार्येति। अनन्तत्वे व्यभिचारवारणाय इति। मात्रेति। न चैवमपि ध्वंसत्वे व्यभिचारः, भाववृत्तित्वे सतीति विशेषात्। नन्वेवमपि चरमक्रियात्वे व्यभिचारः, न च प्राग्भा- वसमानकालीनकार्यमात्रवृत्तित्वादिति हेतुरिति वाच्यम्। तथापि चरमस्वर्गीयघटत्वे व्यभिचा- रात्। न च तादृशध्वंसप्रतियोगिजातीयवृत्तित्वं साध्यमिति वाच्यम्। तथा सत्यनन्तत्वे तज्जातीय- व्योमादिवृत्तितया साध्यसत्त्वेन मात्रपदवैयर्थ्यापत्तेः। न च ध्वंसप्रतियोगित्वमपि जातीयविशेषण मिति वाच्यम्। तस्याप्रयोजकत्वेन व्यापकतानवच्छेदकत्वादिति। अत्र मिश्राः। मात्रपदं हेतौ कात्स्न्र्यार्थकमिति विभाजकोपाध्यवच्छिन्नयावत्कार्यवृत्तित्वा- दिति हेतुः। कार्यपदं च भावकार्यपरमिति वदन्ति। तदपि चिन्त्यम्। तथा सति पक्षे कार्यपद- स्याप्रयोजकत्वापत्तेरिति। अत्र ब्रूमः। अनादितावच्छेदकधर्म्मत्वादिति हेत्वर्थः, अनादित्वं च सजातीयध्वंसव्याप्यप्रागभावप्रतियोगित्वम्। व्याप्तिश्च कालिकीति न काप्यनुपपत्तिरिति दिक्। अन्त्येति। अन्त्यावयविनिष्ठकर्म्मवृत्तितयैव कर्म्मत्वे साध्यमित्याविष्कर्त्तुमन्त्यावयविप- न्तरवारणायारम्भकेति। द्रव्यसमवायिकारणातिरिक्त इत्यर्थः। कार्यमात्रेति। ननु ध्वंसत्वे व्य- भिचारः। न च कार्यपदं भावकार्यपरं, मात्रपदवैयर्थ्यापत्तेः। न च भाववृत्तित्वे सति कार्यमा- त्रवृत्तित्वमर्थः, तथा चानन्तत्वे व्यभिचारवारणाय मात्रपदमिति वाच्यं, तथापि चरमज्ञानत्वादौ व्यभिचारापत्तेरिति चेन्न, तादृशध्वंसप्रतियोगिजातीयवृत्तित्वस्य साध्यार्थस्य तत्रापि सत्त्वात्। न चैवमपि मात्रपदवैयर्थ्यमनन्तत्वे तज्जातीयव्योमादिवृत्तितयाऽपि साध्यसत्त्वादिति वाच्यम्। ध्वंस- प्रतियोगित्वेनापि जातीयस्य विशेषणात्। अधिकं शब्दप्रकाशे द्रष्टव्यम्। अन्त्यावयविपदोपादानं टितस्य साध्यत्वे तूपरञ्जकमेवेदम्। कार्यद्रव्यप्रागभावसमानकालीनेति। महाप्रलयेनार्थान्तरवा- रणाय कालीनान्तम्। कार्यमात्रवृत्तिधर्म्मत्वादिति। ध्वंसवृत्तितया कार्यमात्रवृत्तावनन्तत्वे व्यभिचारवारणाय मात्रपदम्, तस्याकाशादिवृत्तित्वात्। न च ध्वंसत्वे व्यभिचारस्तस्य कार्यमा- त्रवृत्तित्वादिति वाच्यम्। तद्वारणाय भाववृत्तित्वे सतीत्यस्य विशेषणीयत्वात्। मात्रपदोपादानव- लाद् वा भावकार्यवृत्तित्वे तात्पर्ष्यलाभात्। उक्तध्वंसप्रतियोगिजातीयध्वंसप्रतियोगिवृत्तित्वं साध्यं नातः सर्वमुक्तत्मकंमहाप्रलयाव्यवहितपूर्ववर्त्तित्वज्ञानत्वे व्यभिचारः, विवक्षितसाध्यस्य

