न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
३६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां तथाप्याकाङ्क्षादिमद्भिः पदैः स्मारितत्वाद् गामभ्याजतिपदार्थवदिति स्यात् । न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् । यद्वा- एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्त्वे सति तत्स्मारक- त्वात् गामभ्याजेति पदवत् । न चैवमर्थासिद्धिः । ज्ञानावच्छेदकतयैव तत्सिद्धेः । तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतीतिलम्भ इति ॥ अत्रोच्यते - अनैकान्तः परिच्छेदे सम्भवे च न निश्चयः ॥ आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिर्निबन्धना ॥ १३ ॥ बोधनी । नसंभव इत्याह तथापि इति । नन्वेतावता संसर्गमात्रं सिद्ध्येन्न द्विशेष इत्यत्राह न च इति । पद- स्मारितान् पदार्थविशेषान् पक्षीकृत्य तेषां संसर्गे साध्यमाने तद्विशेष एव सिध्यतीति । यद्वा इति । तथा ज्ञानपूर्वकत्वस्य साध्यत्वान्न साध्याभावः, न चानैकान्तिकता आकाङ्क्षादिमत्त्वेन विशेषात् । तदितिपदार्थपरामर्श इति । नन्वेवं कुतः संसर्गवत्ता सिद्ध्येत् कुतो वा तद्विशेष इत्यत्राह न चैवम् इति । तत्र प्रथमप्रयोगे दोषमाह अनैकान्त इति । यद्यत्र संसर्गवन्त एवेति परिच्छेदो नियमः प्रकाशः । तथापीति ॥ अत्रैते पदार्थास्तात्पर्यविषयमिथःसंसर्गवन्त इति साध्यमतो नानभिमतसंस- र्गसिद्धा अर्थान्तरम् । नन्वेवं संसर्गमात्रसिद्धावपि व्यवहारौपयिकस्तद्विशेषो न सिद्ध्येदत आह न चेति ॥ संसृज्यमानपदार्थव्यापकत्वेनावृहीतस्यापि संसर्गविशेषस्य पक्षधर्मताबलात् सिद्धिरि- त्यर्थः । ननु संसर्गज्ञानपूर्वकत्वसिद्धावपि कुतो वाक्यार्थसिद्धिरित्यत आह न चैवमिति ॥ संसर्ग- विशेषसिद्ध्यर्थमाह तस्य चेति ॥ तस्य संसर्गस्य पदार्थविशेषोपहितस्यैव ज्ञानावच्छेदकत्वाज्ज्ञा- नज्ञानस्य च तद्विषयविषयकत्वात् संसर्गे च सम्बन्धिन एव विशेषत्वादत्रापि पक्षधर्मताबलाद्व्यापक- त्वेनाज्ञातस्यापि संसर्गविशेषस्य सिद्धिरित्यर्थः ॥ नन्वेवं भ्रान्तिज्ञोऽपि भ्रान्तः स्यात् , न चेष्टापत्तिः, ईश्वरस्याऽपि भ्रान्तत्वापत्तेः, भ्रान्तस्येव भ्रान्तिज्ञस्यापि भ्रमात् प्रवृत्त्यापत्तेश्च । अत्राहुः । न भ्रमविषयविषयकत्वेन भ्रमत्वं, किन्तु विशे- ष्यावृत्तिप्रकारकत्वेन । न च शुक्तौ रजतत्वप्रकारकज्ञानवानयमित्यत्र विशेष्यावृत्तिः प्रकारः, रजत- त्वप्रकारकत्वस्य भ्रमे सत्त्वात् । न च प्रतारकवाक्ये व्यभिचारः । तत्र योग्यताविरहात्, तस्या प्याहार्यसंसर्गज्ञानवत्त्वाच्च । तथापि संसर्गज्ञानं विना शुकस्यान्यस्य वा वाक्ये भ्रान्तप्रतारकवाक्ये च व्यभिचारः । कथञ्च तत्र संसर्गप्रमा ? वक्तृज्ञानानुमानासम्भवादिति चेन्न । तत्र वेदवदीश्वरसंस- र्गज्ञानपूर्वकत्वादित्युक्तत्वात् ॥ अनैकान्त इति ॥ परिच्छेदेऽवधारणे । द्वितीयं दूषयति ॥ आकाङ्क्षेति ॥ आकाङ्क्षायाः प्रकाशिका । त्यादौ योग्यताया अन्वयप्रयोजकरूपवत्त्वात्मिकायाः सत्त्वादिति भावः । प्रमापकत्वं प्रमोपहित- त्वम् । तथा चानुपजातफले व्यभिचार इत्यन्ये । निराकाङ्क्ष इति । तत्र तात्पर्यघटितसाध्या- मकरन्दः । ज्ञापकत्वेऽपि व्यभिचारः, तथापि दूषणान्तरस्यैव सम्भवादयं नोद्भावित इति भावः । निराकाङ्क्ष
तृतीयस्तवके ] शब्दस्य बाधकत्वखण्डनम्। ३६१ . एते पदार्था मिथः संसर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः, सम्भा- वितसंसर्गा इति वा ? न प्रथमः । अनाप्तोक्तपदकदम्बस्मारितैरनेकान्तात् । आप्तो- क्तया विशेषणान्नैवमिति चेन्न । वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः । न ह्यविप्रलम्भकत्व- मात्रमिहाप्तशब्देन विवक्षितं, तदुक्तेरपि पदार्थसंसर्गव्यभिचारात्, अपि तु तदनु- भवप्रामाण्यमपि । न चैतल्लक्ष्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम् । भ्रान्तेः पुरुषधर्मत्वात् । तत्र कचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोप- योगः । ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम् । न चैतत् संसर्गवि- बोधनी । साध्येत तदा नामोक्तपदस्मारितैरनेकान्तो हेतुस्तेषां तन्नियमाभावात्, अथ संभवो योग्यतामात्रं साध्येत तदा वाक्यफलं निश्चयो न सिध्येदिति । द्वितीयोऽप्याह आकाङ्क्षा इति । आकाङ्क्षा नाम प्रतिपत्तुर्जिज्ञासा, सा च सत्तामात्रेणान्वयप्रतीतिहेतुस्ततः तया न व्यभिचारव्यावर्त्तनाय हेतुर्विशेष- णीयः, तर्हि योग्यतासन्निधिभ्यामेव विशेष्यत इत्यत्राह योग्यासन्निधीति । न हि तावन्मात्रमन्व- यप्रतीतौ निबन्धनमयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ वाक्यद्वयस्थयो राजपुरुषयोः सतोरपि तयोरन्वयप्रतीत्यभावादिति ॥ आद्यं पादं व्याचष्टे एते इति । आप्तोक्तपदस्मारितत्वादिति हेतुः स्यादित्याह-आप्तोक्त्या इति । न इति । अस्मिन्नर्थेऽयमाप्त इति वाक्यार्थप्रतीतिपूर्वकमाप्तत्वमवगन्तव्यं, तदवगत्युत्तरकाले च तद्विशिष्टहेतुना वाक्यार्थप्रतिपत्तिरिति परस्पराश्रयतापत्तिरिति भावः । प्रागाप्तत्वासिद्धिमाह न हि इति । येन प्रागेव वाक्यार्थप्रतीतेस्तत्सिध्येत् इति । नन्वस्तु वाक्यार्थज्ञानसत्यत्वमाप्तितस्ततः प्रकाशः । सत्त्वमात्रेणैव कारणतया लिङ्गविशेषणत्वमनुपपन्नमित्यर्थः । योग्यताऽऽसत्तिमात्रेण विशेषणे दोषमाह योग्येति न बन्धनं सम्बन्धो व्याप्तिरूपो यस्यां, सा तथा । निराकाङ्क्षे व्यभिचारादित्यर्थः ॥ संसृष्टा एवेति ॥ नच सम्भावना नियमो वा न साध्यः, किन्तु संसृष्टा इत्येव साध्यमिति वाच्यम् । संसर्गव्यभिचार्यव्यभिचारिसाधारणतया ययोरेव घटानयनयोः परस्परसंसर्गो न ज्ञातस्ते- नैव व्यभिचारादिति भावः ॥ तदुक्तेरपीति ॥ भ्रान्तेन पित्रादिनाऽप्यप्रतारकेणोक्तपदानां तद- र्थानां वा संसर्गाभावादित्यर्थः । ननु पदार्थज्ञानमात्रनिरूपणादभ्रान्तत्वनिरूपणमस्त्वित्यत आह पदार्थेति ॥ तस्य चेति ॥ आप्तोक्तत्वरूपविशेषणासिद्धेरित्यर्थः ॥ तदेकेति ॥ निश्चयैकफल- प्रकाशिका । भावादिति भावः । संसर्गस्येति । क्वचिन्नियतः संसर्गः यथा घटे रूपं, क्वचिदनियतोऽपि यथा नीलं सरोजमित्यत्र- तथाचानियतसंसर्गस्थलेऽप्रयोजकरूपवत्त्वलक्षणयोग्यतासत्त्वाद् व्यभिचार इत्यर्थः । केचित्तु संसर्गव्यभिचारीति पाठः । तत्रोक्तहेतोरुक्तसाध्यतदभावसाधारणतया व्यभिचार इत्यर्थः । साधारण्यमेव दर्शयति ययोरितीति व्याख्यातवन्तः । अनिश्चयस्य सन्नि- मकरन्दः । इति । तात्पर्यघटितसाध्ये व्यभिचारोऽयमुन्नेयः । संसर्गव्यभिचारीति । आकाङ्क्षादिमत्पद- स्मारितत्वादिति हेतोः संसर्गव्यभिचारिसाधारणतया व्यभिचार इत्यर्थः । संसर्गव्यभिचारिसाधारण्य- मेव दर्शयति ययोरिति । न चैवं तत्र योग्यत्वं नेति कथं व्यभिचार इति वाच्यम्, घटस्यानय- नमित्यत्र संसर्गव्यभिचारिणोरपि घटानयनयोर्योग्यपदस्मारितत्वात् । संसर्गस्य व्यभिचारीति क्व- चित्पाठः स तु चिन्त्यः । अनिश्चयस्य सन्निहिततया तत्परामर्शभ्रमं वारयति निश्चयैकेति । योग्य- टिप्पणी । उक्तपदानां तदर्थानां वा संसर्गाभावादित्यर्थ इति । पदानां संसर्गाभावदित्यप्रकृतमिति
शेषमप्रतीत्य शक्यम्। बुद्धेरर्थभेदमन्तरेण निरूपयितुमशक्यत्वात्। पदार्थमात्रे चा- भ्रान्तत्वसिद्धौ न किञ्चित्। अनाप्तसाधारण्यात्। एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेन्न। एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः। अननुभूतचरे स्मरणा- योगात्, तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति॥ नापि द्वितीयः, योग्यतामात्रसिद्धावपि संसर्गाऽनिश्चयात्, वाक्यस्य च तदेक- फलत्वात्, योग्यतामात्रस्य प्रागेव सिद्धेः। अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मा- रितत्वादित्येव हेतुः स्यात्। तथा चाऽग्निना सिञ्चेदित्यादिना स्मारितैरनैकान्तः। तथाविधानां सर्वथा संसर्गायोग्यत्वादिति॥ द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति। तत्र केयमाकाङ्क्षा नाम? न तावद्विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात्। नाऽपि तद्योग्यता, योग्यतयैव गतार्थत्वात्। नाप्यविनाभावः। नीलं सरोजमित्यादौ तदभावेऽपि वाक्या- र्थप्रत्ययात्। तत्रापि विशेषाङ्कितसामान्ययोरविनाभावोऽस्तीति चेन्न। 'अहो विमलं जलं नद्याः कच्छे महिषश्चरती'त्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात्। नापि प्रतिपत्तु- र्जिज्ञासा। घटो भवतीत्यादौ शुक्लादिजिज्ञासायां, रक्तः घटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात्॥ बोधनी। किमित्यत्राह न चैतत् इति। क्वचिदाप्तत्वमवधार्य सर्वत्रायमीदृश इत्यनुमास्यामह इत्यत्राह यत्र क्वचित् इति। वाक्यार्थप्रतीतेः प्रागाप्तत्वासिद्धिसुपसंहरति ततोऽस्मिन् इति। ननु पदार्थास्ता- वत्प्रागेव प्रतीयन्ते तेषां सत्यत्वात्तत्राप्तिरप्यवधार्यत इत्यत्राह पदार्थमात्रे च इति। नन्वनवगतेऽपि वाक्यार्थे पदस्मारितानां पदार्थानां परस्परसंसर्गयोग्यतावगमादेतत् संसर्गेऽयमभ्रान्त इति निश्चेतुं शक्यमित्याह एतेषाम् इति। न इति। नहि तदानीमेषां संसर्ग इत्यनुभवात्मिका बुद्धिः सिध्यति कारणाभावादिति। तत एव न स्मरणात्मिकापीत्याह अननुभूत इति। द्वितीयं पादं व्याचष्टे नापि द्वितीयः इति। न परं साध्यासिद्धिः सिद्धसाधनं चेत्याह योग्य- प्रकाशः। त्वादित्यर्थः॥ प्रागेवेति॥ योग्यतया लिङ्गविशेषणेन सिद्धेरित्यर्थः॥ तस्येति॥ एकत्र पदार्थे पदार्थान्तरवैशिष्ट्यस्यैव संसर्गरूपत्वादित्यर्थः॥ विशेषेति॥ नीलेन गुणसामान्यमाक्षिप्यते, सरो- जेन द्रव्यमात्रं, तयोश्चाविनाभावोऽस्त्येवेत्यर्थः॥ अहो इति॥ जलान्विततया आश्रयीभूतकच्छे साकाङ्क्षतापत्तावेकवाक्यतापातादित्यर्थः॥ रक्त इति॥ यथा रक्तः पटो भवतीत्यत्र रक्तपदार्थान्वयं विना पटो भवतीत्येकदेशो न पर्यवस्यति, तथा रक्तपदं विना यत्र पटो भवतीत्येव वाक्यमुच्चा- रितं, तत्रापि तन्न पर्यवस्येदित्यर्थः। अजिज्ञासोरपि वाक्यार्थज्ञानाच्चेति भावः॥ प्रकाशिका। हितत्वात् परामर्शभ्रमं वारयति। निश्चयकैति। योग्यतयेति। इदञ्च सम्भावितपदस्य योग्यपरत्वे दूषणम्, सन्दिग्धपरत्वे तु संसर्गासिद्धिरेव दोष इति स्मर्त्तव्यम्। राजपदा- मकरन्द तया इति। सम्भावितपदस्य लिङ्गविशेषणयोग्यतापरत्वे दूषणमिदम्। सन्दिग्धपरत्वे संसर्गानिश्च- यादित्येव दूषणं बोध्यम्। टिप्पणी चिन्त्यम्। यथा वाक्यवाचकभावेनाभ्रान्तेनोक्तानां पदानामर्थेन यथा न वाच्यवाचकभावसंसर्गस्तथा योग्यताभ्रान्तेनोक्तपदार्थानां संसर्गः, वाकारः सादृश्य इत्येतु कथञ्चिद् व्याख्येयः॥
