भारतकोश
संग्रह पर लौटें

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

( १५१ )

सहस्रसातमः—नानार्थप्रदमुख्यः, पुनश्चायमग्निः सुवीर्य्यः—श्रेयःप्राप्ति-सहायकः, सः—अग्निः, नौ—आवाम् जायापती, श्रैष्ठ्ये—श्रेष्ठकर्मणि दधातु – स्थापयतु ।

पश्चादग्नेः प्राञ्चमञ्जलिं करोति—
दैवीं नावमिति तिसृभिः । ६

ततः अग्नेः—आवसथ्यस्य, पश्चात्—पश्चिमायां दिशि स्थित्वा, अञ्जलिं – करसंपुटं प्राञ्चं—प्रागग्रं करोति, "दैवीं नाव"मित्यादिभिः तिसृभिः ऋग्भिः । यथा—
"दैवीं नावँ० स्वरित्रामनागसमस्रवन्तीमारुहे मा स्वस्तये । (शु.य.२१-६)
सुनावमारुहेयमस्रवन्तीमनागसम् । शतारित्राँ० स्वस्तये । (शु.य. २१-७)
आ नो मित्रावरुणाघृतैर्गव्यूतिमुक्षतम् । मध्वा रजाँ०सि सुक्रतू । ( शु. य. २१-८ )

स्रस्तरमारोहन्ति । १०

एवमञ्जलिं विधाय स्रस्तरम् आरोहन्ति सर्वे ।
ब्रह्माणमामन्त्रयते— ब्रह्मन् प्रत्यवरोहामेति । ११

स्रस्तरारोहणे विधानमाह—तत्र स्वामी ब्रह्माणम् आमन्त्रयते—पृच्छति । किम् ? ब्रह्मन् प्रत्यवरोहाम इति वाक्येन ।
ब्रह्मानुज्ञाताः प्रत्यवरोहन्त्यायुःकीर्त्तिं यशोबलमन्नाद्यं प्रजामिति । १२

प्रत्यवरोहध्वमिति वाक्येन ब्रह्मणा अनुज्ञाताः—प्रसूताः, प्रत्यवरोहन्ति—स्रस्तरमारोहन्ति "आयुः कीर्त्तिम्" इत्यादिना मन्त्रेण । अत्र स्त्रीणामपि मन्त्रपाठः ।
मन्त्रार्थः—आयुरादि आरोहेम—लभेम इति प्रार्थना ।
उपेता जपन्ति—
सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयतान्नः ।
शिवा नो वर्षाः सन्तु शरदः सन्तु नः शिवा इति । १३

( १५२ )

उपेताः—स्रस्तरे उपनीताः, जपन्ति सुहेमन्त इत्यादिमन्त्रम् ।

मन्त्रार्थः (आश्वलायनः, पङ्क्तिः, ऋतवः, जपे)—नः अस्माकं, हेमन्तः—ऋतुविशेषः, सु—शोभनः, प्रतिधीयताम्—सम्पद्यताम्, हेमन्तपदेनात्र शिशिरस्यापि ग्रहणम् । अधिमासपाते यथा नवत्या अहोरात्रैः ऋतुः सम्पद्यते,तथा कादाचित्कतया क्षयमासोपेतवत्सरे हेमन्तशिशिरावपि नवत्या दिवसैः सम्पद्येते इति तयोरेककर्तृत्वेन परिगणनं युज्यते, वसन्तः ग्रीष्मश्च शोभनः सम्पद्यताम् । वर्षाः अपि शिवाः—कल्याणकारिण्यः तथैव शरदः सन्तु । अत्र शरच्छब्दस्य बहुवचनमन्येषामपि ऋतूनां बहुत्वज्ञापकम् । तेन हेमन्तादयः वारम्बारमागताः अस्माकं हिता भवन्तु इति सारः ।

स्योना पृथिवि नो भवेति दक्षिणपार्श्वैः प्राक्शिरसः संविशन्ति । १४

स्रस्तरमारुह्य "स्योना पृथिवी" त्यनेन मन्त्रेण स्वामिप्रभृतयः प्राक्शिरसः—प्राक्—पूर्वं शिरः येषां ते प्राक्शिरसः दक्षिणपार्श्वैः—स्वशरीरस्य दक्षिणपार्श्वं भूमौ निपात्य उदङ्मुखाः सन्तः, संविशन्ति—शेरते तत्रैव स्रस्तरोपरि ।

सम्पूर्णमन्त्रः—(दध्यङ् आथर्वणः गायत्री पृथिवी शान्तिकरणे) स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । शु. य. ३६-१३

उपोदुत्तिष्ठन्ति—"उदायुषा स्वायुषोत्पर्जन्यस्य वृष्ट्या । पृथिव्याः सप्तधामभिरिति । १५

ततः ते स्वामिप्रभृतयः उप—स्रस्तरसमीपे, उत्—उत्थाय, उत्तिष्ठन्ति—तिष्ठन्ति "उदायुषे"ति मन्त्रेण ।

मन्त्रार्थः—(गौतम ऋषिः । गायत्रीच्छन्दः । अग्निर्देवता । उत्थाने विनियोगः) उदायुषा—दीर्घायुषा तथा स्वायुषा—शोभनजीवितेन, तथा उत्—उत्कृष्टस्य पर्जन्यस्य—मेघस्य, वृष्ट्या पुनश्च पृथिव्याः सप्तभिः धामभिः—स्थानैः श्रेष्ठभूतैः सहिताः भवाम इत्यर्थः ।

( १५३ )

एवं द्विरपरं ब्रह्मानुज्ञाताः । १६

एवम्—उक्तप्रकारेण ब्रह्मानुज्ञाताः सन्तः "ब्रह्मन् प्रत्यवरोहेम" इत्यारभ्य उत्थानपर्यन्तं, द्विः—द्विवारम्, अपरम्—अन्यत् सस्तरम् आरोहन्ति, संविशन्ति उत्तिष्ठन्ति च ।

अधः शयीरंश्चतुरोमासान्यथेष्टं वा । १७

अत ऊर्ध्वं चतुरोमासान्—पौषमाघफाल्गुनचैत्रान्, अधः—खट्वां व्युदस्य भूमौ शयीरन्, अथवा यथेष्टम्—इष्टमनतिक्रम्य यथाकामं भूमौ वा खट्वायां वा शयीरन् स्वामिप्रभृतय इति ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे द्वितीया कण्डिका ॥ —४०४—

