भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ५४७ कम् । स च विकल्पयितव्य आलोच्यते, यो विशेषणज्ञाननिरपेक्षेणेन्द्रियेण विज्ञा- प्यते । यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव सामर्थ्यान्नायं विधिः । स्वभावप्राप्तौ सत्यामप्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपा- दावभ्युपगता, इह त्वनवस्थादुःस्थतया न तदभ्युपगमो, न तु स्वभावप्रत्यासत्ति- रेतावत्तैव विफलायते । न चेदेवं, प्रमाणान्तरेऽपि सर्वमेतद् दुर्घटं स्यात् । तथाहि— बोधनी । विशिष्टज्ञानगोचरत्वमिति द्वितीयस्यापि चोद्यस्य तमेवोत्तरतया व्याचष्टे स च विकल्पयितव्य इति । तैरेव विकल्पवेद्यैः भवद्भिः पूर्वमालोचनविषयैर्भवितव्यं ये प्रतियोगिनिरपेक्षैरेवेन्द्रियैः ज्ञाप्यन्ते यथा घटादयः, ये तु प्रतियोगिज्ञानपुरःसरमेव जायन्ते यथा ज्ञानादयः तेषां निर्विकल्पक- वेद्यत्वासंभवात् न तत्पूर्वकत्वमिति । अथ पाठक्रममनादृत्यार्थक्रमेण द्वितीयं पादमवसरे व्याख्यास्यंस्तृतीयचोद्योत्तरतया तृतीयं व्याचष्टे स्वभावेति ॥ स्वाभाविके हि विशेषणविशेष्ये सम्बन्धे सत्यपि रूपा- दिष्वधिकः समवायादिसम्बन्धो दृष्टत्वादेव स्वीक्रियते, तद्धेतुकत्वेनाभावे तु स्वभावतः प्राप्तिरस्ति न च सम्बन्धान्तरं दृश्यत इति भावः । तथापि तदभ्युपगमोऽनवस्थादुस्थ इत्याह इह तु इति ॥ एतावता संबन्धान्तराभावमात्रेणेति तुरीयं पादं व्याचष्टे न चेदेवम् इति । दौर्घट्यमेवाह तथाहि इति । प्रत्यक्षं साक्षादनुमानादीनि तु परम्परया निर्विकल्पकपूर्वकाणि प्रकाशः । रित्यर्थः । स चेति । जन्यविशेषणज्ञानासत्कृतेन्द्रियजन्यज्ञानगोचरत्वं निर्विकल्पकप्रयोजकमिति प्रमाणमुखी व्याप्तिरित्यर्थः । अभावस्तु प्रतियोग्यादिविशेषणज्ञाननियतज्ञानविषयत्वेन विशिष्टज्ञाने- कविषयत्वान्न तथेत्याह यस्त्विति । प्राप्त्यन्तरे इति व्याचष्टे स्वभावेति । यद्यपि घटे रूप- समवाय इति नानुभवः, तथापि रूपादेः प्रत्यक्षत्वेनेन्द्रियसन्निकर्षाश्रयत्वात् संयोगावाधेनेन्द्रियसम्ब- न्धघटकतया संयुक्तसमवायादिकल्पनादित्यर्थः । ननु ज्ञानघटयोरिव द्रव्येण रूपादिभिः स्वरूपस- म्बन्धे नार्थान्तरम् , इन्द्रियसंयुक्तविशेषणतयैव रूपादिभानोपपत्तेः । मैवम् । सम्बन्धानुमितौ हि न स्वरूपसम्बन्धो विषयः, तत्स्वरूपाणामनन्तत्वेन गौरवात् , किन्तु पक्षधर्मतावलादेक एव सम्ब- न्धस्तद्विषयो लाघवादिति भावः । इह त्विति । यद्यपि सम्बन्धद्वयसिद्धौ नानवस्था, तथात्वे वा समवायोऽपि न स्यादनवस्थाऽऽपादकत्वात् , तथाप्याभावो यद्यतिरिक्तसम्बन्धवान् स्यात् सत्तावान् स्यादित्यव्यवस्थैवानवस्थेत्यर्थः । इन्द्रियञ्च नाप्राप्तग्राहकमिति संयोगादिवाधेनैहैव तत्प्राप्तिर्विशेष- णता कल्प्येति भावः ॥ प्रमाणान्तरेऽपीति । अनुपलब्ध्याख्यमानान्तरस्वीकारेऽपीत्यर्थः । निर्वि- प्रकाशिका । ज्ञानगोचरमात्रगोचरत्वनिर्विकल्पकजन्यत्वं प्रयोजकमित्यर्थः । घटे रूपसमवाय इति । सर्वसिद्ध इति शेषः । सम्बन्धघटकतयेति । सम्बन्ध्ररूपतयेत्यर्थः । तथात्व इति । अनवस्थामूलत्वेन द्वितीयसमवायत्याग इत्यर्थः । सत्तावानिति भावः स्यादित्यर्थः । तेन न सामान्यविशेषाभ्यां व्यभि- चारः, तदुभयभिन्नत्वेनापादकविशेषणाद्वा संयोगादिवाधेनेति । अद्रव्यत्वेन संयोगावाधात् ध्वंसस्य समवायिकारणनाशान्नाशप्रसङ्गेन च समवायवाधादित्यर्थः । निर्विकल्पकविश्रान्तत्वं यदि साक्षात्कारप- मकरन्दः । सम्बन्धघटकतयेति । सम्बन्ध्रूपतयेत्यर्थः । सत्तावानिति । न च सामान्यविशेषाभ्यां व्यभिचारः, तद्भिन्नतवे सतीत्यापादकविशेषणात् । वस्तुतो भावः स्यादित्यर्थः, तेन नोक्तदोषः । ननु साक्षात्कारत्वावच्छिन्नमालोचनपूर्वकंऽनुमानादिवदभावज्ञानेऽप्यस्त्येव, तद्धेतुप्रतियोग्यादिज्ञानस्य

४५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २२ कारिकान्याख्या- सर्वमेव मानं साक्षात्परम्परया वा निर्विकल्पकविश्रान्तम् । न ह्यनुमानादिकमप्य- नालोचनपूर्वकम् । ततोऽनालोचितोऽभावः कथमनुपलब्ध्याऽपि विकल्प्येत । न च तया तदालोचनमेव जन्यते, प्रतियोग्यनवच्छिन्नस्य तस्य निरूपयितुमशक्यत्वात्, शक्यत्वे वा किमपराद्धमिन्द्रियेण । तथा सम्बन्धन्तरगर्भत्वनियमेन विशेषण- त्वस्य, मानान्तरेऽपि कः प्रतीकारः ? तदभावस्य तदानीमपि समानत्वात् । परस्य तादात्म्यमस्तीति चेत् । ननु यद्यसावस्ति, अस्त्येव, न चेन्नैव । न ह्यभ्युपगमेनार्थाः क्रियन्ते, अनभ्युपगमेन वा निवर्त्तन्ते इति । अवश्यमभ्युपगन्तव्यत्वे कारणत्वं सिद्धयेद्, न तु मानान्तरत्वम् । अन्यथा भावोपलम्भेऽप्यभावानुपलब्धिरेव प्रमाणं स्याद्, नेन्द्रियम् । अभावोपलम्भे भावानुपलम्भवद् भावोपलम्भे अभावानुपलम्भ- स्यापि वज्रलेपायमानत्वादिति ॥ २२ ॥ बोधनी । तेषां प्रत्यक्षपूर्वकत्वात् तस्य च निर्विकल्पकपूर्वकत्वादिति ॥ यतः सर्वस्यापि प्रमाणस्यायं स्वभावः तस्मादनुपलब्ध्या प्रमाणान्तरभूतयाप्यालोचितपूर्व एवाभावो विकल्पनीय इत्याह तत इति । अस्तु तर्ह्यनुपलब्ध्यैवालोचनमित्याह न च इति । आलोचनविषयत्वसंभवे चाभावस्यास्माकमपीन्द्रियेण तदालोचनं भविष्यतीत्याह शक्यत्वे वा इति । एतेन द्वितीयः पादो व्याख्यातः । परेणापि प्रमाणेनाभावः कस्यचिद्विशेषणत्वेन वा ग्राह्यः, ततश्च सम्बन्धन्तरपूर्वकत्वनियमे विशेषणविशेष्यभा- वस्यानवस्थाप्रसङ्गत्वपि तुल्य इत्याह तदभावस्य इति । ननु संयोगाद्यभावेऽपि तादात्म्यात्मक- सम्बन्धन्तरमभ्युपगम्यते भाट्टैस्ततो न तुल्यत्वमित्याह परस्य इति । यदि हि तादात्म्यं प्रमाण- तोऽस्ति ततोऽस्तीति स्यात् न चैवं प्रमाणाभावादित्याशयेनाह ननु इति । नन्वस्माभिस्तथाचेदेतद- भ्युपगम्यत इत्यत्राह न हि इति । न ह्यभ्युपगमसदभावमात्राभ्यां वस्तुनः सदसत्त्वसिद्धिरिति । यत्त्ववश्याभ्युपगन्तव्यत्वादनुपलब्धेः सैव प्रमाणमस्त्विति तत्राह अवश्येति । यदावश्याभ्युप- गम्यत्वमात्रेणानुपलब्धेः प्रमाणान्तरत्वमपि सिद्धयेत् तर्हि भावोपलम्भेऽपि तदभावानुपलब्धिरेव प्रमाणं भवेत् भावोपलम्भसमयेऽभावानुपलब्धेरवर्जनीयत्वादित्याह अन्यथा इति ॥ २२ ॥ प्रकाशः । कल्पकेति । प्रमाणविषयत्वं निर्कल्पकविषयत्वव्याप्यमित्यर्थः । तदभावस्य सम्बन्धन्तराभावस्य । तदानीमपि मानान्तरस्वीकारेऽपि । परस्येति । भट्टानामधिकरणे विशेषणत्वं नाभावस्य, किन्तु तादात्म्यमित्यर्थः । भावाभावयोर्विरोधान्न तादात्म्यं, तथात्वे वा संयोगादिनेवाभावग्रहः स्यादित्या- शयेनाह नन्विति । यद्यभावोऽस्ति तदा विशेषणत्वमस्त्येवेत्यर्थः । अवश्यमभ्युपगन्तव्यत्वादि- त्यत्राह अवश्येति । अन्यथेति । अभावज्ञाने यथा भावोपलम्भः प्रतिबन्धकस्तथा भावज्ञानेऽप्य- प्रकाशिका । रम्परासाधारणनिर्विकल्पकप्रयोज्यत्वमुच्यते तदभावज्ञाने(१)ऽस्त्येवेति प्रत्यक्षविषय इत्यपीति भावः । लिङ्गासङ्गतेराह यद्यभावोस्तीति । अभावत्वे च संयोगादिनेव ग्रहापत्तेरुक्तत्वादिति भावः । अभावोपलम्भः प्रतिबन्धक इत्यनन्तरमिति तदभाव एव प्रमाणमिति शेषः । इयञ्च युक्तिरसमी- मकरन्दः । तत्पूर्वकत्वनियमादिति परस्य नानिष्टमित्यत आह प्रमाणविषयत्वमिति । तथा चाप्रयोजकत्वादिना यथा नेयं व्याप्तिस्तथा प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वव्याप्तिरपीति भावः । लिङ्गासङ्गतेराह यद्यभावोऽस्तीति । भावरूपत्वे च तस्य संयोगादिनैव ग्रहापत्तेरित्युक्तत्वादिति भावः । तथेति । (१) प्रतियोग्यादिनिर्विकल्पप्रायोज्यत्वादिति प्रकृतेऽनिष्टमत आह प्रमाणविषयत्वमिति । तथा- चेयं व्याप्तिरप्रयोजिका तथा निर्विकल्पकविषय एव ।