तृतीयस्तवके ] "शब्दस्य भावकत्वखण्डनम् ।" [ ३६३ गुणक्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा । पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा । तत्र भवतीत्युक्ते किं करोतीत्येषा पदस्मारितविषया, न तु किंरूप इत्यादीरपि । यदा तु रक्त इत्यु- च्यते, तदा किंरूप इत्येषाऽपि स्मारितविषया स्याद्, इति न किञ्चिदनुपपन्न- मिति चेत् । एवं तर्हि चक्षुषी निमील्य परिभावयतु भवान् । किमस्यां जातायामन्वयप्र- त्ययोऽथ ज्ञातायामिति । तत्र प्रथमे नानया व्यभिचारव्यावर्त्तनाय हेतुर्विशेष- णीयः, मनःसंयोगादिवत् सत्तामात्रेणोपयोगात् । आसत्तियोग्यतामात्रेण विशि- ष्टस्तु निश्चितोऽपि न गमकः । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभि- चारात् । द्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत्तत्सद्भावेऽपि तज्ज्ञानवैधुर्यादन्व- बोधनी । तामात्रस्य च इति । प्रागसिद्धौ दोषमाह अन्यथेति । उत्तरमर्थं व्याचक्षाणः पदानि स्मारि- तार्थसंसर्गज्ञानपूर्वकाणीति प्रयोगं दूषयति एवं द्वितीयेऽपि इति । एतच्च पूर्वत्रापि द्रष्टव्यम् । स एव संबन्धिनः साक्षादुप न्यस्य निरस्यति न तावत् इति । साध्यत्वादिति । न साध्यमेव हेतुविशेषणमा- काङ्क्षा भवतीति । अस्तु तर्हि विशेषणविशेष्यभावयोग्यतैवाकाङ्क्षा तत्राह नापि इति । तस्याः प्रागेव हेतुविशेषणत्वेनोपादानादिति ! तर्हि पदस्मारितानां पदार्थानामन्योन्याविनाभाव आकाङ्क्षेत्य- त्राह नापि इति । नन्वस्ति तावद् गुणद्रव्यविशेषाभ्यां नीलसरोजाभ्यामाक्षिप्तयोः गुणद्रव्यसामान्य- योरविनाभावः, सोऽप्याकाङ्क्षेत्याह विशेष इति । यद्यविनाभाव आकाङ्क्षा तर्ह्यहो विमलं जलं नद्या इत्येतद्वाक्यगतस्य नदीपदस्य कक्षे महिषश्वरतीति वाक्यान्तरगतस्य कक्षपदस्य स्वार्थाविनाभावल- क्षणं साकाङ्क्षत्वमस्तीत्यनयोर्वाक्यभेदो न स्याद्विभागे साकाङ्क्षाणामेकवाक्यत्वादित्याह न इति । ननु श्रोतुर्जिज्ञासा आकाङ्क्षा, तस्याश्च विमलं जलं नद्या इत्येतावत्तैव पर्यवसानाद्वाक्यभेदो- पत्पत्तिरित्यत्राह—नापि इति । ननु न वयं जिज्ञासामात्रमाकाङ्क्षेति ब्रूमः किन्तु पदस्मारितविशे- षविषयम्, अतो नातिप्रसङ्ग इत्याह—गुणक्रिया इति । सत्यमियमेवाकाङ्क्षा तथापि नैष हेतु- विशेषणं संभवतीत्याह—एवं तर्हि—इति । जातायां जातमात्रायामज्ञातायामेवेति । नानया इति । न ह्यज्ञातमेव विशेषणं हेतोर्विपक्षाद् व्यावृत्तिं बोधयतीति मा भूदाकाङ्क्षा विशेषणमित्यत्राह- आसत्ति-इति । अयमेति पुत्रो राज्ञ इति एकं वाक्यं, पुरुषोऽपसार्यतामित्यपरं, तत्र राज्ञः पुरुष इत्यनयोर्योग्यतासत्ती स्तः तथापि नैकवाक्यत्वं क्रियान्तरसंबन्धेन निराकांक्षत्वादिति । तर्ह्याकां- क्षापि ज्ञातैव विशेषणं भविष्यतीत्यत्राह द्वितीयस्तु इति । यथा हि सविशेषणेष्वनुमानान्तरेषु प्रकाशः । गुणक्रियेति । पट इत्युक्ते किंगुणः ? किंक्रियः ? इति जिज्ञासा । तत्र यदा भवतीत्युच्यते, तदा जिज्ञासाविषयस्य क्रियाविशेषस्य पदेन स्मारणात् सैव जिज्ञासा आकाङ्क्षा । रक्त इत्युक्तौ किंगुण इत्यपि सेत्स्यर्थः । सत्तामात्रेणेति ॥ स्वरूपसदाकाङ्क्षायोग्यतादिसामग्र्याच्छब्द् एव ज्ञानजनने सम्भृतसामग्रीको लिङ्गमेव विलम्बितमिति भावः । व्यभिचारादिति । राजपदा- प्रकाशिका । र्थेति । यद्यपि योग्यतासत्त्व ईश्वरसंसर्गज्ञानपूर्वकतया साध्यसत्त्वान्न व्यभिचारः । तथापि मकरन्दः । राजपदार्थेति । यद्यपि योग्यतासत्त्वे ईश्वरसंसर्गज्ञानसत्त्वान्न व्यभिचारः, तथाप्यजनितान्वयबोधे टिप्पणी । लिङ्गमेव विलम्बितमिति भाव इति । स्वविशेषणज्ञानानपेक्षणादिति । प्रतिपदार्थान्विता- ५० न्या० कु०
यप्रत्ययो न जायते । न त्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साका- ङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात् , निवृत्ताकाङ्क्षस्य च तदभावात् ॥ कथमेष निश्चयः, साकाङ्क्ष एव प्रत्येति, न तु ज्ञाताकाङ्क्ष इति चेत्, तावन्मा- त्रेणोपपत्तावनुपलभ्यमानज्ञानकल्पनाऽनुपपत्तेः, अन्यत्र तथा दर्शनाच्च । यदा हि दूराद् दृष्टसामान्यो जिज्ञासते कोऽयमिति, प्रत्यासीदंश्च स्थाणुरयमिति प्रत्येति, तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थप्रत्ययो भवति । तथेहाप्यविशेषाद् विशेषोपस्थानकाले संसर्गावगतिरेव जायते, न तु जिज्ञासावग-
बोधनी ।
सत्यपि विशेषणे तज्ज्ञानाभावेनानुमानप्रतीतिः तद्वदत्रापि सत्यामप्याकाङ्क्षायां तज्ज्ञानाभावे यदि संसर्गप्रतीतिर्न स्यात्स्यादपि तदा द्वितीयकल्पे, न चैतदस्ति योग्यतासत्तिमात्रं प्रतिसंदधानस्याकाङ्क्षा- स्वरूपमात्रान्वयव्यतिरेकानुविधायित्वेनान्वयप्रतीतेर्दर्शनादिति । नन्वाकाङ्क्षासत्तैवान्वयप्रतीतिहेतुर्न तु ज्ञानमिति कुतो निश्चय इत्याह कथम् इति । सत्तामा- त्रेणोपपत्तौ ज्ञानकल्पनायां प्रमाणाभावाच्छब्दादन्यत्र जिज्ञासाहेतुकेषु तावन्मात्रेण तदुपयोग- दर्शनाच्चेत्याह न इति । अविशेषादिति जिज्ञासाहेतुकत्वेनाविशेषादिति । किञ्च संसर्गप्रतियो- गिपदार्थविशेषस्मरणकाले तद्विषयजिज्ञासावगतिरपेक्षेत ततः प्रागेव वा ? न प्रथमः, घटमित्युक्ते पश्यतीतिपदस्मारिते क्रियाविशेषे तत्संसर्गस्यैवावगमात् । न द्वितीयः, पदस्मारितविशेषजिज्ञासाया एवाकाङ्क्षापदार्थत्वेन ततः प्राग्भाविन्त्यास्तस्या गुणक्रियाद्यशेषविषयत्वेनाकाङ्क्षानात्मनो वाक्यार्थ- ज्ञानं प्रत्यनङ्गतत्वादित्याह विशेषेति । अस्तु ज्ञातैवाकाङ्क्षा संसर्गज्ञानहेतुः अस्तु च हेतोर्वि-
प्रकाशः ।
र्थपुरुषपदार्थयोरन्योन्यान्वये वक्तृज्ञानाभावादित्यर्थः । अनुमानान्तरवदिति । अनुमितिकारणान्त- रव्याप्त्यादिवदित्यर्थः । यद्यपि प्रतिपदार्थान्विताकाङ्क्षायास्तत्काल एव नाशान्न कालान्तरे सत्त्वं, तज्ज्ञानहेतुत्वञ्च संस्कारद्वारा सम्भवति, तथापि पदार्थसमूहविषयाया एकस्या एवाकाङ्क्षायाः स्वरू- पसत्त्वमस्त्येवेति भावः । विशेषोपस्थानेति । अन्वयप्रतियोगिपदार्थस्मरणानन्तराव्यवहितकाले इत्यर्थः। नन्वाकाङ्क्षा ज्ञाताऽन्वयधीहेतुः ज्ञायमानकारणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्याद् व्याप्तिवत् ।
प्रकाशिका ।
अजनितफले तात्पर्यघटितसाध्ये व्यभिचार इति भावः । नन्विति । तथा च तथा लिङ्गविशेषण-
मकरन्दः ।
तत्रेश्वरतात्पर्याभावात्तात्पर्यघटितसाध्ये व्यभिचार इति भावः । नन्विति । तथा चाकाङ्क्षाया
टिप्पणी ।
काङ्क्षेति । आकाङ्क्षाभाभ्यः सम्बन्धपदार्थः प्रतिपदार्थतदन्वितपदार्थावान्तरगोचरेत्यर्थः । तत्- काल एव नाशादिति । उत्तरपदश्रवणकाले नाशात्तन्न कालान्तरे सत्त्वमिति इति स्वरूपसत्या हेतुत्वन्न सम्भवतीत्यर्थः । तथापि पदार्थसमूहविषयाया इति । तत्तत्पदार्थान्वितजिज्ञासामूलिकायाः । नन्वाकाङ्क्षा ज्ञातान्वयधीहेतुरिति । कार्य्यत्वेनाभिमतसंसर्गज्ञानहेतुस्तेन न दृष्टान्ते साध्यवैकल्यम्। ज्ञायमानकारणे ज्ञानोपयोगिव्यभिचारीति । ज्ञायमानकारणे ज्ञानेन य उपयोगस्सहकारिसम्पा- दनन्तद्व्यभिचरितुं शीलमस्य तद्विलक्षणत्वात् कारणज्ञाननिष्ठव्यभिचारिनिरूपकज्ञानविषयान्यत्वा- दित्यर्थः । न हि कारणज्ञानमूलजनने व्याप्तिज्ञानम् व्यभिचरतीति भवति तत्तथा । यद्वा ज्ञायमान- कारणे ज्ञानस्य फलीभूतज्ञानस्योपयोगिव्यभिचारिज्ञानान्तरस्थलसाधारणम् साधारणकारणमनः- संयोगादिकन्तद्वैलक्षण्यादित्यर्थः, एतेन प्रथमहेतोराकाङ्क्षादेश्ज्ञायमानहेतुत्वाधीनहेतुत्वेऽपि न