ऊर्ध्वमाग्रहायण्यास्तिस्रोऽष्टकाः । १

आग्रहायण्याः—मार्गशीर्ष्याः पूर्णिमायाः, ऊर्ध्वम्—उपरि, तिस्रः अष्टकाः—त्रीणि अष्टकानि कर्माणि भवन्ति । तानि सकृत् क्रियन्ते संस्कारकर्मत्वात् । तासाञ्च सस्कारकर्मत्वमुक्तं सुमन्तुगौतमादिभिः 'अष्टकाः पार्वणःश्राद्ध श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्तपाकयज्ञसंस्था इत्यादिना । येषां संस्कारकर्मणामभ्यासश्रवणमस्ति तेषामसकृत्करणमनुज्ञातमन्येषां तु सकृत् । "अहरहः स्वाहा कुर्या"दिति(पार.गृ.२-६-१२) पञ्चमहायज्ञादीनां 'मासि मासि वोऽशन'मिति पार्वणस्य 'पक्षादिषु' इति (पार. गृ. १-१२-१ बहुवचनात् स्थालीपाकस्य अभ्यासः श्रूयते न तथाऽष्टकानाम् ।

ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्येति । २

ताः अष्टकाः काः इत्याह—ऐन्द्री—इन्द्रो देवता अस्या इति ऐन्द्री प्रथमा, वैश्वदेवी—विश्वेदेवा देवता अस्या इति वैश्वदेवी द्वितीया, प्राजापत्या—प्रजापतिः देवता अस्या इति प्राजापत्या तृतीया, पित्र्या—पितरो देवता अस्या इति पित्र्या चतुर्थी । उपक्रमे यद्यपि तिस्रः अष्टकाः

( १५४ )

उक्ताः तथापि तासां द्रव्यदेवतानिर्देशावसरे चतुर्थ्या अपि द्रव्यदेवता- निर्देशो युक्त इति तदभिहितम् ।

अपूपमाꣳसशाकै र्यथासंख्यम् । ३

अपूपश्च मांसञ्च शाकाश्च ते अपूपमांसशाकास्तैः अपूपमांसशाकैः यथासंख्यं यथाक्रमं यजेत । अपूपः–मण्डकः तेन प्रथमायामिन्द्रं यजेत, मांसं–गोमांसं तेन मध्यमाष्टकां यजेत । शाकः–कालशाकः तेन तृतीयचतुर्थ्यष्टके यजेते"ति ।

प्रथमाष्टका पक्षाष्टम्याम् । ४

पक्षाष्टम्यां–आग्रहायण्या ऊर्ध्वम् अपरपक्षे अष्टम्यां तिथौ, अनेन चान्द्रमासाष्टमीतिथ्योनिर्देशः कृतः । तत्र प्रथमा–आद्या, अष्टका–अष्टकाख्यं कर्म भवति ।

स्थालीपाकꣳ श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति-

१- त्रिꣳशतस्स्वसार उपयन्ति निष्कृतꣳ समानं केतुं प्रतिमुञ्चमानाः ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः स्वाहा ॥

२- ज्योतिष्मती प्रतिमुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा ॥

३- एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्यसहन्त देवा हन्ताऽसुराणामभवच्छचीभिः स्वाहा ॥

४- अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ यथा यूयमन्या वोऽन्यामति मा प्रयुक्त स्वाहा ॥

५- अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविदद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्या वो अन्यामति मा प्रयुक्त स्वाहा ॥

( १४५ )

६- पञ्च व्युष्टीरनु पञ्चदोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च । पञ्च दिशः पञ्चदशेन क्लृप्ताः समानमूर्द्ध्नौरधिलोकमेकꣳ स्वाहा

७- ऋतस्य गर्भः प्रथमा व्यूषिष्यपामेका महिमानं बिभर्त्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकान्नियच्छतु स्वाहा ॥

८- या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तराꣳ समाꣳ स्वाहा ॥

९- शुक्र ऋषभा नभसा ज्योतिषाऽऽगाद् विश्वरूपा शबलीरग्निकेतुः । समानमर्थꣳ स्वपस्यमाना बिभ्रती जरामजर उष आगाः स्वाहा ।'

१०-ऋतूनां पत्नी प्रथमेयमागादह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्यौच्छत्साऽजीर्णा त्वं जरयसि सर्वमन्यत् स्वाहेति ॥ ५

व्याख्या—स्थालीपाकं—चरुं, श्रपयित्वा—पक्त्वा, आज्यभागौ—आग्नेयसोम्ययागौ इष्ट्वा अज्याहुतीः दश ‘त्रिंशत्स्वसार’ इत्यादिभिर्मन्त्रैः जुहोति ।

मन्त्रार्थः— १- (प्रजापतिः त्रिष्टुप् तिथयः आज्यहोमे) निष्कृतं—शुद्धं, समानं—तुल्यं, केतुं—चिह्नं चन्द्रादिरूपं, प्रतिमुञ्चमानाः—धारयन्त्यः कवयः—क्रान्तदर्शनाः, प्रजानतीः—कालस्वरूपं जानानाः, भास्वतीः—दीप्तिमतीः, त्रिंशत्—त्रिंशत्संख्याकाः, स्वसारः—स्वसृस्वरूपाः प्रतिपदादितिथयः, उपयन्ति— अष्टकायाः समीपमागच्छन्ति, हविर्ग्रहणार्थमिति शेषः । ताश्च स्वसृस्वरूपास्तिथयः, ऋतून्—हेमन्तादीन्, तन्वते—विस्तारयन्ति, पुनश्च ताः छन्दसः—वत्सरस्यमध्ये परियन्ति—आवर्तन्ते, छदनान् व्यापकत्वात् छन्दो वत्सरः, प्रजानतीः—भास्वती=रिति प्रथमार्थे द्वितीया । ताभ्यः तिथिभ्यः स्वाहा—सुहुतमस्तु ।

२- (प्रजापतिः, त्रिष्टुप्, रात्रिः आज्यहोमे) ज्योतिष्मती—नक्षत्रादिभि-

( १५६ )

ज्योतिर्मयी, देवी—देवतारूपा, रात्रिः—कालविशेषः, नभः—आकाश-मण्डल' तथा सूर्यस्य— दिवाकरस्य, व्रतानि— दिवसोचितकर्माणि, प्रतिमुञ्चते— धारयति, पशवः— गवादयः, नानारूपाः— विडाल-छागलादिविभिन्नरूपेण, जायमानाः— जर्नि लभमानाः, अस्याः—सिद्धायाः, मातुः—मातृरूपायाः पृथिव्याः, उपस्थे—क्रोडे उपरभागे इत्यर्थः। विपश्यन्ति—विविधं पश्यन्ति विशेषेण पश्यन्ति वा ।

३- ( प्रजापतिः त्रिष्टुप् इन्द्रः आज्यहोमे ) एकाष्टका—वर्षासु प्रसिद्धा अष्टका, तपसा—शास्त्रविहितधर्मेण तप्यमाना सती, महिमानं—महत्त्वविशिष्टम्, गर्भं—स्तुत्यं “गर्भो गृभेर्गृ'णात्यर्थे” इति निरुक्ते (३-१०-२-२३) । इन्द्रं—परमैश्वर्ययुक्तं तन्नामानं वा देवं, जजान—जनयामास । देवाः तेन पूर्वोक्तेन गर्भेण—इन्द्रेण दस्यून्—प्रतिपक्षान् व्यसहन्त—निवारितवन्तः । स च गर्भः शचीभिः—कर्मभिः, असुराणाम्—विरुद्धानां, हन्ता - हिंसकः, अभवत्—बभूव ' स्वाहा—तस्मै सुहुतमस्तु ।