[द्वितीयस्तबके] प्रलयोपपादनम् । २६१ दितसजातीयसन्तानान्तराः, नित्यत्त्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्या- दि । अवयवानामावापोद्वापादुत्पत्तिविनाशौ च स्यातां, सन्तानाऽविच्छेदश्चेति को विरोध इति चेन्न । एवं तर्हि घटादिसन्तानाविच्छेदोऽपि स्यात्, विपर्ययस्तु दृश्य- ते । कर्त्रादिभोगविशेषसम्पादनप्रयुक्तोऽसाविति चेन्न । द्व्यणुकेषु तदभावात् । तथा च तदवयवानामपगमाभावेऽनादित्वप्रसङ्गे द्व्यणुकत्वव्याघातः । तस्माद् यत्कार्यं बोधनी । नित्यत्वे सति इति । पूर्वत्राप्यर्थतः प्रलयः सिध्यति, अत्रापि सर्ग इति द्रष्टव्यम् । अनुमानयो- र्विपक्षे बाधकं पृच्छति-अवयवानाम् इति । यथा ह्ययतवे तन्त्ववयवानां संयोगविभागाभ्यामेव पटादेरुत्पत्तिविनाशौ संतानानुच्छेदेन दृश्येते तथैव सर्वदापि तौ स्यातां, किमत्र बाधकमिति । एवं तर्हि इति । यदि संतानानुच्छेदः स्यात् तर्ह्यवयवावापोद्धारलक्षणो विनाशोऽपि न स्यात्, दृश्यते चासाविति । कन्थादि इति । न संतानत्वप्रयुक्तः पटादेर्विनाशः, किन्तु विनष्टपटावयवार- ब्धकन्थादिद्वारभोगविशेषप्रयुक्त इति । कर्त्रादिभोगविशेषेति पाठे त्वयमर्थः-पटादेः कर्तॄणां कुविन्दादीनां पटाद्युत्पादनद्वारेण ये भोगास्तेषां तद्विनाशमन्तरेणानुपपत्तेस्तत्प्रयुक्तो विनाश इति । द्व्यणुकेषु इति । द्व्यणुकेषु तस्य भोगविशेषस्य विनष्टद्व्यणुकावयवद्वारस्य द्व्यणुकोत्पादनद्वारस्य वा न संभव इति । ततः किमित्यत्राह-तथा च इति । तस्माद्द्भोगविशेषस्याप्रयोजकत्वात्कार्यस्योत्प- त्तिविनाशयोः समवायिकारणसंयोगविभागावेव निवन्धनमङ्गीकर्तव्यमित्याह-तस्मात् इति । प्रकाशः । सिद्धिः । तदारम्भकत्वं तन्तुभिः पूर्वमनुत्पादितपटैरनैकान्तिकमित्यत उक्तम् । नित्यत्वे सतीति । नित्यत्वमात्रन्तु व्योमादिभिरनैकान्तिकमिति तदारम्भकत्वादित्युक्तम् । प्रदीपपरमाणूनां तैजसद्रव्य- त्वेन संसर्गिद्रव्यतयाऽऽरब्धतेजोजातीयत्वसिद्धौ दृष्टान्तत्वम् । न चाप्रयोजकत्वम् । निरुपाधिमङ्ग- प्रसङ्गस्य विपक्षबाधकत्वात् । न त्वागमो विपक्षबाधकः । तस्य कार्यद्रव्यानाधारकालावोधकत्वात् । सन्तानाविच्छेदेऽपि उत्पत्तिविनाशयोरन्ययोपपत्तिरित्याह । अवयवानामिति । आवापोद्वापौ उपगमापगमौ । यदि नैवं कार्यद्रव्यस्यात्यन्तमुच्छेदस्तदाऽभिमतघटायुच्छेदोऽपि न स्यादित्याह । एवं हीति । विपर्ययस्त्विति । अत्यन्तोच्छेद इत्यर्थः । ननु न सन्तानप्रयुक्तोऽस्यन्तोच्छेदः, किन्त्वन्योपाधिप्रयुक्त इत्याह । कर्त्रादीति । उपाधेः साध्याव्यापकत्वमाह । द्व्यणुकेष्विति । तदभावाद्भोगविशेषसम्पादकत्वस्योपाधेरभावादित्यर्थः । न च तत्राप्यत्यन्तानुच्छेदेऽपि अवयवा- नामावापोद्वापाभ्यामेवोत्पादविनाशसम्भवः । तयोरप्राभावादित्याह । तथा चेति । नाशस्य भोग- विशेषसम्पादनप्रयोजकत्वे द्व्यणुकनाशो न स्यात् । तेन भोगाजननात् । तथा च विनाशिभाव स्यादनुत्पन्नत्वेन नित्यतया द्व्यणुकत्वव्याघात इति सन्तानत्वस्यात्यन्तोच्छेदेन स्वाभाविकः सम्ब- न्धो मन्तव्य इत्यर्थः । सन्तानस्यावस्थानमहेतुकं नित्यहेतुकं वा यदि स्यात्तदा सन्तानाविच्छेदः स्यादित्याह । तस्मादिति । यद्धेतुकमिति दृष्टान्तार्थम् । एतत्=कार्यं यन्निबन्धनस्थितीत्यादिकम् । प्रकाशिका । दोपादानम् । तस्येति । कार्यद्रव्यानधिकरणत्वेन तत्कालाबोधकत्वादित्यर्थः । किञ्चिद्भुवनाव- च्छिन्ननाशस्यैव पुराणादौ प्रतिपादनादिति भावः । अभिमतति । घटाद्यत्यन्तोच्छेदोऽपीत्यर्थः । मकरन्दः । तमादाय साध्याव्याप्तिरिति कृत्वा, वस्तुतः कर्मत्व एव साध्याव्यापकत्वम् । तस्येति । यद्यपि प्रलयवोधकागमसत्त्वादिदमयुक्तं, तथापि तदनाधारत्वेन तत्कालाबोधकत्वादित्यर्थादित्याहुः । अभिमतति । घटात्यन्तोच्छेदोऽपीत्यर्थः ॥ २ ॥ टिप्पणी । तत्र सत्त्वाद् । संसर्गिद्रव्यतयेति । भूयः संसृज्यमानस्वभावतया । तस्य कार्यद्रव्याना-

२६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः, यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः । न च कार्यस्य स्थितिनिबन्धनं नित्यमेव । नित्यस्थितिप्रसङ्गात् । न च नित्य एव हेतुः, अकादाचित्कत्वप्रसङ्गात् । तदतिनिस्तरङ्गमेतत् । ईदृश्याञ्च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पा- दनीय इति द्व्यणुकवत् पिपीलिकाण्डादेर्ब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गति- रिति प्रतिबन्धसिद्धिः । तथा च ब्रह्माण्डे परमाणुसाङ्ख्वितरि परमाणुषु च स्वत- न्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्त्तन्ताम् ? कुपितकपिकपोलान्त- र्गतोदुम्बरमशकसमूहवद्, दवदहनदह्यमानदारूदरविधूर्ण्णमानघुणसङ्घातवत्, प्रलय- पवनोल्लासन्तौर्वावानलनिपातिपोतसांयात्रिकसार्थवद्वेति ॥ २ ॥ अपि च— जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्म्मणोः ॥ ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥ ३ ॥ बोधनी । अस्त्वेवं, तथापि कार्यस्थितिनिबन्धनमुत्पत्तिहेतुश्च किमिति सर्वदा न स्यातामित्यत्राह—न च इति । निरस्तः प्रवाहोऽनादिमानित्यत्रेति । यदि कार्योत्पत्तिविनाशयोर्भोगविशेषोऽप्रयोजकः तर्हि भोगार्थः कर्मभिः सर्व्वषामुत्पाद इति सिद्धान्तो व्याकुप्येतेत्यत्राह—ईदृश्याम् इति । इयं तावदर्थस्यितिनं च तत्र सिद्धान्तहानिः । कर्माण्येव वस्तुस्थितिमनतिक्रामन्ति तद्भोगसमर्थवस्तुत्पादनद्वारेण भोगविशेषं सम्पादयन्ति, तेन येषां वस्तूनामुच्छेदस्वभावो न तेषामनुच्छिन्नानां भोगसाधनत्वम् , अन्यथा नानापुरुषाहृष्टोत्पादि- तस्य कस्यैव पटस्य परःसहस्रं वत्सरानवस्थितस्य क्रमेण भोगसाधनत्वप्रसङ्ग इति भावः । तस्मा- द्यथा द्व्यणुकेषु भोगाभावेऽपि स्थितिनिबन्धनहेत्वोरपगमोपगमाभ्यामेव विना शोत्पत्ती तथैव विश्व- स्यापि कार्यस्य ते भविष्यत इत्याह-इति द्व्यणुकवत् इति । एवं विपक्षे बाधक सद्भावात्सृष्टिप्र- लयानुमानयोः सिद्धः प्रतिबन्ध इत्याह-इति इति । तदेवमापरमाणोर्ब्रह्माण्डस्य विनाशसिद्धौ कैव कथा तदन्तर्वर्त्तिनः कार्यस्येत्याह—तथा च इति । तदन्तर्वर्त्तिभिः सह विनश्यतीत्यत्र निदर्श- नान्याह-कपिकपोल इति ॥ २ ॥ न केवलमनुमानं दर्शनं च प्रलयसद्भावानुगुणमित्याह—अपि च इति । जन्मादेर्ह्रासदर्श- नात्स्वाध्यायाध्ययने कर्मणोऽनुष्ठाने पुरुषाणां शक्तेश्च ह्रासदर्शनात् संप्रदायस्य ह्रासोऽवगम्यत इति । प्रकाशः । ईदृश्यामिति । अनित्यहेतुनिबन्धनायां कार्यस्थितौ कर्मभिः संपादनीयो भोग एवमेव वस्तुस्वभावानतिक्रमणेति योजना । नन्वेवमपि ब्रह्माण्डनाशसिद्धौ गिरिसागरादीनां कुतः प्रलय इत्यत आह । तथा चेति । क्व वर्त्तन्तामिति । विनश्यन्तीत्यर्थः । महाद्रव्यान्तरेण निहन्यमा- नाधारत्वाद्, महादहनदह्यमानाश्रयत्वाद्, महापवनक्षुभितसमुद्रविलीयमानाश्रयत्वादित्यत्र हेतु- त्रये क्रमेण दृष्टान्तत्रयमाह कुपितेति । एतेनाधाराभावात् पतन्त एव सन्तीत्यपास्तम् ॥२॥ एवं सर्वस्य नाशे अर्थाद् वेदोऽपि नश्यतीत्युपपाद्य वेदह्रासदर्शनेनापि तन्नाशोऽनुमेय इत्याह । अपि चेति । प्रकाशिका । भोगस्य कर्मसंपादनीयत्वं मीमांसकोऽपि स्वीकरोत्येवेति तदभिधानमनर्थकमित आह— कर्मभिरित्यादि ॥ २ ॥ टिप्पणी । षात्कालाबोधकत्वादिति । तत्तात्पर्यवत्त्वानिश्चयेत्यादि ॥२॥