तृतीयस्तवके ] \qquad\qquad\qquad\quad शब्दस्य बाधकत्वखण्डनम् । \qquad\qquad\qquad\quad ३६५ तिरिति । न च विशेषोपस्थानात् प्रागेव जिज्ञासाऽवगतिः प्रकृतोपयोगिनी, तादृ- ङ्मात्रस्यानाकाङ्क्षित्वात् । न चैवम्भूतोऽप्ययमैकान्तिको हेतुः । यदा ह्ययमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्तोच्चारयति, श्रोता च व्यासङ्गादिना निमित्ते- नायमेति पुत्र इत्यश्रुत्वैव राज्ञः पुरुषोऽपसार्यतामिति शृणोति, तदाऽस्त्याकाङ्क्षादि- मत्त्वे सति पदकदम्वकत्वं, न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति ॥ बोधनी । शेषणं, तथापि न वाक्यार्थप्रतीतिरानुमानिकी विशेषणत्रयविशिष्टस्यापि पदार्थस्मारकत्वस्य हेतोर- नैकान्तिकत्वादित्याह न चैवम्भूतोऽपि इति । न च इति । न हि राज्ञ इत्यादिपदत्रयस्मारितानां राजपुरुषापसारणानां संसर्गबुद्ध्या तदुच्चारितं राजपुरुषयोः पुत्रापसारणाभ्यां संसर्गज्ञानपूर्वकत्वादिति । प्रकाशः । न चाप्रयोजकत्वम् , आकाङ्क्षासत्त्वेऽपि ज्ञानादन्वयबोधाभावापातात् । राजा पुत्रमाकाङ्क्षति पुरुषं वेति संशये तद्विपर्यये वाऽन्वयधीप्रतिबन्धाच्च । अत्रास्मत्पितृचरणाः— प्रवृत्तिपरत्वं शब्दस्य लिङ्गत्वे न स्यात् । अर्थज्ञानं हि प्रवर्त्तकं न तु तज्ज्ञानज्ञानं, गौरवात् , तदभावेऽप्यर्थज्ञानात् प्रवृत्तेश्च । अतो वक्ता घटज्ञानवानिति ज्ञानं न प्रवर्त्तकमपि स्वयं घट इति । घटज्ञानज्ञानमपि घटविषयमिति चेत् । सत्यम् । न तु घटत्वप्रकारकं, प्रवर्त्तकञ्च तथा । अन्यथा भ्रान्तस्येव भ्रान्तिज्ञस्याऽपि प्रवृत्तिप्रसङ्गः । अत एव लक्षणानानार्थाद्य- न्वयबोधात् तात्पर्यग्रहो वाक्यार्थधीहेतुस्तच्च पदार्थसंसर्गविशेषज्ञानोद्देश्यकत्वमतस्तद्ग्राहकानुमानादेव तात्पर्यज्ञानावच्छेदकतया संसर्गसिद्धिरित्यपास्तम् । तात्पर्यज्ञानं न वाक्यार्थहेतुरिति वक्ष्यमाणत्वाच्च । प्रकाशिका । मुचितमिति न व्यभिचार इति भावः । ननु संशयसाधारणं ज्ञानमित्यर्थमयुक्तं निश्चयस्य क्वचिदप्य- मकरन्दः । लिङ्गविशेषणत्वसम्भवादनुमान एवान्तर्भाव इति भावः । क चिदपि तदनिश्चये तत्संशयोऽपि टिप्पणी । क्षतिः । ज्ञायमानकारण इति प्रत्यक्षासाधारणकारणे स्वरूपत उपयोगिनि व्यभिचारवारणायेति बोध्यम् । अज्ञातोपयोगिव्यभिचारीति पाठे व्यभिचारिणो प्रमाणादज्ञातोपयोगिनो यद्वैलक्ष- ण्यन्तत्वादित्यर्थः । अप्रमाणदोषादि बोध्यम् । इष्टापतेराह राजेति । स्वज्ञानाधीनस्वसम्बन्धिविशेषजि- ज्ञासाविषयपदस्मारितपुत्रकत्वराजनि तादृशजिज्ञासाविषयस्मारकपुत्रसमभिव्याहृतत्वं राजपदे तादृश- जिज्ञासावत्त्वमप्रमातरि यथायथमाकाङ्क्षा बोध्या । न तु तज्ज्ञानज्ञानङ्गौर्वाद्दिति । शरीरगौरवात् सर्वत्रानुव्यवसायकल्पनागौरवाच्चेत्यर्थः । तदभावेऽप्यर्थज्ञानादिति । विपक्षबाधकतर्काभावे व्यभिचारसंशयस्यापि कारणत्वग्रहविरोधित्वादिदमुक्तम्, तेन तदभावानिश्चयेऽपि न क्षतिः । न तु घटत्वप्रकारकमिति । इदंत्वावच्छिन्नघटत्वप्रकारकम्, किन्तु इदंविशेष्यकघटत्वप्रकारकत्ववि- षयकमित्यर्थः । अन्यथा भ्रान्तस्येव भ्रान्तिज्ञस्यापीति । विशेष्ये प्रकारानवगाहिनोऽपि विशेष्यप्रकारकत्वमात्रेण प्रवर्त्तकत्वे बाधकाले भ्रान्तिभ्रान्तित्वेन प्रकाररहिते विशेष्ये तत्प्रकारकत्वेन ज्ञानं जनयतोऽपीत्यर्थः । अत एव लक्षणानानार्थादीति । लक्षणानुरोधान्नानार्थानुरोधाच्चेत्यर्थः । काकेभ्यो दधि रक्ष्यतामित्यत्रान्वयानुपपत्तेरभावात्तात्पर्यानुपपत्तेरेव तद्वीजत्वम् तच्च तात्पर्यज्ञान- स्यानपेक्षितत्वे न घटेतेति लक्षणानुरोधेन तात्पय्र्यज्ञानस्योपयोगः, नानार्थस्थलेऽपि तात्पर्यग्रहं विना व्यवस्थितैकार्थबोधो न स्यादिति तदुपयोग इति भावः । पदार्थसंसर्गविशेषज्ञानोद्देश्य- कत्वमिति । पदार्थसंसर्गविशेषज्ञानमुद्देश्यं स्वजन्यत्वेनेच्छाविषयो यस्य तत्कत्वम्, तदिच्छयोच्चारित- त्वमिति यावत् । संसर्गसिद्धिरित्यपास्तमिति । तत्प्रकारकत्वविशेष्यकत्वस्यैव ज्ञानविशेषणतया
३६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायो स्यादेतत् । यावत्समभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, तथाविधस्य व्यभिचारोदाहरणाऽसंस्पर्शात् । कुतस्तर्हि कतिपयपदश्राविणः संसर्गप्रत्ययः ? । अलिङ्ग एव लिङ्गत्वारोपात् । एतावानेवायं समभिव्याहार इति तत्र श्रोतूरभि- मानः । न । तत्सन्देहेऽपि श्रुतानुरूपसंसर्गावगमात् । भवति हि तत्र प्रत्ययो, न जाने किमपरमनेनोक्तमेतावदेव श्रुतं, यद्राज्ञः पुरुषोऽपसार्यतामिति । भ्रान्तिरसो- बोधनी । स्यादेतत् इति । यावन्ति समभिव्याहृतानि पदानि तावतामाकाङ्क्षादिमत्त्वे सति पदार्थस्मा- रकत्वं हेतुस्ततो न व्यभिचार इति यदि विशिष्टो हेतुः कुतस्तर्हि तदभावे संसर्गप्रत्यय इत्याह कुत- इति । वाक्यैकदेश एव यावत्समभिव्याहृतत्वभ्रान्तेरित्याह अलिङ्गे इति । भ्रान्तिमेव दर्श- यति एतावानेव इति । यावत्समभिव्याहृतत्वसन्देहेऽपि संसर्गावगमान्न तदध्यारोपकारणमिति । नन्वेकदेशभाविनः संसर्गप्रत्ययो भ्रान्तिरित्यत आह भ्रान्तिरिति । भवतु भ्रान्तिस्तथापि कुतश्चि- प्रकाशः । अपि चानुमितेर्व्यापकतावच्छेदकमात्रप्रकारत्वात् पदानि स्मारितार्थसंसर्गज्ञानपूर्व्वकानीत्यनुमितिः स्यान्न घटज्ञानपूर्व्वकानीति । योग्यतायाश्च लाघवात् संशयादिसाधारणं ज्ञानमात्रं हेतुः । बाधसंश- यस्य ज्ञानाप्रतिबन्धकत्वाच्च । अन्यथा प्रमामात्रोच्छेदप्रसङ्गात् । स्वपरबोधकप्रमाविरहः क्वचिनि- श्चीयेतेऽपि यंथेह भूतले घटो नास्तीत्यत्र स्वयोग्यानुपलब्ध्या घटाभावनिश्चयेनान्यस्यापि घटाप्रमा- विरहो निश्चीयते । अत एव सा न लिङ्गविशेषणम् । बाधकप्रमाणविरहस्य सर्व्वत्र निश्चेतुमशक्यत्वात्, तत्संशयेऽपि शब्दान्वयबोधान्निश्चविशेषणस्य च सर्व्वत्र निश्चितत्वादिति सङ्क्षेपः । एतदेवाभिसन्धाय पूर्वापरितोषेणाह न चैवमिति । आकाङ्क्षादेर्ज्ञायमानतया हेतुविशेषण- त्वेऽपीत्यर्थः । तत्सन्देहे इति । यावत्समभिव्याहृतत्वसन्देहेऽपीत्यर्थः । भ्रान्तिर साविति । प्रकाशिका । भावादत आह स्वपरेति । अत एवेति । यत एव संशयसाधारणं तज्ज्ञानं हेतुरित्यर्थः । ननु योग्यतासंशयस्य हेतुत्वमेव कुत इत्यत आह बाधकेति । एतदेवेति । आकाङ्क्षाज्ञानहेतु- मकरन्दः । दुर्लभं इत्यत आह स्वपरेति । अत एवेति । यत एव संशयसाधारणं तज्ज्ञानं हेतुरित्यर्थः । नन्वेतदेव कुत इत्यत आह बाधकेति । एतदेवेति । आकाङ्क्षाज्ञानहेतुत्वमेवेत्यर्थः । दोषवत इति विपर्य्यय टिप्पणी । तत्पदार्थज्ञाने मानाभ्युपगमान्न तु विशेष्यप्रकारस्येति भावः । तात्पर्य्यज्ञानं न वाक्यार्थधीहेतु- रिति । आवश्यकप्रकरणज्ञाने हेतुतयोपपत्तेर्लक्षणां विना विवक्षितस्य दध्युपघातकत्वस्यान्वयानुपप- त्तेरेव लक्षणाबीजत्वान्नक्षणाऽनुरोधेन तत्रोपयोगेऽपि हेतुत्वे मानाभावाच्चेति । न घटज्ञानपूर्व्वका- नीति । तथैवं तु न साध्यता दृष्टान्तेऽसम्भवादपूर्व्ववाक्यार्थस्थले साध्यज्ञानस्यैव सम्भवाच्चेति । योग्यतायाश्च लाघवादिति । बाधकप्रमाविरहो यत्र योग्यता स्वपरेत्याद्यग्रिमग्रन्थानुरोधात् न तु बाधकप्रमासंशयस्य बाधकसंशयपर्य्यन्तत्वात्तस्मिन् सति कथं शाब्दज्ञानं स्यादित्यत आह बाधसंशयस्येति । अथ बाधनिश्चयाभावस्यैव स्वरूपतो हेतुत्वमस्तु तस्य विशिष्टबुद्धिामान्ये क्लृप्तत्वात् । न च वह्निना सिञ्चतीत्यादायोग्यस्य शाब्ददर्शनाच्छाब्दबोधे योग्यतापेक्षणीया, सा न बाधनिश्चयविरहमात्रं योग्गे बाधभ्रमसम्भवेनायोग्यत्वापत्तेः, नापि सा स्वरूपसत्येव हेतुः बाधप्रमाविरहेऽभ्रमे शाब्दबोधास्यानुभविकत्वादिति वाच्यम् । वह्निना सिञ्चतीत्यादौ बाधनिश्चये कारणाभावादेव शाब्दाभावोप- पत्तेर्योग्यताया अनपेक्षितत्वादिति चेत् । सत्यम्, यत्र भ्रमतवप्रमात्वप्रमोदासीन्येन बाधनिश्चये सत्यपी- च्छावशादुक्तयोग्यताप्रहे काव्यादिस्थले शाब्दबोधोऽनुभवसिद्धस्तत्रैव योग्यताज्ञानकारणताया आव-
तृतीयस्तवके ] शब्दस्य बाधकत्वखण्डनम्। ३६७ चिति चेद्, न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात्। न लिङ्गाभासजा, लिङ्गा- भिमानाभावेऽपि जायमानत्वात्। एतादृक् पदकदम्बप्रतिसन्धानमेव तां जनयतीति चेत्। यद्येवमेतदेवादुष्टं सद्भ्रान्तिं जनयत् केन वारणीयम् ? । व्याप्तिप्रतिसन्धानं विनापि तस्य संसर्गप्रत्यायने सामर्थ्यावधारणात्, चक्षुरादिवत्। नास्त्येव तत्र संसर्गप्रत्ययोऽसंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत्। तर्हि यावत्समभि- व्याहारेणापि विशेषणे नाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वा- भावात्। असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत्। एवन्तर्हि
बोधनी। त्प्रमाणाभासाद्भवितव्यं, न तावत्प्रत्यक्षाभासात् लिङ्गाभासाद्वा भवति, तत्फलवैधर्म्यादित्याह न ता- वदिति। यदि कतिपयग्रहणदूषितं पदकदम्बकप्रतिसंधानमेव भ्रान्तिं जनयेत्तदैवादुष्टमभ्रान्तिं जनयेच्चानुमानं लिङ्गाभिमानाभावेऽपि यथोक्तप्रकारेण प्रतीतिजननसामर्थ्यावधारणादित्याह एता- दृक् इति । ननु स्यादेवं यदि यावत्समभिव्याहृतत्वसंदेहेऽपि व्याप्तिप्रतिसन्धानविधुरस्य संसर्गा- वगमो जायेत, न त्वेतदस्तीत्याह नास्त्येव इति । कुतस्तर्हि तत्र संसर्गव्यवहार इत्याह
प्रकाशः। कतिपयपदश्राविणो यः संसर्गप्रत्यय इत्यर्थः। व्याप्तीति। शब्दो न लिङ्गतया ज्ञापकः व्याप्त्यादि- ज्ञानरहितस्यापि दोषवतः अविपर्ययहेतुत्वाच्चक्षुर्वदित्यर्थः। नास्त्येवेति। कतिपयपदश्रवणं यत्रेत्यर्थः। संसर्गे बाधकाच्चेति भावः। एवं तर्हीति। असंसर्गाग्रहपूर्वकत्वसिद्धावपि तस्याप्रवर्त्त-
प्रकाशिका। त्वमेवेत्यर्थः। दोषवत इति। व्याप्तिज्ञानं विना ज्ञानहेतुत्वादिति हेतुः, ज्ञानहेतुत्वञ्च प्रकृते विपर्य- यमादायैव सिद्धमिति विभावयितुं विपर्ययपदम्। ननु कुतो विशेषाद् विपर्यय इत्यत उक्तं दोषवत
मकरन्दः। इति च स्वरूपनिर्वचनं, ज्ञानहेतुत्वादित्यत्र तात्पर्यम्। संसर्ग इति। समस्ताश्रवणमेव बाधकमित्याशयः।