४- (प्रजापतिः त्रिष्टुप् अष्टका आज्यहोमे) अष्टका स्वभगिनीः प्रत्याह—हे भगिन्यः ! यूयम् अनुजां—गुणकनिष्ठां माम्—अष्टकाम्, अनानुजाम्—न अनुजाम् अननुजां “छान्दसो दीर्घः” ज्येष्ठा मित्यर्थः। अकर्त—कृतवत्यः। अहम्—अष्टका, सत्यं—यथार्थं, वदन्ती—कीर्तयन्ती, एतत्—भवद्गतप्राधान्यम्, अन्विच्छे— स्वीकरोमि, अहम्— अष्टका, अस्य—यजमानस्य, सुमतौ—शोभनमतौ, भूयासम्—भवेयम्, मद्विषये यजमानस्य श्रद्धा अस्तु इति भावः। यूयमपि—वः भगिनीनां मध्ये यथा—येन प्रकारेण, अन्यां-अन्यां मा अतियुक्त-न विप्रतिपद्येत। परस्परं विरोधं न कुरुत सर्वथा ऐक्यमत्येन यजमानस्य कल्याणं कुरुध्वमिति भावः ।

५- (प्रजापतिः त्रिष्टुप् अष्टका आज्यहोमे) हे भगिन्यः ! अयं—यजमानः, हि—यतः मम—अष्टकायाः, सुमतौ—शोभनमतौ वर्त्तमानः अभूत्, अर्थात् यतः यजमाने, अहं सर्वदा सन्तुष्टास्मि तस्मात् अय ं यजमानः विश्ववेदा—सर्वधनः सर्वज्ञो वा भवतु । विश्वानि—सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य सः विश्ववेदाः, पुनश्च सः प्रतिष्ठां—

( १५७ )

सुस्थितिम् उत्कर्षं वा आष्ट - अश्नुताम्, पुनश्च गाधम्—अभिलाषम्, अविदत्—विन्दतु । यथा—येन प्रकारेण अहम् अस्य—यजमानस्य सुमतौ भूयासम्—अभवम् तथा यूयमपि वः—युष्माकं, मध्ये अन्या—अन्याम् अतिक्रम्य मा प्रयुक्त । परस्परविरोधं परित्यज्य अस्य यजमानस्य कल्याणं कुर्वाणा यूयमस्य सुमतौ भवत इति भावः ।

६ - ( प्रजापतिः त्रिष्टुप् संवत्सरादयः आज्यहोमे ) पञ्च—पञ्च-संख्यकाः, दोहाः—दोह्याः ऋतुभेदेन पुष्पफलप्रसवादिरूपाः येषां ते, पञ्च ऋतवः वसन्तग्रीष्मवर्षाशरद्धेमन्ताः, शिशिरस्यात्र हेमन्ते अन्तर्भावः पञ्च—पञ्चविधाः व्युष्टीः—उषसः अनु—अनुगताः ऋतुभेदेन उषसोऽपि भिन्नत्वात् । तथा पञ्चनाम्नीं—संवत्सर—परिवत्सरेदावत्स-रेद्वत्सरवत्सराभिधां गां—संवत्सररूपां च अनु—अनुगताः । पुनश्च एकं लोकं—पृथिवीलोकम् अधि अधिकृत्य वर्त्तमानाः इति भावः । पञ्चदशेन—पञ्चदशस्तोमेन क्लृप्ताः—समर्थिताः समानमूर्द्धर्नीः—समानः तुल्यः मूर्द्धा मस्तकरूपः आदित्यः यासां ताः पञ्च पूर्वाद्यः ऊर्ध्वान्ताः दिशः अनुगताः ।

७- (प्रजापतिः, त्रिष्टुप् रात्रिः, आज्यहोमे) या प्रथमा—आद्या, व्यूषिषी—उषा सा ऋतस्य—ब्रह्मणः, गर्भः—आश्रयः । प्रलयकाले ब्रह्मरात्रौ ब्रह्मैवासीत् अतएव सा ब्रह्मणः आश्रयः । अपरा, एका द्वितीया प्रलयानन्तरं वर्त्तमाना उषा, अपां—महिमानं समुद्रादिरूपं विभर्त्ति—धारयति, ततः समुद्रो "अर्णवः" इति श्रुत्या "अप एव ससर्जादौ" इति स्मृत्या च आदिसृष्टौ जलमेव प्रसूते । ततः परम् एका तृतीया सूर्यस्य महिमानं विभर्त्ति "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्' इत्यादिना सूर्यसृष्टौ तमेव प्रसूते इति भावः । अपरा च एका चतुर्थी देवरात्रिरूपा अर्थात् दक्षिणायनरूपा, घर्मस्य सूर्यातापस्य. निष्कृतेषु—न्यूनतायां चरति—प्रसरति । अन्याम् एकां मनुष्यरात्रिरूपाम् अष्टकादिरात्रिरूपां वा सविता स्वे स्वे कर्मणि प्रवर्त्तयिता सूर्यः नियच्छतु नियततया स्थापयतु । अहोरात्रगणनया अस्माकमायुरक्षीणं करोतु इति भावः ।

( १५८ )

८- (प्रजापतिः अनुष्टुप्, अष्टका, आज्यहोमे) अष्टकारात्रिर्धेनुरूपेण स्तूयते। या प्रथमा मुख्या अष्टका रात्रिः व्यौच्छत्—पाशमुक्ता बभूव "उच्छी विपाशे" अथवा कृष्णपक्षः पितॄणामहः स च पक्षः अष्टम्यामा-रभ्यते चन्द्रकलापचयात्। तेन अष्टका प्रथमा भवति। सा एव अष्टका यमे—पितृराजे धेनुः—पयस्विनो गौः अभवत् अभूत्। श्राद्धादिरूपक-व्यप्रदानेन यमस्य अभीष्टप्रदा आसीदिति भावः। सा पूर्वोक्ता अष्टका नः—अस्माकं यजमानानां पयस्वती—पयस्विनी अभीष्टदायिनी भूत्वा उत्तरामुत्तरां समाम् उत्तरोत्तरसंवत्सरान् धुक्ष्व—अभीष्टदानेन पूरयतु। इयमष्टका यावज्जीवमस्माकं सुखदायिनी अस्तु इति भावः।