५. पञ्चम स्तबक: कार्यत्व, धृत्यादि नव हेतुक ईश्वर-साधन एवं उपसंहार

तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम्। ४४६ प्रत्यक्षादिभिरेभिरेवमधरो दूरे विरोधोदयः प्रायो यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते ॥ तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवं देवानामपि देवमुद्भवदतिश्रद्धाः प्रपद्यामहे ॥ २३ ॥ इति तृतीयः स्तवकः ॥ ३ ॥ बोधनी । अथ परमेश्वरप्रतिपत्तिव्याजेन परिच्छेदार्थमुपसंहरति प्रत्यक्षेति । बाधकत्वेन शङ्किता- नामपि सर्वेषां प्रमाणानां कार्यत्वेनेश्वरायत्तात्मलाभत्वादद्यनुमानस्याश्रयासिद्धेरपि तदधीनत्वादागमस्य च प्रामाण्येऽपि तत्परतन्त्रत्वादुक्तं यन्मुखवीक्षणेति । प्रत्यक्षस्योत्पत्तौ तदपेक्षायामपि प्रामाण्ये तदनपेक्षत्वादुक्तं प्राय इति । तदयमर्थः-एवमीश्वरस्याधरैरर्वाक्प्रवर्त्तमानैस्तमपि विषयीकर्त्तुम- शक्नुवद्भिरिति यावत् । यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते तैः प्रत्यक्षादिभिस्तस्य विरोधो बाधश्च दूरे, तमेवंभूतं सर्वेषां परमपुरुषार्थप्राप्तिहेतुत्वादनुविधेयमेकं समेनाधिकेन वा द्वितीयेन रहितं असमायां स्वच्छन्दतः प्रवणलक्षणायां लीलायामवद्धरतिं परमेश्वरमुद्भवदतिश्रद्धावन्तो वयं प्रपद्यामह इति ॥ २३ ॥ इति श्रीमद्रामदेवमिश्रसूनोर्वरदराजस्य कृतौ कुसुमाञ्जलीटीकायां तृतीयः परिच्छेदः ॥ प्रकाशः। भावोपलम्भः प्रतिबन्धकः स्यादित्यर्थः । एतच्च भावोपलब्धावभावानुपलब्धिः पृष्ठलग्नेवेति व्याच- क्षाणैरस्माभिः परिशिष्टप्रकाशे विप्रञ्चितमिति तत्रैवानुसन्धेयम् ॥ २२ ॥ स्तवकार्थमुपसंहरन्नेवेश्वरन्नतिं निवध्नाति प्रत्यक्षादिभिरिति । यस्येश्वरस्य मुखवीक्षणैक- विधुरैरैभिर्ग्राह्यकमानवाधितैः प्रत्यक्षादिभिर्विरोधोदयोऽधरः । अत एव, दूरे । सर्वमनुविधेयं वश्यं यस्य । असमा चासौ स्वच्छन्दा चेतनान्तराप्रयोज्या या लीला, सैवोत्सवो यस्य, स तथा । दुःखा- भावैकनिदानत्वात् । अत एवोद्भवदतिश्रद्धा वयं, तं देवानामपि देवं स्तुत्यं प्रपद्यामहे इत्यर्थः ॥२३॥ इति श्रीमन्महामहोपाध्यायश्रीवर्धमानविरचिते न्यायकुसुमाञ्जलिप्रकाशे तृतीयः स्तवकः ॥३॥ प्रकाशिका । चीनेत्यत्र प्रतिपादितं मयेत्याह एतच्चेति । तदधिकरणीयाभावोपलम्भाभावस्य तदधिकरणीय- भावग्राहकत्वं वाच्यमन्यथातिप्रसङ्गात् एवं तत्सम्बन्धावच्छिन्नत्वाभावोपलम्भाभावस्य तत्सम्बन्धा- वच्छिन्नभावग्राहकत्वमन्यथातिप्रसङ्गादेव । तथा च निरधिकरणाभावग्रहे निर्विकल्परूपभावग्रहेऽचेन्द्रि- मेव करणं वाच्यमित्यावश्यकत्वादन्यत्रापि तथा, अभावधीस्तु निरधिकरणा निर्विकल्पकरूपा च न सम्भवतीति वैषम्यमिति तस्य तात्पर्यम् ॥ २२-२३ ॥ इति महामहोपाध्याय परनामकमैघ ठक्कुरश्रीभगीरथविरचितायां कुसुमांजलिप्रकाशिकायां तृतीयस्तवकः ॥ मकरन्द । तथा च भावज्ञानेऽप्यभावानुपलब्धिरेव प्रमाणं स्यादिति भावः ॥ २२-२३ ॥ इति महामहोपाध्यायश्रीरुचिदत्तविरचिते कुसुमाञ्जलिमकरन्दे तृतीयः स्तवकः ॥ ५७ न्या० कु०

श्रीगणेशान नमः ॥ न्यायकुसुमाञ्जलौ चतुर्थः स्तबकः ।

ननु सदपीश्वरज्ञानं न प्रमाणं, तल्लक्षणायोगात्, अनधिगतार्थगन्तुस्तथाभा- वात्, अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात् । न च नित्यस्य सर्वविषयस्य चानधि- गतार्थता, व्याघातात् । अत्रोच्यते— अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृक् ॥ यथार्थानुभवो मानमनपेक्षतयेष्यते ॥ १ ॥ प्रकाशः । सत्त्वेऽपि तस्याप्रमाणत्वादिति चतुर्थीं विप्रतिपत्तिमुत्थापयति नन्विति । गन्तुर्बोधकस्य । अनधिगतार्थगन्तृत्वञ्च फलप्राक्कालिकसमानाधिकरणज्ञानाविषयविषयकत्वम् । वेदो न प्रमाण- मप्रमाऽनुभवमूलकत्वादिति भावः । तदेतल्लक्षणं यथार्थत्वेन विशेषितं, न वा ? आद्ये प्रमाभूतधारावहनबुद्धावव्यापकम्, अन्त्ये च भ्रमेऽतिव्याप्तिरित्याह अव्याप्तेरिति । दृग् दर्शनं, भावपरतया । अनधिगतार्थविषयकत्वं न लक्षणमित्यर्थः । स्वमते प्रमाणलक्षणमाह यथार्थेति । अत्रोक्तदोषाभावादित्यर्थः । ननु यथार्थानुभववद् यथार्थस्मृतिरपि प्रमा किं न स्यात् ? यथार्थत्वस्यैव तन्त्रत्वाद्वानुभवत्वस्य व्यर्थत्वादित्यत आह अनपेक्षतयेति । स्मृतेर्या- प्रकाशिका । कर्तृभ्रमनिरसाय भावपरतामाह गन्तुरिति । ननु पराधिगतेऽपि परस्य ज्ञानमेव प्रमा स्यादत आह फलेति । उत्तरकालीनं तु ज्ञानमादायाव्याप्तिरिति प्राक्कालिकान्तम् । अन्यदीयज्ञानमादा- याव्याप्तिरिति समानाधिकरणेति । ईश्वरज्ञानाप्रमात्वे का क्षतिरत आह वेद इति । यद्यपि भट्टस्येश्वरानङ्गीकारेण हेतोरसिद्धिस्तथापीश्वराङ्गीकारे वेदोऽप्रमानुभवमूलकः स्यात्तथाचाप्रमाणं स्या- दिति तर्करीत्यैतद् द्रष्टव्यम् । भ्रमेऽतिव्याप्तिरिति । अतिव्याप्तिरपीत्यर्थः । भावपरत्वेन धर्मिम- लाभेऽपि न लक्षणलाभ इति दृग्पदस्य ज्ञानत्वपरतामाह अनधिगतार्थविषयकत्वमिति ! न लक्षणं प्रमाणलक्षणम् । प्रमाणेति । प्रमाणलक्षणमित्यर्थः । जन्यानुभवमात्रस्यैव सापेक्षत्वादप्रमात्वापत्तिरत मकरन्दः । ननु पराधिगतेऽर्थे परस्य प्रमोत्पत्तेरनधिगतार्थगन्तृत्वं तत्राव्याप्तमत आह फलेति । उत्तर- कालीनस्वज्ञानमादायाव्याप्तेराह कालिकान्तम् । एतावता किमित्यत आह वेद इति । यद्यप्येवं भट्टस्य स्वतोऽसिद्धिः, तथाप्येवमप्रमाऽनुभवमूलको वेदः स्यात्, तथा चाप्रमाणं स्यादिति तर्कविधयै- तद् द्रष्टव्यम् । प्रमाणेति । प्रमालक्षणमित्यर्थः ॥ टिप्पणी । गन्तुर्बोधकस्येति । अर्थविषयकत्वेन बोधजनकस्येत्यर्थः । अनुव्यवसायं प्रति व्यवसायस्य हेतुत्वात् । अनधिगतार्थगन्तृत्वञ्चेति । अनधिगतार्थे या गतिः प्राप्तिः विषयतात्मकसम्बन्धस्त- त्कर्तृत्वं निरूपकत्वम् । फलप्राक्कालिकेति । अव्यवहितेत्यादिः ।

चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५१ न ह्यधिगतेऽर्थे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात्। न चोत्पद्य- मानाऽपि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात् । नापि पूर्वावि- विशिष्टतामात्रेणाप्रामाण्यम् । उत्तराविशिष्टतया पूर्वस्याप्यप्रामाण्यप्रसङ्गात् । तद- नपेक्षत्वेन तु तस्य प्रामाण्ये तदुत्तरस्यापि तथैव स्यादविशेषात् । छिन्ने कुठारा- दीनामिव परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पा- दानुत्पादाभ्यां विशेषात् । तत्फलं प्रमैव न भवति, गृहीतमात्रगोचरत्वात् स्मृति- वदिति चेत्। न। यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात् । अनधिगतार्थत्वे प्रकाशः। यार्थ्येऽपि स्वकारणीभूतान्यूनानतिरिक्तविषयानुभवयाथार्थ्यापेक्षा, न त्वनुभवस्येत्यर्थः। अतदधी- नत्वात्- प्रमात्रपेक्षानधीनत्वादित्यर्थः । पूर्वाविशिष्टता पूर्वज्ञानान्यूनानतिरिक्तविषयतेत्यर्थः । यदि चोत्तरज्ञानानपेक्षं पूर्वज्ञानमिति स्वविषये तत् प्रमाणं, तदा पूर्वज्ञानानपेक्षमुत्तरमपि तथेत्याह तदनपेक्षत्वेनेति । यद्यप्युत्तरज्ञानं विशिष्टज्ञानत्वेन विशेषणज्ञानाऽऽत्मकपूर्वज्ञानापेक्षम् , अन्यथा सामग्रीतौल्ये धारावाहिधियां क्रमो न स्यात् । तथापि विशेषणमात्रविषयतया तथा, न विशिष्टवि- षयतयेति भावः । फलोत्पादेति । छिन्ने छिदा न सम्भवति, ज्ञाते तु ज्ञानान्तरं सम्भवत्येवेत्यर्थः । प्रकाशिका। आहान्यूनेति । धारावाहिकबुद्धेरनपेक्षत्वाभावो मा भूदिति स्वकारणीभूतेति । अन्यूनविषय- कत्वेन च कारणत्वं विवक्षितमिति नोक्तदोषः, अनतिरिक्तपदं यद्यस्ति तदप्यविवक्षितार्थम् । न च पूर्वज्ञानप्रामाण्यापेक्षा धारावहनस्थले नोत्तरज्ञान इत्येवानातिप्रसङ्गे किमिति तथा कारणता विवक्षितेति वाच्यम् । तदपेक्षितत्वं हि तन्नियतत्वम्, तच्च तत्राप्यस्त्येव स्मृतावपि तदेव तत्, अनुमितौ लिङ्ग- परामर्शप्रामाण्याधीनप्रामाण्यापातादतिव्याप्तिरित्यतोऽप्यन्यूनपदं समानाधिकरणपदमधिकं प्रवेशनी- यम् । अन्यथा वक्तृयथार्थवाक्यार्थज्ञानाधीनप्रामाण्याधीनप्रामाण्ये शाब्दे ज्ञानेऽतिव्याप्तेरिति । तदा पूर्वज्ञानानपेक्षमिति । अन्यूनविषयकत्वेन पूर्वज्ञानस्याकारणतया निरुक्तापेक्षा नास्तीत्यर्थः। इदमेवाग्रे व्यक्तीकरिष्यति । न विशिष्टविषयतयेति । क्रमो न स्यादिति । यद्यपि विशेषण- मकरन्दः। नन्वेवमनुभवोऽपि प्रमा न स्यात्, तस्यापि विशेषणज्ञानादिसापेक्षत्वादित्यत आह स्वकार- णीभूतेति । एतच्च धारावाहिके तादृशपूर्वज्ञानयाथार्थ्यापेक्षयाथार्थ्यतया उत्तरकालेऽतिव्याप्तिवारणा- यान्यूनानतिरिक्तविषयकत्वेन कारणत्वं विवक्षितम् । तस्य च विशेषणमात्रविषयतया तथात्वमिति नोक्तदोषः । न च तत्सापेक्षमेव याथार्थ्यं तस्येति वाच्यम् । तत्सापेक्षत्वं हि तन्नियतत्वम् , तच्च तत्रापि । स्मृतावपि तदेव तत् । लिङ्गज्ञानयाथार्थ्यापेक्षितवमादायातिव्याप्तिवारणायान्यूनेति । वस्तुतः पूर्वोक्तातिव्याप्तिवारणार्थमपि तत् । अनतिरिक्तपदं चिन्त्यम् , अतएव परिमले नास्तीति । किञ्च स्मृतावपि पूर्वानुभवस्यान्यूनविषयतयैव जनकत्वम् । अतिरिक्तविषयानुभवादपि तदंशे संस्का- रोद्बोधे स्मृतिदर्शनात् । एवञ्च वक्तृवाक्यार्थज्ञानयाथार्थ्यापेक्षित्यमादाय शाब्दानुभवेऽतिव्याप्तिरि- त्यपि चिन्त्यम् । अन्यथेति । यद्यपि विशेषणज्ञानत्वेनैव हेतुत्वम् तथापि क्रमासम्भवः, तथापि फलंबलेन तत्त- द्विशेषणज्ञानत्वेन विशेषसामग्रीत्वमिति क्रम इति भावः । न च स्वरूपसत्क्रमिकक्षणोत्पत्तिकत्वेन क्रमः, सामग्रीतौल्ये तदेव नेत्याशयात् ॥ टिप्पणी । तथापि विशेषणमात्रविषयतयेति । अनधिगतार्थविषयकत्वप्रामाण्यवादिनं विशेषण- विषयत्वेनापि प्रामाण्याङ्गीकारात् तद्वति तत्प्रकारकत्वप्रामाण्यवादिनामेव विशिष्टविषयकत्वे प्रामाण्या-