टिप्पणी। श्यकत्वात्। नचैवं तदनुरोधेन बाधनिश्चयाप्रतिबन्धकत्वमेवास्त्विति वाच्यम्। वह्निना सिञ्चतीत्यादावपि तदापत्तेः, योग्यताज्ञानस्य चमत्कारिद्विष्टसाधनत्वग्रहविरहनिश्चयेच्छाविरहेणानुत्पत्त्या मन्मतेऽ- सम्भवात् । न चेच्छया शाब्द एवाङ्गीक्रियतामिति वाच्यम्। परोक्षं ज्ञानमनाहार्यमिति सिद्धान्त- भङ्गात्। योग्यताज्ञानाभावप्रत्यक्षे शाब्दसामग्र्याः प्रतिबन्धकत्वाकल्पनेन लाघवानुरोधेनापि योग्यता- याः कारणत्वाच्च । नचोक्तयुक्तिभिः पदार्थे तत्र तद्वत्त्वरूपयोग्यताज्ञानमेवास्तु हेतुर्लाघवादिति वाच्यम् । अपूर्ववाक्यार्थस्थले यत्र क्वचित् साधारणधर्मज्ञानादिविरहादुक्तयोग्यतायाः संशयोऽपि नोत्पन्नस्तत्रापि स्वस्य बाधकप्रमाविरहनिश्चये पुरुषत्वादिरूपसाधारणधर्मदर्शनात् पुरुषान्तरेऽप्युक्तयोग्यताया निश्चयस्य संशयस्य च सम्भवादस्मन्मते तत्रापि शाब्दसम्भवात्। ये त्वेतादृशं स्थलं न मन्यन्ते तैः पदार्थे तत्र तद्व- त्वमेव योग्यत्वमुपेयते तन्मतेऽपि स्वपरेत्यादिग्रन्थः स्वपरबाधकप्रमाविरहः क्वचिन्निश्चीयते न सर्वत्र तदा कैव कथा योग्यता निश्चयस्य सर्वत्रानेवंगरत्या व्याख्येयः अत्र पक्षे बाधकसंशयस्येत्यादिग्रन्थः यथाश्रुत इति । अन्यथा प्रमामात्रोच्छेदप्रसङ्गादिति । बाधसंशयस्थलीयप्रमाशेषवैजात्यावच्छि- न्नोच्छेदप्रसङ्गादित्यर्थः । एतदेवाभासमन्वायेति । संशयसाधारणं योग्यतादिज्ञानं हेतुरित्येतदेवे- त्यर्थः । पूर्वापरितोषेणाहैति । पूर्वदोषस्याकाङ्क्षादेः स्वरूपत एव कारणत्वात् लिङ्गविधया हेतुत्वे ज्ञानस्यापेक्षणीयत्वं स्यात् तच्च नास्तीत्येतदभिप्रायकत्वात् । ज्ञातस्योपयोगित्वे लिङ्गविधयापि हेतुत्वे उक्तदोषासम्भव इत्यपरितोषः। व्याप्त्यादिज्ञानेति । यथाश्रुतस्य प्रकृतहेतुत्वासम्भवात् प्रकृतसङ्गम- नाय व्याचष्टे व्याप्त्यादीति । आदिपदान्निङ्गतावच्छेदकस्य पक्षे लिङ्गस्य च परिग्रहः । यज्जातीयस्य व्याप्त्यादिप्रतिसन्धानं विना दोषवति विपर्ययहेतुत्वं तज्जातीयस्य न लिङ्गविधया प्रमाणत्वम् लिङ्गवि-
३६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां संसर्गो न सिद्ध्येत् । आप्तवाक्येषु सेत्स्यतीति चेन्न । सर्वविषयाऽऽप्तत्वस्यासिद्धेः । यत्र क्वचिदाप्तत्वस्यानैकान्तिकत्वात् । प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्धयभ्युपगमादित्युकम् ॥ न च सर्वत्र जिज्ञासा निबन्धनम्, अजिज्ञासोरपि वाक्यार्थप्रत्ययात् । आका- ङ्क्षापदार्थस्तर्हि कः ? । जिज्ञासां प्रति योग्यता । सा च पदस्मारिततदाक्षिप्तयोरविना- भावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः । न चैषोऽपि ज्ञानमपेक्षते, प्रति- योगिनिरूपणाऽधीन निरूपणत्वात्, तदभावनिरूपणस्य च विषयनिरूप्यत्वादिति॥१३॥ बोधनी । असंसर्ग इति । यदि यावत्समभिव्याहृतत्वविशेषणविधुरस्य संसर्गज्ञानपूर्वकत्वाभावो न दोषाय, विशिष्टस्य हेतुत्वात् तर्हि तद्विशेषितेऽपि हेतावनैकान्तिकत्वं सुवचमित्याह तर्हि इति । नन्वनाप्त- वाक्यस्याप्यसंसर्गाग्रहपूर्वकत्वात्तन्मात्रसाधने न व्यभिचार इत्याह असंसर्गाग्रह इति । एवं हि न कुतश्चिदपि वाक्यात् संसर्गावगतिः स्यादित्याह एवं तर्हि इति । नन्वाप्तप्रणीतत्वेनापि हेतुं विशे- षयिष्यामः, तथा च तस्य न व्यभिचार इत्याह आप्तवाक्येषु इति । तदेतत्प्रथमानुमान एवाशङ्क्य निरस्तमित्याह न इति । एवमाकाङ्क्षा नाम जिज्ञासेत्यङ्गीकृत्य तस्याः सत्तायां वाक्यार्थज्ञानहेतुत्वाल्लिङ्गविशेषणत्वं न संभवतीत्युक्तम् , इदानीं तु सत्तायापि हेतुत्वं नास्तीत्याह न च सर्वत्र इति । न हि प्रथममेव पूर्णवाक्यश्राविणो जिज्ञासापूर्वकः संसर्गप्रत्यय इति । यदि न जिज्ञासा का तर्हि वाक्यार्थप्रतीतिहे- तुराकाङ्क्षत्याह कस्तर्हि इति । जिज्ञासां इति । अयमर्थः-पदस्मारितस्य स्मारितांशस्य वा स्मारितेन तदाक्षिप्तेन वाऽविनाभावे सति श्रोतरि तत्पदार्थोत्पाद्यस्य संसर्गावगमस्य प्रागभावो जिज्ञा- सां प्रति योग्यता, सा चात्राकाङ्क्तेति । पदार्थाविनाभाव आकाङ्क्षेत्युक्ते घटो भवतीतिवाक्यपदप- दार्थस्य गुणाविनाभावेन तत्साकाङ्क्षत्वात् रक्तः घटो भवतीति वाक्यैकदेशवन्न पर्यवस्येदत उक्तं पदस्मारित इति । तर्हि नीलं सरोजमित्यत्र पदस्मारितयोर्नीलसरोजयोरविनाभावाभावादेकवाक्यता न स्यादतः उक्तं तदाक्षिप्तस्य इति । तत्र च विशेषयोर्विनाभावेऽपि तदाक्षिप्तगुणवद्द्रव्यत्वसामा- प्रकाशः । कत्वात् प्रवर्त्तकं संसर्गज्ञानं न स्यादित्यर्थः । सर्वेति । आप्तोक्तत्वस्य च लिङ्गविशेषणतया ज्ञातस्यैव हेतुत्वादित्यर्थः । सिद्धयभ्युपगमादिति । सिद्धयभ्युपगमप्रसङ्गादित्यर्थः । तथा च शब्दस्यानुवा- दकत्वेनाप्रामाण्यापत्तिरिति भावः । तदेवं पदस्मारितपदार्थविषया जिज्ञासेत्यङ्गीकृत्य उक्तं, सम्प्रति तामप्यव्यापकतायाऽऽस्कन्दितुमाह न चेति । अथ योग्यतैव केत्यत आह सा चेति । शब्दस्मा- रितयोरविनाभावो, यथौदनं पचतीत्यत्र क्रियाकारकयोः । तदाक्षिप्तयोरविनाभावो यथा नीलं सरो- जमस्तीत्यत्र विशेषाक्षिप्तयोर्द्रव्यगुणसामान्ययोः । प्रतिपादके संसर्गज्ञानप्रागभावो नास्तीत्यत उक्तं श्रोतरीति । वाक्यान्तरोच्चारणेन तत्रापि सोऽस्तीत्यत उक्तं तदुत्पाद्येति । तद्वाक्योच्चारणजन्य इत्यर्थः । प्रतियोगीति । संसर्गावगमप्रागभावो हि प्रतियोगिनि तदवगमे ज्ञाते ज्ञातव्यः, स च स्वविषये संसर्गे ज्ञाते बोद्धव्य इति संसर्गस्य प्रागेव ज्ञानाद्वाक्यस्याऽनुवादकत्वादप्रामाण्यापत्तिरित्यर्थः । प्रकाशिका । इति । संसर्गबाधकाच्चेति । संसर्गज्ञाने समस्तांश्रवणमेव बाधकमिति भावः । चकारोऽ- नभ्युपगमादिति हेतुमाश्रयस्थं समुचिनोति । तर्हीति मूलम् असंसर्गाग्रहेणापि व्यवहार- स्वीकारेण शब्दप्रयोगात्मकोऽपि व्यवहारोऽनाप्तस्यासंसर्गाग्रहादेव स्यादिति यावत् । समभिव्याह्रा- टिप्पणी । धया प्रमाणं धूमः, दोषवति व्याप्यादिप्रतिसन्धानं विना ह्रदो वह्निमानिति भ्रमं न जनयति जनयति च चक्षुरतो धूमजातीयपर्वते वह्निबोधे न लिङ्गविधयैव प्रमाणं न चक्षुः, प्रकृते च भ्रान्तिजनकत्वेना-
तृतीयस्तबके ] शब्दस्य वाचकत्वखण्डनम्। ३६६ बोधनी। न्ययोरविनाभावात्साकाङ्क्षत्वेनैकवाक्यतेति । तथाऽहो विमलं नद्या जलं कच्छे महिषश्चरतीति वाक्ययोर्भेदो न स्यात् नदीकच्छयोरविनाभावेन साकाङ्क्षत्वादत उक्तं तदुत्पाद्य इति । अत्र हि पूर्ववाक्यस्थनदीपदार्थोत्पाद्यस्य जलसंसर्गावगमस्य न प्रागभावस्तथोत्तरवाक्यस्थकच्छपदार्थोत्पाद्यस्य महिषसंचरणसंसर्गावगमस्यापि न प्रागभावः, तेन तयोर्निराकाङ्क्षत्वान्नैकवाक्यतेति । अस्त्वियमाकाङ्क्षा ततः किमित्यत आह न चैष इति । तेन हेतुविशेषणत्वायोगान्नानुमानत्वमिति । कुतो नापे क्ष्यत· इत्यत्राह प्रतियोगि इति । संसर्गावगमप्रागभावोऽपि प्रतियोगिभूतसंसर्गावगमनिरूप्यः, स चाकाङ्क्षा- धीननिरूपण इति इतरेतराश्रयत्वप्रसङ्ग इति । तदेवं शब्दमात्रस्यानुमानान्तर्भावं वदन्तो निरस्ताः ॥ प्रकाशः। ननु निराकाङ्क्षे तदुच्चारणजन्यसंसर्गज्ञानप्रागभावस्य सिद्धयऽसिद्धिभ्यां व्याघातः । प्रागभावस्य च कार्यमात्रहेतुत्वान्न शब्दसाधारण्यम् । प्रागभावाभावस्य च कारणान्तराभावन्याप्यत्वात्तत एव कार्याभाव इति आकाङ्क्षा न हेतुः स्यात् । योग्यताऽऽसत्त्योरेवकारणत्वापत्तिश्च । अयोग्यानासन्नयो- स्तदुच्चारणजन्यसंसर्गधीप्रागभावाभावादेवान्वयबोधानुत्पत्तेः । अथ ज्ञाप्यतदितरान्वयप्रकारकजिज्ञासानुकूलोपस्थितिहेतुत्वे सत्यजनिततात्पर्यविषयान्वयबोधक- प्रकाशिका। रविशिष्टोऽपि हेतुस्तत्र व्यभिचारी स्यादित्यर्थः । असंसर्गाग्रहेति । संवादिप्रवृत्तौ विशिष्ट- ज्ञानस्य हेतुतयाप्तवाक्यादावपि संसर्गासिद्धौ प्रवृत्तिर्न स्यादित्यर्थः । एवं च संसर्गो न सिद्ध्येदिति मूले कचिदपीति शेषः । आप्तवाक्येष्विति मूलं, तथाचाप्तोक्तत्वेन हेतुविशेषणान्न व्यभिचार इति भावः । अभ्युपगमो वस्तुगत्या नास्तीत्यत आह सिद्धयभ्युपगमेति । तथा चेति । शब्दस्यानाभिक्षिकस्यानुमानस्याप्रामाण्यापत्तिरित्यर्थः । यथाश्रुते इष्टापत्तेः । स्मारितयोरिति । सत्यन्तं चाकांक्षा लक्षणे स्वरूपनिर्वचनपरमित्यवसेयम्। नन्वेवं गौरश्व इत्यादेरप्यभेदान्वये साकाङ्क्षा- तापत्तिरित्यत आह गौरश्व इति । तथाचेष्टापत्तिरिति भावः । पदार्थानां स्वरूपेणोपस्थितिस्- त्फजिज्ञासानुकूला न वा, अन्त्ये दोषमाह नामेति । आद्ये दोषमाह घटः कर्मत्वमिति । अभिधानेति । अन्वयबोधानिष्पत्तिरित्यर्थः । अन्वयाबोधापर्यवसानमात्रं स्वरूपायोग्येऽप्यस्तीत्यतः तद्विशेषणेति । येन विनेति । स्वरूपायोग्ये च तत्प्रयुक्तमेवान्वयबोधापर्यवसानम् न तु पदान्तरव्यतिरेकप्रयुक्तमिति भावः ॥ १३ ॥ मकरन्दः। तस्येति । असंसर्गाग्रहस्येत्यर्थः । स्मारितयोरिति । एतच्च सत्यन्तं विशेषणं स्वरूप- निर्वचनम् । नन्वेवं गौरश्व इत्यादावभेदान्वयबोधे आकाङ्क्षा स्यादित्यत्र आह गौरश्व इति । तथा चेष्टापत्तिरिति भावः । यदि च स्वरूपेणैव तदुपस्थितिस्तदनुकूला, तत्राह घटः कर्मत्वमिति । अभिधानेति। अभिधानमन्वयानुभवः, तस्यापर्यवसानमनिष्पत्तिरित्यर्थः । एतच्च घटः कर्मत्वमि- त्यादावप्यस्तीत्यन्मपर्यवसानपदार्थमाह येनेति । घटः कर्मत्वमित्यादेश्च नैतरव्यतिरेकप्रयुक्तं क्रियाकर्मभावेनान्वयानुभावकत्वं, किन्तु स्वरूप योग्यत्वप्रयुक्तं, तत्समवधानेऽपि तदननुभाकत्वात् अभेदान्वये च तत्राप्याकाङ्क्षाऽस्त्येव, अयोग्यत्वाच्च नान्वयधीरित्यत आह घटः कर्मत्वमिति । आकाङ्क्षालक्षादिकं शब्दप्रकाशे सम्यग्व्याख्यातमनुसन्धेयम् ॥१३॥ टिप्पणी। न्यत्र प्रमाणत्वेन सम्प्रतिपन्नशब्दजातीय एव तथा स्वीकृतो न च तत्रास्ति लिङ्गतावच्छेदकनिश्चय इति न शब्दो लिङ्गविधया प्रमाणमिति प्रकृते सङ्गतम् । व्याप्तिज्ञानविरहेऽपि ज्ञानजनकत्वमात्रपरत्वे- ऽदृष्टं सदा भ्रान्ति जनयेदित्यत्र किमिव सङ्गतं स्यात्, अत एव विपर्ययहेतुत्वादित्यस्य ज्ञानहेतुत्वादि- दित्यत्र तात्पर्यमित्युक्तिः केषाञ्चिदनादरणीयैव। सिद्धयसिद्धिभ्यां व्याघात इति । घटः कर्म्मत्व- मित्यादिवाक्यं निराकाङ्क्षमिति व्यवहारविज्ञेय इत्यर्थः । अथ ज्ञाप्यतदितरान्वयेति । यत्पदे