९- (प्रजापतिः त्रिष्टुप् अष्टका आज्यहोमे) या रात्रिः शुक्रऋषभा—शुक्राचासौ ऋषभा चेति शुक्रऋषभा। शुक्रा—शुक्ला चन्द्रसहितेत्यर्थः। या च ऋषभा वर्षणसहिता श्रेष्ठा वा। या च विश्वरूपा—नानारूपा, या च शबली—शुक्लकृष्णाऽरुणादिवर्णयुक्ता, या च अग्निकेतुः—अग्निः सायं प्रातहोमार्थमुद्धृतोऽग्निः यस्याः केतुः चिह्नं तिलकं वा भवति सा रात्रिः नभसा—नभसि—आकाशे,वर्त्तमानेन—अरुणोदयोपलक्षितेन सूर्येण सह आगात्—आगता। हे अजरे—जरारहिते नित्ययौवने उषः ! त्वं समानं तव मम च तुल्यम् अर्थं प्रयोजनं स्वपस्यमाना सम्पादयित्री जरां दीर्घजीवनं बिभ्रती धारयन्ती आगाः–आगतासि। मम कृते जरावस्थां यावत् उषः—कालः आगच्छतु। इति भावः। तस्यै स्वाहा—सुहुतमस्तु।

१०- (प्रजापतिः त्रिष्टुप् उषा आज्यहोमे) उषोरूपां रात्रिं स्तौति। या—उषा—ऋतूनां—वसन्तादीनां प्रथमा—मुख्या, पत्नी—पालयित्री भार्या वा। उषःकालात् ऋतोः प्रवृत्तिर्भवतीति उषसः प्रथमत्वम्। अह्नां—वासराणां, नेत्री—प्रापयित्री, ततः प्रभृति दिवसानामाविर्भावात्। प्रजानां जनित्री—जनयित्री तदानीमेव प्रजाः निद्रापगमेन हि जागरण-युक्ता भवन्ति। सा—इयम् उषा आगात्–आगता। सा च उषा एका—अभिना सती बहुधा—बहुरूपा, व्यौच्छत्—प्राकाशत। हे उषः सा त्वम् अजीर्णा अजरा सती अन्यत् सर्वं वस्तुजात जरयसि गतवयः करोषि। उषः कालानामावृत्त्या वयोवृद्धया जनाः जराग्रस्ता भवन्तीति भावः। तुभ्यं स्वाहा—सुहुतमस्तु इति—समाप्तौ।

( १५६ )

स्थालीपाकस्य जुहोति—

१- शान्ता पृथिवी शिवमन्तरिक्षँ शन्नो द्यौरभयं कृणोतु । शन्नो दिशः प्रदिश आदिशो नोऽहोरात्रे कृणुतं दीर्घमायुर्व्यश्नवै स्वाहा । २- आपो मरीचीः परिपान्तु सर्वतो धाता समुद्रो अपहन्तु पापम् । भूतं भविष्यदकृन्तद् विश्वमस्तु मे ब्रह्माभिगुप्तः सुरक्षितः स्याँ स्वाहा ॥ ३- विश्वे आदित्या वसवश्च देवा रुद्रा गोप्तारो मरुतश्च सन्तु । ऊर्जं प्रजासमृतं दीर्घमायुः प्रजापतिर्मयि परमेष्ठी दधातु नः स्वाहेति च ॥ ६

आज्यहोमानन्तरं स्थालीपाकस्य चरोः जुहोति—शान्तापृथिवी- त्यादिभिः त्रिभिः अष्टकायै स्वाहा इत्यनेन चेति चतुर्भिर्मन्त्रैः प्रतिमन्त्रम् एकाम् एकाम् आहुतिं जुहोति ।

मन्त्रार्थः— १- (त्रयाणां मन्त्राणां प्रजापतिः, पङ्क्तिः, लिङ्गोक्ता- देवताहोमे) पृथिवी—भूदेवी, शान्ता—निरुपद्रवा सती, नः—अस्माकं— यजमानानाम् अभयं कृणोतु—करोतु । तथा अन्तरिक्षं—शिवं मङ्गल सत् द्यौः शं मङ्गलमयी सती अभयं कृणोतु । तथा दिशः प्राच्याद्याः ककुभः प्रदिशः—अवान्तरदिशः, आदिशः—सर्वा दिशः, नः—अस्माकम् अभयं कृण्वन्तु । हे अहोरात्रे! युवां शं कृणुतं—कुरुतम् । एषां प्रसादात् अहं दीर्घमायुः—दीर्घजीवनं व्यश्नवै—प्राप्नुयाम्, आभ्यः—देवताभ्यः स्वाहा—सुहुतमस्तु ।

२- आपः—जलानि, मरीचीः—मरीचयः अर्थात् सूर्यकिरणाः, अत्र प्रथमार्धे द्वितीया, सर्वतः—सर्वतोभावेन, परिपान्तु—परितः पालयन्तु मां यजमानमिति शेषः । धाता—अपां धारयिता समुद्रः, मे—मम, भूतम्—अतीतं, भविष्यत्—आगमिष्यमाणं, विश्वं—सर्वं सौभाग्या- दिकम् अकृन्तत्—अविनाशयन्, पापं—किल्विषम्, अपहन्तु—नाशयतु ।

एकादश, मरुतः—एकोनपञ्चाशत् च नः—अस्माकं गोप्तारः—

( १६० )

अहं ब्रह्माभिगुप्तः—ब्रह्मणा वेदेन अभितः गुप्तः सन् सुरक्षितः— निष्प्रत्यूहः स्यां—भवेयम्।

३- विश्वेदेवास्त्रयोदश आदित्या द्वादश, वसवः अष्टौ, रुद्रा— एकादश, मरुतः—एकोनपञ्चाशत् च नः—अस्माकं गोप्तारः— रक्षितारः, सन्तु—भवन्तु । परमेष्ठी—परमे स्थाने वर्त्तमानः प्रजापतिः मयि—यजमाने ऊर्जं—बलं, प्रजां—सन्ततिम्, अमृतम्—अमरणधर्मत्व- मानन्दं वा दीर्घमायुः—चिरजीवित्वं च दधातु—सुस्थितं करोतु ।

अष्टकायै स्वाहा । ७

अष्टकायै स्वाहा इति मन्त्रेण चतुर्थीमाहुतिं जुहुयादित्युक्तमेव । प्रथमाष्टकाया इन्द्रदेवताकत्वेन अपूपहविष्कत्वेन च उक्तत्वात् स्थालीपाकहोमानन्तरम् इन्द्राय स्वाहा इति अपूपेन एकामाहुतिं हुत्वा उभयोः स्विष्टकृद्धोमं कुर्यात् । इति प्रथमाष्टकानिरूपणम् ।

मध्यमा गवा । ८

प्रथमाष्टकायामष्टकासाधारणविधानमुक्त्वा सम्प्रति मध्याष्टकायां विशेषमाह । मध्यमा—मध्यमाष्टका पौषपूर्णिमाया ऊर्ध्वमागच्छन्ती कृष्णाष्टमी, सा गवा—गोपशुना कर्त्तव्येति शेषः । अत्र यद्यप्याचार्येण गोपशुरुक्तस्तथापि "अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु" इति (१-१५६) याज्ञवल्क्यस्मरणात् । तथा च कलिवर्ज्ये—