४५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां सिद्धसाधनात्, साध्यसमत्वाच्च। व्यवहारनिषेधे तन्निमित्तविरहौपाधिकत्वात् , बाधितत्वाच्च। न चानधिगतार्थत्वमेव तन्निमित्तं, विपर्ययेऽपि प्रमाव्यवहारप्रस- ङ्गात्। नापि यथार्थत्वविशिष्टमेतदेव, धारावहनबुद्ध्यव्याप्तेः। न च तत्तत्काल- प्रकाशः। साध्यसमत्वादिति। प्रमात्वाभावस्य गृहीतमात्रग्राहित्वरूपतया साध्याविशेषादित्यर्थः। व्यव- हारेति। प्रमाशब्दवाच्यत्वव्यतिरेके साध्ये तत्प्रवृत्तिनिमित्तरहितत्वमुपाधिरित्यर्थः। न चायमु- पाधिः साधनाध्यापक इत्याह न चेति। धारावहनेति। इन्द्रियार्थसन्निकर्षाधारस्तृतीयक्षण- स्तदिन्द्रियार्थसन्निकर्षजज्ञानोत्पत्त्याधारः, अव्यासक्तमनसो यावत्सहकारिसाकल्ये सत्यनाद्येन्द्रियस- न्निकर्षाधारक्षणत्वाद् द्वितीयक्षणवदिति धारावहनबुद्धौ मानमाहुः। ननु सूर्यगत्यादिरूपकालावच्छेदकोपाधिविशिष्टतत्तदर्थविषयत्वेन तासामप्यधिकविषयकत्वम् , एकस्मिन् क्षणे यौगपद्यनिषेधेन तस्यावश्यकत्वादित्यत आह न चेति। 'घटोऽयं घटोऽयमित्यादि- प्रकाशिका। ज्ञानत्वेनैव हेतुत्वात् क्रमसम्भव एव, तथापि फलबलेन तत्तद्व्यक्तित्वेनैव उत्तरोत्तरं तत्- ज्ञानं प्रति विशेषसामग्रीत्वमिति भावः। यद्यपि स्वरूपसत एव क्रमिकक्षणोत्पत्तिकत्वेनैव क्रमोप- पत्तिः, तथापि प्रथमज्ञानोत्पत्तिकाल विनिगमकाभावेन द्वितीयज्ञानस्यैवोत्पत्तिः स्यादिति भावः। इन्द्रियार्थेति। सन्निकर्षोत्पत्त्यधिकरणक्षणतृतीयक्षण इत्यर्थः। इतरसामग्रीसहकृतत्वं च प्रथमक्षण- पदार्थविशेषणम्। तेन प्रतिबन्धाकरणेनोत्पत्त्यव्यवधानेन यत्र सन्निकर्षेण ज्ञानं जनितं तत्र तृतीयक्षणे ज्ञानोत्पत्तेरपि नाभिमतासिद्धिरित्यर्थान्तरमिति प्रत्युक्तम्, साध्ये च पुरुषान्तरीयज्ञानमादा- यार्थान्तरमिति तदिति सन्निकर्षविशेषणम्। द्वितीयक्षणोत्पन्नज्ञानस्य तृतीयक्षणसत्त्वेनार्थान्तरमित्यु- त्पत्तीति। व्यासङ्गदशायां व्यभिचार इत्यव्यासक्तेति। व्यासङ्गदशायां ज्ञानोत्पादेऽपि तद्दि- न्द्रियार्थसन्निकर्षज्ञानाभावाद्भवति व्यभिचारः। यद्यपि व्यासङ्गदशायां तदिन्द्रियमनःसंयोगाभा- वायावदित्यादि विशेषणादेव न व्यभिचार इत्यव्यासक्तेत्यादि व्यर्थम्। तथापि तदितरयावत्सह- कारिसाकल्यमेव विशेषणं यावदित्यादिना विवक्षितम्। आलोकादिकिञ्चित्कारणसमवधानदशायां व्यभि- चार इति यावदिति विशेषणम्। साकल्ये समवधान इत्यर्थः। सन्निकर्षोत्पत्तिक्षणे व्यभिचार इत्य- नाद्येति क्षणविशेषम्। इन्द्रियपदं तदिन्द्रियपरमतो न पुरुषान्तरीयसन्निकर्षमादाय व्यभिचारः । इन्द्रिये व्यभिचार इति क्षणपदम्। नन्वेकक्षणोत्पन्नज्ञानद्वयस्थले द्वितीयज्ञाने तथाप्यव्याप्तिरत आह एकस्मिन्निति। ननु ज्ञानस्य क्षणविषयत्वे विषयीभूतनियामकाभावादेकक्षणेपि ज्ञानद्वयापत्तिरत मकरन्दः। तृतीयक्षण इति सन्निकर्षापेक्षया। एतच्च विनश्यदवस्थप्रथमज्ञानाधारत्वेनार्थान्तरप्रसङ्गिनि- रासाय तन्त्रे उत्पत्तीति। व्यासङ्गाधारक्षणे व्यभिचारवारणाय अव्यासक्तेति। यद्यपि तदा ज्ञानमुत्पद्यत एव, तथापि तदिन्द्रियार्थसन्निकर्षज्ञानाभावाद् व्यभिचारः। यद्यप्येवं व्यासङ्गाभावस्यापि हेतुत्वाद् यावत्सहकारीत्यादिविशेषणाभावादेव न व्यभिचार इति तद्वैय्यर्थ्यम्, अन्यथा तदा ज्ञानोत्पत्त्यवश्यम्भावापत्तेः। तथापि तदतिरिक्तयावत्सहकारिविवक्षापक्षे तद् द्रष्टव्यम्, प्रतिबन्धकाभावकारणतावच्छेदकत्ववादिमतेनेदमित्यन्ये। आलोकादिकिञ्चित्सहका- रिविरहदशायां व्यभिचारादाह यावदिति। साकल्यसमवधान इत्यर्थः। सन्निकर्षोत्पत्त्याधारक्षणे व्यभिचारादाह अनाद्येति क्षणविशेषणम्। इन्द्रियपदं तदिन्द्रियपरम्, अतो नेन्द्रियान्तरसन्निक- र्षमादाय व्यभिचारः। ज्ञानोत्पत्त्यनाधारेन्द्रिये व्यभिचारादाह क्षणेति। टिप्पणी। ऽङ्गीकारदतो नासङ्गतिः। अनाद्येन्द्रियसन्निकर्षेति। इन्द्रियसन्निकर्षोत्पत्तिक्षणे व्यभिचार-

चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५३ कलाविशिष्टतया . तत्राप्यनधिगतार्थत्वमुपपादनीयम् । क्षणोपाधीनामनाकलनात् । न चाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टता प्रकाशते इति कल्पनीयम् , स्वरूपेण तज्जननेऽनागतादिविशिष्टानुभवविरोधात् । तज्ज्ञानेन तु तज्जनने सूर्यगत्यादी- नामज्ञाने तद्विशिष्टतानुत्पादात् । न चैतस्यां प्रमाणमस्ति । नन्वनुपकार्यानुपकार- कयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः ? । व्यवच्छित्तिप्रत्यायनेन व्यवच्छित्तौ स्वभावेन, अन्यथा तवाप्यनवस्थानादिति । प्रकाशः । बुद्धिधारायां विषयभेदानुपलम्भाज्ज्ञानायौगपद्यं स्वरूपसत्क्रमिकक्षणभेदमादायेति भावः । उपाधयो यदि स्वसत्तया विशिष्टतां जनयेयुः, तदाऽनधिगतधर्माणामविद्यमानतया तद्विशिष्टताऽनुभवो न स्यादित्याह स्वरूपेणेति । अथ स्वासत्त्वेऽपि ज्ञानसत्तया ते तां जनयन्ति, तत्राह तज्ज्ञानेनेति । नन्वसन्तस्ते सत्ता- मात्रेण, नासन्तश्च स्वज्ञानसत्तया तां जनयन्तीति नोक्तदोष इत्यत आह न चैतस्यामिति । एतस्यां विशिष्टतायाम् । विशेषणविशेष्यभावानुपपत्तिं तत्र मानमाह नन्विति । विशेषणेन विशेष्ये विशिष्टताख्यधर्मोत्पादनं विनैव स्वसम्बन्धादेव व्यावृत्तिबुद्धिजननेन तदुपपत्तिरित्याह व्यवच्छि- त्तीति । न च विशिष्टज्ञाने सा भासते, विशेषणविशेष्यसम्बन्धातिरिक्तायास्तस्या अननुभवात् । ननु चाभावविशिष्टबुद्धेर्विशिष्टज्ञानत्वात् संयोगादिबाधेन वैशिष्ट्यमेव सम्बन्धो विषयोऽस्तु । मैवम् । तद्धि प्रत्यभावव्यक्ति भिन्नमभिन्नं वा ? आद्ये तत्तत्स्वरूपरूपा विशेषणतैवास्तु, किमनन्त- वैशिष्ट्येन । अन्त्ये घटाभाववति पटवति घटाभावधीप्रसङ्गः । घटाभावपटाभाववैशिष्ट्ययोरभेदात् । तद्वैशिष्ट्यसत्त्वेऽपि तत्र पटाभावो नास्तीति चेन्न । पटाभावाभावस्य भावत्वे पटस्य प्रतिबन्धकतया तदभावस्य हेतुत्वात् । तस्य च वैशिष्ट्यसम्बन्धेन तत्र सत्त्वात् । अभावत्वे च तस्यापि वैशिष्ट्य- प्रकाशिका । आह ज्ञानायौगपद्यमिति । ननु चेति । यद्यप्यभावे वैशिष्ट्यसम्बन्धसिद्धावपि घटोऽयमित्यादि- धारावहनबुद्धावव्याप्तिर्न परिहृता, तथापि तद्दृष्टान्तेन ज्ञानकालानामपि वैशिष्ट्यं स्वीकरणीयं, तदेव चादायागृहीतग्राहित्वं धारावहनबुद्धेरुपपादनीयमित्यत्र तात्पर्यम् । घटाभाववतीति । इदञ्च वैशिष्ट्यनिराकरणाभिप्रायेण, प्रकृते त्वनुगतवैशिष्ट्यसिद्धावपि सङ्गतिः तदादायोऽप्यगृहीतग्राहि- त्वाभावादित्यवधेयम् । अभावत्वे चेति । पूर्वं घटाभावानुरोधेन पटाभाववैशिष्ट्यमस्वीकरणीयमि- त्युक्तमिदानीन्तु पटाभावाभावानुरोधेनापि तदङ्गीकारणीयमित्यत्र तात्पर्यम् । केचित्तु प्रतियोगिभावा- मकरन्दः । अभावत्वे चेति । अभावात्मनः पटाभावाभावस्य वैशिष्ट्यसम्बन्धेन सत्त्वं स्यात् , वैशि- ष्ट्यस्यैकत्वाभ्युपगमादित्यर्थः । अधिकं प्रत्यक्षप्रकाशे । टिप्पणी । धारणायानायेति, ज्ञानयौगपद्यनिषेधेन तस्यावश्यकत्वादिति ज्ञानानामयौगपद्यन्तरसिद्धान्तश्च । तृतीयज्ञानस्य द्वितीयज्ञानोत्पत्तिक्षणे दुर्वारसामग्रीसाम्राज्यात् अतोऽकामेन प्रमाणफलीभूतं सर्वमेव ज्ञानमतिरिक्तविषयकं वाच्यमित्यधिकमानार्थं सामग्रीभेदोऽपि वाच्यस्तथा च प्रथमक्षणे तृती- यसामग्र्यभावान्न यौगपद्यमतिरिक्तश्च विषयः कालोपाधिरेव तदन्यस्य सर्वस्यैव ग्राह्यस्य प्रथममपि विद्यमानतया सम्पन्नग्रहणसामग्रोकत्वादित्याशयः । तत्र पटाभावो नास्तीति चेदिति । पटां- त्मकप्रतिबन्धकसत्त्वादिति शेषः । प्रतिबन्धकतया तदभावस्य हेतुत्वादिति । प्रतिबन्धका- भावरूपकारणविघटकतयैव प्रतिबन्धकस्य प्रतिबध्यवारकत्वम् । तद् यदि प्रतिबन्धकसत्त्वेऽपि प्रति- बन्धकाभावस्य सत्त्वमुच्येत, प्रतिबन्धकसत्ता हि सम्बन्धसत्ताधीना वस्तुनः सम्बन्धश्चास्ति वैशिष्ट्यमिति स्यादेव प्रतिबन्धकाभावसत्त्वमिति भावः । अभावत्वे च तस्यापि वैशिष्ट्य-