४०० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१२ कारिकाव्याख्यायां
प्रकाशः । त्वमाकाङ्क्षा । घटमानयेतीत्यत्र हि घटमित्युक्ते किमानयति पश्यति वा, आनयेत्युक्ते किं घटम- न्यद्वेति जिज्ञासा भवति गौरश्व इत्यत्र नामेदेनान्वयोऽयोग्यत्वात् । राज्ञ इति पुत्रेण जनितान्वय- बोधत्वान्न पुरुषमाकाङ्क्षति । मैवम् । नामविभक्तिधात्वाख्याताथानां घटकर्मत्वानयनकृतीनां स्वरूपेणोपस्थितिर्नान्वयप्रकारकजिज्ञासानुकूलेति तत्राकाङ्क्षाविरहापत्तेः । घटः कर्मत्वमानयनं कृतिरित्यत्र घटमानयेतीत्यत्रैवान्वयबोधापत्तेश्च । अत्राहूः—अभिधानापर्यवसानमाकाङ्क्षा । येन विना यस्य न स्वाऽर्थान्वयानुभावकत्वं, तस्य तदपर्यवसानम् । नामविभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना न स्वार्थान्वयानुभाव- कत्वम् । घटः कर्मत्वमानयनं कृतिरित्यत्राभेदेन नान्वयज्ञानमयोग्यत्वात् । योग्यता च बाधकमाना- भावः । अन्यत्र यद् बाधकं तदभावस्यायोग्येऽपि सत्त्वात् । प्रकृतसंसर्गे च न तदभावः, सिद्धयसि- द्धिव्याघातात् । न च प्रकृतसंसर्गेऽन्यत्र सिद्धबाधकमानाभावः, प्रकृतसंसर्गस्य प्रागप्रतीतेः । स्वबा- धकप्रमाणविरहस्यायोग्येऽपि सत्त्वात् । सकलतदभावस्य च ज्ञातुमशक्यत्वात् । न च स्वरूपसन्नेवायं हेतुः । योग्यताभ्रमादन्वयबोधानुपपत्तेः । नापि सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्यान्या- वर्त्तकत्वात् । पदार्थतावच्छेदकरूपेण च तस्य वाक्यार्थात्पूर्व्वतया निरासात् । नापि समभिव्याहृत- पदार्थसंसर्गाभावव्याप्यधर्मशून्यत्वं, प्रमेयमभिधेयमित्यादौ संसर्गाभावाप्रसिद्ध्या तदनिरूपणात् । नापि समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्त्वं, वाक्यार्थस्यानुमेयतापत्तेः । किं त्वितरपदार्थसंसर्गे
टिप्पणी । वाक्यघटके यत्साकाङ्क्षत्वं रक्षणीयं तत्पदार्थान्वययोग्यतत्पदोपस्थाप्यं ज्ञाप्यम्, ज्ञाप्यतदितरयोर- न्वयस्य यः प्रकारो विशेषस्तस्य जिज्ञासैत्यर्थः । राज्ञ इति पुत्रेण जनितेति । अयमेतीत्यादौ राज- पदार्थस्य पुत्रपदार्थेनान्वयबोधे जाते पश्चात् पुरुषपदार्थेनान्वयबोधवारणाय विशेष्यम् स्वरूपेण॥ न्वयप्रकारकेति । परस्परासंस्पृष्टतया च ज्ञानमपूर्ववाक्यार्थस्थलेप्यसम्भवत्किमिति न विवक्षितुं शक्यम् सम्भवन्ती चोपस्थितिर्नानुकूला अनुकूलत्वे च तस्याः स्वीकृते घटः कर्म्मत्वमित्यत्रापि स्यादिति भावः । येन विना यस्य न स्वार्थेति । यत्पदव्यतिरेकप्रयुक्तो यत्पदार्थान्वितस्वार्थानुभावकत्वा- भावो यस्य तस्य स एवतत्पदसाकाङ्क्षत्वम्, अर्थात् तत्तत्प्रकृतिप्रत्ययक्रियाकारकपदानां तत्तदर्थान्व- यबोधानुकूलः समभिव्याहार आकाङ्क्षेति पर्य्यवसितम् । अन्यत्र यद्बाधकमिति । अन्यत्र प्रकृतसंसर्गभिन्ने योग्यस्थलेऽपि प्रकृतसंसर्गान्वयकिञ्चिद्गोचरंवाधकप्रमाविरहोऽस्त्येव क्वचिद्बाधक- प्रमासत्त्वेन योग्यस्थलेऽपि बाधकप्रमासामान्यविरहासम्भवेन तस्य विवक्षितुमशक्यत्वादिति । बाधकमानाभाव इति । विषयत्वसम्बन्धावच्छिन्नप्रतियोगिताकः । बाधप्रमासत्त्वेऽपि काव्यस्थले चमत्काररूपेष्टसाधनत्वग्रहादिच्छया बाधकप्रमाविरहज्ञानमाहार्यमुपजायमानञ्चमत्कारहेतुं शाब्दं जनयति स्वरूपतो बाधकप्रमाविरहस्य हेतुत्वे तन्न स्यात् । नचेच्छया शाब्द एव भवतीति वाच्यम् । परोक्षं हि ज्ञानमनाहार्यमिति प्रवादादिति । योग्यताज्ञानाभावप्रत्यक्षे शाब्दसामग्रीप्रति- बन्धकत्वाकल्पनेन लाघवाच्च तज्ज्ञानस्यैव हेतुत्वं वाच्यमभिप्रेत्याह प्रकृतसंसर्गस्येति । प्रागप्रतीतेरिति । तत्रोक्तयोग्यताया प्रत्येतुमशक्यत्वादिति । स्वबाधकेति । स्वं प्रकृतान्व- यबोधाश्रयः श्रोता । प्रकृतसंसर्गे च न तदभाव इति । प्रकृतपदार्थविशेष्यप्रकृतापरपदार्थ- संसर्गाभावस्य यन्मना प्रमितिरुतदभावेत्यर्थः । योग्यस्थले बाधप्रसिद्धौ न तदभावः तदसिद्धौ अलीकप्रतियोगिकत्वान्नाभाव इत्युभयथा योग्यताव्याघात इत्यर्थः । अयोग्येऽपि सत्त्वादिति । स्वस्य बाधज्ञानाभावकाले तत्र च तज्ज्ञानस्य प्रमात्वात् प्रमाशाब्दबोधापत्तिरिति भावः । सकल- तदभावस्येति । स्वपरनिष्ठतदभावस्येत्यर्थः । ज्ञातुमशक्यत्वादिति । परज्ञानाभावस्य
तृतीयस्तबके ] शब्दस्य बाधकत्वखण्डनम् । ४०१ प्राभाकरास्तु—लोकवेदसाधारणव्युत्पत्तिबलेनाऽन्विताभिधानं प्रसाध्य वेदस्या- पौरुषेयतया वक्तृज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमा- स्थितवन्तः । लोके त्वनुमानत एव वस्तुज्ञानापसर्जनतया संसर्गस्य सिद्धेरन्विताभि- धानवलायातेऽपि प्रतिपादकत्वेऽनुवादकतामात्रं वाक्यस्येति-निर्णीतवन्तः । तदति- स्थवीयः — निर्णीतशक्तेर्वाक्याद्धि प्रागेवार्थस्य निर्णये ॥ व्याप्तिस्मृतिविलम्बेन लिङ्गस्यैवानुवादिता ॥ १४ ॥ यावती हि वेदे सामग्री, तावत्येव लोकेऽपि भवन्ती कथमिव नार्थं गमयेत् , बोधनी । संप्रति ये वैदिकस्य पृथक्प्रमाणत्वमङ्गीकृत्य लौकिकस्यानुमानान्तर्भावमतिष्ठन्ते तेषां मतमुप- न्यस्य निरस्यति प्राभाकरास्तु इति । स्थूलतामेवाह निर्णीतशक्तेरिति । लोकवेदसाधारणव्युत्प- त्तिबलेन वाक्यार्थप्रतिपादने निर्णीतशक्तेर्वाक्यादेव वेदवल्लोकेऽपि वक्तृज्ञानानुमानात् प्रागेव वाक्यार्थ- निर्णये जाते सति व्याप्तिस्मृतिसव्यपेक्षत्वेन विलम्बितप्रवृत्तेः वक्तृज्ञानस्यैवानुवादत्वं भवेन्न वाक्य- स्येति व्याचष्टे यावती इति । आकाङ्क्षादिमत्प्रतियोग्यन्वितस्वार्थाभिधानशक्तिप्रतिसन्धानमेव हि वेदवाक्यार्थप्रतिपादनसामग्री, सा च लौकिकानामप्यविशिष्टेति कथमिव तानि न वाक्यार्थं प्रतिपाद- येयुः । वक्तृज्ञानलिङ्गे तु वाक्ये सति स्वार्थविषयज्ञानानुमानायार्थाभिधानशक्तिं तावत् प्रतिसंधाय वाक्यस्य वक्तृज्ञानेन व्याप्तिरनुसंधातव्या । ततश्च विलम्बकारिणो लिङ्गस्य निर्णेतव्यं नावशिष्यते । यथाहुः 'अश्वैश्चपहृतं को हि गर्दभैः प्रार्थितुं क्षमः' इति । लोके वक्तुराप्तिनिश्चयः सामग्रीति वाच्यं प्रकाशः । अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावो योग्यता । प्रमेयमभिधेयमित्यत्र प्रमेयेनि ष्ठात्यन्ताभावप्रतियोगिप्रम विशेष्यत्वं गोत्वे प्रसिद्धम्, अभिधेयत्वसंसर्गे च तदभावः । आसत्तिश्चा- व्यवधानेनाऽन्वयप्रतियोगिस्मृतिरिति सङ्क्षेपः ॥ १३ ॥ प्रसङ्गसङ्गतेराह—प्राभाकरास्त्विति । लोकेति । य एव लौकिकास्त एव वैदिका इति भावः । व्युत्पत्तिबलेनेति । व्यवहारेणैतरान्वितपदार्थज्ञानस्यैव स्वकारणस्यानुमितेरित्यर्थः । वेदे क्लृप्तसामग्रीतो लोकेऽपि संसर्गानुभवादन्यथा त्वनुवादकताऽपि न स्यादित्याह निर्णीतेति । आकाङ्क्षादिमत्तया ज्ञानात् प्राग् लिङ्गज्ञानाभावात् तद्गत्या च ज्ञाने वेदतुल्यतयाऽ- न्वयबोधे विलम्बाभावादन्यथा वैदिकवाक्यादपि स न स्यात् , तस्य लौकिकोपजीवकत्वादिति प्रकाशिका। लौकिकोपजीवकत्वादिति । लोकस्थस्य एव व्यवहारेण शक्तिग्रहादित्यर्थः । लौकिकतु ल्यत्वात् य एव लौकिका इति न्यायादित्यर्थ इत्यन्ये ॥ १४ ॥ मकरन्दः । उपजीवकत्वात् तुल्यत्वात् । य एव लौकिकास्त एव वैदिका इत्याशयात् । लोके व्युत्पत्तिग्रहो व्यवहारादिति तस्योपजीव्यत्वमित्यप्याहुः ॥ १४ ॥ टिप्पणी । परायोग्यत्वात् । प्रतियोगित्वप्रमाविशेष्यत्वाभावो योग्यतेति । न च योग्यताज्ञानकारण- त्वमुक्त्वा पदार्थे तत्र तद्वत्स्वरूपाया योग्यताया एवास्तु ज्ञानकारणत्वं लाघवादिति वाच्यम् । अपूर्व- वाक्यार्थस्थले तदसम्भवात् । नचानिश्चयेऽपि संशय एवास्तु कारणं, सर्वत्र तत्सामग्रीसम्पत्तौ माना- भावातथात्वे च स्यादेव तस्याहेतुत्वंमुच्यते न तत् कैश्चिदिति ॥ १३-१४ ॥ ५१ न्या० कु०
न ह्यपेक्षणीयान्तरमस्ति, लिङ्गे तु परिपूर्णेऽप्यवगते व्याप्तिस्मृतिरपेक्षणीयाऽस्तीति विलम्बेन किं निर्णयेम् ? । अन्वयस्य प्रागेव प्रतीतेः ॥ लोके वक्तुराप्तत्वनिश्चयोऽपेक्षणीय इति चेन्न । तद्रहितस्यापि स्वार्थप्रत्यायने शब्दस्य शक्तेरवधारणात् । अन्यथा वेदेऽप्यर्थप्रत्ययो न स्यात्, तदभावात् । न च लोके अन्यान्येव पदानि, येन शक्तिवैचित्र्यं स्यात् । अनाप्तोक्तौ व्यभिचारदर्शनात् तुल्याऽपि सामग्री सन्देहेन शिथिलायते इति चेन्न । चक्षुरादौ व्यभिचारदर्शनेन शङ्कायामपि सत्यां ज्ञानसामग्रीतरतदुत्पत्तिदर्शनात् ॥ ज्ञायमानस्यायं विधिरित्यसन्देहे सति निश्चायकं यथा लिङ्गं, चक्षुरादि तु सत्त- येति चेन्न । वाक्यस्य निश्चितत्वात्, फलप्रामाण्यसन्देहस्य च फलोत्तरकालीन- त्वात् । आप्तोक्तत्वस्य चार्थप्रत्ययं प्रत्यनङ्गत्वात् । लोकेऽपि चाप्तत्वानिश्चयेऽपि वाक्यार्थप्रतीतेः। भवति हि वेदानुकारेण पठ्यमानेषु मन्वादिवाक्येषु अपौरुषे-
बोधनी।