देवरेण सुतोत्पत्तिर्वानप्रस्थाश्रमग्रहः । दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च ॥ समुद्रयानस्वीकारः कमण्डलुविधारणम् । महाप्रस्थानगमनं गोपशुश्च सुराग्रहः ॥ अग्निहोत्रहवण्याश्च लेहो लीढ़ा परिग्रहः ॥ असवर्णासु कन्यासु विवाहश्च द्विजातिषु । वृत्तस्वाध्यायस्वापेक्षमघसंकोचनं तथा । अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च ॥

( १६१ )

प्रायश्चित्ताभिधानञ्च विप्राणां मरणान्तिकम् ।
संसर्गदोषः पापेषु मधुपर्के पशोर्वधः ॥
दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ।
शामित्रं चैव विप्राणां सोमविक्रयणं तथा ॥
दीर्घकालं ब्रह्मचर्यं नरमेधाश्वमेधकौ ।
कलौ युगे त्विमान् धर्मान् वर्ज्यानाहुर्मनीषिणः ॥

इति गोपशोर्विशेषवर्जनीयत्वाच्च गवालम्भः न कर्त्तव्यः । किन्तु अनिषिद्ध पश्वन्तरेण अवश्यकर्त्तव्याष्टकादि कर्म विधेयम् इति हरिहरः । छागाभावे चरुरिति विश्वनाथः । मन्मते चरुरेव हविः छागस्यापि लोकविद्विष्टत्वात् अस्वर्ग्यत्वाच्च ।

तस्यै वपां जुहोति “वह वपां जातवेदः पितृभ्य इति । ६

तस्यै—तस्याः गोः, अत्र षष्ठ्यर्थे चतुर्थी । वपां—नाभिस्थचर्म-विशेषं जुहोति “वह वपामित्यादिना मन्त्रेण । पुनरवदानहोमः विश्वेभ्यो देवेभ्यः स्वाहेत्येकाहुतिकः वैश्वदेवीति कीर्त्तनात् । इति मध्यमाष्टका-निरूपणम् ।

( अथ अन्वष्टका )

श्वोऽन्वष्टकासु सर्वासां पार्श्वसक्थिसव्याभ्यां परिवृते पिण्डपितृयज्ञवत् । १०

सर्वासां—चतसृणामष्टकानां, श्वः—परेद्युः, अन्वष्टकासु—अष्टका-मनु—पश्चात् भवन्तीति अन्वष्टकाः तासु, परिवृते—सर्वत आच्छादिते, आवसथ्याग्निगृहे, पार्श्वसक्थिसव्याभ्यां—पार्श्वं च सक्थि च पार्श्वसक्थिनी ते च सव्ये च पार्श्वसक्थिसव्ये ताभ्यां पार्श्वसक्थिसव्याभ्यां पशोः सव्य पार्श्वसव्यसक्थिनो मांसेन इत्यर्थः । अत्र सामानाधिकरण्ये विशेषणीभूतस्य सव्यशब्दस्य उत्तरपदत्वं च्छान्दसम् । पिण्डपितृयज्ञवत्—पिण्डपितृयज्ञविधिना तेन अपराह्न—प्राचीनावीति—दक्षिणमुखत्वादीनां संग्रहः । कर्म भवतीति शेषः । अत्र सूत्रे "श्वोऽन्वष्टकासु" इति

( १६२ )

दर्शनात् अष्टकाश्राद्धपरदिने एव अन्वष्टकाश्राद्धमिति नियमः । नात्र नवमी श्राद्धकालव्याप्तिर्दृष्टव्येति ।

स्त्रीभ्यश्च । ११

पिण्डपितृयज्ञवत् इत्यनेन पितृपितामहप्रपितामहानामेव पिण्डदानं प्राप्तम् । स्त्रीभ्यश्चेति मात्रादित्रयाणामधिकमुक्तम् । अत्र सामान्योऽपि स्त्रीशब्दः पित्रादिसान्निध्यात् मात्रादिपर एव ।

उपसेचनञ्च कर्षूषु सुरया तर्पणेन

चाञ्जनानुलेपनं स्रजश्च । १२

अत्र अन्वष्टकाकर्मणि न केवलं स्त्रीभ्यः पिण्डदानं विहितं किन्तु कर्षूषु—स्त्रीपिण्डसमीपखातगर्भेषु सुरया—विहितमद्येन काण्डहरीतकी—गुडरसेन इति विश्वनाथः, तर्पणेन— तर्पणसाधनेन सक्तवादिना च उपसेचनं तथा प्रतिस्त्रीपिण्डम् अञ्जनं—सौवीराञ्जनं तदभावे लौकिकं कज्जलम्, अनुलेपनं—चन्दनादि, स्रजः—पुष्पमालाश्च दद्यात् इति शेषः । अत्र प्रथमचकारः स्त्रीणां पिण्डेन सह उपसेचनस्य समुच्चयार्थः । द्वितीयः सुरातर्पणयोः तृतीयश्च अञ्जनादिदानानां समुच्चयार्थः ।

इत्यन्वष्टकानिरूपणम् ।

आचार्य्यान्तेवासिभ्यश्चानपत्येभ्य इच्छन् । १३

नियतश्राद्धदेवता उक्त्वा सम्प्रति काम्यविधिमाह । इच्छन् यदि कामना भवति, तदा आचार्य्याय अनपत्येभ्यः अन्तेवासिभ्यः, चकारात् अनपत्येभ्यः भ्रातृपितृव्यादिभ्यश्च अनुकम्प्येभ्यः पिण्डं दद्यात् । अत्र अनपत्यशब्दः आचार्यादीनां विशेषणमिति हरिहरः । मन्मते आचार्यस्य अनपत्यत्वमविवक्षितं विभक्तिभेदात् ।

मध्यावर्षे च तुरीया शाकाष्टका । १४

हेमन्तशिशिरयोः त्रयाणामपरपक्षाणामष्टकात्रयं निरूप्य (३-३-२

तृतीयकाण्डे तृतीया कण्डिका ॥

( १६३ )

सूत्रो) पित्र्या इति उद्देशक्रमप्राप्तां चतुर्थीमष्टकामाह । मध्या—मध्ये वर्षे—वृष्टिकाले प्रौष्ठपद्या ऊर्ध्वमष्टमीत्यर्थः । सा तुरीया—चतुर्थी शाकाष्टका—शाकेन कालशाकाख्येन सम्पाद्या अष्टका भवतीति शेषः । चकारः समुच्चयार्थः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे तृतीया कण्डिका ॥

—४०४—

( शालाकर्म )

अथातः शालाकर्म । १

अथ— अष्टकाकर्मनिरूपणानन्तरं यतः आवसध्याधानादीनि शालाग्निसाध्यानि अनुविहितानि तदाधारभूतायाः शालायाः करणञ्च नोक्तम्, अतः—अस्मात् कारणात् क्रमप्राप्तं शालाकर्म— शालायाः गृहस्य कर्म—निर्माणादिक्रिया वक्ष्यते इति शेषः ।