द्वितीयस्तवके ] प्रलयोपपादनम् । २६३ पूर्वं हि मानस्यः प्रजाः सम्भवन्, ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः, ततः कामाऽवर्जनीयसन्निधिजन्मानः, इदानीं देशकालाद्यव्यवस्थया पशुधर्मादेव भूयिष्ठाः । पूर्वं चरुप्रभृतिषु संस्काराः समाधायिषत, ततः क्षेत्रप्रभृतिषु, ततो गर्भादितः इदानीन्तु जातेषु लौकिकव्यवहारमाश्रित्य । पूर्वं सहस्रशाखः समस्तो वेदोऽध्यगायि, ततो व्यस्तः, ततः षडङ्ग एकः, इदानीन्तु क्वचिदेका शाखेति । पूर्वम् ऋतवृत्तयो ब्राह्मणाः प्रायोऽतिष्ठन्, ततोऽमृतवृत्तयः, संप्रति मृतप्रमृत- सत्यानृतकुसीदपाशुपाल्यश्ववृत्तयो भूयांसः । पूर्वं दुःखेन ब्राह्मणैरतिथयोऽलभ्यन्त, ततः क्षत्रियातिथयोऽपि संवृत्ताः, ततो वैश्यावेशिनोऽपि, संप्रति शूद्रान्नभोजिनोऽपि । पूर्वममृतभुजः, ततो विघसभुजः, ततोऽन्नभुजः, संप्रत्यघभुज एव । पूर्वं चतुष्पाद् धर्म आसीत्, ततस्तनूयमाने तपसि त्रिपात्, ततो म्लायति ज्ञाने द्विपात्, संप्रति जीर्यति यज्ञे दानैकपात्, सोऽपि पादो दुरागतादिविपादिकाशत- दुःस्थोऽश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यत- या इतस्ततः स्खलन्निवोपलभ्यते । इदानीमिव सर्वत्र दृष्टानाधिकमिष्यते इति चेन्न । बोधनी । जन्मनो ह्रासं व्याचष्टे-पूर्वं हिः इति । पूर्वं श्रुतयः स्मृत्तिदर्शनात्तत्स्मृतयश्च पूर्वतमविशिष्टाचारद- प्रकाशः । वेदह्रासे दृष्टान्तार्थं जन्मादिह्रास उक्तः । प्रतियुगं क्रमेण ह्रासमाह । पूर्वे हीति । समाधायिषत सम्यगाहिता इत्यर्थः । श्रूयमाणा अपि वेदा उच्छेत्स्यन्ति, वाक्यत्वात् , उच्छि- न्नशाखावदिति भावः । ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्ष्यं प्रमृतं कर्षणं स्मृतम् ॥ सत्यानृतं तु वाणिज्यं कुसीदञ्च फलान्तरम् ॥ पाशुपाल्यं = गोरक्षादि । श्ववृत्तिः = सेवा । वैश्यावेशिनो = वैश्याऽतिथयः । अमृत- भुजो = यज्ञशेषभुजः । विघशभुजो = अतिथिशेषभुजः । अन्नभुजो = भृत्यशेषभुजः । अघ- भुजः = स्वार्थसाधितभुजः । चतुष्पादिति । तपोज्ञानयज्ञदानानि चत्वारः पादाः । दुरागतं= दुष्टादुपायद् द्यूतादेरागतम् , तदेव विपादिका = पादरोगः । ननु न शाखोच्छेदः, किन्तु यावान् वेद इदानीमधीयते तावानेव सदाऽध्ययनविषय इति वेदह्रासोऽसिद्ध इत्याह । इदानीमिति । विवादपदं स्मृतिः, स्मृत्यर्थानुभावकवेदमूला प्रकाशिका । मूले पूर्वं सहस्रशाखा इत्यादिना विद्याह्रासे कथ्यमाने शक्तिस्वाध्याययोरपि