व्युत्पत्तिकाल तस्यातन्त्रीकृतत्वादित्याह लोके तु इति । आप्तेरपि शक्त्यवधारणोपयोगित्वे तद्विर- हिणि वेदे वाक्यार्थप्रत्ययो न स्यादित्याह अन्यथा इति । न च इति । लौकिकवेदाधिकरणसिद्धा- न्तन्यायोपप्रसङ्गादिति । ननु तुल्यापि सामग्री अनाप्तवाक्येषु दृष्टव्यभिचारपौरुषेयत्वसाधर्म्येण सर्व- त्रापि व्यभिचारशङ्कायां नार्थप्रतिपादनसमर्था भवतीत्याह अनाप्तोक्तौ इति । न इति । न हि दृष्टव्यभिचारं चक्षुर्ज्ञानं न जनयतीति । ननु ज्ञायमानतया ज्ञापकत्वाद्वाक्येन लिङ्गस्य रीतिरनुसर्तव्या न तु चक्षुरादेरित्याह ज्ञायमानस्य इति । किमत्र वाक्यस्य स्वरूपसंदेहो वाक्यार्थज्ञानजननं प्रतिबध्नाति, किं वा वाक्यफलस्य ज्ञानस्य विसंवादात् प्रामाण्यसंदेहः । तत्र वाक्यं तावन्निश्चितमेव, ज्ञानप्रामाण्यसंदेहस्तु कथं ज्ञानोत्पत्तेः पश्चा- द्भवन् पूर्वभाविनीं तदुत्पत्तिं प्रतिबध्नीयादित्याह न वाक्यस्य इति । नन्वाप्तोक्तत्वसंदेह एव वाक्यस्य प्रत्यायकत्वं प्रतिबध्नातीत्यत आह आप्तोक्तत्वस्य इति । वेदे तदभावेऽप्यर्थप्रत्यायकत्वदर्शनाद- नङ्गत्वमिति मा भूद्वेदे, लौकिके तु तदङ्गं भविष्यतीत्यत्राह लोकेऽपि इति । वेदानुकारः स्वर- विशेषस्तेन सादृश्याद्वेदत्वाभिमानालम्बनमुक्तं, मन्वादिवाक्येष्वित्यर्थसादृश्यात् । गौडो मीमांसकः पञ्चिकाकारः । गौडो हि वेदाध्ययनाभावाद्वेदत्वं न जानातीति गौडमीमांसकस्येत्युक्तमिति । ननु
प्रकाशः।
भावः । प्रत्युतानुमाने व्याप्तिस्मृत्यादिविलम्बादनुमितिविलम्बेन तस्यैवानुवादकत्वमित्याह व्याप्ति- स्मृतीति । लोके इति। स च न वक्तृज्ञानानुमानं विनेति भावः । तं विनाऽपि वेदादन्वयबोधा- द्व्यभिचारात् स न तत्र हेतुरित्याह तद्रहितस्याऽपीति । य एव लौकिकास्त एव वैदिकास्त एवामीषामर्था इत्याह न चेति । यथा स्थाणुपुरुषसंशये चक्षुर्न निश्चायकं, तथाऽऽप्तोक्तवानाप्तो- क्तत्वसन्देहे तुल्याऽपि सामग्री न निश्चायिकेत्याह अनाप्तोक्ताविति । यथा समानविषयकसन्दे- हस्यैव प्रतिबन्धकत्वान्निश्चयविषयकोऽप्रमाजनकत्वसंशयो न चाक्षुषनिश्चयप्रतिबन्धकः, तथाऽऽप्तोक्त- त्वसन्देहोऽपि न शाब्दनिश्चयप्रतिबन्धक इत्याह चक्षुरादाविति । सन्देहः किं वाक्यस्वरूपे, तज्जनितज्ञानप्रामाण्ये वा, आप्तोक्तत्वे वा ? । आद्ये वाक्यस्येति । द्वितीये फलेति । अन्त्ये आप्तोक्तत्वस्येति । न चाप्रमाजनकत्वे सन्देहः, तत्प्रतिबन्धकत्वे मानाभावादिति भावः । ननु लोके आप्तोक्तत्वसन्देहे वाक्यार्थज्ञानानुदयात् तन्निश्चयस्तद्धेतुः, तथा च वाक्यार्थगोचरपदार्थज्ञानज- न्यत्वमाह्वकात् तदुपजीविनोऽनुमानाद्वाक्यार्थधीरित्यत आह लोकेऽपीति ॥ १४ ॥
तृतीयस्तबके.] शब्दस्य बाधकत्वखण्डनम् । ४०३ यत्वाभिमानिनो गौडमीमांसकस्यार्थनिश्चयः । न चासौ भ्रान्तिः, पौरुषेयत्वनिश्चय- दशायामपि तथा निश्चयादिति ॥ १४ ॥ स्यादेतत्, नाप्तोक्तत्वमर्थप्रवीतेरङ्गमिवि ब्रूमः, किन्त्वनाप्तोक्तत्वशङ्कानि- रासः, स च क्वचित्पौरुषेयत्वनिश्चयात्, क्वचिदाप्तोक्तत्वावधारणादिति चेत्। तत् किमपौरुषेयत्वस्याप्रतीतौ सन्देहे वा वेदवाक्याद्विदितपदार्थसङ्कतेरर्थप्रत्यय एव न भवेत्, भवन्नपि वा न श्रद्धेयः ? । प्रथमे सत्यादय एव प्रमाणम्। न चासंसर्गाग्रहे तदानीं संसर्गव्यवहारो, बाधकस्यात्यन्तमभावात् । तथापि तत्कल्पनायामान्वयोच्छे- दप्रसङ्गात् । द्वितीये त्वश्रद्धा प्रत्यक्षाद्यन्निमित्तान्तरानिवर्त्स्यतीति चेद् यदि, लोके ऽपि तथा स्यादविशेषात् ॥ अन्यथा वेदस्याप्यनुवादकताप्रसङ्गः । बोधनी । पौरुषेयत्वाग्रहणकृतोऽयं निश्चयो भ्रान्तिरित्थत आह न चासौ इति । यदि हि तथा स्यात्पौ- रुषेयत्वग्रहे सति वाध्येत तदग्रहकृतस्य भ्रमस्य तद्ग्रहणे निवर्त्तनीयत्वात्, न वाध्यते चायं निश्चय इति ॥ १४ ॥ स्यादेतत् इति । शङ्कानिराकरणे अङ्गमित्यनुषङ्गः, तत् किमिति न श्रद्धेयः प्रमाणत्वेनेति शेषः । सत्यादय इत्यर्थः । प्रत्ययस्याभावः शपथादिभाज्यः, सद्भाव एव प्रतिपत्तॄणां संसर्गव्यवहा- रदर्शनादवगम्यत इति भावः । व्यवहारस्यान्यथासिद्धिमाशङ्क्याह न च इति । यदि बाधकाभा- वेऽपि असंसर्गाग्राहक इति कल्प्येत तर्हि सर्वत्रापि तथात्वापत्तेः संसर्गप्रत्यय एवोच्छिद्येत, तथा च शब्दप्रामाण्यमेव दत्तजलाञ्जलि स्यादित्याशयावानाह तथापि इति । भवन्वेवार्थप्रत्ययः केवलमश्रद्धेय इति पक्षे कथमियमश्रद्धा वेदे निवर्त्तनीयेति पृच्छामः । यदि ब्रूयात् यथा प्रत्यक्षे बाधदर्शनादश्रद्धा निवर्त्तते तथैवापौरुषेयत्वनिश्चयादिति, तर्हि लोकवाक्येऽपि पूर्वमेवार्थप्रत्ययो जायते तदश्रद्धा चाप्तो- क्तत्वनिश्चयान्निवर्त्तत इत्यभ्युपगच्छेत्याह द्वितीये तु इति । लोके पूर्वमर्थप्रत्ययानङ्गीकारे बाधकमाह अन्यथा इति । यद्वा वेदेऽप्यपौरुषेयत्वनिश्चयोत- प्रकाशः । बाधकस्येति ॥ न चाप्तोक्तत्वकारणबाध एव बाधक इति वाच्यम् । व्यभिचारात् तद्धेतुता- यामेव बाधात्। नापि लौकिकत्वेन ज्ञाते तद्धेतुः। मानाभावात्, आप्तोक्तत्वस्य च ज्ञातुमशक्यत्वात् । वाक्यार्थस्यापूर्वत्वादिति भावः । यथोत्पन्नप्रत्यक्षज्ञानप्रामाण्यग्राहकादप्रामाण्यशङ्कात्मकाऽश्रद्धापगमः, तथा वेदवाक्यजेऽपीत्याह द्वितीये त्विति ॥ यदि चापौरुषेयत्वनिश्चये सत्येव वेदार्थधीः, तदैते पदार्था मिथः संसृष्टाः दोषवत्पुरुषाप्रणी- ताकाङ्क्षादिमत्पदस्मारितत्वादिति वेदेऽन्वयधीरस्त्विति वेदोऽप्यनुवादकः स्यादित्याह- अन्यथेति ॥ तथा च शब्दः प्रमाणमेव न स्यात्, सर्वत्रानुमानादेव वाक्यार्थप्रमोत्पत्तेरिति प्रकाशिका । दोषवदिति । अत्र च दोषवत्पुरुषाप्रणीतपदस्मारितत्वमात्रे तात्पर्यमन्यथा वैयर्थ्यात् । न च विसंवादिशुक्तोक्तवाक्ये व्यभिचारः । तादृशसतात्पर्यकपदस्मारितत्वस्याहेतुत्वात् । न च सतात्पर्यकत्वं मन्मते वेदस्यासिद्धमिति वाच्यम् । स्वमतेनैव हेतुत्वात्, दोषवत्पदेन संवादिवाक्य- मकरन्दः । दोषवदिति । अत्र हेतुद्वये तात्पर्यम् । न चायंहेतोर्विसंवादिशुक्तवाक्ये व्यभिचारः, दोष-
४०४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १५ कारिकाव्याख्यायां तदुच्यते— व्यस्तपुंदूषणाशङ्कैः स्मारितत्वात् पदैरमी ॥ अन्विता इति निर्णीते वेदस्यापि न तत् कुतः ॥ १५ ॥ यदा ह्यपौरुषेयत्वनिश्चयात् प्राग् वेदो न किञ्चिदभिधत्ते इति पक्षः, तदाऽऽप्तो- क्तत्वनिश्चयोत्तरकालं लोकवद् वेदेऽप्यपौरुषेयत्वनिश्चयात् पश्चादनुमानावतारः। इयांस्तु विशेषो-यदयं पदार्थानिव पक्षीकृत्य निरस्तपुंदोषशङ्कैरकाङ्क्षादिमद्भिः पदैः स्मारितत्वादाप्तोक्तपदकदम्बकस्मारितपदार्थवत् संसर्ग एवाहृत्य साध्यो बुद्धिव्यव- हितस्त्वितरत्रेति फलतो न कश्चिद्विशेष-इति । तथा चान्विताभिधानेऽपि अगत्य- त्वाद्वेदस्यानुवादकत्वप्रसङ्गः । न चैवं सति तत्र प्रमाणमस्ति । विशिष्टप्रतिपत्त्य- न्यथानुपपत्त्या हि शब्दस्य तत्र शक्तिः परिकल्पनीया, सा चानुमानेनैवोपपन्नेति वृथा प्रयासः। तस्माल्लोके शब्दस्यानुवादकतेति विपरीतकल्पनेयमायुष्मताम् ॥ बोधनी । रकालमेवाभिधायकत्वे दोषमाहेति । तदुच्यते इति । यथानुवादकत्वं वेदस्य प्रसज्यते तथोच्यत इत्यर्थः । व्यस्त इति । अमी पदार्था मिथः संसर्गवन्तः निरस्तसमस्तदोषशङ्कैः पदैः स्मारितत्वात् इत्यनुमानेन निर्णीते संसर्गे पश्चात्प्रवर्तमानस्य तदनुवादकत्वं कुतो न स्यादिति ॥ १५ ॥ प्रकाशः। भावः। बुद्धेति वक्तृज्ञानावच्छेदकतयेत्यर्थः। इतरत्र-लौकिकवाक्ये । किञ्चैवं लोकवेदसाधार- णादनुमानादेव वाक्यार्थप्रमोत्पत्तौ वेदस्य तत्र सामर्थ्यानवधारणादन्विते शक्तावपि न मानमित्याह न चैवमिति। तत्रेति। अन्विते शक्तावित्यर्थः॥ सा-विशिष्टप्रतीतिः । विपरीतेति । लोके सम्भृ- तसामग्रीकतयेन शब्दस्यैव पूर्वं बोधकत्वाद्वाधिसिस्मृतिविलम्बेन लिङ्गमेवाऽनुवादकमित्यर्थः । यद्वा अन्विते पदानां शक्तिर्लोके चानुवादकः शब्द इति विरुद्धकल्पनेत्यर्थः ॥ नवीनास्तु—अप्रमाणशब्दव्यावृत्तं प्रमाणशब्दानुगतं प्रामाण्यप्रयोजकं किञ्चित् कार्यवैलक्षण्या- न्यथानुपपत्त्या कल्प्यम् । तच्च ज्ञातं तत्प्रयोजकं, ज्ञायमानकरणे ज्ञानोपयोग्यप्रमाणवैलक्षण्यात् , व्याप्त्यादिवत् । न चाप्तोक्तत्वदोषभावौ तथा, भ्रान्तप्रतारकवाक्यजे ज्ञाने तदभावात् । किन्तु यथा- र्थतात्पर्यकत्वम् । तच्च यथार्थवाक्यधीप्रयोजनकत्वं लोकवेदसाधारणं, तदभावान्नचाप्रमा, स एव दोषः । तत एव भ्रान्तप्रतारकवाक्यं संवादिशुकादिवाक्यञ्च प्रमाणम् । तच्च ज्ञातमुपयोगि, ज्ञाय- मानकरणे ज्ञानोपयोग्यव्यभिचारिवैलक्षण्यत्वादित्युक्तम् । अन्यथा, अन्यपरस्यानन्वयबोधो न स्यात् । न स्याच्च यष्टीः प्रवेशयेत्यत्र लक्षणा नानार्थे विनिगमना च, तयोस्तात्पर्यग्रहमूलकत्वात् । न च तात्पर्यग्राहकप्रकरणादेः प्राथम्यादावश्यकत्वाच्च शब्दसहकारित्वमिति वाच्यम् । तेषामननुगमेनाहेतु- प्रकाशिका । प्रयोक्तुरभिधानेन सर्वसामञ्जस्यादिति । नवाना इति । प्रभाकरनवीना इत्यर्थः । सामान्यतः सिद्धस्य ज्ञातोपयोगित्वं साधयित्वा विशेषतः सिद्धस्य तत्साधयति तच्च ज्ञातमुपयोगीति । तयोरिति । लक्षणाविनिगमनयोरित्यर्थः । मकरन्दः । यत्तत्पुरुषाप्रणीतसतात्पर्यकपदस्मारितत्वस्याप्यहेत्वर्थत्वात् । तच्चेति । न च पौनरुक्त्यं, विशे- षतः साधनात् । तयोरिति । लक्षणविनिगमनयोरित्यर्थः । टिप्पणी । तेषामननुगमेनाहेतुत्वादिति । न च प्रकरणादेस्तात्पर्यग्रहं प्रति कारणत्वेऽप्यनननुगमाद-