पुण्याहे शालां कारयेत् । २

पुण्ये शुभे ज्योतिःशास्त्रादिनोक्तगृहारम्भोचिते सकलदोषवर्जिते अहनि—दिवसे न तु रात्रौ, शालां—गृहं, कारयेत्—निर्मापयेत् । अत्र पुनः पुण्याहग्रहणं त्उदगयनशुक्लपक्षयोरनियमार्थमिति हरिहरः । शालानिर्माणार्थं देशनिर्देशो यद्यपि पारस्कराचार्येण न कृतस्तथापि गोभिलगृह्यसूत्रादिभ्यो (४-७) ऽवगन्तव्यः—

"यदाम्नातं स्वशाखायां पारक्यमविरोधि यत् ।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादि कर्मवत् ॥ इति वचनात् ।

तस्या अवटमभिजुहोत्यच्युताय भौमाय स्वाहेति । ३

तस्याः—शालायाः, अवटं —स्तम्भारोपणार्थं खातम् अभिजुहोति—अभिमुखेन जुहोति "अच्युताय भौमाय स्वाहा" इति मन्त्रेण । अत्र अवटमित्येकवचनम् आग्नेयादिकोणचतुष्टयकृतखातपरम् । अवटान्तराणां संस्कार्यत्वाविशेषात् ।

( १६४ )

मन्त्रार्थः ( प्रजापतिः अनुष्टुप् इन्द्रः अवटहोमे ) — अच्युताय— अप्रच्युतस्वभावाय भौमाय भूनागाय, स्वाहा—सुहुतमस्तु ।

स्तम्भमुच्छ्रयति—

१- इमामुच्छ्रयामि भुवनस्य नाभिं वसोर्धारां प्रतरणीं वसूनाम् । इहैव ध्रुवान्निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणा ॥ २- अश्वावती गोमती सूनृतावत्युच्छ्रयस्व महते सौभगाय । आ त्वा शिशुराक्रन्दत्वा गावो धेनवो वाश्यमानाः ॥ ३- आ त्वा कुमारस्तरुण आ वत्सो जगदैः सह । आ त्वा परिस्रुतः कुम्भ आदध्नः कलशैरुप ॥ ४- क्षेमस्य पत्नी बृहती सुवासा रयिं नो धेहि सुभगे सुवीर्य्यम्, अश्वावद् गोमदूर्जस्वत् पर्णं वनस्पतेरिव । अभि नः पूर्यताँ रयिरिदमन्तेशेपो वसानः ॥ ५- इति चतुरः ॥ ४

स्तम्भं — गृहनिर्माणार्थं स्तम्भम् अवटे उच्छ्रयति — उत्थापयति, "इमामुच्छ्रयामी"त्यादिभिः चतुर्भिः मन्त्रैः । स्तम्भशालासु आग्नेयादिषु चतुर्षु कोणेषु एभिर्मन्त्रैः चतुरः स्तम्भान् उच्छ्रयेत । पाषाणगृहेषु कोण-खातेषु एभिर्मन्त्रैः शिलान्यास कुर्य्यात् । तत्र पाषाणस्य स्तम्भ-स्थानीयत्वात् ।

मन्त्रार्थः— १- ( विश्वामित्रः, त्रिष्टुप् पड्क्तिजगत्यनुष्टुपः, स्तम्भोच्छ्रयणे ) या स्थूणा—भुवनस्य—भूलोकस्य, भुवनैकदेशरूपगृहस्य वा नाभिमाधारं, वसोर्धारां—वसोः—धनस्य धारयित्रीं वसूनां गोमहिष-सुवर्णादिधनानां, प्रतरणीं—प्रसारिणीम् इमां पुरतो वर्त्तमानां गृहाधार-रूपां स्थूणाम्, उच्छ्रयामि—उत्थापयामि । इह—स्थूणायाम्, एव—निश्चयार्थे, ध्रुवां—स्थिरां, शालां—गृहं, निमिनोमि—स्थापयामि, इयञ्च शाला क्षेमे—निरुपद्रवप्रदेशे, घृतं—सुखम्, उक्षमाणा—सिञ्चन्ती, तिष्ठतु—स्थिता भवतु ।

( १६५ )

२- हे शाले, त्वम् अश्वावती—अश्वयुक्ता, गोमती—गोयुक्ता, सूनृतावतो—प्रियसत्यवाक्यवती, महते सौभाग्याय—अत्यर्थं भाग्योदयाय, उच्छ्रयश्व—उत्थिता भव, त्वा—शालामाश्रित्य शिशुः—वालकः आक्रन्दतु क्रीडार्थं परस्परम् आह्वानं करोतु, शिशुरित्यत्र जातावेकवचनम् । धेनवः—प्रसूताः गावः, गावः—अप्रसूताश्च, वाश्यमानाः—परस्परं कामयमानाः आक्रन्दन्तु । अस्यां शालायां शिशवः क्रीडन्तु गावश्च वर्धन्तामिति भावः ।

३- त्वा—त्वां शालाम्, आ—आश्रित्य, तरुणः—समर्थः कुमारः—वटुः आक्रन्दतु—वेदघोषं करोतु । वत्सः—गोशिशुः, च—समुच्चये, जगदैः—रक्षकैः सह आक्रन्दतु—स्तन्यपानार्थं मातरमाह्वयतु । तथा परिस्रुतः—उत्सिञ्चन्, दध्नः कुम्भः—दधिकलशः अन्यैः ऋद्ध्यादि कलशैः सह उप—मम समीपे, आक्रन्दतु—शब्दं करोतु इति भावः ।

४- हे शाले ! त्वं क्षेमस्य—कुशलस्य सौभाग्यस्य पत्नी—स्वामिनी, बृहती—स्वगुणैः महती, सुवासाः—शोभनवस्त्रयुक्ता, हे सुभगे—सुशोभने अथवा सुसमृद्धे शाले ! त्वं नः—अस्मभ्यं रयिं—धनं धेहि—धारय । कीदृशं तत् धनम् ? सुवीर्य्यं—दानादिसुशक्ति-युक्तम्, अश्वावत्—अश्वयुक्तं, गोमत्—गोयुक्तम्, ऊर्जस्वत्—रसयुक्तं, वनस्पतेः—वृक्षस्य, पर्णमिव—पत्रवत्, यथा वसन्तादौ वनस्पतेः पत्राणि पूर्यन्ते तथा शाला धनेन अभिपूर्थताम् । नः—अस्माकं, रयिः—धनमपि पूर्यताम् । इदम्—एतच्छालारूपं स्थानम्, अनु—अनुदिनं, वसानः—अधिवसन् अह ं श्रेयः—कल्याणं लभेयमिति शेषः ।