४५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां ज्ञाततैवोपधिरिति चेत्। न निराकरिष्यमाणत्वात्। तत्सद्भावेऽपि वा स्मृते- प्रकाशः। संबन्धेन तत्र सत्त्वात् । न चाभावेऽपि समवाय एव सम्बन्धः, तत्साधकविशिष्टबुद्धेर्विशेषादिति वाच्यम् । समवेतकार्यत्वाद् ध्वंसनाशे पटायुन्मज्जनप्रसङ्गात् । न च तत्र भावत्वं तन्त्रं, गौरवाद्वैपरी- त्यापत्तेश्चेति सङ्क्षेपः । ज्ञाततैवेति । पूर्वपूर्वज्ञानाहितज्ञातताविशिष्टमुत्तरोत्तरज्ञानविषय इत्यनधिगतार्थतैव धारा- वहनबुद्धीनामित्यर्थः । तत्सद्भावेऽपीति । स्मृतिव्यावृत्त्यर्थमनधिगतेति व्यर्थविशेषणम् । तेनापि च न तद्व्यवच्छेदः । तत्रापि कारणीभूतानुभवजनितज्ञाततासत्त्वेनानधिगतार्थताऽनपायादित्यर्थः । अथ स्मृतेर्जनकज्ञानविषयमात्रविषयत्वात् सा स्मृतौ न भासते, तथापि पूर्वपूर्वस्मृतिजनितज्ञा- प्रकाशिका। भाव्योरेकत्रैकेन सम्बन्धेन सत्त्वं विरुद्धमिति पटाभावतदभावयोर्नैकः सम्बन्धः इत्यत्र तात्पर्यमि- त्याहुः । वैपरीत्यापत्तेश्चेति । अभावत्वमेव नाश्यतावच्छेदकमस्तु कार्यत्वविशेषणस्योभयपक्ष- समानत्वादित्यर्थः । न च तथासति घटनाशो न स्यादिति वाच्यम् । अप्रामाणिकभावत्वविशेषण- प्रवेशे तस्याप्यापादनीयत्वादिति भावः । तत्रापीति । कारणज्ञानाहितज्ञातताया एव त्वया कार्यज्ञान- विषयत्वाङ्गीकारादिति भावः । अथेति । स्वाव्यवहितप्राक्कालवृत्तिजनकज्ञानाहितलज्ञानतयैव ज्ञान- विषय इति नानुभावाहितज्ञातता स्मृतिविषय इत्यर्थः । तथापीति । पूर्वस्मृतेरुत्तरस्मृतिं प्रति विशे- मकरन्दः। तथापीति । यद्यपि जनकागोचरत्वमत्रापि तुल्यं, तथाप्यनुपदमेवाशङ्क्य परिहरिष्यतीति ध्येयम् । टिप्पणी सम्बन्धेनेति। पटाभावाभावसत्त्वानुरोधेनापि वैशिष्ट्यस्य स्वीकरणीयत्वात्तस्याभावत्वे सम्बन्धान्त- राभावात्, तस्य च स्वीकृतस्यैकत्वेन तेन पटाभावस्यापि तत्र सत्त्वं स्यादभावत्वाविशेषात्, तथा च विरोध एव दुर्घट इति भावः। वैपरीत्यापत्तेश्चेति । संक्षेप इति । गौरवेणावच्छेदकत्वे बाधिते भावत्वे तत्स्वीकरणमप्रामाणिकम् । न च ध्वंसनाशकारणस्य फलस्य सत्त्वेन गौरवस्य फल- मुखत्वान्न बाधकत्वमिति वाच्यम् । विशिष्टबुद्धेः सम्बन्धान्तरेणानुपपत्तेः, समवायविषयकत्वे नाश्यता- वच्छेदककोटौ भावत्वस्याधिकस्य प्रवेशे गौरवात्, कार्य्यनाशत्वावच्छिन्नं प्रति समवायेन कार्य्यत्वे- नैव कारणत्वाद् ध्वंसस्यासमवेतत्वादिति ध्वंसनाशवारणस्य फलस्यान्यथासिद्धत्वेन गौरवस्य फल- मुखत्वाभावेन बाधकत्वानपायात् । एवञ्च प्रामाणिके भावत्वस्य नाश्यतावच्छेदकत्वे स्वीक्रियमाणेऽ- भावत्वस्यैव तथाविधं तत् किन्न स्याद्, विनिगमकाभावात् । न चाभावत्वस्य तथात्वे घटादीनामनाश- प्रसङ्ग इति वाच्यम् । तेन च प्रसङ्गेन तस्याप्रामाणिकत्वमेव प्रसञ्जनीयम्; तत्स्वीकृत्यैव हि तत्स्वी- क्रियत इत्युक्तप्रसङ्गस्यादोषत्वात् । न चेष्टापत्तिर्घटादीनां नित्यत्वप्रसङ्गाद्, भवतामपि हि तन्नेष्टमिति भावः। अथ स्मृतेर्जनकज्ञानविषयमात्रेति । यतो ज्ञातता स्वान्यवहितपूर्ववर्तिज्ञानाहितैव स्वेन गोचरीक्रियते, न च स्मृतेरव्यवहितपूर्वोऽनुभव इति स्मृतेर्जनकज्ञानविषयमात्रविषयकत्वव्यवस्थितेर्ज्ञा- तता स्मृतौ न भासत इत्यर्थः, एवञ्च न तथापीत्यादिग्रन्थासङ्गतिः, अन्यथा जनकज्ञानाविषयज्ञातताया उत्तरस्मृत्या ग्रहणप्रतिपादनादसङ्गतिः स्यात्, धारावाहिकस्मृतिपक्षे समानविषयकज्ञानत्वमात्रेण स्मृत्यनुभवकार्य्यकारणभावाभ्युपगमात्, पूर्वस्मृतेरुत्तरस्मृतिजनकत्वादव्यवहितपूर्वत्वात्तजनितज्ञात- ताग्रहणस्योत्तरेण सम्भवादित्यभिप्रेत्याह तथापि पूर्वपूर्वस्मृतीति। स्मृतेः स्वजनकगृहीतग्राहि-

चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५५ रपि तथैव प्रामाण्यप्रसङ्गात् । जनकागोचरत्वेऽप्युत्तरोत्तरस्मृतौ पूर्वपूर्वस्मरणज- नितज्ञाततावभासनात् । अस्तु वा प्रत्यक्षे यथा तथा, गृहीतविस्मृतार्थश्रुतौ का वार्त्ता । अप्रमैवासाविति चेत् । गतमदानीं वेदप्रामाण्यप्रत्याशया, न ह्यनादौ संसारे स्वर्गकामो यजेतेति वाक्यार्थः केनचिन्नावगतः, सन्देहेऽपि प्रामाण्यस- न्देहात् । न च तत्रापि कालकलाविशेषाः परिस्फुरन्ति । न चैकजन्मावच्छेदपरि- मापयेदं लक्षणं, तत्राप्यनुभूतविस्मृतवेदार्थं प्रति अप्रामाण्यप्रसङ्गात् । कथन्तर्हि स्मृतेर्व्यवच्छेदः ? अननुभवत्वेनैव । यथार्थो ह्यनुभवः प्रमेति प्रामाणिकाः पश्यन्ति । 'तत्त्वज्ञानाद्' इति सूत्रात् , 'अव्यभिचारि ज्ञानमिति' च । ननु स्मृतिः प्रमैव किं न स्याद्, यथार्थज्ञानत्वात् प्रत्यक्षाद्यनुभूतिवदिति चेत् । न । सिद्धे व्यवहारे निमित्तानुसरणात् , न च स्वेच्छाकल्पितेन निमित्तेन लोकव्यवहारनियमनम् , अव्यवस्थया लोकव्यवहारविप्लवप्रसङ्गात् । न च स्मृतिहेतौ प्रमाणाभियुक्तानां महर्षीणां प्रमाणव्यवहारोऽस्ति, पृथगनपदेशात् । उक्तेष्वन्तर्भावादनुपदेश इति चेत्। न। प्रत्यक्षस्य साक्षात्त्वारिफलत्वानुपपत्तेः, लिङ्गशब्दादेश्च सत्तामात्रेण प्रती- त्य साधनत्वादिति । प्रकाशः । तताविशिष्टस्योत्तरोत्तरस्मृतौ भानादनधिगतार्थत्वसत्त्वादित्याह जनकेति । न च स्मृतता नोत्त- रोत्तरस्मृतिविषयोऽनुभवाविषयत्वादिति वाच्यम् । धारावहनबुद्धावप्युत्तरोत्तरबुद्धेः पूर्वपूर्वज्ञानाहित- ज्ञाततासमानकालोत्पत्तिकत्वेन तत्राऽपि तद्विषयत्वाभावापातादिति भावः । अन्यत्र तत्सन्देहेऽप्युभयसिद्धप्रामाण्ये वेदे अधिगतार्थगोचरे प्रामाण्यासम्भव इति दुरुत्तरं समाधानमित्याह अस्तु वेति । तत्रापीति । एकजन्मनीत्यर्थः । अननुभवत्वेनैवेति । इममर्थमनु- भवामीममर्थं स्मरामीत्यनुभवसाक्षिकावेवानुभवत्वस्मृतित्वे जातिविशेषावित्यर्थः । तत्त्वज्ञाना- दिति । ज्ञानपदमत्नुभवपरम् । एवमग्रेऽपि । नन्विति । यथार्थज्ञानत्वमेव प्रमापदप्रवृत्तिनिमित्तं लाघवाद् , न तु तद्विशेषोऽनुभवत्वमपीत्यर्थः । सिद्ध इति । स्मृतेः प्रमात्वं यदि यथार्थज्ञानत्वमेव साध्यं, तदा सिद्धसाधनं साध्याविशेषश्च स्यादिति प्रमापदवाच्यत्वं साध्यम् , तत्र च तन्निमित्तत्वमु- पाधिरित्यर्थः । ननु यथार्थज्ञानत्वमेव तन्निमित्तमित्युक्तमित्यत आह न चेति । न च स्मृतीति । यदि स्मृतौ प्रमापदस्येश्वरसङ्केतः स्यात् , तदा प्रमाणाभियुक्तानां संस्कारे प्रमाकरणत्वव्यवहारः स्यात् , न चैवमित्यर्थः । उक्तेषु प्रत्यक्षादिष्वित्यर्थः । प्रकाशिका । पणज्ञानत्वेन जनकत्वसम्भवादिति भावः । न चेति । संस्कारोपनीतस्यैव स्मृतिविषयत्वादिति भावः । धारेति । जनकीभूतेन्द्रियसन्निकर्षाश्रयस्यैव साक्षात्कारविषयत्वादिति भावः । ज्ञानपदमिति । सूत्रे तत्वज्ञानपदस्य करणव्युत्पत्त्या शास्त्रपरस्य विशेषकतया फलीभूतानुभव एव तात्पर्यत् , न हि स्मृतिकरणत्वं शास्त्रस्य । एवमव्यभिचारिपदस्यापि प्रत्यक्षफलीभूतानुभव एव तात्पर्यं सूत्रे । तत्रापि टिप्पणी त्वनियमादुक्तनियमोपपत्तावपि न ज्ञातताग्रहणसम्भव इत्याह न च स्मृतता नोत्तरोत्तरेति । अनुभवाविषयत्वादिति । ज्ञानजनकज्ञानाविषयत्वादित्यर्थः । समानकालोत्पत्तिकत्वेनेति । प्रत्यक्षस्यापि स्वप्राक्कालासन्निकृष्टग्राहित्वात् स्वोत्पत्तिक्षणोत्पन्नज्ञातताग्राहकत्वासम्भव , इत्याशयः ।

४५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां एवं व्यवस्थित तर्क्यतेऽपि—यद्यिमनुभवैकविषया सती तन्मुखनिरीक्षणेन तद्यथार्थत्वायाथार्थत्वे अनुविधीयमाना तत्प्रामाण्यमव्यवस्थाप्य न यथार्थतया व्यवहर्तुं शक्यते इति। व्यवहारेऽपि पूर्वानुभव एव प्रमितिरनपेक्षत्वात्। न तु स्मृतिः, नित्यं तदपेक्षणात्। असमीचीने ह्यनुभवे स्मृतिरपि तथैव। नन्वेवमनुमानमप्यप्रमाणमापद्येत, मूलप्रत्यक्षानुविधानात्। न, विषयभेदात्। प्रकाशः। अनपेक्षतयेति विवृणोति—तर्क्यतेऽपीति। अनुभवैकविषया, अनुभवमात्रविषयेत्यर्थः। तेनास्या विषयान्तरेऽपि न प्रमात्वमिति भावः। तद्यथार्थत्वेति। स्वजनकानुभवयथार्थत्वा- यथार्थत्वव्याप्ययथार्थत्वायाथार्थत्वेत्यर्थः। तत्प्रामाण्यमिति। स्वजनकानुभवप्रामाण्यमित्यर्थः। अव्यवस्थाप्य अनवधार्य। यद्यपि स्वजनकानुभवप्रामाण्यमनिश्चित्यापि प्रवृत्तिसंवादादिना अनुभवस्येव स्मृतेरपि प्रामाण्यग्रहः सम्भवत्येव, तथाऽपि यदि स्मृतिः प्रमा स्यात्, तदा स्वान्यूनानतिरिक्तविषय- कस्वजनकानुभवप्रामाण्यव्याप्तप्रामाण्या न स्यात्। व्यतिरेके इच्छादिर्दृष्टान्तः। धारावाहनबुद्धिषु पूर्वपूर्वबुद्धेर्विशेषणमात्रविषयतयोत्तरोत्तरबुद्धिरपेक्षत्वेऽपि, स्मृतौ त्वन्यूनतिरिक्तविषयतयेति न तत्र व्यभिचारः। धारावाहनबुद्ध्यन्यत्वेन वा विशेषणम्। शक्यते इतीत्यस्यानन्तरं, न स्मृतिः प्रमेति शेषः। तदपेक्षणमेवाह असमीचीने हीति। मूलेति। कारणव्याप्त्यादिप्रत्यक्षप्रामाण्यव्याप्यप्रामाण्यादित्यर्थः। विषयेति। व्याप्त्यादिप्रत्य- क्षस्य लिङ्गलिङ्गिविषयत्वादुमितौ च पक्षतावच्छेदकधर्मभाननैयत्येन तस्याऽधिकस्य भानादित्यर्थः। प्रकाशिका। यत इत्याद्याहारेण प्रत्यक्षरूपकरणलक्षणाभिधानादिति भावः। यदि स्मृतिरिति। इदञ्चाव्यव- धानेनैव विवृतप्रायम्। अत्रापादके प्रमापदं यथार्थानुभवपरम्, अत इच्छादौ तद्व्यतिरेकः। आपाद्ये चोभयत्र यथार्थत्वपरं प्रामाण्यपदं तेनापाद्यव्यतिरेकस्तत्र अत एवाह व्यतिरेक इति। धारावह- नेति। तथा चापाद्येऽनुभवस्य तथा जनकत्वं प्रविष्टमिति विशिष्टाभावोऽस्त्येव धारावाहनबुद्धाविति भावः। तथा च जनकत्वाविवक्षायामाह धारेति। यद्यपि अनुमित्यनन्तरोत्पन्नेन्द्रियसन्निकर्षेण जनितेऽ- नुमितिसमानविषयप्रत्यक्षे विशेषणज्ञानात्मकतदनुमितिजन्य एवमपि व्यभिचार एव, तथापि स्वान्यू- नविषयकज्ञानजन्यानुभवत्वमेव धारावहनत्वमिति भावः। विशेष्यस्येति। अतीतादिविशेष्यकपू- मकरन्दः। तदास्वाऽन्यूनारिक्तेति। एतच्च प्रागेव विवृतप्रायम्। नन्वापादकस्य प्रामाण्यस्य वैकल्या- दिच्छादिकं नान्वयदृष्टान्तः, व्यतिरेकदृष्टान्तोऽपि न स्यात्, तादृशानुभवव्याप्तप्रामाण्यवत्त्वस्या- पाद्यव्यतिरेकस्य व्याप्यत्वाभिमतवैकल्यादिति चेत्। मैवम्। आपाद्ये प्रामाण्यपदद्वयस्य यथार्थत्व- मात्रपरत्वात्, आपादके च यथार्थानुभवपरत्वात्। एवञ्चेच्छादेरापाद्यव्यतिरेकस्य व्याप्यस्यापाद्य- व्यतिरेकस्य व्यापकस्य च सत्त्वाद्व्यतिरेकदृष्टान्तत्वमिति। विशेष्यस्येति। अतीतादिविशेष्यकस्यातुभवस्येत्यर्थः। टिप्पणी अनुभवप्रामाण्यव्याप्तेति। आपाद्ये प्रामाण्यं यथार्थत्वमात्रम्, आपादके च यथार्थानुभवत्वं तथाचेच्छादेर्व्यतिरेकदृष्टान्तत्वसम्भवः। विषयतयोत्तरोत्तरबुद्धिरिति। स्वान्यूनानतिरिक्त- विषयकत्वावच्छिन्नजनकत्वस्य प्रवेशाद्योक्तापाद्यापादकव्याप्तौ व्यभिचारः, पूर्वज्ञानस्य विशेषणमात्र- विषयकत्वेन जनकत्वादिति भावः। तस्य तदुपादानज्ञानेति। तस्य ज्ञाततालक्षणस्योपका-