ह्रास उक्त एवेतिन तयोरदाहरणान्तरं पूर्वमृतवृत्तय इत्यादि किन्तु कारिकास्थाऽऽदिपदसंग्राह्यकथनम्, पूर्वं चतुष्पादित्यादिना कर्म्मह्रास उक्त इति बोध्यम् । विवादपदमिति । प्रत्यक्षवेदाऽमूलाऽदृष्टा- चेत्यर्थः । लोभमूलकस्मृतेस्तु स्मृतिपदेनैव वारणम् , स्मृतिपदस्य ऋषिप्राणीतवाक्यपरत्वात् । वेद- मूलत्वं वेदजन्यानुभवजन्यत्वमदृष्टद्वारा वेदजन्यानुभवजन्यत्वासिद्धिशङ्कानिरासाय स्मृत्यर्थानु- भावकेति साध्यविशेषणम् । मकरन्दः । विवादपदमिति । एतच्च प्रत्यक्षवेदमूलस्मृत्यंशे लोभादिमूलकस्मृत्यंशे च सिद्धसाधनत्राघादि- टिप्पणी । ऋतमुञ्छशिलमिति । "उञ्छः कणश आदानं कणिशायर्जनं शिलम्” कपिशं= शस्यमञ्जरी । इति धर्मदत्तोपाध्याय ( प्रसिद्ध बच्चाझा ) कृतकुसुमाञ्जलिप्रकाशद्वितीयस्तवकटिप्पणी समाप्ता ॥

२६४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ ३ कारिकां व्याख्यायां स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् । स्वातन्त्र्येण स्मृतीनामा- चारस्य च प्रामाण्यानभ्युपगमात् । मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभा- वात् । आचारात् स्मृतिः स्मृतेश्चाचार इत्यनादिताऽभ्युपगमे अन्धपरम्पराप्र- सङ्गात् । आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् । बोधनी । र्शनादिति, बीजाङ्कुरन्यायेनानादित्वेन स्मृत्याचारयोः प्रामाण्यसिद्धेः किं शब्दानुमानेनेत्याश- ङ्कयाह-आचारात् इति । अन्धानां मुग्धरूपस्मरणतुल्यताप्रसङ्गात् । यथा हि तद् रूपनिर्णयसा- पेक्षं तथा धर्मनिर्णये स्मृत्याचारः स्मृतेरनुभवापेक्षत्वादाचारस्य प्रमेयत्वेन प्रमाणापेक्षत्वात्, अत- स्तयोरेवान्योन्यमूलत्वाभ्युपगमेऽन्धवाक्यपरम्परापङ्क्तितुल्यता प्रसज्यत इति । तर्हि तयोर्वेदमेव मूल- मनुमास्यामः स तु वेदो मन्वादीनां प्रत्यक्षः इदानीमुच्छिन्न इति नाभ्युपगच्छामः, किन्तु तैरपि पूर्वस्मृत्यादिना तैरपि पूर्वतमस्मृत्यादिना, ततश्च सर्वेषां नित्यानुमेयस्यैव वेदस्य मूलत्वान्न शाखो- च्छेदः, नाप्यन्धपरंपराप्रसक्तिरिति प्राभाकरस्तन्नाह — आसंसारम् इति । यदि सर्वैरप्यनाम्नातः प्रकाशः । अक्लृप्तमूलान्तरत्वे सति महाजनपरिगृहीतस्मृतित्वात् , प्रत्यक्षवेदमूलस्मृतिवत् । अतो न न्याया- दिमूलकस्मृतौ व्यभिचारः । तथा, मङ्गलाचारो वेदबोधितः, अलौकिकविषयाविगीतशिष्टाचार- त्वात् यागवदिति स्मृत्याचारमूलस्य