प्रपद्यते । ५

ततः शालायां निर्मितायां प्रपद्यते—शालां प्रविशति ।

अभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकञ्छ्रपयित्वा निष्क्रम्य द्वार-समीपे स्थित्वा ब्रह्माणमामन्त्रयते ब्रह्मन् प्रविशामीति । ६

( १६६ )

अभ्यन्तरतः—निर्मितायाः शालायाः मध्ये, अग्निम्—आवसथ्याग्निम्, उपसमाधाय— पञ्चभूसंस्कारपूर्वकं स्थापयित्वा, दक्षिणतः—अग्नेः दक्षिणदेशे, ब्रह्माणं—पूर्वोक्तलक्षणं ब्राह्मणं ब्रह्मत्वेन उपवेश्य— यथोक्तविधिना उपविष्टं कारयित्वा, उत्तरतः—अग्नेरुत्तरप्रदेशे, उदपात्रं— जलपूर्णताम्रादिभाजनं, प्रणीतापात्राद्भिन्नमन्यत्, प्रतिष्ठाप्य — स्थापयित्वा, स्थालीपाकं— चरुं श्रपयित्वा— यथाविधि पक्त्वा, निष्क्रम्य—शालामध्यात् बहिरागत्य, द्वारसमीपे—शालायाः मुख्यद्वारस्य समीपे स्थित्वा— दण्डायमानो भूत्वा ब्रह्माणं— पूर्वप्रतिष्ठापितम् ऋत्विजम्, आमन्त्रयते— सम्बोधयति, हे ब्रह्मन् प्रविशामि— अहं यजमानः शालाभ्यन्तरं प्रविशामि इति—समाप्तौ । ब्रह्मोपवेशने क्रमाङ्गत्वेन उक्तेऽपि पुनरत्र ब्रह्माणमुपवेशयेतिवचनम्, उदपात्र- स्थापनावसरज्ञापनार्थम् ।

ब्रह्मानुज्ञातः प्रविशत्यृतं प्रपद्ये शिवं प्रपद्य इति । ७

ब्रह्मणा—ऋत्विजा, अनुज्ञातः— प्रसूतः, लब्धानुमतिरिति यावत् प्रविशति—शालाभ्यन्तरं प्रपद्यते "ऋतं प्रपद्ये" इत्यादि मन्त्रेण ।

मन्त्रार्थः (परमेष्ठी, यजुः, शाला, शालाप्रवेशे) “ऋतं —सत्यभूतं, त्वां प्रपद्ये—प्रविशामि, शिवं—कल्याणरूपं त्वां प्रपद्ये—प्रविशामि”।

आज्यठ्ं सठ्ंस्कृत्येहरतिरित्याज्याहुती हुत्वाऽपरा जुहोति—

१- वास्तोष्पते प्रतिजानीह्यस्मान्त्स्वावेशो अनमीवो भवा नः । यत्त्वेमहे प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा ॥

२- वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरा सस्ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व स्वाहा ।

३- वास्तोष्पते शग्मया सठ्ंसदा ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरन्नो यूयम्पात स्वस्तिभिः सदा नः स्वाहा ॥

( १६७ )

४- अमीवहा वास्तोष्पते विश्वारूपाण्याविशन् । सखा सुशेव एधि नः स्वाहेति । ८

आज्यं—होमार्थमुपकल्पितं गव्यं घृतं संस्कृत्य—पूर्वोक्तविधिना संस्कृतं कृत्वा पर्युक्षणान्ते आधारहोमात् प्राक् "इहरति" इत्यादिना "उपसृजन्नि" त्यादिना च मन्त्रद्वयेन आज्याहुती—आज्येन आहुतिद्वयं हुत्वा, अपराः—इतो भिन्नाः, वास्तोष्पत इत्यादिभिः चतसृभिः ऋग्भिः प्रत्यृचं चतस्रः आहुतीर्जुहोति । ततः आधाराज्यभागौ । इहरतिरित्यादि-मन्त्रयोः सम्पूर्णपाठो यथा—(देवाः, यजुः, पशुः, होमे) ।

(१) इहरतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहा । (शु.य. ८-५१) (२) उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् । रायस्पोषमस्मासु दीधरत् स्वाहा । (शु.यं. ८-५१)

वास्तोष्पत इत्यादीनामर्थः—(चतुर्णां वसिष्ठः, त्रिष्टुप्, इन्द्रः, आज्यहोमे) ।

१- हे वास्तोष्पते—वास्तुनः गृहस्य पते स्वामिन् इन्द्र ! अस्मान् रक्षितुं प्रतिजानीहि—प्रतिज्ञां कुरु । पुनश्च नः—अस्माकं, स्वावेशः—सुखप्रवेशः तथा अनमीवः—अमीवं पापं रोगो वा तद्विरोधी भव । एतद्गृहनिवासः अस्माकं सुखकरः स्वास्थ्यकरश्चास्तु इति भावः । पुनश्च यत्-यत् किञ्चित् वस्तु त्वा—त्वां प्रति, ईमहे—वयं गृहवासिनो जनाः प्रार्थयामहे—तत्—प्रार्थितं वस्तु प्रदाय नः—अस्मान्, जुषस्व—प्रीणयस्व अथवा स्वयं प्रीतो भव । नः—अस्माकं, द्विपदे—मनुष्यवर्गाय, शं भव—मङ्गलदायकः भव तथा चतुष्पदे—गवादिपशुवर्गाय शंकरः भव । स्वाहा—तुभ्यं सुहुतमस्तु ।

२- हे इन्दो ! आह्लाददायक ! वास्तोष्पते—इन्द्र ! गोभिः तथा अश्वेभिः—अश्वैः सह वर्त्तमानानां नः—अस्माकं, प्रतरणः—आपन्निस्तारकः तथा गयस्फानः—प्राणवर्द्धकश्च, एधि—भव । "प्राणा वै गया इति श्रुतिः" ते—तव इन्द्रस्य सख्ये—मित्रतायां वर्त्तमाना वयम्

( १६८ )

अजारसः—नित्ययौवनाः अक्षीणसम्पदो वा स्याम—भूयास्म पुत्रान्— तनयान् प्रति पिता—जनक इव, त्वं नः—अस्मान्, जुषस्व—अस्मासु प्रीतो भव। कृतापराधेष्वपि अस्मासु सुप्रीतो भव इति भावः।

३- हे वास्तोष्पते—इन्द्र ! ते—तव, शग्मया—सुखरूपया "शिवं शग्ममिति सुखनामनी ! तथा रण्वया शास्त्रीयं रणनं उपन्यासं कुर्वाणया, गातुमत्या—यज्ञवत्या त्रयीप्रधानया वा संसदा—सभया, सक्षीमहि—समवेताः भवामः, त्वं च क्षेमे—अलब्धलाभे उत—पुनश्च, योगे—लब्धपरिपालने, नः—अस्मान्, वरं—यथार्थं, पाहि—रक्ष। हे इन्द्रानुचराः ! यूयं सदा—सर्वदा, स्वस्तिभिः— अभीष्टफलदानैः, पात—रक्षत।