तृतीयस्तवके ] स्मृतिर्मानान्तरत्वखण्डनम्। ४५७ आगमस्तर्हि न प्रमाणं, तद्विषयमानान्तरानुविधानात् । न । प्रमातृभेदात् । धारावाहिकबुद्धयस्तर्हि न प्रमाणम्, आद्यप्रमाणानुविधानात् । न । कारणविशुद्धि- मात्रापेक्षया प्रथमवदुत्तरासामपि पूर्वमुखनिरीक्षणभावात् , कारणबलायातं काक- तालीयं पौर्वापर्यमिति । यदि हि स्मृतिर्न प्रमितिः पूर्वानुभवे किं प्रमाणम् । स्मृत्यन्यथानुपपत्तिरिति चेत् । न । तया कारणमात्रसिद्धेः, न तु तेनानुभवेनैव भवितव्यमिति नियामक- मस्ति । अननुभूतेऽपि तर्हि स्मरणं स्यादिति चेत्, किं न स्यात् । न ह्यत्र प्रमा- णमस्ति । पूर्वानुभवाकारोल्लेखः स्मृतेर्दृश्यते, सोऽन्यथा न स्यादिति चेत् । तत् किं बौद्धवद्विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्तवार्थापिष्यते, तथाभूतं ज्ञानमेव वा तत्सिद्धिः ? । आद्ये तद्वदेवानैकान्तिकत्वम् । न हि यदाकारं ज्ञानं, तत्पूर्वकत्वं तस्येति नियमः, अनागतज्ञाने विभ्रमे च व्यभिचारात् । द्वितीये तु स्मृतिप्रामा- ण्यमवर्ज्जनीयम् । मा भूत् पूर्वानुभवसिद्धिः, किं नश्छिन्नमिति चेत् । न तर्हि प्रकाशः । तथापि श्रोतुर्वाक्यार्थप्रमाया वाक्यप्रयोगमूलतदर्थविषयकज्ञानप्रामाण्यापेक्षित्वात्र प्रमात्वं स्यादि- त्याह आगम इति । तथात्वेऽपि वक्तृश्रोतृरूपप्रमातृभेदोऽस्ति, स्मृतौ त्वेकस्यैव तथात्वमित्याह प्रमात्रिति । तर्हि विषयप्रमात्रोरभेदाद्धारावहनबुद्धयः पूर्वबुद्ध्यपेक्षाः प्रमा न स्युरित्याह धारेति । यद्यपि बुद्धिक्रमार्थ्यानुपपत्त्या पूर्वबुद्धेर्विशेषणज्ञानत्वेनोत्तरबुद्धिकारणत्वं, तथापि स्मृतिवदन्यूनविषयतया न कारणत्वं किन्तु विशेषणमात्रविषयत्वेनेत्युक्तम् । अन्यूनानतिरिक्तविषयत्वन्तु काकतालीयमित्याह कारणेति । नन्वतीतानुभववैशिष्ट्यरूप्रा तत्ता न मानसप्रत्यक्षवेद्या, अनुभवसत्त्वकाले तदतीतत्वाभावात् , तदत्ययकाले च विशेष्यासत्त्वादिति स्मृतिरेव तत्र मानमित्यगृहीतविषयतया सा प्रमा स्यादित्याह- यदीत्यादिना, न तर्हीत्यन्तेन । तत्किमिति । सौत्रान्तिकानां घटाद्याकारज्ञानकादाचित्कत्या- न्यथाऽनुपपत्त्या घटादिकल्पनवत् तत्ताऽऽकारान्यथाऽनुपपत्त्या पूर्वानुभवकल्पनमित्यर्थः । तथा- भूतम् । सौत्रान्तिकमते यथाऽनैकान्तिकत्वं, तथा तन्मतेऽपीत्यर्थः । तदेवाह न हीति । आकारेण ज्ञानस्यार्थजन्यत्वमनुमेयमर्थसत्त्वमात्रं वा ? आद्ये अनागतार्थस्य वर्तमानज्ञानाकारणत्वा- दनैकान्तिकम् । अन्त्ये अनागतस्य कादाचित्कत्वेऽपि शुक्तौ सर्वदा रजतत्वाकारत्वऽसत्त्वाद्रजत- त्वाकारभ्रमेऽनैकान्तिकमित्यर्थः । द्वितीये त्विति । तत्ताविषया स्मृतिरेव तत्तासिद्धिरिति सा प्रमा स्यादेवेत्यर्थः । तथा च स्मृत्यनुभवयोः कार्यकारणभावान्यथाऽनुपपत्तेः स्मृतिः प्रमेति भावः । प्रकाशिका । र्वानुभवस्येत्यर्थः । अतीतानुभववैशिष्ट्येति । यद्यप्येतावता पूर्वापरीभावसिद्धावपि न कार्य- कारणभावसिद्धिरन्यथा योऽहं घटमद्राक्षं सोऽहं घटं स्पृशामीत्यत्रापि तत्सिद्धापत्तेः, तथाप्येवमभ- योषस्थितौ ( स्मरणे ) अननुभूते स्मरणाभावादन्वयव्यतिरेकादिसहकृतमनसा तद्ग्रह इति भावः । मकरन्दः । अतीतानुभववैशिष्ट्येति । यद्यप्येवं पौर्वापर्य्यमात्रं सिध्यति, न तु कार्यकारणभावः, अन्यथा योऽहं घटमद्राक्षं सोऽहं स्पृशामीत्यादावपि तथा स्यात् । तथाप्यननुभूते स्मरणाभावादन्व- यव्यतिरेकादिसहकृतमनसा तद्ग्रह इति भावः । ५८ न्या० कु०

४५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति । न । तदप्रामाण्येऽपि पूर्वाऽपरावस्था- वदात्मप्रत्यभिज्ञानप्रामाण्यादेव तदुपपत्तेः । योऽहमन्वभवममुमर्थं, सोऽहं स्मरा- मीति मानसप्रत्यक्षमस्तीति । न च गृहीतग्राहित्वमीश्वरज्ञानस्य, तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य । प्रकाशः । अतीतानुभवविशिष्टे स्मृतिवैशिष्ट्यप्रत्यभिज्ञानं स्मृत्यनुभवयोः कार्यकारणभावग्राहकमित्यन्यथोपपत्त्या न स्मृतिः प्रमेत्याह तदप्रामाण्येऽपीति । प्रत्यभिज्ञानस्वरूपमाह योऽहमिति । ननु केयं तत्ता ? न तावदतीतानुभवविषयत्वम् । अतीतानुभवविषयत्वस्यानुभवाविषयतया स्मृत्या तदनुल्लेखापत्तेः । न च तस्याऽनुभवाविषयत्वेऽपि यदा ज्ञानान्तरेण ग्रहणं तदा स घट इति स्मृतिः, अन्यथा प्रमुष्टतत्त्वांशो घट इति वाच्यम् । अतीतानुभवविषयत्वस्यानुमितौ भानेऽपि स इति बुद्धेरभावात् । नाप्यतीतधर्मवैशिष्ट्यम् । यदि हि यो वस्तुतोऽतीतो धर्मस्तद्वैशिष्ट्यं तत्ता, तदाऽनुभवेऽपि तद्विषयत्वात्तत्तोल्लेखापत्तिः, अतीतधर्मविशिष्टः स इति सहप्रयोगाद्यनुपपत्तिश्च । नाप्यतीतत्वेन भासते यो धर्मस्तद्वैशिष्ट्यम् । भासमानधर्मस्यातीतत्वेनानुभवाविषयत्वात् , प्रत्युत वर्त्तमानत्वेनाऽनुभवात् , स्मृतौ तत्तोल्लेखानापत्तेः । नाऽप्यतीतसमयसम्बन्धः । अनागतगोचरस्मृ- तिप्रत्यभिज्ञयोस्तत्तोल्लेखानापत्तेः । इदन्ताऽपि न तद्वृत्तिगुणादि । गुणादावभावात् । नापि प्रत्यक्ष- ज्ञानगोचरत्वम् । अचाक्षुषत्वापत्तेः । उच्यते । अनुभवे य एव धर्मः कालो वा वर्त्तमानत्वेन भासते स एव स्मृतावपि । तयोरेक- विषयत्वेऽपि स्मृतावेव तच्छब्दोल्लेखः, संस्कारजज्ञानस्यैव तच्छब्दप्रयोगहेतुत्वात् , प्रत्यभिज्ञाने तथा कल्पनात् । तत्रैव च प्रत्यक्षानुभवेनेदंशब्दप्रयोगः । विषयकृतश्च स्मृत्यनुभवयोर्विशेषो नास्त्येव । अत एवायं घट इत्यनुभवादयं घट इति न स्मृतिः । स घट इति स्मृतेश्च स घट इति नानुभवः । सह प्रयोगस्तु धर्मविशेषमादायेत्यस्मत्पितृचरणाः । परलक्षणमभ्युपगम्य अनधिगतार्थगन्तृत्वमीश्वरज्ञानेऽप्यस्तीत्याह--- न चेति । ईश्वरस्य ज्ञानान्तराभावान्न तज्ज्ञानं गृहीतग्राहीत्यर्थः । पुरुषान्तरज्ञानान्तरगोचर- त्वेन गृहीतग्राहित्वे अभिमताऽपि प्रमा न स्यात् । अथ तद्विषयज्ञानोत्तरकालवृत्तिसमानाश्रयतद्विषयकज्ञानत्वमेव गृहीतग्राहित्वम् । तन्न । बुद्धिमा- त्रस्य प्रमात्वाभावापत्तेः । यद्विषया बुद्धिरुत्पन्ना तद्विषयाया एव तस्याः स्वोत्पत्त्युत्तरक्षणेऽपि सत्त्वा- प्रकाशिका । प्रसङ्गादाह इदन्तापीति । संस्कारजेति । एतच्च प्रत्यभिज्ञायाः संस्कारजन्यत्वपक्षे यदा स्मृति- जन्यत्वं तस्यास्तदाप्यनुभवावृत्त्यात्मविशेषगुणमात्रवृत्तिधर्मवाच्छिन्नकारणताकत्वं तत्त्वोल्लेख- प्रयोजकं प्रत्यभिज्ञाने च तत्त्वोल्लेखानुरोधादेव स्मृतित्वेन कारणत्वं वाच्यमिति भावः । यद्विषया बुद्धिरिति । नचोत्तरकालपदेनान्यवहितोत्तरकालो विवक्षित इति वाच्यम् । प्रहरायनन्तरतद्विष- यकज्ञानेऽपि प्रमात्वव्यवहारेणान्याप्तितादवस्थ्यात् । बुद्धिमात्रस्येत्यादिना निराकृतमप्यर्थं मूल- मकरन्द । तद्विषयेति । न चोत्तरकालत्वं व्यवहितकालत्वं विवक्षितमिति वाच्यम् । मासाद्यनन्तरतद्विष- यज्ञानस्याप्यप्रमात्वव्यवहारादिति भावः । यद्यपि बुद्धिमात्रस्येत्यादिना निरासान्नेयं शङ्का, तथापि मूले तदनिरासात्तत्र तद्विरोध इति भावः ।

चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५६ न च तदेव ज्ञानं कालभेदेनाप्रमाणम्, अनपेक्षत्वस्यापरावृत्तेः । तथापि वा ऽप्रमा- ण्येऽतिप्रसङ्गादिति ॥ १ ॥ स्यादेतत् । अनुपकारकं विषयस्य, तदीयमेतदीयं वा न भवितुमर्हत्यविशे- षात् । न च तस्येत्यनियतं तत्र प्रमाणमतिप्रसङ्गात् । न च तदभिन्नमन्तरेण तदु- पकारस्योत्पत्तिः, तथानभ्युपगमात् । अभ्युपगमे वा, कार्यत्वस्यानैकान्तिकत्वात् । अत्रोच्यते— स्वभावनियमाभावादुपकारोऽपि दुर्घटः । सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ॥ २ ॥ प्रकाशः । दिति भावः । नन्वीश्वरस्य ज्ञानान्तराभावेऽपि प्रथमक्षणे गृहीतस्यैव द्वितीयादिक्षणे ज्ञानाद् गृही- तग्राहित्वमस्त्येवेत्यत आह न चेति । अनपेक्षत्वस्येति । न हि स्मृतिवदुत्तरकालबुद्धिविषयत्वे पूर्वकालीनतद्विषयज्ञानापेक्षा ईश्वरज्ञानेऽस्तीत्यर्थः । अतिप्रसङ्गादिति । सर्वज्ञानानां द्वितीयादि- क्षणे ग्रहणरूपत्वेनाप्रमात्वापातादित्यर्थः । वस्तुतो गृहीतेत्यत्र निष्ठाऽर्थस्य ध्वंसस्यासम्भव एवेति भावः ॥ १ ॥ ननु विषयनियमान्यथानुपपत्त्या तदुपपादको विषयनिष्ठो ज्ञानजन्यो धर्मः स्वीकार्यः, तस्य च तदुपादानज्ञानजन्यत्वे तदुत्पत्तेः प्राक् तद्विषयत्वाभावात् कथं तदुत्पत्तिः, तदुपादानज्ञानाज- न्यत्वे च क्षित्यादिसकर्तृकत्वग्राहकं कार्यत्वं तत्रैवानैकान्तिकमित्याह— स्यादेतदिति । न चेति । तदीयोऽयं विषय इति नानियतं, किन्तु नियतमेव । तन्नियाम- कस्तज्जन्यधर्म एव वाच्यः । तेन तज्जन्यज्ञातताऽऽश्रयत्वमेव तद्विषयत्वमित्यर्थः । ज्ञानस्य ज्ञेयनिष्ठोपकाराधानेऽपि नियामकः स्वभाव एव वाच्यः, तथा च तत एव विषयनि- यमोपपत्तौ किमुपकाराधानेनेत्याह स्वभावेति । विद्यमानेऽर्थे ज्ञानजन्योपकारसम्भवेऽप्यतीताद्यर्थे तदसम्भवाद् यथा तत्र स्वभाव एव विषयत्वनियामकः, तथा विद्यमानेऽप्यर्थेऽस्त्वित्याह सुघटत्वेऽपीति । प्रकाशिकाः । व्याख्यानाय पुनराशङ्कते नन्वीश्वरस्येति । ननु विषयेति । इयञ्च यथार्था तटस्थशङ्का यथा- र्थान्भवत्वरूपं हि प्रामाण्यं स्वविषये वाच्यम्, विषयता चानुपपन्ना ज्ञातताऽस्वीकारे नियमका- भावात्, तत्स्वीकारे च तदुत्पत्तेः प्राक् तद्विषयकज्ञानाभावेन तदनुत्पत्तेः, उत्पत्तौ वा कार्यत्वस्य तत्रैवानैकान्तिकत्वादिति मूलप्रकाशयोः सङ्गतिः । एतेन—कार्यत्वस्यानैकान्तिकोद्भावनमत्रार्थान्तरम् । न च ज्ञाततामादायागृहीतग्राहित्वमुपपादयितुमेव तद्ग्रन्थावतार इति वाच्यम् । न तु तदभि- न्नमन्तरेणोत्यादिना तदुत्पत्त्यसम्भवोपन्यासस्य विद्धरुतवापातादिति-दूषणमपास्तम् । ननु देव- मकरन्दः । नन्विति । ननु कार्यत्वानैकान्तिकोद्भावनस्य नायमवसरः । न च ज्ञाततामादायागृहीतग्राहि- त्वमुपपादयितुं तत्साधनमेवेदमिति वाच्यम् । पूर्वंनिरस्तत्वात्, न च तदभिन्नज्ञानमित्यादिना तदु- त्पत्त्यसम्भवोपन्यासस्य विरुद्धत्वापाताच्च इति चेत् । मैवम् । यथार्थानुभवत्वादिकं प्रामाण्यं ज्ञानस्य स्वविषये स्यात्, विषयता च नियामकं विनाऽनुपपन्ना, ज्ञाततायास्तथात्वे कार्यत्वानैकान्ति- कत्वापत्त्या तदुपादानज्ञानजन्यत्वमवश्यं वाच्यम्, तच्च तदुत्पत्तेः प्राक् तद्विषयत्वाभावादसम्भवीति न प्रामाण्यव्यवस्थितिरिति तटस्थशङ्कापरत्वेनास्य सङ्गतत्वात् । टिप्पणी रस्य यदुपादानमाश्रयो विषयस्तज्ज्ञानस्येत्यर्थः । तद्विषयत्वाभावादिति । तस्य विषयत्वेना-

४६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२ कारिकाव्याख्यायां

  • विशेषाभावात्तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः । स्वभावनियमेन चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः । अवश्यञ्चैतदनुमन्तव्यम्, अतीतादिविष- यत्वानुरोधात् । न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम् । अस- त्त्वात्। न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम् । तेन तस्यैव विषयत्व- प्राप्तेः । तादात्म्याद्विशेषस्यापि सैव ज्ञाततेति चेत्, तत् किं चक्षुषा घटे ज्ञायमाने रसोऽपि ज्ञायते, तादात्म्यात् । घटाकारेण ज्ञायत एवासौ रस इति चेत् । अथ रसाकारेण किं न ज्ञायते। तेन रूपेण ज्ञाततानाधारत्वादिति चेत्। न तर्हि वर्त्तमान- सामान्यज्ञानेऽप्यतीतानागतादिज्ञानम्, तेनाकारेण प्राकट्यानाधारत्वादिति ॥ २ ॥ ननु क्रियया कर्मणि किञ्चित् कर्त्तव्यमितिव्याप्तेरस्त्वनुमानम् । न । अनैकान्त्यादसिद्धेर्वा न च लिङ्गमिह क्रिया । तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके ॥ ३ ॥ प्रकाशः। अतीतादिघटादौ भासमाने घटत्वादेरपि भासनात्तत्रैव ज्ञाततोत्पत्तिः स्यादित्यपि नास्तीत्याह न चेति । तथा सति ज्ञातताऽनाश्रयत्वाद् घटादिर्विषयो न स्यात्, घटत्वादौ ज्ञातताऽऽधानात्- स्यैव तद्विषयत्वादित्यर्थः । ननु धर्मधर्मिणोस्तादात्म्यात्तद्धर्मज्ञातता तस्यैवेत्याह तादात्म्यादिति । तत्किमिति । ननु धर्मिणो धर्माभेदेऽपि धर्मस्य न धर्म्यभेदः । भेदाभेदाङ्गीकारात् । तथा च धर्मे ज्ञायमाने तद्भिन्नो धर्मी ज्ञायतां, धर्मिणि ज्ञायमाने तद्भिन्नो धर्मः कथं ज्ञायेत । मैवम् । भेदाभे- दस्य विरोधेनासम्भवात् ॥ २ ॥ ननु धात्वर्थावच्छेदकपरसमवेतक्रियाफलशालित्वं कर्मत्वमिति ज्ञानक्रियायाः स्वकर्मनिष्ठफलज- नकत्वाज्ज्ञाततां स्यादित्याह-- नन्विति । क्रिया न धात्वर्थमात्रं, शरसंयोगादिना धात्वर्थेन कर्मणि गगनादौ तदजननादनैका- न्तिकत्वात् । नापि स्पन्दः, ज्ञाने स्पन्दत्वाभावात् । नापि करणव्यापारस्त्वं, शब्दादिव्यापारपदार्थ- स्मृत्यादिभिरनैकान्तिकत्वादित्याह अनैकान्त्यादिति । इह ज्ञाततायाम् । ननु प्रत्यक्षैव ज्ञातता, संयुक्त इतिवज्ज्ञात इत्यनुभवादित्यत आह तद्वैशिष्ट्येति । ज्ञातताऽनुभवो ज्ञानवैशिष्ट्यमात्रविष- यको नातिरिक्तविषयतायां मानमित्यर्थः । प्रकाशिका। दृत्तो गच्छतीत्यत्र गमनक्रियाफलं विभागोऽपीति तदाश्रयपूर्वदेशस्य कर्मत्वापत्तिरित्याशयेनाह धात्वर्थेति । विभागश्च न तथा उत्तरसंयोगावच्छिन्नस्पन्दस्य गमिधात्वर्थत्वादिति भावः । गमन- कर्तर्यपि संयोगाश्रयत्वादतिव्याप्तिरिति परेति । अतिरिक्तेति । ज्ञाततायामित्यर्थः । न चैवं मकरन्दः। ननु चैत्रो गच्छतीत्यत्र परसमवेतगमनक्रियायाः फलमुत्तरदेशसंयोगवत् पूर्वदेशविभागोऽपीति पूर्वदेशेऽतिव्याप्तिरित्यत उक्तं-धात्वर्थतावच्छेदकेति फलविशेषणम् । उत्तरसंयोगावच्छिन्न- स्पन्दस्य धात्वर्थत्वाद्विभागो न तथेत्याहुः । घटं जानाति चैत्र इत्यत्र ज्ञानक्रियाफलमिच्छादि, तच्छालितयाऽऽत्मन्यतिव्याप्तिरित्यत उक्तं परेति । न चाभावो घटमाश्रयते इत्यादावव्याप्तिः, आश्रयणक्रियाया अभावे समवेतत्वाभावादिति वाच्यम् । परसमवेतपदस्य सम्बन्धपरत्वात् । अतिरिक्तेति । ज्ञाततायामित्यर्थः । टिप्पणी। भिमतस्य विषयत्वाभावात् विषयत्वस्य ज्ञातताधीनतया ज्ञाततानुत्पत्तेर्ज्ञानविषयत्वस्यासम्भवादि- त्यर्थः । अतिरिक्तविषयतायामिति । ज्ञाततारूपायामित्यर्थः ।

चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६१ धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनेकान्तात्, न हि शरसंयोगेन गगने किञ्चित् क्रियते, अन्त्यशब्दाभिव्यक्त्या वा, स्पन्दाभिप्रायेणासिद्धेः । व्यापाराभिप्रायेण शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात्, न हि तैः प्रमेये किञ्चित् क्रियते, अपि तु प्रमातर्येव । फलाभिप्रायेणापि तथा । अन्ततस्तेनैवानेकान्ताद् , अनवस्थानाच्च । आशुविनाशिधर्माभिप्रायेण द्वित्त्वादिभिरनियमात् । आशुकार- काभिप्रायेण कर्मण्यसिद्धेः, कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् । कर्त्तर्याशु- कारकत्वस्य कर्मोपकारत्वेनाव्याप्तेः । शब्दादिव्यापारैरेवानेकान्तात् ॥ ३ ॥ स्यादेतत् , अनुभवसिद्धमेव प्राकट्यम् । तथा हि—ज्ञातोऽयमर्थ इति सामा- न्यतः, साक्षात्कृतोऽयमर्थइति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति चेत् । तदसत् । यथा हि— अर्थे नैव विशेषो हि निराकारतया धियाम् । प्रकाशः । 'अन्त्यशब्देति । न चान्त्यशब्दाभिव्यक्त्या तत्र ज्ञाततैवोत्पद्यते इति वाच्यम् । तस्याप्यवहि- तोत्तरक्षण एव नाशात् । समवायिकारणस्य च कार्यसमानकालतानियमात् । शब्दनित्यत्वस्य च निषेधादिति भावः । असिद्धेरिति । ज्ञानक्रिया न स्पन्द इत्यर्थः । ननु क्रिया फलमत्र, यद्धि फलं तत्प्रमेयनिष्ठकिञ्चिज्जनकं, प्रयत्नवदात्मसंयोगवदित्यत आह फलेति । अन्तत इति । फलेनापि फलजननेऽनवस्थेति क्वचिद्विश्रान्तौ तेनैव व्यभिचार इत्यर्थः । आशुविनाशित्वं क्षणचतुष्टयानव- स्थायित्वम् । अनियमाद् , व्यभिचारादित्यर्थः । कर्मण्याशुकारकत्वं हेतुः, कर्त्तर्याशुकारकत्वं वा, आशुकारकत्वमात्रं वा ? । नाद्यः । साध्याविशिष्टतया हेतोरसिद्धत्वादित्याह कर्मणीति । न द्विती- यतृतीयावनेकान्तादित्याह कर्त्तरिति । शब्दादिव्यापारैः पदार्थस्मृतिलिङ्गपरामर्शादिभिर्वाक्यार्थ- ज्ञानानुमित्यादिकं कर्त्तर्याशुक्रियते । न च कर्मणि वाक्यार्थे अनुमेयादौ वा किञ्चित् क्रियते इत्यनै- कान्तिकमित्यर्थः ॥ ३ ॥ कारिकोत्तरार्द्धं व्याख्यातुं शङ्कते अनुभवेति । निराकारमपि ज्ञानं यया विषयेण नीलत्वादिना नीलज्ञानाद्युच्यते, तथा ज्ञानरूपक्रिययैव ज्ञातो घट इति धीव्यपदेशौ, इत्थमभ्युपगमे च कृतो घट इत्यादावपि कृत्यादिजनितधर्माधारो घटः स्यात् । न चैतत् त्वयेष्यते, इति परिह- रति यथा हीति । घटक्रियेत्यत्र क्रियायामर्थो विशेषकः, कृतो घट इत्यत्रार्थे क्रिया विशेषिकेति भेदः । एवं घटज्ञानमित्यत्रार्थो ज्ञाने विशेषणं, ज्ञातो घट इत्यत्रार्थे ज्ञानं विशेषणम् । ननु घटोऽयमिति ज्ञानं घटधर्मिककिञ्चिद्धर्मजनकं घटज्ञानत्वाद् अपेक्षाबुद्धिवत् । न चापेक्षा- प्रकाशिका । प्रत्यक्षत्वमपि तस्य कथमिति वाच्यम् । प्रत्यक्षविषयस्य पूर्ववर्त्तितामात्रेणैव हेतुत्वात् । आशुविना- मकरन्दः । तस्येति । नचैवं प्रत्यक्षमपि कथं स्यादिति वाच्यम् । पूर्ववर्त्तितामात्रेणैव तस्य तद्धेतुत्वात् । समवायिकारणमात्रस्यैव कार्यसमानकालत्वनियमादिति भावः । टिप्पणी तत्प्रमेयनिष्ठेति । प्रमेयेति प्रकृतमभिप्रायम् फलं किञ्चिज्जनयतीत्येव व्याप्तिः । आत्मशरीर- संयोगवदिति । स च शरीरे चेष्टाजनकः ।