वेदस्याप्रत्यक्षत्वात् तदुच्छेदे तदध्यीयमानवेदस्याप्युच्छेदो भावीत्याह । स्मृतीति । ननु, वेदवत् स्मृत्याचारयोरदृष्टे स्वतः प्रामाण्यमेवेति न तन्मूलकवे- दानुमानमित्यत आह । स्वातन्त्र्येणेति । वेदनिरपेक्ष्येण स्मृत्यादेस्त्वयाऽपि प्रामाण्यानभ्युपगमा- दित्यर्थः । ननु स्मृतिकर्त्तारः स्वयमेवापूर्वं साक्षात्कृत्य तत्साधनमुपदेक्ष्यन्तीति न तेषां तदर्थं वेदापेक्षेत्यत आह । मन्वादीनामिति । अतीन्द्रियार्थदर्शित्वे तेषामनाश्वासादिति भावः । ननु भूयः शिष्टाचारदर्शनात् स्मृतिप्रणयनम् , ततः पुनःरिदानीं शिष्टाचारपरम्परा स्यादिति किं तन्मू- लवेदानुमानेनेत्यत आह । आचारादिति । उभयोरप्यनुमानमूलकत्वेनाव्यवस्थापकत्वात् तादृश- स्मृत्याचारयोर्वेदमूलकत्वव्याप्तिस्तव देशनाया एव धर्मे मानत्वाच्च तयोरमानकत्वापातादित्यर्थः । ननु नित्यानुमेयो वेदस्तन्मूलं स्यादतो न शाखोच्छेद इत्यत आह । आसंसारमिति । अनाम्ना- प्रकाशिका । अक्लृप्तेति । न्यायमूलकत्वे सत्यन्तार्थः । लोभमूलकस्मृतौ व्यभिचार इति महाज- नपरिगृहीतेति । प्रत्यक्षमूलकवाक्ये व्यभिचार इति स्मृतीति । स्मृतित्वञ्चादृष्टज्ञा- पकवाक्यत्वम् । अतो न ऋषिप्रणीतदृष्टान्तार्थकवाक्ये व्यभिचारः । नन्वनुमानमपि स्वतः प्रमाणमेवेति कथं तन्मूलकत्वे नाश्वास इत्यरुचेराह । तादृशस्मृत्याचारयोरिति । ननु तत्रापि व्याप्तावसम्भवन्मूलान्तरत्वमुपाधिरित्यरुचेराह-तव देशनाया इति । मीमांसकस्ये- मकरन्दः । वारणार्थम् । ताद्रूप्यसिद्धयेऽनुभावकान्तम् । न्यायादिमूलकस्मृतौ व्यभिचारवारणाय अक्लृ- प्तेति । असम्भवन्मूलान्तरत्वे सतीत्यर्थः । ननु महाजनपरिगृहीतपदं व्यर्थमिति चेत् । सत्यम् । भ्रम एवात्र मूलमित्यसिद्धिशङ्कानिरासाय तदुपादानात् न तु हेतुविशेषणत्वे तात्पर्य्यमित्येके । लोभादिभिन्नन्यायादिमूलकत्वाभावमात्रे सत्यन्ततात्पर्य्यम् । एवं च लोभादिमूलकस्मृताविव व्यभि- चारवारणाय तदित्यन्ये । लोभस्य वस्तुगत्या मूलत्वाभावान्मूलपदस्य प्रामाणिकमूलपरत्वाद्वा सत्यन्तेन लोभमूलकस्मृतौ व्यभिचारवारणाय तदुपादानमित्याहुः । अलौकिकेति । एतच्च द्रव्यप्रकाशे व्याख्यातम् । नन्वनुमानमूलकत्वेऽपि नान्धपरम्परा न हि प्रत्यक्षमात्रं प्रमाणमित्या- शयादाह तादृशेति । नन्वत्राप्यसम्भवन्मूलान्तरत्वमन्यथा न्यायादिमूलकस्मृतावपि तथात्वा- पत्तिरित्‍यनुशयादाह तवेति । मीमांसकस्येत्यर्थः । तथा च तवापसिद्धान्त इति भावः ।