४- हे वास्तोष्पते इन्द्र ! अमीवहा—पापरोगपीडादिनाशकः, सुशेवः—शोभनसुखहेतुः, त्वम्—इन्द्रः, विश्वा—विश्वानि सर्वाणीत्यर्थः, रूपाणि—ब्रह्मादिस्तम्बपर्यन्तानि, आविशन्— प्रविशन् सन् नः— अस्माकं, सखा—इहामुत्र बन्धुः, एधि—भव, सर्वशरीरिरूपेणास्माक- मनुकूलो भव। सर्वे प्राणिनः अस्माकं मित्राणि भवन्तु इति भावः। स्वाहा—सुहुतमस्तु।

स्थालीपाकस्य जुहोति—

१- अग्निमिन्द्रं बृहस्पतिं विश्वान् देवानुपह्वये।
सरस्वतीं च वाजीं च वास्तु मे दत्त वाजिनः स्वाहा ॥

२- सर्पदेवजनान्सर्वान् हिमवन्तं सुदर्शनम्।
वसू ंश्र्च रुद्रानादित्यानीशानं जगदैः सह ॥
एतान् सर्वान् प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ॥

३- पूर्वाह्नमपराह्नं चोभे मध्यन्दिना सह।
प्रदोषमर्धरात्रञ्च व्युष्टां देवीं महापथाम्।
एतान् सर्वान् प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ॥

(१४)

४- कर्त्तारञ्च विकर्त्तारं विश्वकर्माणमोषधींश्च वनस्पतीन् ।
एतान्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ॥
५- धातारञ्च विधातारं निधीनां च पतिं सह ।
एतान्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ॥
६- स्योनं शिवमिदं वास्तु दत्तं ब्रह्मप्रजापती ।
सर्वाश्च देवताः स्वाहा ॥ इति ॥ ६

आज्यभागहोमानन्तरं स्थालीपाकस्य—चरोः “अग्निमिन्द्र” इत्यादिभिः षड्भिः मन्त्रैः प्रतिमन्त्रं षडाहुतीर्जुहोति ।
मन्त्रार्थः (अग्निमिन्द्रमित्यादिषड् मन्त्राणां विश्वामित्रः, अनुष्टुप्, लिङ्गोक्ता देवता)

१- अहमग्न्यादीन् देवान् हविर्ग्रहणाय उपह्वये—मत्समीपमाह्वयामि । वाजी—अन्नमयी सीता लाङ्गलपद्धतिरित्यर्थः । हे वाजिनः—अन्नवन्तः, देवाः, अग्रेण यूयं मे—मह्यं, वास्तु—गृहं, दत्त—प्रयच्छत मदायत्तं कुरुत इत्यर्थः ।

२- सर्पान् सर्वान् देवजनान् सुदर्शनं—शोभनदर्शनं, हिमवन्तं—पर्वतराजं, जगदैः—अनुचरैः सह वर्त्तमानान् वस्वादींश्च, एतान् सर्वान् अहं प्रपद्ये—शरणं व्रजामि । हे वाजिनः—अन्नवन्तः देवा मे वास्तु दत्त इति पूर्ववत् ।

३- मध्यन्दिना—मध्याह्नेन सह पूर्वाह्णम् अपराह्णं च उभे तथा प्रदोषं—सूर्यास्तमनप्रभृतिमुहूर्त्तत्रयरूपम्, अर्धरात्रं—निशीथं, तथा महापथां—बहुमुखीं, देवीं—द्योतनात्मिकां, व्युष्टाम्—उषसञ्च सर्वान् अहं प्रपद्ये । चतुर्थपञ्चममन्त्रौ स्फुटार्थौ ।

६- हे ब्रह्मप्रजापती—ब्रह्मा च प्रजापतिश्च, वेदप्रजापती वा युवां, स्योनं—सुखकरं, शिवं—कल्याणकरम्, इदम्—अनुभूयमानं वास्तु—गृहं, मह्यं दत्तं—प्रयच्छतम् । हे सर्वाः देवताः भवत्य इदं वास्तु मह्यं

( १७० )

प्रयच्छन्तु । स्वाहा—सुहुतमस्तु । प्राशनान्ते काꣳ स्ये सम्भारानोप्यौदुम्बर- पलाशानि ससुराणि शाड्वलं गोमयं दधि मधु घृतं कुशान् यवाꣳ श्चासनोपस्थानेषु प्रोक्षेत् । १०

ततः प्राशनान्ते—स्विष्टकृदादिसंस्रवप्राशनान्ते कर्मणि समाप्ते, कांस्ये— कांस्यपात्रे, ससुराणि—सक्षीराणि औदुम्बरपलाशानि—उदुम्बरवृक्ष- पत्राणि, शाड्वलं—दूर्वां, गोमयम्—अरोगिण्याः गोः पुरीषं, दधि— गव्यं दधि, मधु—क्षौद्रं, घृतं—गव्यं घृतं, कुशान्, यवान् च सम्भारान्— द्रव्याणि, ओप्य—स्थापयित्वा प्रोक्षेत्—सिञ्चेत् । तथा आसनानि— गजदन्तादिनिर्मितानि, उपस्थानानि—देवतायतनादीनि, नागदन्तादीनि च तेषु प्रोक्षेत् । आसनान्युपस्थानानि च वास्तुशास्त्रप्रसिद्धानि गृहभवान्येव ।

पूर्वे सन्धावभिमृशति— श्रीश्च त्वा यशश्च पूर्वे सन्धौ गोपायेतामिति । ११

प्रोक्षणानन्तरं शालायाः पूर्वसन्धौ अभिमृशति—पूर्वसन्धिप्रदेशमा- लभते "श्रीश्च त्वेति" मन्त्रेण ।

मन्त्रार्थः (चतुर्णां प्रजापतिः यजुः लिङ्गोक्ता देवता स्पर्शने) हे शाले ! त्वा—त्वां, श्रीः—लक्ष्मीः, यशः—कीर्त्तिः पूर्वे सन्धौ—पूर्वसन्धिप्रदेशे कुड्यादौ गोपायेताम्—रक्षेताम् ।

दक्षिणे सन्धावभिमृशति— यज्ञश्च त्वा दक्षिणा च दक्षिणे सन्धौ गोपायेतामिति ।। १२ 'यज्ञश्चत्वे'ति मन्त्रेण शालाया दक्षिणसन्धिप्रदेशं स्पृशेत् । मन्त्रार्थः स्पष्टः ।

पश्चिमे सन्धावभिमृशति— अन्नञ्च त्वा ब्राह्मणश्च पश्चिमे सन्धौ गोपायेतामिति । १३ 'अन्नञ्च त्वे'ति शालाया पश्चिमसन्धि स्पृशति । मन्त्रार्थः स्पष्टः ।