४६२ व्याख्यायात्रोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां तथा, क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् ॥ ४ ॥ किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि, तथैव गृहाण, घटज्ञानं पटज्ञानमितिवज्ज्ञातो घटो ज्ञायते इति । कथमसंबद्धयोर्ध- र्मधर्मिभाव इति चेद्, ध्वस्तो घट इति यथा । एतदपि कथमिति चेद् , नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि । तन्निरूपणाधीन- निरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र संबन्धान्तरेणेति चेत् । प्रकृतेऽ- प्येवमेव । एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम् । विनाशयद्यत् करणव्यापार- प्रकाशः । बुद्धित्वमुपाधिः । घटसंयोगादिजनकाऽवयवसंयोगादौ साध्याव्यापकत्वात् । मैवम् । अप्रयोज- कत्वात् । अन्यथेच्छा स्वविषयनिष्ठकिञ्चिद्धर्मजनिका सविषयकत्वात् बुद्धिवदित्यादेरापत्तेः । तथापि ज्ञातो घट इति ज्ञानं विशेषणविशेष्ययोः सम्बन्धविषयकं विशिष्टज्ञानत्वात्, गौरिति ज्ञानवत् । वर्त्तमानेऽर्थे बाधकाभावात् । अन्यथा समवायोऽपि न सिद्ध्येदिति चेन्न । अतीतानागतयोर्ज्ञातताया अभावेन ज्ञातव्यवहाराभावापत्तेः । तस्य ज्ञाततासाध्यत्वात् । तत्र ज्ञानविषयावेव तद्विषयाविति चेन्न । वर्त्तमानेऽपि तयोरेव तद्विषयत्वापत्तेः । अतीतादिवर्त्तमानतप्रतीत्योर्वैलक्षण्याऽननुभवात् । अथ घट- पटयोरेकज्ञानविषयत्वेऽपि घटत्वेन घटो ज्ञातः, पटत्वेन पटो ज्ञात इति ज्ञातताभेदभानाज्ज्ञानभिन्ना ज्ञाततेति चेन्न । तस्यैव ज्ञानस्य सम्बन्धस्तत्र तत्र तेन तेन धर्मेण निरूप्यते इति ज्ञानस्वभावादेव नियमादिति भावः । प्रतिबन्धिमुक्त्वा मूलयुक्तिमाह तन्निरूपणेति । ननु ज्ञानजन्यफलानाश्नयत्वादर्थः कर्म न स्यादित्यत आह- एतेनेति । परसमवेतक्रियाफलशालित्वं न कर्मत्वम् । आत्मानं जानातीत्यत्राव्याप्तेः, किन्तु करणव्यापारविषयत्वम्, तच्चात्राऽस्त्येवेत्याह विनाशयद्यदिति । अर्थो ज्ञानस्य कर्मैव न भवति, प्रकाशिका । शित्वं क्षणिकत्वरूपमसिद्धमित्यत आह क्षणचतुष्टयेति ।' अप्रयोजकत्वादित्युपलक्षणम्, पक्षधर्मावच्छिन्नसाध्यव्यापकस्यापेक्षाबुद्धित्वस्योपाधित्वाच्चेत्यपि द्रष्टव्यम् । सम्बन्धत्वेन ज्ञातता- सिद्धिमाशङ्कते तथापीति । अन्यथेति । सम्बन्धं विनापि विशिष्टधीस्वीकार इत्यर्थः । प्रति- बन्दीमुक्त्वा मूलयुक्तिमाह अर्थ इत्यादि। ऐन्द्रियकोपलम्भाभावमिति मूलं अतीन्द्रियत्वं ज्ञानस्य तद्विषयकसाक्षात्काराभावः । स च जानातीन्द्रियतया न स्वरूपसदनुपलब्धिग्राह्य इत्यर्थः । मम इन्द्रियग्राह्यत्वेनाभिमतो य उपलम्भाभाव इति योजना । अनुपलब्धेस्तत्रैव त्वन्मते सामर्थ्या- दिति भावः । अस्तु वा स्मरणम् तथापि तदनुपपत्त्या नानुभवसिद्धिः, तत्कारणेवान्यथासिद्धिरित्यत मकरन्दः । अप्रयोजकत्वादित्युपलक्षणम्-पक्षधर्मावच्छिन्नसाध्यव्यापकमपेक्षाबुद्धित्वमुपाधिरित्यपि द्रष्टव्यम्। अन्यथेति । यदि सम्बन्धं विना विशिष्टधीः, तदेत्यर्थः ।

चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६३ विषयत्वेन तदुपपत्तेः । स्वाभाविकफलनिरूपकत्वञ्च तुल्यम् । ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत, अप्रती- तञ्च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातताकल्पनम् । तदप्यसत् । परस्पराश्रयप्रसङ्गात् । ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहा- रान्यथानुपपत्तिस्तां ज्ञापयेत् । कुतश्च ज्ञानमतीन्द्रियम् ? इन्द्रियेणानुपलभ्यमान- त्वादिति चेत् । न । अनुमानोपन्यासे साध्याविशिष्टत्वात् , अनुपलब्धिमात्रोप- न्यासे तु योग्यताऽविशेषिताऽसौ कथमैन्द्रियकोपलम्भाभावं गमयेत् , तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति । तथाविधज्ञाततानाश्रयत्वादिति चेन्न । आश्रया- सिद्धेः । व्यवहारान्यथानुपपत्त्यैव सिद्ध आश्रय इति चेन्न । ज्ञानहेतुनैव तदुप- पत्तेः । तस्यात्ममनःसंयोगादिरूपस्य सत्त्वेऽपि सुषुप्तिदशायामर्थव्यवहाराभावा- न्नैवमिति चेन्न । तावन्मात्रस्य व्यवहाराहेतुत्वात् । अन्यथा ज्ञानस्वीकारेऽपि तुल्यत्वात् । स्मरणान्यथानुपपत्त्येति चेन्न । तस्याप्यसिद्धेः । अस्ति तावद्व्यवहा- रनिमित्तं किञ्चिदिति चेत् । किमतः ? । न ह्येतावता ज्ञानं तदिति सिद्ध्यति, प्रकाशः । अतीतादेरप्यर्थत्वात् , कारकविशेषस्य च कर्मत्वात् । अतीतानागतं जानामीति द्वितीयाप्रयोगः साधु- रिति तु तत्त्वम् । स्वाभाविकेति । यथा कर्तृव्यापारफलं विनाशः प्रतियोगिनिरूप्यः, तथा ज्ञानमपि विषयनिरूप्यमित्यर्थः । तद्विशेषणे त्विति । यदि योग्यानुपलब्ध्या योग्यस्य ज्ञानस्याऽभावोगृह्यते, तदा सिद्धमैन्द्रि- यकत्वं ज्ञानस्येत्यर्थः । तथाविधेति । साक्षात्कृतताऽनाश्रयत्वादित्यर्थः । आश्रयेति । ज्ञानस्याप्रत्य- क्षत्वे मानान्तरासम्भवेनाश्रयस्य ज्ञानस्यासिद्धेरित्यर्थः । ज्ञानस्य प्रत्यक्षतया स्वरूपासिद्धेरिति भावः । अज्ञाते घटादिव्यवहारो न स्यात् , तस्य व्यवहर्त्तव्यज्ञानसाध्यत्वादिति कार्येण कारणानुमानात् सिद्ध आश्रय इत्याह व्यवहारेति । ज्ञानहेतुत्वेनाभिमतादेवावश्यकान्द्यवहाराेपपत्तौ न तेन ज्ञानानुमानमि- त्याह ज्ञानेति । ज्ञानहेतुसद्भावेऽपि व्यवहाराभावान्न तेनान्यथासिद्धिरित्याह तस्येति । ज्ञान- हेतुसद्भावे सुषुप्तौ कुतो ज्ञानमेव न जायते ? तावन्मात्रस्याहेतुत्वादिति यदि, तदा या ज्ञानसामग्री सा व्यवहारसामग्र्यस्तु किमान्तरालिकेन ज्ञानेनेत्याह तावन्मात्रस्येति । अन्यथेति । ज्ञानमेव तदा किं न स्यादित्यर्थः । तस्यापीति । स्मरणस्यापि ज्ञानत्वेनातीन्द्रियत्वादसिद्धिरित्यर्थः । अत्राप्यनुभ- प्रकाशिका । ग्राह अत्रापीति । मकरन्दः । अस्तु वा स्मरणं, तथापि तदन्यथाऽनुपपत्त्या नानुभवसिद्धिः, तत्कारणेनान्यथासिद्धेरित्याह अत्रापीति । टिप्पणी । योग्यानुपलब्ध्या योग्यस्य ज्ञानस्येति । ज्ञानोपलम्भस्येत्यर्थः । अन्यथा ज्ञानाभाव- साधनस्यानुपक्रान्तत्वात् तथात्वे ज्ञातताया अप्यभावप्रसङ्गात् , अग्रे ज्ञानसाधनेन विरोध- प्रसङ्गाच्च । अतीतानागतं जानामीति द्वितीयाप्रयोगः साधुरिति । यथाऽन्वादियोगे कर्मसंज्ञाया- मपि न तस्य कर्मता, यथा च क्रियाविशेषणस्य कल्पितकर्मसंज्ञकत्वेऽपि न कर्मता, संज्ञाफलन्तु द्वितीया- प्रयोगसाधुत्वैव, तथा प्रकृतेऽपि सविषयकार्यकत्वात्वर्थयोगे कर्मसंज्ञां प्रयोगवलात् परिकल्प्य द्वितीयो- पपादनीया इति । द्वितीयाप्रयोगेन सार्वजनीनेन साधुः न कर्मार्थकंतया तस्यादिवन्द्वितीया प्रयोग- कल्पितसंज्ञामात्रफलीभूततया साधुरित्यर्थः ॥ अत्राप्यनुभवकारणादेवेति । अस्तु स्मरणं

४६४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां तस्यैवासिद्धेः । तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहे- तुना भवितव्यमिति चेत् । अस्तिवच्छा प्रत्यक्षसिद्धा, न तु ज्ञानम् । सैव कथं नियताधिकरणे उत्पद्यतामिति चेन्न । ज्ञानाभ्युपगमेऽपि तुल्यत्वात् । स्वहेतोः कुतश्चिदिति चेत् । तत एव इच्छा अस्तु, किं ज्ञानकल्पनयेति । स्यादेतत् । प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते, न तु सुषुप्त्यवस्था- यामप्रकाशमानेऽप्यर्थे इत्यनुभवसिद्धम् । तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयं, यस्मिन् सति सुष्वापलक्षणमौदासीन्यमर्थविषयमात्मनो निवर्त्तते इति चेत् । हन्तैवं सुष्वापत्तिनिवृत्तिमनुभवसिद्धां प्रतिजानानेन ज्ञानमेवाप- रोक्षमिय्यते । अचेतयन्नेव हि सुषुप्त इत्युच्यते, अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञान- मिति । तथाच कालात्ययापदिष्टो हेतुः । एतेन क्षणिकत्वादिति निरस्तम् । अपि च किमिदं क्षणिकत्वं नाम ? यद्या- शुतरविनाशित्वं, तदाऽनैकान्तिकम् । अथैकक्षणावस्थाायित्वं, तदसिद्धं प्रमाणा- भावात् । ननु स्थायिविज्ञानं यादृशमर्थक्षणं गृह्णदुत्पद्यते, द्वितीयेऽपि क्षणे किं तादृश- मेव गृह्णाति, अन्यादृशं वा, न वा कमपीति । न प्रथमः । तस्य क्षणस्यातीत- प्रकाशः । वकारणादेव स्मरणोत्पत्तिरित्यन्यथासिद्धिरिति भावः । तदिति । व्यवहारनिमित्तमित्यर्थः । तस्यै- वेति । ज्ञानासिद्धा व्यवहारे तज्जन्यत्वानिश्चयादित्यर्थः । कर्तृधर्मप्रवृत्तेः कर्तृधर्मकार्यत्वात् कर्तृधर्मतया ज्ञानं सिद्ध्येदित्याह तथा पीति । इच्छा स्वविषयविषयकात्मधर्मजन्या नियतविषयकधर्मत्वात् प्रय- त्नवदित्यभिप्रेत्याह सैवेति । अनुमानं ज्ञान एवानैकान्तिकमित्यभिप्रेत्याह ज्ञानेति । न च ज्ञानहे- तोरननुगमाद् व्यभिचारेण कारणत्वासम्भवः, परेषा मेकशक्तिमत्त्वेनापि कारणत्वग्रहसम्भवादिति भावः । अनुभवसिद्धमिति । यद्यप्येकात्मन्येकदा आश्रुतरविनाशिगुणत्रयानवस्थानादिच्छा- ज्ञानयोः पौर्वापर्याऽनुभवो न सम्भवति, तथापि ज्ञानव्यतिरेकाऽव्यवहितोत्तरकाले इच्छाव्यतिरेक- नियमात् कार्यकारणभावग्रह इति भावः । एतेनेति । कालात्ययापदेशेनेत्यर्थः । तदानैकान्तिकमिति । इच्छादावित्यर्थः । यादृशं, वर्त्तमान- क्षणावच्छिन्नम् । अन्यादृशं द्वितीयक्षणावच्छिन्नम् । तस्येति । द्वितीये क्षणे इत्यनुषज्जयते । वर्त्त- प्रकाशिका । परेषामिति तथा च तद्रीत्या ज्ञानहेतुनान्यथासिद्धिः स्यादेवेति भावः । यद्यपीति । कार्यकारणभावग्रहमादाय एकत्रैत्युक्तं प्रत्यक्षे विषयस्य समसमयतया हेतुत्वमित्यभिमानेन चैतदुपपादनीयम् । तथापीति । व्यतिरेकपदं प्रागभावपरम् , अन्यथा ज्ञाननाशेऽपीच्छासत्त्वा- न्नियमभङ्गापत्तेः । वर्त्तमानतेति । मकरन्दः । परेषामिति । तथा च तन्मते ज्ञानहेतुना तदन्यथासिद्धिः स्यादेवेति भावः । तथापीति । अत्र व्यतिरेकपदं प्रागभावपरम् । अन्यथा ज्ञाननाशेऽपीच्छासत्त्वान्नियमभङ्गापत्तेः । टिप्पणी । तथापि तदनुपपत्त्या नानुभवकल्पनं युज्यते, अनुभवं विनाप्यनुभवकारणत्वेनाभिमतादेव संस्कारा-

चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६५ त्वात् । प्रत्यक्षज्ञानस्य च वर्त्तमानाभत्वात् । न चातीतमेव वर्त्तमानाभतयोल्लिखति, भ्रान्तत्वप्रसङ्गात् । न द्वितीयः, विरम्य व्यापारायोगात् । प्रथमोऽपि तथाभ्यु- पगमेऽनागतावेक्षणप्रसङ्गात् । न तृतीयः । ज्ञानत्वहानेरिति महाप्रतीयाः । तदसत् । ज्ञानं गृह्णातीत्यस्यैवार्थस्यानभ्युपगमात् । अपि तु तदेव ग्रहणमित्य- भ्युपगमः । तथा च ज्ञानं प्रथमे क्षणे यमर्थमालम्ब्य जातं, द्वितीयेऽपि क्षणे तदा- लम्बनमेव तन्न वेति प्रश्नार्थः । तत्र तदालम्बनमेव तदिति परमार्थः । न चैवं भ्रान्तत्वम् । विपरीतानवगाहनात् । तथापि ज्ञेयनिवृत्तौ कथं ज्ञानानुवृत्तिः, तद- नुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत् । किमस्मिन्नुपपन्नम् । न हि ज्ञानमर्थश्चे- त्येकं तत्त्वमेकायुष्कं वेति । सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम् ? इत्थं यथो- च्यते— न स्वप्रकाशं, वस्तुत्वादितरवस्तुवत् । न च ज्ञानान्तरग्राह्यं, ज्ञानयौगपद्य- निषेधेन समानकालस्य तस्याभावात् । ग्राहककाले ग्राह्यस्यातीतत्वेन वर्त्तमाना- भत्वानुपपत्तेः । ग्राह्यकाले च ग्राहकस्यानागतत्वात्—इति चेत् । नन्वेवं ज्ञातताऽपि न प्रत्यक्षा स्यात्, क्षणिकत्वात् । कथम् ? इत्थम्—न स्वप्रकाशा वस्तुत्वात् । न जनकग्राह्या, अनागतत्वात्, विरम्य व्यापारायोगाच्च । न समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् । न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वा- दिति । क्षणिकत्वमेव तस्याः कुत इति चेत् । त्वदुक्तयुक्तैरेव । तथाहि—यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयतेऽन्यं वा, न वा कमपीति । तत्र न प्रथमः । तस्य तदानीमसत्त्वात् । न द्वितीयः । अप्रतिसंक्र- प्रकाशः । मानाभत्वादिति । वर्त्तमानविषयत्वादित्यर्थः । विरम्येति । ज्ञानं हि यं विषयीकृत्य उत्पन्नं, न तं जहाति, नान्यं वा विषयीकरोतीति ज्ञानस्वभावादित्यर्थः । न च प्रथमत एव तद्विषयीकरणे हेतु- रस्ति, भावित्वेनार्थस्य तदानीमवर्त्तमानत्वादित्याह प्रथमोऽपीति । द्वितीयक्षणे पूर्वक्षणविषयी- भूतस्यार्थस्य वर्त्तमानता भासते, तथाच तत्क्षणनाशेऽपि तथाविधमर्थं विषयीकुर्व्वज्ज्ञानम्भ्रान्तमेवो- त्तरक्षणेऽवतिष्ठते इति नोक्तदोष इत्याह तत्रेति । किमस्मिन्निति । ज्ञानार्थयोर्यौगपद्ये इत्यर्थः । स्वप्रकाशमिति । स्वप्रकाशत्वाप्रसिद्धावपि इदं घटज्ञानं नैतस्य विषयो ज्ञानत्वादित्यर्थः । ग्राहकेति । ग्राहकज्ञानकाले ग्राह्यं ज्ञानं नास्ति, ग्राह्यज्ञानकाले च तद्ग्राहकं ज्ञानमनागतमित्यर्थः । ज्ञातताजनकं यज्ज्ञानं तदेव न तद्ग्राहकं, तत्काले ज्ञातताया अनागतत्वेन वर्त्तमानत्वाभावादित्याह न जनकेति । ननु ज्ञातताजनकमेव ज्ञानं ज्ञाततां जनयित्वा तां ग्रहीष्यतीत्यत आह ज्ञानजनकेति । ज्ञाततासमकालोत्पन्नज्ञानेन न तद्ग्रहः, ज्ञातताजननोत्तरकाले तदिन्द्रियसम्बन्धस्य प्राप्त्या तत्स- मकालं तदभावादित्यर्थः । अनुभवेति । भू प्राप्तावित्येतस्य रूपम् । अप्रतिसंक्रमादाश्रयान्तरागम- प्रकाशिका । प्रथमक्षणावच्छिन्नतेत्यर्थः । तत्तक्षणेति । प्रथमक्षणेत्यर्थः । तथाविधमिति । प्रथमक्षणावच्छि- न्नमित्यर्थः । तथा च पाकरक्ते श्यामप्रतीतिवत् प्रमात्वमिति भावः । स्वप्रकाशत्वाप्रसिद्धाविति । मकरन्दः । वर्त्तमानतेति । प्रथमक्षणावच्छिन्नता भासते इत्यर्थः । तत्तक्षणेति । प्रथमक्षणनाशेऽपीत्यर्थः । तथाविधं प्रथमक्षणावच्छिन्नमित्यर्थः । पाकरक्ते श्यामोऽयमितिधिवदिति भावः । स्वप्रकाशत्वाप्रसिद्धाविति । सिद्धौ वा तत्रैवानैकान्तिकमिति भावः । ५६न्या० कु०

४६६ · व्याख्यातृत्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायो- मात् । एकक्षणावगाहिति च ज्ञाने तदन्यक्षणाऽऽश्रयज्ञातताफलत्वेन भ्रान्तत्वप्र- प्रकाशः । नादित्यर्थः । एकक्षणेति । अन्यविषयकज्ञानेनान्यत्र ज्ञातताजनने जनकज्ञानं भ्रमः स्यादित्यर्थः । प्रकाशिका । तत्सिद्धौ च तत्रैवानैकान्तिकत्वमिति भावः । अन्यविषयकेति । ज्ञातता चान्यवहिःपूर्वक्षण- मेवावच्छेदकतयावलम्बत इति प्रमायामप्येवंसति भ्रमत्वप्रसङ्ग इत्यवधेयम् । न च रजतज्ञा- नस्यापि शुक्तिविषयकत्वान्नान्यविषयकत्वमिति मूलस्थदृष्टान्तासङ्गतिरिति वाच्यम् । अन्यथा- ख्यात्यनभ्युपगन्तृमतेन मूलस्थदृष्टान्तोपपत्तेः, तथा च तन्मते यथा शुक्त्यविषयकरजतज्ञानस्य शुक्तिनिष्ठज्ञातताजनकत्या भ्रमव्यवहारास्पदत्वं तथात्रापि स्यादित्यर्थः । न च तद्विषयकत्वे कथं मकरन्दः । अन्यविषयकेति । न च रजतज्ञानस्यापि शुक्तिविषयत्वान्नान्यविषयकत्वमिति वाच्यम् । परमतेऽन्यथाख्यात्यनभ्युपगमेनातथात्वात् । तथा च शुक्त्यविषयकरजतस्मरणस्य शुक्तिनिष्ठज्ञातता- जनकत्वेन यथा भ्रान्तत्वं, तथा प्रकृतेऽपि स्यादिति भावः । न च ज्ञानस्य स्वविषयज्ञातताजननेऽ- तिप्रसङ्ग इति वाच्यम् । भेदाग्रहादेर्नियामकत्वादन्यथा व्यवहारजननेऽपि तदापत्तेरित्याशयः । टिप्पणी धानेन स्मरणोपपत्तेरिति भावः । अन्यविषयकज्ञानेनान्यत्र ज्ञातताजनन इति । अन्यधर्मा- वच्छिन्नविषयताकज्ञानेन अन्यधर्मावच्छिन्ने ज्ञातताजनन इत्यर्थः, तेन न रजतादीत्यादिमूलस्थ- दृष्टान्तासङ्गतिः, यथाश्रुते रजतज्ञानस्यापि शुक्तिविषयकत्वेनान्यत्र ज्ञाततेत्यादेरभावात् । केचित्तु अन्यथाख्यात्यनभ्युपगमपक्षे स्वाविषयनिष्ठज्ञातताजनकत्वमेव भ्रमत्वम् । इदं रजतमिति भ्रमाभिषिक्त- स्थले रजतप्रमया शुक्तौ ज्ञातताजननात्तत्र यथा भ्रमत्वं तथा प्रकृते वर्त्तमानक्षणावच्छिन्नविषयज्ञाने- नान्यत्रानागतक्षणावच्छिन्ने ज्ञाततापेक्षया वर्त्तमानावच्छिन्ने ज्ञातताजननाद् भ्रमत्वमित्याहुः । तच्चि- न्त्यम् । ज्ञाततावादिभट्टमते उत्तरकर्तृन्यायमते चान्यथाख्यात्यभ्युपगमात्; तदन्यतरमतावलम्बनेनैव कस्यचिदित्यर्थस्य वक्तुं युक्तत्वात् । किञ्चान्यथाख्यात्यनभ्युपगन्तृमते ज्ञातताया एवानभ्युपगमात् तस्या ज्ञानज्ञानार्थमभ्युपगमेन स्वप्रकाशतामतेऽन्यथैव तत्सिद्धेः, स्वविषयकेनेदंज्ञानेनैव च ज्ञाततोत्पत्तेः सम्भवे रजतज्ञानस्य तदुत्पादकत्वे मानाभावादतिप्रसङ्गाच्च । न च रजतज्ञानेदंज्ञानयोर्भेदग्रहाद् रजतार्थिनः पुरोवर्त्तिनि प्रवृत्त्यादिवत् पुरोवर्त्तिनि ज्ञाततामपि रजतज्ञानं जनयिष्यतीति वाच्यम् । शुक्तिज्ञानमात्रस्य रजतार्थिप्रवृत्तिजनकत्वाददर्शनाद्, रजतज्ञानभेदाग्रहापेक्षायामस्तु हि रजतज्ञानस्य प्रवृत्तावुपयोगः, शुक्तिज्ञानमात्रस्य तत्र ज्ञातताजनकत्वस्य क्लृप्ततया तत्र भेदाग्रहस्यापेक्षाकल्प- नस्यासम्भवात् । न च बाधोत्तरं रजतत्वेन शुक्तिरित्त्यनुभवाद्रजतत्वेन ज्ञाततोत्पत्तौ रजतज्ञाना- पेक्षा स्यादिति वाच्यम् । विषयत्वातिक्तिस्य ज्ञातत्वस्य रजतत्वावच्छिन्नत्वे मानाभावात् । भावे वा किमपराद्धं हि रजतत्वेन शुक्तिविषयतया तथासत्यन्यथाख्यात्यापत्तिः; प्रभाकरैश्च रजतत्वेन ज्ञातत्वस्य रजतत्वज्ञानभेदेनागृहीतशुक्तिज्ञानविषयत्वरूपत्वस्यैव स्वीकरणीयत्वात् । एव- न्दार्ष्टान्तिके घटस्यैव विषयत्वाज् ज्ञातताधारत्वाच्चान्यत्वभावाद् विशिष्टताम्पुरस्कृत्य भेदेऽन्यथापि सङ्गतेरुक्तत्वात् । न चान्यथाख्यातिपक्षे कथं सङ्गतिः, यस्य ज्ञातता तस्यैव विषयत्वे पूर्वक्षणादीनाम- विषयत्वेनान्यथाख्यात्यभावप्रसङ्गात्, विषयत्वस्य ज्ञाततानियतत्वे ज्ञातताधारस्याविषयत्वेन ज्ञान- स्यान्यथाख्यातित्वासम्भवादिति वाच्यम् । प्रकारविशेष्ययोरुभयोरेव ज्ञातताया विनिगमनाविरहे- णानुभवानुरोधेन च स्वीकरणीयत्वात् । प्रकारीभूतक्षणज्ञाततामादाय तस्यापि विषयत्वात् विशेष्ये ज्ञाततायाः क्षणान्तरसम्बन्धे स्वीकारे तस्य विषयत्वापत्त्याऽन्यथाख्यातेरापादनीयत्वात् । वस्तुतो