तृतीयस्तबके ] शब्दस्य वार्थिकत्वखण्डनम् । ४०५ किं चेदमन्विताभिधानं नाम ? । न तावदन्वितप्रतिपादनमात्रम् । अविवादात् । नापि स्वार्थाभिधायास्तत्र तात्पर्यम् । अविवादादेव । नापि सङ्गतिबलेन तत्प्रति- प्रकाशः। स्वात् । तात्पर्यग्राहकता त्वनुगतानामपि व्याप्यत्वात् , धूमादीनामिव । तच्च तात्पर्यं वेदे न्याय- गम्यं, लोके च न्यायाविषयेऽपि पुंसां तात्पर्यान्न तन्न्यायगम्यम् , अपि तु प्रथममाप्तवाक्याद्- क्तृज्ञानानुमानपूर्वकंमर्थतथात्वमवधार्य तन्निश्चयः । अनुमानं च—इदं वाक्यं भ्रमादिविशिष्टज्ञानान्य- तरज्ञानजन्यं, वाक्यत्वात् । ततो भ्रमादिनिरासे सति परिशेषाद्वाक्यार्थानुमानम्—अयं वक्ता स्वप्रयुक्तवाक्यार्थयथार्थज्ञानवान् भ्रमाद्यजन्यवाक्यप्रयोक्तृत्वात् , अहम्प्रिव । तत एते पदार्था यथो- चिततत्संसर्गवन्तः यथार्थज्ञानविषयत्वात् , मद्रुक्तपदार्थवत् । एवं वक्तुर्वाक्यार्थज्ञानेऽनुमिते प्रकर- णादिना वक्तुरभिप्रेतयथार्थज्ञानपरत्वज्ञानम् , ततो वेदतुल्यतया शब्दादर्थज्ञानमित्यनुवादकः शब्दो वक्तृज्ञानावच्छेदकतया वाक्यार्थस्य प्रागेव सिद्धेरित्याहुः ॥ मैवम् । यथार्थप्रतीतिपरत्वस्य ज्ञातस्य प्रमाऽनुत्पादकत्वात् । अपूर्ववाक्यार्थनिरूप्यतया तस्य पूर्वं ज्ञातुमशक्यत्वात् , गौरवाच्च । न वा भ्रमजन्यत्वग्रहः, वाक्यार्थमज्ञात्वाऽयमभ्रान्त इति निश्चे- तुमशक्यत्वात् , पुंसो भ्रमादिसम्भवात् । न च संवादात् तद्ग्रहः, तस्य ज्ञानोत्तरकालीनत्वात् । न च भ्रमादिजन्यवैलक्षण्येन शब्दज्ञानमस्ति ज्ञाने वा यादृशो लिङ्गत्वं तादृशः प्रत्यायकत्वमेवास्तु । किञ्च पुंवाक्यस्य भ्रमादिविशिष्टज्ञानान्यतरजन्यत्वेऽनुमिते परिशेषादभ्रमाद्यजन्यत्वनिश्चयदशायां वेदतुल्या सामग्री लौकिकवाक्येऽपि वृत्तेति तत एवार्थस्य निश्चयाद्वेदवत् तस्यापि प्रामाण्यम् । अनुमितावनुमानस्य व्याप्तिस्मृत्यादिविलम्बितत्वात् । यदि च यथार्थतात्पर्यकत्वज्ञानं प्रमोत्पादकं, तदा लोकवेदयोस्तादृशपदस्मारितत्वेन पदार्थसंसर्गानुमितिसम्भवान्न शब्दः प्रमाणं स्यात् । अने- कार्थेऽड श्लिष्टे चानेकोपस्थितावपि प्रकरणादेकमादायान्वयबोधः । लक्षणाऽपि न तात्पर्यानुपपत्त्या, किन्त्वन्वयानुपपत्त्येत्युक्तम् । यद्वा नानार्थे लक्षणायाञ्च नियतपदार्थोपस्थित्यर्थे पदार्थे तात्पर्यग्रहा- पेक्षा, तेन विना तदभावात् , न वाक्यार्थे । अन्यत्रान्वयप्रतियोग्युपस्थितिस्तात्पर्यग्रहं विनैयेति न तदपेक्षेत्यस्मत्पितृचरणाः ॥ इदानीं प्रसङ्गात् पदानाम् अन्विताभिधानं विकल्प्य सिद्धसाधनादिना निराकरोति— किं चेति । अविवादादिति । पदानां साक्षाद्वाक्यार्थानभिधायकत्वेऽप्यन्वितस्वार्थाभिधान- द्वारा अन्वितज्ञानोत्पादकत्वाङ्गीकारादित्यर्थः। नापीति। स्वार्थे पदानां शक्तिस्तस्या इतरान्वितस्वार्थ- प्रकाशिका । प्रकरणादीनामननुगमेन न हेतुत्वमित्यरुचेराह यद्वेति । मकरन्दः । ननु प्रकरणादीनामननुगमेनाहेतुत्वादित्युक्तमित्यरुचेराह यद्वेति । टिप्पणी । व्यवहितोत्तरत्वस्य कार्य्यतावच्छेदके निवेशेनैव वारणं व्यभिचारस्य कार्य्यन्तथा च शाब्दम्प्रत्ये- वास्तु तथेति वाच्यम् । शाब्दं प्रति कारणत्वेऽपि तात्पर्य्यग्रहं प्रति कारणत्वस्यान्यन्वयव्यतिरेकसिद्धस्य दुर्वारतयोभयथा कारणानन्त्यात् मम तु शाब्दं प्रति तात्पर्य्यग्रहस्य हेतुत्वे तथात्वविरहादिति भावः । न तदपेक्षेत्यस्मत्पितृचरणा इति । तत्तदर्थशाब्दबोधस्य कारणं या नियतपदार्थो- पस्थितीस्तन्मात्रविषयिण्युपस्थितिस्तदर्थमित्यर्थः । इयञ्चोपस्थितिर्द्वितीया उपस्थितायं एव तात्प- र्य्यत्थ गृहीतुं शक्यत्वात् प्राथमिकी चोपस्थितिरनेकार्थविषयैव भवति । इदन्तु चिन्तनीयम्-तात्- पर्य्यग्रहस्येतरार्थोपस्थितिप्रतिबन्धकतयैवेदं निर्वाद्यं न च तत्सम्भवति, उद्बुद्धे च संस्कारे स्मृति- प्रतिबन्धस्य क्वाप्यदर्शनात् , प्रकरणस्यैव वा तथात्वे निर्वाहासम्भवात् तात्पर्य्यग्रहस्य किमर्थङ्कल्प- नम् शाब्दबोधे चानुगतैवोपस्थितिर्हेतुरित्यनुगमोऽपि न प्रकरणापेक्षायामिति । अन्वित स्वार्थाभि-
४०६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १५ कारिकान्याख्यायां पादनं, वाक्यार्थस्यापूर्वत्वात् । नापि स्वार्थसङ्गतिबलेन, तस्य स्वार्थ एवोपक्ष- यात् । नापि सैव सङ्गतिरुभयं प्रतिपादिका, प्रतीतिक्रमानुपपत्तेः। यौगपद्याभ्युप- गमे तु योग्यतादिप्रतिसन्धानशून्यस्यापि पदार्थप्रत्ययवद् वाक्यार्थप्रत्ययप्रसङ्गात्। नापि सैव सङ्गतिः स्वार्थे निरपेक्षा, वाक्यार्थे तु पदार्थप्रतिपादनाऽवान्तरव्यापारेति युक्तम् । तस्याः स्वयमकरणत्वात् । सङ्गतानि पदानि हि करणं, न तु सङ्गतिः। तथापि तत्प्रतिपादनानुगुणसङ्गतिशालोनि पदानीति चेत्। न तावद्वाक्यार्थप्रतिपा- दनानुगुणता सङ्गतेस्तदाश्रयत्वेन, सामान्यमात्रगोचरत्वात् तदन्मोगोचरत्वाद् वा। नापि तदनुगुणव्यापारवत्त्वेन, अकरणत्वादित्युक्तम् । तदनुगुणकरणव्यापा- रोत्थापकत्वासदनुगुणत्वे न नो विवादः। अन्वित एव शक्तिरिति चेत् । उक्तमत्र वाक्यार्थस्यापूर्वत्वात् प्रतीतिक्रमानुप- पत्तेश्चेति । स्मृतक्रियान्विते कारके स्मृतकारकान्वितायाञ्च क्रियायां सङ्गतिरतो प्रकाशः । प्रतीतिप्रयोजनकत्वस्याभिहितान्वयपक्षेऽप्युपगमादित्यर्थः । संगतिः-शक्तिग्रहः । सा किं प्रत्याय्ये वाक्यार्थे पदार्थमात्रे वा ? । आद्ये, वाक्यार्थस्येति । उपस्थिते हि शक्तिग्रहः, न च शब्दानुभ- वात् पूर्वं वाक्यार्थस्योपस्थितिरिति कुत्र शक्तिर्गृह्येतेत्यर्थः । अन्त्यमाशङ्क्य निराकरोति नापीति । पदार्थशक्त्या तन्मात्रमुपस्थापयेन्न त्वन्वितमित्यर्थः । न च स्वार्थसङ्गतिरेव स्वार्थतदन्वितयोः प्रति- पादिकेत्याह नापीति । अपेक्षणीयाभावात् पदार्थस्मृतिकाल एवान्वितमपि प्रतिपादयेदित्यर्थः । न चेष्टापत्तिः, पदार्थस्मृत्यनन्तरं तेषां योग्यतादिज्ञानापेक्षयाऽन्वितानुभवोत्पादात्; तदनपेक्षायाञ्चाति- प्रसङ्गादित्याह यौगपद्येति । ननु पदार्थे सङ्गतिरन्वितज्ञाने कर्तव्ये पदार्थस्मृतिमपेक्षत इति क्रमः स्यादित्याह नापीति । तस्य इति। करणानामवान्तरव्यापारयोगः । न च सङ्गतिः करणं, किन्तु पदानि, तेषामन्वयानुविधानादित्यर्थः । तथापीति । करणमित्यनुषज्ज्यते । तथा च सङ्गतेः करणकोटावन्तर्भाव इति तस्या अवान्तरव्यापारयोग इति भावः। सङ्गेतेर्वाक्यार्थज्ञानानुकूलत्वं साक्षाद्वाक्यार्थधीजनकत्वं, वाक्यार्थज्ञानानुकूलव्यापारवत्त्वं, तदनुकूलपदार्थस्मृतिहेतुत्वं वा ? तत्र नाद्य इत्याह न तावदिति । अस्य पदस्येदं वाच्यमिति पदार्थाश्रयत्वेन सङ्गतेर्ग्रहान्न वाक्यार्था- श्रयत्वमित्यर्थः । न चान्याश्रया सङ्गतिरन्यद् बोधयत्यतिप्रसङ्गादिति भावः । सामान्यतदन्मात्रेति मतभेदेन द्रष्टव्यम् । द्वितीयमाशङ्क्य निराकरोति नापीति । विशिष्टस्य करणत्वेऽपि विशेषण- मात्रस्यातत्त्वादिति भावः । अन्त्ये तु विवादपर्यवसानमित्याह तदनुगुणेति । ननु वृद्धव्यवहारादन्वित एव पदानां शक्तिरित्याशङ्क्योक्तयुक्त्या निराकरोति अन्वित एवेति । नन्वन्वयविशेषे न शक्तिर्येनोक्तदोषः स्यात्, किन्तु क्रियाकारकयोरन्योन्याविनाभावादन्वयसामा- न्यम् उपस्थितमिति तत्रैव शक्तिग्रह इत्याह स्मृतेति । क्रियाकारकान्वयविशेषस्य च वाक्यार्थत्वान्न तदपूर्वत्वभङ्ग इत्यर्थः । नन्वेवं क्रियाकारकपदयोः पर्यायताऽऽपत्तिः ताभ्यां कारकक्रिययोरुपस्थ्या- प्रकाशिका । विशिष्टस्येति । विशिष्टस्यापीत्यर्थः । तथा चाभ्युपगमवादोऽयमिति ध्येयम् । मकरन्दः । विशिष्टस्येति । विशिष्टस्यापीत्यर्थः । तथा चाभ्युपगमवादोऽयमिति भावः । टिप्पणी । धानद्वारेति । अन्वितत्वं विशेषणं तेन तत्र शक्तिस्वीकारेऽपि न क्षतिः । पदार्थाश्रयत्वेन
तृतीयस्तवके ] . . . . शब्दस्य बाधकत्वखण्डनम् । . . . . ४०७ नोक्तदोषावकाशः । नाऽपि पर्यायतापत्तिः, प्राधान्येन नियमात् । नापि पौनरुक्त्यं, विशेषाऽन्वये तात्पर्यात् । नापीतरेतराश्रयत्वम्, स्वार्थस्मृतावपेक्षणात् । नापि वाक्यभेदापत्तिः । परस्परपदाऽर्थस्मृतिसन्निधौ तदितरानपेक्षणादिति चेत् । न । अन्विते सङ्गतिग्रह इति कोऽर्थः ? यदि यत्र सङ्गतिस्तद्वस्तुगत्या पदार्थाऽन्वितं, न किञ्चित् प्रकृतोपयोगीत । न हि यत्र चक्षुषः सामर्थ्यमवगतं तद्वस्तुगत्या स्पर्शवदिति तद्वत्ताऽपि तस्य विषयः । अथान्विततयैव तत्र व्युत्पत्तिरित्यर्थः । तदसत् । प्रमा- णाभावात् । प्रकाशः । पनादित्यत आह ना पीति। प्राधान्येनेति । क्रियापदं कारकमभिदधदपि कारकविशेष्यां क्रियामाह, कारकपदञ्च क्रियामप्यभिदधत् क्रियाविशेष्यं कारकमाहेति विशेषणविशेष्यभावभेदेनार्थभेदादि- त्यर्थः । ननु क्रियाकारकविशेषवाचकं पदं पुनरुक्तं, - कारकोपहितक्रियादेरितरपदेनैवोपस्थापनादि- त्यत आह नापीति । विशेषेति । सामान्यज्ञानेऽपि तद्विशेषज्ञापनाय विशेषपदमित्यर्थः । ननु कारकपदात् कारकोपस्थिति मपेक्ष्य क्रियापदेन तद्विशिष्टा क्रियोपस्थाप्या, कारकपदेन च क्रियाप- दात् क्रियोपस्थितिमपेक्ष्य तद्विशिष्टं कारकमवस्थाप्यमित्यन्योन्याश्रय इत्याह नापीति। स्वार्थेति । कारकक्रियोपस्थितमनपेक्ष्य क्रियाकारकपदाभ्यां विशिष्टास्मरणादित्यर्थः । नन्वेवं घटाऽन्वितमान- यनमानयनान्वितो घट इति विशेषणविशेष्यभावभेदादर्थभेदे वाक्यभेदः स्यादित्यत आह नापि वा क्येति । यत्रैकस्मिन् वाक्यार्थे पर्यवसन्ने वाक्यार्थान्तरबोधस्तत्र वाक्यभेदः, अत्र तु न तथा, विशे- षणविशेष्यमात्रभेदेऽपि घटानयनात्मककार्यसाम्याद्भेदादित्यर्थः । यत्रेति । यत्र वाक्यार्थे व्युत्पत्तिः सङ्गतिग्रह इत्यर्थः ॥ प्रमाणाभावादिति । ननु वृद्धव्यवहारेणानुमितेतरान्वितपदार्थज्ञाने पदकरणत्वग्रहादुपस्थि- तत्वाच्च तत्रैव शक्तिग्रहो न पदार्थज्ञानमात्रे, तस्य व्यवहाराहेतुतया ततोऽनुपस्थितेः । मैवम् । विशिष्टज्ञानस्य विशेष्यविषयत्वनियतत्वेनेतरान्वितपदार्थज्ञानोपस्थितौ विशेष्यस्य पदार्थज्ञानस्याप्युपस्थि- तेस्तत्रैव शक्तिग्रहाल्लाघवात् । न त्वितरान्वितेऽपि, गौरवात् । न चानन्यलभ्यत्वात्तत्र शक्तिः, पदार्थज्ञानशत्वेन ज्ञातयदस्य स्वार्थस्मृतिद्वाराऽऽवश्यकत्वादाकाङ्क्षादिसचिव्यात् समभिव्याहृतपदार्थेन स्वार्थान्वयानुभावकत्वस्वभावकल्पनात् । न चाशक्यान्वयानुभवेऽतिप्रसङ्गः, शक्यान्वयत्वस्य स्वरूप- सतो नियामकत्वात् । अन्वयसामान्यशक्तावपि अन्वयविशेषज्ञानार्थमाकाङ्क्षादेरवश्यमपेक्षणात् । तस्मात् पदार्थानामन्वितज्ञानजनकत्वेऽपि यथा जातिवाचकपदानां व्यक्तावेकैव शक्तिर्जात्यंशे ज्ञाता व्यक्त्यंशे तु स्वरूपसती व्याप्रियते, तथा एकैव शक्तिरन्वयांशे स्वरूपसती पदार्थांशे ज्ञाता व्याप्रि- यत इति नान्वयांशेऽपि शक्तिः । ज्ञातशब्दशक्तिजन्यज्ञानविषयस्यैव शक्यत्वात् ॥ नन्वन्वये पदानां तात्पर्यं तन्निर्वाहिका च वृत्तिः । न च स्वार्थसम्बन्धिनि स्वान्वये तात्पर्या- ल्लक्षणा, अन्वयविशेषणतया पदार्थोपस्थितेश्च न वृत्तिद्वयविरोध इति वाच्यम् । वाक्यार्थस्यापूर्व्वतयाऽ न्वयस्य स्वार्थसम्बन्धित्वेन पूर्वमज्ञानात् । एंवञ्चान्वयः पदशक्यः वृत्यन्तरं विना पदबोध्यत्वात् प्रकाशिका । कारकविशेष्यामिति । इदमुपलक्षणम् आनयनत्वादिना विशेषप्रकारेण्येत्यपि द्रष्टव्यम्। एवमग्रेऽ- टिप्पणी । सङ्कतेरिति । पदार्थविषयकत्वेनेत्यर्थः । न च शक्यान्वयानुभावे ऽतिप्रसङ्ग इति । सति सप्तमीयम्, अशक्यस्यान्वयस्यानुभवे सति शक्यान्वयनियमभङ्गेऽतिप्रसङ्गः गोपद्रस्य घटानुभावकत्व- प्रसङ्ग इत्यर्थः । शक्यान्वयत्वस्य स्वरूपसत इति । अशक्यं यदि पदमनुभावयेच्छक्यान्व-
४०८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१५ कारिकाव्याख्यायो अन्वितार्थप्रतिपत्त्यन्यथानुपपत्तिरिति चेन्न । अनन्विताभिधानेनाप्युपपत्तेः । आकाङ्क्षानुपपत्तिरस्तु, न हि सामान्यतोऽन्वितानवगमेऽन्वयविशेषे जिज्ञासा स्यात् । न। दृष्टे फलविशेषे रसविशेषजिज्ञासावदानेपतऽप्युपपत्तेः । शब्दमहिम्ना- नमन्तरेण यतः कुतश्चिदपि स्मृतेषु पदार्थेषु अन्वयप्रतीतिः स्यात् । न चैवम् । ततः शब्दशक्तिरवश्यं कल्पनीयेति चेत् । कुतस्तर्हि कविकाव्यानि विलसन्ति । न हि संसर्गविशेषमप्रतीत्य वाक्यरचना नाम । न च स्वोत्प्रेक्षायां प्रत्यक्षमनुमानं शब्द- प्रकाशः । पदार्थवदिति । मैवम् । वृत्तिं विनाऽप्युक्तरीत्या पदानामन्वयबोधकत्वसम्भवेनाप्रयोजकत्वात् । अन्यथा शक्त्या तात्पर्यनिर्वाहदर्शनाद् वृत्त्यन्तरोच्छेदात् । अत एव धूमोऽस्तीत्यत्र शक्त्या धूमो- पस्थितावनुमानद्वारा वह्नौ तात्पर्यनिर्वाहान्न लक्ष्योत्यस्माकं पैतृकः पन्था इति सङ्क्षेपः ॥ उक्तान्यलभ्यत्वमभिविद्याह— अन्वितार्थेति । उक्तमभिप्रेत्याह अनन्वितेति ॥ पदार्थज्ञानशक्तत्वेन ज्ञानादेव पदादाव- श्यकाकाङ्क्षादिसहकारिवशादेवन्वयज्ञानसम्भवान्नान्वये शक्तिः कल्प्यते इत्यर्थः । आकाङ्क्षेति । प्रमाणमिति विपरिणतेन सम्बन्धः । ओदनमित्युक्तेऽन्वयविशेषे जिज्ञासाऽस्ति, सा च सामान्यतो ज्ञाते विशेषतश्चाज्ञाते भवतीति तदन्वथानुपपत्त्याऽन्वयसामान्ये शक्तिः कल्प्यते इत्यर्थः । दृष्ट इति । यथा दृष्टे रूपविशेषे रससामान्यमनुमाय तद्विशेषे जिज्ञासा, तथा पदार्थमात्रस्य कोष्ठगत्यान्वयमात्र- व्याप्तेरन्वयसामान्यज्ञानेनोपपत्तेरित्यर्थः । शब्देति । पचतीत्युक्ते प्रत्यक्षायुपस्थितकलायादेरन्वयबोधो न भवति, किन्तु पदोपस्थापितस्यैवेत्यन्वयविशेषे शब्दोपयोगादन्वयसामान्ये शक्तिः कल्प्येत्यर्थः ॥ तदेतदिष्टपादनमित्यन्तरा पदार्थकरणवादी भट्टोऽन्विताभिधानवादिनमास्कन्दति कुतस्तर्हि प्रकाशिका । पि एतच्चाग्रे स्फुटम् । आकाङ्क्षादीनामावश्यकत्वं युक्तं तत्र हेतुमाह अन्वयसामान्येति । अत एव न चेति पूर्वमियं फक्किका युज्यत इत्याहुः । एवञ्चान्वय इति । घटानयनयोरन्वय इत्यर्थः। तेनान्वयपदशक्यतया न सिद्धसाधनमिति द्रष्टव्यम् । विपरिणतेनेति । प्रमाणाभावादिति मूले षष्ठ्यर्थावरुद्धस्य श्रवणादिति भावः । कोष्ठगत्येति । वस्तुगत्येत्यर्थः । अन्वयविशेषे शब्दोपयोगादिति । पदस्य पदार्थमात्रोपस्थितिरैव यदि व्यापारस्तदा प्रत्यक्षोपस्थितकलायेनापि पचतीति पदस्यान्वयबोधापत्तिरतः पदोपस्थितस्यैव न्यायमते शाब्दबोधविषयत्वमित्यन्वये पदशक्तिः कल्पनीयेति नैयायिकं प्रति प्राभाकरस्याक्षेपः । अन्तरेति । शब्दोपस्थितपदार्थानामेव परस्परम- न्वयः शब्देन बोध्यत इति समाधानमाश्रित्यै यावन्नैयायिको न वक्तीत्यर्थः । अत एव नैयायिकेनायं पूर्वपक्षोऽग्रे न समाहितः, तात्पर्यगत्यैव समाधानादिति ध्येयम् । इष्टापादनमिति । प्रकारान्तरो- मकरन्दः । आवश्यक्याकाङ्क्षादिसाचिव्यादिति यदुक्तं; तत्र तदावश्यकत्वे हेतुमाह अन्वयसामा- न्येति । अत एवेयं फक्किका, न चेत्यस्य पूर्वं युज्यते इति प्राहुः । कोष्ठगत्या वस्तुगत्येत्यर्थः । टिप्पणी । यमेवेति नियमकत्वनादित्यर्थः । अन्वयविशेषे शब्दोपयोगादिति । पचतीत्यादौ कलायमि- त्यायुक्त एव पाककलाययोरन्वयविशेषात प्रतीयेत, नचैकपदस्याप्यभाव इति सर्वसम्मत नियमः अन्वयस्य सामान्यतः शक्यत्वे उपपद्यते सामान्योपस्थितेऽन्वये या जिज्ञासात्मिका ह्याकाङ्क्षा तस्याः शाब्दीत्वाच्छब्देनैव प्रपूरणस्य युक्तत्वात्,, विशेषस्य शब्दज्ञाततापेक्षान्वितशक्तपदद्वया र्थेस्मृतिंपर्य्यवसंज्ञो विशेषः शाब्द इति तज्ज्ञानस्य शाब्दजिज्ञासानिवर्त्तकत्वम् । अन्वयस्याशक्यत्वेऽ- शाब्दे तस्मिन् जिज्ञासा शाब्दी न स्यात्, येन प्रमाणेनावगम्यते सामान्यमुत्सर्गस्तत्तत्प्रमाणेनेन तत्र हि जिज्ञासेति प्रत्यक्षायवगतार्थमानेऽपि जिहासािवृत्तिः स्यादित्युक्तनियमो न स्यादिति भावः ।
तृतीयस्तबके ], शब्दस्य बाधकत्वखण्डनम् । ४०६ बोधनी। (१) यदा हि इति। अपौरुषेयत्वनिश्चयेन दोषाभावे निश्चितेऽनुमानसामग्री पूर्णेत्यनुमानादेव संसर्गसिद्धेर्वे- दानुवाद एव स्यादिति किमविशेष एव सर्वथा लोकवेदयोरित्यत्राह इयांस्तु इति। वेदे वक्तुरभावात् पदार्थानैव पक्षीकृत्य तत्संसर्गः साध्यः, लोके तु वक्तृज्ञानविशेषणतयेत्येतावान्विशेषः। संसर्गस्यानुमानतः सिद्धिरित्यत्र फले तु न विशेष इति। तथा च इति। वेदेऽपि संसर्गस्यानुमानतः सिद्धिरित्यर्थः। किञ्चैवंमनुमानात्संसर्गसिद्धौ न तत्रान्विताभिधाने शब्दस्य प्रमाणमस्ति तत्प्रमाणस्यानन्वितत्वेन प्रती- तेरन्यथाप्युपपन्नतत्वादित्याह न चैवम् इति। वृथा प्रयासः। अन्विताभिधानकल्पन इति शेषः। तस्माल्लोक एव शब्दस्यानुवादकत्वमिच्छतो वेदस्याप्यनुवादकत्वमनिष्टं प्रसज्यत इति श्लोकार्थमुप- संहरति तस्मात् इति। यद्वा लिङ्गेन निर्णीतेऽर्थे शब्दस्यानुवादकत्वं वदतो विलम्बितप्रवृत्तेर्लि- ङ्गस्यैवानुवादकत्वं न शब्दस्येति निर्णीतशक्तेर्वाक्यादिति, पूर्वश्लोकार्थोपसंहारः इति। एवमन्विताभिधानमङ्गीकृत्य लोकवेदयोस्तुल्यत्वमावेदितम्, इदानीं तदपि निराकुर्वन्नाह किं चेदम् इति। अविवादात् इति। अभिहितान्वयवादिनोऽप्यन्वितप्रतिपादनमात्रं संवदन्ति, तद- भिधान एव ते विवदन्त इति। विवादादेव इति। अन्वितप्रतिपादनोद्देशेन पदार्थानभिदधति। पदानीत्यत्रापि नास्माकं विवाद इति। तयदि व्युत्पत्तिवलेनान्वितप्रतिपादनं तर्हि अनुभूतो वा- क्यार्थो नावगम्येतेत्याह नापि संगति इति। न च पदार्थविषययैव संगतया वाक्यार्थप्रतिपादनं तस्याः पदार्थप्रतीतिमात्रोपक्षीणत्वादित्याह नापि स्वार्थ इति। अर्थसंगतिरेव तत्रानुपक्षीणा वा- क्यार्थेऽप्युपयुज्यत इत्युच्येत तर्हि पदार्थवाक्यार्थप्रतीत्योः पूर्वापरभावो न स्यादित्याह नापि सैव इति। अस्तु तर्हि यौगपद्यमित्यत्राह यौगपद्य इति। अवगतपदार्थो हि तेषां योग्यतादिकं प्रति- संधातुं क्षमत इति। नन्वेकस्या एव संगतेः पदार्थवाक्यार्थप्रतीत्योः क्रमेणैव हेतुत्वं काष्ठस्येव ज्वा- लापाकयोरित्यत्राह नापि सैव इति। करणानामेव ह्यवान्तरव्यापारापेक्षेति भावः। ननु तदनुवाद- कत्वं वदतो विलम्बितप्रवृत्तेर्लिङ्गस्यैवानुवादकत्वं संगतिमन्ति पदानि करणं तथापि वाक्यार्थानुगुणसं- गतिभाञ्जि तानि तथा न तु केवलानि, ततश्च संगतिरपि करणशरीरानुप्रवेशिन्येवेत्याह तथापि इति। न तावत् इति। पदार्थविषयत्वेन संगतेस्त्वद्दृष्ट्या सामान्यमात्रविषयत्वात् अस्मद्दृष्ट्या तद्विशिष्टव्यक्तिमात्रविषयत्वाद्वा न तत्संसर्गात्मकवाक्यार्थप्रतिपादनानुगुणा संभवतीति पदार्थप्रय- त्वेऽपि संगतेर्वाक्यार्थप्रतिपादनानुगुण्यापारवत्त्वेन तदानुगुण्यमस्तीत्यत्राह नापि तदनुगुण इति। उक्तं ह्येतत्संगतेरकरणत्वान्नावान्तरव्यापारयोगित्वमिति। नन्वस्तु पदानामेव करणत्वादवान्तर- व्यापारः, स तु संगत्यधीन इति वाक्यार्थप्रत्ययानुगुणत्वं तस्या इत्यत्राह तदनुगुण इति। कर- णानां पदानां पदार्थप्रतिपादनलक्षणोऽवान्तरव्यापारः संगत्यधीन इत्यत्र नास्माकं विवाद इति। प्रकाशः। इति। अन्यथा मानाभावात् संसर्गज्ञानानुदयान्नवकाव्यरचना न स्यादिति पदार्था एव चिन्तावशो- पस्थिता अन्वयबोधकाः। यत्रापि पदात् पदार्थोपस्थितिस्तत्रापि पदार्था एवान्वयबोधकाः, न तु पदान्यपि, पदार्थस्मृत्यैवान्यथासिद्धत्वात्, कथमन्यथा श्वेतरूपदर्शनाद्धेषाशब्दश्रवणात् खुरविक्षेप- शब्दश्रवणाच्छब्दं विना श्वेतोऽश्वो धावतीति धीः। न चैवं पचतीत्युक्ते प्रत्यक्षोपस्थितकलायेनान्व- प्रकाशिका। पस्थितपदार्थानामपि शाब्दोऽन्वयबोधो भवतीत्येति प्राभाकरोक्तान्वितशक्तिमुक्तावसह्मानो भट्टः मकरन्दः। अन्विताभिधानवादिनमिति प्रभाकरमित्यर्थः। ( १ ) इयं बोधिनी ४०४ पृष्ठं प्रारभ्य ४०८ पृष्ठपर्यन्तमूलव्याख्याऽऽदर्शपुस्तकाशुद्ध्या संपादकप्रमादाच्चात्रागता तत्र पठितव्या । ५२ न्या० कु०